समराङ्गणसूत्रधार अध्याय ४

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ महदादिसर्गश्चतुर्थोऽध्यायः।

जयस्येति समाकर्ण्य विश्वकर्मा च तद्वचः।

जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥१


साधु वत्स त्वया सम्यक् प्रज्ञयातिविशुद्धया।

प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥२


स त्वं निधाय प्रश्नानां समुदायममुं हृदि।

वदतो मेऽवधानेन शृणु यद्ब्रह्मणोदितम् ॥३


इदमासीद्युगान्ताग्निप्लुष्टं संवर्तकादिभिः।

समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥४


तमोभूते ततस्तस्मिन् भोगपर्यङ्कमाश्रितः।

हरिः सुष्वाप सलिले कृत्वोदरगतं जगत् ॥५


अथास्य नाभावम्भोजमभूत् तस्मिन्नगायत।

सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥६


स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः।

महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥७


त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः।

राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥८


तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात्।

व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥९


अधरोत्तरभावश्च सम्यगेषामथोच्यते।

आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥१०


तस्याप्यधस्तात्पवनस्ततः खमवकाशदम्।

भूतादिस्थं वियत्सोऽपि महता परिवारितः ॥११


महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः।

ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥१२


आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ।

महाभूतानि सदुणान्येवं सृष्ट्वा ततः प्रभुः ॥१३


मनः पुनरसौ सर्गे भौतिके सम्यगादधौ।

सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान् ॥१४


नागान् मुनीनप्सरसो मनसा समजीजनत्।

अर्केन्दू चक्षुषो जातौ गगनभ्रमणक्षमौ ॥१५


गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत।

इन्द्रि येभ्यश्च पञ्चभ्योऽभूत्ताराग्रहपञ्चकम् ॥१६


ग्रहत्वं पुनरेतेषामिन्द्रि यग्रहणाद्विदुः।

सुरेन्द्र चापचिह्नानां विद्युद्वलयशालिनाम् ॥१७


भीमाशनिभृतां चासीत्केशेभ्योऽम्बुमुचां भवः।

विश्वमापूरयन् कृत्स्नमाविरासीत्तदिच्छया ॥१८


त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः।

ततश्चण्डानिलोद्धूतमुपर्यर्कांशुतापितम् ॥१९


वायुभिः शोषमानीतं जगाम घनतां पयः।

तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥२०


विष्णोः सज्यात्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम्।

न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥२१


नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन्।

महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥२२


यत्र यत्रापुरैक्यं ते तत्र तत्राद्र योऽभवन्।

निश्चलत्वार्थमवनिश्चर्मवद्वितताथ तैः ॥२३


शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम्।

वृद्धिं गताद्रि निःष्यन्दैर्भूभृतां प्रविभागजा ॥२४


निम्नगाभूत्ततोऽम्भोधेः कान्ता निम्नानुसारिणी।

मेदिन्यन्तेषु जलधिपर्यन्तेषु विनिर्ययुः ॥२५


अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः।

सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा ॥२६


व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती।

स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥२७


स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम्।

जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥२८


चतुर्धेत्यसृजल्लोके भूतग्रामं चराचरम्।

द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥२९


ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः।

पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥३०


ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः।

सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥३१


अरण्यगोचरा जीवाः सप्तैते वत्स निर्मिताः।

धर्माधर्मविवेकित्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥३२


अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः ।

सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥३३


चतुर्धेत्यण्डजन्मानो जन्मिनस्ते प्रकीर्त्तिताः।

क्लेदकेशसमुद्भूताः कृमियूकादिजन्तवः ॥३४


सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः।

उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते ॥३५


द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः।

छन्नान्तःकरणत्वं च स्वस्थानात्त्यागितापि च ॥३६


छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम्।

गायत्री भूतसंज्ञैषां चतुर्विंशतिपर्विका ॥३७


ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम्।

भुवनभूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः।

वंसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स मे ॥३८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिसङ्गाध्यायश्चतुर्थः।