सदस्यः:Prakash chandra adabar

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

. अनुकूलितानुक्रियायाः सिद्धान्तः ( Theory of Conditioned Response ) अनुकूलितानुक्रियाया अर्थोऽस्ति अस्वाभाविकाम् उत्तेजनां प्रति स्वाभाविकक्रियायाः उत्पत्तिः । उदाहरणार्थम् एकः बालकः स्यूतं स्कन्धयोः विधाय विद्यालयं गच्छति । मार्गे मिष्टान्नस्य आपणम् आगच्छति । आपणे सज्जितानि मिष्टान्नानि विद्यन्ते । तानि विलोक्य बालकस्य मुखे जलम् आगच्छति । शनैः शनैरियमेका स्वाभाविका क्रिया , तर्हि सः अनुकूलितानुक्रियासिद्धान्तः कथ्यते । एच . डब्ल्यू बर्नाडमहोदयेन अधिगमस्य सिद्धान्ताः नियमाश्च 115 अनुकूलितानुक्रियां परिभाषयता उक्तम्- " अनुकूलितानुक्रियोत्तेजनया व्यवहारस्य स्वचालनमस्ति यस्मिन् उत्तेजना पूर्वमनुक्रियया सह भवति पश्चाच्च सा स्वयमेवोत्तेजना भवति । " ( Bernard H. W.- Conditioning is the automatization of by repetition of stimuli which accompany in given response and which ultimately become causes for the behaviour which formerly they merely accompanied . ) behaviour अस्य सिद्धान्तस्य प्रतिपादनं 1904 तमे ईसवीमाब्दे रूसदेशस्य शरीरशास्त्री आई.पी. पवलवमहोदयः कृतवान् । तस्य मतानुसारम् अधिगमस्य क्रिया अनुक्रियया प्रभाविता भवति । लेस्टर एण्डरसनमहोदयेनास्य सिद्धान्तस्य व्याख्यां कुर्वतोक्तम् " अनुकूलितानुक्रियायाः अस्य प्रयोगस्य महत्त्वपूर्णानि तथ्यानि सुविज्ञातानि सन्ति । एकविशिष्टस्य उद्दीपनस्य फलस्वरूपं या क्रिया प्रायः भवति तां पृथक् क्रियते । इदं मन्यते यत् इयमुद्दीपनानुक्रिया प्राणिनः मूलप्रवृत्तेरंशो भवति , अर्थात् अधिगमोऽस्ति । इदानीं मूलोद्दीपनेन सह एकं नूतनमुद्दीपनं स्वीक्रियते । किञ्चित्कालानन्तरं मूलोद्दीपनं पृथक् क्रियते । तदा ज्ञायते यत् नूतनोद्दीपनेन सैवानुक्रिया भवति या मूलोद्दीपनेन भवति स्म । एवम्प्रकारेणानुक्रिया नूतन - उद्दीपनेन सहानुकूलिता भवति । पवलवमहोदयेन शुनः उपरि प्रयोगाः कृताः । तेन ध्वनिरहितस्य कक्षस्य निर्माणं कारितम् । ततः शुनः उपरि प्रयोगाः प्रारब्धाः । अस्य प्रयोगस्य लक्ष्यमासीत् पाचनक्रियाया अध्ययनम् । परन्तु उपलब्धयः अनायासेनैव प्राप्यन्ते । पवलवेन सहापि एवमेवाभूत् । पाचनक्रियाया अध्ययनेन अधिगमस्य सिद्धान्तस्य निरूपणमभवत् । अनेन परिणामेनानुप्रेरितो भूत्वा पवलवमहोदयेन जीवनपर्यन्तं मस्तिष्काधिगमयोः सिद्धान्तस्य प्रभावस्याध्ययनं कृतम् । पवलवमहोदयेन शुन : उपरि अयं प्रयोगः कृतः । अस्य शुनः लसिकाग्रन्थे शल्यक्रिया कृता , यया लसिकायाः एकत्रीकरणं कर्तुं शक्यते । प्रयोगस्यारम्भ एवम्भवति– शुने भोजनप्रदानसमये घण्टिकावादनं क्रियते स्म भोजनं दृष्ट्वा शुनः मुखे लसिकागमनं स्वाभाविकमस्ति । पवलवस्य प्रयोगे सक्रदेव द्वे उत्तेजने क्रियेते स्म भोजनप्रदानं घटिकावादनञ्च सहैव भवति स्म । किञ्चिद् दिनान्तरं भोजनेन केवलघण्टिकावादनं कृतम् । परिणामतः सैवानुक्रिया जाता या भोजनप्रदानसमये भवति स्म । अस्य प्रयोगस्य सामान्यव्याख्येयमस्ति " यदा सहैव द्वे उत्तेजने प्रदीयेते एका नूतना अपरा मौलिकी च तदा प्रथमा क्रिया प्रभावशालिनी भवति । ' इति जे.पी. गिलफोर्ड ( The most 1. जी . लैस्टर एण्डरसन- " अध्यापकों के लिए बुनियादी अधिगम सिद्धान्त शिक्षा मनोविज्ञान सं . स्किनर पू . 4181 116 शिक्षामनोविज्ञानम् simple interpretation of this phenomenon is that when two stimuli are presented repeatedly together , the new one first , then the original effective one , the new one also becomes effective . - General Psychology . P.345 , Guilford J.P. ) अनुकूलितानुक्रियायाः तन्त्रमित्थं विकसति— 1 . भोजनम् लसिका US → UR ( स्वाभाविकक्रिया अनुक्रिया च )

