समास:०९ विरक्तलक्षणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ शृणुत विरक्तस्य लक्षणानि।विरक्ते के गुणाः भवेयुः येन योगिनां सामर्थ्यं स आप्नुयाद् इति शृणुत॥२.९.१
एतैः गुणैः सत्कीर्तिः विस्तरं याति, येन (जन्म) सार्थं भवति, येन विरक्ताः माहात्म्यं प्राप्नुवन्ति॥२.९.२
एतैः विरक्तः परमार्थाय अवसरं लभते, विरक्तस्य आनन्दः उच्छलति, सविवेकं वैराग्यं द्विगुणितं भवति॥२.९.३
एतैः सुखम् उद्गच्छति, सद्विद्या प्रसन्ना भवति, भाग्यश्रीः सबला भवति, मोक्षश्च सिद्ध्यति॥२.९.४
एतैः मनोरथाः पूर्यन्ते, सकलकामनाः पूर्णाः भवन्ति, मधुरशब्दजननी सरस्वती मुखे निवसति॥२.९.५
एतानि लक्षणानि श्रोतव्यानि, दृढतया आत्मसात् कर्तव्यानि, तेन विरक्तः भूमण्डले विख्यातः भवति॥२.९.६
विरक्तः विवेकी भवेत्।विरक्तः अध्यात्मं वर्णयेत्। विरक्तः दमनविषये धैर्यं दध्यात्॥२.९.७
विरक्तः साधनं रक्षेत्।विरक्तः भजनं प्रवर्तयेत्।विरक्तः विशेषं ब्रह्मज्ञानं प्रकटयेत्॥२.९.८
विरक्तः भक्तिं वर्धयेत्,विरक्तः शान्तिं दर्शयेत्, विरक्तः यत्नेन स्वविरक्तिं रक्षेत्॥२.९.९
विरक्तः सत्क्रियां प्रतिष्ठापयेत्।विरक्तः निवृत्तिं विस्तारयेत्।विरक्तः दृढतया नैराश्यं धारयेत्॥२.९.१०
विरक्तः धर्मं स्थापयेत्, विरक्तः नीतिम् अवलम्बयेत्, विरक्तः अत्यादरेण क्षमां निभालयेत्॥२.९.११
विरक्तः परमार्थं प्रकाशयेत्।विरक्तः विचारं शोधयेत्।विरक्तः सन्मार्गं सत्वगुणं सन्निधौ रक्षेत्॥२.९.१२
विरक्तः भाविकान् निभालयेत्।विरक्तः प्रेमलान् तोषयेत्।विरक्तः शरणागतान् भाविकान् नोपेक्षेत॥२.९.१३
विरक्तः परमदक्षः स्यात्।विरक्तः अन्तःसाक्ष्यः स्यात्।विरक्तः परमार्थपक्षधरः स्यात्॥२.९.१४
विरक्तः अभ्यासं कुर्यात्।विरक्तः दीर्घोद्योगं कुर्यात्।विरक्तः भग्नम् अपि परमार्थं वाक्चातुर्येण सन्दध्यात्॥२.९.१५
विरक्तः विमलं ज्ञानं ब्रूयात्।विरक्तः वैराग्यं प्रशंसेत्।विरक्तः निःसन्दिग्धं समाधानं कुर्यात॥२.९.१६
विरक्तः पर्वोत्सवं महत् कुर्यात्।विरक्तः भक्तमण्डलानि निर्वहेत्।विरक्तः महता यत्नेन वैभवयुतान् उपासनामार्गान् निर्वहेत्॥२.९.१७
विरक्तः हरिकीर्तनं कुर्यात्।विरक्तः निरूपणं प्रसारयेत्।विरक्तः भक्तिमार्गस्य आधारेण निन्दकान्, दुर्जनान् च लज्जयेत् ॥२.९.१८
विरक्तेन बहुधा परोपकारः कार्यः, सत्कर्म वर्धनीयं, बलेन पुण्यमार्गः विस्तार्यः॥२.९.१९
स्नानं सन्ध्यावन्दनं, जपः ध्यानं, तीर्थयात्रा, भगवद्भजनं, नियमः, पावित्र्यं, शुद्धचित्तम् इति एतत् विरक्तस्य स्यात् ॥२.९.२०
विरक्तस्य दृढनिश्चयः भवेत्।तेन सुखेन संसारः कार्यः परं संसर्गमात्रेण जनोद्धारः कार्यः॥२.९.२१
विरक्तः धीरः भवेत्।विरक्तः उदारः भवेत्।विरक्तः निरूपणविषये तत्परः स्यात्। ॥२.९.२२
विरक्तः दक्षः स्यात्।विरक्तः शुद्धमार्गगः स्यात् ।विरक्तः स्वयं क्षीणः सन् कीर्तिम् अवशेषयेत्॥२.९.२३
विरक्तः विरक्तं मार्गयेत्।विरक्तः साधून् अभिजानीयात्।विरक्तः साधुभिः योगिभिः सख्यं कुर्यात्॥ २.९.२४
विरक्तः पुरश्चरणानि कुर्यात्।विरक्तः तीर्थाटनानि कुर्यात्।विरक्तः नाना रमणीयानि स्थानानि निर्मायात्॥ २.९.२५
विरक्तः उपाधिं कुर्यात् परम् उदासीनवृत्तिं न त्यजेत्।कस्मिन् अपि विषये तस्य दुराशा न स्यात् ॥२.९.२६
विरक्तः अन्तर्निष्ठः स्यात्।विरक्तः क्रियाभ्रष्टः न स्यात्।विरक्तः पराधीनतया कनिष्ठः न स्यात्॥२.९.२७
विरक्तः समयज्ञः स्यात्।विरक्तः प्रसङ्गज्ञः स्यात्।विरक्तः सर्वथा चतुरः स्यात्॥२.९.२८
विरक्तः एकदेशः न स्यात्।विरक्तः सर्वम् अभ्यस्येत्।विरक्तः सकलं यथावत् जानीयात्॥२.९.२९
हरिकथा, निरूपणं, सगुणभजनं, ब्रह्मज्ञानं, पिण्डज्ञानं, तत्त्वज्ञानम् इति एतत् सर्वं विरक्तः जानीयात्॥२.९.३०
कर्ममार्गम् उपासनामार्गं, ज्ञानमार्गं, सिद्धान्तमार्गं, प्रवृत्तिमार्गं, निवृत्तिमार्गम् इति समग्रं जानीयाद् विरक्तः॥२.९.३१
प्रेमस्थितिः, उदसस्थितिः,योगस्थितिः, ध्यानस्थितिः, विदेहस्थितिः, सहजस्थितिः इति एतत् सर्वं विरक्तः जानीयात्॥२.९.३२
ध्वनिः, मुद्राः, लक्ष्यम् आसनानि, मन्त्राः, यन्त्राणि, विधयः, विधानानि, नाना मतानां दर्शनानि दृष्ट्वा सर्वं विसर्जनीयम्॥ २.९.३३
विरक्तः जगन्मित्रं स्यात्।विरक्तः स्वतन्त्रः स्यात्।विरक्तः बहुगुणश्च स्यात्॥२.९.३४
विरक्त: नूनं विरक्त: स्यात्।विरक्त: हरिभक्त: स्यात्।विरक्तः अलिप्ततया नित्यमुक्तः स्यात्॥ २.९.३५
विरक्तः शास्त्राणि पठेत्।विरक्तः मतानि खण्डयेत्।विरक्तः मुमुक्षून् सन्मार्गे योजयेत्॥ २.९.३६
विरक्तः शुद्धमार्गं प्रतिपादयेत्।विरक्तः संशयम् उच्छेदयेत्।विरक्तः विश्वजनान् आत्मीयान् मन्येत।२.९.३७
विरक्तः निन्दकान् वन्देत।विरक्तः साधकान् बोधयेत्।विरक्तः मुमुक्षुनिरूपणेन बद्धान् चेतयेत्।२.९.३८
विरक्तः सद्गुणान् आदद्यात्।विरक्तः दुर्गुणान् संत्यजेत्।विरक्तः विवेकबलेन नाना अपायान् बाधेत।२.९.३९
एवमेतानि उत्तमलक्षणानि।एकाग्रमनसा श्रोतव्यानि।विरक्तः एतानि न तिरस्कुर्यात्। २.९.४०
एतावदुक्तम् ओघेन।ततः यावद् रोचते, तावद् ग्राह्यम्।‘बहु कथितम्’इति श्रोतृभिः न दुर्लक्षणीयम्।२.९.४१
परं लक्षणानाम् अनङ्गीकारे सति, अवलक्षणानां प्राबल्ये सति मूर्खपाण्डित्यं प्रवर्तते।२.९.४२
तस्य मूर्खपण्डितस्य लक्षणम् अग्रिमे समासे कथितं, तत् सावधानतया श्रोतव्यम्॥ २.९.४३
इति विरक्तलक्षणं नाम समासः नवमः॥

दासबोधः
दशक ०२ – मूर्खलक्षणम्