सङ्गीतरत्नाकरः/नर्तनाध्यायः
दिखावट
- अथ सप्तमो नर्तनाध्यायः
- आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम्
- आहार्यं चन्द्रतारादि तं नुमः सात्त्विकं शिवम् १
- शिवप्रसादसंप्राप्तनिःसमिज्ञानसंपदा
- तन्यते शार्ङ्गदेवेन नर्तनं तापकर्तनम् २
- नाट्यं नृत्यं तथा नृत्तं त्रेधा तदिति कीर्तितम् ३
- नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः
- ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः
- नाट्यं नृत्यं तथा नृत्तमग्रे शंभोः प्रयुक्तवान् ४
- प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः
- तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् ५
- लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत्
- बुद्ध्वाऽथ ताण्डवं तण्डोर्मर्त्येभ्यो मुनयोऽवदन् ६
- पार्वती त्वनुशास्ति स्म लास्यं बाणात्मजामुषाम्
- तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः ७
- ताभिस्तु शिक्षिता नार्यो नानाजनपदास्पदाः
- एवं परम्पराप्राप्तमेतल्लोके प्रतिष्ठितम् ८
- ऋग्यजुःसामवेदेभ्यो वेदाच्चाथर्वणः क्रमात्
- पाठ्यं चाभिनयान्गीतं रसान्संगृह्य पद्मभूः ९
- व्यरीरचत्त्रयमिदं धर्मकामार्थमोक्षदम्
- कीर्तिप्रागल्भ्यसौभाग्यवैदग्ध्यानां प्रचर्धनम्
- औदार्यस्थैर्यधैर्याणां विलासस्य च कारणम् १०
- दुःखार्तिशोकनिर्वेदखेदविच्छेदेकारणम् ११
- अपि ब्रह्मपरानन्दादिदमभ्यधिकं ध्रुवम्
- जहार नारदादीनां चित्तानि कथमन्यथा १२
- न किंचिद्दृश्यते लोके दृश्यं श्राव्यमतः परम् १३
- सर्वदा कृतकृत्येनाप्यक्लिष्टेष्तप्रदायके
- द्रष्टव्ये नाट्यनृत्ये ते पर्वकाले विशेषतः १४
- नृत्तं त्वत्र नरेन्द्राणामभिषेके महोत्सवे
- यात्रायां देवयात्रायां विवाहे प्रियसंगमे १५
- नगराणामगाराणां प्रवेशे पुत्रजन्मनि
- ब्रह्मणोक्तं प्रयोक्तव्यं मङ्गल्यं सर्वकर्मसु १६
- नाट्यादित्रितयस्यातः प्रपञ्चमभिदध्महे
- नाट्यशब्दो रसे मुख्यो रसाभिव्यक्तिकारणम् १७
- चतुर्धाभिनयोपेतं लक्षणावृत्तितिओ बुधैः
- नर्तनं नाट्यमित्युक्तं स त्वत्राभिनयो भवेत् १८
- काव्यबद्धं विभावादि व्यञ्जन्योऽर्थो नटे स्थितः
- सामाजिकानां जनयन्निर्विघ्नरससंविदम् १९
- लक्षणादि विभावादेर्वक्ष्ये रसनिरूपणे २०
- आङ्गिको वाचिकस्तद्वदाहार्यः सात्त्विकोऽपरः
- चतुर्धाऽभिनयस्तत्राऽऽङ्गिकोऽङ्गैर्दर्शितो मतः २१
- वाचा विरचितः काव्यनाटकादिस्तु वाचिकः
