सङ्गीतसारसंग्रहः
सङ्गीतसारसंग्रहः [[लेखकः :|]] |
श्रीश्रीगौरगदाधरौ विजयेताम्
श्रीसङ्गीतसारसंग्रहः
प्रथमोऽध्यायः
गीताप्रकरणम्
श्रीकृष्णाय नमः ।
श्रीगोविन्दं प्रणम्यादौ गीतज्ञसुखहेतवे ।
संक्षेपादत्र वक्ष्ये ऽहं सङ्गीतसारसंग्रहम् ॥१
अथ सङ्गीतोत्पत्तिमाह
पुरा चतुर्णां वेदानां सारमाकृष्य पद्मभूः ।
इदन्तु पञ्चमं वेदं सङ्गीताख्यमकल्प्यत॥२
कस्मात्किं जातमित्याह
ऋग्भ्यः पाठ्(अ)(र)मभूद्गीतं सामभ्यः समपद्यत ।
यजुर्भ्योऽभिनया जाता रसश्चाथर्वणाः स्मृताः ॥३
सम्प्रदायशुद्धिमाह
ब्रह्मेशतन्दिभरतदुर्गोनारदकोहलाः ।
दशास्यवायुरम्भोद्याः सङ्गीतस्य प्रचारकाः ॥४
प्राशस्त्यमाह
श्रुतिस्मृत्यादिसाहित्यनानाशस्त्रविदो ऽपि च ।
सङ्गीतं ये न जानन्ति ते द्विपादो मृगाः स्मृतः ॥५
सङ्गीतदामोदरे
सङ्गीतकेन रम्येण सुखं यस्य न चेतसि ।
मनुष्यवृषभो लोके विधिनैव स वञ्चितः ॥६
प्रयोजनमाह
त्रिवर्गफलदाः सर्वे दानयज्ञस्तवादयः ।
एकं सङ्गीतविज्ञानं चतुर्वर्गफलप्रदम् ॥७
दामोदरे
परमानन्दविवर्द्धनं (?) अभिमतफलदं वशिकरणम् ।
सकलजनचित्तहरणं (?) विमुक्तिवीजं परं गीतम् ॥८
किं स्वरूपमेतदित्याह सङ्गीतपारिजाते
गीतवादित्रनृत्यानां त्रयं सङ्गीतमुच्यते ।
गानस्यत्र प्रधानत्वात्तत्सङ्गीतमितीरितम् ॥९
शिरोमणौ
गीतं वाद्यञ् च नृत्यञ् च त्रयं सण्गीतमुच्यते ।
गीतवाद्ये उभे गव सङ्गीतमिति केचन ॥
तत्()तिर्य्यङ्नरदेवादिम्नोहारि प्रकीर्त्तितम् ॥१० इति
दामोदरे
गीतेन हरिण वन्धं प्राप्नुवन्त्यपि पक्ष्णः ।
वलादायान्ति फणिनः शिशवो न रुदन्ति च ॥११
पारिजाते ऽपि
दोलायां शयितो बालो रुदन्नास्ते यदा क्वचित।
तदा गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते ॥१२
मृगः सो ऽपि तृणाहरो विचरन्नटवीं तदा ।
लुब्धकादापि सङ्गीत श्रुत्वा प्राणान्प्रपद्यते ॥१३
क्रुद्धो विषं वमन्सर्पः फणामान्दोलयन्मुहुः ।
गानं जाङ्गलिकात्श्रुत्वा हर्षोत्कर्षं प्रपद्यते ॥१४
विष्णुपुराणे ऽपि
काव्यालापाश्च ये केचिद्गीतकान्याखिलानि च ।
शब्दमूर्त्(?)तिधरस्यैते विष्णोरंशा (?) महात्मनः ॥१५
तत्रापि
देवस्य मानवो गानं वाद्यं नृत्यं मतं प्रीतः ।
