सङ्गीतरत्नाकरः/परिशिष्ट १

विकिस्रोतः तः

सङ्गीतरत्नाकरः

परिशिष्टम् १
षड्जग्रामसमुत्पन्नाः षड्जकैशिकमध्यमाः
शुद्धसाधारितः षड्जग्रामो ग्रामे तु मध्यमः ८
पञ्चमो मध्यमग्रामः षाडवः शुद्धकैशिकः
शुद्धाः सप्तेति भिन्नाः स्युः पञ्च कैशिकमध्यमः ९
भिन्नषड्जश्च षड्जाख्ये मध्यमे तानकैशिकौ
भिन्नपञ्चम इत्येते गौडकैशिकमध्यमः १०
गौडपञ्चमकः षड्जे मध्यमे गौडकैशिकः
इति गौडास्त्रयः षड्जे टक्कवेसरषाडवौ ११
ससौवीरीमध्यमे तु बोट्टमालवकैशिकौ
मालवः पञ्चमान्तोऽथ द्विग्रामष्टक्ककैशिकः १२
हिन्दोलोऽष्टौ वेसरास्ते सप्त साधारणस्ततः
षड्जे स्याद्रूपसाधारः शको भम्माणपञ्चमः १३
मध्यमे नर्तगान्धारपञ्चमौ षाड्जकैशिकः
द्विग्रामः ककुभस्त्रिंशद्ग्रामरागा अमी मताः १४
अष्टोपरागास्तिलकः शकादिष्टक्कसैन्धवः
कोकिला पञ्चमो रेवगुप्तः पञ्चमषाडवः
भावनापञ्चमो नागगान्धारो नागपञ्चमः १५
श्रीरागनट्टौ बङ्गालो भासमध्यमषाडवौ
रक्तहंसः कोह्लहासः प्रसवो भैरवध्वनिः १६
मेघरागः सोमरागकामोदौ चाभ्रपञ्चमः
स्यातां कन्दर्पदेशाख्यौ ककुभान्तश्च कैशिकः
नट्टनारायणश्चेति रागा विंशतिरीरिताः १७
सौवीरः ककुभष्टक्कः पञ्चमो भिन्नपञ्चमः १८
टक्ककैशिकहिन्दोलबोट्टभालवकैशिकाः
गान्धारपञ्चमो भिन्नषड्जो वेसरषाडवः १९
मालवः पञ्चमान्तश्च तानः पञ्चमषाडवः
भाषाणां जनकाः पञ्चदशैते याष्टिकोदिताः २०
भाषाश्चतस्रः सोवीरे सौवीरी वेगमध्यमा
साधारिता च गान्धारी ककुभे भिन्नपञ्चमी २१
काम्बोजी मध्यमग्रामा रगन्ती मधुरी तथा
शकमिश्रेति षट्तिस्रो विभाषा भोगवर्धनी २२
आभीरिका मधुकरी तथैकान्तरभाषिका
शालवाहनिका टक्के त्रवणा त्रवणोद्भवा २३
वैरञ्जी मध्यमग्रामदेहा मालववेसरी
छेवाटी सैन्धवी कोलाहला पञ्चमलक्षिता
सौराष्ट्री पञ्चमी वेगरञ्जी गान्धारपञ्चमी २४
मालवी तानवलिता ललिता रविचन्द्रिका २५
ताना वाहेरिका दोह्या वेसरीत्येकविंशतिः
भाषाः स्युरथ देवारवर्धन्यान्ध्री च गुर्जरी २६
भावनीति विभाषाः स्युश्चतस्रः पञ्चमे पुनः
कैशिकी त्रावणी तानोद्भवाऽऽभीरी च गुर्जरी २७
सैन्धवी दाक्षिणात्याऽऽन्ध्री माङ्गली भावनी दश
इति भाषा विभाषे द्वे भम्माण्यन्धालिके ततः २८
चतस्रः पञ्चमे भिन्ने भाषा धैवतभूषिता
शुद्धा भिन्ना च वाराटी विशालेत्यथ कौशली २९
विभाषा मालवाभिन्नवलिते टक्ककैशिके
भाषे द्वे द्राविडीत्येका विभाषा प्रेङ्खके नव ३०
भाषाः स्युर्वेसरी चूतमञ्जरी षड्जमध्यमा
मधुरी भिन्नपौराली गौडी मालववेसरी
छेवाटी पिञ्जरीत्येका बोट्टे भाषा तु माङ्गली ३१
वाङ्गाली माङ्गली हर्षपुरी मालववेसरी ३२
खञ्जिनी गुर्जरी गौडी पौराली चार्धवेसरी
शुद्धा मालवरूपा च सैन्धव्याभीरिकेत्यमूः ३३
भाषास्त्रयोदश ज्ञेया विज्ञैर्मालवकैशिके
विभाषे द्वे तु काम्बोजी तद्वद्देवारवर्धनी ३४
गान्धारपञ्चमे भाषा गान्धारी भिन्नषड्जका
गान्धारवल्ली कच्छेल्ली स्वरवल्ली निषादिनी ३५
त्रवणा मध्यमा शुद्धा दाक्षिणात्या पुलिन्दिका
तुम्बुरा षड्जभाषा च कालिन्दी ललिता ततः ३६
श्रीकण्ठिका च बाङ्गाली गान्धारी सैन्धवीत्यमूः
भाषाः सप्तदश ज्ञेयाश्चतस्रस्तु विभाषिकाः
पौराली मालवा कालिन्द्यपि देवारवर्धनी ३७
वेसरे षाडवे भाषे द्वे बाह्या बाह्यषाडवा ३८
विभाषे पार्वती श्रीकठ्यथ मालवपञ्चमे
भाषास्तिस्रो वेदवती भाविनी च विभाविनी ३९
ताने तानोद्भवा भाषा भाषा पञ्चमषाडवे
पोता भाषां शकामेके रेवगुप्ते विदुर्विदुः ४०
विभाषापल्लवी भासवलिता किरणावली
शङ्काद्यावलितेत्येतास्तिस्रस्त्वन्तरभाषिकाः ४१
चतस्रोऽनुक्तजनका बृहद्वेश्यामिमाः स्मृताः
एवं षण्णवतिर्भाषा विभाषा विंशतिः स्मृताः
चतस्रोऽन्तरभाषाः स्युः शार्ङ्गदेवस्य संमताः ४२
भाषा मुख्या स्वराख्या च देशाख्या चोपरागजा ४३
चतुर्विधा मतङ्गोक्ता मुख्याऽनन्योपजीविनी
स्वरदेशाख्यया ख्याता स्वराख्या देशजा क्रमात् ४४
अन्योपरागजा ताभ्यो याष्टिकेनोदिताः पुनः
संकीर्णदेशजा मूला छायामात्रेतिनामभिः ४५
शुद्धाऽऽभिरी रगन्ती च त्रिधा मालववेसरी
मुख्या षडिति शेषास्तु सुज्ञाताः स्फुटलक्षणाः
नामसाम्यं तु कासांचिद्भिन्नानानपि लक्ष्मतः ४६
अथ रागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गनिर्णयम्
केषांचिन्मतमाश्रित्य कुरुते षोढलात्मजः ४७
रञ्जनाद्रागता भाषारागाङ्गादेरपीष्यते
देशीरागतया प्रोक्तं रागाङ्गादिचतुष्टयम् ४८
प्रसिद्धा ग्रामरागाद्याः केचिद्देशीत्यपीरिताः
तत्र पूर्वप्रसिद्धानामुद्देशः क्रियतेऽधुना ४९
शंकराभरणो घण्टारव आहंसदीपकौ
रीतिः पूर्णाटिका लाटी पल्लवीति बभाषिरे ५०
रागाङ्गान्यष्ट गाम्भीरी वौहाटी खशिकोत्पली
गोल्ली नादान्तरी नीलोत्पली छाया तरङ्गिणी ५१
गान्धारगतिकारञ्जावित्येकादश मेनिरे
भाषाङ्गान्यथ भावक्रीस्वभावक्रीशिवक्रियः ५२
मरुकक्रीत्रिनेत्रक्रीकुमुदक्रीदनुक्रियः
ओजक्रीन्द्रक्रियो नागकृतिर्धन्यकृतिस्तथा ५३
विपायक्रीः क्रियाङ्गाणि द्वादशेति जगुर्बुधाः
त्रीण्युपाङ्गानि पूर्णाटो देवालश्च गुरुञ्जिका ५४
चतुस्त्रिंशदिमे रागाः प्राक्प्रसिद्धाः प्रकीर्तिताः
अथाधुना प्रसिद्धानामुद्देशः प्रतिपाद्यते ५५
मध्यमादिर्मालवश्रीस्त्रोडी बङ्गालभैरवौ
वराटी गुर्जरी गौडकोलाहलवसन्तकाः
धान्यासीदेशिदेशाख्या रागाङ्गाणि त्रयोदश ५६
डौम्बवन्यासावरी वेलावली प्रथममञ्जरी ५७
आडिका मोदिका नागध्वनिः शुद्धवराटिका
नट्टा कर्णाटबङ्गालौ भाषाङ्गाणि नवाब्रुवन् ५८
क्रियाङ्गत्रितयं रायकृतिर्गौडकृतिस्तथा
देवक्रीरित्यथोपाङ्गसप्तविंशतिरुच्यते ५९
कौन्तली द्राविडी सैन्धव्यथ स्थानवराटिका
हतस्वरवराटी च स्यात्प्रतापवराटिका ६०
वराट्यः षडिति च्छाया तुरुष्काद्ये तु तोडिके
महाराष्ट्री च सौराष्ट्री दक्षिणा द्राविडीत्यमूः ६१
उक्ताश्चतस्रो गुर्जर्यो भुञ्छिका स्तम्भतीर्थिका
छायाप्रतापोपपदे बेलाबल्यौ च भैरवी ६२