- आहार्यो हारकेयूरकिरीटादिविभूषणम् २२
- सात्त्विकः सात्त्विकैर्भावैर्भावुकेन विभावितः २३
- इतिकर्तव्यता तस्य द्विविधा परिकीर्तिता
- लोकधर्मी नाट्यधर्मीत्येते च द्विविधे पुनः २४
- चित्तवृत्त्यर्पिका काचिद्बाह्यवस्त्वनुकारिणी
- इति भेदद्वयं प्राहुर्लोकधर्म्याः पुरातनाःअ २५
- आश्रित्य कैशिकीं वृत्तिमेका नाट्योपयोगिनीम्
- तद्योग्यां लौकिकां शोभां करोत्यावेष्टितादिभिः २६
- अंशेनैवोपजीवन्ती लोकमन्या प्रवर्तते
- नाट्यधर्म्यामपि प्राज्ञा भेदद्वंद्वमिदं जगुः २७
- आङ्गिकाह्भिनयैरेव भावानेव व्यनक्ति यत्
- तन्नृत्यं मार्गशब्देन प्रसिद्धं नृत्यवेदिनाम् २८
- गात्रविक्षेपमात्रं तु सर्वाभिनयवर्जितम्
- आङ्गिकोक्तप्रकारेण नृत्तं नृत्तविदो विदुः २९
- ताण्डवं लास्यमित्येतद्द्वयं द्वेधा निगद्यते
- वर्धमानासारिताद्यैर्गीतैस्तत्तद्ध्रुवायुतम् ३०
- करणैरङ्गहारैश्च प्राधान्येन प्रवर्तितम्
- तण्डूक्तमुद्धतप्रायप्रयोगं ताण्डवं मतम् ३१
- लास्यं तु सुकुमाराङ्गं मकरध्वजवर्धनम् ३२
- विषमं विकटं लघ्वित्यन्ये भेदत्रयं विदुः
- नृत्तस्य तत्र विषमं स्यादृजुभ्रमणादिकम् ३३
- विरूपवेषावयवव्यापारं विकटं मत्म्
- उपेतं करणैरल्पैरञ्चिताद्यैर्लघु स्मृतम् ३४
- नाटकस्थितवाक्यार्थपदार्थाभिनयात्मकम्
- तदाद्यभरतेनोक्तं रसभावसमन्वितम् ३५
- नाट्यं तन्नाटकेष्वेवोपयुक्तं तद्गतानतः
- विहाय त्रीनभिनयानाङ्गिकोऽत्राभिधीयते ३६
- तस्य शाखाऽङ्कुरो नृत्तं प्रधानं त्रितयं मतम्
- तत्र शाखेति विख्याता विचित्रा करवर्तना ३७
- अङ्कुरो भूतवाक्यार्थमुपजीव्य प्रवर्तिता
- वर्तना सा भवेत्सूची भाविवाक्योपजीवनात् ३८
- करणैरङ्गहारैश्च साधितं नृत्तमुच्यते
- नात्रोपयोगिनौ सूच्यङ्गुरावुक्तौ प्रसङ्गतः ३९
- अङ्गान्यत्र शिरो हस्तौ वक्षः पार्श्वे कटीतटम्
- पादाविति षडुक्तानि स्कन्धावप्यपरे जगुः ४०
- प्रत्यङ्गानि त्विह ग्रीवा बाहू पृष्ठं तथोदरम्
- ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ
- जानुनी भूषणानीति त्रयमभ्यधिकं जगुः ४१
- दृष्टिभ्रूपुटताराश्च कपोलौ नासिकानिलः
- अधरो दशना जिह्वा चिबुकं वदनं तथा ४२
- उपाङ्गानि द्वादशेति शिरस्यङ्गान्तरेषु तु
- पार्ष्णिगुल्फौ तथाऽङ्गुल्यं करयोः पादयोस्तले ४३
- मुखरागश्च करयोः प्रचाराः करणानि च
- कर्माणि पाणिक्षेत्राणि करणानि द्विधा ततः ४४
- शुद्धान्युत्प्लुतिपूर्वाणि चाङ्गहाराः सरेचकाः ४५
- चार्यः शुद्धाश्च देशीस्थाः स्थानकान्यथ वृत्तयः
