सदस्यः:2010452gowrigm
परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते। संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते। मातः! गीर्वाणवाणि! त्वममरनगरीप्राङ्गणे ब्रह्ममुख्यैः, देवैस्संलाल्यमाना चिरमवनितले स्तूयमाना सुहृद्भिः । वाल्मीकिव्यासमुख्यैर्मुनिभिरनुदिनं कालिदासादिभिश्च, आनीतालङ्कारशोभा कविभिरनुपमा सन्तु नस्ते नमांसि। अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति। न खलु विबुधलोके मानवानां विहारः, न च सुररमणीभिस्सौख्यभोगप्रसक्तिः । इति किल करुणार्द्रीभूतचित्ता स्वयं त्वं, धरणिममरवाणि! प्राप्य नाकीकरोषि।
यदि विबुधनिवासात् नागता त्वं हि देवि!, भगवत इह तत्त्वं कोऽपि न ज्ञातवान् स्यात्। कृतनिरयनिवासा उज्झितात्मस्वरूपा, जूननमरणकूपे मानवाः पातिताः स्युः। संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च । इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति। तव जननि! जगत्यां प्राप्य सम्पर्कमन्याः, विधुमिव कुमुदिन्यो भान्ति भाषा नितान्तम् । न भवति खलु शक्तस्त्वां विना कोऽपि वक्तुं, भवसि सकलभाषाजन्मदात्री यतस्त्वम् । ये कथयन्ति यत् कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य। संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति। शमयसि भवतापं ब्रह्मविद्याप्रबोधैः जनयसि हृदिमोदं कालिदासादिकाव्यैः । गमयसि शुभमार्गे मानवान् धर्मसूत्रैः जगति विबुधवाणि! त्वत्समा कास्ति मान्या । सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्: प्रत्यक्षरं बहूनर्थानाश्रित्यामरभारात, विराजसेऽनल्परत्नाद्याश्रयः सागरो यथा ।
एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते। एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम्। एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते। कामं सन्तु सहस्रशो भुवि गिरः कस्ताभिरर्थोऽस्ति नः शक्ता तोषयितुं त्वमेव मनुजान् शब्दैः सुधास्यन्दिभिः। वर्षासु प्रवहन्तु नाम सरितः कूलङ्कषाः किं फलम् ग्रीष्मे या पथिकान् नदी खलु जलैस्सन्तर्पयत्सोत्तमा। आंग्लभाषायां लिख्यते ‘बुट’ पठ्यते च ‘बट’ लिख्यते पुट पुनः बटवत् ‘पट’ इति न पठ्यते। एवमेव अनेकानि भ्रष्ट्रभाषायाः उदाहरणानि सन्ति। संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते।
निन्दन्तु केचिदनिशं भवतीं पुमांसः, मातस्तथाप्यपचयो न हि तेऽस्ति नूनम् । उल्का दिवानिशमपि स्फुरतु प्रकामं, वारानिधिर्न खलु शुष्यति तावतासौ।
"भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः"
अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः। यतो हि “कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति"
को वाल्मीकिः कश्च वा कालिदासः को वा व्यासो नास्ति चेत्तेऽनुकम्पा । कालेऽतीतेऽप्यम्ब यत्तान् स्मरामः दैवीवाक् ते सन्तनोति प्रभावम् । राकेटाख्यविमाननिर्मितिकलापारङ्गताः सन्तु वा व्योम्नुड्डीय सुधांशुमण्डलमथो वेगेन ते यान्तु वा । स्वर्गं वा सशरीरमेव मनुजा गच्छन्तु गीर्वाणवाक् तत्राप्यम्ब! तव प्रसादमतुलं कांक्षेयुरुच्चैस्तमाम् । रे रे मानव! मारणायुधविनिर्माणे यदि श्राम्यसि स्वात्मा किं भविता विचारय मनाक् तस्यैव विस्फोरणात्। नेहबोधितपञ्चशीलविषये यद्यस्ति वाञ्छा तव अध्यात्मज्ञानविवर्धिनीं सुरगिरं भ्रातर्भजेस्सत्वरम्।