सदस्यः:G v mukesh

विकिस्रोतः तः

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।[१] लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।


बाल्यं शिक्षा च[सम्पादयतु] अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । अविभक्ते कुटुम्बे अब्दुल कलामः पालितः । अस्य पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः अस्ति । सः सम्पूर्णतया शिक्षितः नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः अभवन् ।

विद्यार्थिजीवनम्[सम्पादयतु] पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालयां प्रविष्टः । प्रारम्भिकशिक्षां अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म ।[२] क्रि.श. १९५८तमे वर्षे कलामः मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीम् प्राप्तवान् । पश्चात् हावरक्राफ्ट् इति परियोजनायाम् उद्योतं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्तवान् । क्रि.श. १९६२तमवर्षतः तस्यां संस्थायाम् उपग्रहप्रक्षेपणस्य विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन भारतस्यएस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । क्रि.श. १९८०तमवर्षे रोहिणीति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् ।

वृत्तिजीवनम्[सम्पादयतु] क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८०तमवर्षस्य जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः कक्षस्य निकटे एव स्थापितवान् [३]। अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः व्योमवाहनसंप्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः स्वदेशक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वीति क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२तमवर्षस्य जुलैमासतः क्रि.श. १९९९ डिसेम्बर् पर्यन्तं भारतस्य रक्षणामन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य सचिवः चाभवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् आग्नेस्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य क्षमताप्रापणे सफलः अभवत् । डा.कलामः क्रि.श. २०२०तमवर्षपर्यन्तं भारतं वैज्ञानिकक्षेत्रे अत्यधुनिकं कर्तुं विशिष्टां योजनां निरूप्य सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.. १९९२तमवर्षे भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे वर्षे पोखराण इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् [४]। अनया घटनया भारतं परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् ।

राजनैतिकजीवनम्[सम्पादयतु] डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन्[५] । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य २५तमे दिने संद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य प्रमाणशपथम् बोधितम् [६]। अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः अस्ति । अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः अस्ति । अस्य विङ्ग्स् आफ् फायर् इति आत्मकथनग्रन्थे भारतीययूनां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स् आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अमिताः सन्ति । एषः राष्ट्रपतिः भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते एषः भारतस्य अभवृद्धिविषये स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन दृष्टुम् इच्छति । एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः सन्ति । पर्माण्वस्त्रस्य क्षेत्रे एष भारतं परमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति ।

वैयक्तिकजीवनम्[सम्पादयतु] डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति । अस्यां दिशायां प्रेरणां जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः अतीव प्रयः अस्ति । अधुना एषः भारतीयान्तरिक्षविज्ञानम् तथा प्रौद्योगिकसंस्थानम् इत्यस्य कुलपतिः अस्ति ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:G_v_mukesh&oldid=40580" इत्यस्माद् प्रतिप्राप्तम्