समराङ्गणसूत्रधार अध्याय ३७
अथ कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः।
वर्णानां यानि दारूणि कीलकार्यं नियोजयेत्।
इदानीं तानि वक्ष्यामि श्रेयःकीर्त्तिहिताय च ॥१
खदिरोदुम्बराश्वत्थशालशाकधवार्जुनाः।
अञ्जनः कदराशोकतिनिशारुणचन्दनाः ॥२
शिरीषसर्जन्यग्रोधवेणवः कीलकर्मणि।
पुन्नामानो द्रुमाः शस्ताः स्त्रीनामानो विगर्हिताः ॥३
अश्वत्थः खदिरश्चैतौ विप्राणां वृद्धिकारकौ।
रक्तचन्दनवेणूत्थकीलौ क्षत्रस्य पूजितौ ॥४
शाकश्च खदिरश्चेति सामन्तानां हिताविमौ।
कीलौ शालशिरीषोत्थौ वैश्यानां कीर्तितौ शुभौ ॥५
शूद्र जाटेस्तु तिनिशधवार्जुनसमुद्भवाः।
वैश्यवेश्मसु सौभाग्यकार्ये च स्युरशोकजाः ॥६
न्यग्रोधो वणिजां धाम्नि भूमिकर्मण्युदुम्बरः।
महामात्रश्ववैद्यानां कीलाः सर्जार्जुना गृहे ॥७
विप्राणां सर्ववर्णोत्थाः क्षत्रियाणां त्रिवर्णजाः।
वर्णद्वयोक्ता वैश्यानां शूद्रा णां स्वानुलोमतः ॥८
प्रतिलोमा न कर्तव्याः कीलका भूतिमिच्छता।
प्रमाणान्यथ कीलानां निगद्यन्ते पृथक्पृथक् ॥९
द्वात्रिंशदङ्गुलाः कीला विप्राणां स्युः शुभावहाः।
क्षत्रियाणां पुनश्चाष्टाविंशत्यङ्गुलसम्मिताः ॥१०
चतुर्विंशत्यङ्गुलाश्च वैश्यानां शुभदायिनः।
विंशत्याद्यङ्गुलैः कीलाः शूद्र जातेस्तु ते हिताः ॥११
षडङ्गुलपरीणाहाः सर्वेष्वेते शुभावहाः।
ब्राह्मणक्षात्रियविशां वेदाष्टाश्रषडश्रयः ॥१२
षडश्रयस्तु शूद्र स्य प्रकृतेस्तु यदृच्छया ।
दार्भमौञ्जौर्णकार्पासं विप्रादीनां यथाक्रमम् ॥१३
अर्धपर्वपरीणाहं दृढं सूत्रं तु वर्तितम्।
अलाभे स्वस्य सूत्रस्य प्रोक्तादन्यतमं बुधः ॥१४
गृह्णीयात्सूत्रमन्ये तु गृह्णीयुः स्वेच्छयैव ते।
इत्थं संभृत्य सम्भारान् गृहभर्ता शुभेऽहनि ॥१५
शुक्लपक्षे शुचिः स्नातः स्थपतिश्च सिताम्बरः।
गृहस्थाननिमित्तात्तु देवस्थानानि लक्षयेत् ॥१६
कुसुमाक्षतमय्यश्च कर्तव्या गृहदेवताः।
आदौ स्थानानि शङ्कूनां परीक्षेत समन्ततः ॥१७
तेषु सर्वेषु कर्तव्यमर्चनं तु यथाविधि।
गृहस्य मध्ये सिक्त्वा तु निरूप्य ब्रह्मणः पदे ॥१८
गोमयेन समालिप्तां कुर्याद्वेदीं सुलक्षणाम्।
चतुरश्रां चतुर्द्वारामक्षतैः सुप्रतिष्ठिताम् ॥१९
तस्या मध्ये प्रतिष्ठाप्यः कुम्भो हैमोऽथ राजतः।
ताम्रको मृन्मयो वापि पूर्वालाभे परः परः ॥२०
