सदस्यः:अनन्त तिवारी

विकिस्रोतः तः

यदा वयम् अध्यापकः इति शब्दं शृणुमः तदा तत्क्षणं पाठयिता ज्ञानप्रदाता इत्यादयः अर्थाः मनसि आगच्छन्ति । यः ज्ञानं प्रति प्रापयति नयति छात्रान् इति शास्त्रीयः अर्थः। अस्मिन् अर्थे द्विविधा प्रक्रिया दृश्यते शिक्षणम् अधिगमश्च। शिक्षणमध्यापकेन क्रियते, छात्रः अधिगमं करोति किन्तु न केवलं शिक्षणं यावत् अर्थात् सूचनाप्रदानमेव अध्यापकस्य कार्यम् अपितु प्राप्तसूचनानुसारं छात्राणां व्यवहारपरिवर्तनमपि भवेदिति साफल्यमध्यापकस्य । अयमेव अधिगमपदस्याप्याशयः। अतः शिक्षणतः आरभ्य अधिगमं यावत् का-का भूमिका अध्यापकस्येति ध्यातव्यम्। प्रक्रियायाः अनुशीलनं पश्चात् शिक्षाशास्त्रविद्भिः चतुस्स्वरूपं निर्धारितमध्यापकस्य -

• ज्ञानस्य विनियोजकः – शिक्षकः ज्ञानस्य विनियोजकः भवति । कथमिति चेत् यथा समाचरप्रपत्रेषु सर्वेषां कृते समानरीत्या सूचनाः विद्यमानाः भवन्ति, किन्तु सर्वे ये-ये पाठकाः भवन्ति ते-ते पृथक पृथक् रूपेण स्वीकुर्वन्ति । यतोहि तेषां कृते कश्चन विनियोजकः न भवति । किन्तु अध्यापकः छत्राणां कृते ज्ञानस्य विनियोजकः अर्थात सः ज्ञानं छात्रं च विशिष्टतया योजयति । विशिष्टता का- उन्मुखीकरणपूर्वकं विधिपूर्वकञ्च। सः छात्रान् निर्दिशति यत् किं? कदा ? कथं प्राप्तव्यम्? येन तेषां व्यावहारिकजीवनं सफलं भवेत् |


• आदर्श:-

श्लिष्टाक्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्यविशेषयुक्ता ।

यस्योभयं साधु स शिक्षकानां धुरि प्रतिष्ठापयितव्य एव ॥

श्लिष्टा क्रिया अर्थात् यः अध्यापकः मनसा वाचा कर्मणा एकत्वं निर्वहति तथा च सङ्क्रान्तिरन्यस्य विशेषयुक्ता अर्थात् मनसा वाचा कर्मणा एकरुपतां संस्थाप्य यः शिक्षकः यद् बूते तदाचरति, अपि च यत् आचरति तत् प्रभावात्मकरीत्या अन्यस्मै सम्प्रेषण अपि समर्थो भवति । सः आदर्शभूतः उत्तमः शिक्षकः भवति । छात्राः आचरन्तम् अध्यापकं दृष्ट्वा प्रभाविताः भवन्ति तत्सदृशं चेष्टन्ते च। अतः अध्यापक आदर्शस्थानं धारयति । उक्तञ्चापि गीतायाम् –

     यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । 
    स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।।

• सौविध्यकर्ता :- अध्यापकः न केवलं पथप्रदर्शक: भवति अपितु एकः शिक्षकः सर्वदा छात्राणां सौविध्यर्थं प्रयत्नशीलो भवति । अध्यापकस्य कृते प्रायः तिस्रः क्रिया: अनिवार्याः भवन्ति । यथा पूर्वयोजना , अन्तःक्रिया, आकलनम् एतासु सर्वासु क्रियासु छात्राणां स्तरस्य, मानसिकतायाः पाठ्यपुस्तकस्य च इत्यादीनाम् अवधानपूर्वक सारल्यं विधीयते अध्यापकेन |आधुनिके युगे अध्यापकस्य कार्यं सुगमीकरणमिति।

• सहाध्यायी:- यदि शिक्षकः कक्षायां केवलं निर्देशकरूपेण तटस्थतया आचरति चेत् छात्राः भयस्याथवा लज्जायाः वशाद् जिज्ञासां न प्रकटेयुः। अतः अध्यापकः सहाध्यायीवदपि आचरति ।शिक्षायाः उच्चस्तरे प्रायशः सहाध्यायी दृश्यते अध्यापकः। चिन्तनस्तरे ये छात्राः अध्ययनरताः भवन्ति, तेषां मस्तिष्के बह्व्यः परिकल्पनाः जिज्ञासाः वा समागच्छन्ति। तासां समाधानार्थं सहाध्यायीवदाचरति अध्यापकः

"https://sa.wikisource.org/w/index.php?title=सदस्यः:अनन्त_तिवारी&oldid=338088" इत्यस्माद् प्रतिप्राप्तम्