समराङ्गणसूत्रधार अध्याय ७८
अथ दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः।
अथ वर्ज्यानि रूपाणि ब्रूमहेऽर्चादिकर्मसु।
यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणाहितार्थिभिः ॥१
अशास्त्रज्ञेन घटितं शिल्पिना दोषसंयुतम्।
अपि माधुर्यसम्पन्नं ग्राह्यं शास्त्रवेदिभिः ॥२
अश्लिष्टसन्धिं विभ्रान्तां वक्रां चावनतां तथा।
अस्थितामुन्नतां चैव काकजङ्घां तथैव च ॥३
प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनतां तथा।
ईदृशीं देवतां प्राज्ञो हि तार्थं नैव कारयेत् ॥४
अश्लिष्टसन्ध्या मरणं भ्रान्तया स्थानविभ्रमम्।
वक्रया कलहं विद्यान्नतयामिवसः क्षयम् ॥५
नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत्।
भयमुन्नतया विद्याद्धृद्रो गं च न संशयः ॥६
देशान्तरेषु गमनं सततं काकजङ्घया।
प्रत्यङ्गहीनया नित्यं भर्तुः स्यादनपत्यता ॥७
विकटाकारया ज्ञेयं भयं दारुणमर्धया।
अधोमुख्या शिरोरोगं तथानयापि च ॥८
एतैरुपेता दोषैर्या वर्जयेत्तां प्रयत्नतः।
अन्यैरपि युतां दोषैरर्चां ब्रूमोऽथ सम्प्रति ॥९
उद्बद्धपिण्डिका सासिसासि स्वामिनो दुःखमावहेत्।
कुक्षिष्टिप्राय दुर्भिक्षं रोगान् कुब्जार्चिता नृणाम् ॥१०
पाश्वहीना तु भवति राज्यस्याशुभदर्शनी।
शालायासनया स्थानं स्त्रीश्र प्रतिमया भवेत् ॥११
आसनालयहीनायां बन्धनं स्थानविच्युतिः।
नानाकाष्ठसमायुक्ता या चैवायसपिण्डिता ॥१२
सन्धिभिः प्रविसहिर्या सानर्थभयदा भवेत्।
सम्बन्धाकृष्टलोहेन त्रपुणा वा कदाचन ॥१३
दारुणा च तथैवोक्ता प्रतिमायास्तु शास्त्रवेदिभिः।
सन्धयश्चापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥१४
अर्चनाम धराधेन शास्त्रदृष्टविधानतः।
बध्नीयात्ताम्रलोहेन सुवर्णरजतेन वा ॥१५
कृतेन केणुना चान्यथा स्तुसामबद्वावरुजावहा।
तस्मात्सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥१६
कुर्यादर्चां यथान्यायं सुविभक्तां प्रमाणतः।
न क्षता नोपदिगां च न च विवर्जिता ॥१७
न प्रत्यङ्गैः प्रहीनं च घाणपादैर्नखादिभिः।
सुबिभक्तां यथोत्सेधां प्रसन्नवदनां शुभाम् ॥१८
निगूढसन्धिकरणां समायतिमृजुस्थिताम्।
ईदृशां राणायेदर्घां प्रमाणगुणसंयुताम् ॥१९
समोपचितमांसाङ्गाः पुरुषाः स्युः समासतः।
प्रमाणलक्षणयुता वस्त्ररत्नविभूषितः ॥२०
क्षान्त गुणान् परिकल्प्य च दोषजात-
मर्चां यथोदितगुणां विदधीता मतून्या ।।
शिष्यत्वमेत्य विविधमुपासतेऽन्ये।
तं शिल्पिनः कृतघ्येयश्च मुहुः स्तुवन्ति ॥२१
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे दोषगुणाध्यायो नामाष्टसप्ततितमः।