अकालमूलः सोऽव्यङ्गो जलपूर्णः स्वलङ्कृतः।
मणिरत्नप्रवालैश्च स्वर्णरूप्येण गर्भितः ॥२१
प्रतिष्ठाप्याक्षतैः पुष्पफलबीजसमन्वितः।
श्वेतेन चन्दनेनैनं चर्चयित्वा समन्ततः ॥२२
तस्योपरिष्टाद् विन्यस्येत् क्षीरवृक्षस्य पल्लवम्।
सुगन्धिनाथ धूपेन धूपयित्वा चतुर्दिशम् ॥२३
वेष्टयेदहतेनैनं शुक्लवस्त्रेण सर्वतः।
वासुमध्ये यतो ब्रह्मा कुम्भरूपं स तिष्ठति ॥२४
कुम्भस्योत्तरभागे तु कीलकान् स्थापयेद्बुधः।
कीलानष्टौ परीक्षेत स्थापयेच्च यथाविधि ॥२५
श्वेतचन्दनलिप्तांस्ताञ्श्वेतपुष्पैर्विभूषयेत्।
सालक्तकान् सुरभिणा धूपेन च सुधूपितान् ॥२६
ऊर्णामयेन सूत्रेण त्रिवर्णेनाभिवेष्टयेत्।
मधुसर्पिर्दधिक्षीरैर्मूलभागेषु लेपयेत् ॥२७
अर्चयेत्परशुं सूत्रमष्ठीलादीनि सर्वतः।
अथोपकरणान्यत्र धूपपुष्पाक्षतादिभिः ॥२८
ततः पूर्वोत्तरे वास्तोर्भागे सप्तार्चिषः पदे।
गोमयेन समालिप्ते कुशास्तरणमास्थितः ॥२९
अग्निकार्यं प्रकुर्वीत पुरोधाः शान्तिमेव च।
सांवत्सरः शुचिः स्नातः कृतस्नानः समाहितः ॥३०
शङ्कुना साधयेल्लग्नं सम्यक् तद्घटिकाथवा।
रात्रिलग्नं तु नक्षत्रैर्मध्यास्तोदयसंश्रितैः ॥३१
एवं संसाधयेल्लग्नं यदीच्छेत्सिद्धिमात्मनः।
पूजया तुष्टिकारिण्या पूजयेच्च पुरोहितम् ॥३२
अभ्यर्चिते यतस्तस्मिन् ब्रह्मा भवति पूजितः।
सांवत्सरस्य कर्तव्या ततः पूजा यथाविधि ॥३३
सांवत्सरेऽर्चिते यस्मात्पूजितः स्याद्बृहस्पतिः।
स्थपतिं पूजयेत्पश्चात्त्वष्टॄतुष्टिचिकीर्षया ॥३४
तदधीनं यतः कर्म शुभं वा यदि वाशुभम्।
श्वेतचन्दनदिग्धांस्ताञ्श्वेतपुष्पैश्च पूजितान् ॥३५
सदशैरहतैर्वस्त्रैरङ्गुलीयैः प्रपूजयेत्।
परिकर्मकरा ये च तान् यथाशक्ति पूजयेत् ॥३६
हेम्ना वस्त्रादिदानैश्च वाग्भिर्वा परितोषयेत्।
यथा सुमनसस्ते स्युस्तथा कर्तव्यमादरात् ॥३७
ततः स्थपतिराचम्य बलिकर्म समाचरेत्।
सूत्रपाते बलिं धीमान् सार्वभौतिकमाचरेत् ॥३८
तस्यालाभे बलिः कार्यो यो भवेत्सोऽभिधीयते।
विदधीत चरूञ्श्वेतरक्तपीतासितान्पृथक् ॥३९
पायसं कृसरं क्षीरं निष्पावाञ्श्वेतमोदनम्।
पाविकादधिरूपांश्च पललोल्लापिकाघृतम् ॥४०
दध्योदनं च संमिश्रं देवताभ्यो निवेदयेत्।
तिलैर्घृतेन सहितैर्देवमग्निं च पूजयेत् ॥४१
ततश्च पायसं दध्ना ब्रह्मस्थाने निवेदयेत्।
ततश्चानुक्रमेणैव देवताभ्यो बलिं हरेत् ॥४२
