सङ्गीतरत्नाकरः/वाद्याध्यायः
दिखावट
- अथ षष्ठो वाद्याध्यायः ।
- ततं येनावनद्धं च भुवनं निजमायया
- आनन्दघनमध्येमि तं ब्रह्मसुषिरे हरम् १
- चित्रा वाचः प्रवर्तन्ते धातुवृत्तिविचित्रिताः
- यतस्तं नौमि विस्तारतत्त्वौघानुगतं शिवम् २
- गीतं चतुर्विधाद्वाद्याज्जायते चोपरज्यते
- मीयते च ततोऽस्माभिर्वाद्यमद्य निगद्यते
- तत्ततं सुषिरं चावनद्धं घनमिति स्मृतम् ३
- चतुर्धा तत्र पूर्वाभ्यां श्रुत्यादिद्वारतो भवेत्
- गीतं ततोऽवनद्धेन रज्यते मीयते घनात् ४
- वाद्यतन्त्री ततं वाद्यं सुषिरं सुषिरं मतम् ५
- चर्मावनद्धवदनमवनद्धं तु वाद्यते
- धनो मूर्तिः साऽभिघाताद्वाद्यते यत्र तद्घनम् ६
- ततं वीणा द्विधा सा च श्रुतिस्वरविवेचनात्
- तत्र श्रीशार्ङ्गिदेवेन श्रुतिचीणोदिता पुरा ७
- वक्ष्यते स्वरवीणाऽत्र तस्यामपि विचक्षणाः
- अङ्कित्वा स्वरदेशानां भागानुभिन्दते श्रुतीः ८
- तद्भेदास्त्वेकतन्त्री स्यान्नकुलश्च त्रितन्त्रिका
- चित्रा वीणा विपञ्ची च ततः स्यान्मत्तकोकिला ९
- आलापिनी किंनरी च पिनाकीसंज्ञिता परा
- निःशङ्कवीणेत्याद्याश्च शार्ङ्गिदेवेन कीर्तिताः १०
- वंशः पावः पाविका च मुरली मधुकर्यपि
- काहलातुण्डुकिन्यौ च चुक्का शृङ्गमतः परम् ११
- शङ्खादयश्च वाद्यस्य सुषिरस्य भिदा मताः
- पटहो मर्दलश्चाथ हुडुक्का करटा घटः १२
- घडसो ढवसो ढक्का कुडुक्का कुडुषा तथा
- रुञ्जा डमरुको डक्का मण्डिडक्का च डक्कुली १३
- सेल्लुका झल्लरी भाणस्त्रिवली दुन्दुभिस्तथा
- भेरीनिःसाणतुम्बक्यो भेदाः स्युरवनद्धगाः १४
- तालोऽथ कांस्यतालः स्याद्घण्टा च क्षुद्रघण्टिका
- जयघण्टा ततः केस्रा शुक्तिपट्टादयस्तथा
- प्रभेदा घनवाद्यस्य प्रोक्ताः सोढलसूनुना १५
- शुष्कं गीतानुगं नृत्तानुगमन्यद्द्वयानुगम्
- चतुर्धेति मतं वाद्यं तत्र शुष्कं तदुच्यते १६
- यद्विना गीतनृत्याभ्यां तद्गोष्ठीत्युच्यते बुधैः
- ततः परं तु त्रितयं भवेदन्वर्थनामकम् १७
- वाद्यं दक्षाध्वरध्वंसोद्वेगत्यागाय शंभुना
- चक्रे कौतुकतो नन्दिस्वातितुम्बुरुनारदैः १८
- अभिषेके नरेन्द्राणां यात्रायामुत्सवे तथा १९
- मङ्गलेषु च सर्वेषु विवाहोपनयादिषु
- उत्पाते संभ्रमे युद्धे नाटके वीररौद्रिणि २०
- सर्वातोद्यानि वाद्यन्ते कानिचित्त्वल्पमङ्गले
- विश्रान्तौ रङ्गसंस्थानां गायतां नृत्यतामपि २१
- एतान्युत्साहकारीणि वीराणां मङ्गलाय च
- कुर्वन्ति हृदयस्फूर्तिं दुःखमुन्मूलयन्ति च २२
- गीतनृत्यगतन्यूनप्रच्छादनपटून्यपि
- वाद्यान्यतस्ततादीनि तत्राऽऽदौ ब्रूमहे ततम् २३
- तस्य वादनभेदांश्च विविधाः करसारणाः
- सुषिरं पटहं तस्य पाटांस्तद्रचनास्तथा २४
- पाटप्रभववाद्यानि प्रबन्धान्वाद्यसंश्रयान्
- मर्दलाख्यं ततो वाद्यं भेदान्मार्दलिकस्य च २५
- गुणदोषांश्च तद्वृन्दं स्वरूपस्य च लक्षणम्
- हुडुक्काद्यवनद्धानां स्वस्वपाटसमन्वितम् २६
- घनस्य च गुणान्दोषान्वाद्यवादकसंगतान्
- हस्तयोश्च गुणानत्र वाद्याध्याये यथाक्रमम् २७
- अङ्गुष्ठपर्वदैर्घ्यं स्यादङ्गुलं द्वादशाङ्गुलम्
- वितस्तिस्तद्द्वयं हस्तो वाद्यभाण्डमितौ भवेत् २८
- ग्रन्थिव्रणभिदा हीनः श्लक्ष्णः खदिरदारुजः
- सुवृत्तः सरलो दण्डो वितस्तिपरिधिर्भवेत् २९
- त्रिहस्तदैर्घ्यस्तावच्च सुषिरं दधदन्तरा
- सार्धाङ्गुलपरीणाहमूर्ध्वाधोवदने तथा ३०
- कनिष्ठाङ्गुलिमानं वा गर्भे रन्ध्रत्रयं दधत्
- त्रेताग्निसंस्थितं यद्वा द्वे रन्ध्रे तर्जनीमिते ३१
- एकमेव त्वधःशङ्कुस्थाने सार्धाङ्गुलायतम्
- दधानः ककुभं सारं खादिरं वाऽन्यदारुजम् ३२
- तिर्यक्संस्थेन दैर्घ्येणाष्टाङ्गुलत्र्यङ्गुलायतम्
- अङ्गुलाधिकपार्श्वं च मध्ये कूर्मोन्नताकृतौ ३३
- स्थितेन पत्रिकाधारगर्तेन च समन्वितम्
- गर्तमध्ये च रन्ध्रेण योन्याकारेण संयुतम् ३४
- रन्ध्रे तत्र निविष्टेन रन्ध्रस्थौल्येन शङ्कुना
- अन्वितां पत्रिकां मिश्रलोहजां द्व्यङ्गुलायताम् ३५
- चतुरङ्गुलदैर्घ्यां च मध्ये कूर्मोन्नताद्बहिः
- निम्नमध्यं मनागन्तर्धारयन्तमधः पुनः ३६
- द्विदण्डिकं शङ्कुनाऽष्टाङ्गुलदैर्घ्ययुजा तथा
- वृत्तेन त्र्यङ्गुलस्थूलोत्तरार्धश्लक्ष्ममूर्तिना ३७
- कूर्मपृष्ठोन्नतं मध्यमुत्तरार्धस्य बिभ्रता
- दण्डवत्क्रमितस्थौल्याधरभागयुतेन च ३८
- दण्डवक्त्रप्रविष्टाधोभागेन च विराजितम्
- एवंविधस्य दण्डस्योर्ध्वाधः सप्तदशाङ्गुलैः ३९
- अधोभागेऽक्षिसदृशं विधाय विवरद्वयम्
- एकत्र द्विगुणां तन्त्रीं क्षिप्त्वा रन्ध्रे परत्र च ४०
- तन्त्रीप्रान्तान्तरे क्षिप्त्वा प्रोतं तद्द्विगुणे ततः
- द्विगुणात्कर्षणात्कर्षेत्पुनरेवं समाचरेत् ४१
- षष्ट्यङ्गुलपरीणाहं सुपक्वं वर्तुलं च यत्
- तुम्बस्योत्सेधतस्तस्य वदनं द्वादशाङ्गुलम् ४२
- वृत्तस्थानस्थया नाभ्याऽधोमुख्या मध्यरन्ध्रया
- त्र्यङ्गुलायतया युक्तं पृष्ठसंश्लिष्टपृष्ठया ४३
- तुम्बकं मध्यरन्ध्रं स्यात्कर्परं नालिकेरजम्
- अन्तस्थरन्ध्रसंलग्नं पृष्ठमध्येन रन्ध्रिणा ४४
- तं दधद्रन्ध्रमध्येऽथ तन्त्रीप्रान्तौ निवेश्य तौ
- संवेष्ट्य कीलकेऽन्तस्थे कीलकं भ्रामयेन्मुहुः ४५
- तावद्यावद्दृढो बन्धस्तुम्बकस्यैव जायते
- एवं तुम्बकमुत्तानं दण्डे तज्ज्ञैर्निबध्यते ४६
- दोरकं नागपाशेन द्विगुणेनान्वितं ततः
- सुबलश्लक्ष्णसूत्रोत्थं दण्डे तुम्बोर्ध्वदेशतः ४७
- संवेष्ट्य नागपाशेऽस्मिन्बद्धप्रान्तां दृढां घनाम्
- श्लक्ष्णां स्नायुमयीं तन्त्रीं कृष्ट्वा संपीड्य पत्रिकाम् ४८
- तन्त्र्या संवेष्ट्य ककुभं निबध्नीयाद्दृढं ततः
- वैणवी यवविस्तारा तन्वी द्व्यङ्गुलदैर्घ्यभाक् ४९
- तन्त्रीपत्रिकयोरन्तजीवा नादस्य सिद्धये
- संदिग्धपत्रिका तन्त्री श्लेषं क्षेप्या कलावता ५०
- या पक्ववेणुवल्कोत्था दोरिका त्रिवृता शुभा
- कनिष्ठा नखविस्तारा द्वादशाङ्गुलदैर्घ्यभाक् ५१
- सुवृत्ता मसृणा तुम्बादधस्तादङ्गुलत्रये
- दण्डे संवेष्टयेन्मन्द्रस्वरस्थानोपलक्षिकाम् ५२
- यत्राभिदधिरे धीरास्तां वीणामेकतन्त्रिकाम्
- प्रकृतिः सर्ववीणानामेषा श्रीशार्ङ्गिणोदिता ५३
- दर्शनस्पर्शने चास्या भोगस्वर्गापवर्गदे
- पुनीतो विप्रहत्यादिपातकैः पतितं जनम् ५४
- दण्डः शंभुरुमा तन्त्री ककुघः कमलापतिः
- इन्दिरा पत्रिका ब्रह्मा तुम्बं नाभिः सरस्वती ५५
- दोरको वासुकिर्जीवा सुधांशुर्दोरिका रविः
- सर्वदेवमयी तस्माद्वीणेयं सर्वमङ्गला ५६
- अधस्तुम्बमधोवक्त्रमूर्ध्वं तन्त्रीर्यथा भवेत्
- तथाऽस्या द्दोरिकादेशं वामस्कन्धे निधाय च ५७
- ककुभं दक्षिणस्याङ्घ्रेः पार्ष्ण्या संधाय यत्नतः
- न्यस्तां पृष्ठे कनिष्ठाया वामहस्तस्य कम्रिकाम् ५८
- सारणासारणेत्युक्तामनामाङ्गुलिवेष्टिताम्
- आकुञ्चन्मध्यमापार्श्वलग्नां तर्जनिकाग्रतः ५९
- निपीड्योरःस्थलासन्नां तन्त्रीमधिनिधाय च
- ऊर्ध्वाधः सारयेन्नादसिद्ध्यै हस्तं तु दक्षिणम् ६०
- त्यक्त्वा वितस्तिं जीवातस्तन्त्र्यां विन्यस्य सारयेत्
- अन्यत्रोपरिवाद्यान्तं नोर्ध्वं वक्षःस्थलान्नयेत् ६१
- कम्रिका तत्क्रिया चोक्ता सारणा सा चतुर्विधा
- उत्क्षिप्ता संनिविष्टाख्योभयी स्यात्कम्पितेत्यपि ६२
- श्लिष्टा तन्त्री यदोत्प्लुत्य निपतेत्सारणां मुहुः
- तदोत्क्षिप्ता संनिविष्टा स्पृष्ट्वैव सरने भवेत् ६३
- क्रमादेतद्दूयाभ्यां स्यादुभयी सारणा मता
- स्वरस्थाने कम्पनेन कम्पिता कम्रिकोच्यते ६४
- घातः पातश्च संलेखस्ततो लेखावलेखकौ
- भ्रमरः संधितच्छिन्नौ नवमी नखकर्तरी ६५
- व्यापारा दक्षिणस्येति पाणेर्वामस्य तु द्वयम्
- स्फुरितः खसितश्चेति करयोरुभयोस्त्वमी ६६
- घोषो रेफोऽथ बिन्दुः स्यात्कर्तरी चार्धकर्तरी
- निष्कोटिताख्यः स्खलितः शुकवक्त्रश्च मूर्छना ६७
- तलहस्तोऽर्धचन्द्रश्च प्रसारः कुहरोऽपरः
- त्रयोदशेति सर्वेऽमी स्युश्चतुर्विंशतिर्युताः ६८
- करनामान्यपीमानि मन्वते वाद्यवेदिनः
- घातः स्यान्मध्यमाक्रान्ततर्जन्या तन्त्रिकाहतिः ६९
- इति घातः
- घातः केवलया पातः
- इति पातः
- संलेखोऽन्तस्तथाऽऽहतिः
- इति संलेखः
- अन्तर्मध्यमया घातमुल्लेखं संप्रचक्षिरे ७०
- इत्युल्लेखः
- अवलेखो मध्यमया स्यात्तन्त्रीताडनं बहिः
- अङ्गुल्याऽन्येऽन्ययाऽप्याहुः संलेखं चावलेखकम् ७१
- सर्वाभिस्तिसृभिर्द्वाभ्यामथवेति च ते जगुः
- अन्तर्बहिर्मुखौ घातौ तयोस्ते ब्रुवते क्रमात् ७२
- इत्यवलेखः
- भ्रमरोऽन्तःक्रमाच्छीघ्रं चतुरङ्गुलिताडनम्
- इति भ्रमरः
- मध्यमानामिकाभ्यां तु बहिर्घातोऽत्र संधितः ७३
- इति संधितः
- तर्जनीपार्श्वलग्नायास्तन्त्र्या बहिरनामया
- हननं छिन्नमाचष्टे श्रीमत्सोढलनन्दनः ७४
- इति च्छिन्नः
- क्रमाद्द्रुतं नखैर्घातश्चतुर्भिर्नखकर्तरी
- इति नखकर्तरी
- इति नव दक्षिणहस्तव्यापाराः
- स्फुरिते कम्पिता तन्त्रीः पृष्ठलग्नेव सारणाः ७५
- इति स्फुरितः ।
- मुहुः सारणया तन्त्रीघर्षणं खशितो मतः
- इति खशितः
- इति वामहस्तव्यापारद्वयम्
- तन्त्री लग्नाङ्गुष्ठपार्श्वा कर्तरीवच्च हन्यते ७६
- कनिष्ठासारणाभ्यां वा यत्रासौ घोष उच्यते
- इति घोषः
- दक्षिणानामया यअत्र तन्त्रीरन्तर्निहन्यते
- वामस्य मध्यमाङ्गुल्या बहिस्तं रेफमूचिरे ७७
- इति रेफः
- अनामया बहिस्तन्त्रीघाताज्जातो यदा ध्वनिः
- तर्जन्या धार्यते बिन्दुर्निःशङ्केनोदितस्तदा ७८
- इति बिन्दुः
- अङ्गुलीभिश्चतसृभिः क्रमेण करयोर्द्वयोः
- बहिस्तन्त्रीहतिस्तूर्णं कर्तरी कीर्तिता बुधैः ७९
- इति कर्तरी
- दक्षिणः कर्तरीं कुर्याद्वामहस्तस्तु तन्त्रिकाम्
- यत्र सारणया हन्ति प्राहुस्तामर्धकर्तरीम् ८०
- इत्यर्धकर्तरी
- उत्सृष्टसारणा यत्र हनित् तन्त्रीं प्रदेशिनी
- निष्कोटिताभिधं पाणिममुं वाद्यविदो विदुः ८१
- इति निष्कोटितः
- उत्क्षिप्तया सारणया वामस्तन्त्रीं द्रुतं यदा
- निहन्ति कर्तरीतुल्यो दक्षिणः स्खलितस्तदा ८२
- इति स्खलितः
- तन्त्रीकर्षोऽङ्गुष्ठतर्जन्यग्राभ्यां शुकवक्त्रकः ८३
- इति शुकवक्त्रः
- उद्वेष्टपरिवर्ताभ्यां तन्त्र्यां भ्राम्यति दक्षिणे
- स्वरस्थाने द्रुतं कम्रासारणं मूर्छना मता ८४
- इति मूर्छना
- तलेन दक्षिणो हस्तस्तन्त्रीं हन्तीतरः युनः
- प्रदेशिन्या स्पृशेद्यत्र तलहस्तो भवेदसौ ८५
- इति तलहस्तः
- स्पर्शोऽङ्गुष्ठकनिष्ठाभ्यामर्धचन्द्रोऽभिधीयते
- इत्यर्धचन्द्रः
- चतुरङ्गुलिसंघाते कुञ्चिताङ्गुष्ठके तले
- कनिष्ठातर्जनीपार्श्वस्पर्शस्तन्त्र्याः प्रसारकः ८६
- इति प्रसारकः
- करस्य किंचित्साङ्गुष्ठसकलाङ्गुलिकुञ्चने
- कनिष्ठाङ्गुष्ठसंस्पर्शस्तन्त्र्याः स्यात्कुहरः करः ८७
- इति कुहरः
- इति त्रयोदशोभयहस्तव्यापाराः ।
- एतद्धस्तसमायोगाद्वादनं वाद्यमुच्यते
- छन्दो धारा कैकुटी च कङ्कालं वस्तु च द्रुतम् ८८
- गजलीलं दण्डकं चोपरिवाद्यमतः परम्
- वाद्यं पक्षिरुतं चेति दशधा परिकीर्तितम् ८९
- खसितस्फुरितौ यत्र क्रियेते बहुधा करौ
- तारं च स्पृश्यते स स्याच्छन्दो यतिमनोहरः ९०
- इति च्छन्दः
- स्खलितो मूर्छना चाथ कर्तरीरेफसंयुतौ
- उल्लेखरेफौ यत्राऽऽस्तां धारां ब्रूते हरप्रियः ९१
- इति धारा
- शुकवक्त्रः स्फुरितको घोषः स्यादर्धकर्तरी
- क्रमादेते करा यत्र तामाहुः कैकुटीं बुधाः ९२
- इति कैकुटी
- स्फुरितैर्मूर्छनासंज्ञैः कर्तरीत्रितयेन च
- युक्तं करैः क्रमादेभिः कङ्कालं कथितं बुधैः ९३
- इति कङ्कालम्
- स्पृष्टतारमुपेतं यत्कर्तर्या खसितेन च
- कुहरेणाथ तद्वाद्यं वस्तु वस्तुविदो विदुः ९३
- इति वस्तु
- कर्तरीखसितौ यत्र क्रमेण कुहरः करः
- रेफभ्रमरघोषाश्च तद्द्रुतं ब्रुवते बुधाः ९४
- इति द्रुतम्
- बहुधा मूर्छना हस्ताः स्फुरिताः कर्तरी ततः
- खसितो यत्र तत्प्राहुर्गजलीलं कलाविदः १५
- इति गजलीलम्
- स्खलितो मूर्छनाख्यश्च कर्तरीरेफसंयुतः
- खसितो मूर्छनाख्यश्च कर्तरीरेफसंयुतः
- खसितो यत्र वाद्यज्ञा दण्डकं तद्बभाषिरे ९६
- इति दण्डकम्
- ऊर्ध्वाधोगौ क्रमाद्धस्तौ रेफकर्तरिकाह्वयौ
- निष्कोटिते तले हस्ते द्वावप्युपरिवाद्यके ९७
- इत्युपरिवाद्यकम्
- समस्तहस्तवाद्यं तु वाद्यं पक्षिरुतं मतम्
- इति पक्षिरुतम्
- इति दशविधं वाद्यम्
- सकलं निष्कलं चेति द्विविधं वाद्यमुच्यते ९८
- तन्त्रीसंलग्नजीवातः स्थूलो यत्र ध्वनिर्भवेत्
- तदुक्तं सकलं वाद्यमपरे त्वन्यथा जगुः ९९
- आदोरिकं पत्रिकं चेत्तर्जनीस्पर्शवर्जितम्
- सार्यते कम्रिकावाद्यं तदाहुः सकलाभिधम् १००
- अपनीय कलां कम्रामधो नैषाददेशतः
- न नयेत्तर्जनीस्पर्शं तन्त्रयाश्चेन्निष्कलं तदा १०१
- सूक्ष्मश्चात्र भवेन्नादः सारणामत्र केचन
- आमध्यमस्वरस्थानं सारणायां प्रपेदिरे १०२
- अवोचदिति निःशङ्कः शिष्याभ्यासाय वादनम्
- श्रुत्यादिक्रमतो गीतनिष्पत्तौ त्विदमादिशेत् १०३
- वक्ष्यामः स्वररन्ध्राणां यद्वंशेऽष्टादशाङ्गुले
- प्रथमे सप्तके स्थानं वीणायामपि तन्मतम् १०४
- स्वराणां किंतु वैणानामधराधरतारता
- मध्यमे सप्तके स्थानं ततः स्याद्द्विगुणान्तरम् १०५
- तृतीये सप्तके स्थानं ततोऽपि द्विगुणान्तरम्
- अङ्केत च स्वरस्थानान्यमूनि सुखबुद्धये १०६
- यथास्वं स्वरभेदानां विभागाच्छ्रुतिदेशधीः
- स्याद्ग्राममूर्छनादीनामुद्बोधः सुकरस्ततः
- एषा पिञ्जरकाः प्रोक्ता घोषकश्चैकतन्त्रिका १०७
- इत्येकतन्त्रीलक्षणम्
- तन्त्रीद्वयेन नकुलः स्यादन्वर्था त्रितन्त्रिका
- तन्त्रीभिः सप्तभिश्चित्रा विपञ्ची नवभिर्मता १०८
- कोणाङ्गुलीवादनीया चित्रा तद्वद्विपञ्चिका
- क्रमादन्येऽङ्गुलीकोणव्यवस्थामूचिरे तयोः १०९
- चित्रायामङ्गुलीमात्रं विपञ्च्यामुभयं परे
- तन्त्रीणामेकविंशत्या कीर्तिता मत्तकोकिला ११०
- मुख्येयं सर्ववीणानां त्रिस्थानैः सप्तभिः स्वरैः
- संपन्नत्वात्तदन्यास्तु तस्याः प्रत्यङ्गमीरिताः
- करणैश्चित्रयन्त्यस्तास्तस्याः स्युरुपरञ्जिकाः १११
- रूपं कृतप्रतिकृतं प्रतिभेदस्ततः परम्
- स्याद्रूपशेषमोघश्च प्रतिशुष्केति षड्विधम्
- करणं तस्य वक्ष्यामि लक्ष्मोदाहरणैः समम् ११२
- मुख्यवीणाप्रयुक्तस्य गुर्वादेर्भञ्जनेन यत्
- युगपद्वादनं रूपं विपञ्च्यादिषु तद्यथा ११३
- वाद्यते गुरुमुख्यायां यदा द्वे लघुनी तदा
- विपञ्च्यादौ यदा त्वस्यां लस्तदन्यासु दद्वयम् ११४
- इति रूपम्
- एतत्कृतप्रतिकृतं पश्चात्प्रत्यङ्गवादने
- इति कृतप्रतिकृतम्
- रूपक्रियाविपर्यासात्प्रतिभेदो भवेद्यथा ११५
- वाद्यते लद्वयं तज्ज्ञैर्मत्तकोकिलया यदा
- गुरुस्तदा विपञ्च्यादिवीणाभिरिति तद्विधिः ११६
- इति प्रतिभेदः
- यदा विदारीविच्छेदं कुरुते मुख्यवैणिकः
- तदाऽन्यासां वादनं यद्रूपशेषं तदुच्यते ११७
- इति रूपशेषम्
- यदा विलम्बितलयं प्रयुङ्क्ते मुख्यवैणिकः
- तदैवातिद्रुतलयं करचातुर्ययोगतः
- वैपञ्चिकाद्याः कुर्युश्चेदोघमाचक्षते तदा ११८
- इत्योघः
- अंशसंवाद्यन्यतरस्वरव्यञ्जिकया यदा ११९
- तन्त्र्यैकयैव करणं स्यान्मुख्यामुख्यवीणयोः
- प्रतिशुष्कां तदाऽऽचष्टशार्ङ्गिदेवो विदांवरः १२०
- इति प्रतिशुष्का
- पुष्णन्ति वीणावाद्यं ये रक्तिं दधति चातुलाम्
- कुर्वन्त्यदृष्टपुष्टिं च तान्धातूनधुना ब्रुवे १२१
- ये प्रहारविशेषोत्थाः स्वरास्ते धातवो मताः
- विस्तारकरणा विद्धव्यञ्जनाश्चेति धातवः १२२
- चतुर्धा तेषु विस्तारश्चतुर्धा बोधितो बुधैः
- विस्तारजश्च संघातजोऽथ स्यात्समवायजः १२३
- अनुबन्धश्चेति चतुर्भेदः संघातजो भवेत्
- द्विरुत्तरो द्विरधरोऽप्यधराद्युत्तरान्तकः १२४
- उत्तराद्यधरान्तश्चेत्यष्टधा समवायजः
- त्रिरुत्तरस्त्रिरधरोऽथ द्विरुत्तरपूर्वकः १२५
- अधरान्तो द्विरधरोत्तरान्तश्चोत्तरादिकान्
- परो द्विरधरोऽथ स्यादधरादिर्द्विरुत्तरः १२६
- मध्योत्तरद्विरधरोऽधरमध्यद्विरुत्तरः
- एवं चतुर्दशविधो विस्तारः शार्ङ्गिणोदितः १२७
- करणस्य तु भेदाः स्यू रिभितोच्चयसंज्ञकौ
- तथा नीरटितो ह्रादोऽनुबन्ध इति पञ्च ते १२८
- क्षेपः प्लुतोऽतिपातश्चातिकीर्णोऽप्यनुबन्धकः
- इत्याविद्धे पञ्च भेदा दश तु व्यञ्जने मताः १२९
- पुष्पं कलं तलं बिन्दू रेफो निस्वनितं ततः
- निष्कोटितमथोन्मृष्टमवमृष्टनिबन्धनौ
- इति सर्वे चतुस्त्रिंशन्मिलिता धातवो मताः १३०
- विस्तीर्णनादभेदत्वाद्विस्तारो धातुरुच्यते
- प्रहारलाघवात्कृत्वा स्वरान्ति स्वरो विस्तारजो भवेत्
- एकविस्तारसंज्ञं तमपरे सूरयो जगुः १३२
- अलंकारत्वमप्यस्य निःशङ्को निरदीधरत् १३३
- इति विस्तारजः
- अत्रोत्तराधरौ ज्ञेयौ मन्द्रतारौ स्वरौ क्रमात्
- उत्तराधरघातौ हि तयोर्निष्पादकाविह १३४
- संघातेज ये चत्वारस्तथाऽष्टौ समवायजे
- भेदास्तेऽन्वर्थनामानस्तल्लक्ष्मोक्तिरनर्थिका १३५
- तथाऽपि वालबोधाय तान्वयं विवृणीमहे
- मन्द्रस्वरद्विरुच्चाराद्धातुरत्र द्विरुत्तरः १२६
- इति द्विरुत्तरः
- तारस्थाने द्विराघाताद्धातुर्द्विरधरो भवेत्
- इति द्विरधरः
- यस्त्वादितारो मन्द्रान्तः सोऽधराद्युत्तरान्तकः १३७
- इत्यधराद्युत्तरान्तकः
- आदौ मन्द्रस्ततस्तार उत्तराद्यधरान्तके
- इत्युत्तराद्यधरान्तकः
- एते संघातजे भेदा द्विःप्रहारभवे मताः १३८
- इति संघातजस्य भेदचतुष्टयम्
- मन्द्रस्वरत्रिराघाताद्धातुमाहुस्त्रिरुत्तरम्
- इति त्रिरुत्तरः
- त्रिस्तारस्वरघातेन धातुस्त्रिरधरो भवेत् १३९
- इति त्रिरधरः
- द्विरुत्तराधरान्तो द्विर्मन्द्रस्तारान्तगो भवेत्
- इति द्विरुत्तराधरान्तः
- तारस्थानं द्विः प्रहृत्य विदध्यान्मन्द्रमन्ततः १४०
- आ! तदा द्विरधरोत्तरान्तो धातुरुच्यते
- इति द्विरधरोत्तरान्तः
- उत्तरादिद्विरधरे मन्द्रतारो द्विरिष्यते १४१
- इत्युत्तरादिद्विरधरः
- सकृत्तारोऽथ मन्द्रो द्विरधरादिद्विरुत्तरे
- इत्यधरादिद्विरुत्तरः
- मध्योत्तरद्विरधरे तारौ मध्यस्थमन्द्रकौ १४२
- इति मध्योत्तरद्विरधरः
- मन्द्राद्यन्तो भवेत्तारोऽधरमध्यद्विरुत्तरे
- इत्यधरमध्यद्विरुत्तरः
- त्रिप्रहारभवे भेदाः स्युरिमे समवायजे १४३
- इत्यष्टौ समवायजभेदाः
- सजातीयविजातीयभेदसंमिश्रणोद्भवः
- अनुबन्धाभिधो धातुः शार्ङ्गदेवेन कीर्तितः १४४
- इत्यनुबन्धः
- इति चतुर्दश विस्तारधातुभेदाः
- लघुगुर्वात्मकैर्घातैः करणाविद्धयोः क्रियाः
- करणोऽल्पगुरुस्तत्र तद्भेदाल्लँक्षयेऽधुना १४५
- रिभितो द्वौ लघू गान्तौ
- इति रिभितः ।
- चतुर्लान्गगुरूच्चयः
- इत्युच्चयः
- षड्लोऽन्तगुर्नीरटितः
- इति नीरटितः
- ह्रादोऽष्टलघुरन्तगः १४६
- इति हादः
- करणस्यानुबन्धस्तु स्याद्विस्तारानुबन्धवत् १४७
- इत्यनुबन्धः
- भूरिगुर्गुरुहीनो वाऽऽविद्धोऽस्य विवृणे भिदाः
- क्षेषो लघुगुरुभ्यां स्यात्
- इति क्षेपः
- प्लुतो लघुगुरुर्भवेत् १४८
- इति प्लुतः
- अतिपातो लगाभ्यां द्विः
- इत्यतिपातः
- चतुर्वारं लगौ ततः
- लघुर्यत्रातिकीर्णोऽसौ
- इत्यतिकीर्णः
- अनुबन्धस्तु पूर्ववत् १४९
- इत्यनुबन्धः
- द्वाभ्यां त्रिभिश्चतुर्भिश्च नवभिर्लघुभिः क्रमात्
- क्षेपादयोऽत्र चत्वारो भवन्तीत्यपरेऽब्रुवन् १५०
- इति पञ्चाऽऽविद्धधातुभेदाः
- अङ्गुलीभेदमात्रेण व्यञ्जनस्तद्भिदा ब्रुवे १५१
- अङ्गुष्ठाभ्यां कनीयस्या तन्त्रीरेका निहन्यते
