सङ्गीतरत्नाकरः/प्रकीर्णकाध्यायः

विकिस्रोतः तः

सङ्गीतरत्नाकरः

अथ प्रकीर्णकाख्यस्तृतीयोऽध्यायः
अथ प्रकीर्णकं कर्णरसायनमनाकुलम्
देशीमार्गाश्रयं वक्ति शार्ङ्गदेवो विदां वरः १
वाङ्मातुरुच्यते गेयं धातुरित्यभिधीयते
वाचं गेयं च कुरुते यः स वाग्गेयकारकः २
शब्दानुशासनज्ञानमभिधानप्रवीणता
छन्दःप्रभेदवेदित्वमलंकारेषु कौशलम् ३
रसभावपरिज्ञानं देशस्थितिषु चातुरी
अशेषभाषाविज्ञानं कलाशास्त्रेषु कौशलम् ४
तूर्यत्रितयचातुर्यं हृद्यशारीरशालिता
लयतालकलाज्ञानं विवेकोऽनेककाकुषु ५
प्रभूतप्रतिभोद्बेदभाक्त्वं सुभगगेयता
देशीरागेष्वभिज्ञत्वं वाक्पटुत्वं सभाजये ६
रागद्वेषपरित्यागः सार्द्रत्वमुचितज्ञता
अनुच्छिष्टोक्तिनिर्बन्धो नूत्नधातुविनिर्मितिः ७
परचित्तपरिज्ञानं प्रबन्धेषु प्रगल्भता
द्रुतगीतविनिर्माणं पदान्तरविदग्धता ८
त्रिस्थानगमकप्रौढिर्विविधालप्तिनैपुणं
अवधानं गुणैरेभिर्वरो वाग्गेयकारकः ९
विदधानोऽधिकं धातुं मातुमन्दस्तु मध्यमः
धातुमातुविदप्रौढः प्रबन्धेष्वपि मध्यमः १०
रम्यमातुविनिर्माताऽप्यधमो मन्दधातुकृत्
वरो वस्तुकविर्वर्णकविर्मध्यम उच्यते
कुट्टिकारोऽन्यधातौ तु मातुकारः प्रकीर्तितः ११
इति वाग्गेयकारलक्षणम्
मार्गं देशीं च यो वेत्ति स गान्धर्वोऽभिधीयते
इति गान्धर्वः
यो वेत्ति केवलं मार्गं स्वरादिः स निगद्यते १२
इति स्वरादिः ।
हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः
रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः १३
प्रबन्धगाननिष्णातो विविधालप्तितत्त्ववित्
सर्वस्थानोच्चगमकेष्वनायासलसद्गतिः १४
आयत्तकण्ठस्तालज्ञः सावधानो जितश्रमः
शुद्धच्छायालगाभिज्ञः सर्वकाकुविशेषवित् १५
अपारस्थायसंचारः सर्वदोषविवर्जितः
क्रियापरो जक्वलयः सुघटो धारणान्वितः १६
स्फूर्जन्निर्जवनो हारिरहःकृद्भजनोद्घुरः
सुसंप्रदायो गीतज्ञैर्गीयते गायनाग्रणीः १७
गुणैः कतिपयैर्हीनो निर्दोषो मध्यमो मतः
महामाहेश्वरेणोक्तः सदोषो गायनोऽधमः १८
शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा
भावुकश्चेति गीतज्ञः पञ्चधा गायनं जगुः १९
अन्यूनशिक्षणे दक्षः शिक्षाकारो मतः सताम्
अनुकार इति प्रोक्तः परभङ्ग्यनुकारकः २०
रसाविष्टस्तु रसिको रञ्जकः श्रोतृरञ्जकः
गीतस्यातिशयाधानाद्भावुकः परिकीर्तितः २१
एकल्लो यमलो वृन्दगायनश्चेति ते त्रिधा
एक एव तु यो गायेदसावेकल्लगायनः २२
सद्वितीयो यमलकः सवृन्दो वृन्दगायनः
रूपयौवनशालिन्यो गायिन्यो गातृवन्मताः
माधुर्यधुर्यध्वनयश्चतुराश्चतुरप्रियाः २३
संदष्टोद्घृष्टसूत्कारिभीतशङ्कितकम्पिताः
कराली विकलः काकी वितालकरभोद्वडाः २४
झोम्बकस्तुम्बकी वक्री प्रसारी विनिमीलकः
विरसापस्वराव्यक्तस्थानभ्रष्टाव्यवस्थिताः २५
मिश्रकोऽनवधानश्च तथाऽन्यः सानुनासिकः
पञ्चविंशतिरित्येते गायना निन्दिता मताः २६
संदश्य दशनान्गायन्संदष्टः परिकीर्तितः
उद्घृष्टो विरसोद्घोषः सूत्कारी सूत्कृतैर्मुहुः २७
भीतो भयान्वितो गाता त्वरया शङ्कितो मतः
