सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्/ शास्त्रमन्थनम्/विश्वविद्यालयाः शोधसंस्थाश्च

विकिस्रोतः तः
शास्त्रमन्थनम् : samskrit shastra Project

विश्वविद्यालयाः शोधसंस्थाः[सम्पाद्यताम्]

प्रकल्पस्य प्रथमः घट्टः २०१५ तमस्य वर्षस्य जनवरीमासतः जुलैमासपर्यन्तं भविष्यति । अस्मिन् घट्टे दक्षिणभारते विद्यमानानाम् अधोलिखितानां ६ संस्कृतविश्वविद्यालयानां/पाठशालानाञ्च सम्पर्कः क्रियते ।

  1. राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, आन्ध्रप्रदेशः
  2. श्री शङ्कराचार्य संस्कृत सर्वकलाशाला, कालडि, केरलम्
  3. श्री चन्द्रशेखरेन्द्र सरस्वती विश्व महाविद्यालय, काञ्चीपुरम्, तमिळनाडु
  4. पूर्णप्रज्ञाविद्यापीठम्, बेङ्गलूरु, कर्णाटकम्
  5. श्रीमन् माध्वसिद्धान्त प्रबोधिनी पाठशाला, उडुपि, कर्णाटकम्
  6. राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धि परिसरः, शृङ्गेरी, कर्णाटकम्

एतैः विश्वविद्यालयैः प्रकाशितानि शोधपत्राणि सङ्गृह्य, विषयशः वर्गीकृत्य, व्यवस्थितरूपेण संस्कृतविकिस्रोतसि प्रकाशनाय सज्जीक्रियन्ते । चितानां शोधपत्राणां लेखकानां सम्पर्कं संसाध्य अनुमतिः प्रार्थ्यते । सज्जीकृतानां शोधपत्राणाम् उट्टङ्कनं, परिशोधनञ्च कृत्वा विश्वविद्यालयस्य, लेखकस्य च नामोल्लेखपूर्वकं विकिस्रोतसि प्रकाशयिष्यन्ते ।