बलिकर्म यथान्यायं कृत्वा च द्विजवाचनम्।
स्वशाखीयाञ्शुचीन् प्राज्ञान् पूजयेद्दक्षिणाफलैः ॥४३
ओङ्कारस्वस्तिपुण्याहैर्गीतवादित्रनिस्वनैः।
ततो विप्रैः सह स्वामी कुर्यात्तस्य प्रदक्षिणम् ॥४४
अक्षतान् प्रथमं कुम्भे दापयित्वा द्विजोत्तमैः।
ततो दक्षिणपूर्वेण गत्वा पुण्याहवाचकैः ॥४५
अहताम्बरसंवीतः शुचिः स्थपतिरासने।
निषद्य प्राङ्मुखः शङ्कुं धृत्वा दक्षिणपाणिना ॥४६
पश्चादादाय वामेन प्रतिष्ठाप्य च भूतले।
मन्त्रानभूञ्जपन् वीरो हन्यात् परशुना ततः ॥४७
विशन्तु ते तलं नागा लोकपालास्तथैव च।
प्रतिष्ठन्तु गृहं चास्मिन्नायुर्बलकरं भवेत् ॥४८
प्रहारान्सुस्थिरानष्टौ दद्यात्कीलस्य मूर्धनि।
हन्यमाने ततः कीले निमित्तान्युपलक्षयेत् ॥४९
गोविप्ररथनागाढ्याः कन्या नृपवरस्त्रियः।
शङ्खदुन्दुभिवंशानां तथा गीतस्य च ध्वनिः ॥५०
आविर्भवति यद्यस्मिन् हन्यमाने प्रभुस्तदा।
सततं सुखमाप्नोति शान्त्यैश्वर्यैश्च वर्धते ॥५१
हतं क्षुतं विपन्नं वा निषेधः सूत्रकीलयोः।
पाषण्डिनां च सर्वेषां दर्शनं न सुखावहम् ॥५२
दृष्ट्वा शुभनिमित्तानि ततः शङ्कुं निवेशयेत्।
हन्यमानो यदा कीलो विशेद्भूमौ शनैः शनैः ॥५३
कर्मसिद्धिभवेत् तत्र गृहं रत्नपरिच्छदम्।
हन्यमानोऽपि न विशेद्धरित्रीं कीलको यदा ॥५४
न तत्र कर्मसिद्धिः स्यादनिमित्तं च लक्षयेत्।
एकेनापि प्रहारेण यत्र कीलो विशेन्महीम् ॥५५
न सिद्धिं याति तत्रौकः कृतं वा नोपभुज्यते।
आयस्याष्ठीलया हन्यान्न काष्ठेन कथञ्चन ॥५६
काष्ठेन ताडितः कीलो वह्निदोषकरो भवेत्।
अश्मना यदि ताड्येत तदा व्याधिं प्रयच्छति ॥५७
ऐन्द्रीं प्रति नतः कीलो धनसम्मानकारकः।
आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ॥५८
याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम्।
धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ॥५९
सौम्यं सौम्यानते राजप्रसादायेशतो गतः।
कीलके कूर्चके जाते पुत्रपौत्रान्वयैर्गृहे ॥६०
परमामृद्धिमाप्नोति धनधान्यैश्च वर्धते।
हन्यमानो यदा यत्नात्कीलः कश्चिदपि स्फुटेत् ॥६१
नाशं विद्यात् तस्य पत्न्या ज्येष्ठस्य तनयस्य वा।
यदि भज्येत कीलः स्वात् स्वामिनो जायते वधः ॥७२
यदा कीलः पतेद्धस्ताद् भ्रंशः स्यात् स्थपतेस्तदा।
हस्तभ्रष्टश्च स भवेदष्ठीले हस्तविच्युते ॥६३
सुखेन हन्यमानश्चेत्कीलः स्वस्थो न जायते।
अष्टौ प्रहारानपरांस्तस्य दद्यात्तदा पुनः ॥६४
स्रग्गन्धधूपोपहारैः कुर्याच्च परिषेचनम्।
इदं साम महापुण्यं परिचिन्त्य समासतः ॥६५
त्रैशोकं तु जपेद्विद्वान् यावच्छङ्क्वभिषेचनम्।
गत्वाथ नैरृतीमाशां ततः शङ्कुं निवेशयेत् ॥६६
ऊर्णायवेन साम्नास्य सम्यक् स्नपनमाचरेत्।
वायोर्दिशं ततो गत्वा तत्र शङ्कुं निवेशयेत् ॥६७
अभिषेकं महारत्नसाम्ना तस्य समाचरेत्।
अथैशानीं दिशं गत्वा शङ्कुं तस्यां निवेशयेत् ॥६८
भाग्रेण साम्ना कुर्वीत प्राग्वत्तस्याभिषेचनम्।
ततोऽनु सूत्रं बध्नीयात्सव्यं द्विगुणवेष्टितम् ॥६९
प्रदक्षिणं प्रसार्यैतदुक्तः शङ्कुक्रमो यथा।
मध्यमानं यदा सूत्रं शङ्कुः किमपि मुञ्चति ॥७०
तदा पुत्रवधं विद्याच्छिन्नं स्वस्वामिमृत्यवे।
तस्माद्यत्नः प्रकर्तव्यो यावत्सूत्रं प्रसार्यते ॥७१
चतुर्णामपि बाहूनां पोषं छिन्नं न दुष्यति।
सूत्रं प्रसार्य वितरेच्चरून्पूर्वं प्रकल्पितान् ॥७२
स्वेषु स्वेषु ततः स्थानेष्वनेन विधिना बुधः।
शङ्कुस्थानेषु दातव्याः सिताद्याश्चरवः क्रमात् ॥७३
प्राग्दक्षिणस्या विदिशो मन्त्रं चेमं हृदा जपेत्।
मारुतानां च सर्वेषां मानवानां तथैव च ॥७४
बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम्।
रक्तं बलिमुपादाय नैरृत्यभिमुखस्तथा ॥७५
नैरृत्यधिपतिश्चैव नैरृत्यां ये च राक्षसाः।
बलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ॥७६
कृष्णं बलिमुपादाय गत्वा च दिशमानिलीम्।
नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ॥७७
बलिं तेषु प्रयच्छामि कृष्णमोदनमुत्तमम्।
बलिमुद्धृत्य हारिद्र मैशानीमाश्रयन् दिशम् ॥७८
नमो रुद्रे षेउ सर्वेषु ये चान्ये तान्समाश्रिताः।
प्रयच्छामि वलिं तेषां हारिद्रौ दनमुत्तमम् ॥७९
एवमेतान्बलीन् सर्वान् यथावत्प्रतिपादयेत्।
ततः कुम्भोदकं पुण्यं साम्ना दिव्येन मन्त्रयेत् ॥८०
वामदेव्येन कुर्वीत प्रोक्षाणं तेन वास्तुनः।
द्रुमा विप्रादीनामिति निगदिताः शङ्कुघटने।
फलं यच्छङ्कोश्च स्फुटमिह निमित्तानि बहुशः।
तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं।
बलिः कीलेषूक्तस्त्रिदशपरितोषाय विधिवत् ॥८१
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः।