समराङ्गणसूत्रधार अध्याय ५०

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः।


प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये।

प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥१


ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः।

नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः ॥२


असंमूढा विभागेन प्रमाणेन सुसंस्थिताः।

ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥३


असङ्कीर्णोदयैश्छाद्यैः स्वमानपरिकल्पितैः।

सुविभक्ताः सुसंस्थाश्च रम्यैरविकलैः कृताः ॥४


समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः।

स्वजातिपरिवेषाद्या नान्यजातिप्रदूषिताः ॥५


असङ्कीर्णाः शरीरेण संस्थानेन सुसंस्थिताः।

केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ॥६


सुदृढैर्मूलपादैश्च द्दढाश्चामूलमस्तकम्।

नाधरोत्तरयुक्ताश्च सुश्लिष्टद्र व्यसन्धिभिः ॥७


देवजातिप्रसिद्धैश्च भूषणैः सुविभूषिताः।

प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनाः ॥८


कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात्।

अधमानपि वक्ष्यामः प्रासादानवलक्षणैः ॥९


विषमाः कर्णहीनाश्च क्लेशबन्धभयावहाः।

स्तम्भैः क्षणैश्च विषमैः स्वामिनो मृत्युहेतवः ॥१०


अत्युच्चैः स्याद्भयं राज्ञो ह्रस्वैः सेना च मथ्यते।

कर्णायामेन विकलाः प्रासादाः स्युर्भयङ्कराः ॥११


विभागेन विहीनास्तु दारिद्र य्भयदाः स्मृताः।

नष्टाभिः कर्णपादीभिरुद्वेगजनना नृणाम् ॥१२


छाद्यैः सङ्कीर्णकैर्हीनैः कुलक्षयकराः स्मृताः।

दुर्विभक्ताः कुसंस्थाश्च द्र व्यैर्विकलसंयुतैः ॥१३


रोगं क्लेशं च मृत्युं च क्रमशो वितरन्ति ते।

विषमैर्भागहीनैश्चाप्यलिन्दैर्व्याधितो भयम् ॥१४


पराजयं परिवृतैरन्यजातिप्रदूषितैः।

ये परावृतयो येऽन्यसङ्कीर्णा येऽन्यविग्रहाः ॥१५


कर्तुः कारयितुर्नैते नन्दका वापि चात्मनः।

दुर्बला मूलपादेन विश्लिष्टैः पीठसन्धिभिः ॥१६


अल्पायुषस्ते प्रासादा भवन्ति च भयावहाः।

अधरोत्तरगैः श्लिष्टैर्विज्ञेया व्याधिकारिणः ॥१७


आदेशैर्भूषणैर्युक्ताः प्रासादा न सुखावहाः।

ये कीर्त्तिमिच्छन्ति जयन्ति भूतान् कुर्युः शुभैर्लक्ष्मभिरन्वितांस्ते।

प्रासादमुख्यानितरे तु वर्ज्यास्तेजोयशःश्रीविजयादिकामैः ॥१८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः।