समास:०४ भक्तिनिरूपणम्

विकिस्रोतः तः
Jump to navigation Jump to search

॥ द्वितीयदशके चतुर्थः समासः॥

नाना सुकृतानां फलं नाम नरदेहः।तत्रापि भाग्यं फलति चेत् सन्मार्गः लभ्यते।२.४.१
नरदेहे अपि ब्राह्मणदेहः विशेषः।तत्रापि स्नानसन्ध्यावन्दनं, सद्वासना, भगवद्भजनम् इति एतत् पूर्वपुण्येन भवति।२.४.२
उत्तमा भगवद्भक्तिः, तत्रापि सत्समागमः उत्तमः।एताभ्यां कालस्य सार्थता भवतीति परमः लाभः।२.४.३
मूलतः: प्रेमरूपः सद्भावः,तत्रापि भक्तसमुदायः, तत्रापि हरिकथामहोत्सवः। एवं प्रेम द्विगुणितं भवति।२.४.४
नरदेहम् एत्य तस्य सार्थकं करणीयं, येन दुर्लभः परलोकः लभ्येत।२.४.५
विध्युक्तं कर्म करणीयम् अथवा दयाधर्मः, दानधर्मः करणीयः अथवा सुगमं भगवद्भजनं करणीयम्।२.४.६
अनुतापेन विषयाणां त्यागः कार्यः, अथवा भक्तियोगः कार्यः, अथवा साधुजनैः सङ्गः कार्यः।२.४.७
नाना शास्त्राणि अवलोकनीयानि, अथवा तीर्थाटनं करणीयम् अथवा पापक्षयार्थं पुरश्चरणानि अनुष्ठेयानि।२.४.८
अथवा परोपकारः कार्यः, अथवा ज्ञानविचारः कार्यः,अथवा श्रुतस्य निरूपणस्य सारासारविचारः कार्यः।२.४.९
वेदाज्ञा पालनीया, कर्मकाण्डम् अनुष्ठेयम्, उपासना अनुष्ठेया।तेन ज्ञानाधिकारः प्राप्यते।२.४.१०
कायेन वचसा मनसा पत्रेण पुष्पेण फलेन जलेन इति येन केन प्रकारेण भजनं कृत्वा जीवनं सार्थं करणीयम्।२.४.११
जन्मनः साफल्यं करणीयम्।तद् न कृतं चेद् वृथा भूमिभारमात्रं जीवनं भविष्यति।२.४.१२
नरदेहे एतदेव उचितं यद् आत्महितसाधनम्।यथाशक्ति चित्तं च वित्तं च सर्वोत्तमे योजनीयम्।२.४.१३
एतेषु किमपि यस्य मनसि नास्ति, सः जगति मृतप्रायः वर्तते।तेन जनित्वा जननी वृथा क्लेशिता।२.४.१४
न सन्ध्यावन्दनं, न स्नानं, न भजनं, न देवतार्चनं, न मन्त्रः, न जपः, न ध्यानं, न मानसपूजा...॥ २.४.१५
न भक्तिः:, न प्रेम, न निष्ठा, न नियमः, न देवः, न धर्मः, न अतिथिसत्कारः, न अभ्यागतस्वागतम्... २.४.१६
न सद्बुद्धिः, न गुणः, न कथनं, न श्रवणं, न अध्यात्मनिरूपणं... २.४.१७
न सत्सङ्गतिः, न शुद्धा चित्तवृत्तिः, मिथ्यामदेन न कैवल्यप्राप्तिः २.४.१८
न नीतिः, न न्यायः, न पुण्योपायः, न युक्तायुक्तविचाररूपः परलोकोपायः... २.४.१९
न विद्या, न वैभवं, न चातुर्यभावः, न कला, न रम्यस्वतीकौशलम्...॥२.४.२०
न शान्तिः, न क्षमा, न दीक्षा, न मैत्रं, न शुभाशुभं साधनम्... ॥२.४.२१
न शुचिता, न स्वधर्मः, नाचारः, न विचारः, न इहलोकचिन्ता, न परलोकक्रिया, मनोऽनुकूला क्रिया केवलं वर्तते॥२.४.२२
न कर्म, नोपासना, न ज्ञानं, न वैराग्यं, न योगः, न धैर्यम्।एतेषु किमपि न दृश्यते॥२.४.२३
नोपरतिः, न त्यागः, न समता, न सल्लक्षणं, न परमेश्वरविषये आदरः, न परमेश्वरविषये प्रीतिः...॥२.४.२४
न परगुणैः सन्तोषः, न परोपकारेण सुखानुभूतिः, नान्तरङ्गे हरिभक्तिलेशः...॥ २.४.२५
एवं ये जनाः, ते जीवन्तः: अपि प्रेतसमानाः।पवित्रजनैः तादृशैः सह सम्भाषणं न करणीयम्॥२.४.२६
यस्य पुण्यसामग्री वर्तते, तस्य एव मनसि भगवद्भक्तिः भवति।ये यथा कुर्वन्ति, ते तथैव प्राप्नुवन्ति॥२.४.२७

॥ इति भक्तिनिरूपणं नाम द्वितीयदशके समासः: चतुर्थः:॥

दासबोधः   दशक ०२ – मूर्खलक्षणम्