सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/पुस्तकदत्तकम्

विकिस्रोतः तः


नाम Name ग्रन्थाञ्जलिः
आरम्भदिनाङ्कः श्रावणशुक्लपूर्णिमा
०३-०८-२०२०
स्थितिः status प्रचलति
संयोजकः coordinator संस्कृतविकिविभागः, बेङ्गलूरु

ग्रन्थाञ्जलिःइति कश्चन उपक्रमः विकिस्रोतःपक्षतः आयोजितः । यथा कञ्चनबालं दत्तकरूपेण स्वीकृत्य तस्य सुचारुरूपदानं क्रियते तद्वत् विकिसदस्याः एकं पुस्तकं दत्तकरुपेण स्वीकृत्य तत्र पाठशुद्धिं कुर्युः । संस्कृतोत्सवे कस्यचित् पुस्तकस्य पाठशुद्धिकार्यं स्वीकरणीयम् । अनन्तरेषु दिनेषु स्वीकृतस्य पुस्तकस्य समग्रं पाठशुद्धिकार्यं समापनीयम् । आसक्ताः पुस्तकं किञ्चन दत्तकरूपेण स्वीकृत्य तस्य पाठशुद्धिं कर्तुमर्हन्ति ।

उद्देश्यम्[सम्पाद्यताम्]

  • विकिस्रोतसि शुद्धपाठवतां पुस्तकानां सङ्ख्यावर्धनम् ।
  • एकस्मै विकिसदस्याय समग्रस्य पुस्तकस्य कार्यं कर्तुम् अवसरकल्पनम् ।
  • विकिसूक्तौ प्रकाशनाय सूक्तिसङ्ग्रहः
  • विकिपीडियाप्रकल्पे लेखानाम् उल्लेखाय समृद्धसाहित्यसर्जनम् ।

स्वरूपम्[सम्पाद्यताम्]

  • विकिसदस्य संस्कृतोत्सवे एकं पुस्तकं चिनुयुः ।
  • आवल्याः यत्किमपि पुस्तकं चेतुं भागग्राहिणः स्वतन्त्राः । चयनानन्तरं प्रबन्धकान् सूचयेयुः ।
  • तत्र विद्यमानां पुटानां प्रथमपरिष्कारः पुस्तकं चितवता विकिसदस्येन समग्ररूपेण करणीयः ।
  • यावच्छीघ्रं कार्यं समाप्य विकिप्रबन्धकाः सूचनीयाः । ते अग्रिमसूचनां प्रदास्यन्ति ।

साहाय्यम्[सम्पाद्यताम्]

विकिस्रोतसि पाठशुद्धिकार्यं कथम् करणीयम् इति ज्ञानार्थम् अधोविद्यमानानि प्रशिक्षणस्य चलच्चित्राणि द्रष्टुमर्हिन्ति ।


सामान्यप्रश्नाः[सम्पाद्यताम्]

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
  • पुस्तकचयनानन्तरं समानपुस्तकम् अन्यः अपि न चिनुयात् वा ?
पुस्तकचयनानन्तरं प्रबन्धकाः सूचनीयाः । यथा अन्यः समानं पुस्तकं न चिनुयात् तथा प्रबन्धकाः पश्यन्ति।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।