कुर्य्याद्विष्णोः प्रसादार्थमिति शास्त्रे प्रकीर्त्(त्)इतम् ॥१६
नाहं वसामि वैकुन्(?)ठे योगिनो हृदये न वै ।
मद्भक्ता यत्र गीयन्ति तत्र तिष्ठामि नारद ॥ १७
(भागवत ११।२।३९)
शृण्वन्सुभद्राणि रथाङ्गपाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
गायन्न(?)लज्जो विचरेदसङ्गः ॥१८
विष्णुनामानि पुण्यानि सुस्वरै(र?)रचितानि चेत।
भवन्ति सामतुल्यानि कीर्तितानि मनीषिभिः ॥१९
अथ सङ्गीतद्वैविध्यमाह (सङ्गीतसारे)
मार्गदेशीविभेदेन सङ्गीतं भवति द्विधा ।
स्वर्गे मार्गाश्रितं देश्याश्रितं भूतलेरञ्जितम् ॥२०
पारिजाते
मार्गदेशीयभेदेन द्वेधा सङ्गीतमुच्यते ।
वेधा मार्गाख्यसङ्गीतं भरतायाब्रवीत्(अव्रवीत्?) स्वयम् ॥२१
ब्रह्मणो ऽधीत्य भरतः सङ्गीतं मार्गसंज्ञितम् ।
अप्सरोभिश्च गन्धर्वैः शम्भोरग्र प्रयुक्तवान॥२२ इति
तद्देशीयमिति प्राहुः सङ्गीतं देशभेदतः ॥२३
तत्र प्रथमतोद्दिष्टत्वेन गीतस्य वक्ष्यमाणतया नादं विना तदनुपपत्तेः प्रथमं नादमाह । तदुक्तं
न नादेन विना गीतं न नादेन विना स्वरः ।
न नादेन विना रागस्तस्मान्नादात्मकं जगत॥२४
न नादेन विना ज्ञानं न नादेन विना शिवः
नादरूपं परं ज्योतिर्नादरूपी स्वयं हरिः ॥२५
तत्र च आञ्जनेयः
नादाब्धेस्तु परं पारं न जानाति सरस्वती ।
अद्यापि मज्जनभयात्तुम्वं (?) वहति वक्षसि ॥२६
तदुद्पत्तिप्रकारमाह
आत्मा विवक्ष्यमाणो ऽयं मनः प्रेरयते यतः ।
देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥२७
[ तथाहि सङ्गीत्सारे ]
नकारः प्राण्वायुः स्यद्दकारो हव्यवाहनः ।
ताभ्यामुत्पद्यते यस्मात्तस्मान्नादो ऽयमुच्यते ॥२८
व्यवहारे त्वसौ नादः प्रोच्यते त्रिविधो बुधैः (वुधैः?) ।
मन्द्रो हृदिस्थितः (?) कण्ठे मध्यस्तारश्च मुर्धनि ।
द्विगुणः किल मानेन पूर्वस्मदुत्तरोत्तरः ॥२९
कोहालीये तु
आहतो ऽनाहतश्चेति स नादो द्विविधो मतः ।
यत्रोभयश्च संयोगः आहतः स प्रकीर्त्(त्)इतः ॥३०
आकाशसम्भवो नादस्तथानाहत उच्यते ।
आहतं नादमाकृष्य तथानाहत्संज्ञकात॥
तं नादं सप्तधाकार्षित्तथा षड्जादिभिः स्वरः ॥३१। इति
वस्तुतस्तु (सङ्गीतमुक्तावल्यां)(?)
