सत्सङ्गदीक्षा

विकिस्रोतः तः

प्रस्तावना स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः। सर्वेभ्यः परमां शान्तिम् आनन्दं सुखमर्पयेत्॥ १॥ देहोऽयं साधनं मुक्तेर्न भोगमात्रसाधनम्। दुर्लभो नश्वरश्चाऽयं वारंवारं न लभ्यते॥ २॥ लौकिको व्यवहारस्तु देहनिर्वाहहेतुकः। नैव स परमं लक्ष्यम् अस्य मनुष्यजन्मनः॥ ३॥ नाशाय सर्वदोषाणां ब्रह्मस्थितेरवाप्तये। कर्तुं भगवतो भक्तिम् अस्य देहस्य लम्भनम्॥ ४॥ सर्वमिदं हि सत्सङ्गाल्लभ्यते निश्चितं जनैः। अतः सदैव सत्सङ्गः करणीयो मुमुक्षुभिः॥ ५॥ सत्सङ्गः स्थापितस्तस्माद् दिव्योऽयं परब्रह्मणा। स्वामिनारायणेनेह साक्षादेवाऽवतीर्य च॥ ६॥ सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति। शास्त्रं सत्सङ्गदीक्षेति शुभाऽऽशयाद् विरच्यते॥ ७॥ सत्संगदीक्षानिरुक्तिः सत्यस्य स्वात्मनः सङ्गः सत्यस्य परमात्मनः। सत्यस्य च गुरोः सङ्गः सच्छास्त्राणां तथैव च॥ ८॥ विज्ञातव्यमिदं सत्यं सत्सङ्गस्य हि लक्षणम्। कुर्वन्नेवंविधं दिव्यं सत्सङ्गं स्यात् सुखी जनः॥ ९॥ दीक्षेति दृढसङ्कल्पः सश्रद्धं निश्चयोऽचलः। सम्यक् समर्पणं प्रीत्या निष्ठा व्रतं दृढाश्रयः॥ १०॥ शास्त्रेऽस्मिञ्ज्ञापिता स्पष्टम् आज्ञोपासनपद्धतिः। परमात्म-परब्रह्म-सहजानन्द-दर्शिता॥ ११॥ अधिकारिनिरूपणम् सत्सङ्गाऽधिकृतः सर्वे सर्वे सुखाऽधिकारिणः। सर्वेऽर्हा ब्रह्मविद्यायां नार्यश्चैव नरास्तथा॥ १२॥ नैव न्यूनाधिकत्वं स्यात् सत्सङ्गे लिङ्गभेदतः । स्वस्वमर्यादया सर्वे भक्त्या मुक्तिं समाप्नुयुः॥ १३॥ सर्ववर्णगताः सर्वा नार्यः सर्वे नरास्तथा। सत्सङ्गे ब्रह्मविद्यायां मोक्षे सदाऽधिकारिणः॥ १४॥ न न्यूनाऽधिकता कार्या वर्णाऽऽधारेण कर्हिचित्। त्यक्त्वा स्ववर्णमानं च सेवा कार्या मिथः समैः॥ १५॥ जात्या नैव महान् कोऽपि नैव न्यूनस्तथा यतः। जात्या क्लेशो न कर्तव्यः सुखं सत्सङ्गमाचरेत्॥ १६॥ सर्वेऽधिकारिणो मोक्षे गृहिणस्त्यागिनोऽपि च। न न्यूनाऽधिकता तत्र सर्वे भक्ता यतः प्रभोः॥ १७॥ समाश्रयणम् स्वामिनारायणेऽनन्य-दृढपरमभक्तये। गृहीत्वाऽऽश्रयदीक्षाया मन्त्रं सत्सङ्गमाप्नुयात्॥ १८॥ आश्रयदीक्षामन्त्रश्चैवंविधः - धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी। अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात्॥ १९॥ आश्रयेत् सहजानन्दं हरिं ब्रह्माऽक्षरं तथा। गुणातीतं गुरुं प्रीत्या मुमुक्षुः स्वात्ममुक्तये॥ २०॥ काष्ठजां द्विगुणां मालां कण्ठे सदैव धारयेत्। सत्सङ्गं हि समाश्रित्य सत्सङ्गनियमांस्तथा॥ २१॥ गुरुं ब्रह्मस्वरूपं तु विना न संभवेद् भवे। तत्त्वतो ब्रह्मविद्यायाः साक्षात्कारो हि जीवने॥ २२॥ नोत्तमो निर्विकल्पश्च निश्चयः परमात्मनः। न स्वात्मब्रह्मभावोऽपि ब्रह्माऽक्षरं गुरुं विना॥ २३॥ नैवाऽपि तत्त्वतो भक्तिः परमानन्दप्रापणम्। नाऽपि त्रिविधतापानां नाशो ब्रह्मगुरुं विना॥ २४॥ अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्। सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥ २५॥ नियमधर्म सर्वं दुर्व्यसनं त्याज्यं सर्वैः सत्सङ्गिभिः सदा। अनेकरोगदुःखानां कारणं व्यसनं यतः॥ २६॥ सुराभङ्गातमालादि यद् यद् भवेद्धि मादकम्। तद् भक्षयेत् पिबेन्नैव धूम्रपानमपि त्यजेत्॥ २७॥ परित्याज्यं सदा द्यूतं सर्वैः सर्वप्रकारकम्। त्यक्तव्यो व्यभिचारश्च नारीभिः पुरुषैस्तथा॥ २८॥ मांसं मत्स्यं तथाऽण्डानि भक्षयेयुर्न कर्हिचित्। पलाण्डुं लशुनं हिङ्गु न च सत्सङ्गिनो जनाः॥ २९॥ पातव्यं गालितं पेयं जलं दुग्धादिकं तथा। खाद्यं पानमशुद्धं यद् गृह्णीयाद् वस्तु तन्नहि॥ ३०॥ चौर्यं न कर्हिचित् कार्यं सत्सङ्गमाश्रितैर्जनैः। धर्मार्थमपि नो कार्यं चोरकार्यं तु कर्हिचित्॥ ३१॥ नैवाऽन्यस्वामिकं ग्राह्यं तदनुज्ञां विना स्वयम्। पुष्पफलाद्यपि वस्तु सूक्ष्मचौर्यं तदुच्यते॥ ३२॥ अहिंसा मनुष्याणां पशूनां वा मत्कुणादेश्च पक्षिणाम्। केषाञ्चिज्जीवजन्तूनां हिंसा कार्या न कर्हिचित्॥ ३३॥ अहिंसा परमो धर्मो हिंसा त्वधर्मरूपिणी। श्रुतिस्मृत्यादिशास्त्रेषु स्फुटमेवं प्रकीर्तितम्॥ ३४॥ यागार्थमप्यजादीनां निर्दोषाणां हि प्राणिनाम्। हिंसनं नैव कर्तव्यं सत्सङ्गिभिः कदाचन॥ ३५॥ यागादिके च कर्तव्ये सिद्धान्तं सांप्रदायिकम्। अनुसृत्य हि कर्तव्यं हिंसारहितमेव तत्॥ ३६॥ मत्वाऽपि यज्ञशेषं च वाऽपि देवनिवेदितम्। मांसं कदापि भक्ष्यं न सत्सङ्गमाश्रितैर्जनैः॥ ३७॥ कस्याऽपि ताडनं नैव करणीयं कदाचन। अपशब्दाऽपमानादि-सूक्ष्महिंसाऽपि नैव च॥ ३८॥ सत्ता-कीर्ति-धन-द्रव्य-स्त्री-पुरुषादिकाऽऽप्तये। मानेर्ष्याक्रोधतश्चाऽपि हिंसां नैव समाचरेत्॥ ३९॥ मनसा वचसा वाऽपि कर्मणा हिंसने कृते। तत्स्थितो दुःख्यते नूनं स्वामिनारायणो हरिः॥ ४०॥ आत्मघातोऽपि हिंसैव न कार्योऽतः कदाचन। पतनगलबन्धाद्यैर्विषभक्षादिभिस्तथा॥ ४१॥ दुःखलज्जाभयक्रोध-रोगाद्यापत्तिकारणात्। धर्माऽर्थमपि कश्चिद्धि हन्यान्न स्वं न वा परम्॥ ४२॥ तीर्थेऽपि नैव कर्तव्य आत्मघातो मुमुक्षुभिः। नैवाऽपि मोक्षपुण्याप्तिभावाद् कार्यः स तत्र च॥ ४३॥ रक्षणहारमहिमा भगवान् सर्वकर्ताऽस्ति दयालुः सर्वरक्षकः। स एव नाशकः सर्व-सङ्कटानां सदा मम॥ ४४॥ भगवान् कुरुते यद्धि हितार्थमेव तत्सदा। प्रारब्धं मे तदिच्छैव स एव तारको मम॥ ४५॥ नूनं नङ्क्ष्यन्ति मे विघ्नाः पापदोषाश्च दुर्गुणाः। नूनं प्राप्स्याम्यहं शान्तिमानन्दं परमं सुखम्॥ ४६॥ यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः। निश्चयेन तरिष्यामि दुःखजातं हि तद्बलात्॥ ४७॥ विचार्यैवं बलं रक्षेद् नाऽऽश्रितो निर्बलो भवेत्। आनन्दितो भवेन्नित्यं भगवद्बलवैभवात्॥ ४८॥ शुद्धिः ष्ठीवनं मलमूत्रादिविसर्जनं स्थलेषु च। शास्त्रलोकनिषिद्धेषु न कर्तव्यं कदाचन॥ ४९॥ शुद्धिः सर्वविधा पाल्या बाह्या चाऽऽभ्यन्तरा सदा। शुद्धिप्रियः प्रसीदेच्च शुद्धिमति जने हरिः॥ ५०॥ नित्यपूजा सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा। ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥ ५१॥ पूर्वस्यामुत्तरस्यां वा दिशि कृत्वा मुखं ततः। शुद्धाऽऽसनोपविष्टः सन् नित्यपूजां समाचरेत्॥ ५२॥ प्रभुपूजोपयुक्तेन चन्दनेनोर्ध्वपुण्ड्रकम्। भाले हि तिलकं कुर्यात् कुङ्कुमेन च चन्द्रकम् ॥ ५३॥ उरसि हस्तयोश्चन्द्रं तिलकं चन्दनेन च। स्वामिनारायणं मन्त्रं जपन् कुर्याद् गुरुं स्मरन्॥ ५४॥ केवलं चन्द्रकं स्त्रीभिः कर्तव्यं तिलकं नहि। कुङ्कुमद्रव्यतो भाले स्मरन्तीभिर्हरिं गुरुम्॥ ५५॥ ततो पूजाऽधिकाराय भक्तः सत्सङ्गमाश्रितः। कुर्यादात्मविचारं च प्रतापं चिन्तयन् हरेः॥ ५६॥ अक्षरमहमित्येव ं भक्त्या प्रसन्नचेतसा। पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥ ५७॥ अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्। कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥ ५८॥ हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ। तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥ ५९॥ स्थापयेच्चित्रमूर्तीश्च शुचिवस्त्रोपरि ततः। दर्शनं स्याद् यथा सम्यक् तथा हि भक्तिभावतः॥ ६०॥ मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ। स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥ ६१॥ प्रमुखस्वामिपर्यन्तं प्रत्येकगुरुमूर्तयः। प्रस्थाप्याः सेवितानां च प्रत्यक्षं मूर्तयः स्वयम्॥ ६२॥ आह्वानश्लोकमुच्चार्य हरिं च गुरुमाह्वयेत्। हस्तौ बद्ध्वा नमस्कारं कुर्याद्धि दासभावतः॥ ६३॥ आह्वानमन्त्रश्चैवंविधः - उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम। गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥ ६४॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ ६५॥ मालामावर्तयेद् मन्त्रं स्वामिनारायणं जपन्। महिम्ना दर्शनं कुर्वन् मूर्तीनां स्थिरचेतसा॥ ६६॥ एकपादोत्थितो भूत्वा मालाम् आवर्तयेत् ततः। तपस ऊर्ध्वहस्तः सन् कुर्वाणो मूर्तिदर्शनम्॥ ६७॥ ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्। व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥ ६८॥ साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः। नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥ ६९॥ प्रणामो दण्डवच्चैकः क्षमायाचनपूर्वकम्। भक्तद्रोहनिवारार्थं कार्योऽधिको हि प्रत्यहम्॥ ७०॥ दिव्यभावेन भक्त्या च तदनु प्रार्थयेज्जपन्। स्वामिनारायणं मन्त्रं शुभसङ्कल्पपूर्तये॥ ७१॥ भक्तितः पूजयित्वैवम् अक्षरपुरुषोत्तमम्। पुनरागममन्त्रेण प्रस्थापयेन्निजात्मनि॥ ७२॥ पुनरागमनमन्त्रश्चैवंविधः - भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥ ७३॥ ततः सत्सङ्गदार्ढ्याय शास्त्रं पठ्यं च प्रत्यहम्। आदेशाश्चोपदेशाश्च यत्र सन्ति हरेर्गुरोः॥ ७४॥ तदनु प्रणमेद् भक्तान् आदरान्नम्रभावतः। एवं पूजां समाप्यैव कुर्यात् स्वव्यावहारिकम्॥ ७५॥ भोज्यं नैव न पेयं वा विना पूजां जलादिकम्। प्रवासगमने चाऽपि पूजां नैव परित्यजेत्॥ ७६॥ वार्धक्येन च रोगाद्यैरन्याऽऽपद्धेतुना तथा। पूजार्थम् असमर्थश्चेत् तदाऽन्यैः कारयेत् स ताम्॥ ७७॥ स्वीयपूजा स्वतन्त्रा तु सर्वै रक्ष्या गृहे पृथक्। जन्मनो दिवसादेव पूजा ग्राह्या स्वसंततेः॥ ७८॥ गृहमन्दिरम् भक्तिप्रार्थनसत्सङ्गहेतुना प्रतिवासरम्। सुन्दरं मन्दिरं स्थाप्यं सर्वैः सत्सङ्गिभिर्गृहे॥ ७९॥ प्रस्थाप्यौ विधिवत् तस्मिन्नक्षरपुरुषोत्तमौ। गुरवश्च गुणातीता भक्त्या परम्परागताः॥ ८०॥ प्रातः प्रतिदिनं सायं सर्वैः सत्सङ्गिभिर्जनैः। आरार्तिक्यं विधातव्यं सस्तुति गृहमन्दिरे॥ ८१॥ उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः। सतालिवादनं गेयं स्थिरेण चेतसा तदा॥ ८२॥ यैव रसवती पक्वा मन्दिरे तां निवेदयेत्। उच्चार्य प्रार्थनं भक्त्या ततः प्रसादितं जमेत्॥ ८३॥ हरयेऽनर्प्य न ग्राह्यम् अन्नफलजलादिकम्। शुद्धौ शङ्कितमन्नादि नाऽद्यान्नेशे निवेदयेत्॥ ८४॥ कीर्तनं वा जपं कुर्याद् स्मृत्यादि वा यथारुचि। गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥ ८५॥ संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः। कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥ ८६॥ मन्दिर-उपासना शुद्धोपासनभक्तिं हि पोषयितुं च रक्षितुम्। भक्तिं मन्दिरनिर्माणरूपां प्रावर्तयद्धरिः॥ ८७॥ तथैवाऽऽज्ञापयामास सेवार्थं हरिणा सह। तस्य चोत्तमभक्तस्य तस्येवैवाऽक्षरस्य च॥ ८८॥ वर्तते उत्तमो भक्तो ब्रह्म भगवतोऽक्षरम्। नित्यं मायापरं नित्यं हरिसेवारतं यतः॥ ८९॥ मन्दिराणां हि निर्माणं तदाज्ञामनुसृत्य च। दिव्यानां क्रियते भक्त्या सर्वकल्याणहेतुना॥ ९०॥ पुरुषोत्तममूर्त्या तद्-मध्यखण्डे यथाविधि। सहितं स्थाप्यते मूर्तिरक्षरस्याऽपि ब्रह्मणः॥ ९१॥ एवमेव गृहाद्येषु कृतेषु मन्दिरेष्वपि। मध्ये प्रस्थाप्यते नित्यं साऽक्षरः पुरुषोत्तमः॥ ९२॥ प्रातः सायं यथाकालं सर्वसत्सङ्गिभिर्जनैः। निकटं मन्दिरं गम्यं भक्त्या दर्शाय प्रत्यहम्॥ ९३॥ यथा स्वधर्मरक्षा स्यात् तथैव वस्त्रधारणम्। सत्सङ्गिनरनारीभिः करणीयं हि सर्वदा॥ ९४॥ सत्सङ्गदृढतार्थं हि सभार्थमन्तिके स्थितम्। गन्तव्यं प्रतिसप्ताहं मन्दिरं वाऽपि मण्डलम्॥ ९५॥ उपासना-दर्शनम् स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः। परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥ ९६॥ स एकः परमोपास्य इष्टदेवो हि नः सदा। तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥ ९७॥ साक्षाद् ब्रह्माऽक्षरं स्वामी गुणातीतः सनातनम्। तस्य परम्पराऽद्याऽपि ब्रह्माऽक्षरस्य राजते॥ ९८॥ गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः। प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥ ९९॥ एक एवेष्टदेवो नः एक एव गुरुस्तथा। एकश्चैवाऽपि सिद्धान्त एवं न एकता सदा॥ १००॥ सिद्धान्तं सुविजानीयाद् अक्षरपुरुषोत्तमम्। ब्रह्मविद्यात्मकं दिव्यं वैदिकं च सनातनम्॥ १०१॥ जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा। परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥ १०२॥ नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः। स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥ १०३॥ तेषु मायापरौ नित्यम् अक्षरपुरुषोत्तमौ। जीवानामीश्वराणां च मुक्तिस्तद्योगतो भवेत्॥ १०४॥ परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा। ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥ १०५॥ प्रकटसाधना सर्वकर्ता च साकारः सर्वोपरि सदा हरिः। मुमुक्षूणां विमोक्षाय प्रकटो वर्तते सदा॥ १०६॥ ब्रह्माऽक्षरगुरुद्वारा भगवान् प्रकटः सदा। सहितः सकलैश्वर्यैः परमाऽऽनन्दमर्पयन्॥ १०७॥ प्रीतिः कार्याऽऽत्मबुद्धिश्च ब्रह्माऽक्षरे गुरौ दृढा। प्रत्यक्षभगवद्भावात् सेव्यो ध्येयः स भक्तितः॥ १०८॥ स्वामिनारायणमन्त्रनिरुक्ति-महिमा स्वामिनारायणो मन्त्रः दिव्यश्चाऽलौकिकः शुभः। जप्योऽयं सकलैर्भक्तैर्दत्तोऽयं हरिणा स्वयम्॥ १०९॥ अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीति शब्दतः। नारायणेति शब्देन तत्परः पुरुषोत्तमः॥ ११०॥ सिद्धान्तः स्वामिनारायणेनेह सिद्धान्तोऽयं प्रबोधितः। गुरुभिश्च गुणातीतैर्दिगन्तेऽयं प्रवर्तितः॥ १११॥ यज्ञपुरुषदासेन स्थापितो मूर्तिमत्तया। गुरुचरित्रग्रन्थेषु पुनरयं दृढायितः॥ ११२॥ प्रमुखगुरुणा योऽयं स्वीयाऽक्षरैः स्थिरीकृतः। साक्षाद् गुरोः प्रसङ्गेन लभ्यतेऽयं हि जीवने॥ ११३॥ अयमेव स सिद्धान्तो मुक्तिप्रदः सनातनः। उच्यते दर्शनं दिव्यम् अक्षरपुरुषोत्तमम्॥ ११४॥ सिद्धान्तं परमं दिव्यम् एतादृशं विचिन्तयन्। सत्सङ्गं निष्ठया कुर्याद् आनन्दोत्साहपूर्वकम्॥ ११५॥ निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्। विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥ ११६॥ सधर्मभक्तिःपर्वशुद्धिः अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा। धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥ ११७॥ भक्तिं वा ज्ञानमालम्ब्य नैवाऽधर्मं चरेज्जनः। अपि पर्वविशेषं वाऽऽलम्ब्य नाऽधर्ममाचरेत्॥ ११८॥ भङ्गासुरादिपानं वा द्यूतादिक्रीडनं तथा। गालिदानादिकं नैव पर्वस्वपि समाचरेत्॥ ११९॥ भक्त्युपयोगि-वैराग्यज्ञानादि परस्माद् ब्रह्मणोऽन्यस्मिन्नक्षराद् ब्रह्मणस्तथा। प्रीत्यभावो हि वैराग्यम् अङ्गं भक्तेः सहायकम्॥ १२०॥ निन्दालज्जाभयाऽऽपद्भ्यः सत्सङ्गं न परित्यजेत्। स्वामिनारायणं देवं तद्भक्तिं कर्हिचिद् गुरुम्॥ १२१॥ सेवा हरेश्च भक्तानां कर्तव्या शुद्धभावतः। महद्भाग्यं ममास्तीति मत्वा स्वमोक्षहेतुना॥ १२२॥ नेयो न व्यर्थतां कालः सत्सङ्गं भजनं विना। आलस्यं च प्रमादादि परित्याज्यं हि सर्वदा॥ १२३॥ कुर्याद्धि भजनं कुर्वन् क्रिया आज्ञाऽनुसारतः। क्रियाबन्धः क्रियाभारः क्रियामानस्ततो नहि॥ १२४॥ सेवया कथया स्मृत्या ध्यानेन पठनादिभिः। सुफलं समयं कुर्याद् भगवत्कीर्तनादिभिः॥ १२५॥ सत्सङ्गाश्रयहेतुः तत्पद्धतिश्च स्वदुर्गुणान् अपाकर्तुं संप्राप्तुं सद्गुणांस्तथा। सत्सङ्गाऽऽश्रयणं कार्यं स्वस्य परममुक्तये॥ १२६॥ प्रसन्नतां समावाप्तुं स्वामिनारायणप्रभोः। गुणातीतगुरूणां च सत्सङ्गमाश्रयेत् सदा॥ १२७॥ अहो इहैव नः प्राप्तावक्षरपुरुषोत्तमौ। तत्प्राप्तिगौरवान्नित्यं सत्सङ्गानन्दमाप्नुयात्॥ १२८॥ सेवाभक्तिकथाध्यानतपोयात्रादि साधनम्। मानतो दम्भतो नैव कार्यं नैवेर्ष्यया तथा॥ १२९॥ स्पर्धया द्वेषतो नैव न लौकिकफलेच्छया। श्रद्धया शुद्धभावेन कार्यं प्रसन्नताधिया॥ १३०॥ दृश्यो न मानुषो भावो भगवति तथा गुरौ। मायापरौ यतो दिव्यावक्षरपुरुषोत्तमौ॥ १३१॥ विश्वासो सुदृढीकार्यो भगवति तथा गुरौ। निर्बलत्वं परित्याज्यं धार्यं धैर्यं हरेर्बलम्॥ १३२॥ कार्यं लीलाचरित्राणां स्वामिनारायणप्रभोः। श्रवणं कथनं पाठो मननं निदिध्यासनम्॥ १३३॥ सत्पुरुषप्रसङ्गः प्रसङ्गः परया प्रीत्या ब्रह्माऽक्षरगुरोः सदा। कर्तव्यो दिव्यभावेन प्रत्यक्षस्य मुमुक्षुभिः॥ १३४॥ ब्रह्माऽक्षरे गुरौ प्रीतिर्दृढैवाऽस्ति हि साधनम्। ब्रह्मस्थितेः परिप्राप्तेः साक्षात्कारस्य च प्रभोः॥ १३५॥ ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये। ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥ १३६॥ मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा। कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥ १३७॥ निर्बलवार्तानिषेधसुहृद्भावादिसाधनानि शृणुयान्न वदेन्नाऽपि वार्तां हीनां बलेन च। बलपूर्णां सदा कुर्याद् वार्तां सत्सङ्गमास्थितः॥ १३८॥ वार्ता कार्या महिम्नो हि ब्रह्मपरमब्रह्मणोः। तत्सम्बन्धवतां चाऽपि सस्नेहमादरात् सदा॥ १३९॥ सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च। अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥ १४०॥ परमात्मपरब्रह्म-स्वामिनारायणप्रभोः। ब्रह्माऽक्षरस्वरूपस्य गुणातीतगुरोस्तथा॥ १४१॥ तदर्पितस्य दिव्यस्य सिद्धान्तस्य च सर्वदा। भक्तानां तच्छ्रितानां च पक्षो ग्राह्यो विवेकतः॥ १४२॥ आज्ञां भगवतो नित्यं ब्रह्मगुरोश्च पालयेत्। ज्ञात्वा तदनुवृत्तिं च तामेवाऽनुसरेद् दृढम्॥ १४३॥ तदाज्ञां पालयेत् सद्य आलस्यादि विहाय च। सानन्दोत्साहमाहात्म्यं तत्प्रसादधिया सदा॥ १४४॥ अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा। किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥ १४५॥ संप्राप्याऽक्षररूपत्वं भजेयं पुरुषोत्तमम्। प्रत्यहं चिन्तयेदेवं स्वीयलक्ष्यमतन्द्रितः॥ १४६॥ प्राप्तिः कर्ताऽयं सर्वहर्ताऽयं सर्वोपरि नियामकः। प्रत्यक्षमिह लब्धो मे स्वामिनारायणो हरिः॥ १४७॥ अत एवाऽस्मि धन्योऽहं परमभाग्यवानहम्। कृतार्थश्चैव निःशङ्को निश्चिन्तोऽस्मि सदा सुखी॥ १४८॥ एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्। प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥ १४९॥ देहत्रय-त्र्यवस्थातो ज्ञात्वा भेदं गुणत्रयात्। स्वात्मनो ब्रह्मणैकत्वं प्रतिदिनं विभावयेत्॥ १५०॥ प्रत्यहमनुसन्धेया जगतो नाशशीलता। स्वात्मनो नित्यता चिन्त्या सच्चिदानन्दरूपता॥ १५१॥ भूतं यच्च भवद्यच्च यदेवाऽग्रे भविष्यति। सर्वं तन्मे हितायैव स्वामिनारायणेच्छया॥ १५२॥ प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः। गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥ १५३॥ मानेर्ष्याकामक्रोधादि-दोषाऽऽवेगो भवेत् तदा। अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥ १५४॥ मया सह सदैवाऽस्ति सर्वदोषनिवारकः। स्वामिनारायणः साक्षाद् एवं बलं च धारयेत्॥ १५५॥ धर्मपालननिरूपणम् स्वधर्मं पालयेन्नित्यं परधर्मं परित्यजेत्। स्वधर्मो भगवद्गुर्वोराज्ञायाः परिपालनम्॥ १५६॥ तदाज्ञां यत् परित्यज्य क्रियते स्वमनोधृतम्। परधर्मः स विज्ञेयो विवेकिभिर्मुमुक्षुभिः॥ १५७॥ सत्सङ्गनियमाद् यद्धि विरुद्धं धर्मलोपकम्। फलदमपि नाऽऽचर्यं भवेद् यद् भक्तिबाधकम्॥ १५८ वाणीवर्तनादिसमादरः आदरेण प्रणामैश्च मधुरवचनादिभिः। यथोचितं हि सम्मान्या वृद्धा ज्ञानवयोगुणैः॥ १५९॥ सदैवाऽऽदरणीया हि विद्वद्वरिष्ठशिक्षकाः। यथाशक्ति च सत्कार्याः साधुवादादिकर्मणा॥ १६०॥ जनसंबोधनं कुर्याद् यथाकार्यगुणादिकम्। संवर्धयेत् तदुत्साहं यथाशक्ति सुकर्मसु॥ १६१॥ सत्यां वदेद् हितां चैव वदेद् वाणीं प्रियां तथा। मिथ्याऽऽरोप्योऽपवादो न कस्मिंश्चित् कर्हिचिज्जने॥ १६२॥ न वदेत् कुत्सितां वाचम् अपशब्दकलङ्किताम्। श्रोतृदुःखकरीं निन्द्यां कठोरां द्वेषगर्भिणीम्॥ १६३॥ असत्यं न वदेत् क्वापि वदेत् सत्यं हिताऽऽवहम्। सत्यमपि वदेन्नैव यत् स्यादन्याऽहिताऽऽवहम्॥ १६४॥ अन्याऽवगुणदोषादिवार्तां कदाऽपि नोच्चरेत्। तथाकृते त्वशान्तिः स्याद् अप्रीतिश्च हरेर्गुरोः॥ १६५॥ अत्यन्ताऽऽवश्यके नूनं परिशुद्धेन भावतः। सत्यप्रोक्तौ न दोषः स्याद् अधिकारवतां पुरः॥ १६६॥ आचारो वा विचारो वा तादृक् कार्यो न कर्हिचित्। अन्येषाम् अहितं दुःखं येन स्यात् क्लेशवर्धनम्॥ १६७॥ सुहृद्भावेन भक्तानां शुभगुणगणान् स्मरेत्। न ग्राह्योऽवगुणस्तेषां द्रोहः कार्यो न सर्वथा॥ १६८॥ सुखदुःखे स्थिरतादिगुणाः सुखे नोच्छृङ्खलो भूयाद् दुःखे नोद्वेगमाप्नुयात्। स्वामिनारायणेच्छातः सर्वं प्रवर्तते यतः॥ १६९॥ विवादः कलहो वाऽपि नैव कार्यः कदाचन। वर्तितव्यं विवेकेन रक्ष्या शान्तिश्च सर्वदा॥ १७०॥ वचने वर्तने क्वापि विचारे लेखने तथा। कठोरतां भजेन्नैव जनः कोऽपि कदाचन॥ १७१॥ कुटुम्बनियमाः सेवां मातुः पितुः कुर्याद् गृही सत्सङ्गमाश्रितः। प्रतिदिनं नमस्कारं तत्पादेषु निवेदयेत्॥ १७२॥ श्वशुरः पितृवत् सेव्यो वध्वा श्वश्रूश्च मातृवत्। स्वपुत्रीवत् स्नुषा पाल्या श्वश्र्वाऽपि श्वशुरेण च॥ १७३॥ संपाल्याः पुत्रपुत्र्यश्च सत्सङ्गशिक्षणादिना। अन्ये सम्बन्धिनः सेव्या यथाशक्ति च भावतः॥ १७४॥ गृहे हि मधुरां वाणीं वदेद् वाचं त्यजेत् कटुम्। कमपि पीडितं नैव प्रकुर्याद् मलिनाऽऽशयात्॥ १७५॥ मिलित्वा भोजनं कार्यं गृहस्थैः स्वगृहे मुदा। अतिथिर्हि यथाशक्ति संभाव्य आगतो गृहम्॥ १७६॥ मरणादिप्रसङ्गेषु कथाभजनकीर्तनम्। कार्यं विशेषतः स्मार्यो ह्यक्षरपुरुषोत्तमः॥ १७७॥ पुत्रीपुत्रात्मिका स्वस्य संस्कार्या संततिः सदा। सत्सङ्गदिव्यसिद्धान्तैः सदाचारैश्च सद्गुणैः॥ १७८॥ सत्सङ्गशास्त्रपाठाद्यैर्गर्भस्थामेव संततिम्। संस्कुर्यात् पूरयेन् निष्ठाम् अक्षरपुरुषोत्तमे॥ १७९॥ स्त्रीपुरुषमर्यादा कुदृष्ट्या पुरुषैर्नैव स्त्रियो दृश्याः कदाचन। एवमेव कुदृष्ट्या च स्त्रीभिर्दृश्या न पूरुषाः॥ १८०॥ स्वीयपत्नीतराभिस्तु रहसि वसनं सह। आपत्कालं विना क्वापि न कुर्युर्गृहिणो नराः॥ १८१॥ तथैव नहि नार्योऽपि तिष्ठेयुः स्वपतीतरैः। पुरुषैः साकमेकान्ते ह्यापत्तिसमयं विना॥ १८२॥ नरः समीपसम्बन्ध-हीनां स्त्रियं स्पृशेन्नहि। नैव स्पृशेत् तथा नारी तादृशं पुरुषान्तरम् ॥ १८३॥ आपत्कालेऽन्यरक्षार्थं स्पर्शे दोषो न विद्यते। अन्यथा नियमाः पाल्या अनापत्तौ तु सर्वदा॥ १८४॥ अश्लीलं यत्र दृश्यं स्याद् धर्मसंस्कारनाशकम्। नाटकचलचित्रादि तन्न पश्येत् कदाचन॥ १८५॥ मनुष्यो व्यसनी यः स्याद् निर्लज्जो व्यभिचारवान्। तस्य सङ्गो न कर्तव्यः सत्सङ्गमाश्रि तैर्जनैः॥ १८६॥ सङ्गश्चारित्र्यहीनायाः करणीयो नहि स्त्रियाः। स्त्रीभिः स्वधर्मरक्षार्थं पाल्याश्च नियमा दृढम्॥ १८७॥ न तादृक्छृणुयाद् वाचं गीतं ग्रन्थं पठेन्न च। पश्येन्न तादृशं दृश्यं यस्मात् कामविवर्धनम्॥ १८८॥ धनद्रव्यधरादिलोकव्यवहरणम् धनद्रव्यधरादीनाम् सदाऽऽदानप्रदानयोः। नियमा लेखसाक्ष्यादेः पालनीया अवश्यतः॥ १८९॥ प्रसङ्गे व्यवहारस्य सम्बन्धिभिरपि स्वकैः। लेखादिनियमाः पाल्याः सकलैराश्रितैर्जनैः॥ १९०॥ न कार्यो व्यवहारश्च दुष्टैर्जनैः सह क्वचित्। दीनजनेषु भाव्यं च सत्सङ्गिभिर्दयाऽन्वितैः॥ १९१॥ लौकिकं त्वविचार्यैव सहसा कर्म नाऽऽचरेत्। फलादिकं विचार्यैव विवेकेन तद् आचरेत्॥ १९२॥ लुञ्चा कदापि न ग्राह्या कैश्चिदपि जनैरिह। नैव कार्यो व्ययो व्यर्थः कार्यः स्वाऽऽयाऽनुसारतः॥ १९३॥ कर्तव्यं लेखनं सम्यक् स्वस्याऽऽयस्य व्ययस्य च। नियमाननुसृत्यैव प्रशासनकृतान् सदा ॥ १९४॥ स्वाऽऽयाद्धि दशमो भागो विंशोऽथवा स्वशक्तितः। अर्प्यः सेवाप्रसादार्थं स्वामिनारायणप्रभोः॥ १९५॥ स्वोपयोगाऽनुसारेण प्रकुर्यात् सङ्ग्रहं गृही। अन्नद्रव्यधनादीनां कालशक्त्यनुसारतः॥ १९६॥ अन्नफलादिभिश्चैव यथाशक्ति जलादिभिः। पालिताः पशुपक्ष्याद्याः संभाव्या हि यथोचितम्॥ १९७॥ धनद्रव्यधरादीनां प्रदानाऽऽदानयोः पुनः। विश्वासहननं नैव कार्यं न कपटं तथा॥ १९८॥ प्रदातुं कर्मकारिभ्यः प्रतिज्ञातं धनादिकम्। यथावाचं प्रदेयं तत् नोनं देयं कदाचन॥ १९९॥ नैव विश्वासघातं हि कुर्यात् सत्सङ्गमाश्रितः। पालयेद् वचनं दत्तं प्रतिज्ञातं न लङ्घयेत्॥ २००॥ शासकनियमाः प्रशास्ता पालयेद् धर्मान् नियता ये सुशासने। लोकानां भरणं पुष्टिं कुर्यात् संस्काररक्षणम्॥ २०१॥ स्वास्थ्यशिक्षणसंरक्षा-विद्युदन्नजलादिकैः। सुव्यवस्था विधातव्या सर्वाऽभ्युदयहेतुना॥ २०२॥ गुणसामर्थ्यरुच्यादि विदित्वैव जनस्य तु। तदुचितेषु कार्येषु योजनीयो विचार्य सः॥ २०३॥ देशकालनियमाः शक्या भगवतो यत्र भक्तिः स्वधर्मपालनम्। तस्मिन् देशे निवासो हि करणीयः सुखेन च॥ २०४॥ विद्याधनादिकं प्राप्तुं देशान्तरं गतेऽपि च। सत्सङ्गमादरात् तत्र कुर्यान्नियमपालनम्॥ २०५॥ यद्देशे हि स्ववासः स्यात् तद्देशनियमाश्च ये। सर्वथा पालनीयास्ते तत्प्रशासनसंमताः॥ २०६॥ संजाते देशकालादेर्वैपरीत्ये तु धैर्यतः। अन्तर्भजेत सानन्दम् अक्षरपुरुषोत्तमम्॥ २०७॥ आपत्काले तु सम्प्राप्ते स्वीयवासस्थले तदा। तं देशं हि परित्यज्य स्थेयं देशान्तरे सुखम्॥ २०८॥ विद्यार्थिनियमाः कार्यं बालैश्च बालाभिर्बाल्याद् विद्याऽभिप्रापणम्। दुराचारः कुसङ्गश्च त्याज्यानि व्यसनानि च॥ २०९॥ उत्साहाद् आदरात् कुर्यात् स्वाऽभ्यासं स्थिरचेतसा। व्यर्थतां न नयेत्कालं विद्यार्थी व्यर्थकर्मसु॥ २१०॥ बाल्यादेव दृढीकुर्यात् सेवाविनम्रतादिकम्। निर्बलतां भयं चाऽपि नैव गच्छेत् कदाचन॥ २११॥ बाल्यादेव हि सत्सङ्गं कुर्याद् भक्तिं च प्रार्थनाम्। कार्या प्रतिदिनं पूजा पित्रोः पञ्चाङ्गवन्दना॥ २१२॥ किशोरावस्थानियमाः विशेषसंयमः पाल्यः कौमार्ये यौवने तथा। अयोग्यस्पर्शदृश्याद्यास्त्याज्याः शक्तिविनाशकाः॥ २१३॥ सत्फलोन्नायकं कुर्याद् उचितमेव साहसम्। न कुर्यात् केवलं यद्धि स्वमनोलोकरञ्जकम्॥ २१४॥ नियतोद्यमकर्तव्ये नाऽऽलस्यम् आप्नुयात् क्वचित्। श्रद्धां प्रीतिं हरौ कुर्यात् पूजां सत्सङ्गमन्वहम्॥ २१५॥ कुसङ्गपरिचयस्तत्त्यागश्च सङ्गोऽत्र बलवाँल्लोके यथासङ्गं हि जीवनम्। सतां सङ्गम् अतः कुर्याद् कुसङ्गं सर्वथा त्यजेत्॥ २१६॥ कामाऽऽसक्तो भवेद् यो हि कृतघ्नो लोकवञ्चकः। पाखण्डी कपटी यश्च तस्य सङ्गं परित्यजेत्॥ २१७॥ हरेस्तदवताराणां खण्डनं विदधाति यः। उपास्तेः खण्डनं यश्च कुरुते परमात्मनः॥ २१८॥ साकृतिकं परब्रह्म मनुते यो निराकृति। तस्य सङ्गो न कर्तव्यस्तादृग्ग्रन्थान् पठेन्नहि॥ २१९॥ खण्डनं मन्दिराणां यो मूर्तीनां कुरुते हरेः। सत्याऽहिंसादिधर्माणां तस्य सङ्गं परित्यजेत् ॥ २२०॥ गुर्वाश्रयविरोधी यो वैदिकशास्त्रखण्डकः। भक्तिमार्गविरोधी स्यात् तस्य सङ्गं न चाऽऽचरेत्॥ २२१॥ बुद्धिमानपि लोके स्याद् व्यावहारिककर्मसु। न सेव्यो भक्तिहीनश्चेच्छास्त्रपारङ्गतोऽपि वा॥ २२२॥ श्रद्धामेव तिरस्कृत्य ह्याध्यात्मिकेषु केवलम्। पुरस्करोति यस्तर्कं तत्संगमाचरेन्नहि॥ २२३॥ सत्सङ्गेऽपि कुसङ्गो यो ज्ञेयः सोऽपि मुमुक्षुभिः। तत्संगश्च न कर्तव्यो हरिभक्तैः कदाचन॥ २२४॥ हरौ गुरौ च प्रत्यक्षे मनुष्यभावदर्शनः। शिथिलो नियमे यश्च न तस्य सङ्गमाचरेत्॥ २२५॥ भक्तेषु दोषदृष्टिः स्याद् अवगुणैकभाषकः। मनस्वी यो गुरुद्रोही न च तत्सङ्गमाचरेत्॥ २२६॥ सत्कार्यनिन्दको यश्च सच्छास्त्रनिन्दको जनः। सत्सङ्गनिन्दको यश्च तत्संगमाचरेन्नहि॥ २२७॥ वचनानां श्रुतेर्यस्य निष्ठाया भञ्जनं भवेत्। गुरौ हरौ च सत्सङ्गे तस्य सङ्गं परित्यजेत्॥ २२८॥ सत्सङ्गपरिचयः भवेद् यो दृढनिष्ठावान् अक्षरपुरुषोत्तमे। दृढभक्तिर्विवेकी च कुर्यात् तत्संगमादरात्॥ २२९॥ हरेर्गुरोश्च वाक्येषु शङ्का यस्य न विद्यते। विश्वासुर्बुद्धिमान् यश्च कुर्यात् तत्संगमादरात्॥ २३०॥ आज्ञायाः पालने नित्यं सोत्साहं तत्परो दृढः। निर्मानः सरलो यश्च कुर्यात् तत्संगमादरात्॥ २३१॥ हरेर्गुरोश्चरित्रेषु दिव्येषु मानुषेषु यः। सस्नेहं दिव्यतादर्शी कुर्यात् तत्संगमादरात्॥ २३२॥ तत्परोऽन्यगुणग्राहे विमुखो दुर्गुणोक्तितः। सुहृद्भावी च सत्सङ्गे कुर्यात् तत्संगमादरात्॥ २३३॥ लक्ष्यं यस्यैकमात्रं स्याद् गुरुहरिप्रसन्नता। आचारेऽपि विचारेऽपि कुर्यात् तत्संगमादरात्॥ २३४॥ पठनविवेकः स्वसंप्रदायग्रन्थानां यथाशक्ति यथारुचि। संस्कृते प्राकृते वाऽपि कुर्यात् पठनपाठने॥ २३५॥ स्वामिवार्ताः पठेन्नित्यं तथैव वचनामृतम्। गुणातीतगुरूणां च चरितं भावतः पठेत्॥ २३६॥ उपदेशाश्चरित्राणि स्वामिनारायणप्रभोः। गुणातीतगुरूणां च सत्सङ्गिनां हि जीवनम्॥ २३७॥ अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्। महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥ २३८॥ सांप्रदायिकसिद्धान्त-बाधकरं हि यद् वचः। पठ्यं श्रव्यं न मन्तव्यं संशयोत्पादकं च यत्॥ २३९॥ चातुर्मासनियमाः स्वामिनारायणे भक्तिं परां दृढयितुं हृदि। गुरुहरेः समादेशाच्चातुर्मास्ये व्रतं चरेत्॥ २४०॥ चान्द्रायणोपवासादिर्मन्त्रजपः प्रदक्षिणाः। कथाश्रुतिर्दण्डवच्च प्रणामा अधिकास्तदा॥ २४१॥ इत्येवमादिरूपेण श्रद्धया प्रीतिपूर्वकम्। हरिप्रसन्नतां प्राप्तुं विशेषां भक्तिमाचरेत्॥ २४२॥ सम्प्रदायस्य शास्त्राणाम् पठनं पाठनं तदा। यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥ २४३॥ उत्सवाः सर्वैः सत्सङ्गिभिः कार्याः प्रीतिं वर्धयितुं हरौ। उत्सवा भक्तिभावेन हर्षेणोल्लासतस्तथा॥ २४४॥ जन्ममहोत्सवा नित्यं स्वामिनारायणप्रभोः। ब्रह्माऽक्षरगुरूणां च कर्तव्या भक्तिभावतः॥ २४५॥ हरेर्गुरोर्विशिष्टानां प्रसङ्गानां दिनेषु च। सत्सङ्गिभिर्यथाशक्ति कार्याः पर्वोत्सवा जनैः॥ २४६॥ सवाद्यं कीर्तनं कार्यं पर्वोत्सवेषु भक्तितः। महिम्नश्च कथावार्ता करणीया विशेषतः॥ २४७॥ सर्वसम्प्रदायसमादरः चैत्रशुक्लनवम्यां हि कार्यं श्रीरामपूजनम्। कृष्णाऽष्टम्यां तु कर्तव्यं श्रावणे कृष्णपूजनम्॥ २४८॥ शिवरात्रौ हि कर्तव्यं पूजनं शङ्करस्य च। गणेशं भाद्रशुक्लायां चतुर्थ्यां पूजयेत् तथा॥ २४९॥ मारुतिम् आश्विने कृष्ण-चतुर्दश्यां हि पूजयेत्। मार्गे मन्दिरसंप्राप्तौ तद्देवं प्रणमेद् हृदा॥ २५०॥ विष्णुश्च शङ्करश्चैव पार्वती च गजाननः। दिनकरश्च पञ्चैता मान्याः पूज्या हि देवताः॥ २५१॥ निष्ठादृढता समादरश्च परिरक्षेद् दृढां निष्ठाम् अक्षरपुरुषोत्तमे। तथाऽपि नैव कर्तव्यं देवताऽन्तरनिन्दनम्॥ २५२॥ धर्मा वा संप्रदाया वा येऽन्ये तदनुयायिनः। न ते द्वेष्या न ते निन्द्या आदर्तव्याश्च सर्वदा॥ २५३॥ मन्दिराणि च शास्त्राणि सन्तस्तथा कदाचन। न निन्द्यास्ते हि सत्कार्या यथाशक्ति यथोचितम्॥ २५४॥ व्रततपोनियमाः संयमनोपवासादि यद्यत्तपः समाचरेत्। प्रसादाय हरेस्तत्तु भक्त्यर्थमेव केवलम्॥ २५५॥ एकादश्या व्रतं नित्यं कर्तव्यं परमादरात्। तद्दिने नैव भोक्तव्यं निषिद्धं वस्तु कर्हिचित्॥ २५६॥ उपवासे दिवानिद्रां प्रयत्नतः परित्यजेत्। दिवसनिद्रया नश्येद् उपवासात्मकं तपः॥ २५७॥ स्वामिनारायणेनेह स्वयं यद्धि प्रसादितम्। गुरुभिश्चाऽक्षरब्रह्म-स्वरूपैर्यत् प्रसादितम्॥ २५८॥ यात्रा तेषां स्थानविशेषाणां यात्रां कर्तुं य इच्छति। तद्यात्रां स जनः कुर्याद् यथाशक्ति यथारुचि॥ २५९॥ अयोध्यां मथुरां काशीं केदारं बदरीं व्रजेत्। रामेश्वरादि तीर्थं च यथाशक्ति यथारुचि॥ २६०॥ मन्दिरमर्यादा मर्यादा पालनीयैव सर्वैर्मन्दिरमागतैः। नार्यो नैव नरैः स्पृश्या नारीभिश्च नरास्तथा॥ २६१॥ नियममनुसृत्यैव सत्सङ्गस्य तु मन्दिरे। वस्त्राणि परिधेयानि स्त्रीभिः पुम्भिश्च सर्वदा॥ २६२॥ गच्छेद् यदा दर्शनार्थं भक्तजनो हरेर्गुरोः। रिक्तेन पाणिना नैव गच्छेत् तदा कदाचन॥ २६३॥ ग्रहणनियमाः आदित्यचन्द्रयोर्ग्राहकाले सत्सङ्गिभिः समैः। परित्यज्य क्रियाः सर्वाः कर्तव्यं भजनं हरेः॥ २६४॥ निद्रां च भोजनं त्यक्त्वा तदैकत्रोपविश्य च। कर्तव्यं ग्राहमुक्त्यन्तं भगवत्कीर्तनादिकम्॥ २६५॥ ग्राहमुक्तौ सवस्त्रं हि कार्यं स्नानं समैर्जनैः। त्यागिभिश्च हरिः पूज्यो देयं दानं गृहस्थितैः॥ २६६॥ जन्ममरणसूतकम् जन्मनो मरणस्याऽपि विधयः सूतकादयः। सत्सङ्गरीतिमाश्रित्य पाल्याः श्राद्धादयस्तथा॥ २६७॥ प्रायश्चित्तमनुष्ठेयं जाते त्वयोग्यवर्तने। परमात्मप्रसादार्थं शुद्धेन भावतस्तदा॥ २६८॥ आपत्कालनियमाः आपत्काले तु सत्येव ह्यापदो धर्ममाचरेत्। अल्पापत्तिं महापत्तिं मत्वा धर्मं न संत्यजेत्॥ २६९॥ आपत्तौ कष्टदायां तु रक्षा स्वस्य परस्य च। यथैव स्यात् तथा कार्यं रक्षता भगवद्बलम्॥ २७०॥ आपत्तौ प्राणनाशिन्यां प्राप्तायां तु विवेकिना। गुर्वादेशाऽनुसारेण प्राणान् रक्षेत् सुखं वसेत्॥ २७१॥ सत्सङ्गरीतिमाश्रित्य गुर्वादेशाऽनुसारतः। परिशुद्धेन भावेन सर्वैः सत्सङ्गिभिर्जनैः॥ २७२॥ देशं कालमवस्थां च स्वशक्तिमनुसृत्य च। आचारो व्यवहारश्च प्रायश्चित्तं विधीयताम्॥ २७३॥ जीवनम् उन्नतिं याति धर्मनियमपालनात्। अन्यश्चाऽपि सदाचारपालने प्रेरितो भवेत्॥ २७४॥ भूतप्रेतादिभयनिवारणम् भूतप्रेतपिशाचादेर्भयं कदापि नाऽऽप्नुयात्। ईदृक्शङ्काः परित्यज्य हरिभक्तः सुखं वसेत्॥ २७५॥ शुभाऽशुभप्रसङ्गेषु महिमसहितं जनः। पवित्रां सहजानन्द-नामावलिं पठेत् तथा॥ २७६॥ कालो वा कर्म वा माया प्रभवेन्नैव कर्हिचित्। अनिष्टकरणे नूनं सत्सङ्गाऽऽश्रयशालिनाम्॥ २७७॥ अयोग्यविषयाश्चैवम् अयोग्यव्यसनानि च। आशङ्काः संपरित्याज्याः सत्सङ्गमाश्रितैः सदा॥ २७८॥ नैव मन्येत कर्तृत्वं कालकर्मादिकस्य तु। मन्येत सर्वकर्तारम् अक्षरपुरुषोत्तमम्॥ २७९॥ विपत्तिषु धरेद्धैर्यं प्रार्थनं यत्नमाचरेत्। भजेत दृढविश्वासम् अक्षरपुरुषोत्तमे॥ २८०॥ त्यागाश्रमनियमाः त्यागाऽऽश्रमेच्छुना दीक्षा ग्राह्या ब्रह्माऽक्षराद् गुरोः। ब्रह्मचर्यं सदा सर्वैः पाल्यं त्यागिभिरष्टधा॥ २८१॥ धनं तु त्यागिभिस्त्याज्यं रक्ष्यं स्वीयतया न च। स्पृश्यं नैवाऽपि वित्तं च त्यागिभिस्तु कदाचन॥ २८२॥ त्यागिभिः प्रीतिवृद्ध्यर्थम् अक्षरपुरुषोत्तमे। निष्कामत्वं सदा धार्यं निर्लोभत्वं सदैव च॥ २८३॥ निःस्वादत्वं सदा धार्यं निःस्नेहत्वं तथैव च। निर्मानत्वं सदा धार्यम् अन्ये च त्यागिनो गुणाः॥ २८४॥ स्वाऽऽत्मब्रह्मैकतां प्राप्य स्वामिनारायणो हरिः। सर्वदा भजनीयो हि त्यागिभिर्दिव्यभावतः॥ २८५॥ त्यागो न केवलं त्यागस्त्यागो भक्तिमयस्त्वयम्। परित्यागो ह्ययं प्राप्तुम् अक्षरपुरुषोत्तमम्॥ २८६॥ आज्ञोपासनसिद्धान्ताः सर्वजीवहितावहाः। दुःखविनाशका एते परमसुखदायकाः॥ २८७॥ उपसंहारः एतच्छास्त्रानुसारेण यः प्रीत्या श्रद्धया जनः। आज्ञोपासनयोर्दार्ढ्यं प्रकुर्यात् स्वस्य जीवने॥ २८८॥ हरेः प्रसन्नतां प्राप्य तत्कृपाभाजनो भवेत्। जीवन्नेव स्थितिं ब्राह्मीं शास्त्रोक्तामाप्नुयात् स च॥ २८९॥ धर्मैकान्तिकसंसिद्धिम् आप्नुते दिव्यमक्षरम्। शाश्वतं भगवद्धाम मुक्तिमात्यन्तिकीं सुखम्॥ २९०॥ अक्षरब्रह्मसाधर्म्यं संप्राप्य दासभावतः। पुरुषोत्तमभक्तिर्हि मुक्तिरात्यन्तिकी मता॥ २९१॥ संक्षिप्याऽत्र कृतं ह्येवम् आज्ञोपासनवर्णनम्। तद्विस्तरं विजानीयात् सांप्रदायिकशास्त्रतः॥ २९२॥ एतत्सत्संगदीक्षेति शास्त्रस्य प्रतिवासरम्। कार्यः सत्सङ्गिभिः पाठ एकाग्रचेतसा जनैः॥ २९३॥ पठने चाऽसमर्थैस्तु श्रव्यं तत् प्रीतिपूर्वकम्। आचरितुं च कर्तव्यः प्रयत्नः श्रद्धया तथा॥ २९४॥ परमात्मा परं ब्रह्म स्वामिनारायणो हरिः। सिद्धान्तं स्थापयामास ह्यक्षरपुरुषोत्तमम्॥ २९५॥ गुरवश्च गुणातीताश्चक्रुस्तस्य प्रवर्तनम्। विरचितमिदं शास्त्रं तत्सिद्धान्ताऽनुसारतः॥ २९६॥ कृपयैवाऽवतीर्णोऽत्र मुमुक्षुमोक्षहेतुना। परब्रह्म दयालुर्हि स्वामिनारायणो भुवि॥ २९७॥ सकलाऽऽश्रितभक्तानां योगक्षेमौ तथाऽवहत्। व्यधात् स द्विविधं श्रेय आमुष्मिकं तथैहिकम्॥ २९८॥ शुभाशिषः सर्वत्रैवाऽभिवर्षन्तु सदा दिव्याः कृपाऽऽशिषः। परमात्मपरब्रह्मस्वामिनारायणप्रभोः॥ २९९॥ सर्वेषां सर्वदुःखानि तापत्रयमुपद्रवाः। क्लेशास्तथा विनश्येयुरज्ञानं संशया भयम्॥ ३००॥ भगवत्कृपया सर्वे स्वास्थ्यं निरामयं सुखम्। प्राप्नुवन्तु परां शान्तिं कल्याणं परमं तथा॥ ३०१॥ न कश्चित् कस्यचित् कुर्यात् द्रोहं द्वेषं तथा जनः। सेवन्तामादरं सर्वे सर्वदैव परस्परम्॥ ३०२॥ सर्वेषां जायतां प्रीतिर्दृढा निष्ठा च निश्चयः। विश्वासो वर्धतां नित्यम् अक्षरपुरुषोत्तमे॥ ३०३॥ भवन्तु बलिनः सर्वे भक्ताश्च धर्मपालने। आप्नुयुः सहजानन्दपरात्मनः प्रसन्नताम्॥ ३०४॥ प्रशान्तैर्जायतां युक्तो मनुष्यैर्धर्मशालिभिः। संसारः साधनाशीलैरध्यात्ममार्गसंस्थितैः॥ ३०५॥ ऐक्यं मिथः सुहृद्भावो मैत्री कारुण्यमेव च। सहनशीलता स्नेहः सर्वजनेषु वर्धताम्॥ ३०६॥ सत्सङ्गे दिव्यसम्बन्धाद् ब्रह्मणः परब्रह्मणः। सर्वेषां जायतां दार्ढ्यं निर्दोषदिव्यभावयोः॥ ३०७॥ अक्षररूपतां सर्वे संप्राप्य स्वात्मनि जनाः। प्राप्नुयुः सहजानन्दे भक्तिं हि पुरुषोत्तमे॥ ३०८॥ समाप्तिमङ्गलम् माघस्य शुक्लपञ्चम्याम् आरब्धमस्य लेखनम्। पवित्रे विक्रमाब्दे हि रसर्षिखद्विसंमिते॥ ३०९॥ चैत्रशुक्लनवम्यां च स्वामिनारायणप्रभोः। तच्च संपूर्णतां प्राप्तं दिव्यजन्ममहोत्सवे॥ ३१०॥ उपास्यसहजानन्द-हरये परब्रह्मणे। मूलाऽक्षरगुणातीतानन्दाय स्वामिने तथा॥ ३११॥ भगतजीमहाराज-साक्षाद्विज्ञानमूर्तये। यज्ञपुरुषदासाय सत्यसिद्धान्तरक्षिणे॥ ३१२॥ वात्सल्याऽऽर्द्राऽऽत्मने नित्यम् आनन्दब्रह्मयोगिने। विश्ववन्द्यविनम्राय गुरवे प्रमुखाय च॥ ३१३॥ अञ्जलिः शास्त्ररूपोऽयं सानन्दं भक्तिभावतः। अर्प्यते प्रमुखस्वामि-जन्मशताब्दिपर्वणि॥ ३१४॥ तनोतु सकले विश्वे परमानन्दमङ्गलम्। स्वामिनारायणः साक्षाद् अक्षरपुरुषोत्तमः॥ ३१५॥ इति परब्रह्मस्वामिनारायणप्रबोधिताऽऽज्ञोपासनसिद्धान्तनिरूपकं प्रकटब्रह्मस्वरूपश्रीमहन्तस्वामिमहाराजैः स्वहस्ताऽक्षरैर्गुर्जरभाषया लिखितं महामहोपाध्यायेन साधुभद्रेशदासेन च संस्कृतश्लोकेषु निबद्धं सत्सङ्गदीक्षेति शास्त्रं सम्पूर्णम्।

"https://sa.wikisource.org/w/index.php?title=सत्सङ्गदीक्षा&oldid=368117" इत्यस्माद् प्रतिप्राप्तम्