सदस्यः:1931152ashwini.m.v

विकिस्रोतः तः

'डा || सत्यव्रतशास्त्रिमहोदयः'

प्राचीनकव्यः यथा सुरभारत्याः सेवां कृत्वा जन्मसार्थक्यं प्राप्नुवन् तथा अर्वाचीनाः कवयॊपि | तेषु मुकुटमणिरिव विराजते डा सत्यव्रतशास्त्रीमहोदयः | एतस्य जन्म कृ.श. १९३० तमे वर्षे सप्तेम्बर मासस्य एकोनत्रिंशत्तमे दिनाङ्के अविभाजितभारतस्यलाहोर् नगरे अभवत् | एतस्य पिता प्रो || चारुदेवशास्त्री माता च रामरखी | अनयोः दम्पत्योः द्वितीयपुत्रॊयम् | बाल्यादपि संस्कृतपरिसरे संवर्धितः एषः | पिता चारुदेवशास्त्रिमहोदयः महावैयाकरणः सन् 'अभिनवपाणिनिः' इत्येव प्रथितः | एषः महाभागः तस्मिन् काले एव राष्ट्रपतिपुरस्कारं पञ्जाबः सर्वकारस्य 'शिरोमणि संस्क्रुतसाहित्यं' प्रशस्तिं च अलभत | माता अपि सुशीला सर्वगुणसम्पन्ना सती संस्कृतभाषां सम्यक् ज्ञातवती आसीत् गृहे सर्वत्र संस्कृतभाषया व्यवहारः भवति स्म | एवं च गृहपरिसरः संस्कृतमयूभवत | अतः स्वाभाविकतया बालकस्य सत्यव्रतस्य हृदये संस्कृतभाषायां प्रीतिरजायत | सत्यव्रतशास्त्रीमहोदयस्य आरम्भिकविद्याभ्यासः पितृसमीपे सम्पन्नः | अनन्तरं वाराणस्यां अनेकविदुषां सन्निधौ विविधशास्त्राणि अधितवान् | अनितरसाधारणप्रतिभासम्पन्नः एषः सर्वत्र प्रथमस्यानेनालङ्क्रुतः सुवर्णपदकैश्च विभूषितः | पञ्जाबः विश्वविध्यालयद्वारा संस्कुते बि.ए. पदवी एम्.ए.पदवी च प्रथमश्रेण्या प्राप्तवान् | एतेन गवेषणं कृत्वा लिखितस्य "कान्सेप्ट् आफ़् टैम् एण्ड स्पेस् इन वाक्यपदीयम्" इति महाप्रबन्धस्य 'डाक्टर् आफ़् फ़िलासफ़ी' इत्युपाधिं दत्वा काशीविश्वविध्यालयः स्वगौरवं प्राकटयत् | शास्त्रिमहोदयस्य पत्नी उषा अपि संस्कृतविदुषी आसीत् | सापि संस्कृतेन महाप्रबनधं विलिख्य पि.एच्.डि. पदवि प्राप्तवती | अध्ययनान्तरं डा || सत्यव्रतशास्त्रीमहोदयः देहलि विश्वविध्यालये प्राध्यापकः, संस्कृत विभागप्रमुखः, कलासङ्काय प्रमुखश्च भूत्वा दायित्वं निरवहत् | उत्कलराज्ये पुरिजगन्नाथः विश्वविध्यालयस्य उपकुलपतिरभवत | बेङ्कोक् - बेलिजयम् - थाईलैण्ड - जर्मनी - केनडा - इण्डोनेशिया इत्यादिषु विदेशीयविश्वविध्यालयेषु अभ्यागताचार्यरूपेण कार्यम् अकरोत् |

"https://sa.wikisource.org/w/index.php?title=सदस्यः:1931152ashwini.m.v&oldid=268677" इत्यस्माद् प्रतिप्राप्तम्