समास:०९ पिण्डोत्पत्तिनिरूपणम्

विकिस्रोतः तः

फलेभ्य: ज्येष्ठानि सुमनांसि। सुमनोभ्य: ज्येष्ठानि पर्णानि। पर्णेभ्य: ज्येष्ठानि सकलानि काष्ठानि॥ १५.९.१४
काष्ठेभ्य: ज्येष्ठानि सूक्ष्ममूलानि। मूलेभ्य: ज्येष्ठं जलम्।जलं शुष्कं सत् जायते भूमण्डलम्॥१५.९.१५
एवम् अस्य प्रत्यय: भवति।अत: (तेभ्य:) सर्वेभ्य: ज्येष्ठा जगती।जगत्या: अपि ज्येष्ठा मूर्ति: जलरूपनारायणस्य॥ १५.९.१६
तस्माद् अपि ज्येष्ठ: अग्निदेव:।अग्ने: ज्येष्ठ: वायुदेव:।वासुदेवाद् ज्येष्ठं स्वरूपम् अन्तरात्मन:।१५.९.१७
सर्वेभ्य: ज्येष्ठ: अन्तरात्मा।तं य: न जानाति, स: दुरात्मा।दुरात्मा इति दूरे त्यक्त: आत्मा येन स:।१५.९.१८

दासबोध: