समास:१० शिक्षा

विकिस्रोतः तः
Jump to navigation Jump to search

त्यजत सकलं दुर्भाग्यम्।हरिकथाश्रवणं पुराणश्रवणं नीतिः न्यायः इत्यादिकम् उत्तमलक्षणं धारणीयम्।१३.१०.२२
वर्तने विवेकः अयमेव यत् सकलजनाः अनुकूलाः स्युः।तेषां पुण्यमयत्वं शनैः शनैः सम्पादनीयम्।१६.१०.२३
(बालं पाठयितुं) बालगत्या गन्तव्यं भवति।बालगत्या वक्तव्यं भवति।तथैव जनाः मन्दं मन्दं बोधनीयाः।१३.१०.२४
प्रधानं कार्यं नाम जनानां मनोगत-रक्षणम्। एतदेव चातुर्यस्य लक्षणम्। यः चतुरः सः चतुर्विधम् अङ्गं जानाति (कार्यं साकल्येन जानाति)। अन्ये तु मूढाः।१३.१०.२५
(तथापि)मूढः मूढशब्देन न शब्दापनीयः।कस्यापि मर्म कदापि वचनेन नोद्घाटनीयम्।तथा आचरन् एव निःस्पृहः दिग्विजयं साधयति।१३.१०.२६
नाना स्थलेषु नाना प्रसङ्गाः भवन्ति।तान् विज्ञाय कार्यं साङ्गं सम्पादनीयम्।(निःस्पृहः) प्राणिमात्रस्य अन्तरङ्गं भवेत्।१३.१०.२७
मनोगतं रक्षित्वा गन्तव्यं तेन पुनर्मेलनविषये उत्कण्ठा वर्तते। मनोगतं भङ्क्त्वा (निःस्पृहः) गच्छति चेत् अव्यवस्था जायते।१३.१०.२८
अतः यः मनोगतं रक्षति, सः महान् साधुः।मनोगतं रक्षितं चेत् सकलजनाः आकृष्टाः भवन्ति।१३.१०.२९

दशक १३  – नामरूपम्   दासबोधः
"https://sa.wikisource.org/w/index.php?title=समास:१०_शिक्षा&oldid=131211" इत्यस्माद् पुनः प्राप्तिः