सदस्यः:Shekhar2001Shukla

विकिस्रोतः तः

"पद्मश्री-प्रो.रमाकान्तशुक्लवर्या यशश्शेषा अभूवन्निति न विश्वसिति नो मनः" 🥺😰😑💐 अमरवाणीसमुपासनपरायणभारतीयार्यमर्यादापरिपालनलब्धसंस्कारा विविधशास्त्राध्ययनाध्यापनपालनैकव्रतिनस्संस्कृतवाङ्मयप्रथितसकलशास्त्रेष्वन्यतमसाहित्यशास्त्रस्थाखिलजटिलप्रसङ्गप्रपञ्चप्रतिपादनप्रवीणा अनवरतहासविलासरतविलसितवाक्परिपूरितगागरास्सत्पूजितगूजितचतुर्दिग्दिगन्तदिगम्बराधका अनुपमसत्कृतयो भरद्वाजकुलावतंसाः पद्मश्रीबिरुदाङ्किता देहलीविश्वविद्यालयाचार्यचराः प्रो.रमाकान्तशुक्लगुरवः संस्कृतकुटुम्बाकिञ्चनकौटुम्बिकान् अनाथीकृत्य अद्य सायं कालकवलिता इति तदीयपारलौकिकप्रस्थानविषयिणीं वार्तामाकर्ण्योद्वेलयति नो मनः। पूज्याचार्याणां सारस्वतसपर्याविरतमविस्मरणीया संस्मरणीया अनुकरणीया च बोभूयतेतराम्। विशिष्य नवागतकाव्यपथपथिकान् यथाकालं प्रचोदयन्तिस्म।

न सन्त्यधिकाश्शब्दा मदीयशब्दकुञ्जे किं वा ब्रुवे, तदीयविषये समे संस्कृतकेसरिणो विदाङ्कुर्वन्त्येव ।
काव्यकोविदाग्रेसराणामाचार्याणां पारलौकिकाभ्युदयाय तत्सम्बन्धिजनेभ्योऽसह्यवेदनां सोढुं बलं शक्तिञ्च कल्पयेदित्येवाभिभज्यते विपत्तिबरूथभञ्जकविघ्नविघातो विश्वनाथः ।

🙏🏻👏🏻😢😭💐😭 शेखरशुक्लः"चञ्चरीकः" केन्द्रीयसंस्कृतविश्वविद्यालयः, भोपालपरिसरः,भोपालम्

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Shekhar2001Shukla&oldid=337397" इत्यस्माद् प्रतिप्राप्तम्