- युगपद्यत्र तत्पुष्पमभिलेखुः पुरातनाः १५२
- इति पुष्पम्
- एकस्वरं यदा नानास्थानकं तन्त्रिकाद्वयम्
- अङ्गुष्ठाभ्यामेककाले निहन्ति स्यात्कलं तदा १५३
- इति कलम्
- दक्षिणाङ्गुष्ठतो हन्ति वामाङ्गुष्ठनिपीडिताम्
- तन्त्रीं यत्र तदाऽऽचष्ट तलं सोढलनन्दनः १५४
- इति तलम्
- बिन्दुरेकत्र तन्त्र्यां स्यात्प्रहारो गुरुनादकृत्
- इति बिन्दुः
- रेफस्त्वेकस्वरो घातः क्रमात्सर्वाङ्गुलीकृतः १५५
- इति रेफः
- तलं कृत्वाऽवरोहेण घातो निस्वनितं मतम्
- इति निस्वनितम्
- वामाङ्गुष्ठेन तूर्ध्वाधोघातो निष्कोटितं मतम् १५६
- इति निष्कोटितम्
- घातोऽतिमधुरध्वानस्तर्जन्योन्मृष्टमुच्यते
- इत्युन्मृष्टम्
- कनिष्ठया दक्षिणयाऽङ्गुष्ठाभ्यामप्यधः सरन् १५७
- हन्ति त्रिस्थानकं तन्त्रीत्रयमेकस्वरं पृथक्
- यत्रावमृष्टमाचष्ट तद्यज्ञपुरमण्डनः १५८
- उक्तानुबन्धवद्वोध्यमनुबन्धस्य लक्षणम्
- नन्वेकलक्ष्मभेदोऽयं गण्यते किं पृथक् पृथक् १५९
- मैवं तद्धातुभेदानां बाहुल्यं यत्र दृश्यते
- विशिष्टो धातुना तेन सोऽनुबन्धो भिदां व्रजेत् १६०
- इत्यनुबन्धः
- इत्येते धातवः प्रोक्ताः सर्ववाद्योपयोगिनः
- यथास्थानं प्रयोक्तव्यास्ते च वृत्तिसमाश्रयाः १६१
- तत्र जातिरुदात्ता स्याद्विस्तारे करुणे घना
- आविद्धधातौ रिभिता व्यञ्जने ललिता मता १६२
- इति चतुस्त्रिंशद्धातवः
- वृत्तिर्गुणप्रधानत्वरूपा व्यवहृतिर्मता
- चित्रा वृत्तिर्दक्षिणा च तिस्रः स्युरिति वृत्तयः १६३
- चित्रा वाद्यप्रधानत्वं गीतस्य गुणतोच्यते
- उभयोः समभावेन वृत्तिर्वृत्तिरुदाहृता
- गीतप्रधानतावाद्यगुणता दक्षिणा मता १६४
- द्रुतादिकाल्लँयानासां नियच्छन्ति क्रमात्परे
- समां स्रोतोगतां तद्वद्गोपुच्छां च यतिं क्रमात् १६५
- मागधीं संभाविताख्यां गीतिं च पृथुलां क्रमात्
- ओघं चानुगतं तत्त्वं वाद्यान्येतान्यनुक्रमात् १६६
- मार्गं चित्रं वार्तिकाख्यं दक्षिणाख्यं यथाक्रमम्
- अनागतसमातीतान्प्रहानिह च मन्वते १६७
- इति वृत्तित्रयम्
- तत्त्वं भवेदनुगतमोघश्चेति निरूपितम्
- गीतानुगं त्रिप्रकारं वाद्यं तल्लक्ष्म कथ्यते १६८
- लयं तालं विरामं च यतिं गीतिं तथाऽक्षरम्
- वर्णग्रामविभागं च नानाजात्यंशकादिकम् १६९
- व्यञ्जद्गीतगतं गीतमिलितं तत्त्वमुच्यते
- इति तत्त्वम्
- किंचिद्गीतानुहरणाद्वाद्यं त्वनुगतं मतम् १७०
- यथा विरतिरन्यत्र स्थितिः स्थानान्तरेष्वपि
- विलम्बिते गीतलये वैदग्ध्याद्द्रुतवादनम् १७१
- इत्यनुगतम्
- गीतस्यान्तेऽनुकर्ताऽपि भागशश्चातुरीयशात्
- निरन्तरैः पाणिघातैः समुदायानुकारितम्
- वादको दर्शयेद्वाद्ये यत्रौघं तं प्रचक्षते १७२
- इत्योघः
- एकविंशतितन्त्रीस्थमेतद्धात्वादिवादनम्
- एकतन्त्र्यादिवीणासु यथायोगं प्रवर्तयेत् १७३
- एकतन्त्र्यां च यत्प्रोक्तं तज्ज्ञेयं नकुलादिषु
- वेणावपि तदिच्छन्ति वेणुप्रावीण्यशालिनः १७३
- इति गीतानुगे वाद्यम्
- भेदान्निर्गीतवाद्यस्य वैणस्याथ प्रचक्ष्महे १७५
- आश्रावणाऽऽरम्भविधिर्वक्त्रपाणिस्ततः परम्
- संखोटना चतुर्थी च पञ्चमी परिघट्टना १७६
- मार्गासारितकं लीलाकृतमासारितत्रयम्
- दशेति शुष्कवाद्यानि तल्लक्ष्म व्याहरेऽधुना १७७
- विस्तारधातुभेदानामादिमं द्विः प्रयुज्यते
- द्वितीयं च प्रयुज्य द्विराद्यं भेदं द्वितीयकम् १७८
- लीनाकृतिं द्विरुच्चार्य तद्वद्युग्मान्तराण्यपि
- प्राक्प्राग्युग्मोत्तरादीनि प्रयुञ्जीत तदा भवेत् १७९
- आश्रावणं शुष्कवाद्यमत्र त्वाह विशाखिलः
- विस्तारधातुभेदानां प्रयोगे द्रुतरूपताम् १८०
- आद्य्खण्डे यदाऽऽद्वौ द्वावेकादशचतुर्दशौ
- वर्णः पञ्चदशस्तद्वच्चतुर्विंशो गुरुर्भवेत् १८१
- लघवोऽष्टादशान्ये स्युरेवं खण्डे द्वितीयके १८२
- तृतीये तु तृतीयो गोऽष्टमपञ्चदशौ तथा
- शेषा द्वादश लाः खण्डैस्त्रिभिरेवं ध्रुवा भवेत्
- आश्रावणायां गेया सा सूरिभिः सिद्धिमीसुभिः १८३
- वक्ष्यामहे मुनिमतादस्यां पातकलाविधिम्
- द्वाविंशतिः कला केचित्केऽप्यष्टाविंशतिः कलाः १८४
- अन्ये द्वात्रिंशतिं प्राहुस्तत्रैवं तालयोजना १८५
- शम्यात्रयं ततस्तालास्त्रयोऽत्रानागतग्रहे
- ततः समग्रहे शम्पाद्वयं तालद्वयं तथा १८६
- ततोऽतीतग्रहे शम्पातालौ द्वादश ताः कलाः
- यथाक्षरस्योत्तरस्य षट्चतस्रस्तु युग्मजाः
- कला द्वाविंशतावेवमथाष्टाविंशतौ विधिः १८७
- द्वादशात्र कलाः प्रावद्द्विकलोत्तरवत्ततः
- कला द्वादश शेषास्तु स्युरेककलयुग्मवत् १८८
- अथ द्वाविंशतिः प्राच्याः स्युश्चतुर्विंशतिः कलाः
- द्वितीयपक्षवत्प्रान्ते त्वष्टौ द्विकलयुग्मवत् १८९
- एषु त्रिष्वपि पक्षेषूत्तरश्चच्चत्पुटस्तथा
- अतीतेन ग्रहेण स्याद्विदारीरथ कीर्तये १९०
- शम्पात्रयेण प्रथमा परा तालत्रयेण तु
- शम्पाद्वया तृतीया स्यात्तुर्या तालद्वयेन तु १९१
- पञ्चमी शम्पातालाभ्यां षष्ठी स्यात्पञ्चपाणिना
- चच्चत्पुटा सप्तमी स्यात्तास्तिस्रो मन्वते परे १९२
- यथाक्षरस्य युग्मस्य द्विरावृत्त्या विदारिका
- आद्या तथा द्वितीया स्यात्तयोरन्ते कलाद्वयम् १९३
- एवमष्टादश कलास्ततो युग्माद्यथाक्षरात्
- विदारी स्यात्तृतीयाऽन्ये विदारीरन्यथा जगुः १९४
- आद्या द्विकलयुग्मेन द्वितीया च तथा भवेत्
- यथाक्षरेणोत्तरेण तृतीयाऽन्येऽन्यथा जगुः १९५
- पूर्वोक्ता द्वादश कला विदार्याद्या परा पुनः
- यथाक्षरेणोत्तरेण शेषा युग्माद्यथाक्षरात्
- एवमाश्रावणामाह श्रीमान्यज्ञपुराग्रणीः १९६
- इत्याश्रावणा
- स्युरारोहावरोहाभ्यां युक्ता विस्तारधातुजाः
- भेदास्तलेन रिभितह्वादाभ्यां मिश्रिताः क्रमात् १९७
- ततः करणभेदं द्विस्त्रिर्वाऽभ्यस्य विलीनवत् १९८
- बहुलेन प्रयुक्ते चैकविस्तारे पुनस्तथा
- द्विरभ्यस्येदेवमेव करणस्य भिदाः पराः १९९
- यत्राऽऽरम्भविधिः स स्यादथ तस्य ध्रुवां ब्रुवे
- गुरवोऽष्टौ द्वादशाथ लघवः पञ्च गा इति २००
- पञ्चविंशत्यक्षरं स्यादाद्यखण्डं ततः परम्
- लघवोऽष्टौ गुरुर्लाश्च चत्वारो गश्चतुर्लघुः २०१
- गश्चेत्येकोनविंशत्या वर्णैः खण्डं द्वितीयकम्
- यस्यास्तृतीयखण्डेऽष्टौ ला गोऽन्ते स्याद्ध्रुवाऽत्र सा २०२
- एकविंशे गुरौ कार्या विश्रान्तिः पूर्वखण्डके
- द्वितीयखण्डे विश्राम्येद्गुरौ वर्णे चतुर्दशे २०३
- स्याद्द्वादशकलं खण्डमाद्यमन्यत्तु षट्कलम्
- चतुष्कलं तृतीयं स्यादथ तालोऽत्र कथ्यते २०४
- तालत्रयं च शम्पैका तालौ द्वौ शम्पयोर्द्वयम्
- द्वौ तालौ संनिपातौ द्वावित्याद्ये शकले कलाः २०५
- यथाक्षरस्योत्तरस्य क्रमाच्चच्चत्पुटस्य च
- कला भवन्ति शकले द्वितीये च तृतीयके २०६
- इत्यारम्भविधिः
- बहुलाविद्धकरणस्तोकव्यञ्जनधातुकः
- विस्तारधातुना हीनो बक्त्रपाणिः प्रकीर्तितः २०७
- मुखप्रतिमुखे स्यातां तालाङ्गे द्वे च नाथवा
- प्रवृत्तं चैककं वर्णाङ्गमत्राथ ब्रुवे ध्रुवाम् २०८
- गुरवः पञ्च लाः षट्च गुरवः षड्लघुद्वयम् २०९
- चत्वारो गास्तथा लाः स्युस्त्रयो गा लघवोऽष्ट च
- यत्र स्याद्गुरुरन्ते सा वक्त्रपाणौ ध्रुवा भवेत् २१०
- या मात्रा वस्तुनोऽन्त्या स्याद्विकले मद्रके स्थिता
- तस्यास्तालोऽत्र कर्तव्यः कलास्वष्टासु तन्मुखम् २११
- अथ प्रतिमुखं कार्यं चतुरावृत्तियोगिना
- उत्तरेणापरेत्याहुः पूर्वोक्तो यः कलाष्टकः
- सोऽत्र कार्यस्त्रिरावृत्तो मात्रया तु विदारिका
- इति वक्त्रपाणिः
- अङ्गुष्ठाभ्यां च तर्जन्या तन्त्रीं निष्पीड्य वदयन्
- बिन्दुं मिथो मेलयेत वादिसंवादिनौ स्वरौ
- बहुधा तद्गुणत्वेन प्रयुञ्जीतानुवादिनः २१३
- विवादिनोऽल्पकान्कुर्याद्विस्तारस्य भिदास्तथा २१४
- धात्वन्तरैर्मिश्रयित्वाऽभ्यस्येद्द्विस्त्रिः पृथक्ततः
- केवलास्ताः प्रयुज्य द्विस्तासु मग्नानिवापरान्
- धातून्यत्र प्रयुञ्जीत प्राहुः संखोटनाममूम् २१५
- गुरू द्वौ लघवोऽष्टौ च द्वौ गुरू च लघुर्गुरुः
- यत्र द्वादश ला गोऽन्ते सा स्यात्संखोटनाध्रुवा २१६
- यथाक्षरद्विकलयोः स्युरत्रोत्तरयोः कलाः
- नात्र संख्या विदारीणां भणिता भरतादिभिः २१७
- इति संखोटना
- भेदा व्यञ्जनधातूत्था भेदैः करणधातुजैः २१८
- चित्रिता ललिताः स्निग्धाः क्रियन्ते करलाघवात्
- आरोहबहुला यस्यां तामाहुः परिघट्टनाम् २१९
- गुरूण्यष्टौ च लघवः स्युश्चतुर्विंशतिर्गुरू
- द्वौ षोडश लघून्यन्ते गुरुर्यत्र ध्रुवाऽत्र सा २२०
- संपकेष्टाकवद्यद्वा स्युः संपिष्टकवत्कलाः
- संपिष्टके कलाः प्रोक्ता दश द्वादश वा पुरा २२१
- संपिष्टककलास्त्वत्र द्वादशैवेति संमतम्
- द्वादशानां दशानां च प्राहुरन्ये समुच्चयम् २२२
- संपक्वेष्टाकतालं च द्विकलीकृत्य केचन
- तद्द्वादशकला तालयोगमत्र प्रचक्षते २२३
- यथाक्षरद्विकलयोः संपक्वेष्टाकयोरिह
- अष्टादश कलाः केचिदाचक्षत समुच्चिताः २२४
- इति परिघट्टना
- विस्ताराविद्धकरणभेदश्मिश्रप्रयोगतः
- यथा कलतलाख्याभ्यां मार्गासारितकं भवेत्
- अन्ये कलतलोन्मिश्रकरणं लक्ष्म चक्षते २२५
- गाश्चत्वारो लघून्यष्टौ गौ द्वावष्टौ लघून्यथ २२६
- गौ ल इत्याद्यखण्डं स्यादेवं खण्डद्वयं परम्
- यस्यामसौ ध्रुवा ज्ञेया मार्गासारितसंश्रया २२७
- एकं चच्चत्पुटे खण्डमुत्तरे शकलद्वयम्
- कनिष्ठासारितोक्तेन कार्यस्तालकलाविधिः २२८
- इति मार्गासारितम्
- प्रयोगोऽभिसृतस्य स्यात्तथा परिसृतस्य चेत्
- तथा लयान्तरगतौ वाद्यतालकलाविधौ
- माधुर्यं सौकुमार्यं च तदा लीलाकृतं भवेत् २२९
- षड्जग्रामस्थजात्यंशे यद्गीतं वार्तिके पथि
- आसारितं तदेवोक्तं धीरैरभिसूताहयम् २३०
- जात्यंशे मध्यमग्रामसंस्थे परिसृतं त्विदम् २३१
- अन्ये तु माषघातादिसप्ताङ्गमपरान्तकम् २३२
- ब्रुवतेऽभिसृतं तत्तु प्रदानादिनवाङ्गकम्
- प्राहुः परिसृतं मृग्यं तालाध्याये लयान्तरम् २३३
- गीतकत्रयसंयोगादेवं लीलाकृतं त्रिधा
- प्रयोगौ द्वौ पदैश्चास्य सार्यकैश्च निरर्थकैः २३४
- वीणावाद्यं मानतालयुक्तं शम्पादिवर्जितम्
- आहुरेके मानहीनमपि त्वाह विशाखिलः २३५
- ध्रुवायां तूभयस्तालः परैस्त्वनियमात्मकः २३६
- इति लीलाकृतम्
- आसारितत्रयं पूर्वं तालाध्याये निरूपितम्
- यथाक्षरं द्विसंख्यातं त्रिसंख्यातमिति त्रिधा २३७
- प्रत्येकं तस्य चाऽऽवृत्तिर्वर्णालंकारशोभना
- वृत्तित्रयेण वाद्यैश्च तत्त्वाद्यैः करणेन च
- धातुना चित्रिता कार्या बुधैर्वीणाविधाविह २३८
- इत्यासारितत्रयम्
- आलापिनीगतं लक्ष्म वक्ष्ये लक्ष्यविदां मतम्
- नवमुष्टिमितो दैर्घ्ये वैणवः सुषिरान्तरः २३९
- अङ्गुलद्वंद्वपरिधिः प्राग्वद्ग्रन्थ्यादिवर्जितः
- श्लक्ष्णः समः सुवृत्तश्च दण्डः स्यात्ककुभं दधत् २४०
- अङ्गुलद्वयविस्तारमङ्गुलार्धायतं तथा
- तदर्धं पिण्डसंयुक्तमुन्मुखं पत्रिकोज्झितम् २४१
- एकदण्डमधोभागे शङ्कुना तु विराजितम्
- चतुरङ्गुलदैर्घ्येण बहिर्मध्योन्नतेन च २४२
- तस्य तुम्बं परीणाहे द्वादशाङ्गुलसंमितम्
- चतुरङ्गुलवक्त्रं च दन्तनाभिसमन्वितम् २४३
- अग्रादधस्तात्पादोने मुष्टियुग्मे निबध्यते
- अत्र मेषान्त्रतन्त्री स्यात्सूक्ष्मा श्लक्ष्णा समा दृढा २४४
- कर्परं नारिकेलोत्थं दोरको दोरिकास्तथा
- त्रीण्येतानि निबध्यन्ते यत्र साऽऽलापिनी मता २४५
- दशमुष्टिमितं दण्डमत्राऽऽहुः खादिरं परे
- पट्टसूत्रमयीं तन्त्रीं यद्वा कार्पाससूत्रजाम् २४६
- रक्तचनद्नजान्सर्वान्वीणादण्डान्परे जगुः
- दशमुष्ट्यधिकं मानं क्वचिल्लक्ष्येषु दृश्यते २४७
- तुम्बं वक्षसि निक्षिप्य वामाङ्गुष्ठेन तस्य च
- मूलमुत्पीड्य धृत्वा तामथ मध्यमया सुधीः २४८
- दक्षिणस्यानामया वा वादयेद्बिदुधातुवत्
- बिन्दुहस्तेन वा मन्द्रे मध्ये तारे च वादयेत् २४९
- त्रयस्तु दक्षिणात्पाणेश्चत्वारो नामतः स्वराः
- इत्युक्तं कैश्चिदाचार्यैरपरे त्वन्यथा जगुः २५०
- मध्यमो मुक्तया तन्त्र्या तर्जन्याद्यङ्गुलीत्रयात्
- वामस्यानामिकावर्ज्यास्त्रयः स्युः पञ्चमादयः २५१
- मुक्ततन्त्र्याऽथ षड्जः स्यादृषभस्तर्जनीभवः
- गान्धारो मध्यमाङ्गुल्या दक्षिणेनाथ वादनम् २५२
- आरोहेणावरोहेण सप्तकद्वितये भवेत्
- एभिः स्वरैर्विरचितं विचित्रं रागमालपेत् २५३
- गायेद्गीतं निबद्धं च प्रवीणो वीणयाऽनया
- इदमालापिनीलक्ष्म श्रीनिःशङ्केन कीर्तितम् २५४
- इत्यालापिनीलक्षणम्
- किंनरी द्विविधा लघ्वी बृहती चेति कीर्तिता
- तत्र लघ्वीगतं लक्ष्म सांप्रतं प्रतिपाद्यते २५५
- स्याद्वितस्तित्रयं दैर्घ्ये मानं पञ्चाङ्गुलाधिकम्
- पञ्चाङ्गुलः परीणाहो वेणुदण्डस्य यत्र च २५६
- गर्भेऽस्य व्यापकं रन्ध्रं ककुभः शाकदारुजः
- सार्धद्व्यङ्गुलविस्तारो दैर्घ्ये पञ्चाङ्गुलश्च सः २५७
- तस्मादर्धाङ्गुलन्यूना दैर्घ्यविस्तारयोर्भवेत्
- मध्ये कूर्मोन्नता लौही पत्रिका ककुभस्थिता २५८
- गृध्रवक्षोऽस्थिनलिका कनिष्ठाङ्गुलिसंमिता
- लौही कांस्यमयी यद्वा कीर्तिता सारिकाख्यया २५९
- श्लिष्टा वस्त्रमषीमिश्रमदनेन चतुर्दश
- चतुर्दशस्वरस्थाने दण्डपृष्ठे निवेशयेत् २६०
- सप्तकस्य द्वितीयस्य यो निषादो भवेदधः
- तस्य स्थाने भवेदाद्या सारिकाऽन्योर्ध्वमङ्गुलात् २६१
- स्थापयेदन्तरे किंचित्किंचित्पूर्वाधिके परा
- द्व्यङ्गुलावध्यष्टमीं तु पूर्वस्यास्त्र्यङ्गुलान्तरे २६२
- स्थापयित्वा पराः षट्च पूर्वपूर्वाधिकान्तरे
- चतुरङ्गुलपर्यन्तं सारिकाः संनिवेशयेत् २६३
- तुम्बं दण्डस्य ककुभस्याधःसंधौ निवेशयेत्
- तृतीयतुर्यसार्योस्तु मध्येऽधस्ताद्वितीयकम् २६४
- पूर्वस्मादपरं तुम्बं विस्तारेऽभ्यधिकं मनाक्
- दण्डाग्राद्द्व्यङ्गुलेऽधस्ताद्रन्ध्रं कृत्वाऽथ निक्षिपेत् २६५
- चलशङ्कुं गले रन्ध्रं दधमानमतोऽङ्गुलात्
- अधस्तादङ्गुलोत्सेधं मेढकं बाणपुङ्खवत् २६६
- कृत्वा ततोऽग्रतः किंचित्स्थिरशङ्कुं निवेशयेत्
- ततो लोहमयीं श्लक्ष्णां वर्तुलां च समां दृढाम् २६७
- गजकेशोपमां तन्त्रीं निबध्य ककुभे दृढम्
- सारिकामस्तकन्यस्तामानीतां मेढकोपरि २६८
- लग्नां द्वितीयप्रान्तेन वेष्टयेच्चलकीलके
- शङ्कुं तं भ्रामयेत्तावद्यावत्तन्त्री दृढा भवेत् २६९
- भ्रामणं वैपरीत्येन तन्त्रीशैथिल्यकारणम्
- तन्त्रीदार्घ्येऽथ दार्ढ्याय चलशङ्कोर्गलस्थिते २७०
- छिद्रेऽन्यस्याथ संकीलं स्थिरशङ्कौ निवेशयेत्
- लघ्वी सा किंनरी प्रोक्ता शार्ङ्गदेवेन सूरिणा २७१
- अस्यां स्थायिनमारभ्य गणयेत्सप्तकद्वयम्
- सारीककुभयोर्मध्ये तर्जन्याद्यङ्गुलित्रयात् २७२
- वादयेत्किंनरीवीणातन्त्रीं दक्षिणपाणिना
- वामस्य तिसृभिस्ताभिरङ्गुलीभिस्तु तन्त्रिकाम् २७३
- तत्तत्सारीप्रदेशस्थां स्वरव्यक्त्यै निपीडयेत्
- वितस्त्यभ्यधिका दैर्घ्ये परिणाहेऽङ्गुलाधिका २७४
- लघ्व्याः स्याद्बृहती स्नायुमया तन्त्रीस्त्रितुम्बिका
- आलापिनीवदस्यां च स्थाप्यं तुम्बं तृतीयकम्
- अन्यल्लघ्वीगतं लक्ष्म बृहतीं किंनरीं श्रयेत् २७५
- इति द्विविधकिंनरीलक्षणम्
- किंनरीत्रितयं तत्र देशीसंसिद्धमन्यथा
- बृहती मध्यमा लघ्वीत्यथाऽऽसां लक्ष्म वक्ष्यते २७६
- तिर्यग्यवोदरैः षड्भिर्निस्तुषैः स्यादिहाङ्गुलम्
- बृहतीदण्डमानं स्याद्दैर्घ्ये पञ्चाशदङ्गुलम् २७७
- षडङ्गुलोऽत्र परिधिर्दण्डे दैर्घ्ये तु काकुभे
- षडङ्गुलं शिरस्त्वस्य दैर्घ्यविस्तारयोर्भवेत् २७८
- चतुरङ्गुलसंमानं द्व्यङ्गुलं तु तदुच्छ्रये
- निक्षिपेत्काकुभं दण्डं वीणादण्डोत्तरे तथा २७९
- दण्डांशः परिशेषोऽत्र तावान्यावति शेषिते
- वीणादण्डान्तककुभशिरोमध्यान्तरे स्थितः २८०
- तन्त्रीभागस्तृतीयांशाधिकत्र्यङ्गुलको भवेत्
- मध्ये कूर्मोन्नतां लौहीं पत्रिकां शिरसि क्षिपेत् २८१
- परितोऽर्धाङ्गुलन्यूना शिरसोऽसौ प्रकीर्तिता
- वीणाशीर्षादधस्ताच्च सार्धद्व्यङ्गुलतः स्थितम् २८२
- ऊर्ध्वाधोदैर्घ्यभाग्रन्ध्रं विस्तारेऽर्धाङ्गुलायतम्
- तिर्यग्दैर्घ्यं तावदन्यद्रन्ध्रं चोभयतोमुखम् २८३
- तिर्यग्रन्ध्रे चलं शङ्कुमूर्ध्वरन्ध्रनिविष्टया
- लौह्या सारिकया युत्तप्रान्तान्तरं पुनः २८४
- सारिकायाः शिरोमूले बध्नीयात्काकुभे सुधीः
- तन्त्रीरन्ध्रात्पुरः सान्ध्रीद्व्यङ्गुले मेढको भवेत् २८५
- स च स्यात्कर्तरीयुक्तो गले रन्ध्रान्वितोऽथवा
- कर्तर्या गलरन्ध्रे वा सारिकां तां निवेशयेत् २८६
- तद्रन्ध्रे दण्डान्तरालां विदध्यात्सयवाङ्गुलम्
- मेढकात्पुरतः शङ्कुः स्थिरः सार्धाङ्गुलोत्तरे २८७
- तिर्यग्रन्ध्रे निवेशोऽस्य चलशङ्कुवदिष्यते
- चलशङ्कुभ्रामणादि ज्ञेयं पूर्वोक्तरीतितः २८८
- गृध्रवक्षोस्थिजा यद्वा तत्पादास्थिसमुद्भवाः
- कांस्यमय्योऽथवा लौह्यो नलिकाः सारिका मताः २८९
- सार्धाङ्गुलास्ताः परिधौ दण्डपृष्ठे निवेशयेत्
- यन्मेढकशिरोमध्यादुपक्रम्यान्तरं भवेत् २९०
- सारीमस्तकमध्यानां तदिदानीं निरूप्यते
- आद्यान्तरं तत्र यवाधिकं पञ्चाङ्गुलं मतम् २९१
- द्वितीयमन्तरालं तु चतुरङ्गुलमुत्तरम्
- तस्मात्तृतीयतुर्ये तु यवन्यूने मते सताम् २९२
- यवाधिकत्र्यङ्गुलं तु ज्ञेयं पञ्चममन्तरम्
- यवोनद्व्यङ्गुलं षष्ठं सयवद्व्यङ्गुलं पुनः २९३
- अन्तरालं सप्तमं स्यात्सार्धद्व्यङ्गुलमष्टमम्
- नवमं तु यवार्धेन सार्धाङ्गुलमितं मतम् २९४
- दशमं द्व्यङ्गुलं हीनं यवेनैकादशं ततः
- द्वादशं तु तृतीयांशन्यूनं तस्मात्त्रयोदशम् २९५
- सतृतीयांशागुलं स्यादङ्गुलं तु चतुर्दशम्
- द्वितीयान्तरतोऽधस्तान्न्यस्येत्तुम्बमधोमुखम् २९६
- अन्यत्ककुभमूर्ध्वाधस्तुम्बकं संनिवेशयेत्
- षट्त्रिंशदङ्गुलं चक्रे परिधिस्त्वाद्यतुम्बके २९७
- किंचिन्न्यूनं ततस्तुम्बं परिधौ स्यादधस्तन
- ईषदस्पष्टसरिका सारिकास्ता निवेशयेत् २९८
- मदनेनेष्टकाचूर्णमिश्रेण श्लेषणं दृढम्
- सारीणामथवा वस्त्रमषीमिश्रेण संमितम् २९९
- मुक्ततन्त्रीभवं कृत्वा स्वरमाद्यं चतुर्दशम्
- स्वराः परे स्युः सारीणां चतुर्दशभिरन्तरैः ३००
- सप्तकद्वयमेवं स्यादेकतारस्वराधिकम्
- यथास्वं स्वरदेशांशैः श्रुतिस्तस्या विचिन्वते ३०१
- द्वित्रास्ततोऽधिकाः सारीर्निबध्नीयात्परे त्विह
- लक्षयन्त्यन्तराण्यासां स्वराविर्भावतो बुधाः ३०२
- श्रीशार्ङ्गदेवोपदेशात्तद्बोधः सुलभो नृणाम्
- केचित्त्रयोदशैवात्र सारीर्निदधते बुधाः ३०३
- बृहती किंनरीत्येषा शार्ङ्गदेवेन कीर्तिता
- मध्यमायां दण्डदैर्घ्यं त्रिचत्वारिंशदङ्गुलम् ३०४
- परिधिर्दृश्यते तत्र द्वियवोनषडङ्गुलः
- सार्धत्र्यङ्गुलविस्तारं प्राग्दैर्घ्यं काकुभं शिरः ३०५
- क्षिपेत्ककुभदण्डस्य वीणादण्डेऽङ्गुलत्रयम्
- तावांश्च परिशेषेऽसौ यावतः परिशेषणे ३०६
- दण्डान्तशीर्षमध्यान्ते सारिकावयवस्थितः
- तृतीयभागरहिताङ्गुलत्रयमितो भवेत् ३०७
- दण्डान्ते सारिकोत्सेधः स्याद्यवोनाङ्गुलद्वयः
- तदर्धो मेढकोपान्त्ये सारीणामन्तरः त्विह ३०८
- प्रथमं प्रथितं प्राज्ञैः सार्धाङ्गुलचतुष्टयम्
- द्वितीयमन्तरं मेयं सयवैरङ्गुलैस्त्रिभिः ३०९
- तृतीयं तु तृतीयांशाभ्यधिकैस्त्रिभिरङ्गुलैः
- चतुर्थं त्र्यङ्गुलं प्रोक्तं पञ्चमं सारिकान्तरम् ३१०
- यवाधिकाभ्यां सार्धाभ्यामङ्गुलाभ्यां मितं मतम्
- षष्ठं यवद्वयन्यूनद्व्यङ्गुलं सप्तमं पुनः ३११
- सयवार्धाङ्गुलद्वंद्वमष्टमं त्वङ्गुलद्वयम्
