समास:०५ रजोगुणलक्षणम्

विकिस्रोतः तः

॥द्वितीयाध्याये पञ्चमः समासः॥

मूलतः देहः त्रिगुणात्मकः, सत्वरजस्तमोमयः।तत्रापि उत्तमः गुणः सत्वगुणः॥२.५.१
प्राणी सत्वगुणेन भगवद्भक्तिं लभते, रजोगुणेन पुनरावृत्तिं लभते।तमोगुणेन अधोगतिं लभते॥२.५.२

ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः

तत्रापि शुद्धः सबलः चेति द्वौ भेदौ।तत् सर्वं बोधयिष्यते।यत् मलरहितं तत् शुद्धम।यद् बाधकं तत् शबलम्॥२.५.३
हे विचक्षणाः, दक्षतया शुद्धशबलयोः लक्षणानि शृणुत।यः परमार्थानुकूलः सः शुद्ध:, यः संसारानुकूलः सः शबलः॥२.५.४
प्रापञ्चिकजनस्य स्थितिः ईदृशी विद्यते यद् देहे त्रयोऽपि गुणाः वर्तन्ते। एकस्य आगमने अन्यौ निर्गच्छतः॥२.५.५
रजः, तमः तथा सत्वमिति एभिः एव जीवनं प्रवर्तते।तत्र रजोगुणस्य वर्णनम् अधुना दर्शयामि॥२.५.६
यदा रजोगुणः शरीरं प्रविशति, तदा मनुष्यः कथम् आचरतीति चतुरैः श्रोतृभिः सावधानतया श्रोतव्यम्॥२.५.७
मम गृहं, मम प्रपञ्चः, कथमत्र देवो महत्त्वं प्राप्तः? इति यः निर्धारयति, स रजोगुणः।२.५.८
माता, पिता, कान्ता, पुत्रः, स्नुषा, दुहिता, एतावतः एव जनान् यः चिन्तयति, स रजोगुणः।२.५.९
साधु भोक्तव्यं, साधु अशितव्यं, साधु वस्त्रं परिधारणीयं, साधु भूषणं सन्धारणीयं, अन्यस्य वस्तु अभिलषणीयं, स रजोगुणः।२.५.१०
को वा धर्मः किं वा दानम्? को जपः?किं ध्यानम्? एवं यः पापपुण्यं न विचारयति,स रजोगुणः।५.११
न वीर्यं जानीते, न व्रतं जानीते, नातिथिं मन्यते, नाभ्यागतं मन्यते, सदैव अनाचारो मनसि वर्तते,स रजोगुणः।२.५.१२
धनधान्यसञ्चयः, द्रव्यासक्तं मनः, अतिकृपणं जीवनम् इत्ययं रजोगुणः।२.५.१३
तरुणोऽहं सुन्दरोऽहं बलाढ्योऽहं चतुरोऽहं, सर्वश्रेष्ठोऽहमिति यः आलपति, स रजोगुणः।२.५.१४
मम देशः, मम ग्रामः, मम भवनं, मम स्थानम् इति यस्य मनसि लोभः, स रजोगुणः।२.५.१५
अपरस्य सर्वं नश्यतु, मम एव सर्वं पुष्यतु इति यस्य अनुसन्धानं, स रजोगुणः।२.५.१६
कपटं च मत्सरः च तिरस्कारः च कामविकारः च यस्य देहे जायते, स रजोगुणः।२.५.१७
बालके स्नेहः, कान्तायां प्रीतिः,सकलेषु (जनेषु) लोभः, स रजोगुणः।२.५.१८
बान्धवानां विषये स्नेहः यस्मिन्काले मनसि उद्भवति तस्मिन् काले रजोगुणस्य आगमनं शीघ्रं भवति॥२.५.१९
‘संसारे बहु कष्टम्।कथं नु पारं यामि?’ इति सङ्कटं सततं चिन्तयति, स रजोगुणः।२.५.२०
अथवा पूर्वं यद् यद् भुक्तं, तत्तत् मनसा संस्मृतम्।तेन दुःखमेव वर्धितं, स रजोगुणः।२.५.२१
वैभवम् अवलोक्य तद्विषये इच्छा जाता।आशया मनः खिन्नं जातं , सः रजोगुणः।२.५.२२
यद् यत् चक्षुषा अवलोकितं, तत्तत् मनसा प्रार्थितम्।यदि न लभ्यते तर्हि दुःखं जातम् इत्ययं रजोगुणः॥२.५.२३
मनः विनोदे रमते।शृङ्गारिकं गायति।राग-रङ्ग-तानादिषु रमते इति स रजोगुणः।२.५.२४
हेला, उपहासः, निन्दा, विवादः, सर्वदा हास्यं, सर्वदा विनोदः इति अयं रजोगुणः।२.५.२५
प्रबलः अलसः, अथवा नाना मनोरञ्जनक्रीडाः, अथवा उपभोगानां सम्भ्रमः सः रजोगुणः।२.५.२६
कलाकारः, बहुरूपः, नाट्यावलोकने दक्षः, नाना क्रिडार्थं धनदाता, सः रजोगुणः२.५.२७
उन्मादकद्रव्ये अतिप्रीतिः, ग्राम्यविषयाणां स्मरणं,नीचै: सह सङ्गतौ रुचिः, इत्ययं रजोगुणः।२.५.२८
चौर्यस्य इच्छा, परन्यूनम् उद्घाटयितुम् इच्छा, नित्यनियमविषये उद्वेगः इत्ययं रजोगुणः।२.५.२९
देवकार्ये लज्जा, उदरनिमित्तं परिश्रमः, प्रपञ्चे स्नेहः इत्ययं रजोगुणः।२.५.३०
मधुरग्रासविषये लौल्यं, देहपोषणे एतावान् आदरः यत् उपोषणं न सहते इत्ययं रजोगुणः।२.५.३१
यत् शृङ्गारिकं तत् प्रियं, यद् भक्तिवैराग्यपूर्णं, तद् न प्रियं, कलाविष्कारे एव चित्तं रतम् इत्ययं रजोगुणः।२.५.३२
परमात्मविषयकम् अज्ञानं, सकलपदार्थेषु प्रेम यः बलात जनयति स रजोगुणः।२.५.३३
अस्तु एवमयं रजोगुणः।लोभवशात् अयं जन्ममरणम् आपादयति।प्रपञ्चे अयं सबलः अतः दारुणं दुःखं भोजयति।२.५.३४
अथ रजोगुणः न गच्छति, संसारः न नश्यति, प्रपञ्चे वासना सक्ता। अत्र उपायः खलु कः?॥२.५.३५
एकः एव उपायः - भगवद्भक्तिः।यद्यपि वैराग्यं स्थिरं न भवति, तथापि यथाशक्ति भजनं कर्तव्यम्।।२.५.३६
कायेन, वचसा, मनसा, पत्रेण, पुष्पेण, फलेन, जलेन मनःपूर्वकम् अर्पितेन सार्थकं कार्यम्।।२.५.३७
यथाशक्ति दानपुण्यम् अर्जनीयमं परं भगवदनन्यता रक्षणीया।सुखे वा दुःखे वा देवचिन्तनमेव करणीयम्।२.५.३८
आदौ अन्ते च परमेश्वरः एकः एव।मध्ये एव माया आपतिता।अतः भगवति एव पूर्णः भक्तिभावः आधेयः।२.५.३९
एवं शबलः रजोगुणः सङ्क्षेपेण कथितः।अथ यः शुद्धः, सः पारमार्थिकः॥ २.५.४०
तस्य चिह्नं सत्वगुणे वर्तते।सः शुद्धः रजोगुणः भजनस्य मूलम्।२.५.४१
एवं रजोगुणः उक्तः।श्रोतृभिः मनसा सः अनुभूतः।अग्रे तमोगुणः श्रोतव्यः।२.५.४२

॥ इति रजोगुणलक्षणं नाम समासः पञ्चमः॥

दासबोधः