सदस्यसम्भाषणम्:Seelamsumanth777
विषयः योज्यताम्दयानन्द सरस्वती पर संस्कृत निबंध
भारतभूमिः महापुरुषाणां भूमिरस्ति। अत्र अनेक महापुरुषाः अभवन्। तेष महर्षिः दयानन्दः अग्रगण्यः अस्ति। दयानन्दमहोदयस्य जन्म गुजरात प्रान्तस्य टंकाराम्नि ग्रामे चतुर्विंशत्याधिकाष्टादशतमे अब्दे अभवत्। अस्य शैशवे प्रथमाभिधानं ‘मूलशंकरः’ आसीत्। अस्य पितु: नाम अम्बाशंकरः आसीत् स च शिवभक्तः आसीत्। यथा पिता शिवभक्तः तथा पुत्रः मूलशंकरः अपि शिवस्य भक्त: अभवत्। सः एकदा महाशिवरात्रिअवसरे उपवासम् आचरत्। देवालये सर्वे जनाः कीर्तनजागरणे मग्नाः आसन्। अर्धनिशीथे सर्वे भक्ताः सुप्ता: किन्तु मूलशंकरः निद्रां न गतः। सः अपश्यत् यत् एका मूषिका तत्रागत्य नैवेद्यम् अभक्षयत्, पूजासामग्रीं च अन्यत्र अनयत्। एतत् दृष्टवा: तस्य मूर्तिपूजायाः उपरि विश्वासः नष्टो जातः। तस्य मनसि अनेक प्रश्नाः अजायन्त। किन्तु तेषाम् उत्तराणि दातुं कोऽपि समर्थः नाभवत्। ततः तेन दृढनिश्चयो कृत: यत् संसारस्य उत्पत्याः परित्राणस्य च कर्ता शिवः अस्ति अतः तस्मैव आराधना कर्तव्या। शिवस्य दर्शनं गुरुणा विना दुर्लभमस्ति इति तेन अनुभूतम्। गुरोः अन्वेषार्थं सः एकस्मिन् दिने गृहात् निर्गतः। विविधेषु तीर्थेषु, नगरेषु च भ्रमन अन्ततः मथुरायां विरजानन्द नाम गुरोः शिष्यः अभवत्। श्रीविरजानन्दः जन्मांधः आसीत् परं स: अतीव विहान् आसीत्। सः भूलशंकरं वेदान् आर्यग्रंथान् च अपठयत्। गुरोः शिक्षां प्राप्य मूलशंकर: महर्षिः दयानन्दः सरस्वती इति नाना विख्यात: बभूवः। यदा दयानन्द: गुरोः समीपे गुरुदक्षिणां दातुम् अगच्छत् तदा सः महात्मा गुरु: अवदन् 'यदि मध्य किंचित दानुमिच्छसि तर्हि सत्यस्य प्रचारं कुरू, वेदानां प्रचारं कुरु। अन्यत् अह किमपि न कामये' इति। ततः गुरोः आज्ञया, दयानन्दमहर्षिणा सम्पूर्णे भारते वेदानां प्रचारः कृतः। आजीवनम् सत्यप्रचार: कृतः। तेन बालविवाहस्य, वृद्धविवाहस्य सदा प्रतिषेधः कृतः। सः स्त्रीशिक्षायाः समर्थकः आसीत्। अनेन आजन्म ब्रह्मचर्यव्रतं पालितम्। यावज्जीवं देशवासिनां हितं कृतं। एतादृश: महापुरुषः सर्वेः नित्यं स्मरणीयः।
Start a discussion with Seelamsumanth777
Talk pages are where people discuss how to make content on विकिस्रोतः the best that it can be. Start a new discussion to connect and collaborate with Seelamsumanth777. What you say here will be public for others to see.