सामग्री पर जाएँ

सदस्यः:ABHAYANANDA BEHERA

विकिस्रोतः तः
   <<<{{{{अधिगमः}}}}>>>

👉अधिगमः - (Learning) >>>

        मानवश्य अधिगमप्रक्रिया जन्मतः एव आरभ्यते । अतः सः आजीवनम् अधिगच्छन् भवति । मानवस्य अधिगमार्थं न कोऽपी निश्चित: समयः न किञ्चित् सुनिश्चितं स्थानं भवति । सः सर्वदा सर्वत्र यत्कमपि अधिगच्छन् भवति । न केवलं शिक्षासंस्थाभ्यः ,अपि तु परिवारात् समाजात् मित्रसमुदायात् चलच्चित्रात् परिचिता परिचितव्यक्तिभ्यः स यत्किमपि शिक्षमाणः भवति ।

👉अधिगमस्य अर्थः -

(Meaning of learning ) >>>
       एषः  ‘अधिगमः ' इति शब्दः अधिगमप्रक्रियार्थं , तस्याः प्रक्रियायाः परिणामार्थञ्च प्रयुज्यते । अधिगमस्य अर्थः , शिक्षणम् अथवा व्यवहारे स्थायिपरिवर्तनम् । व्यवहारपरिवर्तनम् अनुभवेन पशिक्षण माध्यमेन च सज्जायते । उदाहरणार्थं - कश्चन लघुबालः ज्वलन्तं दीपं स्पृशति । ज्वलन्तः दीपस्य स्पर्शेण तस्य हस्तः दग्धो भवति । तेन सः पीडाम् अनुभवति । भविष्ये स बालः कदापि तथा न समाचरिष्यति । एतदेव अनुभवेन ‘अधिगमः' इति उच्यते । कश्चित् बालकः द्विचक्रिकां चालयितुं न शक्नोति । शनैः शनैः सः कस्यचन साहाय्येन द्विचक्रिकायाः उपरि आरुह्य, तच्चालने नैपुण्यं प्राप्नोति । एषः अधिगमः प्रशिक्षणेन इति उच्यते । दैनन्दिनजीवने अस्माभिः अधिममस्य अनेकानि उदाहरणानि दृश्यन्ते । यथा - पाठस्य स्मरणं, गणितप्रश्नानां समाधानं, विविधयानानां चालनं , टङ्कणम् इत्यादीनि ।

👉अधिगमस्य परिभाषाः- (Definitions of Learning ) >>>

      अधिगमः व्यवहारपरिवर्तनस्य एका प्रक्रिया । मनोवैज्ञानिकैः एतस्य अर्थं स्पष्टयितुं नैकाः परिभाषाः प्रदताः , यतो हि मनोविजाने एव बहुविधाः शैक्षिकसम्रदायाः वर्तन्ते । अतः एकैकेनापि सम्प्रदायेन अधिगमस्य परिभाषाः स्वदृष्ट्या प्रतिपादिताः - 

1 - गेट्स ( Gates ) महोदयानुसारम् -

   “ अनुभवेन प्रशिक्षणेन च जायमानं व्यवहारपरिवर्तनम् ‘अधिगमः’ इति उच्यते, न तु प्रेरणया ,आवेगेन, पूर्णविकासेन वा । "
   “ Learning is the modification of behaviour through experience and training , not through motivation , emotion and maturity . ”

2 - वुडवर्थ (Woodworth) महोदयानुसारम् -

   “ नवीनज्ञानम् अनुक्रियां च प्राप्तुं क्रियमाणा प्रक्रिया अधिगमप्रक्रिया इति उच्यते । "
   “The process of acquiring new knowledge and new response is the process of learning ."

3 - स्किनर ( B. F. Skinner ) महोदयानुसारम् -

   “ व्यवहारे उत्तरोत्तरसामञ्जस्यप्रक्रिया एव अधिगमः इति कथ्यते । "
   “Learning is a process of progressive behaviour adoptation ."

4 - क्रो एवं को ( Crow & Crow ) महोदयानुसारम् -

   “ अधिगमः अभ्यासं, ज्ञानम् ,अभिवृत्तिं च अर्जयति ।  "
   “Learning ie the acquisition of habits , knowledge and attitudes ."

5 - क्रॉनबेक ( Lee J. Cronbach ) महोदयानुसारम् -

   “ अनुभवस्य परिणामरूपेण व्यवहारपरिवर्तन अधिगमः प्रदर्शितो भवति । "
   “Learning is shown by a change in bahaviour as result of experience ."

6 - गिलफोर्ड (J.P. Guilford ) महोदयानुसारम् -

   “ व्यवहारकारणेन जायमानं परिवर्तनम् अधिगमः भवति ।"
   “Learning is any change in bahaviour resulting from behaviour ."

7 - पावलॉव ( Pavlav ) महोदयानुसारम् -

  “ अनुकूलानुक्रियायाः परिणामत्वेन अभ्यासनिर्माणम् एव अधिगमः भवति ।”
  “Learning is habit formation resulting from conditioning ."

8 -हण्टर् तथा हिलगार्ड (Hunter and Hilguard ) महोदयानुसारम् -

   “अधिगमः काचित् प्रक्रिया , यत्र अभ्यासेन प्रशिक्षणेन वा व्यवहारस्य उत्पत्तिः जायते अथवा व्यवहारे परिवर्ततं जायते ।”
   “Learning is the process by which behaviour is originated or changed through a practice or training ."

9 - मर्फी ( Murphy )महोदयानुसारम् -

   “ अधिगमः व्यवहारपरिवर्तनं पेक्षणस्य च काचन कला भवति ।"
   “Learning is the modification of both behaviour and the way of perceiving ."

10 - गेरट् ( Garret )महोदयानुसारम् -

    “ अधिगमः व्यवहाराणां सङ्घटनं भवति ।"
    “Learning is an organization of behaviours ."

👉अधिगमस्य प्रकृतिः - ( Nature of Learning ) >>>

 अधिगमः काचन मनोवैज्ञानिकी प्रक्रिया भवति । अधिगमस्य अनेकाः परिभाषाः अनेके च सिद्धान्ताः प्रतिपादिताः सन्ति । एतेषाम् आधारेण अधिगमस्य प्रकृतेः व्याख्या कर्तुं शक्यते ।

1 - अधिगमप्रक्रियया तत्परिणामेन च छात्राः नूतनानुभवान् , व्यवहारान् प्रत्ययान् सिद्धान्तान् तथ्यानि च अर्जयन्ति । एतद अधिगमस्य परिणामः इति उच्यते । 2 - व्यवहारपरिवर्तनमेव अधिगमः ( Learning is the modification of behaviour ) -क्रियाभिः अनुभवैश्च यत् व्यवहारपरिवर्तनं जायते तदधिगमः इति उच्यते। 3 - अधिगमः मानवस्य काचित् प्रवृत्तिः ( Learning is the tendency of human beings ) - नूतनवस्तुज्ञानार्थं मानवानां महती जिज्ञासा जायते। किम्? कथम्? किमर्थम्? इत्यादि प्रश्नानाम् उत्तरप्राप्तये तीव्रा इच्छा जागर्ति । एतेन तस्य प्रकृतविषये ज्ञानं सम्पद्यते । एतादृशज्ञानमेव अधिगमः इति कथ्यते । 4 - अधिगमः मानसिकक्षमतानां विकासस्य काचित् प्रक्रिया ( Learning is a Process of mental devlopment ) - ज्ञानात्मक - भावात्मक - क्रियात्मकपक्षाणां विकासः अधिगम प्रक्रियया जायते । अधिगमस्य एतान्येव त्रीणि उद्देश्यानि भवन्ति । 5 - अधिगमः काचित् सततप्रक्रिया भवति - ( Learning is a continuos process ) अधिगमप्रकिया उद्दीपकस्य अनुक्रियायाश्च माध्यमेन, चिन्तनप्रणाल्याः समस्यासमाधातपर्यन्तं प्रचलति । 6 - अधिगमः समायोजनस्य काचन प्रक्रिया ( Learning is a process of adjustment ) - अधिगमेन व्यक्तीनां समायोजनक्षमताः विकसन्ति । अतः व्यक्तिः स्वयं परिस्थित्या साकं समायोजनं शीघ्रं कर्तुमर्हति । 7 - अधिगमः काचित् आविष्कारात्मिका प्रक्रिया ( Learning is a process of discovery ) - अधिममपरिस्थितिषु व्यक्तिः स्वीयावश्यकतायाः पूर्त्यर्थं स्वयं किमपि आविष्करोति। एतेन तस्य नूतनविषयेषु अपि ज्ञानं सञ्जायते । 8 - अधिगमः काचिन अभिवृद्ध्यात्मिका प्रक्रिया (Learning is a procsss of growth ) - अधिगमप्रक्रिया आजीवनं प्रचलति । व्यक्तिः स्वानुभवैः स्वक्रियाभिश्च यत्किमपि शिक्षमाणः भवति , येन तस्याः व्यक्तेः शारीरिक - मानसिक - विकासश्च जायते। 9 - अधिगमः काचित् सक्रियप्रक्रिया भवति ( Learning is an active process ) - अधिगमार्थं व्यक्तिः सर्वदा तत्परा सक्रिया च तिष्ठेत् । क्रियाशीला तत्परा च व्यक्तिः अधिकम् अधिगमं प्राप्नोति । 10 - अधिगमः तत्कालप्रतिपुष्टे: प्रक्रिया भवति ( Learning is an immediate confirmation ) - व्यक्तेः क्रियाणां पुष्टिकारणात् अधिगमः प्रभावशाली भवति । अभिप्रेरणं विना न कोऽपी अधिगमः सम्भवति। अतः छात्रेभ्यः पुनर्बलनं पुष्ट्या एव लभ्यते ।