कम्पितः कम्पनाज्ज्ञेयः स्वभावाद्गात्रशब्दयोः २८
कराली गदितः सद्भिः करालोद्घाटिताननः
विकलः स तु यो गायेत्स्वरान्न्यूनाधिकश्रुतीन् २९
काकक्रूररवः काकी वितालस्तालविच्युतः
दधानः कन्धरामूर्ध्वां करभोऽभिहितो बुधैः ३०
छागवद्वदनं कुर्वन्नुद्वडोऽधमगायनः
शिरालभालवदनग्रीवो गाता तु झोम्बकः ३१
तुम्बकी तुम्बकाकारोत्फुल्लगल्लस्तु गायनः
वक्री वक्रीकृतगलो गायन्धीरैरुदीरितः ३२
प्रसारी गीयते तज्ज्ञैर्गात्रगीतप्रसारणात्
निमीलको मतो गायन्निमीलितविलोचनः ३३
विरसो नीरसो वर्ज्यस्वरगानादपस्वरः
गद्गदध्वनिरव्यक्तवर्णस्त्वव्यक्त उच्यते ३४
स्थानभ्रष्टः स यः प्राप्तुमशक्तः स्थानकत्रयम्
अव्यवस्थित इत्युक्तः स्थानकैरव्यवस्थितैः ३५
शुद्धच्छायालगौ रागौ मिश्रयन्मिश्रकः स्मृतः
इतरेषां च रागाणां मिश्रको भूरिमिश्रणात् ३६
स्थाय्यादिष्ववधानेन निर्मुक्तोऽनवधानकः
गेयं नासिकया गायन्गीयते सानुनासिकः ३७
इति गायनदोषाः ।
चतुर्भेदो भवेच्छब्दः खाहुलो नारटाभिधः
बोम्बको मिश्रकश्चेति तल्लक्षणमथोच्यते ३८
कफजः खाहुलः स्निग्धमधुरः सौकुमार्ययुक्
आडिल्ल एष एव स्यात्प्रौढश्चेन्मन्द्रमध्ययोः ३९
त्रिस्थानघनगम्भीरलीनः पित्तोद्भवो ध्वनिः
नाराटो बोम्बकस्तु स्यादन्तर्निःसारतायुतः ४०
परुषोच्चैस्तरः स्थूलो वातजः शार्ङ्गिणोदितः
एतत्संमिश्रणादुक्तो मिश्रकः सांनिपातिकः ४१
तनुरूक्षगुणो बोम्बः खाहुलः स्निग्धतायुतः
कथं तयोर्मिश्रणं स्याद्विरुद्धगुणयोगिनोः ४२
अत्रोच्यते परित्यागात्पारुष्यस्य विरोधिनः
अविरुद्धस्य माधुर्यस्थौल्यादेर्मिश्रणं मतम् ४३
एतेन घननिःसारगुणनाराटबोम्बयोः
विरुद्धगुणताक्षेपसमाधाने निवेदिते ४४
मिश्रस्य भेदाश्चत्वारो युक्तौ नाराटखाहुलौ
नाराटबोम्बकौ बोम्बखाहुलौ मिश्रितास्त्रयः ४५
निःसारतारूक्षताभ्यां हीनस्त्रितयमिश्रणात्
उत्तमोत्तम इत्युक्तः सुराणामिव शंकरः ४६
नाराटखाहुलोन्मिश्र उत्तमः खाहुलः पुनः
बोम्बयुक्तो मध्यमः स्याद्बोम्बो नाराटसंयुतः ४७
शब्दानामधमः प्रोक्तः श्रीमत्सोढलसूनुना
निःसारतारूक्षताभ्यां युक्तः सर्वोऽधमो मतः ४८
भवन्ति बहवो भेदा नानातद्गुणमिश्रणात्
कश्चित्स्यान्मधुरस्निग्धघनोऽन्यः स्निग्धकोमलः ४९
घनोऽपरस्तु मधुरमृदुत्रिस्थानकोऽन्यकः
मृदुत्रिस्थानगम्भीरोऽपरः स्निग्धो मृदुर्घनः ५०
त्रिस्थानोऽन्यस्तु मधुरमृदुस्त्रिस्थानको घनः
अन्यस्तु मधुरस्निग्धमृदुत्रिस्थानकोऽपरः ५१
मधुरस्निग्धगम्भीरघनत्रिस्थानकोऽपरः
स्निग्धकोमलगम्भीरघन्त्रिस्थानलीनकः ५२
अपरः स्निग्धमधुरकोमलः सान्द्रलीनकः
त्रिस्थानशोभी गम्भीर इति भेदा दशोदिताः ५३
खाहुलोन्मिश्रनाराटे ततः खाहुलबोम्बयोः
स्निग्धकोमलनिःसार एकोऽन्यो मधुरो मृदुः ५४
रूक्षोऽन्यस्तु मृदुस्निग्धनिःसारोच्चतरः परः
कोमलस्निग्धनिःसारः स्थूलोऽन्यः स्निग्धकोमलः ५५
रूक्षनिःसारपीनश्च भेदाः षडिति कीर्तिताः
नाराटे बोम्बभेदाः स्युर्घनत्रिस्थानरूक्षकः ५६
एकोऽन्यो घनगम्भीररूक्षोऽन्यो लीनपीवरः
निःसाररूक्षोऽन्यो लीनघनोच्चतरपीवरः ५७
त्रिस्थानघनगम्भीरलीनरूक्षोऽपरः परः
त्रिस्थानलीननिःसाररूक्षस्थूलः षडित्यमी ५८
एते द्वंद्वजभेदाः स्युरथैते सांनिपातिकाः
स्निग्धत्रिस्थाननिःसारोऽन्यो मृदुर्मधुरो घनः ५९
गम्भीरोच्चतरो रूक्षः परस्तु स्निग्धकोमलः
घनलीनः पीवरोच्चतरोऽन्यः स्निग्धकोमलः ६०
त्रिस्थानलीननिःसारपीवरोच्चतरोऽपरः
कीर्तितो मधुरो लीनत्रिस्थानो रूक्षपीवरः ६१
निःसारोच्चैस्तरोऽन्यस्तु मधुरस्निग्धकोमलः
त्रिस्थानघनगम्भीरलीन उच्चैस्तरः परः ६२
मधुरो मृदुगम्भीरलीनत्रिस्थानरूक्षकः
निःसारोच्चैस्तरोऽन्यस्तु कोमलो मधुरो घनः ६३
लीनत्रिस्थानरूक्षोच्चतरपीवरतायुतः
अष्टाविति त्रिमिश्रस्य भेदाः सर्वे तु मिश्रजाः ६४
मिलिता मुग्धबोधाय त्रिंशन्निःशङ्ककीर्तिताः
अन्येषां सूक्ष्मभेदानां नान्तोऽस्ति गुणसंकरात्
ते ग्रन्थविस्तरत्रासादस्माभिर्न समीरिताः ६५
इति शब्दभेदलक्षणम्
मृष्टो मधुरचेहालत्रिस्थानकसुखावहाः
प्रचुरः कोमलो गाढः श्रावकः करुणो घनः ६६
स्निग्धः श्लक्ष्णो रक्तियुक्तश्छविमानिति सूरिभिः
गुणैरेभिः पञ्चदशभेदः शब्दो निगद्यते ६७
श्रोत्रनिर्वापको मृष्टत्रिषु स्थानेष्वविस्वरः
मधुरः कीर्तितस्तारः प्रौढो मधुररञ्जकः ६८
नातिस्थूलो नातिकृशः स्निग्धश्चेहालको घनः
आकण्ठकुण्ठनं स स्यात्पुंसां स्त्रीणां तु सर्वदा ६९
त्रिषु स्थानेष्वेकरूपश्छविरक्त्यादिभिर्गुणैः
त्रिस्थानो मनसो यस्तु सुखदः स सुखावहः ७०
श्रीशंकरप्रियेणोक्तः प्रचुरस्थूलतायुतः
कोमलोऽन्वर्थनामैव कोकिलाध्वनिवन्मतः ७१
गाढस्तु प्रबलो दूरश्रवणाच्छ्रावको मतः
करुणः श्रोतृचित्तस्य करुणारसदीपकः ७२
दूरश्रवणयोग्यस्तु घनोऽन्तःसारतायुतः
अरूक्षो दूरसंश्राव्यो बुधैः स्निग्धो ध्वनिः स्मृतः ७३
श्लक्ष्णस्तु तैलधारावदच्छिद्रो धीरसंमतः
अनुरक्तेस्तु जनको रक्तिमानभिधीयते ७४
धातुर्विमलकण्ठत्वाद्यः प्राज्ञैरुपलक्ष्यते
उज्ज्वलोऽयमिति प्रोक्तश्छविमानिति स ध्वनिः ७५
इति शब्दगुणाः
रूक्षस्फुटितनिःसारकाकोलीकेटिकेणयः
कृशो भग्न इति प्रोक्ता दुष्टस्याष्टौ भिदा ध्वनेः ७६
रूक्षः स्निग्धत्वनिर्मुक्तः स्प्ल्हुटितोऽन्वर्थनामकः
एरण्डकाण्डनिःसारो निःसार इति कीर्तितः ७७
काकोलिकाख्यः काकोलकुलनिर्घोषनिष्ठुरः
स्थानत्रयप्राप्तिमुक्तो निर्गुणः केटिरुच्यते ७८
कृच्छ्रोन्मीलन्मन्द्रतारः केणिरित्यभिधीयते
अतिसूक्ष्मः कृशो भग्नः खरोष्ट्रध्वनिनीरसः ७९
इति शब्ददोषाः
रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्ध्वनेः
तच्छारीरमिति प्रोक्तं शरीरेण सहोद्भवात् ८०
तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः
घनतास्निग्धताकान्तिप्राचुर्यादिगुणैर्युतम् ८१
तत्सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदैः
अनुध्वानविहीनत्वं रूक्षत्वं त्यक्तरक्तिता ८२
निःसारता विस्वरता काकित्वं स्थानविच्युतिः
कार्श्यं कार्कश्यमित्याद्यैः कुशारीरं कुदूषणैः ८३
विद्यादानेन तपसा भक्त्या वा पार्वतीपतेः
प्रभूतभाग्यविभवैः सुशारीरमवाप्यते ८४
इति शारीरलक्षणम्
स्वरस्य कम्पो गमकः श्रोतृचित्तसुखावहः
तस्य भेदास्तु तिरिपः स्फुरितः कम्पितस्तथा ८५
लीन आन्दोलितवलित्रिभिन्नकुरुलाहताः
उल्लासितः प्लावितश्च गुम्फितो मुद्रितस्तथा
नामितो मिश्रितः पञ्चदशेति परिकीर्तिताः ८६
लघिष्ठडमरुध्वानकम्पानुकृतिसुन्दरः
द्रुततुर्यांशवेगेन तिरिपः परिकीर्तितः ८७
वेगे द्रुततृतीयांशसंमिते स्फुरितो मतः
द्रुतार्धमानवेगेन कम्पितं गमकं विदुः ८८
लीनस्तु द्रुतवेगेनाऽऽन्दोलितो लघुवेगतः
वलिर्विविधवक्रत्वयुक्तवेगवशाद्भवेत् ८९
त्रिभिन्नस्तु त्रिषु स्थानेष्वविश्रान्तघनस्वरः
कुरुलो वलिरेव स्याद्ग्रन्थिलः कण्ठ्यकोमलः ९०
स्वरमग्रगमाहत्य निवृत्तस्त्वाहतो मतः
उल्लासितः स तु प्रोक्तो यः स्वरानुत्तरोत्तरान् ९१
क्रमाद्गच्छेत्प्लावितस्तु प्लुतमानेन कम्पनम्
हृदयंगमहुंकारगम्भीरो गुम्फितो भवेत् ९२
मुखमुद्रणसंभूतो मुद्रितो गमको मतः
स्वराणां नमनादुक्तो नामितो ध्वनिवेदिभिः ९३
एतेषां मिश्रणान्मिश्रस्तस्य स्युर्भूरयो भिदाः
तासां तु स्थायवागेषु विवृतिः संविधास्यते ९४
इति गमकलक्षणम्
रागस्यावयवः स्थायो वागो गमक उच्यते
तत्रोक्तं लक्ष्म वागानां स्थायानां तूच्यतेऽधुना ९५
वागानामपि केषांचित्प्रसङ्गाद्वच्मि लक्षणम् ९६
ते च शब्दस्य ढलस्य लवन्या वहनेरपि
वाद्यशब्दस्य यन्त्रस्य च्छायायाः स्वरलङ्घितः
प्रेरितस्तीक्ष्ण इत्युक्ता व्यक्तासंकीर्णलक्षणाः ९७
इत्यसंकीर्णलक्षणाः प्रसिद्धा दश स्थायाः
भजनस्य स्थापनाया गतेर्नादध्वनिच्छवेः
रक्तेर्धृतस्य शब्दस्य भृतस्यांशावधानयोः ९८
अपस्थानस्य निकुतेः करुणाविविधत्वयोः
गात्रोपशमयोः काण्डारणानिर्जवनान्वितौ ९९
गाढो ललितगाढश्च ललितो लुलितः समः
कोमलः ह्प्रसृतः स्निग्धचोक्षोचितसुदेशिकाः १००
अपेक्षितश्च घोषश्च स्वरस्यैते प्रसिद्धितः
स्थायानां गुणभेदेन व्यपदेशा निरूपिताः १०१
इति त्रयस्त्रिंशद्गणकृतभेदाः प्रसिद्धाः स्थायाः
वहाक्षराडम्बरयोरुल्लासिततरङ्गितौ
प्रलम्बितोऽवस्खलितस्त्राटितः संप्रविष्टकः १०२
उत्प्रविष्टो निःसरणो भ्रामितो दीर्घकम्पितः
प्रतिग्राह्योल्लासितश्च स्यादलम्बविलम्बिकः १०३
स्यात्त्रोटितप्रतीष्टोऽपि प्रसृताकुञ्चितः स्थिरः
स्थायुकः क्षिप्तसूक्ष्मान्तावित्यसंकीर्णलक्षणाः १०४
इतीषत्प्रसिद्धा विंशतिरसंकीर्णलक्षणाः
प्रकृतिस्थस्य शब्दस्य कलाक्रमणयोरपि
घटनायाः सुखस्यापि चाले जीवस्वरस्य च
वेदध्वनेर्घनत्वस्य शिथिलोऽवघटः प्लुतः १०५
रागेष्टोपस्वराभासो बद्धः कलरवस्य च
छान्दसः सुकराभासः संहितो लघुरन्तरः १०६
वक्रो दीप्तप्रसन्नश्च स्यात्प्रसन्नमृदुर्गुरुः
ह्रस्वः शिथिलगाढश्च दीर्घोऽसाधारणस्ततः
साधारणो निराधारो दुष्कराभासनामकः १०७
मिश्रश्चैतेऽपि संकीर्णा गुणैर्भिन्नाश्च पूर्ववत् १०८
इतीषत्प्रसिद्धास्त्रयस्त्रिंशद्गुणभिन्नाः
इति षण्णवतिः स्थायाः शार्ङ्गदेवेन कीर्तिताः १०९
मुक्तशब्दप्रतिग्राह्याः स्थायाः शब्दस्य कीर्तिताः
ढालो मुक्ताफलस्येव चलनं लुण्ठनात्मकम् ११०
स एषु ते स्युर्ढालस्य नमनं त्वतिकोमलम्
लवनी तद्युजश्छा या लवन्याः परिकीर्तिताः १११
यत्तु कम्पनमारोहिण्यवरोहिणि वा भवेत्
वदनी साऽथ संचारिण्यपि वा स्थिरकम्पनम् ११२
सा गीतालप्तिसंबन्धभेदेन द्विविधा मता
पुनर्द्विधा स्थिरा वेगाढ्या पुनस्त्रिविधोदिता ११३
हृद्या कण्ठ्या शिरस्या च देहस्था हृदयोद्भवा
वहनी स्यात्पुनर्द्वेधा खुत्तोत्फुल्लेति भेदतः ११४
यस्मामन्तर्विशन्तीव स्वराः खुत्तेति सा मता
सोत्फुल्लेत्युदिता यस्यां निर्यान्तीवोपरि स्वराः ११५
वलिर्या गमकेषूक्ता साऽप्येवंविधभेदभाक्
वहनी येषु ते स्थाया वहन्याः परिभाषिताः ११६
रागमग्ना वाद्यशब्दा येषु ते वाद्यशब्दजाः
ये यन्त्रेष्वेव दृश्यन्ते बाहुल्यात्ते तु यन्त्रजाः ११७
छाया काकुः षड्जकारा स्वररागान्यरागजा
स्याद्देशक्षेत्रयन्त्राणां तल्लक्षणमथोच्यते ११८
श्रुतिन्यूनाधिकत्वेन या स्वरान्तरसंश्रया
स्वरान्तरस्य रागे स्यात्स्वरकाकुरसौ मता ११९
या रागस्य निजच्छाया रागकाकुं तु तां विदुः
सा त्वन्यरागकाकुर्या रागे रागान्तराश्रया १२०
सा देशकाकुर्या रागे भवेद्देशस्वभावतः
शरीरं क्षेत्रमित्युक्तं प्रतिक्षेत्रं निसर्गतः १२१
रागे नानाविधा काकुः क्षेत्रकाकुरिति स्मृता
वीणावंशादियन्त्रोत्था यन्त्रकाकुः सतां मता १२२
अन्यच्छायाप्रवृत्तौ ये छायान्तरमुपाश्रिताः
छायायास्ते मताः स्थाया गीतविद्याविशारदैः १२३
मध्ये मध्ये स्वरान्भूरील्लँङ्घयन्स्वरलङ्घितः
तिर्यगूर्ध्वमधःस्थाच्च प्रेरितः प्रेरितस्वरैः
स्वरपूर्णश्रुतिस्तारे तीक्ष्णवत्तीक्ष्ण उच्यते १२४
इत्यसंकीर्णाः स्थाया दश
रागस्यातिशयाधानं प्रयत्नाद्भजनं मतम्
तद्युक्ता भजनस्य स्युः स्थापनायास्तु ते मताः १२५
स्थापयित्वा स्थापयित्वा येषां प्रतिपदं कृतिः
सविलासाऽस्ति गीत्तस्य मत्तमातङ्गवद्गतिः १२६
तद्युक्तास्तु गतेः स्थायाः स्निग्धो माधुर्यमांसलः
बहुलो येषु नादः स्यात्ते नादस्य प्रकीर्तिताः १२७
अतिदीर्घप्रयोगास्तु स्थाया ये ते ध्वनेर्मताः
युक्ताः कोमलया कान्त्या छवेः स्थाया निरूपिताः १२८
रक्तेरुत्कर्षतो रक्तेरुक्ताः स्थाया मनीषिभिः
धृतस्यान्वर्थनामानो भृतस्य भरणाद्ध्वनेः १२९
रागान्तरस्यावयवो रागेंऽशः स च सप्तधा
कारणांशश्च कार्यांशः सजातीयस्य चांशकः १३०
सदृशांशो विसदृशो मध्यमस्यांशकोऽपरः
अंशांशश्चेति यो रागे कार्येंऽशः कारणोद्भवः १३१
कारणांशस्त्वसौ रामकृतौ कोलाहलांशवत्
कारणे कार्यरागांशः कार्यांशो भैरवे यथा १३२
भैरव्यंशः समां जातिं गौडत्वाद्यां समाश्रिताः
कर्णाटाद्याः सजातीयास्तेष्वेकांशोऽपरत्र यः १३३
सजातीयांशकः स स्यादंशः सदृशरागयोः
सदृशांशो यथा नट्टावराट्योः शुद्धयोर्मिथः १३४
सादृश्यशून्ययोरंशोऽत्यन्तं विसदृशांशकः
वेलावल्याश्च गूर्जर्याः परस्परगतौ यथा १३५
मध्यस्थरागौ सादृश्यवैसादृश्यविवर्जितौ
मध्यस्थांशस्तयोरंशो नट्टादेशाख्ययोरिव १३६
अंशेऽशान्तरसंचारादंशांश इति कीर्तितः
येष्वंशो दृश्यते स्थायास्तेंऽशस्य परिकीर्तिताः १३७
मनसा तत्कृतेनैव ये ग्राह्यास्तेऽवधानजाः
आयासेन विना यत्र स्थाने स्यात्प्रचुरो ध्वनिः १३८
स्वस्थानं तदपस्थानं त्वायासेन तदुद्गतेः
अपस्थानस्य ते स्थाया येऽपस्थानसमुद्भवाः १३९
निकुतेः करुणायाश्च स्थायास्त्वन्वर्थनामकाः
स्थाया नानाविधां भङ्गिं भजंन्तो विविधत्वजाः १४०
गात्रस्य गात्रे निरताः कृत्वा तीव्रतरं ध्वनिम्
येषूपशान्तिः क्रियते भवन्त्युपशमस्य ते १४१
काण्डारणा प्रसिद्धैव तस्याः स्थायास्तदुद्भवाः
सरलः कोमलो रक्तः क्रमान्नीतोऽतिसूक्ष्मताम् १४२
स्वरस्याऽऽद्येषु ते स्थायाः प्रोक्ता निर्जवनान्विताः
गाढः शैथिल्यनिर्मुक्तः स एव मृदुतान्वितः १४३
भवेल्ललितगाढस्तु ललितस्तु विलासवान्
मार्दवाघूर्णितः प्रोक्तो लुलितः स्यात्समः पुनः १४४
हीनो वेगविलम्बाभ्यां यथार्थः कोमलो मतः
प्रसृतः प्रसृतोपेतः स्निग्धो रूक्षत्ववर्जितः १४५
उज्ज्वलो गदितश्चोक्ष उचितस्तु यथार्थकः
सुदेशिको विदग्धानां वल्लभोऽपेक्षितस्तु सः १४६
स्थायस्थायेन पूर्वेण पूर्त्यर्थं योऽभिकाङ्क्षितः
वलौ वहेर्वहन्यां च यः स्निग्धमधुरो महान् १४७
मन्द्रे ध्वनिः सघोषः स्यात्तद्युक्ता घोषजा मताः
गम्भीरमधुरध्वाना मन्द्रे ये स्युः स्वरस्य ते १४८
इति त्रयस्त्रिंशत्संकीर्णाः ।
वहन्त इव कम्पन्ते स्वरा येषु वहस्य ते
अक्षराडम्बरो येषु मुख्यास्ते स्युस्तदन्विताः १४९
वेगेन प्रेरितैरूर्ध्वं स्वरैरुल्लासितो मतः
यत्र गङ्गातरङ्गन्ति स्वराः स स्यात्तरङ्गितः १५०
परितोऽर्धभृते कुम्भे जलं दोलायते यथा
गीते तथाविधः स्थायः प्रोक्तस्तज्ज्ञैः प्रलम्बितः १५१
अवस्खलति यो मन्द्रादवरोहेण वेगतः
सोऽवस्खलित इत्युक्तस्त्राटितस्तु स्वरे क्वचित् १५२
चिरं स्थित्वाऽग्निवत्तारं स्पृष्ट्वा प्रत्यागतो भवेत्
घनस्वरोऽवरोहे स्यात्संप्रविष्टस्तथाविधः १५३
आरोहिण्युत्प्रविष्टः स्यादन्वर्थाः स्युः परे त्रयः
प्रतिगृह्योल्लासितः स्यादसौ यः प्रतिगृह्यते १५४
उत्क्षिप्योत्क्षिप्यनिपतत्केलिकन्दुकसुन्दरः
द्रुतपूर्वो विलम्बान्तः स्यादलम्बविलम्बकः १५५
स्यात्त्रोटितप्रतीषोऽसौ यत्र स्यात्तारमन्द्रयोः
प्रथमं त्रटयित्वैकमपरस्य प्रतिग्रहः १५६
प्रसृताकुञ्चितः स्थायः प्रसार्याऽऽकुञ्चितध्वनिः
स्थायिवर्णस्थितिः कम्पः स्थिर इत्यभिधीयते १५७
एकैकस्मिन्स्वरे स्थित्वा स्थित्वा वाऽथ द्वयोर्द्वयोः
त्रिषु त्रिष्वथवा स्थायो रचितः स्थायुको मतः
ऊर्ध्वः प्रसारितः क्षिप्तः सूक्ष्माङ्गोन्तेऽल्पतां गतः १५८
इत्यसंकीर्णा विंशतिः
शब्दः प्रकाशते येषु धृतिभृत्यादिवर्जितः
स्वभावादेव शब्दस्य प्रकृतिस्थस्य ते मताः १५९
येषु सूक्ष्मीकृताः शब्दास्ते कलायाः प्रकीर्तिताः
भृशं प्राणप्रतिग्राह्या ये स्युराक्रमणस्य ते १६०
ते स्थाया घटनाया ये शिल्पिना घटिता इव
सुखदास्तु सुखस्य स्युश्चालिर्जक्केति कीर्तिताः १६१
स्थायास्तदन्विताश्चालेरंशो जीवस्वरो मतः
तत्प्राधान्येन ये गीताः स्थाया जीवस्वरस्य ते १६२
वेदध्वनिनिभध्वानाः स्थाया वेदध्वनेर्मताः
अन्तःसारो घनत्वस्य यथार्थः शिथिलो मतः १६३
दुष्करोऽवघटः प्रोक्तः प्लुतोऽत्यन्तविलम्बितः
रागेणेष्टः स्वपूर्त्यर्थं रागेष्ट इति कीर्तितः १६४
स स्यादपस्वराभासो भात्यपस्वरवत्तु यः
स्तब्धस्थायस्तु बद्धः स्याद्बहुत्वं मधुरध्वनेः १६५
यस्मिन्कलरवस्यासौ छान्दसश्चतुरप्रियः
सुकराभास इत्युक्तो दुष्करः सुकरोपमः १६६
घण्टानादवदायातस्तारान्मन्द्रं तु संहितः
लघुर्गुरुत्वरहितो ध्रुवकाभोगयोस्तु यः १६७
अन्तरे साऽन्तरो वक्रो यथार्थः सुकरस्तु यः
तारे दीप्तप्रसन्नोऽसौ सुकरः कोमलध्वनिः १६८
प्रसन्नमृदुरित्युक्तो गुरुरन्वर्थनामकः
ह्रस्वस्तोकः परौ द्वौ तु स्यातामन्वर्थनामकौ १६९
शब्दशारीरगुणतः सुकरः सुस्वरोऽथवा
यः कस्यचिन्न सर्वेषां सोऽसाधारण उच्यते १७०
सदृशो यस्तु सर्वेषामसौ साधारणः स्मृतः
न वाञ्छति वहन्यादि यः स्वनिर्वाहहेतवे १७१
उच्यते स निराधारः सुकरो दुष्करोपमः
दुष्कराभास इत्युक्तो मिश्रणान्मिश्रको मतः १७२
इति त्रयस्त्रिंशत्संकीर्णलक्षणाः
आनन्त्यान्नैव शक्यन्ते भेदा मिश्रस्य भाषितुम्
दिक्प्रदर्शनमात्रार्थमुच्यन्ते तेषु केचन १७३
यो यस्मिन्बहुलः स्थायः स तेन्स् व्यपदिश्यते
साम्ये तु मिश्रनामैव स त्विदानीं प्रपञ्च्यते १७४
तिरिपान्दोलितो लीनकम्पितः कम्पिताहतः
तिरिपस्फुरितो लीनस्फुरितः स्फुरिताहतः १७५
लीनकम्पितलीनश्च त्रिभिन्नकुरुलाहतः
प्लावितोल्लासितवलिर्वलिहुम्फितमुद्रितः १७६
नामितान्दोलितवलिर्वलिनामितकम्पितः
अन्दोलितप्लावितकसमुल्लासितनामितः १७७
तिरिपान्दोलितवलित्रिभिन्नकुरुलोऽपरः
त्रिभिन्नलीनस्फुरितप्लावितान्दोलितः परः १७८
वहनीढालयोर्धालवहन्योः शब्दढालयोः
वहनीयन्त्रयोश्छायायन्त्रयोः शब्दयन्त्रयोः १७९
वहनीछाययोर्यन्त्रवाद्यशब्दभवः परः
तीक्ष्णप्रेरितकस्तीक्ष्णप्रेरितः स्वरलङ्घितः १८०
ढालशब्दोत्थयन्त्रोत्थवाद्यशब्दभवः परः
ढालच्छाया यन्त्रवाद्यशब्दशब्दभवोऽपरः १८१
झल्लम्बितावस्खलितस्त्राटितोल्लासितः परः
संप्रविष्टोत्प्रविष्टश्च संप्रविष्टतरङ्गितः १८२
अन्यः प्रतिगृहीतोल्लालितालम्बविलम्बकः
स्यात्त्रोटितप्रतीष्टोत्प्रविष्टनिःसरणः परः १८३
दीर्घकम्पितसूक्ष्मान्तभ्रामितस्थायुकोऽन्यकः
वहाक्षराडम्बरजप्रसृताकुञ्चितस्थिरः १८४
भ्रामितक्षिप्तसूक्ष्मान्ततरङ्गितझलम्भितः
एते षट्त्रिंशदन्येऽपि विज्ञातव्या दिशाऽनया १८५
इति स्थायवागलक्षणम्
रागालपनमालप्तिः प्रकटीकरणं मतम्
सा द्विधा गदिता रागरूपकाभ्यां विशेषणात् १८६
रागालप्तिस्तु सा या स्यादनपेक्ष्यैव रूपकम्
स्वस्थानैः सा चतुर्भिः स्यादिति गीतविदो विदुः १८७
यत्रोपविश्यते रागः स्वरे स्थायी स कथ्यते
ततश्चतुर्थो द्व्यर्धः स्यात्स्वरे तस्मादधस्तने १८८
चालनं मुखचालः स्यात्स्वस्थानं प्रथमं च तत्
द्व्यर्धस्वरे चालयित्वा न्यसनं तद्द्वितीयकम् १८९
स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः
द्व्यर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताः स्वराः १९०
अर्धस्थितो चालयित्वा न्यसनं तु तृतीयकम्
द्विगुणे चालयित्वा तु स्थायिन्यासाच्चतुर्थकम्
एभिश्चतुर्भिः स्वस्थानै रागालप्तिर्मता सताम् १९१
स्तोकस्तोकैस्ततः स्थायैः प्रसन्नैर्बहुभङ्गिभिः
जीवस्वरव्याप्तिमुख्यै रागस्य स्थापना भवेत् १९२
इति रागालप्तिः
रूपकस्थेन रागेण तालेन च विधीयते
या सोक्ता रूपकालप्तिः सा पुनर्द्विविधा भवेत् १९३
प्रतिग्रहणिकैकाऽन्या भञ्जनीत्यभिधीयते
विधाय स्थायमालप्ते रूपकावयवो यदि
प्रतिगृह्येत सा प्रोक्ता प्रतिग्रहणिका बुधैः १९४
इति प्रतिग्रहणिका
भञ्जनी द्विविधा ज्ञेया स्थायरूपकभञ्जनात्
यदा तत्पदमानेन स्थायो रूपकसंस्थितः
नानाप्रकारः क्रियते सा ज्ञेया स्थायभञ्जनी १९५
तैः पदैस्तेन मानेन समग्रं रूपकं यदि
अन्यथा चान्यथा गायेदसौ रूपकभञ्जनी १९६
वर्णालंकारसंपन्ना गमकास्थायचित्रिता
आलप्तिरुच्यते तज्ज्ञैर्भूरिभङ्गिमनोहरा १९७
इत्यालप्तिलक्षणम्
गातृवादकसंघातो वृन्दमित्यभिधीयते
उत्तमं मध्यममथो कनिष्ठमिति तत्त्रिधा १९८
चत्वारो मुख्यगातारो द्विगुणाः समगायनाः
गायिन्यो द्वादश प्रोक्ता वांशिकानां चतुष्टयम् १९९
मार्दङ्गिकास्तु चत्वारो यत्र तद्वृन्दमुत्तमम्
मध्यमं स्यात्तदर्थेन कनिष्ठे मुख्यगायनः २००
एकः स्यात्समगातारस्त्रयो गायनिकाः पुनः
चतस्रो वांशिकद्वंद्वं तथा मार्दलिकद्वयम् २०१
उत्तमे गायनीवृन्दे मुख्यगायनिकाद्वयम्
दश स्युः समगायिन्यो वांशिकद्वितयं तथा २०२
भवेन्मार्दलिकद्वंद्वं मध्यमे मुख्यगायनी
एका स्यात्समगायिन्यश्चतस्रो वांशिकास्तथा २०३
इतो न्यूनं तु हीनं स्याद्ययेष्टमथवा भवेत्
उत्तमाभ्यधिकं वृन्दं कोलाहलमितीरितम् २०४
मुख्यानुवृत्तिर्मिलनं ताललीलानुवर्तनम्
मिथस्त्रुटितनिर्वाहस्त्रिस्थानव्याप्तिशक्तता २०५
शब्दसादृश्यमित्येते प्रोक्ता वृन्दस्य षड्गुणाः
आह वृन्दविशेषं तु कुतपं भरतो मुनिः २०६
ततस्य चावनद्धस्य नाट्यस्यैते त्रिधा च सः
ततस्य कुतपो ज्ञेयो गायनः सपरिग्रहः २०७
वीणा घोषवती चित्रा विपञ्ची परिवादिनी
वल्लकी कुङ्निका ज्येष्ठा नकुलोष्ठी च किंनरी २०८
जया कूर्मी पिनाकी च हस्तिका शततन्त्रिका
औदुम्बरी च षट्कर्णः पौणो रावणहस्तकः २०९
सारङ्ग्यालपनीत्यादेस्ततवाद्यस्य वादकाः
वांशिकाः पाविकाः पावकाहलाः शङ्खवादकाः २१०
मुहुरीशृङ्गवाद्याद्यास्तथा तालधरा वराः
कुतपे त्ववनद्धस्य मुख्यो मार्दङ्गिकस्ततः २११
पणवो दर्दुरो ढक्का मण्डिडक्का च डक्कुली
पटहः करटा ढक्का ढवसो घडसस्तथा २१२
हुडुक्का डमरू रुञ्जा कुडुक्का कुडुवा तथा
निःस्वानस्त्रिवली भेरी तम्बकी बोम्बडी तथा २१३
पट्टवाद्यं पटः कम्रोडावजावजसेल्लुकाः
जयघण्टा कांस्यतालो घण्टा च किरिकिट्टकम् २१४
वाद्यानामेवमादीनां पृथग्वादकसंचयः
वराटलाटकर्णाटगौडगुर्जरकौङ्कणैः २१५
महाराष्ट्रान्ध्रहम्मीरचौलैर्मलयमालवैः
अङ्गवङ्गकलिङ्गाद्यैर्नानाभिनयकोविदैः २१६
अङ्गहारप्रयोगज्ञैर्लास्यताण्डवकोविदैः
विचित्रस्थानकप्रौढैर्विषमेषु सुशिक्षितैः २१७
नाटस्य कुतपः पात्रैरुत्तमाधममध्यमैः
कुतपानाममीषां तु समूहो वृन्दमुच्यते २१८
इति वृन्दलक्षणम्
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कशार्ङ्गदेवविरचिते संगीतरत्नाकरे तृतीयः प्रकीर्णकाध्यायः ३