सदस्यः:John Vandenberg/example

विकिस्रोतः तः

महाकविश्रीकालिदासविरचितं



कुमारसम्भवम्।

------<<००>>-------


श्रीमल्लिनाथसूरिविरचितया
सञ्जीविनीसमाख्यया व्याख्यया समेतम्।


------<०>-------


संस्कृतयन्त्रपुस्तकालयाध्यक्षेण
श्रीअविनाशचन्द्रमुखोपाध्यायेन

पाठान्तरैः संयोज्य संशोक्षितं

प्रकाशितश्च।


कलिकताराजधान्यां

सरस्वतीयन्त्रे
श्रीक्षेत्रमोहनन्यरत्नेन मुद्रितम्।


कुमारसम्भवम्।


---<०>---

प्रथमः सर्गः।

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः।



मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसङ्कुचद्वामदृष्टये ।।
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि, कुञ्जरं मुखे, मन्महे किमपि तुन्दिलं महः ।।
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ।।
इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ।।
भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा सञ्जीविनी व्याख्या तामद्योज्जीवयिष्यति ।।

तत्रभवान्कालिदासः कुमारसम्भवं काव्यं चिकीर्षुः ''आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्'' इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति --
अस्तीति ।। उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतन-व्यवहारयोग्यत्वसिध्दिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिध्दः। अधिको राजाधिराजः ।। ''राजाहःसखिभ्यष्टच्'' ।। न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ








पुर्वापरौ (१)[१] तोयनिधी (२)[२]वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥
यं सर्वशैलाः परिकल्प्य वत्सं
मेरौ स्थिते दौग्धरि दोहदक्षे

वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मान: । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे -- ''कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ'' ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । ''प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा'' इत्यलंकारसर्वस्वकारः ।। अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु -- ''स्यादिन्द्रवज्रा यदि तौ जगौ गः''। ''उपेन्द्रवज्राजतजास्ततो गौ''। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः'' इति ॥ १ ॥

इतः परं षोडशभिः श्लोकैर्हिमाद्रिं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह--
यमिति ।। सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । ''यस्य च भावेन भावलक्षणम्'' इति सप्तमी ।। पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।''गौर्भूत्वा तु वसुन्धरा'' इति विष्णुपुराणात् । ''अकथितं च'' इति कर्मत्वम् । भास्वन्ति

भास्वन्ति रत्नानि महैषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ २ ॥
अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम्।


च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । ''नपुंसकमनपुंसकेन--'' इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । ''रत्नं श्रेष्ठे मणावपि'' इति विश्वः।। ''जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते '' इति यादवः।। महौषधीश्च सञ्जीवनीप्रभृतीश्च। क्षीरत्वेन परिणता इति शेषः । ''ताः क्षीरपरिणामिनीः' इति विष्णुपुराणात् ।। दुदुहुः ॥ ''दुहियाचि--'' इत्यादिना द्विकर्मकत्वम् ।। अत्र प्रयोजकत्वेऽपि शैलानां ''पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः'' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्-- ''गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च । वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः'' इति ॥ एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः ।। अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारुपसमानधर्मसम्बन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालङ्कारः । तदुक्तम् -- ''प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ न चात्र रुपकपरिणामाद्यलङ्कारा कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु त्सत्वदोग्धृत्वादीनामागमसिध्दत्वेनानारोप्यमाणत्वादिति ॥ २ ॥

ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छिवत्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह -

एको हि दोषो गुणसन्निपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ ३ ॥
यश्चाप्सरोविभ्रममण्डनानां
सम्पादयित्रीं शीखरैबिभर्ति ।
बलाहकच्छेदविभक्तरागा-
मकालसंध्यामिव धातुमत्ताम् ॥ ४ ॥


    अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृध्दिः ॥ तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि । एको दोषो गुणसन्निपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किन्तु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालङ्कारः । तल्लक्षणं तु--"ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः"॥ इति दण्डी ॥ ३ ॥
यश्चेति ॥ किञ्चेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । "विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये" इति दशरुपकात्॥। तेन मण्डनानि तेषां सम्पादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः सन्ध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः ॥ तथात्वे भ्रान्तिमदलंकारो व्यज्यते ॥ "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी ॥ वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः ॥ तेषां छेदेषु खण्डेषु विभक्तः


आमेखलं सञ्चरतां घनानां
(३)[३]छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते
श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ॥ ५ ॥


सङ्क्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं सन्ध्यायामपि योज्यम् ॥ धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् ॥ नित्ययोगे मतुप् ।। तस्य भावो धातुमत्ता ताम् ॥ धातुयोगित्वमिति सम्बन्धोऽपि वाच्यार्थः । "समासकृत्तध्दितेषु सम्बन्धाभिधानं भावप्रत्ययेन" इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः ॥अकालसन्ध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र सन्ध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥ ४ ॥

आमेखलमिति ।। सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च ॥ "पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः" इत्यमरः ॥ आ मेखलाभ्य आमेखलं नितम्बपर्यन्तम् ॥ "मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः" इति विश्वः ॥ "आङ्मर्यादाभिविध्योः" इत्यव्ययीभावः ।। सञ्चरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् ॥ "द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः ॥ छायामनातपम् ॥ "छाया सूर्य्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः ॥ निषेव्यवृष्टिभिरुद्वेजिताः क्लेशिताः सन्तः ॥ "उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि" इति शर्ब्दाणवः ॥ यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ॥ ५ ॥



पदं तुषारस्त्रुतिधौतरक्तं
यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
(४) [४]विदन्ति मार्गं नखरन्ध्रमुक्तै
र्मुक्ताफलैः केसरिणां किराताः ॥ ६ ॥
न्यस्ताक्षरा धातुरसेन यत्र
भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणा-
मनङ्गलेखक्रिययोपयोगम् ॥ ७ ॥


     पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्दिपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः ॥ "करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि "॥ ६ ॥
     न्यस्तेति ।। यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण ॥"श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः" इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । "पद्मकं बिन्दुजालकम्" इत्यमरः ॥ त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्रवल्कलानि ।। "भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि" इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां


यः पूरयन् कीचकरन्ध्रभागान्
दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किंनराणां
(५)[५] तानप्रदायित्वमिवोपगन्तुम् ॥ ८ ॥

क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ ७ ॥
     य इति ॥ यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्‌पन्नेन । "आतश्चोपसर्गे" इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरः । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन् धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- "षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः" । इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः "तानस्त्वंशस्वरो मतः" इत्यभिनवगुत्पः । "गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्" इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना ॥ ८ ॥


कपोल(६)[६]कण्डूः करिभिर्विनेतुं
विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया (७)[७]प्रसूतः
सानुनि (८)[८]गन्धः सुरभीकरोति ॥ ९ ॥
वनेचराणां वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्या-
मतैलपूराः सुरतप्रदीपाः ॥ १० ॥

     कपोलेति ।। यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतुना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति ॥ ९ ॥
     वनेचराणामिति ।। यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्' । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः' इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्' इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका


उद्वेजयत्यङ्गुलिपार्ष्णिभागान्
मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता
भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ ११ ॥
दिवाकराद्रक्षति यो गुहासु
लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्वमुच्चैःशिरसां (९)[९]सतीव ॥ १२ ॥

इत्यर्थः । सुरते सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- "आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः" इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्य्योत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ १० ॥
     उद्वेजयतीति ॥ यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान् प्रदेशानुद्वेजयत्यतिशैत्यत् क्लेशयत्यपि मार्गे । श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वादृच्छतेः क्तः । "उपसर्गादृति धातौ" इति वृद्धि: । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किन्नरस्त्रियः । उष्ट्रमुखवत्समासः । "स्यात् किन्नर: किंपुरुषस्तुरङ्गवदनो मयुः" इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ॥ ११ ॥
     दिवाकरादिति ॥ यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं


लाङ्गूलविक्षेपविसर्पिशोभै
रितस्तत(१)[१०]श्चन्द्रमरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं
कुर्वन्ति वालव्यजनैश्चमर्यः ॥ १३ ॥
यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किंपुरुषाङ्गनानाम् ।

ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । "दिवाविभानिशाप्रभाभास्कर" इत्यादिना टप्रत्ययः । "भीत्रार्थानां भयहेतुः" इत्यपादानत्वात् पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्र नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः ॥ १२ ॥
     लाङ्गूलेति ॥ चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । "पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः" इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । "गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च" इति यादवः । "उपमानानि सामान्यवचनैः" इति समासः । वालव्यजनैश्चामरैर्यस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः ॥ १३ ॥
     यत्रेति ॥ यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । "प्रतिसीरा जव-


दरीगृह(२)[११]द्वारविलम्बिम्बिम्बा
स्तिरस्करिण्यो जलदा भवन्ति ॥ १४ ॥
भागीरथीनिर्झरसीकराणां
वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातै-
रासेव्यते भिन्नशिखण्डिबर्हः ॥ १५ ॥
सप्तर्षिहस्ता(३)[१२]वचितावशेषा-
ण्यधो विवस्वान् परिवर्तमानः ।

निका स्यात्तिरस्करिणी च सा" इत्यमरः । "तिरसोऽन्यतरस्याम्" इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः ॥ १४ ॥
     भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । "पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुःपदम्" इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । "अन्विष्टं मार्गितं मृगितम्" इत्यमरः । किरातैरासेव्यते ॥ १५ ॥
     सप्तर्षोति । सप्त च ते ऋषयश्च सप्तर्षयः । "दिक्संख्ये संज्ञायाम्" इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । "शेषाऽप्रधाने सन्तापे त्रिष्वन्यत्रोपयुज्यते" इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः | रोहन्तीति रुहाणि ।


पद्मानि यस्याग्रसरोरुहाणि
प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ १६ ॥
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य
सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं
शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १७ ॥
स मानसीं मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।

"इगुपधज्ञाप्रीकिरः कः" इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्योतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ १६ ॥
     यज्ञाङ्गेति ।। यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । "यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः" इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । "सारो बले स्थिरांशे च" इत्यमरः । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । "सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती" इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । "पत्यन्तपुरोहितादिभ्यो यक्" इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-"शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः" इति ॥ १७ ॥
     संप्रति कथां प्रस्तौति--
     स इति ॥ मेरोः सखा मेरुसखः । बन्धुसम्पन्न इति भावः ।

मेनां मुनौनामापि माननीया-
मात्मानुरूपां विधिनोपयेमे ॥ १८ ॥
कालक्रमेणाथ तयोः प्रवृत्ते
स्वरूपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या
गर्भोऽभवद्भूधरराजपत्न्याः ॥ १९ ॥
असूत सा नागवधूपभग्यं
मैनाकमम्भोनिधिबद्धसख्यम् ।

स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसम्पत्तिः सूच्यते । स हिमवान् पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादाभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- "तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज" इति । आत्मानुररूपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । "उपाद्यमः स्वकरणे" इत्यात्मनेपदम् । "तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते" इति ब्रह्माण्डपुराणात् ।। १८ ।।
     कालक्रमेणेति ।। अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे । यद्वा रूप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत् ।। १९ ।।
     असूतेति । सा मेना नागवधूपभोग्यम् । नागकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । "सत्सू


क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-
ववेदनाज्ञं कुलिशक्षतानाम् ।। २० ॥
(४)[१३]अथावमानेन पितुः प्रयुक्ता
दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा
तां जन्मने शैलवधूं प्रपेदे ॥ २१ ॥

द्विष-"इत्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। सम्बन्धसामान्ये षष्ठी । जानातीति ज्ञः । "इगुपधज्ञा-" इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । "आतोऽनुपसर्गे कः" इति कप्रत्ययः । "उपपदमतिङ्" इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । "पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात् सुधीः ।" इत्यभ्रातृककन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकवर्णनमिति तात्पर्यार्थः ।। २० ।।
     अथेति ।। अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । "सती साध्वी पतिव्रता" इत्यमरः । सती नाम देवी पितुर्दक्षस्य । कर्तरि षष्ठी । अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अत्र पुरा किल सती देवी दक्षा-


  सा भूधराणामधिपेन तस्यां
  समाधिमत्यामुदपादि भव्या ।
  सम्यक्प्रयोगादपरिक्षतायां
  नोताविवोत्साहगुणेन सम्यत् ॥ २२ ॥
  प्रसन्नदिक् पांसुषिवि तवातं
  (५)[१४] शङ्कानानन्तरपुष्यद्यदि।
  शरैरिणां स्थावरजङ्गमानां
  सुखाय तज्जन्मदिनं बभूव ॥ २३ ॥

धेरै तत्कृतां स्वभर्ववन्नामसहमाना पितरं प्रश्न चोपेक्ष्य मत्कर्तब्यकार्ये त्वसमतव करिष्यतीति निर्धार्य देवकार्याणि साधयितु च योगाग्निना स्त्रशीरं ददाहेति पुरावृत्तकथानु संधेया ॥ २१ ॥

 सति । भव्या कल्याणी

सा सती भूधराणामधिपेन हिमधता ता समाधिमन्यां नियमवत्यां तस्यां मेनकायां सस्यमयो साच्याचरणाहे तोरपरितायमनष्ठायां नताबुसाहगुणे ओसाहशतया । कर्ता । सम्पदिवोदपाद्यत्पादिता ॥ उत्पद्य पेण्र्यन्तात्कर्मणि लुङ् । चिभावकर्मणोः” इति चिण् प्रत्ययः। 'चियो लुक् ” इति तस्य लुक् ॥ २२ ॥

 प्रसनेति । प्रसत्रा निर्मला दिशो यस्मिंस्तप्रसङ्गदि। सुविविक्ता रजोरहिता iवाला यस्मिंस्तत्तथोतम् । अस्य अनात् वनस्य वानन्तरं पुष्पवृष्टिमिंस्तत्तथोक्तं तस्याः पार्श्वथा जन्मदिनम् । स्थितिशीलाः स्थावराः शैलष्टशदयः ॥ स्त्रंशभासपिस कसो वरच्” इति वरच्प्रत्ययः । अङ्गम्यन्ते ऋशं गच्छन्तौति जामा देवतिर्यश्नुथादय: । स्थावराव


Footnotes[सम्पाद्यताम्]

  1. वारिनिधी
  2. विगाह्य
  3. छायामिषे सानुगताम् ।
  4. विन्दस्ति ।
  5. स्थान।
  6. कण्डुम् ।
  7. समीर: ।
  8. गन्धै: ।
  9. अतीव ।
  10. चान्द्र ।
  11. हारि
  12. आचरिताव
  13. अथापमानेन ।
  14. तूर्य-।
"https://sa.wikisource.org/w/index.php?title=सदस्यः:John_Vandenberg/example&oldid=28761" इत्यस्माद् प्रतिप्राप्तम्