- अङ्गुलं सयवद्वंद्वं नवमं दशमं पुनः ३१२
- यवोनमङ्गुलद्वंद्वमन्तरत्रितयं पुनः
- इतं परस्याः प्रत्येकं सपादाङ्गुलसंमितम् ३१३
- विशेषोऽयमिहान्यत्तु लक्ष्म स्याद्बृहतीगतम्
- लघ्वीदण्डगतं दैर्घ्ये स्यात्पञ्चत्रिंशदङ्गुलम् ३१४
- परिधिस्तु तृतीयांशाभ्यधिकाङ्गुलपञ्चकः
- अङ्गुलत्रयविस्तारं ककुभस्य शिरो भवेत् ३१५
- पूर्ववत्काकुभो दण्डो वीणादण्डे निधीयते
- परिशेषस्तथा सा स्याद्यथा दण्डान्ततन्त्रिका ३१६
- आ काकुभशिरोमध्याद्भवेत्त्र्यङ्गुलसंमिता
- दण्डान्ते सारिकोत्सेधः स्यात्सार्धाङ्गुलसंमितः ३१७
- तदर्धे मेढकोपान्ते तत्राऽऽद्यं सारिकान्तरम्
- प्रोक्तं यवेनाभ्यधिकैश्चतुर्भिर्मितमङ्गुलैः ३१८
- द्वितीयं द्वियवोपेताङ्गुलद्वंद्वमितं भवेत्
- यवोनाभ्यामङ्गुलीभ्यां तृतीयं मीयते बुधैः ३१९
- पादोनत्र्यङ्गुलं तुर्यमथ पञ्चममन्तरम्
- यवार्धोनाङ्गुलद्वंद्वं षष्ठं सार्धाष्टभिर्यवैः ३२०
- सप्तमं तु यवोनेनाङ्गुलद्वंद्वेन मीयते
- साधाङ्गुलं त्वष्टमं स्यान्नवमं त्वष्टभिर्यवैः ३२१
- दशमैकादशे प्रोत्ते सपादाङ्गुलके पृथक्
- यवन्यूनाङ्गुलमितं द्वादशं च त्रयोदशम् ३२२
- अन्यत्तु लघुकिंनर्यां लक्ष्म पूर्ववदिष्यते
- न बृहत्यधिकं मानं न हीनं त्रिंशदङ्गुलात् ३२३
- आदर्तव्यं किंनरीणां रक्तिमाधुर्यवर्जनात्
- एतयोरन्तराले तु यथेष्टं मानकल्पना ३२४
- शक्ता विवेक्तुमत्रापि स्वरस्थानानि तद्विदः ३२५
- प्रदर्शनार्थं केषांचिद्रागाणां वादनक्रमम्
- अस्यां किंनरवीणायां वक्ति श्रीकरणेश्वरः ३२६
- स्थायिनं मध्यमं मन्द्रं मध्यं वा स्थायतत्परान्
- आरुह्य पनिसान्पञ्चावरोह क्रमतः स्वरान् ३२७
- षड्जतः स्थायिपर्यन्ताद्यथा हन्यात्तु धैवतम्
- आरुह्य पनिसान्पञ्चावरोह क्रमतः स्वरान् ३२७
- षड्जतः स्थायिपर्यन्ताद्यथा हन्यात्तु धैवतम्
- मध्यमादेः समाख्यातं स्वस्थानं प्रथमं तदा ३२८
- द्व्यर्धमर्धस्थितं तद्वदारुह्य द्विगुणं स्वरम्
- आद्यं स्वस्थानमातिष्ठेत्स्वस्थानं त्रितये परे ३२९
- असंभवे पूर्वपूर्वस्वरस्य तु परं परम्
- क्रमेण स्वरमारोहेत्सर्वरागेष्विति स्थितिः ३३०
- इति मध्यमादिः
- किंनरीवादकाः प्रायः स्थायिनं पञ्चमं स्वरम्
- रागे कुर्वन्ति बङ्गाले तदज्ञानविजृम्भितम् ३३१
- ग्रहो हि मध्यमो रागस्यास्य शास्त्रे प्रकीर्तितः ३३२
- यद्वा लक्ष्यप्रधानानि शास्त्राण्येतानि मन्वते
- तस्माल्लक्ष्यविरुद्धं यत्तच्छास्त्रं नेयमन्यथा ३३३
- मध्यमादिपदं ज्ञेयं पञ्चमाद्युपलक्षणम् ३३४
- प्राथम्यसाम्यतो यद्वा नियमादृष्टकल्पना
- मध्यमादिग्रहे कार्या नन्वस्मिन्मध्यमे ग्रहे ३३५
- अधस्तनः स्याद्गान्धारो मध्यमः पञ्चमग्रहे
- तुर्यादिव्यत्ययेऽप्येवं रागसाम्यं कथं भवेत् ३३६
- निःशङ्कोऽत्र समाधत्ते गान्धाराद्यप्रयोजकम्
- किंतु स्थायिनमारभ्य ये स्युस्तुर्यादयः स्वराः ३३७
- रागाभिव्यक्तिशक्ताः ये स्युस्तुर्यादयः स्वराः ३३७
- रागाभिव्यक्तिशक्ताः स्युर्ननु शास्त्रेष्वनर्थिका
- षड्जाद्युक्तिः प्रसज्येत सत्यं तत्रोच्यते त्विदम् ३३८
- मध्यमादिग्रहः शास्त्रे नियतस्तदपेक्षया
- तुर्यादयो निषादाद्या भवन्तीत्युपपद्यते ३३९
- ग्रहांशन्यासनियमौ यद्वा शास्त्रार्थगोचरः
- गुम्फः स्वरान्तराणां तु लक्ष्यस्थाने विरुध्यते ३४०
- सर्वत्र परिहारोऽयं लक्ष्ये लक्ष्माविरोधिनि
- देशीरागेषु निर्णीतः शार्ङ्गदेवेन सूरिणा ३४१
- मध्यमं स्थायिनं कृत्वा गान्धारात्तदधस्तनात्
- पञ्चाऽऽरुह्य निषादान्तान्गपर्यन्तावरोहणम् ३४२
- कृत्वा स्थायिनिषादौ च विधायाऽऽहत्य धैवतम्
- स्थाय्यन्तमवरोहश्चेद्बङ्गालो जायते तदा ३४३
- इति बङ्गालः
- धैवतं स्थायिनं कृत्वा तृतीयं च चतुर्थकम्
- तस्मात्कृत्वाऽवरोहेण स्थायिपर्यन्तमेत्य च ३४४
- तृतीयं च ततोऽधस्थं विधाय स्थायिनं व्रजेत्
- यदा तदा भैरवः स्याल्लक्ष्ये स्थायी निरीक्ष्यते ३४५
- इति भैरवः
- स्थायिनो धैवतात्पूर्वं स्वरमागत्य तत्परान्
- पञ्चानारुह्य तुर्यं च द्वितीयं द्विः प्रयुज्यते ३४६
- स्थायिनि न्यस्यते रागो वराटी जायते तदा
- लक्ष्ये तु दृश्यते स्थायी किंनर्यामृषभस्वरः ३४७
- इति वराटी
- स्थायिनं मध्यमृषभं कृत्वा द्वौ तदधस्तनौ
- गत्वा स्थायिनमारभ्य त्रीनारुह्यावरुह्य तु ३४८
- पञ्च स्वरान्न्यस्यते चेदृषभे गुर्जरी तदा
- ग्रहो गान्धार एवास्या दृश्यते लक्ष्यगोचरे ३४९
- इति गुर्जरी
- मध्यषड्जाद्ग्रहात्पूर्वं स्वरमेत्य तृतीयकम् ३५०
- तुर्यं चोक्त्वा द्वितीयादींस्त्रीनारुह्यावरुह्य च
- ग्रहन्यासाद्वसन्तः स्याल्लक्ष्ये त्वस्यर्षभो ग्रहः ३५१
- इति वसन्तः
- मध्यषड्जं ग्रहं कृत्वा तृतीयं च चतुर्थकम्
- उक्त्वा द्वितीयतृतीयौ स्पृष्ट्वा तुर्यं च पञ्चमम् ३५२
- एतत्क्रमेणावरोहस्त्यक्त्वा स्थायिद्वितीयकम्
- स्थायिपूर्वान्तमागत्य ग्रहं तस्मात्तृतीयकम् ३५३
- तुर्यं ततस्तृतीयं च प्रोच्यते न्यस्यते गृहे
- धन्नासी स्यात्तदा दृष्टो लक्ष्ये स्यात्पञ्चमो ग्रहः ३५४
- इति धन्नासी
- ऋषभं स्थायिनं कृत्वा परं स्पृष्ट्वा ततः परम्
- विलम्ब्य तुर्यमान्दोल्य स्पृष्ट्वा तुर्यादधस्तनौ ३५५
- ग्रहान्निःसरणं कृत्वा परौ प्रोच्य द्वितीयकम्
- एत्य स्थायिनि चेन्न्यासो देशीरागस्तदा भवेत्
- गान्धारस्तु ग्रहो देश्यां देशीवेदिषु दृश्यते ३५६
- इति देशी
- स्थायिनं मध्यगान्धारं कृत्वाऽधस्तुर्यमेत्य च
- तस्मादाषष्ठमारुह्य स्वरांस्तानवरुह्य च ३५७
- ग्रहाधस्तात्तृतीयं च कृत्वा चेन्न्यस्यते ग्रहे
- देशाख्या सा तदा लक्ष्ये दृष्टोऽस्या मध्यमो ग्रहः ३५८
- इति देशान्तराख्या
- ग्रहान्मध्यस्थितात्षड्जाद्द्वितीयं स्वरमेत्य चेत्
- तृतीयं तदधस्थं च विलम्ब्य स्थायिनं स्पृशेत् ३५९
- अधस्तृतीयतुर्यौ च तं तृतीयं पुनः स्वरम्
- कृत्वा स्थायिस्वरे न्यासो डोम्बक्री जायते तदा
- भूपाली सा जनैरुक्ता स्थाय्यस्या मध्यमो मतः ३६०
- इति डोम्बक्री
- मन्द्रस्थं पञ्चमं कृत्वा स्थायिनं सह तेन च ३६१
- आरुह्य षट्स्वरानेषामवरोहे तृतीयकम्
- विलम्ब्य कम्पितं कृत्वा तुर्यं स्थायिनमाव्रजेत् ३६२
- क्रमेण यदि जायेत तदा प्रथममञ्जरी
- अस्यास्तु मन्द्रगान्धारः स्थायी लक्ष्येषु दृश्यते ३६३
- इति प्रथममञ्जरी
- धैवतं स्थायिनं कृत्वाऽऽन्दोल्य तस्मादवरोहे गृहं व्रजेत्
- यदा तदा स्यात्कामोदा मध्यमोऽस्या ग्रहो भवेत् ३६४
- इति कामोदा
- षड्जं तु स्थायिनं कृत्वा तत्पूर्वस्वरमेत्य च ३६५
- स्वरद्वयं द्विरारुह्य तृतीयं च चतुर्थकम्
- प्रकम्प्याथ तृतीयं च विलम्ब्याऽऽहत्य पञ्चमम् ३६६
- स्थाय्यन्तमवरोहेच्चेत्स्वरानृषभवर्जितान्
- मध्यषड्जं ग्रहं कृत्वा सह प्राचा परौ स्वरौ ३६७
- प्रोच्य तुर्यं विलम्ब्याथ तृतीयं सद्वितीयकम्
- स्पृष्ट्वा यदा ग्रहे न्यासस्तदा रामकृतिर्भवेत् ३६८
- इति रामकृतिः
- स्थायिनं मध्यमं कृत्वाऽधश्चतुर्थमुपेत्य च
- ग्रहाधरांस्त्रीनारुह्य स्वरं स्पृष्ट्वा तृतीयकम् ३६९
- ग्रहाधस्तुर्यपर्यन्तमागत्याप्यवरोहिणा
- ततस्तृतीयमारुह्य करमादेत्य प्रकम्प्य च ३७०
- ग्रहे न्यासो यदा रागस्तदा गौडकृतिर्भवेत्
- पञ्चमो लक्ष्यते स्थायी लक्ष्ये स्याल्लक्ष्यवेदिभिः ३७१
- इति गौडकृतिः
- मध्यषड्जं ग्रहं कृत्वाऽधस्तमेत्य पुनर्ग्रहम्
- कृत्वा तृतीयतुर्यौ च कम्पितं पञ्चमं स्वरम् ३७२
- वादयित्वा ग्रहात्तुर्यं तृतीयं स्थायिनं तथा
- द्वितीयं कम्पयित्वा च तृतीयं स्वरमास्पृशेत् ३७३
- ततो यदि ग्रहे न्यासस्तदा देवकृतिर्भवेत्
- अस्यास्तु मध्यमो न्यासो लक्ष्ये श्रीशार्ङ्गिणोदितः ३७४
- इति देवकृतिः
- धैवतं स्थायिनं कृत्वा गत्वाऽधस्थं पुनर्ग्रहम् ३७५
- तत्परं स्थायिनं तस्मात्पूर्वमागत्य च ग्रहम्
- आरुह्य त्रींस्तृतीयादीन्पञ्चमादवरुह्य च ३७६
- षट्स्वरान्ग्रहमुच्चार्य तृतीयं कम्पयेत्ततः
- तुर्यपञ्चमतुर्यांश्च स्पृष्ट्वा प्रोच्य तृतीयकम् ३७७
- द्वितीयं च ग्रहे न्यासो यदा स्याद्भैरवी तदा
- अस्य रागस्य गान्धारः स्थायी लक्ष्येषु दृश्यते ३७८
- इति भैरवी
- मन्द्रषड्जं ग्रहं कृत्वा मध्यषड्जमुपेत्य च
- अवरोहिक्रमादेत्य ग्रहमारोहिणा ततः ३७९
- पमागत्य विलम्ब्यामुं स्पृष्ट्वा धैवतमाव्रजेत्
- ग्रहाच्चेदवरोहेण च्छायानट्टा तदा भवेत् ३८०
- इति च्छायानट्टा
- मध्यषड्जं ग्रहं कृत्वा तत्परौ द्वौ च पञ्चमम् ३८१
- षष्ठं कृत्वाऽवरुह्येमौ तृतीयादवरुह्य च
- आग्रहं प्राक्तृतीयाद्वाऽवरुह्य प्राक्तृतीयकम् ३८२
- प्रकम्प्य तत्परं प्रोच्य ग्रहे चेन्न्यस्यते तदा
- रामक्री स्यादसौ प्रोक्ता बहुलीपूर्विका जनैः ३८३
- इति बहुलीरामक्री
- धैवतं स्थायिनं कृत्वा तत्परं तु विलम्बितम्
- स्पृष्ट्वा ग्रहद्वितीयौ च ग्रहात्तु प्राक्तृतीयकम् ३८४
- ईषद्विलम्ब्य चाऽऽरुह्य ग्रहादीन्वा तृतीयकम्
- विलम्ब्य तदधस्थं वाऽवरुह्य स्पर्शनात्ततः ३८५
- ग्रहादींस्त्रीन्स्वरान्स्पृष्ट्वा ग्रहमुच्चार्य तत्परम्
- ग्रहे चेन्न्यस्यते रागो मह्लारो जायते तदा
- रागेऽत्र पञ्चमः स्थायी दृश्यते लक्ष्यगोचरः ३८६
- इति मह्लारः
- स्थायिनो मध्यमात्पञ्चाअव्रुच्च यदि मावधीन्
- मात्तृतीयं व्रजेत्तस्मादारुह्य चतुरः स्वरान् ३८७
- स्पृष्ट्वा स्थायिनमेतस्मात्पूर्वं कृत्वा विलम्बितम्
- षड्जे चेन्न्यस्यते गौडकर्णाटो जायते तदा ३८८
- लक्ष्ये तु पञ्चमस्थायी गौडस्यास्य विलोक्यते
- ग्रहान्मन्द्रनिषादाच्चेत्समुच्चार्य स्वरं परम् ३८९
- ततस्तृतीयतुर्यौ च गत्वा स्थायितृतीयकम्
- स्थायितुर्यं च कृत्वाऽस्मात्स्वरान्पञ्चावरुह्य च ३९०
- स्थायिनोऽधस्तुरीयं च स्थायिनोऽधस्तनं ततः
- स्थायिनं तत्परं चोक्त्वा स्थायितुर्यं ग्रहात्परम् ३९१
- कृत्वा न्यासो ग्रहे गौडस्तौरुष्को जायते तदा
- स एव मालवीत्युक्तः स्थायी लक्ष्येऽस्य पञ्चमः ३९२
- इति तुरुष्कगौडः
- ग्रहं मालविनः कृत्वा द्वितीयं प्रोच्य तत्परम्
- लङ्घयेल्लङ्घितादूर्ध्वं त्रीण्यारुह्यावरुह्य च ३९३
- प्रकम्प्य लङ्घितं तस्मात्पूर्वं प्रोच्य ग्रहं व्रजेत्
- यदा तदा द्राविडः स्याद्गौडोऽसौ सालको जनैः ३९४
- अस्यापि स्थायिनं प्राहुर्लक्ष्यज्ञाः पञ्चमं स्वरम् ३९५
- इति द्राविडगौडः
- इत्युपाङ्गानि
- स्थानिनो धैवतात्प्राच्यादवरुह्य ग्रहान्तरम्
- ग्रहं चोक्त्वा तृतीयं च तुर्यं कृत्वा विलम्बितम् ३९६
- तस्मादधस्तनौ स्पृष्ट्वा तृतीयं तु विलम्बयेत्
- स्पृष्ट्वा ग्रहात्परं पूर्वौ पूर्वं चोक्त्वा ग्रहे यदि ३९७
- कम्पिते न्यस्यते रागस्तदा स्याल्ललिताभिधः
- अत्र गान्धारमेवाऽऽहुः स्थायिनं लक्ष्यवेदिनः ३९८
- इति ललितः
- एवं कतिपये रागाः प्रोक्ताः संमुग्धबुद्धये
- वस्तुतः सर्वयन्त्रेषु रागाणां वादनं समम् ३९९
- ग्रहादिस्वरसंभूतिद्वारतोऽन्विष्यतां बुधैः
- किंनर्यां यैः स्वरैः स्वस्वस्थानजैर्यस्य संभवः
- रागस्य तस्य तैरेव वंशादावपि दृश्यते ४००
- इति किंनरीलक्षणम्
- पिनाक्यां धनुषः कम्रैकचत्वारिंशदङ्गुला
- दैर्घ्ये स्यान्मध्यविस्तारः स्यात्सपादाङ्गुलद्वयम् ४०१
- अन्ते चाङ्गुलमानेन शिखां कुर्यादधस्तनीम्
- सपादाङ्गुलमात्रा तु कार्मुकस्योत्तरा शिखा ४०२
- कार्यावङ्गुलदैर्घ्यौ च पादोनाङ्गुलपिण्डकौ
- खटकौ शिखयोर्लग्नौ ताभ्यां त्वर्वागुपान्तयोः ४०३
- पादोनमङ्गुलद्वंद्वं विस्तारे मानमिष्यते
- मध्यप्रान्तान्तराले तु विस्तारं कल्पयेत्सुधीः ४०४
- तन्त्रीमानेन बध्नीयाच्छिखयोर्निपुणो गुणम्
- मानं वादनचाक्पे स्यादङ्गुलान्येकविंशतिः ४०५
- दैर्घ्ये मुष्टौ तु विस्तारोऽत्राङ्गुलित्रितयान्मितः
- स त्वङ्गुलतृतीयांशः शिखे त्यक्त्वाऽन्तयोर्भवेत् ४०६
- ऊर्ध्वाधरशिखाद्वंद्वमानं पादोनमङ्गुलम्
- अश्ववालधिकेशोत्थो गुणो वादनधन्वनः ४०७
- तुम्बं धृत्वाऽथ पादाभ्यां भुवि न्यस्तमधोमुखम्
- तत्र लग्नशिखाऽथोर्ध्वा पिनाकीस्कन्धसंश्रिता ४०८
- आक्रम्य वामहस्तस्थतुम्बमूलेन तद्गुणम्
- ततो दक्षिणहस्तस्थधनुषो वादयेज्ज्यया ४०९
- रालासंलिप्तयाऽस्यां च स्वरस्थानानि निर्णयेत्
- एकतन्त्रीवदधराधरतारतया सुधीः ४१०
- इति पिनाकीलक्षणम्
- बध्यप्रान्तातिरिक्तेंऽशे तन्त्री दैर्घ्ये चतुष्करा ४११
- उपरिस्थे क्वचित्काष्ठे प्रान्तेनैकेन बध्यते
- प्रान्तान्तरेणान्यकाष्ठेऽधस्थे सार्धकरायते ४१२
- स्थौल्येनाऽऽलापिनीतुल्ये त्यक्त्वाऽग्रादङ्गुलद्वयम्
- तन्त्रीं बद्ध्वा ततोऽधस्तात्तुम्बमाबध्य दारु तत् ४१३
- वामोरुमूलाक्रान्ताग्रं जङ्घायां कुञ्चिताकृतौ
- भूलग्नबाह्यपार्श्वायां वामायां न्यस्य जङ्घया ४१४
- आक्रम्य वामेतरया पिनाक्यामिव वादनम्
- धनुषा वामहस्तस्थतुम्बकेन च सारणा ३१५
- आर्द्रचर्मकृतां शुष्कां पेशीं कोणान्वितां खराम्
- वामेनाऽऽदाय तत्कोणेनाथवा सारणा भवेत् ४१६
- यत्र निःशङ्कवीणा सा शार्ङ्गदेवेन शीर्तिता
- त्रिस्थानस्वररागादिव्यक्तिः संजायते तया ४१७
- इति निःशङ्कवीणालक्षणम्
- यथा यथा स्वरे व्यक्ती रक्तेः प्रचुरता भवेत्
- तथा तथा विधातव्यं ततं लोकानुसारतः ४१८
- सम्यक्स्वरोपयोगीनि तन्त्रीवाद्यानि कानिचित्
- उक्तान्यन्यानपि प्राज्ञस्तर्कयेदनया दिशा ४१९
- यो वीणावादनं वेत्ति तत्त्वतः श्रुतिजातिवित् ४२०
- तालपातकलाभिज्ञः सोऽक्लेशान्मोक्षमृच्छति
- तस्माद्वीणा निषेव्येति याज्ञवल्क्यादयोऽब्रुवन् ४२१
- नादश्रुतिस्वरग्रामजातिरागादितत्त्ववित्
- देहसौष्ठवसंपन्नः स्थिरासनपरिग्रहः ४२२
- जितश्रमकरद्वंद्वस्त्यक्तभीतिर्जितेन्द्रियः
- प्रगल्भधीः सुशारीरो गीतवादनकोविदः
- सावधानमनाश्चेति वैणिके वर्णिता गुणाः ४२३
- इति ततवाद्यलक्षणम्
- वैणवः खादिरो दान्तश्चान्दनो रक्तचन्दनः
- आयसः कांस्यजो रौप्यो वंशः स्यात्काञ्चनोऽथवा ४२४
- वर्तुलः सरलः श्लक्ष्णो ग्रन्थिभेदव्रणोज्झितः
- कनिष्ठाङ्गुलिविस्तारं गर्भे च सुषिरं दधत् ४२५
- स्वदैर्घ्यमानदैर्घ्यं च समाकृति समन्ततः
- तस्य द्वे त्रीणि चत्वारि चाङ्गुलानि शिरःस्थलात् ४२६
- त्यक्त्वा फूत्कारसुषिरं कार्यमङ्गुलसंमितम्
- मुखरन्ध्रान्तरे रन्ध्रं भवेदेकाङ्गुलान्तरम् ४२७
- अर्धाङ्गुलान्तराणि स्यू रन्ध्राण्यन्यानि सप्त च
- तान्यष्टौ बदरीबीजसंकाशानि प्रचक्षते ४२८
- वंशोऽधः सर्वरन्ध्रेभ्यः परिशेष्योऽङ्गुलद्वयम्
- तेषु स्वरविभागाय सप्त रन्ध्राणि मन्वते ४२९
- नादहेतोर्मारुतस्य निर्गमायाष्टमं मतम्
- फूत्कारप्रभवो वायुः पूर्यते मुखरन्ध्रतः ४३०
- वंशस्थैर्नवभी रन्ध्रैरेकवीरो निगद्यते ४३१
- वंशस्य मुखरन्ध्रस्य ताररन्ध्रस्य चान्तरे
- एकैकाङ्गुलवृद्ध्या स्युरन्ये वंशाश्चतुर्दश
- अष्टादशाङ्गुलाद्वंशादेतदङ्गुलवर्धनम् ४३२
- अर्धाङ्गुलान्तराणि स्यू रन्ध्राण्यन्यानि सप्त च
- तान्यष्टौ बदरीबीजसंकाशानि प्रचक्षते ४२८
- वंशोऽधः सर्वरन्ध्रेभ्यः परिशेष्योऽङ्गुलद्वयम्स्वरविभागाय सप्त रन्ध्राणि मन्वते ४२९
- नादहेतोर्मारुतस्य निर्गमायाष्टमं मतम्
- फूत्कारप्रभवो वायुः पूर्यते मुखरन्ध्रतः ४३०
- वंशस्थैर्नवभी रन्ध्रैरेकवीरो निगद्यते ४३१
- वंशस्य मुखरन्ध्रस्य ताररन्ध्रस्य चान्तरे
- एकैकाङ्गुलवृद्ध्या स्युरन्ये वंशाश्चतुर्दश
- अष्टादशाङ्गुलाद्वंशादेतदङ्गुलवर्धनम् ४३२
- उमापतिर्द्व्यङ्गुलः स्यात्त्रिभिस्त्रिपुरुषोऽङ्गुलैः
- चतुर्मुखश्चतुर्भिः स्यात्पञ्चवक्त्रस्तु पञ्चभिः ४३३
- षडङ्गुलः षण्मुखः स्यान्मुनिः सप्ताङ्गुलो मतः
- वसुरष्टाङ्गुलः प्रोक्तो नाथेन्द्रस्तु नवाङ्गुलः ४३४
- दशाङ्गुलो महानन्दो रुद्रस्त्वेकादशाङ्गुलः ४३५
- द्वादशाङ्गुल आदित्यो मनुर्वंशश्चतुर्दशः
- कलानिधिः षोडशः स्यादन्वर्थोऽष्टादशाङ्गुलः ४३६
- अविस्पष्टान्तरत्वेन नेष्टः सप्तदशाङ्गुलः
- त्रयोदशाङ्गुलस्तद्वन्न च पञ्चदशाङ्गुलः ४३७
- मुरल्याख्योऽपरैर्वंशो विंशत्यङ्गुलकः स्मृतः
- द्वाविंशत्यङ्गुलोऽप्यन्यो वंशस्तज्ज्ञेषु दृश्यते ४३८
- तं च श्रुतिनिधिं प्राहुर्वंशं वंशविदो जनाः
- अतिमन्द्रध्वनित्वेन नेष्यतेऽसौ विचक्षणैः ४३९
- विरलाश्चातितारत्वाद्वंशाः पञ्चाङ्गुलादधः ४४०
- अष्टादशाङ्गुले वंशे स्वररन्ध्रेषु सप्तसु ४४१
- मुद्रितेषु भवेत्षड्जो मन्द्रसप्तकसंस्थितः
- षट्स्वेवमन्यवंशेषु स्युः क्रमादृषभादयः ४४२
- आरभ्याष्टाङ्गुलादेवमधो वंशेषु सप्तसु
- मध्यस्थानगताः सप्तोद्यन्ति षड्जादयः क्रमात् ४४३
- तारस्थानस्थितः षड्जस्त्वेकवीरस्य जायते ४४४
- सर्वेष्वेतेषु वंशेषु मुक्ते रन्ध्रद्वयेऽन्तिमे
- स्वरो द्वितीयो जायेत तृतीयाद्यास्ततः क्रमात्
- सप्तमान्ताः प्रजायन्ते त्र्यादिरन्ध्रविमोचनात् ४४५
- मुक्ते तु ताररन्ध्रेऽन्यरन्ध्रेषु पिहितेषु च
- अष्टमस्वरसंभूतिः पूर्वाचार्यैरुदीरिता ४४६
- व्यक्तमुक्ताङ्गुलित्वेन समग्रो जायते स्वरः
- अङ्गुल्याः कम्पने तत्र श्रुतिरेकाऽपचीयते ४४७
- श्रुतिद्वयं त्वर्धमुक्ते तत्कम्पे तु श्रुतित्रयम्
- अन्यथा वर्णयन्तीह केचित्सप्तस्वरोदयम् ४४८
- अर्धेन्दुनागफणवद्वंशे स्थाप्यं करद्वयम्
- वामस्यानामिकाङ्गुल्या षड्जो मध्यमया पुनः ४४९
- ऋषभः स्यात्प्रदेशिन्या गान्धार इति वामतः
- त्रयः स्वराः प्रजायन्ते चत्वारो दक्षिणात्करात् ४५०
- कनिष्ठया मध्यमः स्यात्पञ्चमोऽनामया स्वरः
- धैवतः स्यान्मध्यमया प्रदेशिन्या निषादवान् ४५१
- स्थानत्रयस्य निष्पत्ति ते चास्मिन्नन्यथा जगुः ४५२
- सुशिक्षितेन रचितात्फूत्कारान्मध्यसप्तके
- जायन्ते वैणशारीरस्वरसंवादिनः स्वराः ४५३
- तारस्था मुखसंयोगसंकटे मुखरन्ध्रके
- तं वादनप्रकारं च टीपामाचक्षते जनाः ४५४
- तया यद्वाद्यते रन्ध्रे तत्स्वरो द्विगुणो भवेत्
- रन्ध्रस्य मुखसंयोगविप्रकर्षात्तु मन्द्रगाः ४५५
- तीव्रातीव्रतया वायोः शीघ्रमन्थरभावतः
- पूरणापूरणाभ्यां चोपचयापचयाद्ध्वनेः
- कुर्वन्त्येकत्र रन्ध्रेऽपि तज्ज्ञा नानास्वरोदयम् ४५६
- कम्पिता वलिता मुक्तार्ऽर्धमुक्ता च निपीडिता
- इति वंशे गतिः प्रोक्ता शार्ङ्गदेवेन पञ्चधा ४५७
- अधरस्थस्य वंशस्य कम्पनात्कम्पिता मता
- वर्णालंकारनिष्पत्तिः प्रयोगेऽस्याः प्रयोजनम् ४५८
- इति कम्पिता
- भवेत्संचारिनिष्पत्तौ वलिताऽङ्गुलिचालनम्
- इति वलिता
- रन्ध्रेऽधिलेऽङ्गुलीमुक्ते मुक्ता स्यान्मुक्तशब्दकृत् ४५९
- इति मुक्ता
- अर्धमुक्ताऽर्धमुक्तेः स्याद्घृतशब्दविधायिनी ४६०
- इत्यर्धमुक्ता
- समन्तात्सर्वरन्ध्राणि पिधायाङ्गुलिभिर्यदा
- वंशं पूरयते तज्ज्ञस्तदा ज्ञेया निपीडिता ४६१
- इति निपीडिता
- अत्र कीर्तिधरस्त्वन्यां व्यवस्थामभ्युपागमत् ४६२
- षट्सप्ताष्टाङ्गुला वंशास्तारस्वरविधायकाः
- मध्यस्वरा नवदशैकादशाङ्गुलकास्त्रयः ४६३
- अङ्गुलैर्यो द्वादशभिः स्यात्त्रयोदशभिश्च यः
- हेतू मन्द्रखराणाम् तौ सर्ववंशमयः पुनः ४६४
- चतुर्दशाङ्गुलो वंशस्त्रिस्थानस्वरसाधकः
- वर्णालंकारधात्वादिवाद्यसंवादनक्षमः
- एवं वंशा नवैवेति युक्तायुक्तविदो विदुः ४६५
- केचिद्देशीविदो वंशानेकवीरादिकानमून्
- मानान्तरेणाभिदधुस्तेषां मतमिदं ब्रुवे ४६६
- प्राक्चतुर्दशवंशान्तेऽङ्गुलं पञ्चयवं जगुः
- चतुर्दशादिवंशेषु सार्धपञ्चयवं त्विदम् ४६७
- चतुर्दशाङ्गुलं दण्डमेकवीरे प्रचक्षते
- सार्धाङ्गुलौ शिरःप्रान्तौ पृथग्जातिमुखेऽङ्गुलम् ३६८
- मानं तारादिरन्ध्राणि प्रत्येकं त्रियवानि तु
- त्रियवान्यन्तरालानि पृथक्स्थानेषु मूलतः
- पञ्चमांशोनितं मानं कनिष्ठापर्वमध्यतः ४६९
- उभापतेस्तु वंशस्य दण्डः पञ्चदशाङ्गुलः
- पादोनेन यवद्वंद्वेनाधिकोऽस्यान्तरेषु तु ४७०
- सपादत्रियवं मानं पृथगन्यत्तु पूर्ववत्
- अङ्गुलैः सप्तदशभिर्यवयुग्माधिकैर्मतः ४७१
- दण्डस्त्रिपुरुषे वंशे पृथगन्तरसप्तके
- यवोनमङ्गुलं मानमपरं लक्ष्म पूर्ववत् ४७२
- यवद्वयाधिकैः सार्धैरष्टादशभिरङ्गुलैः
- मितश्चतुर्मुखे दण्डे शिरोन्तौ तु मितौ पृथक् ४७३
- पादोनाभ्यामङ्गुलाभ्यां लक्षणं पूर्ववत्परम्
- यवस्य सार्धपादेन न्यूना द्वाविंशतिर्मता ४७४
- अङ्गुलानां दण्डमानं पञ्चवक्त्रे शिरोन्तयोः
- सार्धाङ्गुलद्वयं मानं पृथगन्तरसप्तके ४७५
- चतुर्यवी सार्धपादाभ्यधिकाऽन्यत्तु पूर्ववत्
- षण्मुखे यवपादाभ्यां सपादाभ्यां सहाङ्गुलैः ४७६
- चतुर्विशतिसंख्यैः स्याद्दण्डः परिमितस्ततः
- ताराद्यष्टसु रन्ध्रेषु सपादत्रियवा मितिः ४७७
- प्रत्येकमन्तरालेषु षोडशांशोनिता यवाः
- पञ्चमानमिताः शेषं लक्ष्म स्यात्पञ्चवक्त्रवत् ४७८
- अतः परेषु वंशेषु सप्तस्वभ्यधिको यवः
- स्वमानाद्दृश्यते ताररन्ध्रे जातिमुखान्तरे ४७९
- युक्ता यवेन सार्धेनाङ्गुलषड्विंशतिर्भवेत्
- प्रमाणं मुनिदण्डस्य मानं रन्ध्राष्टके पुनः ४८०
- यवत्रयं सार्धपादाधिकं प्रत्येकमीरितम्
- पृथक्पञ्चयवी सार्धान्तरेष्वन्यत्तु पूर्ववत् ४८१
- वसुवंशे तु दण्डस्याङ्गुलाष्टाविंशतिर्मितिः
- यवाधिका जातिमुखं यवेनाधिकमङ्गुलम् ४८२
- यवाधिकाङ्गुला ज्ञेयाऽन्तरालेषु मितिः पृथक्
- शेषं तु पूर्ववद्वंशे नाथेन्द्रे दण्डसंमितिः ४८३
- यवपादाधिका त्रिंशदङ्गुलानां शिरोन्तयोः
- पादोनत्र्यङ्गुलं मानं पृथगन्तरसप्तके ४८४
- सपादमङ्गुलं मानं खानिमानं तु मूलतः
- षष्ठभागविहीनं स्यात्कनिष्ठापर्व मध्यमम् ४८५
- अपरं पूर्ववद्दण्डे महानन्दस्य संमितिः
- पादन्यूनेन पादेन यवस्याभ्यधिका भवेत् ४८६
- द्वात्रिंशदङ्गुलानां तच्छिरोन्तौ त्र्यङ्गुलौ पृथक्
- सपादाङ्गुलकं जातिमुखमन्तरसप्तके ४८७
- पृथक्सपादपादेनाभ्यधिकं मानमङ्गुलम्
- मूलतः सप्तमांशोनकनिष्ठामध्यपर्वणा ४८८
- मिता खानिः परं लक्ष्म पूर्वोक्तं तैरुदीरितम्
- सपादानि चतुस्त्रिंशदङ्गुलानि मितिर्भवेत् ४८९
- यवार्धसहिता रुद्रदण्डस्यान्तरसप्तके
- सार्धाङ्गुलं पृथङ्मानं कनिष्ठामध्यपर्वणा ४९०
- खानिः परिमिता शेषं पूर्ववंशवदिष्यते
- सप्तत्रिंशद्यवार्धेनाभ्यधिकान्यङ्गुलानि तु ४९१
- आदित्ये दण्डमानं स्यात्पादोनं त्वङ्गुलद्वयम्
- अन्तरेषु पृथङ्मानमपरं रुद्रवंशवत् ४९२
- मनोर्दण्डे सपादैकोनचत्वारिंशदङ्गुलम्
- यवाधिकं सपादेनाष्टमांशेन यवस्य च ४९३
- सहितं मानमाख्यातं पादन्यूनाङ्गुलत्रयैः
- शिरःप्रान्तौ पृथग्जातिमुखे स्यान्मानमङ्गुलम् ४९४
- षोडशांशोनपादेनाधिकं रन्ध्राष्टके पुनः
- यवत्रयं पृथक्सार्धमन्तरेषु च सप्तसु ४९५
- प्रत्येकं यवपादेन न्यूनं स्यादङ्गुलद्वयम्
- मानं लक्षणमन्यत्तु भवेदादित्यवंशवत् ४९६
- यवस्य सार्धपादाभ्यां द्वात्रिंशांशे नवाधिकैः
- चतुश्चत्वारिंशता स्यात्पादोनैरङ्गुलैर्मितः ४९७
- दण्डः कलानिधौ वंशे शिरोन्तौ त्र्यङ्गुलौ पृथक्
- अन्तरेष्वङ्गुलद्वंद्वं समादयवसंयुतम् ४९८
- प्रत्येकं मानमाख्यातं लक्ष्मान्यन्मनुवन्मतम्
- यवस्याष्टमभागेन सपादेन समन्वितैः ४९९
- अष्टाचत्वारिंशता स्यात्पादोनैः संमितोऽङ्गुलैः
- अष्टादशाङ्गुले दण्डः सार्धं त्वङ्गुलयोर्द्वयम् ५००
- अन्तरेषु पृथङ्मानं वेद्यमन्यत्कलानिधेः
- नात्र त्रयोदशो वंशो नव पञ्चदशाङ्गुलः ५०१
- इष्यतेऽल्पान्तरत्वेन नव सप्तदशाङ्गुलः
- एवं पञ्चदशैवैते वंशास्तेषामिमे मताः ५०२
- माधुर्यरक्तिसंयुक्ता रागाभिव्यक्तिहेतवः
- यदिदं लक्ष्म शास्त्रोक्तं यच्च देशीगतं मतम्
- ते द्वे रञ्जयितुं शक्ते न मनांसि कलाविदाम् ५०३
- वक्त्रे फूत्काररन्ध्रस्थे कस्य वा वितताकृतेः
- स्वररन्ध्राण्याप्नुयातामपि दीर्घतरौ करौ ५०४
- अन्तरं स्वररन्ध्राणामुक्तमर्धाङ्गुलं च यत्
- शास्त्रेण तेन कस्यापि स्वरस्य व्यक्तिरीरिता ५०५
- ये पूर्वोक्तक्रमाः सप्त स्वराः सरिगमादयः
- मान्तेऽत्र दृश्यते तेषां नासौ क्रमपरिक्रमः ५०६
- मूर्छनारागभाषादेः सुदूरोत्सारिता कथा
- किंच्छिआ!स्त्रकृतां प्राचामाचार्याणां महात्मनाम् ५०७
- उपालम्भोऽपि दोषायकिं तया कथयाऽपि नः
- तदास्तामुच्यते किंतु किंचिद्देशीविदः प्रति ५०८
- माने पञ्चयवे कस्माद्दृश्यतेऽत्र यवोऽधिकः
- सप्ताङ्गुलादिवंशेषु कथं चोर्ध्वं चतुर्दशात् ५०९
- पूर्वमानाधिकाः सन्ति ते सप्ताष्ट न वा यवाः
- सार्धपञ्चयवे माने लक्ष्म स्यादव्यवस्थितम् ५१०
- त्रयोदशादयो ये च त्रयो वंशा निराकृताः
- न तत्र युक्तिलेशोऽस्ति येन तुष्यन्ति सूरयः ५११
- अल्पान्तरत्वमुक्तं यत्तदसारतरं पुनः
- वंशान्तरान्तरैस्तुल्यमन्तरं तेषु दृश्यते ५१२
- द्वादशार्धस्वरन्यूनो यथैकादशवंशतः
- मुद्रितः स्वररन्ध्रः स्यात्तथा तस्मात्त्रयोदश ५१३
- एवं चतुर्दशात्पञ्चदशो वंशात्तु षोडशात्
- वंशः सप्तदशो लक्ष्माप्रसिद्धमिति चेन्न तत् ५१४
- वक्तुं तदुक्तरीत्या हि शक्यं तेष्वपि लक्षणम्
- त्रयोदशाङ्गुलो वंशो विश्वमूर्तिरुदाहृतः ५१५
- अधिकं यवपादेन स्याच्चत्वारिंशदङ्गुलम्
- विश्वमूर्तौ दण्डमानं तारादौ सुषिराष्टके ५१६
- प्रत्येकं त्रियवी सार्धा मानमन्तरसप्तके
- अङ्गुलद्वितयं मानं पृथगादित्यवत्परम् ५१७
- युक्तैर्यवेन पादेन द्वाचत्वारिंशदङ्गुलैः
- यवस्य चाष्टमांशेन सपादेनाधिकैर्मतः ५१८
- दण्डः श्रीशार्ङ्गिदेवोक्तो वंशे पञ्चदशाङ्गुले
- अङ्गुलत्रितयं मानं शिरःप्रान्ते प्रदेशयोः ५१९
- प्रत्येकमन्तरालेषु सप्तस्वर्धयवाधिकम्
- अङ्गुलद्वितयं मानं मनुवल्लक्षणं परम् ५२०
- यवस्य सार्धपादेन द्वात्रिंशांशयवाधिकः
- षट्चत्वारिंशता पादन्यूनैः स्यादङ्गुलैर्मितः ५२१
- दण्डः सप्तदशे वंशेऽन्तरेषु त्वङ्गुलद्वयम्
- पृथक्सद्वियवं मानं स्यात्कलानिधिवत्परम् ५२२
- एवंम् प्रसिद्धलक्ष्माणो रागादिव्यक्तिहेतवः
- त्रयोदशादयो वंशा निषिध्यन्ते मुधा परैः ५२३
- अपि पञ्चयवं मानं वंशेष्वष्टादशस्वपि
- व्यक्तं प्रगल्भते वक्तुं सूरिः श्रीकरणाग्रणीः ५२४
- तस्माद्देश्यनुसारेण लक्ष्यलक्षणतत्त्ववित्
- शार्ङ्गदेवोऽन्यथा वंशस्वरूपं प्रत्यपादयत् ५२५
- अङ्गुलं निबबन्धासौ सिद्धं गणितशास्त्रतः
- न ह्यङ्गुलं पञ्चयवं दृश्यते शास्त्रलोकयोः ५२६
- अङ्गुलं निस्तुषैः षड्भिस्तिर्यग्भिः स्याद्यवोदरैः
- दक्षिणस्य करस्य स्यात्खानिमाने कनिष्ठिका ५२७
- न स्थूला न कृशाऽत्यन्तं गृह्यते किंतु मध्यमा
- मूलशब्दोऽन्वयं याति मध्यमेनात्र पर्वणा ५२८
- समा सर्वत्र खानिः स्याद्विषमः स्वरभङ्गकृत्
- चतुर्दशाङ्गुलो दण्ड एकवीरस्य दृश्यते ५२९
- तच्छिरःप्रान्तयोर्मानमङ्गुलद्वितयं पृथक्
- मानं जातिमुखाख्ये स्यात्फूत्कारसुषिरेऽङ्गुलम् ५३०
- ताररन्ध्रं ततोऽधस्तादङ्गुलान्तरितं मतम्
- षोडशांशाधिकं तस्य मानमर्धाङ्गुलं विदुः ५३१
- तदधोऽधश्च तावन्ति सप्त रन्ध्राणि कल्पयेत्
- तेष्वष्टासूर्ध्वरन्ध्राणि सप्त स्युः स्वरसिद्धये ५३२
- अन्तिमं वायुरन्ध्रं स्यादन्तरालानि सप्त च
- पृथगर्धाङ्गुलान्येषां गर्भरन्ध्रं तु संमितम् ५३३
- मूलतः पञ्चमांशेन कनिष्ठामध्यपर्वणा
- खानिस्तदुच्यते देश्यां पूर्वोक्तोक्तस्वरोदयः ५३४
- त्रयोदशापरे ताररन्ध्रजातिमुखान्तरे
- एकैकाङ्गुलवृद्ध्या स्युराचतुर्दश वंशतः ५३५
- उभापतौ दण्डमानं भवेत्पञ्चदशाङ्गुलम्
- एकवीरवदन्यत्तु लक्ष्म त्रिपुरुषे पुनः ५३६
- दण्डः सार्धैः षोडशभिः सयचार्धैर्मितोऽङ्गुलैः
- सप्तान्तराण्यधस्तारात्पृथक्सार्धैस्त्रिभिर्यवैः ५३७
- मितानि लक्षणं शेषं पूर्ववंशवदिष्यते
- दण्डश्चतुर्मुखे सार्धाष्टादशाङ्गुलसंमितः ५३८
- पृथक्सप्तान्तरालानि चतुर्भिः साङ्घ्रिभिर्यवैः
- मितानि पूर्ववच्छेषं पञ्चवक्त्रे तु संमितिः ५३९
- दण्डश्च यवयुग्मेनाभ्यधिकाङ्गुलविंशतिः
- सप्तानामन्तरालानां पृथक्पञ्चयवा मितिः ५४०
- अन्यत्तु पूर्ववल्लक्ष्म दण्डमानं तु षण्मुखे
- अङ्गुलानां यवार्धानां द्वाविंशतिरुदीरिता ५४१
- सार्धपञ्चयवं मानं पृथगन्तरसप्तके
- शेषं तु पूर्ववद्वंशे मुनौ दण्डमितिः पुनः ५४२
- त्रयोविंशत्यङ्गुलानां सार्धयाऽन्तरसप्तके
- प्रत्येकमङ्गुलं मानं शेषं पूर्ववदिष्यते ५४३
- वंशे वसौ दण्डमानं चतुर्भिरधिका यवैः
- पञ्चविंशतिराख्याताऽङ्गुलानामन्तराणि तु ५४४
- पृथक्सप्तयवानि स्युः शेषं पूर्वोक्तमिष्यते
- नायेन्द्रदण्डमानं स्यात्सपादा सप्तविंशतिः ५४५
- अङ्गुलानामन्तराणि स्युः सपादाङ्गुलानि तु
- प्रत्येकं मूलतः षष्ठांशोनमध्यमपर्वणा ५४६
- कनिष्ठाय् मिता खानिरन्यल्लक्ष्म तु पूर्ववत्
- मानं महानन्ददण्डे त्रिंशदङ्गुलकं मितम् ५४७
- पृथक्सार्धाङ्गुलानि स्युरन्तरालानि सप्त च
- नायेन्द्रवत्परं लक्ष्म रुद्रे दण्डमितिः पुनः ५४८
- सपादानि त्रयस्त्रिंशदङ्गुलान्यन्तरेषु तु
- प्रत्येकं मानामाख्यातं पादन्यूनाङ्गुलद्वयम् ५४९
- रन्ध्रेष्वष्टसु तारादिष्वष्टमांशसमन्वितम्
- अङ्गुलार्धं पृथङ्मानं खानेर्मानं तु मूलतः ५५०
- सप्तमांशविहीनं स्यात्कनिष्ठापर्व मध्यमम्
- पूर्वोक्तमन्यदादित्ये वंशे दण्डस्तु कथ्यते ५५१
- अष्टमांशाधिकैः पञ्चत्रिंशता संमितोऽङ्गुलैः
- अन्तरेष्वष्टमांशोनमङ्गुलद्वितयं पृथक् ५५२
- मानं खानौ त्वष्टमांशन्यूनमामूलदेशतः
- कनिष्ठामध्यपूर्वोक्तमपरं रुद्रवंशवत् ५५३
- षोडशांशोनितैः सार्धैः सप्तत्रिंशन्मिताङ्गुलैः
- मितो दण्डो विश्वमूर्तावन्तरेष्वङ्गुलद्वयम् ५५४
- षोडशांशाधिकं माने प्रत्येकं मध्यपर्वणा
- कनिष्ठाया मिता खानिः शेषमादित्यवंशवत् ५५५
- मनौ दण्डस्तु पादोनैकचत्वारिंशताऽङ्गुलैः
- मितः शिरः पृथक्प्रान्तदेशौ सार्धाङ्गुलद्वयौ ५५६
- प्रत्येकमन्तरालेषु सपादद्व्यङ्गुला मितिः
- विश्वमूर्तिवदन्यत्तु लक्ष्म श्रीशार्ङ्गिणोदितम् ५५७
- वंशाश्चतुर्दशैवैवं प्रोक्ताः सोढलसूनुना
- नातः परं तु वंशानामीदृशामस्ति संभवः ५५८
- तेषु रन्ध्राङ्गुलीप्राप्तिर्न कस्यापि हि दृश्यते
- अतिमन्द्रध्वनित्वाच्च न ते तत्त्वविदां मताः ५५९
- गतानुगतिकत्वेन त्वेकवीरादयस्त्रयः
- कथिता न तु तेष्वस्ति रक्तिमाधुर्यधुर्यता ५६०
- चतुर्मुखादयस्तस्मादेकादश मनोहराः
- स्वमतेऽभ्युपगम्यन्ते वंशाः सोढलसूनुना ५६१
- शार्ङ्गदेवोऽन्यमाङ्गेन वंशरूपं न्यरूपयत्
- तिर्यग्यवोदरैः सार्धैश्चतुर्भिर्निस्तुषैरिह ५६२
- अङ्गुलं तेन पूर्वोक्तरीत्याऽरभ्यैकवीरतः
- सन्ति द्वाविंशतिर्वंशविशेषास्तेषु चक्ष्महे ५६३
- वंशश्रेणीमिमामाह निःशङ्कोनुपमाभिधाम्
- एकवीरे दण्डमानं स्यात्षोडशभिरङ्गुलैः ५६४
- सार्धेन यवपादेनाभ्यधिकैस्तच्छिरोन्तयोः
- सार्धाङ्गुलद्वयं मानं प्रत्येकं परिकीर्तितम् ५६५
- सपादमङ्गुलं जातिमुखे रन्ध्राष्टके पुनः
- पृथक्तृतीयभागोनमङ्गुलं मानमिष्यते ५६६
- अर्धाङ्गुलानि प्रत्येकमन्तरालानि सप्त च
- मूलतः पञ्चमांशोनकनिष्ठामध्यपर्वणा ५६७
- मिता खानिर्भवेत्ताररन्ध्रजातिमुखान्तरम्
- एकवीरादिसंज्ञाभिः सर्ववंशेषु वेदितम् ५६८
- अष्टमांशविहीनेन यवार्धेनाधिकैर्भवेत्
- अङ्गुलैः सप्तदशभिर्दण्डमानमुमापतौ ५६९
- एकाङ्गुलाधिकस्तस्माद्दण्डस्त्रिपुरुषे मतः
- अनयोर्वंशयोः शेषंलक्ष्म स्यादेकवीरवत् ५७०
- मानं स्याद्यवपादोनविहीनाङ्गुलविंशतिः
- चतुर्मुखस्य दण्डस्यान्तरालेष्वर्धम्ङ्गुलम् ५७१
- अष्टमांशाधिकं मानं पृथगन्यत्तु पूर्ववत्
- सद्वात्रिंशांशपादोनद्वियवाधिकया मितः ५७२
- दण्डोऽङ्गुलैकविंशत्या पञ्चवक्त्रस्य कीर्तितः
- अङ्गुलस्य त्रिभिः पादैः पादोनैरन्तराणि तु ५७३
- मितानि सप्त प्रत्येकं पूर्ववल्लक्षणं परम्
- सार्धत्रयोविंशतिः स्यादङ्गुलानां यवाधिका ५७४
- मानं षण्मुखदण्डस्य पादोनं त्वङ्गुलत्रयम्
- पृथक्शिरोन्तयोर्मानमन्तरेषु तु सप्तसु ५७५
- यवपादाधिकं मानं पृथक्पादोनमङ्गुलम्
- शेषं तु पूर्ववद्वंशे मुनौ स्याद्दण्डसंमितिः ५७६
- यवपादोनपादोनाङ्गुलषड्विंशतिर्मता
- अङ्गुलं यवपादेन न्यूनमन्तरसप्तके ५७७
- प्रत्येकं मानमाख्यातं शेषं षण्मुखवंशवत्
- वसौ वंशे यवार्धेन द्वात्रिंशांशयुजाऽधिका ५७८
- स्यात्सप्तविंशतिः सार्धाङ्गुलानां दण्डसंमितिः
- सपादेन तु पादेन द्वात्रिंशांशयुतेन च ५७९
- यवस्याभ्यधिकं मानमन्तरेष्वङ्गुलं पृथक्
- शेषं तु मुनिवद्दण्डे नाथेन्द्रस्य तु संमितिः ५८०
- यवाष्टमांशसहितैरेकोनत्रिंशदङ्गुलैः
- सार्धपादाधिकैरुक्ता पृथक्तु सुषिराष्टके ५८१
- तारादौ यवयुक्तेनार्धाङ्गुलेन मितिर्भवेत्
- अन्तरेषु पृथङ्मानमष्टमांशाह्दिकाङ्गुलम् ५८२
- शेषं तु पूर्ववद्दण्डे महानन्दस्य संमितिः
- उक्ता यवाष्टमांशोनाङ्गुलैकत्रिंशदिष्यते ५८३
- सपादावन्तरालेषु प्रत्येकं मानमुच्यते
- सपादमङ्गुलं शेषं पूर्वोकं शार्ङ्गिणोदितम् ५८४
- अङ्गुलानि त्रयस्त्रिंशदष्टमांशयुतानि तुआ!ष्टमांशयुक्तानि रुद्रे दण्डमितिर्भवेत् ५८५
- युक्तं सार्धेन पादेनाङ्गु लमन्तरसप्तके
- प्रत्येकं मानमाख्यातं खानेर्मानं तु मूलतः ५८६
- षष्ठांशोनं मध्यपर्व कनिष्ठायाः प्रकीर्तितम्
- शेषं प्राग्वदथाऽऽदित्ये स्यात्पञ्चत्रिंशताङ्गुलैः ५८७
- यवाष्टमांशसहितैर्दण्डमानमथान्तरम्
- सार्धाङ्गुलकमेकैकं खानिमानं तु कीर्तितम् ५८८
- मूलतः सप्तमांशोनं कनिष्ठापर्व मध्यमम्
- प्राग्वत्परम् विश्वमूर्तौ वंशे दण्डस्य संमितिः ५८९
- यवाष्टमांशसहितैः स्यात्सप्तत्रिंशताऽङ्गुलैः
- सार्धपादाधिकैः शीर्षं प्रान्तौ त्र्यङ्गुलकौ पृथक् ५९०
- अन्तरेष्वष्टमांशोनाह्दिकं सार्धाङ्गुलं पृथक्
- मानं खानेस्त्वष्टमांशन्यूनमामूलतो मतम् ५९१
- मध्यपर्व कनिष्ठायाः पूर्वोक्तं शेषमिष्यते
- दण्डमानं मनोरेकोनचत्वारिंशताङ्गुलैः ५९२
- सपादैरष्टमांशेन यवस्य सहितैरपि
- पादोनमङ्गुलद्वंद्वं पृथगन्तरसप्तके ५९३
- मानं खानिस्तु मातव्या कनिष्ठामध्यपर्वणा
- पूर्वोक्तमपरं सार्धैकचत्वारिंशताऽङ्गुलैः ५९४
- युक्तैर्यवस्य पादोनपादद्वंद्वेन संमितिः
- दण्डे पञ्चदशस्य स्यात्ततः सार्धयवत्रया ५९५
- प्रत्येकमष्टरन्ध्री स्यादन्तरेष्वङ्गुलद्वयम्
- अष्टमांशोनितं मानं प्रत्येकं मनुवत्परम् ५९६
- कलानिधौ सपादैः स्यात्त्रिचत्वारिंशताऽङ्गुलैः
- यवाधिकैर्दण्डमानमन्तरालेषु सप्तसु ५९७
- प्रत्येकमङ्गुलद्वंद्वं सपादं पूर्ववत्परम्
- दण्डोऽष्टादशवंशस्याष्टाचत्वारिंशताङ्गुलैः ५९८
- यवान्वितैः सपादेन सपादेनाधिकैर्मितः
- प्रत्येकं षोडशांशोनसार्धाङ्गुलयुगं मतम् ५९९
- प्रमाणमन्तरालेषु परं पूर्ववदिष्यते
- दण्डे त्वेकोनविंशस्य साङ्घ्रि पञ्चाशदङ्गुलम् ६००
- यवेनाभ्यधिकं मानमन्तरेषु तु सप्तसु
- प्रत्येकं षोडशांशोनाधिकं सार्धाङ्गुलद्वयम् ६०१
- प्राग्वत्परं मुरल्यास्तु दण्डमानं यवाधिकम्
- द्वापञ्चाशद्भवेत्सार्धाङ्गुलानामन्तराणि तु ६०२
- पादोनत्र्यङ्गुलानि स्युः प्रत्येकं पूर्ववत्परम्
- एकविंशे दण्डमानं पञ्चपञ्चाशदङ्गुलम् ६०३
- सपादं षोडशांशेनाभ्यधिकं यवसंयुतम्
- अङ्गुलान्यन्तराणि स्युः प्रत्येकं पूर्ववत्परम् ६०४
- दण्डमानं श्रुतिनिधावष्टापञ्चाशदङ्गुलम्
- सार्धं यवाधिकं तस्य त्वन्तरेष्वङ्गुलत्रयम् ६०५
- सपादषोडशांशोनाधिकं मानं पृथङ्मतम्
- पूर्वोक्तमपरं लक्ष्म शार्ङ्गदेवेन कीर्तितम् ६०६
- सर्वेषामपि वंशानां पिण्डः सार्धयवो भवेत्
- रक्तिमाधुर्यविरहात्पञ्चवक्त्रादधस्तनाः ६०७
- चतुर्मुखादयो वंशा नेष्टाः श्रीशार्ङ्गिसूरिणा
- देशीवंशेषु सर्वेषु मुद्रितात्पूर्ववंशतः ६०८
- उत्तरो मुद्रितो वंशः स्वरार्धेनाधिको भवेत्
- वंशानामल्पमानानां सर्वत्रोत्तरता मता ६०९
- स्वरार्धं स्यादूर्ध्वतया दक्षिणस्य कनिष्ठया
- अतस्तस्या मुद्रितायां पूर्ववंशस्य जायते ६१०
- उत्तरो मुद्रितो वंशः पूर्वतुल्यस्वरोदयः
- उद्धृताङ्गुलिवृद्धौ तु तस्मादप्युत्तरोत्तरे ६११
- मिलन्ति मुद्रिता वंशा यथासंख्यं पुरातनैः
- स्वरोदय्ऽप्यङ्गुलयः शात्रीये लौकिके तथा ६१२
- यंशे तुल्यप्रकाराः स्युरिति श्रीशार्ङ्गिणोदितम्
- एकस्वराणि रन्ध्राणि संनिधौ व्यवधावपि ६१३
- मिलन्ति सर्ववंशानामिति ब्रूते हरप्रियः
- मानहीनं तु यद्रन्ध्रं खानिर्वा यत्र तादृशी ६१४
- न तद्रन्ध्रैः स्वजातीयैर्मिलन्ति स्वरभङ्गतः
- चतुर्दशादिवंशानामावंशादेकवीरतः ६१६
- इदानीं तादृशीं वंशस्वरूपरचनामिमाम्
- शार्ङ्गदेवः समाचष्टे शिवानुग्रहशुद्धधीः ६१७
- वंशपद्धतिरेषा च शार्ङ्गविद्वाभिधीयते
- अङ्गुलं षड्यवं चात्र रन्ध्रादिमितये मतम् ६१८
- एकवीरे दण्डमानं सपादद्वादशाङ्गुलम्
- यवार्धेनाधिकं तस्य शिरोन्तौ द्व्यङ्गुलौ पृथक् ६१९
- मुखरन्ध्रेऽङ्गुलं मानं तारादौ सुषिराष्टके
- प्रत्येकमङ्गुलदलं तेषां त्वन्तरसप्तेके ६२०
- यद्द्वयं पृथङ्मानमुक्तं श्रीशार्ङ्गिसूरिणा
- सर्ववंशेषु तारस्य मुखरन्ध्रस्य चान्तरे ६२१
- एकवीरादिसंज्ञाभिर्विज्ञेयाऽङ्गुलसंमितिः
- उमापतौ त्रिपुरुषे चैकैकाङ्गुलवर्धितम् ६२२
- दण्डमानं परं लक्ष्म त्वेकवीरवदिष्यते
- चतुर्मुखे दण्डमानं पादन्यूनयवाधिकैः ६२३
- अङ्गुलैः पञ्चदशभिः सार्धैरस्यान्तरेषु तु
- सपादद्वियवी मानं पृथगन्यत्तु पूर्ववत् ६२४
- सपादैः सप्तदशभिः पादन्यूनयवाधिकैः
- अङ्गुलैर्दण्डमानं स्यात्पञ्चवक्त्रेऽन्तरेषु तु ६२५
- षोडशांशाधिका मानं पादोनत्रियवी पृथक्
- शेषं तु पूर्ववद्दण्डे षण्मुखस्य तु संमितिः ६२६
- युक्ता यवेन सार्धेनाष्टमांशरहितेन च
- एकोनविंशतिः प्रोक्ताऽङ्गुलानामन्तरेषु तु ६२७
- यवस्य सार्धपादाभ्यां युक्तमर्धाङ्गुलं पृथक्
- पूर्वोक्तमपरं लक्ष्म दण्डे तु स्यान्मितिर्मुनेः ६२८
- अङ्गुअलिरेकविंशत्या सार्धपादद्वयाधिकैः
- यवस्य चाष्टमांशेन सपादेन समन्वितैः ६२९
- सपादयवपादेन द्वात्रिंशांशयुतेन च
- युक्तमन्तरमानं स्यात्पृथक्पादोनमङ्गुलम् ६३०
- शेषं तु पूर्ववल्लक्ष्म ज्ञेयं वंशे वसौ पुनः
- अष्टमांशविहीनेन यवेनाधिकया भवेत् ६३१
- चतुर्विंशत्यङ्गुलानां चरणन्यूनया मितिः
- पृथगष्टासु रन्ध्रेषु सपादत्रियवी मितिः ६३२
- प्रत्येकमन्तरालेषु साष्टमांशचवाधिकम्
- पादोनमङ्गुलं मानमपरं लक्ष्म पूर्ववत् ६३३
- सपादयवसंयुक्ताऽङ्गुलषड्विंशतिर्भवेत्
- मानं नाथेन्द्रदण्डस्यान्तरालेषु तु सप्तसु ६३४
- अष्टमांशाधिकं मानमङ्गुलं पूर्ववत्परम्
- यव्ष्टाअमांशसहिता सार्धाष्टाविंशतिर्मता ६३५
- अङ्गुलानां दण्डमानं महानन्देऽन्तरेषु तु
- सपादमङ्गुलं सार्धयवपादाधिकं पृथक् ६३६
- प्राग्वत्परं रुद्रदण्डे त्वङ्गुलानां यवाधिका
- एकत्रिंशन्मिता मानमथ सार्धयवत्रया ६३७
- प्रत्येकमष्टरन्ध्री स्यादन्तरालेषु सप्तसु
- सार्धाङ्गुलं पृथङ्मानं पूर्वोक्तं शेषमिष्यते ६३८
- दण्डस्य मानमादित्ये स्याच्चतुस्त्रिंशदङ्गुलम्
- यवेन च सपादेन द्वात्रिंशांशयुजाऽधिकम् ६३९
- द्वात्रिंशाशोनपादाभ्यां यवस्य सहितं पृथक्
- पादोनमङ्गुलद्वंद्वं मानमन्तरसप्तके ६४०
- प्राग्वत्परं विश्वमूर्तौ स्यात्सप्तत्रिंशदङ्गुलम्
- दण्डमानं युतं सार्धयवपादद्वयेन च ६४१
- प्रत्येकमन्तरालेषु त्वङ्गुलद्वितयं मतम्
- यवस्य सार्धपादेनाभ्यधिकं पूर्वत्परम् ६४२
- दण्डो यवाष्टमांशेन सपादेन समन्वितैः
- चतुश्चत्वारिंशता स्यादङ्गुलैः संमितो मनोः ६४३
- सार्धाङ्गुलद्वयमितौ शिरःप्रान्तौ मतौ पृथक्
- साधेन षोडशांशेन यवस्याभ्यधिकैस्त्रिभिः ६४४
- पादोनैरङ्गुलैर्मानमन्तरालेषु सप्तसु
- पूर्वोक्तं लक्षणं शेषमवोचत्करणाग्रणीः ६४५
- खानिः सर्वेषु वंशेषु कनिष्ठामध्यपर्वणा
- मूलेन संमिता कार्येत्युक्तं सोढलसूनुना ६४६
- सर्वमन्यत्तु वंशानां देशीशास्त्रभुवां समम्
- एकवीरादयोऽत्रापि त्रयः प्राग्वन्न संमताः ६४७
- धातून्वृत्तित्रयं तत्त्वानुगतौधांश्च यान्पुरा
- वाद्यान्याश्रावणादीनि वीणायां यान्यवादिषम् ६४८
- गेयं श्रुतिस्वरग्राममूर्छनादि च यन्मतम्
- तत्सर्वं वंशवाद्येऽत्र विशेषेणोपदर्शयेत् ६४९
- वंशवीणाशरीराणि त्रयोऽमी स्वरहेतवः
- ललितो मधुरः स्निग्धस्तेषु वंशः प्रशस्यते ६५०
- वंशवीणाशरीराणामेकीभावेन यो ध्वनिः
- तत्र रक्तिविशेषस्य प्रमाणं विबुधा विदुः ६५१
- अध्वन्यानां प्रवासेषु कामिनीनिर्जितेषु च
- शोकार्तेषु प्रयुञ्जीत मृदुमध्यलयध्वनिम् ६५२
- वंशं युञ्जीत शृङ्गारे द्रुतादिललितध्वनिम्
- कम्पितस्फुरितध्वानं वंशं द्रुतलयाश्रयम्
- क्रोधाभिमानयोः कुर्यान्मतङ्गेनेति कीर्तितम् ६५३
- स्निग्धता घनता रक्तिव्यक्तिः प्रचुरता ध्वनेः
- लालित्यं कोमलत्वं च नादानुरणनं तथा ६५४
- त्रिस्थानत्वं श्रावकत्वं माधुर्यं सावधानता
- द्वादशेति गुणाः प्रोक्ताः फूत्कारे सूरिशार्ङ्गिणा ६५५
- तत्र शब्दगुणेष्वेवैकादश प्रोक्तलक्षणाः
- फूत्कृतेः सावधानत्वं न्यूनताधिक्यवर्जनम् ६५६
- इति द्वादश फूत्कारगुणाः
- फूत्कात्रो यमलः स्तोकः कृशः स्खलित इत्यमी
- फूत्कारदोषा यमलं ब्रुवते प्रतिफूत्कृतिम्
- एवमन्वर्थनामत्वान्नोच्यते लक्षणं पृथक् ६५७
- कपिलस्तुम्बकी काकी संदष्टश्चाव्यवस्थितः
- पञ्चेति फूत्कृतेर्दोषानपरानूचिरे परे ६५८
- यः कफोपहताद्वक्त्राद्विस्वरः स्फुटितो भवेत्
- कपिलोऽसौ तुम्बुध्वानप्रायः प्रोक्तस्तु तुम्बकी ६५९
- तारन्यूनतया काकस्वरः काकीति कथ्यते
- अल्पः संदष्टवद्भाति योऽसौ संदष्ट उच्यते
- ऊनोऽधिको वा यो रूक्षः कथ्यते सोऽव्यवस्थितः ६६०
- कण्ठस्य गुणदोषा ये पुरोक्तास्तेषु केचन
- फूत्कारेऽपि यथायोगं योजनीया मनीषिभिः ६६१
- इति दश फूत्कारदोषाः
- अङ्गुलीसारणाभ्यासः सुस्थानत्वं सुरागता
- सुरागव्यक्तिमाधुर्यान्विता वेगाद्गतागते
- गीतवादनदक्षत्वं गातॄआं! स्थानदायिता
- तद्दोषाच्छादनं मार्गदेशीरागेषु कौशलम् ६६३
- ना!वदपस्थाने रागोद्भूतिप्रगल्भता
- वांशिकस्य गुणानेतान्वक्ति श्रीकरणाग्रणीः ६६४
- इति वांशिकगुणाः
- मिथ्याप्रयोगबाहुल्यमेतद्गुणविपर्ययः
- इष्टस्थानानवाप्तिश्च शिरसः कम्पनं तथा
- वांशिकस्येति दोषाः स्युर्वर्जनीयाः प्रयत्नतः ६६५
- इति वांशिकदोषाः
- एकः स्याद्वांशिको मुख्यश्चत्वारोऽस्यानुयायिनः
- वांशिकानामिति प्रायस्तज्ज्ञैर्वृन्दं निगद्यते ६६६
- इति वांशिकवृन्दम्
- अधुना मुग्धबोधार्थमुदाहरणमात्रतः
- वंशे देशीस्थरागाणां केषांचिद्वादनं ब्रुवे ६६७
- मध्यमं स्थायिनं कृत्वा तृतीये कम्पिते स्वरे
- विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा
- स्वस्थानं प्रथमं प्रोक्तं मध्यमादेस्तदा बुधैः ६६८
- तृतीयकम्पनादूर्ध्वं चतुर्थं पञ्चमं ततः ६६९
- तुर्यस्वरं द्वितीयं च कृत्वा न्यासो ग्रहे यदा
- तदा द्वितीयं स्वस्थानं शार्ङ्गदेवेन कीर्तितम् ६७०
- चतुर्थस्वरमाहत्य स्थायिनं तत्परं ततः
- समुच्चार्य स्वरं तुर्यं पञ्चमं तु विलम्ब्य च ६७१
- षष्ठं च पञ्चमं कृत्वा द्वितीयं च ग्रहे यदा
- न्यासस्तदा तृतीयं स्यात्स्वस्थानमिति तद्विदः ६७२
- ग्रहद्वितीयतुर्यांश्च पञ्चमं सप्तमं ततः
- कृत्वाऽष्टमं बिलम्ब्याथ द्वितीयं तत्परं ततः ६७३
- द्वितीयं सप्तमं कृत्वा पञ्चमं च चतुर्थकम्
- द्वितीयं च ग्रहे न्यासः स्वस्थानं तुर्यमिष्यते ६७४
- दृश्यते मध्यमादेस्तु ग्रहो वंशेषु मुद्रितः ६७५
- इति मध्यमादिः
- षड्जे ग्रहे ममाहत्य षड्जं कृत्वा हतौ रिमौ
- पमान्दोल्य प्रकम्यापि पमगां द्विः प्रयुज्य च ६७६
- आन्दोल्य मं प्रकम्प्यापि लघुषड्जं विधाय च
- कम्पयित्वा रिमौ द्वित्रान्वारानावर्त्य षड्जगौ ६७७
- स्थायिन्यासाध्बवेदाद्यं स्वस्थानं मालवश्रियः
- आद्यस्वस्थानविधिना विधाय स्वरपञ्चकम् ६७८
- निं विलम्ब्यावरोही चेत्पूर्वः स्वस्थानगः कृतः
- तदा द्वितीयं स्वस्थानं धान्तमान्दोल्य सप्तमम्
- आहत्य च द्वितीयस्य स्वस्थानस्यावरोहणम् ६८०
- कृतं यत्र तृतीयं तत्स्वस्थानमुदितं बुधैः
- आहत्य मं द्विगुणसं कृत्वा रिं तत्परं ततः ६८१
- तं सं प्रोच्य निमाहत्य विलम्ब्य पुनरप्यमुम्
- कृत्वा तृतीयं स्वस्थानावरोही क्रियते यदा
- तदा चतुर्थं स्वस्थानमाख्यातं मालवश्रियः ६८२
- षड्जोऽन्यो वा स्वरो वंशे ग्रहोऽस्या मुद्रितः स्वरः ६८३
- प्रकल्ल्प्य तस्य षड्जत्वं परेषामृषभादितम्
- लक्ष्मेदं योजयेत्सर्वमित्युक्तं सूरिशार्ङ्गिणा ६८४
- इति मालवश्रीः
- स्थायिनं मध्यमं कृत्वा कम्पयित्वा परं स्वयम्
- तुर्यं विलम्ब्य कृत्वा च तृतीयं तं द्रुताहतम् ६८५
- विधाय तं पुनः प्रोच्य ग्रहन्यासेन जायते
- स्वस्थानं प्रथमं तोड्याः प्रोक्तं मुनिवरैरिति ६८६
- प्राक्स्वस्थानवदारुह्य पञ्चमादवरुह्यते
- स्थायिस्वरान्तं यत्रादः स्वस्थानं स्याद्द्वितीयकम् ६८७
- प्राग्वा षष्ठमारोहावरोही च ग्रहावधिः
- अस्यास्तृतीये स्वस्थाने चतुर्थे त्वष्टमावधौ ६८८
- आरोहिण्यवरोही स्यात्पूर्ववत्तद्विदां मतः
- मुद्रितस्तु ग्रहः प्रोक्तो लक्ष्ये स्याल्लक्ष्मवेदिभिः ६८९
- इति तोडी
- मध्यमं ग्रहमास्थाय प्राञ्चं प्रोच्य ततो ग्रहम् ६९०
- सद्वितीयं कम्पयित्वा तृतीयं सचतुर्थकम्
- लघूकृत्य तृतीयं चोच्चार्याऽऽहत्य च तं ततः ६९१
- प्राचीनं स्वरमुच्चार्य स्थायिनि न्यस्यते यदा
- भवेद्बङ्गालरागस्य स्वस्थानं प्रथमं तदा ६९२
- आरोही पञ्चमान्तः स्थात्स्वस्थानेऽस्याद्वितीयके
- सप्तमान्तस्तृतीये स्यात्तुर्ये स्यादष्टमावधि ६९३
- प्राक्प्राग्वदवरोही स्यात्स्वस्थाने तूत्तरोत्तरम्
- लक्ष्ये तु सर्ववंशस्थो द्वितीयोऽस्य ग्रहो मतः ६९४
- इति बङ्गालः
- धैवतं स्थायिनं कृत्वा प्राञ्चं तं च तृतीयकम्
- पुनः प्राञ्चं विधायाथ कम्पयित्वा तृतीयकम् ६९५
- विलम्ब्य चाऽऽहतं कृत्वा द्वित्रिवारं द्वितीयकम्
- ग्रहे न्यासाद्भैरवस्य स्वस्थानं प्रथमं भवेत् ६९६
- द्वितीये पञ्चमान्तः स्यादारोहोऽथ तृतीयके
- षष्ठोन्तः सप्तमान्तो वा चतुर्थे त्वष्टमावधिः ६९७
- परे परेऽवरोही स्यात्स्वस्थाने पूर्वपूर्ववत्
- द्वितीयोऽत्र स्वरः स्थायी सर्ववंशेषु दृश्यते ६९८
- इति भैरवः
- स्थायिनं द्विगुणं षड्जं कृत्वाऽर्धं वादयेत्ततः
- पूर्वं ग्रहं द्वितीयं च तृतीयमथ वादयेत् ६९९
- अथ द्वितीयमागत्य न्यस्यते स्थायिनि स्वरे
- यदा वराट्याः स्वस्थानं प्रथमं जायते तदा ७००
- इह भैरववत्कार्यं स्वस्थानत्रितयं परम्
- स्वस्थानप्रक्रियैषैव ज्ञेया रागान्तरेष्वपि
- द्वितीयोऽस्याः स्वरो लक्ष्ये ग्रहत्वेनोपलक्ष्यते ७०१
- इति वराटी
- ऋषभे स्थायिनि प्राञ्चं कम्पयित्वाऽर्धमस्य च ७०२
- कृत्वा ग्रहं द्वितीयं च तृतीयं तदधः स्वरम्
- ग्रहमेत्य ततः प्राञ्चं प्रकम्प्योक्तार्धमस्य च ७०३
- ग्रहे न्यासेन गर्जर्याः स्वस्थानं प्रथमं भवेत्
- तृतीयो दृश्यते प्रायो ग्रहोऽस्यां लक्ष्यगोचरे ७०४
- इति गुर्जरी
- षड्जे ग्रहे द्वितीयं च तृतीयं सकृदाहृतम्
- वेगात्कृत्वाऽथ तुर्यं च तृतीयं तदधस्तनम् ७०५
- उक्त्वा तृतीयतुर्यौ च तृतीयं तदधस्तनम्
- ग्रहे न्यासो वसन्तस्य स्वस्थाने प्रथमे भवेत्
- तृतीयस्त्वस्य वंशेषु स्थायित्वेनोपलभ्यते ७०६
- इति वसन्तः
- स्थायिनि द्विगुणे षड्जे तदर्धं लघु वादयेत्
- ततस्तत्सकृदाहत्य ग्रहं तस्मात्तृतीयकम् ७०७
- तुर्यं चोक्त्वा तृतीयं च सकृदाहत्य तत्परम्
- द्रुतं कृत्वा पञ्चमं तु विलम्ब्यास्मादधस्तनौ ७०८
- लघूकृत्य ग्रहे न्यासः स्वस्थाने प्रथमे भवेत्
- धन्नास्या दृश्यते वंशे स्याद्द्वितीयस्वरो ग्रहः ७०९
- इति धन्नासी
- तमेव स्थायिनं कृत्वा द्वितीयं वादयेद्द्रुतम्
- लघू ग्रहद्वितीयौ च कृत्वा ताभ्यां परं स्वरम् ७१०
- विलम्ब्य स्फुरितं तु द्विर्विध्यात्पञ्चमं ततः
- अधरांस्त्रीन्क्रमादुक्त्वा स्थायिनि न्यस्यते यदा
- देश्यास्तदाऽऽद्यं स्वस्थानं द्वितीयोऽस्या ग्रहो जने ७११
- इति देशी ।
- गान्धारे स्थायिनि प्रोच्य द्वितीयं च तृतीयकम्
- तुर्यं विलम्ब्य तत्प्राञ्चं कृत्वा स्पृष्ट्वा द्वितीयकम् ७१२
- दीर्घीकृत्य तृतीयं चोक्त्वा द्वितीयं ग्रहस्वरे
- न्यासो यदा स्यात्स्वस्थानं देशाख्यायास्तदाऽऽदिमम् ७१३
- मुद्रितोऽस्या ग्रहो वंशे लक्ष्यते लक्ष्यवेदिभिः ७१४
- इति देशाख्या
- ग्रहं द्विगुणसं कृत्वा पूर्वं स्पृष्ट्वा तृतीयकम्
- कृत्वा स्पृष्ट्वा ग्रहं प्रोच्य तत्परं स्फुरितौ वदेत् ७१५
- द्विस्त्रिर्वा ग्रहतत्पूर्वो न्यस्यते कम्पिते ग्रहे
- यदा डोम्बक्रियः प्रोक्तं स्वस्थानं प्रथमं तदा
- सा भूपाली श्रुता लोके द्वितीयं ग्रहमाश्रिता ७१६
- इति डोम्बक्रीः
- धैवते स्थायितां नीते द्विरुच्चार्य परं लघुम्
- तं चाथ प्राञ्चमस्यार्धं पूर्वं पूर्वं विधाय तम् ७१७
- विलम्ब्य कम्पयित्वाऽर्धं तस्याऽऽहत्य च तन्मुहुः
- पूवं प्रकम्प्य तस्यार्धं दीर्घीकृत्य ग्रहं व्रजेत् ७१८
- अथोर्धप्रेरितौ पूर्वग्रहौ कृत्वा द्वितीयकम्
- प्रोच्य स्पृष्ट्वा ग्रहं तस्मात्परं प्रोच्य प्रकम्प्य तु ७१९
- तृतीयं ग्रहपाश्चात्यग्रहौ तूच्चारयेन्मुहुः
- ततस्तृतीयमाकम्प्य विलम्ब्य तदधस्तनम् ७२०
- ईषद्विरम्य स्पृष्ट्वा च द्वितीयं न्यस्यते ग्रहे
- यदा तदाऽऽद्यं स्वस्थानं वेलावल्याः प्रकीर्तितम्
- तृतीयग्रहता त्वस्या दृश्यते वंशगोचरे ७२१
- इति वेलावली
- पञ्चमं ग्रहमास्थायाऽऽरोहिणा पञ्चमं ततः
- गत्वा विलम्ब्य तं तस्मादधरं द्रुततां नयेत् ७२२
- ततोऽधः स्थं द्राघयित्वा स्पृष्ट्वा च द्राघितात्परम्
- तत्परं दीर्घतां नीत्वा पुनः प्रोच्यावरोहिणा ७२३
- तस्मादेत्य ग्रहन्यासे स्वस्थानं प्रथमं भवेत्
- रागे प्रथममञ्जर्यां द्वितीयोऽस्या ग्रहो जने ७२४
- इति प्रथममञ्जरी
- स्थायिनोऽर्धात्समारुह्य तृतीयादिचतुःस्वरीम्
- कम्पयित्वा विलम्ब्यापि षष्ठतुर्यं विधाय च ७२५
- एत्य पञ्चममेतस्माद्ग्रहान्तमवरुह्य च
- ग्रहार्धं ग्रहपूर्वं च गत्वा स्पृष्ट्वा ग्रहं ततः ७२६
- द्वितीयं कम्पितं कृत्वा तृतीयं स्फुरितं ततः
- स्थायिनि स्यस्यते यत्र स्वस्थानं स्यात्तदाऽऽदिमम्
- आडीकामोदिकायाः स्याद्द्वितीयग्रहता जने ७२७
- इत्याडीकामोदी
- स्थायिनि द्विगुणे षड्जे द्विराहत्य तृतीयकम्
- त्रिश्चतुर्वा ततः स्पृष्ट्वा ग्रहं पूर्वमुदीर्य च ७२८
- कम्पिते स्थायिनि न्यासात्स्वस्थानं प्रथमं भवेत्
- रागे शुद्धवराट्यां सा द्वितीयस्थायिका जने ७२९
- इति शुद्धवराटी
- तमेव स्थायिनं कृत्वा तं तदर्धं द्विराहतम्
- द्विस्त्रिर्वोक्त्वाऽथ द्वितीयं कम्पयित्वा विलम्ब्य च ७३०
- आहत्य द्विश्चतुर्वाऽस्मात्परं कृत्वा लघुं ग्रहम्
- उक्त्वा ग्रहार्धपूर्वे तु दीर्घीकृत्य ग्रहे यदा ७३१
- न्यस्यते शुद्धनट्टायाः स्वस्थानं प्रथमं तदा
- वंशेष्वस्यामपि प्रायो द्वितीयो दृश्यते ग्रहः ७३२
- इति शुद्धनट्टा
- ग्रहं द्विगुणसं प्रोच्य तदर्धं च द्वितीयकम्
- विलम्बिते तृतीयेऽथ द्वितीयं द्रुततां नयेत् ७३३
- ग्रहार्धे च स्थिरीभूय कम्पयित्वा ग्रहं ततः
- परौ स्वरौ द्रुतीकृत्य लघूकृत्य परं ग्रहे ७३४
- न्यासे कृते रामकृतेः स्वस्थानं प्रथमं भवेत्
- द्वितीयस्वरमेवास्या वंशे वीक्षामहे ग्रहम् ७३५
- इति रामक्रीः
- तस्मिन्नेव ग्रहे कृत्वा तृतीयं च द्वितीयकम्
- ग्रहार्धं द्रुतमुच्चार्य स्पृष्ट्वा पूर्वं ग्रहस्य च ७३६
- अर्धं प्रोच्य विरम्याथ पूर्वं स्पृष्ट्वा तृतीयकम्
- लघूकृत्य लघोः पूर्वौ स्पृष्ट्वाऽथ स्थायिनः परौ ७३७
- लघूकृत्य द्रुतं कृत्वा द्वितीयं न्यस्यते ग्रह
- यदा तदा गौडकृतेर्भवेत्स्वस्थानमादिमम् ७३८
- द्वितीयोऽस्यामपि प्रायो ग्रहो लक्ष्येषु दृश्यते ७३९
- इति गौडक्रीः
- धैवते स्थायिनि प्राञ्चं ग्रहं ग्रहतृतीयकम्
- तुर्यं कृत्वा तमाहत्य द्वितीयं कम्पयेत्ततः ७४०
- अवरुह्य तृतीयादिक्रमेण चतुरः स्वरान्
- ग्रहन्यासाद्देवकृतेराद्यं स्वस्थानमादिशेत्
- तृतीयग्रहतां त्वस्याः पश्यामो वंशगोचरे ७४१
- इति देवक्रीः
- धैवतं ग्रहमास्थाय तृतीयादवरुह्य च
- स्वरत्रयं विरम्याथ ग्रहं परमथ ग्रहम् ७४२
- पूर्वं कृत्वा तमाहत्य ग्रहन्यासेन जायते
- स्वस्थानमाद्यं भैरव्यास्तृतीयोऽस्या ग्रहो जने ७४३
- इति भैरवी
- स्थायिनि द्विगुणे षड्जेऽधस्तृतीयं विधाय च
- अधस्तनं प्रकम्प्याथ विलम्ब्य स्थायिनं ततः ७४४
- प्राचीनं लघुतां नीत्वा द्विस्त्रिर्वाऽऽहत्य तं ग्रहम्
- लघूकृत्याधरस्यार्धमास्पृश्य ग्रहपञ्चमम् ७४५
- विलम्ब्य तं द्रुतीकृत्य तृतीयस्पर्शमाचरेत्
- अथोक्त्वा पञ्चमं तं च दीर्घीकृत्याधरं मनाक् ७४६
- कम्पयित्वा ग्रहन्यासाद्भवेत्स्वस्थानमादिमम्
- छायानट्टाख्यरागस्य ग्रहो वंशे तृतीयकः ७४७
- एतां सालगनट्टां तु भाषन्ते लक्ष्यवेदिनः ७४८
- अन्ये तु पञ्चमं कृत्वा स्थायिनं रिं विधाय च
- मं प्रकम्प्य स्थिरीभूय पञ्चमे द्विः पमध्यमौ ७४९
- कृत्वा गमृषभार्धं च संस्पृश्यार्धं पुनर्व्रजेत्
- ततो दीर्घौ रिमौ कृत्वा ग्रहे चेन्न्यस्यते तदा
- आद्यं सालगनट्टायाः स्वस्थानं तद्विदो विदुः ७५०
- मं विधाय ग्रहं तं च द्रुतीकृत्य परं ततः
- उक्त्वा तुर्यं विलम्ब्याथ परमास्पृश्य पञ्चमम् ७५१
- विलम्ब्यातोऽवरोहेण ग्रहमेति यदा तदा
- स्वस्थानमादिमं रामकृतेर्वंशे द्वितीयकः
- ग्रहश्चिन्धमरामक्रीः सा सिद्धा लोकवर्त्मनि ७५२
- इति चिन्धमरामक्रीः
- रिमेव ग्रहमाश्रित्य द्विस्त्रिर्वाऽऽहत्य मं ततः ७५३
- तंविलम्बिततां नीत्वा दीर्घीकृत्य नु मध्यमम्
- रिगौ रिदलमेतानि द्रुतीकृत्य विलम्ब्य निम् ७५४
- पुनरुच्चार्य तं कृत्वा धैवतं सकृदाहतम्
- वादयित्वा निषादं च ग्रहन्यासेन जायते ७५५
- नाट्यरामकृतेराद्यं स्वस्थानमिति तद्विदः
- अथवा मध्यमं कृत्वा ग्रहमाहत्य पञ्चमम् ६५६
- द्विस्त्रिर्वाऽप्यवरोहेण धात्क्रमादृषभं द्रुतम्
- एत्यार्धं तस्य षड्जं च रेरर्धं वादयेत्पुनः ७५७
- अथोच्चार्य रिमौ पं तु विलम्ब्य न्यस्यते ग्रहे
- यत्र स्वस्थानमाद्यं तन्नाट्यरामकृतेर्मतम् ७५८
- इति नाट्यरामक्रीः
- ग्रहं कृत्वा धमाहत्य सकृद्ग्रहपरं स्वरम्
- कृत्वा ग्रहात्परौ द्विस्तु ग्रहमाहत्य पूर्वकम् ७५९
- द्वितीयं च क्रमादुक्त्वा ग्रहे चेन्न्यस्यते तदा
- स्वस्थानमाद्यं मह्लारे ग्रहो वंशे द्वितीयकः ७६०
- इति मह्लारः
- ग्रहं द्विगुणसं कृत्वा द्रुतीकृत्य ततोऽधरम् ७६१
- तमान्दोल्य द्वितीयं तु विधायाथ तृतीयकम्
- स्फुरितं ग्रहतत्पूर्वौ वादयित्वा ग्रहे यदा ७६२
- न्यासः कणाटगौडस्य स्वस्थानं प्रथमं तदा
- वंशे ग्रहस्तृतीयोऽस्य गृह्यते लक्ष्यवेदिभिः ७६३
- इति कर्णाटगौडः
- ग्रहं तमेव सं कृत्वा प्रोच्य तुर्यतृतीयकौ
- स्थायिनं तद्दलं चोक्त्वा पूर्वस्थायिदलं ततः ७६४
- स्थायिन्यासाद्देशवालगौडस्वस्थानमादिमम्
- जायतेऽस्यापि वंशे तु द्वितीयो दृश्यते ग्रहः ७६५
- इति देशवालगौडः
- निषादे स्थायिनि प्रोच्य पूर्वं ग्रहमथोत्तरम्
- तुर्यं द्वितीयतस्तु त्रीनवरुह्य ग्रहे यदा ७६६
- न्यासस्तुरुष्कगौडस्य तदा स्वस्थानमादिमम्
- लोके मालवगौडोऽसौ तृतीयोऽस्य ग्रहो गतः ७६७
- इति तुरुष्कगौडः
- निषादाद्ग्राहतां नीतादारोहेदाचतुर्थकम्
- तं विलम्ब्य ततो गच्छेद्ग्रहे चेदवरोहिणा ७६८
- तदा द्राविडगौडस्य स्वस्थानं प्रथमं भवेत्
- लोके सालगगौडोऽयं द्वितीयोऽस्य ग्रहो मतः ७६९
- इति द्राविडगौडः
- पञ्चमं ग्रहमास्थाय तृतीयं च द्वितीयकम्
- मुक्त्वा तृतीयं स्पृष्ट्वा च प्रान्तमुक्त्वा तृतीयकम् ७७०
- स्पृष्ट्वा विलम्ब्य द्वितीये न्यस्यते कम्पिते ग्रहे
- यदा भवङ्ति कैशिक्याः स्वस्थानं प्रथमं तदा ७७१
- तृतीयोऽस्याः स्वरो वंशे ग्रहो लक्ष्येषु दृश्यते ७७२
- इति कैशिकी
- स्थायिनं द्विगुणं षड्जं द्रुतीकृत्य द्वितीयकम्
- उक्त्वा द्वितीयतृतीयौ द्रुतीकृत्याधराधरम् ७७३
- उदीर्य तं द्रुतीकृत्य द्वितीयं वादयेत्ततः
- तृतीयं द्विस्त्रिराहत्य स्यायिनि न्यस्यते यदा ७७४
- ललितायास्तदा प्रोक्तं स्वस्थानं प्रथमं बुधैः
- अस्यामपि स्वरो लक्ष्ये तृतीयो दृश्यते ग्रहः ७७५
- इति ललिता
- ग्रहं द्विगुणसं कृत्वाऽधस्तनं स्थायिनं तथा
- कृत्वा द्वितीयतुर्यौ च द्वितीयस्थायिनौ स्पृशेत् ७७६
- विलम्बिते द्वितीयेऽथ स्थायिनि न्यस्यते यदा
- श्रीरागस्य बुधैः प्रोक्तं तदा स्वस्थानमादिमम्
- स्वरो वंशे द्वितीयोऽस्य ग्रहत्वेनोपलक्षितः ७७७
- इति श्रीरागः
- यो ग्रहः द्रियते वंशे तमपेक्ष्यात्र योजयेत्
- लक्षणस्थं द्वितीयादि यदा किंतु ग्रहादयः ७७८
- यावन्तो यत्र रागे स्युः स्वरा लक्ष्मणि तावताम्
- संभवः स्थायिना येन स्थायिनं तत्र संश्रयेत् ७७९
- अनुग्रहाय मुग्धानामित्येते कतिचिन्मया
- रागाः प्रोक्ताः पथाऽनेन संपश्यध्वं बुधाः परान् ७८०
- इति वंशप्रकरणम्
- पावो वेणुसमुत्पन्नः स्यान्नवाङ्गुलवंशवत्
- कृतावेष्टो वङ्गपत्रैर्लोकरीत्यैष वाद्यते ७८१
- इति पावलक्षणम्
- पाविका वैणवी कार्या द्वादशाङ्गुलदैर्घ्यभाक्
- स्थौल्येऽङ्गुष्ठमिता गर्भे स्वदैर्घ्ये सुषिरं श्रिता ७८२
- कनिष्ठाग्रमितस्थौल्यमस्या लोकानुसारतः
- फूत्काररन्ध्रमेकं स्यात्पञ्च स्युः स्वरसिद्धये
- वादनं विविधं नागयक्षावेशविधायकम् ७८३
- इति पाविकालक्षणम्
- हस्तद्वयाधिका माने मुखरन्ध्रसमन्विता
- चतुःस्वरच्छिद्रयुता मुरली चारुनादिनी ७८४
- इति मुरली
- शृङ्गजा दारवी वा स्यात्काहलाकृतिधारिणी
- अष्टाविंशत्यङ्गुला च दैर्घ्ये मधुकरी शुभा ७८५
- मुखरन्ध्रं च तस्याः स्यात्तुवरीबीजसंनिभम्
- मुखरन्ध्रादङ्गुलानि त्यक्त्वा चत्वारि वंशवत् ७८६
- विधाय सप्त रन्ध्राणि कुर्वीत विवरान्तरम्
- तेषां च मुखरन्ध्रस्य मध्येऽधोभागसंस्थितम् ७८७
- मधुरध्वानसिद्ध्यै तन्मुखरन्ध्रे तु ताम्रजा
- निधातव्या यवस्थूला नलिका चतुरङ्गुला ७८८
- तदूर्ध्वं चक्रिका स्थाप्या दन्तजा शुक्तिजाऽथवा
- रन्ध्रमध्ये काशमयीं यद्वा देवनलोद्भवाम् ७८९
- शुक्तिकां किंचिदुन्निद्रमालतीकलिकाकृतिम्
- मृदुलां क्षीरपाकेण क्षिप्त्वा मधुकरीं ततः ७९०
- वंशवद्वादयेद्रन्ध्रं पिदधीताप्यधस्तनम्
- वामाङ्गुष्ठाग्रभागेणेत्युक्तं निःशङ्कसूरिणा ७९१
- इति मधुकरीलक्षणम्
- ताम्रजा राजती यद्वा काञ्चनी सुषिरान्तरा
- धत्तूरकुसुमाकारवदनेन विराजिता ७९२
- हस्तत्रयमिता दैर्घ्ये काहला वाद्यते जनैः
- हाहूवर्णवती वीरबिरुदोच्चारकारिणी ७९३
- इति काहलालक्षणम्
- हस्तद्वयकृता या सा सैव तुण्डकिनी मता
- तुरुतुर्यपि सा लोके तित्तिरी च निगद्यते
- यमलं तुण्डकिन्योश्च वाद्यं वाद्यविदो विदुः ७९४
- इति तुण्डकिनीलक्षणम्
- तुण्डकिन्येव चुक्का स्याद्दैर्घ्ये हस्तचतुष्टया ९७५
- इति चुक्कालक्षणम्
- करेणुवदनाकारवदनं दोषवर्जितम्
- वृङ्गं यन्माहिषं श्लक्ष्णं स्निग्धं सुघटितं कृतम् ७९६
- शृङ्गस्यानडुहश्चाथ धत्तूरकुसुमाकृति
- खण्डमष्टाङ्गुलं न्यस्य मूलेऽस्य ध्वनिवृद्धये ७९७
- अग्रं द्वित्राङ्गुलं तस्य च्छित्वा फूत्काररन्ध्रकम्
- विधाय तुथुकारेण वादयेद्विविधध्वनिम्
- एतद्वै ध्वानगम्भीरं वाद्यं गोपालकेलिषु ७९८
- इति शृङ्गलक्षणम्
- निर्दोषस्योत्खातनाभेः शङ्खस्यैकादशाङ्गुलम्
- शिखरं निर्मितं धातुमिच्छकाभ्यां मनोहरम् ७९९
- मूलतश्चाग्रपर्यन्तं ह्रस्वमानाकृपि क्रमात्
- रन्ध्रमर्धाङ्गुलमितं शिखरस्य मुखे भवेत् ८००
- अन्तस्तु माषमात्रं स्याच्छङ्कमेवंविधं सुधीः
- धृत्वा कर्कटहस्तेन भूरिश्वासभृतोदरम्
- हुंभुंथो दिगिदित्येतद्वर्णोद्बोधेन वादयेत् ८०१
- इति शङ्कलक्षणम्
- मार्गदेशीगतत्वेन पटहो द्विविधो भवेत्
- मार्गस्थपटहस्यात्र लक्षणं तावदुच्यते ८०२
- सार्धहस्तद्वयं तस्य दैर्घ्यं स्यात्परिधिः पुनः
- षष्ट्यङ्गुलो मध्यदेशः पृथुलो दक्षिणं मुखम् ८०३
- कर्तव्यं संमितं सार्धैरेकादशभिरङ्गुलैः
- वामं तु दशभिः सार्धैः संमितं दक्षिणे मुखे ८०४
- आयसं वलयं कार्यं वामे वल्लीसमुद्भवम् ८०५
- षाण्मासिको मृतो वत्सो यस्तस्याऽऽदाय पारिकाम्
- तयाऽवगुण्ठ्य वलयं वल्लीजं वामवक्त्रगम् ८०६
- सप्तरन्ध्रान्वितं कृत्वा सुदृढैः सूक्ष्मदोरकैः
- निक्षिप्तैस्तेषु रन्ध्रेषु बन्धव्याः कलशाः श्लथम् ८०७
- ते हेमादिमयाः सप्त दैर्घ्येण चतुरङ्गुलाः
- त्यक्त्वाऽङ्गुलानि चत्वारि वामे स्याल्लोहपत्रिकाम् ८०८
- अङ्गुलत्रयविस्तारां पटहे वेष्टयेद्दृढम्
- बाह्यकायस्य यच्चर्म पशोस्तेन घनेन च ८०९
- कम्बलाख्येन बध्नीयात्पिहितं वदनद्वयम्
- दक्षिणास्यस्य कवलं परितः कृतरन्ध्रकम् ८१०
- रन्ध्रक्षिप्तैर्गुणैर्गाढमाकृष्येतरवक्त्रगैः
- वलये तान्गुणान्सम्यग्बध्नीयाद्दार्ढ्यसिद्धये ८११
- वामास्यकवलान्तस्थसप्तरन्ध्रनिवेशितैः
- गुणैरावेष्ट्य कलशानायसैर्वलयैर्दृढैः ८१२
- अन्तः क्षिप्त्वा समाकृष्टैर्वलये गाढतां नयेत्
- कलशेभ्यो बहिर्वामवलयान्ते च बध्यते ८१३
- वेष्टनाय कटेः कच्छेत्युक्तोऽयं स्कन्ददैवतः
- श्रीयज्ञपुरवर्येण पटहो मार्गसंभवः ८१४
- देशीस्थोऽप्येवमेव स्याद्दैर्घ्येऽसौ सार्धहस्तकः
- सप्ताङ्गुलं दक्षिणास्यमन्यत्सार्धषडङ्गुलम् ८१५
- आन्तरं जाठरं चर्म पशोर्गदितमुद्दली
- तया तु स्वेच्छया वक्त्रं वाममस्य निबध्यते ८१६
- विशेषोऽयं भवेदस्मिन्नुभौ खादिरदारुजौ
- त्रिधोक्तोऽयं द्वयोरन्यैरुत्तमो मध्यमोऽधमः ८१७
- उत्तमः प्रोक्तमानः स्याद्द्वादशांशोनितः पुनः
- मध्यमः षष्ठभागेन विहीनस्त्वधमो भवेत् ८१८
- अथाऽऽद्यवर्णाः
- ङवर्जितः कवर्गश्च टतवर्गौ रहावपि
- इति षोडश वर्णाः स्युरुभयोः पाटसंज्ञकाः ८१९
- संयोगविप्रयोगाभ्यां क्रमव्युत्क्रमयोगतः
- सस्वरत्वास्वरत्वाभ्यां पाटास्ते स्युरनेकधा ८२०
- उद्दल्यामेव झेंकारो देंकारः कवलेऽधिकः
- देशीपटहमेवाऽऽहुरिममड्डावजं जनाः ८२१
- अष्टादशाङ्गुलः किंचिन्नताग्रो मध्यतःपृथुः
- कोणः कार्यो मूलदेशे मदनाम्बरवेष्टितः ८२२
- पद्मासनोपविष्टेन गोष्ठ्यामूरुद्वयोपरि
- संस्थाप्य मार्गपटहो वाद्यो वर्णोद्भवे पटुः ८२३
- नाटके त्वर्धवक्त्रोऽयं वाद्यते घटवाद्यवत्
- कोणेन पाणिना वाऽस्य वादनं सूरयो विदुः ८२४
- इति पटहलक्षणम्
- ये पाटाः पटहे प्रोक्तास्तेषां विविधगुम्फनात्
- हस्तोद्भवाः पाटभेदा हस्तपाटाः प्रकीर्तिताः ८२५
- ते चानन्ता न शक्यन्ते प्रत्येकं वेदितुं जनैः
- प्रदर्शनार्थमेतेषु कतिचित्प्रतिपादये ८२६
- सद्योजातान्नागबन्धः स्वस्तिको वामदेवतः
- अलग्नोऽभूदघोरात्तु शुद्धिस्तत्पुरुषाभिधात् ८२७
- आसीदीशानवक्त्रस्तु समस्खलितसंज्ञकः
- जाताः पञ्चेति पञ्चभ्यो मुखेभ्यः पार्वतीपतेः ८२८
- अतस्ते सर्वपाटानां पाटा मुख्यतमा मताः
- क्रमात्तद्देवता ब्रह्मविष्णुशर्वरवीन्दवः ८२९
- नागबन्धश्च पवनस्तथैकैकसराभिधौ
- ततो दुःसरसंचारविक्षेपा नागबन्धजाः ८३०
- सप्तेत्यथ स्वस्तिकजाः स्वस्तिको बलिकोहलः
- फुल्लपूर्वश्च विक्षेपः कुण्डलीपूर्वकश्च सः ८३१
- संचारविलिखी खण्डनागबन्धश्च पूरकः
- भेदाः सप्तेत्यलग्नस्य त्वेते सप्त प्रकीर्तिताः ८३२
- अलग्नोत्सारविश्रामा विषमाद्या खली सरी
- स्फुरी स्फुरणकश्चेति शुद्धे स्याच्छुद्धिरादिमः ८३३
- स्वरस्फुरणकोच्छल्लवलतावघटास्ततः
- तकारो माणिक्यवल्ली भेदाः सप्तेति संमताः ८३४
- समस्खलितकस्याऽऽद्यः समस्खलितसंज्ञकः
- विकटः सदृशः पाटखली चाडुखली ततः ८३५
- अनुच्छल्लस्तथा खुत्तो भेदाः सप्तेति सन्त्यमी
- पञ्चत्रिंशद्धस्तपाटास्तलपाटाश्च कीर्तिताः ८३६
- कोणाहतश्च संभ्रान्तो विषमार्धसमाविति
- चत्वारो हस्तपाटाः स्युर्नन्दिकेश्वरभाषिताः ८३७
- उत्फुल्लः खलकस्तद्वत्पाण्यन्तरनिकुण्टकः
- दण्डहस्तः पिण्डहस्तो युगहस्तोऽर्धहस्तकौ ८३८
- स्थूलहस्तोऽर्धार्धपाणिः पार्श्वपाण्यर्धपाण्यपि
- कर्तरीसमकर्तर्यौ ततो विषमकर्तरी ८३९
- समपाणिश्च विषमपाणिः स्यात्पाणिहस्तकः
- नागबन्धोऽप्यवघटः स्वस्तिकश्च समग्रहः
- इत्येकविंशतिर्हस्तपाटाः स्युः पटहादिषु ८४०
- उल्लोलः पाण्यन्तरश्च निर्घोषः खण्डकर्तरी
- दण्डहस्तः समनखो बिन्दुर्यमलहस्तकः ८४१
- रेचितो भ्रमरो विद्युद्विलासोऽप्यर्धकर्तरी
- अलग्नाख्यस्ततो रेफः समपाणिरतः परम् ८४२
- परिवृत्तः षोडशेति वाद्येषु पटहादिषु
- एतान्प्रायो हुडुक्कायां कुर्वते वाद्यवेदिनः ८४३
- अष्टौ विषमपाटाः स्युरपाटाख्यान्ब्रुवेऽधुना ८४४
- तलप्रहारः प्रहरो वलितो गुरुगुञ्जितः
- अर्धसञ्चस्त्रिसञ्चश्च विषमोऽभ्यस्त इत्यमी ८४५
- स्यातामलगपाटौ द्वौ सञ्चविच्छुरिताभिधौ
- भ्रमरः कुञ्चितश्चेति चित्रपाटावुभौ मतौ ८४६
- अष्टाशीतिरिमे हस्तपाटा निःशङ्ककीर्तिताः ८४७
- शिववक्त्रोत्थपाटानां स्वरूपं प्रतिपादये
- तेषामुत्पादकान्पाणीँल्लोकतो लक्षयेत्सुधीः ८४८
- कनिष्ठाङ्गुष्ठसंयोगाच्छेषाङ्गुलिविवर्धनात्
- कोणाहतो हस्तपाटः शार्ङ्गदेवोदितो यथा ८४९
- खुंखुंधरि खुंखुंधरि करगिड करगिड ।
- इति कोणाहतः १
- सर्वाङ्गुल्यग्रघातश्च सर्वाङ्गुलिविवर्तनम्
- यस्य निष्पादकं सोऽत्र संभ्रान्तः कथितो यथा ८५०
- दरगिडदरगिड गिरिगिडद दाणकिट मटटकु
- इति संभ्रान्तः २
- चलनं मणिबन्धस्य पताकस्याथ कम्पनम्
- पादकम्पोऽथ जनको यस्यासौ विषमो यथा ८५१
- दह्रें दह्रें खुंखुं दह्रें खुंखुं दह्रें ततकि ततकि
- इति विषमः ३
- पूर्वलक्ष्मविपर्यासाद्भवेदर्धसमो यथा ८५२
- ददगिद गिगिरिकिटदगि थॐ थॐ गिदथॐगिद
- इत्यर्धसमः ४
- उत्फुल्लो नखराघातादलपद्मस्य जायते ८५३
- कथें कथें इत्युत्फुल्लः १
- यदा प्रसारिताङ्गुष्ठः शुकतुण्डस्य हन्यते
- विरलाङ्गुलिभिर्वाद्यं क्रमेण खलकस्तदा ८५४
- दांगिड गिडदगिदा इति खलकः २
- यस्तु दक्षिणहस्तस्य तर्जन्यङ्गुष्ठघाततः
- क्रमव्युत्क्रमघातात्तु वामहस्तेन रेफवत्
- जायते शार्ङ्गिणोक्तोऽसौ पाण्यन्तरनिकुट्टकः ८५५
- दगिडदां खरिक्कदां खरिक्क खरिक्कदांदां खरिखरिदां गिडदां
- इति पाण्यन्तरनिकुट्टकः ३
- ऊर्ध्वघातं पताकेन कृत्वैकमथ रेफतः
- कृतौ यत्रोर्ध्वघातौ द्वौ दण्डहस्तो भवेदसौ ८५६
- दातरिकिट दां खरिखरिदां इति दण्डहस्तः ४
- क्रमाद्रेफोऽर्धहस्ताभ्यां पिण्डहस्तः प्रजायते
- थरिकटझें थरिकटझें इति पिण्डहस्तः ५
- रेफात्मभ्यां कराभ्यां चेदूर्ध्वघातद्वयं पृथक् ८५७
- क्रियते पाटनिष्पत्त्यै युगहस्तस्तदा भवेत्
- द्रेंद्रें दांदां इति युगहस्तः ६
- ऊर्ध्वहस्तो दक्षिणेन तलेनोद्गाढघातकः ८५८
- दरगिड दांदां इत्यूर्ध्वहस्तः ७
- ऊर्ध्वघातद्वयं कृत्वा तलहस्तेन हन्यते
- यदा वाद्यपुटद्वंद्वं स्थूलहस्तस्तदोदितः ८५९
- खुंखुंदखुंखुंद इति स्थूलहस्तः ८
- अर्धार्धपाणिरर्धाभ्यां करयोस्ताडनाद्भवेत्
- खुदां खुदां इत्यर्धार्धपाणिः ९
- वादनं नखराग्रेण पार्श्वपाणिरुदाहृतः ८६०
- थरगिड दागिड दगिड दगिड इति पार्श्वपाणिः १०
- अर्धपाणिर्भवेदेककराग्रकृतताडनात्
- दगिड दगिड दरगिड दरगिड इत्यर्धपाणिः ११
- प्रचालनाद्वामहस्ताङ्गुलीनां कर्तरी मता ८६१
- टिरि टिरि टिरि किटथॐ दिगिदां तिरि टिरि किटझेंझे तकि-
- किट इति कर्तरी
- कर्तरीभ्यां समं घातः कराभ्यां समकर्तरी
- झिंनकिट कनकिट किटझेंथॐ दिगिद तिरिटि तिरिटिकि इति समकर्तरी १३
- क्रमेण ताडनाद्द्वाभ्यां भवेद्विषमकर्तरी ८६२
- टिरि टिरि थॐ दिगिद टिरि टिरि किद इति विषमकर्तरी १४
- अङ्गुष्ठाङ्गुलिसंघातौ हस्तयोर्युतपद्यदा
- पीडयेतां पुटद्वंद्वं समपाणिस्तदा भवेत् ८६३
- दां गिड गिड दांदां इति समपाणिः १५
- व्यत्ययाद्व्यापृतौ हस्तौ साङ्गुष्ठाङ्गुलिभिः क्रमात्
- यस्मिन्विषमपाणिं तं ब्रूते शंकरवल्लभः ८६४
- दांदां गिड गिड दांदां इति विषमपाणिः १६
- समपाणेस्तु विरलाङ्गुलित्वे पाणिहस्तकः ८३५
- तरगिड दरगिड इति पाणिहस्तकः १७
- नागबन्धो विपर्यासात्पुटयोः करघाततः
- प्रत्येकं वा पुटद्वंद्वे कराभ्यां ताडनादयम् ८६६
- इति नागबन्धः १८
- तलेन हत्वा प्रहरेत्साङ्गुष्ठाङ्गुलिभिः क्रमात्
- पुटमेकैकपाणिश्चेद्भवेदवघटस्तदा ८६७
- ततगिड गिड दगिटन गिनगिननगि इत्यवघटः १९
- पुटमेकं निहन्यातां स्वस्तिके स्वस्तिकौ करौ ८६८
- तकिट तकिटतकि इति स्वस्तिकः २०
- समं करतलाभ्यां तु पुटघातात्समग्रहः
- तले केचिदिह प्राहुरङ्गुष्ठाङ्गुलिवर्जिते ८६९
- तकिट किटतक इति समग्रहः २१
- इत्येकविंशतिर्हस्तपाटाः
- लोलो व्यवहिताङ्गुष्ठो दक्षिणो यस्य साधकः
- वामश्चेच्छ्वसितो हस्तमुल्लोलं तं प्रचक्षते ८७०
- अङ्गुष्ठमध्यमन्येऽत्र ब्रुवते दक्षिणं करम्
- पुटमध्ये दक्षिणेन साङ्गुष्ठेन हतिं परे ८७१
- व्यङ्गुष्ठो दक्षिणो हस्तः पुटे चेन्मुहुरुल्लसेत्
- स्वपुटं पीडयेद्वामस्तदा पाण्यन्तरो भवेत् ८७२
- विश्लिष्टाङ्गुलिसंचारमङ्गुष्ठार्धार्धताडनम्
- पाण्यन्तरस्य जनकं केचिदाचक्षते बुधाः ८७३
- अन्ये पाण्यन्तरं प्राहुर्व्यङ्गुष्ठाद्युक्तलक्षणम्
- हस्तान्तरं ततो न्निं विश्लिष्टादिकलक्षणम् ८७४
- नखें नखें नखें खेंखेंखें नखें नखें नखें खेंखेंखेंखें दखुं खुंद खुंद इति पाण्यन्तरः १
- कोणघोआतेन निर्घोषं निःशङ्कः समभाषत ८७५
- नखखि थॐथॐ दिगिदा इति निर्घोषः ३
- घाताद्दक्षिणहस्तेन विरलाङ्गुलिना ततः
- अङ्गुष्ठघातैर्वामेन पीडनात्खण्डकर्तरी ८७६
- दां खुखुदां२
- खुखुग थॐटझेंदें झेंदॐ गिथॐटे इति खण्डकर्तरी ४
- अङ्गुल्यग्रैः पीडयित्वाऽङ्गुष्ठेन परिघट्टनात्
- वामेन पीडनाद्वाद्य दण्डहस्तोऽभिजायते ८७७
- खुखुणं खुखुणं झेंद्रझेंद्र टिरिटिरि इति दण्डहस्तः ५
- समत्वं पाटवर्णानामङ्गुलीनखराहते
- दृश्यते यत्र तं प्राहुः पाटं समनखाभिधम् ८७८
- रह रह तरकिट किकिट तकिधकि टेंहेंटहेंत्रः इति समनखः ६
- अवष्टभ्य पुटं वामपाणिना तर्जनीहते
- बिन्दुरुत्पद्यते प्रोक्तमिति सोढलसूनुना ८७९
- देंदिगि देंदिगि गिरिगिड २
- इति बिन्दुः ७
- समवष्टभ्य वामेन पुटं दक्षिणपाणिना
- संपीडनं वादयेच्चेत्तदा यमलहस्तकः ८८०
- कुंद कुंद झेंद्र झेंद्र झेंहें झेंहें इति यमलहस्तः ८
- उत्तुङ्गीकरणं वाद्ये स्कन्धस्य स्फुरणं तथा
- अङ्गुष्ठतर्जनीघातः पाटं कुर्वन्ति रेचितम् ८८१
- देंदें थां थॐ देंदें नखझें३
- नहनझें इति रेचितः ९
- भ्रमरो हस्तपाटः स्यात्समस्ताङ्गुलिताडनात् ८८२
- खेखेणं खुखुणं खु३
- णं झेंद्र२
- णह करें झें इति भ्रमरः १०
- अङ्गुष्ठतर्जनीघाताद्वलितार्धार्धहस्तकः
- विद्युद्विलासो भणितो विद्युद्विलसितोऽथवा ८८३
- तणे३
- तिर झॐझॐ द्रि३
- त्रां इति विद्युद्विलासः ११
- तर्जनीमध्यमानामा विरलाः प्रहरन्ति चेत्
- श्रीश्रीकरणनाथेन तदा प्रोक्ताऽर्धकर्तरी ८८४
- दोखुंखुं३
- ग्रेह घेट३
- झेंहें धिगिगि थॐटें इत्यर्धकर्तरी १२
- हस्तौ न कुण्डलीलग्नौ यत्रालग्नं तमूचिरे
- खुंखुं२
- नखें झेहेगि२
- थॐटें इत्यलग्नः १३
- स्याद्रेफः स्कन्धसञ्चेन समस्ताङ्गुलिधाततः ८८५
- हनथॐ झेंझें द्रं२
- झेंद्र झेंहेंद्र इति रेफः १४
- समपाणिरविश्रान्तविरलाङ्गुलिघाततः
- ननगि२
- देगि थॐ गिनह२
- झें इति समपाणिः १५
- परिवृत्तो हस्तपाटः स्यात्पुटद्वंद्वताडनात् ८८८६
- झें थॐ४
- गिणना३
- इति परिवृत्तः १६
- इति षोडश प्रायिकहौडुक्कहस्तपाटाः ।
- तलप्रहारहेतुः स्याद्वामस्कन्धप्रचालनम्
- मध्येवामपुटं वामपाणिना च निपीडनम् ८८७
- दें थॐ द्रें धिकिट किट झेंधितिरि२
- त्रा इति तलप्रहारः १
- तलाङ्गुष्ठप्रहारेण प्रहरोऽभिहितो बुधैः
- झेदां थॐ गिदिगिद२
- किट धॐ धॐ इति प्रहरः २
- ऊर्ध्वाग्रे पटहादौ तु तर्जन्यङ्गुष्ठधारिते
- वादनेन समुद्भूतमपाटं वलितं विदुः ८८८
- खुंखुदरि२
- दां थॐगि थॐगि इति वलितः ३
- अङ्गुष्ठानामिकाभ्यस्तवलनाद्दक्षिणे पुटे
- उच्छ्वासाद्वामपाणेश्च जायते गुरुगुञ्जितः ८८९
- थुकर४
- थॐरगिडिदा२
- धिकि थॐटें इति गुरुगुञ्जितः ४
- कम्पनं वामपादस्य नितम्बचलनं तथा
- उच्छ्वासनं करतलस्यार्धसञ्चप्रपञ्चकम् ८९०
- खें खें दरि२
- खें खेंटः२
- इत्यर्धसञ्चः ५
- त्रिकस्य चलनाद्वामागुष्ठस्य परिघट्टनात्स्कन्धसञ्चाच्च संजातं त्रिसञ्चं परिचक्षते ८९१
- खेंद खें खें दखेंद इति त्रिसञ्चः ६
- हस्तवैषम्यसंजातो विषमः संमतः सताम् ॥
- खेंदंधरि२
- थॐ दिगिधरिखें४
- खरकट२
- इति विषमः ७
- अपाटोऽभ्यस्तसंज्ञस्तु भवेत्करविवर्तनात् ८९२
- खणगिणखङ्गि२
- तकिधिकित्त इत्यभ्यस्तः ८
- इत्यष्टावपाटाख्या हस्तपाटाः ।
- अर्धाङ्गुल्यग्रघातोत्थं सञ्चमाचक्षते यथा
- थुकर२
- गिणणं२
- इति सञ्चः १
- करसञ्चेन शुद्धेनाङ्गुष्ठधातेन च क्रमात्
- उत्पन्नोऽलगपाटः स्यान्नाम्ना विच्छुरितो यथा ८९३
- झेंद्र२
- झेंगिरि गिडिदा नगिरि गिडनम् इति विच्छुरितः २
- इत्यलगपाटद्वयम्
- तलप्रहारो वलितभेदितो भ्रमरो यथा
- दं थं द्रें झेंद्र ४
- खुंखुंधरि दथॐगिं इति भ्रमरः १
- संकरात्करपाटानां कुञ्चितः कथितो यथा ८९४
- खुंखुंधरि२
- धरिगिगिड२
- दथें२
- खुंखुं दथें२
- गिरिगिडिद२
- दत्थॐगि थॐगि२
- इति कुञ्चितः २
- इति चित्रपाटद्वयम्
- पटहस्य हुडुक्कायाः पञ्च सञ्चान्ब्रुवेऽधुना
- स्कन्दकूर्परयोस्तदुदङ्गुष्ठमणिबन्धयोः ८९५
- वामस्य चरणस्यापि कम्पः सञ्चोऽभिधीयते
- श्रेष्ठः पाटहिकः सञ्चादङ्गुष्ठमणिबन्धयोः ८९६
- स्कन्धकूर्परसञ्चात्तु नीचः पटहवादकः
- वरो हौडुक्किकोऽङ्गुष्ठकूर्परस्कन्धसञ्चतः ८९७
- सञ्चाभ्यां मणिबन्धोत्थकौर्पराभ्यां तु मध्यमः
- असौ वामाङ्घ्रिसञ्चेन वादनादधमो भवेत् ८९८
- इति पञ्चसञ्चलक्षणम्
- पाटविन्यासभेदाः स्युर्वाद्यानि पटहादिषु ८९९
- वोल्लावणी च चल्लावण्युडुबश्च कुचुम्बिणी
- चारुश्रवणिकाऽलग्नपरिश्रवणिका ततः ९००
- समप्रहारः कुडुपवारणा करवारणा
- दण्डहस्तो घनरवस्तानीति द्वादशावदन् ९०१
- वल्लिश्च वल्लिपाटः स्याद्घत्ताभेदौ झडप्पणी
- अनुश्रवणिका हस्तो जोडणी त्रिगुणा ततः ९०२
- पञ्चहस्तः पञ्चपाणिर्वाद्यं स्यात्पञ्चकर्तरी
- ततश्चन्द्रकला प्राहुर्वाद्यानीति त्रयोदश ९०३
- प्रायेणैतानि दृश्यन्ते हुडुक्कावाद्यगोचरे
- वाद्यानामुभयेषां स्यात्पञ्चविंशतिरित्यसौ ९०४
- आदिमध्यावसानेषु देंकारबहुलं भवेत्
- आद्यखण्डं द्वितीयं च तादृशं वाद्यते पृथक्
- यत्र वोल्लावणी सोक्ता पटहे वाद्यवेदिभिः ९०५
- अस्याः खण्डद्वयं वाद्यान्तरे स्याद्योजनान्वितम् ९०६
- झेंकृतिर्देंकृतिस्थाने हुडुक्कायां भवेदिह
- डक्कायां मर्दले चैव थॐ त्रिवल्ल्यां तु दॐ भवेत् ९०७
- करटायां तु टेमेव प्रधानाक्षरयोजना
- वाद्यान्तरेष्वपि प्राज्ञैः प्रोह्यतामनया दिशा ९०८
- इति वोल्लावणी
- मण्डले चाल्यते यत्र प्रोचुश्चल्लावणीममूम्
- इति चल्लावणी
- वामेन तलहस्तेन दक्षिणेन तु पाणिना
- लुलितेन सकोणेन वादनादुडुवो भवेत् ९०९
- इत्युडुवः
- उद्दलीपिहिते वक्त्रे हस्तस्वस्तिकताडनात्
- खुकारबहुलं वाद्यं कीर्तयन्ति कुचुम्बिणीम् ९१०
- इति कुचुम्बिणी
- वोल्लावण्येव पाणिभ्यां क्रमाद्वा युगपत्कृतैः
- भूरिभिः संभृता पाटैश्चारुश्रवणिका भवेत्
- शुद्धैश्चित्रैः क्रमात्पाटैः शुद्धा चित्रेति सा द्विधा ९११
- इति चारुश्रवणिका
- अलग्नः कुण्डलीस्पर्शं विना कोणप्रहारतः ९१२
- इत्यलग्नः
- कर्तरी समपाणिश्चावघटो यत्र तु क्रमात्
- सोक्ता परिश्रवणिका श्रीयज्ञपुरसूरिणा ९१३
- इति परिश्रवणिका
- समप्रहारो युगपत्करद्वंद्वेन घाततः
- इति सयप्रहारः
- कुडुपोद्भवपाटाख्यं वाद्यं कुडुपवारणा
- उच्यते वादनो दण्डः कोणः कुडुप इत्यपि ९१४
- इति कुडुपवारणा
- जाता हस्तजपाटैस्तु केवलैः करवारणा ९१५
- इति करवारणा
- अकैको यः करद्वंद्वान्मृदुदक्षिणपाणिकात्
- जायते तादृशैः पाटैर्दण्डहस्तोऽभिधीयते ९१६
- इति दण्डहस्तः
- यः करेण कराभ्यां वा कृतैः पाटैर्निरन्तरैः
- निरन्तरघनध्वानः स स्याद्घनरवाभिधः ९१७
- इति घनरवः
- स्कन्धेन मणिबन्धेन कुडुपेन च चालनात्
- सोल्लासाज्जायते वल्लिस्त्रिविधा पटहादिषु ९१८
- इति वल्लिः
- अर्धं वाऽर्धद्वयं वल्ल्यां स्वैः स्वैः पाटैरयोजनम्
- कृतसंयोजनं वा चेद्वल्लिपाटस्तदा भवेत् ९१९
- इति वल्लिपाटः
- निबद्धं वादयेदर्धं झेंकाराद्यं पुरातनम्
- अनिबद्धं स्वबुद्ध्याऽर्धं कराभ्यां वादयेदथ ९२०
- वाद्येनाऽऽद्यं निबद्धं चेत्पुनर्धत्ता तदोच्यते
- इति धत्ता
- योनेनैकेन निष्पन्नस्तदुपाङ्गभवोऽपरः ९२१
- पाटोऽन्योन्याङ्गयोगस्तैः संमिश्रैः पादपूरणैः
- नानावाद्योद्भवैः पाटैर्भेदस्त्रेधा लयत्रयात् ९२२
- इति भेदः
- यस्यामुपक्रमे मध्येऽन्येऽथ वाद्यैरनेकधा
- सर्ववाद्यानि वाद्यन्ते जगदुस्तां झडप्पणीम् ९२३
- इति झडप्पणी
- पाटः पाटाक्षरं यद्वा श्रूयते चेत्पुनः पुनः
- अनुश्रवणिकां प्राहं शंकरानुचरस्तदा ९२४
- इत्यनुश्रवणिका
- द्वे चत्वारि भवन्त्यष्टौ यद्वा खण्डानि षोडश
- देंकारादीनि यत्रासौ हस्तः स तु चतुर्विधः ९२५
- चतुरस्रत्र्यस्रमिश्रखण्डतालप्रयोगतः
- इति हस्तः
- तदर्धार्धादिभेदेन क्रमेण व्युत्क्रमेण वा
- अखण्डतालाः पाटाश्चेद्युज्यन्ते जोडणी तदा ९२६
- इति जोडणी
- खण्डानि त्रीणि यत्र स्युरेकैकं त्रिगुणं तथा
- वाद्यते यत्र सा प्रोक्ता त्रिगुणा त्रिविधा च सा ९२७
- आदिमध्यान्तखण्डाणां त्रैगुण्यात्सा पुनर्द्विआ!
- क्रमव्युत्क्रमतोऽथास्यास्तत्त्रैगुण्यमुदाहरेत् ९२८
- प्रयुज्य त्रीणि खण्डानि प्रयुञ्जीताऽऽदिमद्वयम्
- ततश्चाऽऽद्यमिति प्रोक्तं खण्डे त्रैगुण्यमादिमे ९२९
- इत्यादित्रिगुणा मध्ये त्रिगुणा तु द्विधा भवेत्
- त्रैगुण्यान्मध्यखण्डस्य द्विःप्रकारात्तदुच्यते ९३०
- खण्डत्रयं ततः खण्डद्वयमाद्यं प्रयुज्यते
- ततो मध्यममित्येवं यद्वा खण्डद्वयात्परम् ९३१
- अन्त्यद्वयं वादयित्वा प्रयोज्यं मध्यमं दलम्
- अथान्तत्रिगुणायां प्राक्खण्डत्रितयवादनम् ९३२
- ततोऽन्तिमद्वयं खण्डमन्तिमं वादयेत्तथा
- एवमष्टविधामाह त्रिगुणां भववल्लभः ९३३
- अथवा चतुरस्रादौ क्वापि ताले दलत्रयम्
- प्रयुज्यैकस्य खण्डस्य मानेनाथ दलद्वयम् ९३४
- कुर्याद्दलत्रयं तावद्यत्र सा त्रिगुणा भवेत्
- चतुरस्रत्र्यस्रमिश्रयुक्तैर्वैषा क्रमाद्दलैः ९३५
- अन्ये त्वेककले ताले द्विकलेऽथ चतुष्कले
- क्रमाद्विरचितैः खण्डैस्त्रिगुणामभणन्बुधाः ९३६
- एकं चच्चत्पुटे खण्डद्वयं चाचपुटे ततः
- मिश्रे खण्डत्रयं यत्र त्रिगुणां तां जगुः परे ९३७
- पदैश्चतुर्भिरस्यां स्यात्खण्डमेकं पदं पुनः
- मितं कलाभिरष्टाभिरित्युक्तं सूरिशार्ङ्गिणा ९३८
- इति त्रिगुणा
- पञ्चहस्तो हस्तपाटैर्हस्तशब्दान्विताभिधैः
- इति पञ्चहस्तः
- पञ्चपाणिस्तु पाटैः स्यात्पाणिशब्दयुताभिधैः ९३९
- इति पञ्चपाणिः
- कर्तरीपदवत्संज्ञैः पाटैः स्यात्पञ्चकर्तरी ९४०
- इति पञ्चकर्तरी
- वर्धन्ते च ह्रसन्ते चेन्मात्राश्चन्द्रकला इव
- तालश्चन्द्रकलाख्यश्च तदा चन्द्रकला भवेत् ९४१
- द्वात्रिंशन्मात्रिकामन्ये प्राहुश्चन्द्रकलामिमाम्
- द्विमात्राः षोडशकला वृद्धिह्रासयुजो विदुः
- तादृक्चतुःषष्टिकलां तामाहुर्दक्षिणे पथि ९४२
- इति चन्द्रकला
- उद्ग्राहादिनिबद्धाः स्युरत्र गीतप्रबन्धवत्
- वाद्यप्रबन्धास्तद्भेदलक्ष्माण्यभिदधेऽधुना ९४३
- यतिरोता च गजरो रिगोणी कवितं पदम्
- मेलापकश्चोपशमोद्ग्राहप्रकरणान्यथ ९४४
- अवत्सकश्छण्डणश्च तुडुका मलपं ततः
- मलपाङ्गं च मलपपाटश्छेदोऽथ रूपकम् ९४५
- अन्तरोऽन्तरपाटश्च खोजः खण्डयतिस्ततः
- खण्डच्छेदोऽप्यवयतिः खण्डपाटश्च खण्डकः ९४६
- खण्डहुल्लः समः पाटो ध्रुवकोऽङ्गाङ्गरूपके
- तालो वितालः खलकः समुदायश्च जोडणी ९४७
- उदवस्तलपाटश्चोट्टवणी तुण्डकस्ततः
- अङ्गपाटश्च पैसारस्त्रिचत्वारिंशदित्यमी ९४८
- उक्ताः श्रीकरणाग्रण्या प्रबन्धा वाद्यसंश्रयाः
- शीतोदकास्तथा स्नानगर्वोऽन्यो गर्वनिर्णयः ९४९
- उत्प्रेक्षामात्रजा लक्ष्महीनास्तेऽस्मदुपेक्षिताः
- प्रायो वाद्यप्रबन्धानां देंकारोऽन्ते निधीयते ९५०
- काभ्यांचित्कूटवर्णाभ्यां रचितोऽत्यन्तकोमलः
- एकरूपाक्षरस्तालच्छन्दोभिव्यञ्जनोज्ज्वलः ९५१
- यो वाद्यते वाद्यखण्डो विरामैर्बहुभिर्मुहुः
- यतिर्जक्का च सा तज्ज्ञैर्वाद्या मण्ठादिसालगे ९५२
- आदौ वाद्यप्रबन्धस्य कस्याप्यङ्गतया यदा
- तद्विदो वादयन्त्येतां वदन्त्युटवणं तदा ९५३
- गड्दगथॐ गक्कयॐटें गड्दगथॐ गक्कथॐटें गड्दगथॐ गक्कथॐटें ।
- पाटानां रचनां केचिदत्र नेच्छन्ति सूरयः ९५४
- इति यतिः
- द्विरुद्ग्राहस्ततः खण्डः यस्यां द्विर्भूरिदेंकृति
- तत्किंचिदधिकं वारे द्वितीयेऽथ तृतीयकम् ९५५
- कियद्दीर्धं शुद्धकूटखण्डैः पाटैर्विमिश्रितैः
- व्यस्तैः समस्तै रचितं ततो देंकृतिमत्पुनः ९५६
- सकृत्तच्च प्रयोक्तव्यमथ वर्णसरात्मकम्
- दीर्घं खण्डं ततोऽल्पं च प्राच्यं शुद्धादिनिर्मितम्
- ओता सोक्ता छण्डणान्ता कैश्चिद्देंकृतिमुक्तिका ९५७
- एषैककलयुग्मे स्यान्निःसारौ छण्डणो भवेत्
- उद्धतो ध्वनिरत्र स्यात्प्रायो मानं विलम्बितम् ९५८
- दीप्तं नृत्तं च तामाहुः केचित्केदार इत्यपि
- इमामावहनीं प्राहुरेकेऽन्ये त्वन्यथा जगुः ९५९
- पाटैर्बहुलदेंकारैस्तालैश्च निखिलैः कृता
- बहुधा स्थापना यस्यामाहुराहवनीं बुधाः ९६०
- आदौ देंकारखण्डं चेद्देंकारादिस्तदोच्यते ९६१
- यथा--तद्धिट कत्थॐकट नगनथॐगकुथॐगदा२
- धिक्कट्ट२
- तकट-
- थॐगक धिधिक थोरघट२
- इत्युद्ग्राहो द्विवारं कर्तव्यः । तड्दगदे
- गिनदेंगक् तु थं हं देंगक् देंगनथ गनतदिगि नत्तत्तेक्कटदेंदेंगिन-
- तक्कट खुखुघंघं देंगक् । इति देंकारखण्डं द्विः ।
- द्वितीयवारे त्वधिकं कथ्यते यथा--गड्पक् देंगक् गडड्दक् देंगक् इति । तदेंगडदक्टें थॐकदथॐगक् तटे कटदकट् दरे हॐकथोरे-
- हेटैतक्कें धिकथॐटैं थॐ टैं थॐ टैं इति तृतीयखण्डे शुद्धादिपाटरचितम् ।
- ततः पुनः प्राचीनदेंकारखण्डं सकृत् । ततः--गड्दक् दग्निन-
- धिकाधिक तकदेंगि कथन हकदक दडक् दरगड धिरिगिड
- धरगड्दक् । दरगरदग धिरगडदग२
- तकधिंगथॐगटे धिकथॐ-
- गटै थिक थोडिं खुं खुततक् थोरगड२
- तक् थोरगडतक् थोतक्
- थोतक् थोरगड थोरगड तक् धिकथॐगटें । इति वर्णसरात्मकं
- खण्डम् ।
- ततः प्राचीनं शुद्धादिनिर्मितं स्वल्पम् । एतावत्पर्यन्तं चच्चत्पुटे ।
- गड्दग् टेंद्रग् थोहटें हेते दहं थो२
- तद धिधि थॐ थॐ रघटे टैं
- थॐ तथॐ तकथॐ धिकथॐटें । इति निःसारौ छण्डणः । टेंकारस्थाने
- टेंकार इत्यन्ये ।
- कृत्वैकवारमुद्ग्राहं नातिदीर्घो न चाल्पकः
- वादकोद्घोषगम्भीरध्वनिमुच्चतरं दधत् ९६२
- त्रिः खण्डोभ्यस्यते कूटैर्बद्धो वर्णसरेण वा
- मुहुर्विधायोपशमं छण्डणो यत्र रज्यते ९६३
- गजरोऽसावुट्टवणं स्यादस्याऽऽदौ पुनः पुनः
- एकताल्यामुट्टवणं तस्यां निःसारुकेऽथवा ९६४
- भवेदुपशमोऽन्यत्र नास्य तालो नियम्यते
- गजरावयवाः सर्वे वाद्यन्ते ते निरन्तराः ९६५
- यथा--तथोह तथोह धियॐ२
- हटे । थॐहदग थोहट । इत्युट्टवणमेकताल्यां पुनः पुनः । थॐटें दंदगेन थॐगटें गें धिकतक । इत्युद्ग्राहः । प्रतिग्राहेण वोच्यते । अयं किलैकताल्यां कृतः ।
- गड्दगत देंगगनग्दिहिक् । कथॐगतकधिक थॐगटेंहें थोदगक् ।
- गिड्दक्थॐगक्कथॐ३
- देंथॐहटगथॐ३
- दें इति त्रिरेकताल्यां
- खण्डः । केवलोऽप्ययं खण्डो गजर इत्युच्यते । गड्दक्थॐगक्थॐ-
- गक्कथोहरघट थरे । इत्येकताल्यां पुनः पुनरुपशमः । थोहटें । इति च्छण्डणः । एतत्सर्वं नैरन्तर्येण वाद्यते । इति गजरः ।
- प्रत्येकं द्विः प्रयुक्तेनोपशमेनान्तयोगिना
- युक्तं खण्डत्रयं शुद्धैः कूटैः खण्डैश्च निर्मितम्
- पाटैर्व्यस्तैः समस्तैश्च बद्धं वर्णसरेण वा ९६६
- यस्यां स्याद्वादकस्थूलमिलत्कोलाहलाकुलम्
- छण्डनान्ता रिगोणी सा दधती ध्वनिमुत्तमम् ९६७
- अस्यामुट्टवणं कार्यं वैकल्पिकमुपक्रमे
- दीप्तनृत्ते भवेदेषोपशमा ललिता मता ९६८
- ललितं यद्युट्टवणं तदा तल्ललिते भवेत्
- अन्त्यखण्डात्सोपशमच्छण्डणाद्दीप्तनर्तनम् ९६९
- यथा--तक्कें धिक्कें तकधिक तककि थॐकटगेन२
- थॐगक्कथॐ३
- इति प्रथमखण्डम् ।
- टैथोटेंगें त्थॐधिथॐहधिहटें । इत्युपशमो द्विः । तर्क्कर्ग दड-
- रद कुथिकुर्गदडधिक्क दक्कर्ग दडग्दक्थॐगत्तकधिक कधिकत धिक-
- कधि टेंगेंनथॐग२
- थॐगक्कथॐ इति द्वितीयखण्डम् ।
- टैं थॐ हटगें थॐटें । इत्युपशमो द्विः । थॐगटं दरगड धिरगड धित्थाः थॐकट तकथॐ कटधिक्कक् । थॐधिक तद्धितक् । इति तृतीयखण्डम् ।
- कत्थॐटक्क थॐहकटगे धिकटै थौ हटगें थॐ हटें इत्युपशमो द्विः । तथॐ गिड्दक् दिगनदिगन दिगनक थॐगतद्धितक् । थॐहटें । इति च्छण्डणः ।
- इत्येकताल्यामुदाहरणम् । इति रिगोणी ।
- नातिदीर्घं द्विराद्यं स्यात्खण्डं शुद्धादिनिर्मितम्
- यद्वा वर्णसरेणाथ तादृक्खण्डं सकृद्भवेत् ९७०
- इत्युद्ग्राहध्रुवौ कृत्वा स्वोद्ग्राहान्त्यदलेऽथवा
- स्वोद्ग्राहे यत्र मुक्तिस्तत्कवितं कवयो विदुः ९७१
- अस्य नामान्तरं प्राहुरन्येऽवच्छेद इत्यपि
- भवेदिह द्रुतं मानं वर्णाः प्रायः स्युरुद्धताः
- बाहुल्यान्नर्तनं दीप्तं निःशङ्केनेति कीर्तितम् ९७२
- यथा--गड्दक्दगिनदंदं गिनथॐग धिक्कट नकाधितक देंहकदर गडदरिक्थ रिक्थ रिदरगड थरिक थॐ गंडके । धिक्थॐटें२
- ।
- इत्युद्ग्राहो द्विः । झेंकक नखखिन२
- तहें हके नखखिनथॐ । इति ध्रुवाख्यं खण्डम्
- ततो देंहकडरगडेत्यादिनोद्ग्राहान्त्यखण्डेनोद्ग्राहेण वा सकलेन गड्गतित्यादिना त्यागः । निःसारुताले चेदमुदाहरणम् ।
- इति कवितम्
- उद्ग्राहोऽल्पो ध्रुवो नातिदीर्घः शुद्धादिनिर्मितः
- स्याद्वर्णसरबद्धो वा छण्डणोऽन्ते यदा तदा
- पदं वदन्ति वाद्यज्ञाः प्रायस्तद्दीप्तनर्तने ९७३
- यथा--तद्देहें तद्दें ततक्तद्दै । इत्युद्ग्राहः । तकट धिकट धिधिकिट धिकिटर्गाड्दगधिकतक धिकथॐगटें । इति ध्रुवः ।
- गत कटधिधि कटधिक्किडदगधिधिकट धिक्किरडाडगधिगक्कि-
- ग्डाहगथॐटैं हंधिक्कथॐगटें । इति च्छण्डणः । इदमुदाहरणं वर्णताले ।
- वादयित्वा यतिं मध्ये प्रबन्धस्य विमुच्यते
- पाटेन यत्र तत्प्रोक्तमपरैः सूरिभिः पदम् ९७४
- इति पदम्
- एकताल्यां द्रुते माने नर्तनारम्भगोचरे
- समं च करटाटीपिकाहलावादने सति ९७५
- अभ्यस्तो वाद्यखण्डोऽल्ल्पः कूटेनैकेन निर्मितः
- तद्धीमितिच्छण्डणान्तः स्मृतो मेलापको बुधैः ९७६
- विद्यावन्तः स्वसमये प्राहुर्मेलापनीमिमाम्
- वर्णानां टिरिकीत्येषामावृत्तिष्टीपिरुच्यते ९७७
- यथा--थॐगटें गड्दग्नं थॐगटें । इति यावत्प्रबन्धपूर्ति पुनः पुनर्वादनीयम् । तद्धीमिति । इति च्छण्डणः । इति मेलापकः ।
- खण्डं शुद्धादिभिः पाटैर्बद्धं वर्णसरेण वा
- अल्पं कोमलनादं च सुकुमाराक्षरान्वितम्
- अभ्यस्तं कोमले नृत्ते भवेदुपशमाभिधम् ९७८
- यथाक्--टेंथॐक्कगे थोटेटे थॐहटगे थाथें थॐटे । इत्युपशमः ।
- आदौ वाद्यप्रबन्धानां शुद्धकूटादिनिर्मितः
- यः खण्डो वाद्यते प्राहुरुद्ग्राहं तं महत्तमाः ९७९
- उद्ग्राहोपशमादीनां यद्यप्यन्याङ्गतोदिता
- यावत्पूरणमावृत्तेस्तथाऽपि स्यात्प्रबन्धता ९८०
- द्विरावृत्तिरनावृत्तिर्वा स्यादङ्गतया स्थितौ ९८१
- तें टें है तट्टें तक्कतटे इति यावत्प्रबन्धपूरणमभ्यासादुद्ग्राह-
- प्रबन्धः । अङ्गत्वं तु द्विः सकृद्वा । प्राक्प्रयोगस्त्वङ्गप्रबन्धयोस्तुल्यः । इत्युद्ग्राहः ।
- उद्धतं ध्वनितं कूटबद्धं खण्डं मुहुर्मुहुः
- प्रयुक्तं स्यात्प्रहरणं ध्रुवाद्याभोगगोचरे
- नृत्ते प्रायः प्रयोक्तव्यमन्यत्रापीच्छया भवेत् ९८२
- यथा--कथॐगक्क थॐगत्थॐगटथॐगक्क थोग थोगथोक् कथोगक् थॐकट योगक्थोकटं थोगक् । गड्दक्काधिक थॐगक् । टगें दंथॐह । दिङ्-निकुकुधित्थो हधिक्कं धिटैं इति पुनः पुनः प्रयोज्यम् । एकताल्यामिदमुदाहरणम् । इति प्रहरणम् ।
- उद्ग्राहः स्यात्ततः खण्डं शुद्धकूटादिनिर्मितम् ९८३
- तद्वर्णसरबद्धं वा प्रयुज्य द्विरिदं द्वयम्
- ततः प्राक्खण्डसहितं तादृक्कूटमयं दलम् ९८४
- वाद्यते छण्डणोऽन्ते च यत्र सोऽवत्सको भवेत्
- प्रयोज्य नर्तने दीप्ते शार्ङ्गदेवेन कीर्तितः ९८५
- यथा-- गड्दग्दंदं गड्दक्थिक्कट तकधिक्कट तक्धिक्तक् । इत्युद्ग्राहः ।
- खडि खडि खखनख खिदक् झेंखखनख खिदक्तदक्क धिक्कक-
- कगिणनग थॐगदिहिकिं थोगदिहिक्कितक धिकथॐगटे गडक् ।
- तकधिक थॐगटें । इति द्वितीयं खण्डम् । एतच्च सहोद्ग्राहेण पुनः पुनर्वादयेत् । झक झखिखिन्नखनखखित ह्रें खखनखझें खन खरिब तुडि हिदिहि । कथॐगक् । इति तृतीयखण्डं पूर्वखण्डेन
- सह वादयेत् । तकधिक तक्करे घटथथॐगक्क थॐगक्कटें । इति छण्डणः । इदमुदाहरणं रङ्गविद्याधरताले ।
- इत्यवत्सकः ।
- कूटादिबद्धः खण्डः स्याच्छण्डणो वाद्यमोक्षकः ९८६
- इति च्छण्डणः
- शुद्धकूटादिभिर्बद्धः खण्डो वर्नसरेण वा
- अभ्यस्तः स्याद्द्रुते माने तुडुका दीप्तनर्तने
- द्रुताद्रुततरं मानमत्र लक्ष्येषु दृश्यते ९८७
- यथा--टें दंदगि तथॐगटेंधिकतः रघटे हे कथोः टेगेधिक तटथॐगः गण नगिः थॐगतक धिकथॐगटें । एकताल्यामिदमुदाहरणम् ।
- उद्ग्राहध्रुवकाभोगे यत्रान्यतमखण्डकम् ९८८
- वादनीयं म्परे प्राहुरन्ये तु तुडुकां जगुः
- उद्ग्राहध्रुवकाभोगोद्ग्राहाणां वादनं क्रमात् ९८९
- इति तुडुका
- यत्र शुद्धादिभिर्बद्धः खण्डो वर्णसरेन वा
- विशालः स्याद्द्रुतलयः पर्यन्ते तु विलम्बितः ९९०
- दीप्तैर्वर्णैः क्वचित्क्वापि कोमलैश्चारुगुम्फितः
- यत्रासौ मलपः प्रोक्तः प्रायिको दीप्तनर्तने ९९१
- यथा--गड्दक् तद्धित्थॐ हथॐहरे घटैं गणनगतक धिकक थौं हटें हैं थोदगक् । तक्क तहधिक थोकथोहक थो३
- हट्टै डिं खिखरखिखिखेरथटैं हैं थोहगक् । दिहं कटदहं कटगड्द गथरिकटं२
- थरिकटतक३
- ततक धिधिक थोऽथॐदटें । इदमुदाहरणं मुद्रितमण्ठताले ।
- यत्रोद्ग्राहः सकृद्द्विर्वा ध्रुवकोऽथ सकृद्भवेत्
- व्यापकाक्षरमिश्रैस्तद्धिथॐटेंदेंभिरक्षरैः
- बद्धं निरन्तरयतिं प्राहुस्तं मलपं परे ९९२
- इति मलपम्
- सोदाहरणलक्ष्माणि वालबोधार्थमभ्यधाम्
- लक्ष्ममात्रमथो वक्ष्ये विस्तरत्रस्तमानसः ९९३
- मलपाङ्गं तु मलपेनाङ्गेन मलपेन च
- इति मलपाङ्गम्
- पाटैर्मलपपाटः स्याद्विषमैर्मलपोपमः ९९४
- इति मलपपाटः
- द्रुतैः करतलाघातैविंकृतैर्यत्र वाद्यते
- वाद्यं विच्छिद्य विच्छिद्य च्छेदमिच्छन्ति तं बुधाः
- ओतां कृत्वा द्विरुद्ग्राहः सकृद्वा व्यापकाक्षरैः
- सपाटैर्विहितो यत्र प्रान्ते रचितदेंकृतिः
- मध्ये लये छण्डणः स्याद्रूपकं तन्निरूपितम् ९९६
- इति रूपकम्
- निबद्धो वादितो गीतवाद्यसंधौ मतोऽन्तरः ९९७
- इत्यन्तरः
- अन्तरं वादयित्वा चेदनिबद्धस्य वादनम्
- क्रियतेऽन्तरपाटः स्यात्तदा निःशङ्कसंमतः ९९८
- इत्यन्तरपाटः
- समुश्लिष्टघनश्लक्ष्णपाटवर्णविनिर्मितः
- हस्तलाघवसंपन्नः खोजः संजल्पितो बुधैः ९९९
- इति खोजः
- कृत्वा खण्डं पाटबद्धं यतिवद्वादनं भवेत्
- एवमावृत्तिकरणादाहुः खण्डयतिं बुधाः १०००
- इति खण्डयतिः
- खण्डच्छेदसमायोगात्खण्डच्छेदप्रबन्धयोः
- छेदैर्व्यक्तैः समायुक्तं खण्डच्छेदं परे जगुः १००१
- इति खण्डच्छेदः
- यस्यां विरतिरन्ते च तालस्य व्यापकाक्षरैः
- सपाटैर्बद्धखण्डा या साऽऽख्याताऽवयतिर्बुधैः १००२
- इत्यवयतिः
- पाटस्य खण्डनाद्वाद्य खण्डपाटोऽभिधीयते
- इति खण्डपाटः
- खण्डः स्यात्खण्डमध्येऽपि खण्डशो वादने सति १००३
- इति खण्डकः
- श्रोतोगताख्यया यत्या खण्डडुल्लोऽभिधीयते
- इति खण्डहुल्लः
- गीतनृत्तसमो माने प्रबन्धः प्रोच्यते समः १००४
- इति समः
- निष्पन्नः केवलैः पाटैः पाट इत्यभिधीयते
- इति पाटः
- ध्रुवको भूरिवाद्येषु स्यादावृत्तोऽन्तरेऽन्तरे १००५
- इति ध्रुवकः
- अङ्गमङ्गीकृतं सान्द्रैरपाटैर्व्यापकाक्षरैः
- इत्यङ्गम्
- द्विरुद्ग्राहो ध्रुवाभोग ध्रुवाख्यः क्रमशस्ततः
- यत्राङ्गरूपकं प्राह तत्तेजोन्वयदीपकम् १००६
- इत्यङ्गरूपकम्
- तालश्चतुःषष्टिकलो युग्मे मार्गे च दक्षिणे
- इति तालः
- वितालस्त्वादिमध्यान्तविकृतस्ताल इष्यते १००७
- इति वितालः
- हस्तेन वितताङ्गुष्ठविरलाङ्गुलिना क्रमात्
- पताकेन हतैर्जातैः पाटैः स्यात्खलकाभिधः १००८
- इति खलकः
- समुदायो निजैः पापैः समस्तातोद्यवादनात्
- इति समुदायः
- पाटानां पृथगुक्तानां मिश्रणाज्जोडणी मता १००९
- इति जोडणी
- उडवः सलयात्तालाद्द्वितालाच्च लयोज्झितात्
- इत्युडवः
- तलपाटस्तु मलपोन्मिश्रपाटप्रबन्धजः १०१०
- इति तलपाटः
- निजैर्या तद्धिथॐटेभिर्व्यापकैरक्षरैस्तथा १०११
- पाटैर्वा रचिता किंचिद्विलम्बितलयाश्रया
- देकारालंकृताद्यन्ता वदन्त्युट्टवणीममूम् १०१२
- इत्युट्टवणी
- वाद्यैकदेशं वर्गान्तमयं वाद्यादिमध्ययोः
- वादयेल्लघुहस्तत्वाद्यं तमाख्याति तुण्डकम् १०१३
- इति तुण्डकः
- पाटैरेव यतिः सान्द्रैः प्राञ्जलैरङ्गपाटकः
- इत्यङ्गपाटकः
- खण्डः स्यात्पृथगातोद्यवाद्यैः पैसारसंज्ञकः १०१४
- इति पैसारः
- प्रदर्शनार्थमित्युक्ताः प्रबन्धाः कतिचिन्मया
- अन्यानपि पथाऽनेन विदांकुर्वन्तु तद्विदः १०१५
- पाटभेदाश्च वाद्यानि प्रबन्धा वाद्यसंश्रयाः
- यथायोगं मर्दलादिसर्ववाद्येष्विमे मताः १०१६
- इति वाद्यप्रबन्धलक्षणम्
- निर्दोषबीजवृक्षोत्थः पिण्डेऽर्धाङ्गुलसंमितः
- एकविंशत्यङ्गुलः स्याद्दैर्घ्ये वामे मुखे पुनः १०१७
- चतुर्दशाङ्गुलानि स्युर्दक्षिणे तु त्रयोदश
- मानं यस्य मनाङ्मध्यः पृथुरेकाङ्गुलाधिके १०१८
- वक्त्राभ्यां चर्मणी वृत्ते घने ये प्रान्तयोस्तयोः
- चत्वारिंशत्पृथग्रन्ध्राण्यङ्गुलान्तरवन्ति च १०१९
- वध्रे तद्रन्ध्रविन्यस्ते सीवनप्रक्रियावति
- प्रोतोर्ध्वाधःस्थिता दृष्टोदरपृष्ठा च विग्निका १०२०
- क्रियते वेष्ट्यते मध्ये त्रिभिर्बन्धैर्दृढं तथा
- कार्यो गोमूत्रिकाबन्धस्तत्र वध्रद्वयेन च १०२१
- तथा यथा पिनद्धास्ये भवेतां चर्मणी दृढे
- कुण्डल्योः प्रान्तयोर्वामकुण्डल्यां संनिवेश्य च १०२२
- कच्छां क्षिप्त्वा दक्षिणस्यां कृष्ट्वा द्विगुणतां नयेत्
- साञ्चलद्वितयां पट्टमयीमष्टाङ्गुलायताम् १०२३
- यद्वाऽन्यवस्त्रजां शोभानुगां न्यस्येत्कटीतटे
- निगदन्ति मृदङ्गं तं मर्दलं मुरजं तथा १०२४
- प्रोक्तं मृदङ्गशब्देन मुनिना पुष्करत्रयम्
- अत्यन्ताव्यवहार्यत्वान्निःशङ्को न तनोति तत् १०२५
- भूरिमिश्रेण भक्तेन चिक्कणेनातिमर्दनात्
- पिण्डिकां पूरिकाकारां वामवक्त्रे निवेशयेत् १०२६
- बोहणाख्येन तेनाऽऽस्यं लिम्पेदल्पेन दक्षिणम्
- एवं जलधरध्वानगम्भीरो भवति ध्वनिः १०२७
- निःशङ्केनात्र च प्रोक्ता देवता नन्दिकेश्वरः
- रक्तचन्दनजो यद्वा खादिरोऽन्यैरयं मतः १०२८
- त्रिंशदङ्गुलदैर्घ्यश्च पिण्डे त्वङ्गुलसंमितः
- एतस्य वामं वदनं द्वादशाङ्गुलसंमितम् १०२९
- दक्षिणं तु मितं सार्धैरेकादशभिरङ्गुलैः
- पाटाश्च तद्धिथोटेंहेंनंदेमित्यत्र कीर्तिताः १०३०
- तटहा दधलाश्चेति पाटानन्यत्र मन्वते
- इह स्युः पटहोक्ताश्च वर्णाः षोडश कादयः १०३१
- अधिकान्भझमान्वर्णान्वर्णयन्त्यपरे त्विह
- तेषु तद्ध्यादयः सप्त केवलाः शुद्धसंज्ञकाः १०३२
- सस्वरैरस्वरैर्युक्तैरयुक्तैर्वा कखादिभिः
- व्यापकाख्यैः षोडशभिर्मिश्रास्ते कूटसंज्ञकाः
- कूटमिश्रास्तु ते शुद्धा बुधैः खण्डाभिधा मताः १०३३
- छन्दसा भूरिहृद्येन स्फूर्तिमूर्तिरुदारधीः १०३४
- कविः कवयति श्लोकं श्रवणोत्सवदैः पदैः
- यथा तथा क्वचित्ताले वर्णाल्लँ यमनोहरान् १०३५
- विधाय वादको वाद्यप्रबन्धान्बद्धुमर्हति
- एमं कवितकाराख्यं वादकं ब्रुवते मनाः १०३६
- इति मर्दललक्षणम्
- चतुर्विधो मार्दलिको वादिको मुखरी तथा
- ततः प्रतिमुखर्याख्यस्तुर्यो गीतानुगो मतः १०३७
- वादिको वादकर्ता स्याद्वादः पक्षपरिग्रहः
- स्वपक्षसाधनं तद्वत्परपक्षस्य दूषणम् १०३८
- येऽन्ये जल्पवितण्डाद्या वादभेदाः सलक्षणाः
- न तान्ब्रवीम्यहं ग्रन्थप्रपञ्चभयभङ्गुरः
- वादे च वादनं कार्यं प्रथमं त्राटनाभिधम् १०३९
- मर्दले तालरहिते वोहणेन विना ध्वनिः
- यो देहडडगित्यादि कृतोऽसौ त्राटनं मतम् १०४०
- वोडवाडं घनरवं हस्तावत्यर्थमाचरेत्
- मुक्तशब्दात्मकं रेहदडादप्रमुखं ततः
- उधार स्थापनं पश्चाद्वादयेत्तदथोच्यते १०४१
- मुखयोर्बोहणं दत्त्वा वादयेद्वाममाननम्
- गड्दग्नेमिति वक्त्रं तु गड्दग्नामिति दक्षिणम् १०४२
- ततो मध्यलये ताले द्वितीये मुखयोर्द्वयोः
- कुर्यान्नादसमायोग्मथोच्चोच्चं दलत्रयम् १०४३
- पृथग्विलम्बिते मध्ये द्रुते चैव लये क्रमात्
- तथैकद्वित्रिथॐकाररचितं ग्रहमोक्षभाक् १०४४
- आलप्तिवच्च त्रिस्थानशुद्धं हस्तद्वयेन यत्
- मधुरं वाद्यते तज्ज्ञैःस्थापनं तदुदाहृतम् १०४५
- ततस्थॐकारबहुलग्रहमोक्षोऽन्तरो भवेत्
- चतुरस्रत्र्यस्रमिश्रखण्डेष्वेकेन केनचित् १०४६
- तालेन टाकणीवादौ कर्तव्यौ तदनन्तरम्
- तयोरेकसरो जोडा चेति भेदद्वयं मतम् १०४७
- कृत्वा श्रमस्य वहनीं यस्तालेऽष्टकलादिके
- वाद्यखण्डस्तालकलाप्रस्तारानुगतः कृतः
- अखण्डितष्टाकिणी सैकसरत्वं सकृत्कृतेः १०४८
- एकद्वित्रिचतुर्वारं शुद्धाभ्यसनतो भवेत्
- इह श्रमवहन्याख्यः प्रकारो वादने यथा १०४९
- तद्धितोटें ततधिधि थॐ थॐ टें टें तततधि धिधि थॐ थॐ थॐ टें टें टें । तततत धि धि धि धि थो थो थो थो टे टे टे टे । इति श्रमवहनीं कृत्वैकसरटाकिणी यथा । तकधिकट । तकधिकट । धिकटतक तकधिकट तकतकधिकट धिकटकतधिकट ।
- इत्यष्टौ वाद्यखण्डस्य खण्डा अष्टासु कलासु । सैव द्विवारं जोडा ।
- टाकणीवत्समस्तं प्राक्खण्डं कृत्वा ततः परम् १०५०
- खण्डं खण्डं द्विर्द्विवारं वाद्यते वाद्यसंज्ञके
- तत्रैकसरजोडात्वं टाकिणीवदुदाहृतम् १०५१
- यथा--दंदं । टिरि । टिट्टिकड्द । कडदगझे२
- । थरिकथरि । टगण-
- गणधरि । गणगणधरि । दथरि गडदग । दथरिगडदग । दथरिगडदग । दथरि दथरितर्गड्दक्थरिक्कटतत्तक् । इति षोडशकले ताले षोडशकलासु षोडशखण्डकं वाद्यं कृत्वा तान्षोडश खण्डान्द्विर्द्विः कुर्यात्
- इत्येकसरवादः
- तकारेण च सर्वेषामेतेषां त्याग इष्यते
- कुर्यात्ततो दिगिदिगिं ताटवादादिकं तथा १०५२
- वर्णा दिगिदिगीत्येते प्रोक्ता दिगिदिगे बुधैः
- यः खण्डोऽतिद्रुते माने ताटवादः स कथ्यते १०५३
- अन्येऽपि वादविधयोऽभ्यूह्यन्तामध्वनाऽमुना
- इति वादप्रकाराणां सम्यक्त्वे विजयो भवेत् १०५४
- इति वादकः
- कर्ता वाद्यप्रबन्धानां नृत्तशिक्षाविचक्षणः
- गीतवादननिष्णातः सुरेखोऽन्तर्मुखश्च यः १०५५
- अर्धाङ्गमिव नर्तक्या वादयेद्रङ्गभूमिगः
- वादकैः प्रेक्षितमुखो वादनार्थं मुखर्यसौ १०५६
- इति मुखरी
- किंचिद्धीनो मुखरिणः प्रोक्तः प्रतिमुखर्यसौ १०५७
- इति प्रतिमुखरी
- शुद्धसालगगीतानां वर्णान्कठिनकोमलान्
- समांश्च विषमान्नादं मन्द्रं मध्यं च तारकम् १०५८
- प्रौढं वा मधुरं सम्यगनुगच्छति वादनात्
- पूर्वभागे तथाऽऽभोगे जक्काप्रहरणे क्रमात् १०५९
- कुर्याद्वैकल्पिके यद्वा समग्रं गीतमाश्रिते
- समुत्थिते वाऽऽनुलोम्याद्वैलोम्याद्वोभयेन वा १०६०
- निःसारो सालगे गीते यस्तं गीतानुगं विदुः
- क्रमात्तकारथॐकारौ स कुर्याद्ग्रहमोक्षयोः १०६१
- इति गीतानुगः
- इति चतुर्विधमार्दलिकलक्षणम्
- वर्णव्यक्तिः सुरेखत्वमनुयायप्रवीणता
- मधुरोद्धतवाद्येषु विज्ञता हस्तलाघवम् १०६२
- अवधानं श्रमजयो मुखवाद्येषु पाटवम्
- रक्तिरावर्जिकस्यानुवृत्तिर्बहुलता तथा १०६३
- यतिताललयज्ञत्वं गीतानुगमनं तथा
- गुणा मार्दलिकस्यैते दोषः स्यात्तद्विपर्ययः १०६४
- इति मार्दलिकगुणदोषाः
- तद्वृन्दं द्वित्रिचतुरैस्तज्ज्ञैर्मर्दलधारिभिः
- प्राधान्येन विधातव्यं तैर्मुखर्यनुवर्तनम् १०६५
- या हस्तसंमिता दैर्घ्येऽष्टाविंशत्यङ्गुला पुनः
- परिधावङ्गुलमिता पिण्डे सप्ताङ्गुले मुखे १०६६
- मण्डल्यौ वक्त्रयोर्वल्लीमध्यावेकादशाङ्गुले
- सपादाङ्गुलकस्थौल्ये उद्दलीकृतबन्धने १०६७
- वदनाभ्यां सह स्यातां कुर्याद्रन्ध्राणि षट्तयोः
- बद्धरज्जुनिवेशार्थं पुरोभागेऽर्गलात्रयम् १०६८
- कलशाकलितद्व्यन्तं पश्चाद्भागेऽर्गलाद्वयम्
- बन्धसूत्रान्तरे मध्ये भवेदुदरपट्टिका १०६९
- अङ्गुलत्रयविस्तारा श्लक्ष्णा हृदयहारिणी
- द्वात्रिंशत्तन्तुसंजातरज्ज्वा पक्षद्वयं दृढम् १०७०
- बद्ध्वा तत्रोत्कक्षकौ च विधाय स्कन्धपट्टिकाम्
- तयोर्द्विगुणतां न्यस्येदङ्गुलार्धार्धसंमितम् १०७१
- छिद्रं यस्याश्चतुर्थांशे नादोद्बोधविधायकम्
- हुडुक्का सा बुधैः प्रोक्ता तस्याश्च स्कन्धपट्टिकाम् १०७२
- न्यस्य स्कन्धे दक्ष्णेन पाणिना वादनं भवेत्
- उदरे पट्टिका योक्ता तस्यां वामं निवेशयेत् १०७३
- देवता मातरः सप्त शार्ङ्गदेवेन कीर्तिताः
- कुर्वीत पाटहान्वर्णानिह देंकारवर्जितान् १०७४
- अत्रान्यैरधिकावुक्तौ मझेंकारौ मनीषिभिः
- लक्षज्ञास्त्वावजं प्राहुरिमां स्कन्धावजं तथा १०७५
- इति हुडुक्कालक्षणम्
- बीजवृक्षोद्भवा पिण्डेऽङ्गुलतुर्यांशसंमिता
- एकविंशत्यङ्गुला स्याद्दैर्घ्ये हस्तमिताऽथवा १०७६
- परिधौ दधते मानं या चत्वारिंशदङ्गुलम्
- चतुर्दशाङ्गुले वक्त्रे केषांचिद्द्वादशाङ्गुले १०७७
- मण्डल्यु लोहजे सूत्रवेष्टिते चर्मबन्धने
- परिधौ संमिते ते च द्वाचत्वारिंशताऽङ्गुलैः १०७८
- तिस्रस्तिस्रस्तथा तन्त्रीर्मुखयोर्वलयद्वयम्
- दधते केवलं व्याप्तं चतुर्दशभिरन्वितम् १०७९
- रन्ध्रैस्तेष्वेकान्तरेषु विग्निकास्तावतीः क्षिपेत्
- द्वाभ्यां द्वाभ्यां विग्निकाभ्यां बन्धो मत्स्याकृतिर्भवेत् १०८०
- यस्यास्तां करटामाहुः प्रान्तयोः प्रान्तबद्धया
- कच्छया स्कन्धदेशे तां कट्यां वा वादने वहेत् १०८१
- चर्चिका देवता चास्यां पाटास्तु करटेत्यमी १०८२
- वादनं कुडुपाभ्यां तु शार्ङ्गदेवेन कीर्तितम्
- तिरिकितिरिकिरीति प्रायः पाटद्वयं मतम् १०८३
- इति करटालक्षणम्
- धनः श्लक्ष्णः सुपक्वश्च स्तोकवक्रो महोदरः
- पाणिभ्यां वाद्यते तज्ज्ञैश्चर्मनद्धाननो घटः
- कथिताः पाटवर्णा ये मर्दले ते घटे मताः १०८४
- हुडुक्कयैव घडसो व्याख्यातः किंतु मण्डली १०८५
- दक्षिणस्योद्दलीबद्धा वामा रज्ज्वा नियन्त्रिता
- औदर्यां पट्टिकायां च वामोऽत्र न निवेश्यते १०८६
- गॐकारबहुलं चामुं वादयेदिति तद्विदः
- अङ्गुष्ठमध्यमाङ्गुल्यौ मदनाक्ताग्रभागतः १०८७
- दक्षिणेन करेणाऽऽस्ये घर्षणाद्गॐकृतिर्भवेत्
- घातोऽङ्गुलीभिर्वामस्य वामाङ्गुष्ठेन पीडनम् १०८८
- इति घडसलक्षणम्
- स्याद्धस्तदैर्घ्यः परिधौ सनवत्रिंशदङ्गुलः
- द्वादशाङ्गुलके वक्त्रे वल्लीवलयसंयुते १०८९
- यो धत्ते सप्त सप्तापि रन्ध्राणि वलयद्वये
- तथा कवलयोस्ताभ्यां तुण्डे वलयसंयुते १०९०
- पिधाय गाढं बध्येते रन्ध्रविन्यस्तदोरकैः
- यस्यासौ ढवसः प्रोक्तः शार्ङ्गदेवेन सूरिणा १०९१
- स्कन्धे निक्षिप्य कच्छान्तं वामहस्तेन वादयेत्
- वामास्ये दक्षिणस्थेन कुडुपेन तु दक्षिणे
- ढेंकारपाटवसते रूढोऽयं ढवसो जने १०९२
- इति ढवसलक्षणम्
- व्याख्याता ढवसेनैव ढक्का किंतु मुखद्वयम्
- त्रयोदशाङ्गुलं तस्या धृत्वा तां वामपाणिना १०९३
- तज्ज्ञो दक्षिणहस्तस्थकोणघातेन वादयेत्
- ढेंकारः पाटवर्णाः स्युर्निशङ्केनेति कीर्तितम् १०९४
- इति ढक्कालक्षणम्
- हुडुक्कैवार्गलाहीना कुडुक्का किंतु वादनम्
- अस्याः करेण कोणेन क्षेत्रपालस्तु देवता १०९५
- इति कुडुक्कालक्षणम्
- बीजदारुमयी सप्ताङ्गुलगर्भमुखद्वया
- एकविंशत्यङ्गुला च यस्या दैर्घ्ये समाकृतिः १०९६
- संहताग्नित्रयाकारत्र्यङ्गुलस्थूलतायुते
- वृत्ते नवाङ्गुले गर्भे वलये वल्लिनिर्मिते १०९७
- सप्तसप्तच्छिद्रयुते यस्याः स्यातां मुखद्वये
- कवलाभ्यां पिनह्येते मुखे च वलयान्विते १०९८
- सरन्ध्रे कवले रन्ध्रन्यस्ततन्त्रीसुयन्त्रिते
- कुडुवा सा हुडुक्कोक्तवर्णात्क्रेंकारभूयसी १०९९
- कोणाभ्यां मदनाक्ताभ्यां वाद्यते त्यक्तझेंकृतिः ११००
- इति कुडुवालक्षणम्
- अष्टादशाङ्गुला दैर्घ्ये दृढा रुञ्जा समाकृतिः
- एकादशाङ्गुले तस्या वदने कुण्डलीयुते ११०१
- तद्वद्ये चर्मणा वामवक्त्रान्तःकुण्डलीद्वयम्
- तत्रैका वक्त्रमात्रा स्यादपरा चतुरङ्गुला ११०२
- कुण्डल्योरन्तराले स्याज्जालिका स्नायुनिर्मिता
- सैकच्छिद्रं वामवक्त्रं सूत्रतत्त्वञ्चनीयुतम् ११०३
- पूर्ववद्विग्निकाः कार्या वक्त्रयोः सप्त सप्त च
- पादोनहस्तमात्रां च नागपाशवतीं दृढाम् ११०४
- कच्छां स्कन्धे निवेश्यास्या वादनं वेदितं बुधैः
- रुंकारजननाद्रुञ्जा सा भवेद्भृङ्गिदैवता ११०५
- मतङ्गोक्तास्त्विमे वर्णाः करगा धटनाः खहौ
- विग्निका वाद्यशास्त्रेऽस्मिन्कर्कराः परिकीर्तिताः ११०६
- इति रुञ्जालक्षणम्
- वितस्तिमात्रदैर्घ्यः स्यादष्टाङ्गुलमुखद्वयः
- योगस्य मण्डलीयुक्ते मुखे बद्धे च चर्मणा ११०७
- त्रिवलीवत्क्षाममध्यो निबद्धः सूत्रदोरकैः
- मध्ये च गाढतां नीते रञ्चन्यौ वादनाय च ११०८
- भवेतां प्रान्तसंलग्नसम्यङ्मदनगोलकैः
- असौ डमरुको मध्ये धृत्वा हस्तद्वयेन च ११०९
- डघवर्णो वादनीयः प्रोक्तो निःशङ्कसूरिणा
- अन्यैः कखरटा वर्णाः प्रोक्ता डमरुकऽधिकाः १११०
- इति डमरुकलक्षणम्
- वितस्तिमात्रं दैर्घ्यं स्यान्मध्यः किंचित्कृशो भवेत्
- मुखे त्वष्टाङ्गुलैः पिण्डोऽर्धाङ्गुलस्तन्त्रिकाद्वयम् ११११
- मुखे मुखे शङ्कवश्च चत्वारस्ताम्रनिर्मिताः
- तेषामधोऽधावूर्ध्वं द्वौ तन्त्रीबन्धनसिद्धये १११२
- तन्त्र्योस्तृणशलाकां च निदध्याद् ध्वनिपुष्टये
- अन्यल्लक्ष्म हुडुक्कावद्यस्याः पाटाक्षराण्यपि १११३
- स्याद्दशाङ्गुलदैर्घ्येण कुडुपेन तु वादनम्
- निःशङ्कशार्ङ्गदेवेन डक्का सा परिकीर्तिता १११४
- अन्येऽस्या वादनं प्राहुः करेण कुडुपेन च
- हस्तघातेन डंकारो वादने कुडुपेन तु १११५
- घटस्ततो डगिश्चेति मुखान्पाटान्वदन्त्यमी
- नगौ खकरटा वर्णा मुख्याः प्रोक्ताः परैरिह १११६
- अस्यां च सूरयः प्राहुर्देवतां विन्ध्यवासिनीम्
- अङ्गुलोना मध्यमा सा द्व्यङ्गुलोना कनीयसी १११७
- इति डक्कालक्षणम्
- डक्कैव मण्डिडक्का स्यात्किं त्वस्याः षोडशाङ्गुलम्
- दैर्घ्यमष्टाङ्गुलौ गर्भौ स्यातां वदनयोर्द्वयोः १११८
- षोडशाङ्गुलको मध्यपरिधिर्नात्र चार्गला
- न च कच्छोत्कक्षकस्तु मध्ये स्यादञ्चनीद्वयम् १११९
- उत्कक्षं चाञ्चनीद्वंद्वं वामाङ्गुष्ठाङ्गुलित्रयात्
- धृत्वा संपीड्य तर्जन्या मण्डलीप्रान्तमाननम् ११२०
- अस्या दक्षिणजानुस्थं हन्याद्दक्षिणपाणिना
- उत्कक्षं मणिबन्धोर्ध्वं यद्वाऽन्यस्याञ्चनीद्वयम् ११२१
- कनिष्ठानामिकाङ्गुष्ठैः संयुज्याऽऽपीड्य मण्डलीम्
- तर्जन्या मध्यया वाऽथ हस्तेनान्येन वादयेत् ११२२
- वदन्ति वादनं तस्याः करेण कुडुपेन वा
- चर्यागाने च पूजायां शक्तेः सा विनियुज्यते ११२३
- इति मण्डिडक्कालक्षणम्
- कांस्याद्गोशृङ्गतो दन्त्रिदन्ताद्वा डद्दुली भवेत्
- दैर्घ्ये पञ्चाङ्गुला वक्त्रे तस्याश्च चतुरङ्गुले ११२४
- मेषपार्युद्दलीबद्धे स्वस्वचक्रसमन्विते
- चक्रे च कांस्यजे ताम्रमये वा लोहजे पृथक् ११२५
- पञ्चरन्ध्रे तथोद्दल्यौ रन्ध्रविन्यस्तदोरकैः
- सौत्रैर्गाढं निबध्येते मध्ये सूत्रेण वेष्टितम् ११२६
- नातिश्लथं नातिगाढं मध्यं सूत्रे त्वनामिकाम्
- निधाय मध्यतर्जन्यौ विवृते चक्रसंयुते ११२७
- कृत्वाऽङ्गुष्ठं त्वन्यचक्रे न्यस्याथ मदनाञ्चिताम्
- विधायाञ्चनिकामेकां तां दुंदुमिति वादयेत् ११२८
- तुंतुमित्यपरे प्राहुः पाटा मर्दलसंभवाः
- यथासंभवमेतस्यां शार्ङ्गदेवेन कीर्तिताः ११२९
- इति डक्कुलीलक्षणम्
- षड्विंशत्यङ्गुला दैर्घ्ये परिधौ त्रिंशदङ्गुला
- समकाया सेल्लुका स्याद्बीजकाष्ठेन निर्मिता ११३०
- दशाङ्गुले मुखे तस्याः मरैस्त्वेकादशाङ्गुले
- उक्ते न बन्धनोद्दल्यौ ताभ्यामेकाङ्गुलाधिके ११३१
- वल्लीजं तर्जनीस्थौल्यं मुखयोर्वलयद्वयम्
- सरन्ध्रषट्कं रन्ध्रस्थरज्जुभिर्गाढयन्त्रितम् ११३२
- एकाङ्गुलाधिकं तच्च वक्त्राभ्यां वदनं पुनः
- तन्त्रिकागर्भितं वामं वामहस्तेन वादयेत् ११३३
- मुखं दक्षिणपाणिस्थकुडुपेन तु दक्षिणम्
- मुखे वामे तु झेंकारो धिंकारो दक्षिणे मुखे ११३४
- इति सेल्लुकालक्षणम्
- पलैः स्यात्पञ्चविंशत्या दैर्घ्ये तु द्वादशाङ्गुला ११३५
- अष्टादशाङ्गुलमिता परिधौ समविग्रहा
- ससूत्रकटकं रन्ध्रद्वयं कण्ठे च बिभ्रती ११३६
- चर्मणाऽऽनद्धवदना झल्लरी परिकीर्तिता
- वामहस्तधृता सा च वाद्या दक्षिणपाणिना ११३७
- इति झल्लरीलक्षणम्
- स्यात्तदर्धपलो भाणः परिधौ द्वादशाङ्गुलः
- अन्यत्तु झल्लरीलक्ष्म तस्य श्रीशार्ङ्गिणोदितम् ११३८
- इति भाणलक्षणम्
- सप्ताङ्गुलमुखद्वंद्वात्त्रिवली हस्तदैर्घ्यभाक्
- मुष्टिग्राह्यश्च मध्योऽस्या वदने कवलावृते ११३९
- कवले लोहमण्डल्यौ सप्तरन्ध्रे पृथक्पृथक्
- रन्ध्रन्यस्तैर्गुणैर्बद्धो मध्ये गाढं च वेष्टनम् ११४०
- सूत्ररज्ज्वा हस्तमात्रा कच्छा स्कन्धावलम्बिनी
- वादनं करयुग्मेण शार्ङ्गदेवेन कीर्तितम् ११४१
- तदांदॐदेति वर्णाः स्युस्त्रिपुरा चात्र देवता
- एकादशाङ्गुलमुखी विंशत्यङ्गुलदैर्घ्यभाक् ११४२
- मुखार्धमानमध्याऽसौ मध्ये चाञ्चनिकायुता
- तदर्धवर्णसंयुक्ता त्रिकुल्या चोच्यते बुधैः ११४३
- इति त्रिवलीलक्षणम्
- आम्रद्रुमसमुद्भूतो महागात्रो महाध्वनिः
- कांस्यभाजनसंभारगर्भो वलयवर्जितः ११४४
- चर्मनद्धाननो बद्धो वध्रैर्गाढं समन्ततः
- दृढवर्णेन कोणेन वाद्यः प्राणेन दुन्दुभिः ११४५
- मेघनिर्घोषगम्भीरघॐकारस्यात्र मुख्यता
- मङ्गले विजये चैव बाद्यते देवतालये ११४६
- इति दुन्दुभिलक्षणम्
- वितस्तित्रयदैर्घ्या स्याद्भेरी ताम्रेण निर्मिता ११४७
- चतुर्विंशत्यङ्गुले च वदने वलयान्विते
- तस्याः सवलये चर्मच्छन्ने छिद्रसमन्विते ११४८
- रज्ज्वा नियन्त्रिते गाढं मध्ये सूत्रेण बन्धनम्
- दक्षिणस्थेन कोणेन वामहस्तेन ताडनात् १४४९
- उद्भटो भवति ध्वानो गम्भीरोऽरिभयंकरः
- तकारः पाटवर्णोऽस्यां मुख्यो निःशङ्ककीर्तितः ११५०
- इति भेरीलक्षणम्
- कांस्यजस्ताम्रजो लौहो वोत्तमो मध्यमोऽधमः
- एकवक्त्रो महान्वक्त्रे स्वल्पोऽधोऽर्धयवाकृतिः ११५१
- भृतगर्भः कांस्यपात्रभारैर्महिषचर्मणा
- छन्नाननो बद्धचर्मा तद्रन्ध्रन्यस्तवध्रकैः ११५२
- क्षिप्तोऽधो वध्रवलये निवेश्याऽऽवर्तितैर्मुहुः
- द्विषद्वित्रासजननो निःसाणः शार्ङ्गिणोदितः ११५३
- चार्मणेनास्य कोणेन सद्वितीयस्य वादनम्
- दृढशब्देन भीरूणां भिनत्ति हृदयान्ययम्
- स्यादस्माद्युद्धवीराणां रोमाञ्चोपचितं वपुः ११५४
- इति निःसाणलक्षणम्
- निःसाणवत्तम्बकी स्यात्ततोऽल्पा गात्रनादयोः ११५५
- इति तम्बकीलक्षणम्
- उक्तौ प्रकृतिदारूणामनुक्तौ वा विकल्पतः
- ज्ञेयो दारववाद्यानां खदिरो रक्तचन्दनः ११५६
- सर्वेषु स्युर्यथायोगं पाटाः पाटहमार्दलाः ११५७
- नीरसोच्छ्रितभूजाताज्जीर्णाद्वाताहतात्तरोः ११५८
- निर्भिद्योत्सारिते गर्भे शेषाद्वाद्यानि कारयेत्
- पूर्वप्ररोहे छिन्नेऽन्यो यः प्ररोहः प्ररोहति ११५९
- तदुद्भवद्रुमोद्भूतं वाद्यं सर्वं प्रशस्यते
- गर्भस्योत्सारणं त्वेतद्वेणोरन्यत्र पादपे ११६०
- तरूणां जातयस्तिस्रः पित्तला वातला तथा
- श्लेष्मला चेति तत्र स्यात्पित्तला नीरसक्षितौ ११६१
- अत्यल्परसभूजाता वातला श्लेष्मला पुनः
- जलाशयसमीपस्थरससंप्लुतभूमिजा ११६२
- पित्तलाऽत्युत्तमा जातिर्वातला त्वधमा भवेत्
- श्लेष्मला वर्ज्यते शुष्के वृक्षेऽपि च्छेदनात्पुरा ११६३
- इति काष्ठलक्षणम्कोमलत्वं व्रणग्रन्थिभेदान्दारुषु वर्जयेत् ११६४
- इति काष्ठदोषाः
- षाण्मासिकस्य वत्सस्य चर्म स्यात्पुटबन्धने
- अन्ये द्विवत्सरस्याऽऽहुस्तन्न लक्ष्येषु दृश्यते ११६५
- वृद्धस्य वृषभस्यास्य चर्मणा वध्रकल्पना
- कुन्देन्दुहिमसंकाशमाम्रपल्लवसंनिभम् ११६६
- स्नायुमांसविहीनं च चर्म गोसंभवं च यत्
- शीतोदके निशामेकां वासयित्वा समुद्धृतम्
- वाद्यावनहनार्थं तद्ग्राह्यं श्रीशार्ङ्गिणोदितम् ११६७
- इति चर्मगुणाः
- मेदोदुष्टं जराक्रान्तं क्लिन्नं काकमुखाहतम्
- अग्निधूमहतं जीर्णं न वाद्ये चर्म कर्मकृत् ११६८
- इति चर्मदोषाः
- गुणैर्भूरितरोदारैर्यस्य नद्धं जगत्त्रयम्
- अवनद्धमिदं तेन शार्ङ्गिदेवेन कीर्तितम् ११६९
- अथ घववाद्यम्
- कांस्यजे घनवाद्ये स्यात्कांस्यमग्नौ सुशोधितम् ११७०
- कांस्यजो वर्तुलस्तालः सपादद्व्यङ्गुलाननः
- मध्येऽस्याङ्गुलविस्तारो निम्नो रन्ध्रं च निम्नगम् ११७१
- पादोनगुञ्जामात्रं स्यात्पिण्डस्तु यवमात्रकः
- सार्धाङ्गुलः स्यादुत्सेधः समा श्लक्ष्णशुभाऽऽकृतिः ११७२
- कार्या तथा यथा नादो भवेच्छ्रुतिमनोहरः
- नेत्रवस्त्रांञ्चलाग्राणि रज्जूकृत्य निवेशयेत् ११७३
- रन्ध्रेऽग्राणाम्ननिर्गत्यै ग्रन्थिं च रचयेद्दृढम्
- ईदृक्तालयुगं कृत्वा तालमेकमथाञ्चलैः ११७४
- आवेष्ट्य तर्जनीं वामामङ्गुष्ठेन च वेष्टनम्
- आक्रम्य तलमध्यस्थं धृत्वा तिर्यङ्मुखीकृतम् ११७५
- शेषाङ्गुलीः प्रसार्योर्ध्वाद्दक्षिणेन तु पाणिना
- तालमन्यतरस्यान्तलम्बमानाचलावलिम् ११७६
- तर्जन्यङ्गुष्ठयोरग्रभागतस्तिर्यगाननम्
- धृत्वा तस्याग्रभागेण मध्यमन्यस्य ताडयेत् ११७७
- अल्पनादो भवेच्छक्तिर्भूरिनादः शिवो भवेत्
- शिवे स्निग्धे घनो नादः शक्तौ स्यात्तद्विपर्ययः ११७८
- वामेन धारयेच्छक्तिं शिवं दक्षिणपाणिना
- अश्वमेधफलं चैव प्राप्नुयाद्दोषमन्यथा ११७९
- देवता तुम्बरुर्युग्मे शक्तिः शक्तौ शिवे शिवः
- द्रुतादिसिद्ध्यै तन्नादधृतिरूर्ध्वाङ्गुलीकृता ११८०
- कल्पनेत्युच्यते कार्यमस्य स्यात्तालधारणम्
- निःशङ्कशार्ङ्गदेवेन पाटाः सर्वेऽत्र कीर्तिताः ११८१
- इति ताललक्षणम्
- नलिनीदलसंकाशौ कांस्यतालौ समाकृती
- त्रयोदशाङ्गुलौ वक्त्रे कांस्यजे द्व्यङ्गुलौ तले ११८२
- मध्येऽङ्गुलमितौ निम्नौ तयोरन्यत्तु तालवत् ११८३
- पाटा झनकटा मुख्याः सन्ति पाटान्तराण्यपि
- नारदो देवता चात्रेत्युक्तं सोढलसूनुना ११८४
- इति कांस्यताललक्षणम्
- अर्धाङ्गुलमिता पिण्डे घण्टा कांस्यमयी भवेत्
- उच्छ्रायेऽष्टाङ्गुला वक्त्रे विशाला मूलतोऽल्पिका ११८५
- सा च प्रासादसंबद्धा शलाकाकारधारिणी
- मूले दण्डं त्रिशृङ्गाग्रं दधती मूलसंयुता ११८६
- षडङ्गुलायतं सार्धाङ्गुलपिण्डं च लम्बितम्
- लोहजं लालकं गर्भे दधानां तामधोमुखीम् ११८७
- दण्डे धृत्वा टणत्कारबहुलं वादयेत्सुधीः
- सा सर्वदेवता तज्ज्ञैर्वाद्यते देवतार्चने ११८८
- इति घण्टालक्षणम्
- तैक्ष्णगोलकगर्भाः स्युः कांस्योद्भवपुटद्वयाः ११८९
- सघनाः सूक्ष्मजातीयबदरीबीजसंमिताः
- शिरःसुषिरविन्यस्तरज्जवः क्षुद्रघण्टिकाः ११९०
- ताश्च घर्घरिका लोके भाष्यन्ते घर्घरास्तथा
- ताभिर्घर्घरभेदानां कृतिः पराणि नर्तने ११९१
- इति क्षुद्रघण्टिकालक्षणम्
- कांस्यजा हस्तमात्रा स्यात्पिण्डे त्वर्धाङ्गुला घना ११९२
- जयघण्टा समा श्लक्ष्णा वृत्ता प्रान्ते द्विरन्ध्रभाक्
- धृत्वा तद्रन्ध्रविन्यस्तरज्जौ तां वामपाणिना ११९३
- दक्षिणो दक्षिणस्थेन दृढकोणेन वादयेत्
- डेंकारबहुलाः पाटाः सर्वेऽस्याः शार्ङ्गिणोदिताः ११९३
- इति जयघण्टालक्षणम्
- खादिरं घनवेणूत्थं यद्वा कम्राचतुष्टयम् ११९४
- श्लक्ष्णद्वय्ङ्गुलविस्तारं द्वादशाङ्गुलदैर्घ्यकम्
- मध्ये पिण्डो यथाशोभं किंचिन्न्यूनस्ततोऽन्तयोः ११९५
- यस्य तत्कम्रिकावाद्यं तत्र द्वे द्वे तु कम्रिके
- एकैकहस्तन्यस्ते ये तयोरेकैककम्रिकाम् ११९६
- मध्यमाङ्गुष्ठयोर्मूले धृत्वा प्रान्ते तयोः पुनः
- अपरामपरां धृत्वा शिथिलां वादयेद्धिया ११९७
- कम्पेन मणिबन्धस्य कम्रिकावादनं मतम्
- पाटाः किटकिटामुख्यास्तत्र पाटान्तराण्यपि ११९८
- कम्राणामन्तरं कृत्वाऽनामया दक्षिणस्थया
- तलघाताङ्गुष्ठघृष्टी वामस्येत्यपरे जगुः ११९९
- इति कम्रालक्षणम्
- सर्पाकृतिरथो निम्ना कांस्यजा लोहजाऽथवा
- शुक्तिस्त्र्यङ्गुलविस्तारा सार्धहस्तद्वया मता १२००
- तिर्यग्रेखाराजिता च मृगशृङ्गोपमेन सा
- ऋजुणा लोहकोणेन सरोषेण विघर्षणात् १२०१
- वाद्यते किरिकिट्टेति पाठा यक्षास्तु देवताः
- यतिमात्रावबोधेऽत्रेत्युक्तं निःशङ्कसूरिणा
- किरिकिट्टकमित्युक्तं तल्लोके रुद्रवल्लभम् १२०२
- इति शुक्तिवाद्यम्
- श्रीपर्णीदारुजः पट्टश्चतुरस्रायतो भवेत् १२०३
- द्वात्रिंशदङ्गुलो दैर्घ्येऽन्यैरुक्तस्त्रिंशदङ्गुलः
- विस्तारे हस्तमात्रः स्यादूर्ध्वाधःस्थितयोर्द्वयोः १२०४
- लोहमय्योः सरिकयोस्त्रिवृद्रज्जूपमायुजोः
- क्षिप्ताभिस्तादृशक्षुद्रवलयाविलिभिर्युतः १२०५
- वक्षोग्रे जानुनोर्मध्ये यद्वा संधार्य वाद्यते
- अयं च करशाखाग्रै रालालिप्तो विघृष्यते १२०६
- करवौ थडरटाः पाटाः पाटहाश्चेह संमताः
- सप्तात्र देवमुनयो देवताः शार्ङ्गिणोदिताः १२०७
- इति पट्टवाद्यम्
- सन्त्यन्यान्यपि वाद्यानि लोके भूयांसि यानि च
- तेषु विस्तारसंत्रासादुदास्ते सोढलात्मजः १२०८
- इति घनवाद्यलक्षणम्
- रक्तं विरक्तं मधुरं समं शुद्धं कलं घनम्
- स्फुटप्रहारं सुलभं वुघुष्टं च गुणैरिति १२०९
- दशभिः संयुतं वाद्यमुक्तं सोढलसूनुना
- अन्वर्थान्यत्र नामानि समं त्वष्टविधं मतम् १२१०
- अक्षराद्यङ्गपूर्वं च तालादि यतिपूर्वकम्
- लयादि न्यासापन्यासपूर्वैः पाणिसमं तथा १२११
- स्यादक्षरसमं गीतगुरुलघ्वक्षरानुगम्
- गीतस्य ग्रहमोक्षादीन्यङ्गान्यत्रेति यत्पुनः १२१२
- स्यात्तदङ्गसमं तालानुगं तालसमं मतम्
- यतिर्लयस्य न्यासः स्यात्सन्यासस्य च साम्यतः
- यत्यादिपूर्वकं ज्ञेयं क्रमात्समचतुष्टयम् १२१३
- गीतग्रहैः पाणिसंज्ञैः समं पाणिसमं मतम्
- वाद्यस्यैते गुणाः प्रोक्ता दोषः स्यात्तद्विपर्ययः १२१४
- इति वाद्यगुणदोषाः
- हस्तकोणप्रहारज्ञो गीतवादनकोविदः
- यतिताललयाभिज्ञः पाटज्ञः पञ्चसञ्चवित् १२१५
- दशहस्तगुणोपेतः पात्राभिप्रेतवादकः
- आतोद्यध्वनितत्त्वज्ञः समादिग्रहवेदिता १२१६
- गीतवादननृत्यस्थच्छिद्रच्छादनपण्डितः
- ग्रहमोक्षप्रदेशज्ञो गीतनृत्तप्रमाणवित् १२१७
- वाद्ये समस्तभेदज्ञो रूपरेखान्वितस्तथा
- उद्घट्टनपटुः सर्ववाद्यभेदविवेचकः १२१८
- नादवृद्धिक्षयापत्तिकोविदो वादको विदः
- गुणैः कतिपयैर्हीनः सर्वैर्वा वादकोऽधमः १२१९
- वाञ्छानुगौ दृढौ व्यक्तौ स्निग्धौ दृढनखौ लघू १२२०
- विधायाङ्गुलिसंचारौ स्वदहीनौ जितश्रमौ
- युक्तप्रहारौ च करौ प्रोक्तौ दशगुणाविति १२२१
- इति हस्तगुणाः
- इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे वाद्याध्यायः षष्ठः समाप्तः ६