आकाशाग्नि मरुज्जातो नाभेरुर्द्ध्वं समुच्चिरन।
मुखे ऽभिव्यक्तिमायाति यः स नादः प्रकीर्त्तितः ॥३२
स च प्राणिभवे ऽप्रणिभवश्चोभयसन्भवः ।
आद्यः कायभवो वीणासम्भवस्तु द्वितीयकः ॥३३
ततीयश्चापि वंशादिसम्भवः स त्रिधा मतः ॥३४। इति
अथ गीतं [तल्लक्षणन्त्वाचार्य्याणां (?) मतभेदाद्बहुधा, तत्रापि बहुसंमतमेवोच्यते] सङ्गीतसारे
गीतं रञ्जकं धातुमातुसहितमिति ।
गीतस्यावयवो धातुरागादिर्मातुरुच्यते ॥ ३४
सङ्गीतकौमुद्यां रागैर्विरचितं गीतमिति ॥ (?)
गीतप्रकाशे तु रञ्जकस्वरसमुह सन्धर्भे गीतमिति ॥३५
वस्तुतस्तु नारदसंहितायाम्
धतुमातुसमायुक्तं गीतमित्यभिधीयते ।
तत्र नादात्मकं गेयं धतुरित्यभिधीते ॥३६
गुणादिधारणाद्धतुर्गीतावयव एव सः ।
गुणालङ्कारवाक्येषु रञ्जनै कौजस्विता यदि (?)।
मातुः स गदितस्तज्ज्ञै मानवसप्रमोदनात॥३७
ऽनादात्मकमिति नाद एवात्मा स्वरूपं यस्य । अत्र नादपदे नादजन्यानां श्रुतिस्वराणांऽ ग्रहणम् । यदुक्तं (?)
नादाच्च श्रुतयो जातास्ताभ्यः षड्जादयः स्वरः ।
तेभ्यः स्युर्मूर्च्छनास्ताभ्यस्तालाख्या ग्राम्सम्भ्वाः ॥३८। इति
तत्र च
नादश्रुतिस्वरग्राममूर्च्छनातालवर्ण्काः ।
स्वरां ग्रहाशन्यासाख्य जातिश्वेति क्रमादिह ॥३९
ग्रहस्वरो ऽम्शस्वरो न्यासस्वरश्चेति । तत्र नाद उक्तः ।
अथ श्रुतयः
स नादः श्रुतयो द्वाविंशतिः स्यन्मारुताहतः ।
द्वाविंशतिस्तिर्यगुर्ध्वा नाभ्यो हृदयमाश्रिताः ॥४०
ता यावत्यस्तु तावय्त्यः श्रुतयः परिकीर्त्तितः ।
क्रमादुच्चोच्चतायुक्ता वीणादावेव लक्षितः ।
कफादिदुष्टे कण्ठे यत्तासां व्यक्तिर्न जायते ॥४१
ताश्च
चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मतः ।
ऋषभे धैवते तिस्रो द्वे गान्धारे निषादके ॥४२
किं नामिकास्ता इत्यह
नान्दी विशाला सुमुखी विचित्रा षड्जाः स्म्र्ताः ।
चित्रा घना चालनिका ऋष्भे तिस्र ईरिताः ॥ ४३
गान्धारे सरसा माला, (?) मध्यमे मागधी शिवा ।
मातङ्गिका च मत्रेयै चतस्रः परिकीर्त्तितः ॥४४
बाला कला कलरवा शार्ङ्गिरव्यपि पञ्चमे ।
माता रसामृता चेति तिस्रो धैवतनामनि ॥४५
निषादनामनि द्वे च विजया मधुकर्य्यपि ।
इति स्वरणां श्रुतयो द्वाविंशतिरुदीरिताः ॥४६
स्वराणामित्यत्र पुत्त्रात्राणां पिता इतिवत्जन्यजनकसम्वन्धे (?) षष्टि, स्वराणां जनिका इत्यर्थः । वस्तुतस्तु स्वरूपं ज्ञातुमशक्यम् । तदुक्तं (सङ्गीतदामोदरे)
श्रुतिस्थाने स्वरान्वक्तुं नालं ब्रह्मापि तत्तव्तः ।
जलेषु चरतां मार्गो मीनानां नोपलभ्यते ॥४७
गगने पक्षिणां यद्वत्तद्वत्स्वरगता श्रुतिः ।
श्रुतिर्नादवला प्रोक्ता तदाट्रा (?) च कला मता ॥४८
यथा तैलगतं सर्पिर्यथा काष्ठगतो ऽनलः ।
ज्ञायते ऽत्रोपदेशेन यथा स्वरगता श्रुतिः ॥४९
वीणादेस्तु श्रुतिज्ञानं स्वरज्ञानन्तु वंशजम् । इति
अपरञ्च
समश्रुतीनामेतेषु स्वराणां यास्तु भेदिकाः ।
प्रयोगविधुरत्वेन ता नोक्तः श्रुतिजातयः ॥५०
अथ स्वराः
स स्वरो यः श्रुतिस्थाने स्फुरन्हृदयरञ्जकः ।
एतेन स्वरशब्दस्य योगरूडत्वं उत्कम् । (?)
किम्वा (?) श्रोतुर्मनो यस्माद्रञ्जयन्ति ततः स्वराः ॥५१। इति
एतेन रूडत्वमुक्तम् ।
के ते इत्याह
षड्जर्षेभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्च निशादश्च स्वराः सप्तात्र कीर्त्तिताः ॥ ५२
षरिगमपधनिश्चेत्येतेषामपराभिधा ।
ते त्रिधा स्युर्मन्द्रमध्यतारभावं समाश्रिताः ॥५३
त्रीणि स्थानानि तेषां हि हृदि मन्द्रो ऽभिजायते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥५४
एतेषां यौगिकत्वमओयाहुः, यथा
तासां कण्ठमुरस्तालु जिह्वां दन्ताम्श्च सम्स्पृशन।
षड्भ्यः सञ्जायते यस्मात्तस्मात्षड्ज इति स्मृतः ॥ ५५
दामोदरस्त्वन्यथाह
वायुः सं मुर्च्छितो नाभेर्नाड्राश्च ह्र्दयस्य च ।
पार्श्वयोर्मस्तकस्यापि षण्णां षड्जः प्रजायते ॥५६ इति ।
नाभिमूलाद्यदा वायुरित्थितः कुरुते ध्वनिम् ।
वषभस्येव निर्याति हेलया ऋषभः स्मृतः ॥५७
नाभेः समुद्गतो वायुर्गन्धं श्रोत्रे च चालयन।
सशब्दं येन निर्याति गान्धारस्तेन कथ्यते ॥५८
मध्यमो मध्यमस्तानात्शरीरस्योपजायते ।
नाभिमूलाच्च गम्भीरः किञ्चित्तारः स्वभावतः ॥५९
प्राणो ऽपानः समानश्चोदानव्यानौ तथैव च ।
एतेषां समवायेन जायते पञ्चमः स्वरः ॥६०
गत्वा नाभेरधोभागं वस्तिं प्राप्योर्ध्वगः पुनः ।
धावन्निव च यो याति कण्ठदेशं स धैवतः ॥६१
षड्जादयः षडेते ऽत्र (?)स्वराः सर्वे मनोहराः ।
निषिदन्ति यतो लोके निषादस्तेन कथ्यते ॥६२
तत्र तत्साम्यध्वनिकथनद्वारेण तद्रूपमाह
मयूरः षड्जमाख्याति ऋषभं वक्ति चातकः ।
छागो गान्धारमाचष्टे क्रौञ्चो वदति मधमम् ॥६३
कोकिलः पञ्चमं ब्रुते भेको वदति धैवतम् ।
निषादं भषते हस्तीत्येतद्ब्रह्मादिसम्मतम् ॥६४
दामोदरस्तु
मयुरवृषभच्छागक्रौञ्चकोकिलवाजिनः ।
मातङ्गश्च क्रमेणाहुः स्वरानेतान्सुदुर्गमान॥६५। इति
किञ्च
ते वादिसम्वादिविवाद्यनुवद्यभिधा पुनः ।
स्वराश्चतुर्विधाः प्रोक्तास्तत्र वादी स कथ्यते ॥६६
प्रचुरो यो प्रयोगेषु वक्ति रागादिनिष्चयम् ।
समश्रुतिश्च सम्वादीं पञ्चमस्य न मः क्वचित॥६७
गनी विवादिनौ स्यातां रिधयोर्वापि तौ तयोः ।
अनुवादी भवेच्छेषु इति दन्तिल(? दत्तिल)सम्मतम् ॥६८