👉अधिगमसिद्धाताः - ( Principles of Learning )>>>

     शिक्षामनोविज्ञानस्य केन्द्रविन्दुः अधिगमः भवति । अतः अधिगमस्य विविधान् अर्थान्  विभिन्नाः परिभाषाः पर्यालोच्य एतस्य प्रमुखाः केचन सिद्धान्ताः अधः विव्रीयन्ते -

1 - अधिगमे उद्दीपनस्य अनुक्रियायाश्च विकासः सञ्जायते । 2 - वाञ्छितव्यवहाराणां कृते सकारात्मकप्रतिपुष्टिः , अवाञ्छितव्यवहाराणां कृते नकारात्मकप्रतिपुष्टिः लभ्यते । अतः अधिगमे पुनर्बलनम् अत्यन्तं महत्वपूर्णं भवति । 3 - अधिगमे अभ्यासस्य पुनरावृत्तिः अत्यन्तं महत्त्वपूर्णा भवति । एतदेव अभ्यासस्य सिद्धान्तः इति उच्यते । 4 - शिक्षणे कृत्वाधिगमः (Learning by doing ) अत्यन्तं प्रभावशाली भवति । अतः छात्रैः क्रियाशालैः भाव्यम् । 5 - शिक्षकाणां विविधविषयेषु सङ्घटितज्ञानम् आवश्यकं भवति । 6 - नवीनव्यवहारान् अधिगन्तुं छात्राणाम् अभिरुचिः अधिका भवति , यतः छात्राः अनुकरणेन एव शीघ्रं शिक्षन्ते । ( Learning by imitation) 7 - अधिगमे छात्राणां योग्यता महत्त्वपूर्णा भवति । 8 - छात्राणां विकासार्थं वंशानुक्रमस्य अपि महत्त्वपूर्णस्थानं वर्तते । 9 - अधिगमः सांस्कृतिकदृष्ट्या सापेक्षिकत्वेन प्रत्यक्षो भवति । 10 - सामूहिकवातावरणमपि अधिगमप्रक्रियायाः कृते महत्त्वपूर्णं भवति । 11 - अधिगमः बोधगम्यः स्थायी च भवति । तस्य प्रसारणमपि अधिकं प्रभावशालि भवति । 12 - अधिगमप्रक्रियायाः निमित्तं छात्राणाम् उत्सुकतायाः स्तरः निर्धार्यति ।

 एते अधिगमसिद्धानाः शिक्षणसिद्धान्तानां विकासार्थम् अत्यन्तं महत्त्वपूर्णाः सहायकश्च भवन्ति ।
"https://sa.wikisource.org/w/index.php?title=सदस्यः:ABHAYANANDA_BEHERA&oldid=337459" इत्यस्माद् प्रतिप्राप्तम्