समास:०६ चातुर्यविवरणम्

विकिस्रोतः तः

या या रेखा , सा सा क्षालनार्हा इति प्रत्यक्ष: प्रत्यय: अस्ति।तथापि किमर्थं नेत्रनिमेलनं (दुर्लक्ष्यं) क्रियते?१५.६.९
य: बहूनां वचनानि अङ्गीकरोति, स: अनुमानेन एव हत: भवति।प्रतीतिरूप: मुख्य: निश्चय: तेषां न भवति।१५.६.१०
बहूनां बहूनि वचनानि श्रोतव्यानि परं तानि प्रत्ययाधारेण परीक्ष्याणि। तेषां सत्यासत्यविनिश्चय: अन्तरङ्गे धारणीय:।१५.६.११
कस्मै अपि नकार: न वक्तव्य:।अपाया: उपाया: च अवगन्तव्या:।प्रतीति: ग्राह्या इति एतावदेव। किमधिकेन वचनेन? १५.६.१२

दासबोध: