समास:०३ कवित्वकला
काव्यं हि तद्यत्सुपदप्रसूनैर्-विलक्षणार्थोत्कटगन्धपूर्णै:।
माला कृतामोदभरेण यस्या-स्तुष्टं भवेत्सज्जनभृङ्गवृन्दम्॥१
मालेयमेषा ग्रथितान्तरङ्गे समर्पणीया रघुवीरपादे।
मालान्तरङ्गानुगतस्तथापि न खण्डनीय: प्रणवस्य तन्तु:॥२
कवित्वमेवं यदि वास्ति, कामं
परोपकाराय नियोज्यतां तत्।
प्रदर्शयिष्येऽथ निदर्शनार्थं
श्रुण्वन्तु लक्ष्माणि च साधुकाव्ये॥३
भक्तिर्यथा स्याद्भगवत्पदाब्जे
यथा च वर्धेत विरक्तभाव:।
कवित्वमेतादृशमर्जनीयं
यत्ना विधेया: शतशस्तदर्थम्॥४
य़च्छाब्दमात्रं क्रियया च शून्यं ।
ज्ञानं न सद्भिर्बहु मन्यते तत्।
अतोऽनुतापेन च पूर्वमेव
प्रसन्नतेशस्य समर्जनीया॥५
अथ प्रसादात्परमेश्वरस्य
यद्यन्मुखाद्वाक्यमभिप्रवृत्तम्।
तत्तत्प्रशंसार्हमिति प्रथेत
प्रासादिकं तत् प्रवदन्ति काव्यम्॥६
धृष्टं च काव्यं पठितं तथान्यत्
प्रासादिकं च त्रिविधं वदन्ति।
अतश्च काव्ये त्रिविधे प्रसिद्धे
निरुच्यते तत्र मिथो विवेक:॥७
धृष्टं च तद् धृष्टतया कृतं यन्-
मनोगतं यत् तदुदीरितं वा।
हठादिवाकृष्टपदानि यत्र
तद् धृष्टसंज्ञं प्रवदन्ति काव्यम्॥८
कण्ठे स्थितं यद्रटनेन भूरि
तद्भाषितं चेत्पठितं तदुक्तम्।
ग्रन्थान्तरं वापि विलोक्य नाना
कृतोऽनुकार:, पठितं तदुक्तम्॥९
यत् शीघ्रमेव ग्रथितं हि काव्यं
यद् दृष्टिगं तद् ह्यनुवर्णितं च।
यद् भक्तिशून्यं रचितं तथैव।
तद् धृष्टपाठं प्रवदन्ति काव्यम्॥१०
कामप्रबोधं रसमण्डितं वा
शृङ्गारिकं वीररसं च हास्यम्।
विनोदनं कौतुक-शोकपूर्णं
तद् धृष्टपाठं प्रवदन्ति काव्यम्॥११
यदा च कामाप्लुत-चित्तवृत्तिस्-
तदा मुखात्तादृशमेति शब्दम्।
परन्तु काव्यादिति धृष्टपाठात्।
पारं भवाब्धेर्न तु कोऽपि याति ॥१२
अग्ने: शमार्थं जठराश्रितस्य
स्तोत्रं नराणामपि गेयमत्र।
वैदग्ध्यमस्मिन्नुपदर्शितं यत्,
तद् धृष्टपाठं प्रवदन्ति काव्यम्॥१३
काव्यं भवेन्नैव च धृष्टपाठं
काव्यं हठाकृष्टपदं च न स्यात्।
काव्यं न चौद्धत्ययुतं क्वचित्स्यात्
काव्यं न पाखण्डमताभिधं स्यात्॥१४
काव्यं भवेन्नैव विवादपूर्णं
काव्यं न च स्याद्रसभङ्गकारि।
काव्यं भवेन्नैव च रङ्गभङ्गं
काव्यं न दृष्टान्तविवर्जितं स्यात्॥१५
काव्यं भवेत्पल्लवितं न चाति
काव्यं न चाप्रस्तुतबोधकं स्यात्।
काव्यं न तद् यत्कुटिलान् मनुष्यान्
आलक्ष्य कौटिल्यमथापि वा स्यात्॥१६
काव्यं जघन्यं न भवेत्कदापि
काव्ये न च स्यात्पुनरुक्तिदोष:।
न च्छन्दसो भञ्जनमस्तु तत्र
स्वनाममुद्रारहितं च न स्यात्॥१७
व्युत्पत्तिहीनं यदतार्किकं वा
कलाविहीनं च सुशब्दहीनम्।
ज्ञानेन भक्त्याप्यथवा विरक्त्या
हीनं कवित्वं न भवेत्कदापि॥१८
काव्यं तु भक्त्या रहितं यदस्ति
तन्मूढमन्तव्यमिति प्रधार्यम्।
प्रेम्णा विहीनं वचनं तु यत्र
काव्यं तदुद्वेगकरं ध्रुवं स्यात्॥१९
भक्त्या विना यश्च कृतोऽनुवादो
ज्ञेयं वचस्तत् तु विनोदमात्रम्।
प्रीति: परेशे यदि वर्तते न
संवादकाव्यं भविता कथं वा॥२०
अस्त्वित्थमेवं खलु धृष्टपाठं
वृथाभिमानोत्थितमौढ्यमत्र।
अथापरं यद्गदितं पुरस्तात्
प्रासादिकं काव्यमतो निरूप्यते॥२१
यद्वैभवं वा रमणी हिरण्यं
यस्यास्ति सर्वं वमनेन तुल्यम्॥
तथान्तरङ्गेऽप्यनुवर्तमानं
ध्यानं सदा सर्वगुणोत्तमस्य॥२२
प्रतिक्षणं यस्य च वर्तमाना
प्रीति: परा स्याद्भगवत्पदाब्जे।
प्रतिक्षणं यस्य विवर्धमाना
रति: परा स्याद्भजने हरेश्च॥२३
यो देवभक्त्या रहितं तथैव
क्षणं वृथा यापयतेऽपि नैकम्।
सर्वेषु कालेषु च वर्तमानं
यदन्तरङ्गं खलु भक्तिरक्तम्॥२४
यस्यान्तरङ्गे स्वयमेव देव:
स्थित: सुखेनैव च निश्चलश्च।
स्वभावतस्तेन च यद्यदुक्तं
तद् ब्रह्मतत्वस्य निरूपणं स्यात्॥२६
देवोऽन्तरङ्गं समधिष्ठितश्च
तेनोपजाता भजने रतिश्च।
सा चेदृशी यद्भजनादपेतो
नान्यानुवादो मुखतो निरेति॥२६
यदन्तरङ्गे स्फुरिता च भक्तिस्-
तद्वैखरी चापि तथा प्रवृत्ता।
यो भावपूर्णं करुणाप्लुतं च
सप्रेम सङ्कीर्तयते च नृत्यन्॥२७
यस्यान्तरङ्गं भगवत्प्रसक्तं
न स्मर्यते येन च देहभानम्।
शङ्का च लज्जा च पलायिते द्वे
यस्मादुभे ते अपि दूरसंस्थे॥२८
य: प्रेमरङ्गेण च रञ्जित: स्याद्
भक्तेर्मदेनापि च य: प्रमत्त:।
भक्तोत्तमेनाहमितीत्थमेष भावोऽपनीत: पदयोरधस्तात्॥२९
गायंश्च नि:शङ्कतया च नृत्यन्
स लोकते लोकमिमं कथं नु।
यतो हि तल्लोचनयुग्ममेत्य
त्रैलोक्यनाथ: समधिष्ठितोऽस्ति॥३०
य एवमीशेऽस्ति परानुरक्त:
स नार्थयेतान्यपदार्थजातम्।
स स्वेच्छया वर्णयतीश्वरस्य
ध्यानं च कीर्तिं च तथा प्रतापम्॥३१
ध्यानानि नाना बहुमूर्तयश्च
नाना प्रतापा बहुकीर्तयश्च।
एतस्य सर्वस्य पुरो नरस्य
स्तवं स मन्ये तृणतुल्यमेव॥३२
अस्त्वेवमेतादृश ईशभक्तो
योऽस्मिन्प्रपञ्चे विचरेद्विरक्त:।
भक्तोत्तमस्तादृश एव मुक्त:
स साधुलोकैरनुमन्यते च॥३३
वचने विलास: खलु तस्य भक्ते:
काव्यं प्रसादात्मकसंज्ञितं स:।
यां लीलया वाचमुदीरयेत्स:
प्रकाशितस्तत्र भवेद्विवेक:॥३४
शृण्वन्त्वत: काव्यसुलक्षणं यत्
प्रोक्तं च पूर्वं पुनरुच्यते च।
एतेन यल्लक्षणवर्णनेन
प्रसीदति श्रोतृजनान्तरङ्गम्॥३५
भवेत्कवित्वं ह्यतिनिर्मलं तत्
भवेत्कवित्वं सरलं तथैव।
भवेत्कवित्वं हि तथाविधं यत्
सारल्यपूर्णस्तु तदन्वय: स्यात्॥३६
भवेत्कवित्वं ननु भक्तियोगात्।
भवेत्कवित्वं तु विलक्षणार्थम्।
भवेत्कवित्वं त्विदमीदृशं तद् विनिर्गतं दूरमहङ्कृतेर्यत् ॥ ३७
भवेत्कवित्वं हरिकीर्तिपूर्णं
भवेत्कवित्वं मधुरं च रम्यम्।
भवेत्कवित्वं भगवत्प्रतापो
यत्रास्ति चौज:परिपूर्णशैल्या ॥ ३८
भवेत्कवित्वं सुगमार्थयुक्तं
भवेत्कवित्वं तनुरूपयुक्तम्।
भवेत्कवित्वं सुलपं तथैव
भवेत्कवित्वं चरणेषु बद्धम्॥३९
भवेत्कवित्वं मृदु मञ्जुलं च
भव्यं तथा कोमलमद्भुतं च।
माधुर्ययुक्तं रुचिरं विशालं
तथा भवेद्भक्तिरसाभिपूर्णम्॥४०
बन्धा: पदानामपि चाक्षराणां
चातुर्ययुक्ता विविधा: प्रबन्धा:।
छन्दोविबद्धं बहु पाटवेन
धाटी च मुद्रा बहुधा भवेयु:॥४१
नाना च युक्तिर्मतिरेव नाना
नाना कला सिद्धिरथापि नाना।
नानान्वयानामपि साधनं च
काव्यं च नानाविधमेवमस्तु॥४२
साहित्य-दृष्टान्तयुतं च नाना
तर्काश्च वृत्तानि च कल्पितानि।
नानाविधा: सम्मतियुक्तवाच:
सिद्धान्त एवापि सपूर्वपक्ष:॥४३
व्युत्पत्तिरेवाथ गतिश्च नाना
नाना मति: स्फूर्तिरथापि नाना।
नाना धृतिर्वापि च धारणा वा
यत्रास्ति तत्काव्यमिह प्रशस्तम्॥४४
शङ्का-प्रतिप्रश्न-तदुत्तराणि
काव्यानि शास्त्रीयमतानुसारम्।
येषां सुसूक्ष्मं परिचिन्तनेन
ध्रुवं हि सन्देहनिवारणं स्यात्॥४५
नाना प्रसङ्गा बहुधा विचारा
योगस्तथा तद्विवृतिश्च नाना।
नानाविधास्तत्वविचार-सारा
यत्रास्ति तत्काव्यमिह प्रशस्तम्॥४६
नाना पुरश्चारणसाधनानि
तीर्थाटनं चैव तपांसि नाना।
नानाविधं संशयवारणं च
यत्रास्ति तत्काव्यमिह प्रशस्तम्॥४७
येनानुताप उपजायते च
लोकानुरोधश्च तिरस्कृत: स्यात्।
ज्ञानं तथा येन च जायतेऽन्तस्-तदेव सत्काव्यमिह प्रशस्तम्॥४८
संवर्धते ज्ञानबलं च येन
वृत्तिश्च येनास्तमिता तथा स्यात्।
विज्ञायते येन च भक्तिमार्गस्-तदेव सत्काव्यमिह प्रशस्तम्॥४९
स्यात्खण्डिता येन च देहबुद्धि:
शुष्को भवेद्येन भवार्णवोऽयम्।
स्याद्येन साक्षात्कृतिरीश्वरस्य
तदेव सत्काव्यमिह प्रशस्तम्॥५०
सद्बुद्धिरेवाङ्कुरिता यथा स्यात्
तथा च पाखण्डविखण्डनं स्यात्।
प्रबोधितो येन भवेद्विवेकस्-
तदेव सत्काव्यमिह प्रशस्तम्॥५१
सद्वस्तुभानं भविता च येन
भ्रमस्तथायं भविता निरस्त:।
भिन्नत्वमेतद्भविता निरस्तं
तदेव सत्काव्यमिह प्रशस्तम्॥५२
मन:समाधानमुपैति येन
संसारबन्धस्त्रुटितश्च येन।
यत्साधवश्चापि समाद्रियन्ते
तदेव सत्काव्यमिह प्रशस्तम्॥५३
सत्काव्यगं लक्षणमेवमित्थं यदुच्यमानं ह्यतिविस्तृतं स्यात्।
श्रोतॄन्परं तोषयितुं मयात्र
निदर्शनामात्रमुदीरितं तत्॥५४
इति श्रीदासबोधे गुरुशिष्यसंवादे कवित्वकलानिरूपणं नाम समास: तृतीय:॥
दशक १४ – अखंडध्यानम् दासबोध: