समराङ्गणसूत्रधार अध्याय २४
अथ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः।
कर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः।
असम्बाधाजिराणि स्युर्हलानि दश पञ्च च ॥१
ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम्।
नन्दनं खादकं ध्वाङ्क्षं विकृतं विलयं क्षयम् ॥२
याम्यं च विपरीतं च भद्र कं चेति नामतः।
एतानि हलकाख्यानि विद्याद्गेहानि यत्नतः ॥३
अग्निरक्षोनिलेशानकोणगानां यथाक्रमम्।
एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥४
अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च।
तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ॥५
सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम्।
वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥६
प्रथमं च द्वितीयं च गृहे तु हलकं यदि।
चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ॥७
वायव्यं हलकं यत्र रोगं रोगविवर्धनम्।
प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥८
पापं तन्नामतो वास्तु सर्वपापप्रयोजकम्।
पितृरोगोक्तकोणाभ्यां भयदं रोगमृत्यवे ॥९
पितृरोगाग्निकोणेषु नन्दनं गृहमादिशेत्।
सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥१०
ईशान्यां तु चतुर्थेन खादकं खादकं गृहम्।
लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥११
ध्वाङ्क्षं तन्नामतो वास्तु दरिद्रा णां विधीयते।
द्वितीया च चतुर्थी च शाला लाङ्गलके यदि ॥१२
विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः।
आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ॥१३
विलयं हानिदं नित्यं गृहं तद्वित्तनाशनम्।
वायव्यं हलकं यस्मिन्नैशान्यां च यदा पुनः ॥१४
क्षयं क्षयकरं नित्यं हलकेषु गुहं भवेत्।
अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥१५
याम्यं मृत्युकरं नॄणां न तत्कुर्यात्कदाचन।
मारुते नैरृतैशान्योः शालाकर्णेषु लाङ्गलम् ॥१६
विपरीतं व्याधिकरं नॄणां नाशकरं तथा।
चतस्रो हलके यत्र प्रादक्षिण्यमुखाः स्थिताः ॥१७
भद्र कं नाम तद्वास्तु सर्वभद्र प्रयोजकम्।
द्वारोच्छ्रायं सविस्तारं तलोच्छ्रायं च वेश्मनाम् ॥१८
पीठस्य च समुत्सेधं भित्तिविस्तारमेव च।
तथा दारुकलां चैव या प्रोक्ता गृहकर्मणि ॥१९
एकशालाविधानं च तेषां नामानि यानि च।
तत् सम्प्रति प्रवक्ष्यामो यथावदनुपूर्वशः ॥२०
षोडशानां समुदयो विंशतेरपि चापरः।
विंशतेः सचतुष्कायास्तथाष्टाविंशतेरपि ॥२१
द्वात्रिंशतोऽपरश्चेति पञ्च वर्गाधिपा मताः।
शालाचतुर्थभागेन भित्तिविस्तार इष्यते ॥२२
वर्गेषु भित्तिलक्ष्मोक्तं षोडशादिषु पञ्चसु।
मर्मपीडा भवेद्यत्र भित्तिस्तम्भतुलादिभिः ॥२३
कुर्वीत ह्रासं वृद्धिं वा तत्र मर्मव्यथां त्यजन्।
अतिसंवृतविस्तारं कार्यमुद्दिश्य बुद्धिमान् ॥२४
शालाप्रविष्टं कुर्वीत हीनवास्तु ष्वलिन्दकम्।
चतुरश्रीकृते क्षेत्रे भूमिभागे समीकृते ॥२५
उपरिष्टाद्भवेत्पीठं तलादर्धसमुच्छ्रितम्।
नियुक्ते तु ततः पीठे वास्तुविस्तारतोऽङ्गुलम् ॥२६
प्रतिहस्तं समुद्धृतय सप्तत्या सह योजयेत्।
द्वारोच्छ्रायाः समाख्याता वर्गेषूक्तेषु पञ्चसु ॥२७
उच्छ्रायार्धेन वैपुल्यमष्टांशेन विवर्जितम्।
द्वारविस्तारपादांशे पट्टविस्तार इष्यते ॥२८
विस्तारार्धेन बाहल्यं सार्धं वेद्या तलोपरि।
उत्तरोत्तरवैपुल्यं कुर्याच्छाखावशाद्बुधः ॥२९
वेद्या विस्तारबाहल्ये विधेये शाखयोरपि।
द्वारविस्तारपादेन मूले स्तम्भस्य विस्तृतिः ॥३०
दशभागविहीनाग्रे पट्टः स्तम्भेन सम्मितः।
स्तम्भाग्रस्य त्रिभागेन पट्टकोटिर्विधीयते ॥३१
हीरग्रहणमायामे स्तम्भाग्रात्तु चतुर्गुणम्।
पट्टान्यान्युद्भवेत्तत्र व्यासबाहल्ययोस्तथा ॥३२
पट्टकोट्यर्धमुत्सेधादुत्सेधार्धेन निर्गतम्।
तन्त्रकस्य प्रमाणं स्यादिति शास्त्रविदो विदुः ॥३३
द्र व्याण्युपर्युपर्यस्य परापरविभागतः।
पट्टकोट्याश्चतुर्थेन प्रविभागेन ह्रासयेत् ॥३४
पूर्वामुखं गृहं यत्तु द्वारं माहेन्द्र संयुतम्।
हस्तिनी च भवेच्छाला तद्गृहं भद्र संज्ञितम् ॥३५
भद्रं भद्र करं भर्तुर्यशोबलविवर्धनम्।
सिध्यन्ति चास्य कार्याणि भद्रा ख्ये वसतो गृहे ॥३६
दक्षिणाभिमुखं वेश्म द्वारं चास्य गृहक्षतम्।
महिषी च भवेच्छाला तद्गृहं नन्दपीठकम् ॥३७
नन्दपीठगृहं पुंसा नित्यानन्दकरं स्मृतम्।
सर्वसम्पद्गुणोपेतं धनधान्यविवर्धनम् ॥३८
वारुण्यभिमुखं सद्म द्वारं च कुसुमाह्वयम्।
गावी चैव भवेच्छाला सौरभं तद्विदुर्बुधाः ॥३९
सौरभे नित्यहृष्टत्वं वसतां गृहमेधिनाम्।
सफलं कृषिवाणिज्यं पुत्राश्च वशवर्तिनः ॥४०
उत्तराभिमुखं धिष्ण्यं द्वारं भल्लाटसंयुतम्।
छागली च भवेच्छाला पुष्कराख्यं तदुच्यते ॥४१
शीलवान् नित्यसन्तुष्टः सुहृत्सुजनवत्सलः।
सुभगः पुष्कराख्ये च बहुपुत्रधनान्वितः ॥४२
भद्रं च नन्दपीठं च सौरभं पुष्करं तथा।
प्रथमार्धे तु वर्गस्य प्रथमस्य प्रयोजयेत् ॥४३
सर्वभद्रा दिकाः सर्वे निवेशा ये प्रकीर्तिताः।
उत्पन्नास्ते विमानेभ्यः पञ्चभ्यः पञ्चपञ्चके ॥४४
द्वारस्य पीठस्य च मन्दिरेषु भित्तेश्च मानं कथितं क्रमेण।
तथो देता दारुकलास्तु सम्यक्प्रहीणवास्तोः सकलं च लक्ष्म ॥४५
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारपीठभित्तिमानदारुकलाहीनवास्तुलक्षणं नाम चतुर्विंशोऽध्यायः।