अस्यार्थः – यः प्रयोगेषु प्रचुरो वहुलः सन्रागादिनिश्चयं कथयति, बहुधा प्रोक्तो ऽमुकरागो ऽयमिति निर्णयं करोति, स वादी स्वरः । पञ्चमस्य सम्श्रुतितुल्यश्रुतिर्यः स्वरः स सम्वादी । क्वचित्न मः को ऽर्थः, मो मध्यमस्वरः क्वचित्सम्वादी न भवति । गनी गान्धारनिषादौ रिधयोः ऋषभैवतयोः विवादिनौ शत्रू भवतः । वेति पक्षान्तरे तौ ऋषभधैवतौ तयोः गान्धारनिषादयोः विवादनौ (?) भवतः । शेषः एतेभ्यो ऽवशिष्ट ये स्वरास्ते ऽनुवादुस्वरा भवन्ति ।
किञ्च
वादी नृपस्तथा पात्रं सम्वद्यथ विवाद्यरिः ।
अनुवादी त्वनुचरो राज्ञः पात्रस्य चेरितः ॥६९
वादिसम्वादिनोरनुवादी अनुचर इत्यर्थः ।
अथ ग्रामाः
ग्रामः स्वराणामितसूक्ष्मभाव,संयोजनं स्थानकुलं त्रिधा सः ।
षड्जस्तथा मध्यम एव भूम्याम्, गान्धारनामा किल देवलोके ॥७०
दामोदरे
षड्जग्रामो भवेदत्र मध्यमग्राम एव च ।
सूरलोके अच्गान्धारो ग्रामः प्रचरति ध्रुवम् ॥ ७१
अपरञ्च
स्वराणां सुव्यवस्थानां समूहो ग्राम इष्यते ॥७२
पारिजाते
अथ ग्रामास्त्रयः प्रोक्ताः स्वरसन्दोहरूपिणः ।
षड्जमध्यमगान्धारसंज्णाभिस्ते समन्विताः ।
मूर्च्छनाधारभूतस्ते षड्जग्रामस्त्रिषूत्तमः ॥७३
अथ ग्रामत्रयमूर्च्छना आह
सरिगामपधानिश्च मपौ धनिसरी ग च ।
गमप धनिसा रिश्च ग्रामत्रितयमुर्च्छनाः ॥७४
अपरञ्च
सप्तैव मूर्च्छनाश्चात्र प्रतिग्रामं प्रकीर्त्तिताः ।
आदिद्वित्रिचतुः पञ्चषड्सप्तष्वपि ता मताः ॥७५
तत्प्रस्तारक्रमः
षड्जान्निषादान्तं नेस्तु धान्तं धात्पान्तमिष्यते ।
पानमान्त मध्यमाद्गान्तं गान्धारादृषभान्तकम् ।
ऋषभात्पान्तमित्याहुः षड्जग्रामस्य मुर्च्छनाः ॥७६
तदुदाहरणं – स रि ग म प ध नि च । नि स रि ग म प ध च । ध नि स रि ग म प च । प ध नि स रि ग म च । म प ध नि स रि ग च । ग म प ध नि स रि च । रि ग म प ध नि स च । इति षड्जग्राममुर्च्छनाः ।
अथोच्यते सुविधाय मध्यम्ग्राममुर्च्छनाः ।
मःआद्गान्तं गाच्चर्षभान्तं ऋषभात्सान्तं (? सत्तम्) इष्यते ।
सान्नान्तं नेर्धेवतान्तं धात्पान्तं पाच्च मान्तकम् ॥७७
एतदहारणं – म प ध नि स रि ग च । ग म प ध नि स रि च । रि ग म प ध नि स च । स रि ग म प ध नि च । नि स रि ग म प ध च । ध नि स रि ग म प च । प ध नि स रि ग म च । इति मध्यमग्राममूर्च्छनाः ।
आदौ गकारो यत्रास्ति गान्धारग्राममूर्च्छनाः । ७८
तदहारण – ग म प ध नि स रि च । रि ग म प ध नि स च । स रि ग म प ध नि च । नि स रि ग म प ध च । ध नि स रि ग म प च । प ध नि स रि ग म च । म प ध नि स रि ग च । इति गान्धारग्राममूर्च्छनाः ।
अथ मूर्च्छनाः
स्वरः सं मूर्च्छतो यत्र रागतां प्रतिपद्यते ।
मूर्च्छनामिति तामाहुर्भरता ग्रामसम्भवाम् ॥७९
अपरञ् च
यत्र स्वरो मूर्च्छित एव रागतां
प्राप्तश्च तामाह मुनिश्च मूर्च्छिताम् ।
ग्रामोद्भवास्ताः स्वरसप्तसंयुताः
ग्रामत्रये स्युः पुनरेकविंशतिः ॥८०
सरिगमपधनीति षड्जग्रमास्य मूर्च्छनाः ।
मपधनिसरिगेति मध्यमग्राममूर्च्छनाः ।
गमपधनिसरिति गान्धारग्राममूर्च्छनाः ॥८१
अथासां नामानि
ललिता गध्यमा चित्रा रोहिणी च मतङ्गजा ।
सौवीरा वर्णमध्या च षड्जमध्या च पञ्चमि ॥८२
मत्सरी मृदुमध्या च शुद्धान्ता च कलावती ।
तीव्रा रौद्री तथा ब्राह्मी वैष्णवी खेचरी वरा ॥८३
नादवती विशाला च त्रिषु ग्रामेषु विश्रुताः ।
एकविंशतिरित्युक्ता मूर्च्छनाश्चन्द्रमौलिना ॥८४
मूर्च्छनां कलयतो मुरशत्रोर्वंशिकाध्वनिविशेषवितानः ।
मूर्च्छनां ययुरनाङ्गशरौघै, रङ्गना रतिपतेरिव सेनाः ॥८५
एतत्प्रयोजनमाह
शिवाग्रे मूर्च्छनां कृत्वा ब्रह्महापि विमुच्यते ॥८६
अथा तालाः
मूर्च्छना एव ताला (?) स्युः शुद्धा आरोहणाश्रिताः ॥८७
दामोदरस्तु
विस्तार्य्यन्ते प्रयोगा यैर्मूर्च्छनाशेषसंश्रयाः ।
तानास्ते ऽप्यूनपञ्चाशत्सप्तस्वरसमुद्भवाः ॥८८
तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक्पृथक।
भेदा बहुतरास्तेषां कस्तान्कार्त्स्न्येन वक्ष्यति ॥८९
ग्रामाणां मूर्च्छनानाञ् च तानानां बहवो भिदाः ।
प्रकृतानुपयोगित्वादज्ञयत्वाच्च नेरिताः ॥९०
तदुक्तं तानाधिकारे
तानाः पञ्चसहस्राणि त्रयस्त्रिंशद्भवन्त्यमि ।९१। इति
अथ वर्णनाह
स्वरो गानक्रियारम्भप्रयुक्तो वर्ण उच्यते ।
स्थाय्यारोहावरोहि च सञ्चारीति चतुर्विधः ॥९२
प्रत्येकं लक्षणमाह
स्थायं स्थायं प्रयोगः स्यादेकस्यैव स्वरस्य चेत।
स्थायी वर्णः स विज्ञेयः परावन्वर्थसंज्ञकौ ॥९३
परौ आरोहिस्वरो ऽवरोहिस्वरश्च तौ अन्वर्थसंज्ञकौ अनुगताथनामानौ । अर्थस्तु आरोहतीत्यारोहि, अवरोहतीत्यवरोहीत्यर्थः ।
एतत्संमिश्रणाद्वर्णः सञ्चार्ज़िति निगद्यते ॥९४
एतेषाण् स्थाय्यारोह्यवरोहिस्वराणाम् ।
वर्णा भवत्यलङ्कारा रचनाया विशषतः ॥ ९५
तत्र च
षड्विंशतिः स्थायिनः स्युरारोहिणस्तु द्वादश ।
सञ्चारिणो द्वादशैव द्वादशैवावरोहिणः ॥९६
इति प्रसिद्धालङ्कारा द्वाषष्टिः परिकीर्त्तिताः ।
ग्रन्थविस्तरभोतेन मया नेह प्रकीर्त्तिताः ॥९७
अलङ्कारप्रयोजनमाह
स्वरजज्ञाने दृढाभासो रक्तिलाभश्च जायते ।
वर्णज्ञानविचित्रत्वमलङ्कारप्रयोजनम् ॥९८
ग्रहस्वरमाह
स ग्रहस्वर इत्युक्तो यो गीतादौ समर्पितः ॥९९
अंशस्वरमाह
यो रक्तिव्यञ्जको गेये यस्य सर्वे ऽनुगामिनः ।
यः स्वयं ग्रहतां यातो न्यासादीनां प्रयोगतः ।
यस्य सर्वत्र वाहुल्यं स वाद्यंशो नृपोपमः ॥१००
वादी रागादिनिश्चयकर्तेति गीतप्रकाशकारः । यः स्वयं ग्रहतां यात इत्यनेनांशस्वरस्यैव ग्रहस्वरकारणत्वमित्यर्थः ।
अतएव माघे
अनल्पत्वात्प्रधानत्वादंशस्येवैतरे स्वराः ।
विजिगीषो नृपतयः प्रयान्ति परिचारताम् ॥१०१ इति
अपरञ् च
रागाणां जीवभूता ये प्रोक्तास्तेंशस्वरा बुधैः ॥१०२। इति
न्यासस्वरमाह
न्यासस्वरस्तु स प्रोक्तो यो गीतादिसमाप्तिकृत॥१०३
जातिमाह
यस्या रागजनिस्तु जातिरिह सा रागस्य मातापि सा ।
शुद्धाख्या विकृता द्वयोश्च मिलनात्सङ्कीर्णका च त्रिधा ॥१०४
किञ् च
शुद्धाः स्युजतियः सप्त ताः षड्जादि स्वराभिधाः ।
ता एव विकृताः शेषा जाता विकृतिसङ्करात॥१०५
इति द्विधेत्यन्ये ।
तदुक्तं हरिनायकेन
शुद्धाभिर्विकृताभिश्च मिलिता जातयः पुनः ।
अष्टादश समुद्दिष्टास्ता रागाणञ् च मातरः ॥ १०६
इति, अयमेव पक्षः प्रघान इव प्रतिभाति, यतः प्राचीनाचार्य्यैरङ्गीकृतः । तदुक्तं निवन्धान्तरे
षाड्जार्षभी च गान्धारी माध्यमी पाञ्चमी तथा ।
धवति चाथ नैषादी सप्तैताः शुद्धजातयः ॥१०७
स्यात्षड्जकैशिकौ षड्जमध्यमा च ततः परम् ।
गान्धारपञ्चम्यान्ध्री च षड्जोदीच्यवती तथा ॥१०८
कार्मारवी नन्दयन्ती गान्धारोदीच्यवापि च ।
मध्यमोदीच्यवा रक्तगान्धारीः कैशिकीत्यपि ॥१०९
एवमेकादश प्रोक्ता विकृता भरतादिभिः ।
शुद्धाः सिद्धा विकृतानामथ हेतून्प्रचक्ष्महे ॥११०