सदस्यः:Chinmay parida 123

विकिस्रोतः तः
(क) ज्ञातात् अज्ञातं प्रति
(ख) सरलात् काठिन्यं प्रति
(ग) पूर्णात्  अंशं प्रति
(घ) अनुभवात्  तर्कं प्रति
(ङ) विशेषात् सामान्यं प्रति
(च) विश्लेषणात् संश्लेषणं प्रति 
(छ) स्थूलात् सूक्ष्मं प्रति 
(ज) अनिश्चितात्  निश्चितं प्रति 
                   

शिक्ष्यण सूत्राणि :- (Teaching Maxims):-

     शिक्ष्यणं सरलं, सरसं, रूचिकरं, सुग्रह्यञ्च स्यात् इत्यस्मिन् सन्दर्भे मनोवैज्ञानिकाधारै: अनेकानि शिक्ष्यणसूत्राणि संस्कृताध्यापने सन्ति l

शिक्ष्यणसूत्राणि एतादृशानि सन्ति यै: अध्यापक: स्वशिक्ष्यणं सफलता पूर्वकं करोति l तानि यथा :-


1. ज्ञातादज्ञातं प्रति :- (From Known to Unknown):-


        प्रतिदिनं नबार्जितं ज्ञानम् अन्यस्मिन् दिने नबीनपाठस्य कृते पूर्वज्ञानं भबति l छात्राणां पूर्वज्ञानस्य, पुर्वानुभबस्य  च  आधारेण नवीनपाठस्य, विषयस्य  वा अध्यापनमत्र अन्तर्भव ति l संस्कृतशिक्ष्यणे विशेषतः व्याकरणपाठे छात्राणां पूर्बानुभबस्याधारेण नूतन बिसयणामध्यापनं सुकरं भवति l अर्थात् अज्ञातबविषयस्य ज्ञानप्रप्तये ज्ञातबविषयः सहयको भवति l पूर्वज्ञानात् परं नविनं ज्ञानं प्रदेयम् l



2.सरलात् काठिन्यं प्रति :- (From Simple to Complex):-


       ज्ञात विषयः सरलो भवति, अज्ञातश्च कठिन:l शिक्षकः सरलं विषयं प्रथमं पाठयेत्, ततः परं कठिनविषयं पठयेत् l इदं सूत्रं पुर्वोक्तसूत्रेण साकं सादृश्यं भजते l सरलानि लघूनि वा क्यानि प्रथमं पाठयेत् l उपमलंकारं पाठित्वा रुपकालङ्का रं पाठयेत् l छन्दसि अनुष्टुप् अनन्तरम् उपजाति वोधयेत् l


3.पूर्णादंशं प्रति:- (From whole to parts):-


        छात्र:प्रथमं समग्रं वस्तुं पश्यति, ततः परमेव तस्य दृष्टि: अव यवेषु गछति l मनोवैज्ञानिकदृष्ट्या विवेचनियविषयस्य समग्रं रूपं प्रथममुपस्थापनीयं, ततः परं तस्य सूक्ष्मांशानां विवेचनं कर्तव्यम् l संपूर्ण कथा छात्रान् श्रावयित्वा तत्पश्चात्

तस्यां सन्निहितान् कठिनसब्दान् भावान् सूक्ष्मांशान् च पृथक् -पृथक् रूपेण पठयेत् l व्याकरणशिक्ष्यणशमये सर्बप्रथमं छात्राणां समक्षं सूत्रं प्रस्तूयते तत्पश्चात् प्रत्याहार, सूत्रार्थ, उदाहरणानि च प्रस्तोतव्यानि l



4.अनुभवात् तर्कं प्रति :- (From Empirical to Rational):-


       स्वानुभूतसत्यस्य अनुभवानन्तरे एव तर्किकचिन्तनं समायातिl अभ्यासानुभवाः विषयाः सिक्ष्यणस्य आधराः स्युः l अनुभुतविषयाणामाधारेण लब्धं ज्ञानं चिरं भवति l

अतः "अनुभवात् तर्कं प्रति "इत्याधारेण पाठनीयः l मनोवैज्ञानिकक्रमात् तार्किकक्रमं प्रति सूत्रं सादृश्यं भजते l


     अनुभवस्य मनोवैज्ञानिकक्रमस्य संबन्धः छात्राणां रूचि -योग्यता -अभियोग्यता -अभिवृति -सर्जनात्मकता आदिषु भाषायाः चत्वारि कौशलानि च सन्ति l तर्किकक्रमस्य संबन्धः बिशयवस्त्वादिनां ब्यबस्थितक्रमेण प्रस्तुतिकरणमस्ति l
     


5.विशेषात् सामान्यं प्रति :- (From Particular to General):-


           आदौ विशिष्टोदाहरणानि प्रस्तूय  ततः परम् उदाहरणानां साहाय्येन नियमं बोधयेत् l इदं सूत्रं "आगमनात् निगमनं प्रति, उदाहरणेभ्यो नियमं प्रति "इत्यपि व्याख्यातुं शक्यते l अत्र प्रथममुदाहरणं प्रस्तूयते, ततः परं समन्यनियम: बोध्यते l व्याकरणशिक्ष्यणे अस्य सूत्रस्य विशेषोपयोगो वर्तते l यतो  हि लक्ष्यानुसारी एव लक्षणं भवति l अतः लक्ष्याणां परिशीलनेन लक्ष्याणां निर्माणं छात्रेभ्यः सुकरं सुवोधं, रूचिकरञ्च भवति l अस्य सूत्रस्य प्रयोगः अध्यापकः भाषा -व्याकरण -विज्ञान -गणि तादीनां शिक्ष्यणावासरे करोति l


6.विश्लेषणात् संश्लेषणं प्रति :- (From Analysis to Synthesis):-


     आदौ विश्लेषणे समग्रस्य वस्तुनः अध्ययनं क्रियते, ततः परम् एकैकस्य अवयवस्य l इदं सूत्रं "पुर्णादंशं प्रति " इतस्य विपरीतं भवति l अत्र प्रथमं विषयस्य विभिन्नाः अंशाः पृथक् -पृथक् पठ्यन्ते, ततः तेषांमंशानां संश्लेसणेन समग्रं स्वरूपं बोध्यते l वक्यरचनाः सन्धयः, समासाः प्रकृतिप्रतेयज्ञानमित्यादि विषयाणां बोधने अस्य सूत्रस्य उपयोगो निर्विवदः l


7.स्थूलात् सूक्ष्मं प्रति :- (From concrete to Abstract):-


       संस्कृतशिक्ष्यणे स्थूलानि बस्तुनि प्रदर्श्य, तेषां नाम, स्वरूपं, स्वभावश्च क्रमशः वर्णनीयः l
       वर्णनात्मकनिवन्धानां बोधनात्परं भावात्मकनिवन्धाः बोधनीयाः l प्रारम्भिकस्तरे बालानां सरलं स्थूलं मूर्तं वा तथ्यं परिचयञ्च तदनु सूक्ष्मम् अमूर्तं  वा करणीयम् l एतदर्थं चित्र -मानचित्र -प्रतिकृति -अभिनय -उदाहरणानां प्रयोगोपि करणीयः l


8.अनिस्चितात् निश्चितं प्रति :- (From Indefinite to Definite):-

       प्रारम्भे छात्राणां बिभिन्नबस्तूनां ज्ञानं अनिश्चितम्, अस्पष्टञ्च भवति l ततः निश्चितं, स्पष्टञ्च कर्तुमेतत्सू त्रमनुसरनीयम् l
      संस्कृतसिक्ष्यणस्य बिभिन्नबिशयेष्वपि छात्राणामनिश्चितं ज्ञाने निश्चितत्वं संपदयेत् शिक्षकः l विज्ञानस्य -व्याकरणस्य च सिद्धान्तानं विषये छात्रस्य ज्ञानमनिश्चितं भवति l अर्थात् वालकस्य ज्ञानम् अनिश्चितम् अस्पष्टं च भवति, अध्यापकः शनै:-शनै: तत्र परिपक्वतां, स्पष्टतां च आनयति l


निष्कर्षः :- (Conclusion):-


     उपयुक्त -सिक्ष्यणसूत्राणि शिक्षकाणां पथपदर्शकानि भबितुमर्हति l अध्यापने एतेषां सूत्राणां प्रयोगः कर्तव्य:l
"https://sa.wikisource.org/w/index.php?title=सदस्यः:Chinmay_parida_123&oldid=337414" इत्यस्माद् प्रतिप्राप्तम्