2 . भोजनम् + घण्टिकाध्वनिः → लसिकागमनम् US + CSUR ( स्वाभाविकक्रिया , अस्वाभाविकक्रिया अनुक्रिया च भोजनम् लसिकागमनम् 3 . CS CR [ अस्वाभाविकक्रिया ( घण्टिकावादनम् ) स्वाभाविकानुक्रिया ( लसिकानिर्माणम् ) ] उपरिवर्णितप्रयोगस्य सिद्धान्तः अधोचित्रितयन्त्रेण विकसति । Tuning Fork One way glass wall Food Recording device Tube from Salivary glands Cup for Measuring Saliva पवलवस्य अनुकूलितानुक्रियायाः प्रयोगः विषयेऽस्मिन् पील्सबरी महोदयेनोक्तम् " अनुकूलितानुक्रियायां स्वीकृते सति भावानामुद्वेगात्मक प्रतिक्रियाणाञ्चोत्तेजकेन कस्मिंश्चित् अन्यस्मिन् उत्तेजके परिवर्तनं कर्तुं शक्यते । " ( Granted the conditioned reflex the feeling and emotional responses may change from any stimulus to any other - Pillsburry ) अनुकूलितानुक्रियायाः सिद्धान्तः सम्बद्धायां सहजक्रियायामुपरि आधारितो भवति मस्य क्रिया काञ्चित् सीमां यावत् अस्योपरि निर्भरति । अत एव Fot

अधिगमस्य सिद्धान्ताः नियमाश्च 117 लैडेलमहोदयेनोक्तम्– ‘ ‘ अनुकूलितानुक्रियायां कार्यं प्रति स्वाभाविकोत्तेजकस्यापेक्षया एकप्रभावहीनः उत्तेजको भवति । यः स्वाभाविकोद्दीपनसम्बद्धे सति प्रभावपूर्णो भवति । " ( In a conditioned reflex the natural stimulus to action has been replaced by another action in effective stimulus which has become effective through association - Ladell ) अनुकूलितानुक्रियां नियन्त्रयन्ति तत्त्वानि - ( Controlling factors of Conditioned Response ) अनुकूलितानुक्रियायां नैकानि प्रभावकत्तत्त्वानि योगं यच्छन्ति । एतानि प्रभावकप्रतिकारकाणि इत्थं सन्ति 1. अभ्यासः- अनुकू लितानुक्रियायाः प्रयोगैः स्पष्टोऽभवत् यत् स्वाभाविकोत्तेजनायाः अस्वाभाविकोत्तेजनायाश्चाभ्यासः यावान् अधिको भविष्यति । तदनुसारमेव अनुकूलितानुक्रिया दृढतरा भविष्यति ।

2. समय : अनुकूलितानुक्रियायाः सम्पादने समयस्यापि अत्यधिकं महत्त्वं वर्तते । मूलोत्तेजनायां सम्बद्धोत्तेजनायाञ्च कियान् समय : दीयते , तस्योपरि तस्य समयस्य प्रभावः दृढ़ता च परिलक्षितो भविष्यति । 

3. प्रेरका : ( Motives ) विषयिणः प्रेरिका अनुकूलितानुक्रिया अस्ति चेत् उत्तेजना चिरं सम्पद्यते । 4. बुद्धिः – अनुकूलितानुक्रियायाः सम्पादने बुद्धे महत्त्वपूर्ण योगोऽस्ति । बुद्धिमन्तः अनुकूलितानुक्रियां शीघ्रमेव सम्पादयन्ति । 5. आयुः– अल्पायुष्षु बालकेषु प्रौढानामपेक्षया अनुकूलितानुक्रिया शीघ्रं भवति । अस्य कारणमिदमस्ति यत् बालकेषु सामाजिक नियन्त्रणानि अपेक्षाकृतानि न्यूनप्रभावकारकाणि भवन्ति । 6. बाह्यबाधा : - प्रयोगसमये यदि अस्वाभाविकस्वाभाविकयोः उत्तेजनयोः समये जातायाम् अनुक्रियायां बाह्यबाधा भवति स्म तर्हि अधिकं समयं अपेक्षते स्म पवलवमहोदयेनानुभूतं यत् तृतीयस्य वस्तुनः उपस्थित्त्या उत्तेजनायाः अनुक्रिया विलम्बेन भवति । 7. मानसिक स्वास्थ्यम् बालकः यदि मानसिकरूपेण स्वस्थो भवति तर्हि तेष्वनुकूलितानुक्रिया शीघ्रमेव भविष्यति , अन्यथा अनुकूलने विलम्बः भविष्यति , काठिन्यमपि उपस्थितं भविष्यति ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Prakash_chandra_adabar&oldid=337479" इत्यस्माद् प्रतिप्राप्तम्