- न्यायाः सप्रविचाराश्च मण्डलान्यखिलान्यपि ४६
- लास्याङ्गानि ततो रेखा श्रमः पात्रस्य लक्षणम्
- गुणदोषा मण्डनं च तस्योपाध्यायलक्षणम् ४७
- संप्रदायो गुणा दोषास्तस्य शुद्धा च पद्धतिः
- गौण्डल्याश्च विधिः सम्यग्लक्ष्म पेरणिनस्ततः ४८
- तत्पद्धतिरथाऽऽचार्यो नटनर्तकलक्षणे
- वैतालिकश्चारणश्च कोलाटिकसभासदः ४९
- सभापतिः सभायाश्च निवेशो रसलक्षणम्
- भावलक्षणमित्यस्मिन्नध्याये ब्रूमहे क्रमात् ५०
- धुतं विधुतमाधूतमवधूतं च कम्पितम्
- आकम्पितोद्वाहिते च परिवाहितमञ्चितम् ५१
- निहञ्चितं परावृत्तमुत्क्षिप्ताधोमुखे तथा
- लोलितं चेति विज्ञेयं चतुर्दशविधं शिरः ५२
- तिर्यग्नतोन्नतं स्कन्धानतमारात्रिकं समम्
- पार्श्वाभिह्मुखमित्यन्यान्भेदान्पञ्चापरे जगुः ५३
- पर्यायेण शनैस्तिर्यग्गतमुक्तं धुतं शिरः
- शून्यस्थान्स्थितस्यैव पार्श्वदेशावलोकने ५४
- अनाश्वासे विस्मये च विषादेऽनीप्सिते तथा
- प्रतिषेधे च तस्योक्तः प्रयोगो भरतादिभिः ५५
- इति धुतम्
- द्रुतगत्या तदेव स्याद्विधुतं तत्प्रयुज्यते
- शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ५६
- इति विधुतम्
- आधूतं तु सकृत्तिर्यगूर्ध्वं नीतं शिरो मतम्
- गर्वेण स्वाङ्गवीक्षायां पार्श्वस्थोर्ध्वनिरीक्षणे
- शक्तोऽस्मीत्यभिमाने च प्रयोगस्तस्य कीर्तितः ५७
- इत्याधूतम्
- यदधः सकृदानीतमवधूतं तदुच्यते
- स्थित्याऽर्धदेशनिर्देशे संज्ञावाहनयोरपि
- आलापे च प्रयोक्तव्यमिदमाहुर्मनीषिणः ५८
- इत्यवधूतम्
- बहुशो द्रुतमूर्ध्वाधःकम्पनात्कम्पितं शिरः
- ज्ञानेऽभ्युपगमे रोषे वितर्के तर्जने तथा ५९
- त्वरितप्रश्नवाक्ये च प्रयोक्तव्यमिदं शिरः
- इति कम्पितम्
- आकम्पितं तदेव स्याद्द्विः प्रयुक्तं शनैर्यदि ६०
- एतत्पौरस्त्यनिर्देशे प्रश्ने संज्ञोपदेशयोः
- आवाहने स्वचित्तस्थकथने च प्रयुज्यते ६१
- इत्याकम्पितम्
- सकृदूर्ध्वं शिरो नीतमुद्वाहितमुदीरितम्
- शक्तोऽहमिह कार्येऽस्मीत्यभिमाने प्रयुज्यते ६२
- इत्युद्वाहितम्
- परिमण्डलिताकारभ्रामितं परिवाहितम्
- लज्जाभरोद्भवे माने वल्लभानुकृतौ तथा ६३
- विस्मये च स्मिते हर्षामर्षयोरनुमोदने
- विचारे च विचारज्ञाः कार्यमाहुरिदं शिरः ६४
- इति परिवाहितम्
- शिरः स्यादञ्चितं किंचित्पार्श्वतो नतकंधरम्
- रुक्चिन्तामोहमूर्छासु तत्कार्यं हनुधारणे ६५
- इत्यञ्चितम्
- उत्क्षिप्तबाहुशिखरं मग्नग्रीवं निहञ्चितम्
- विलासे ललिते गर्वे विव्वोके किलकिञ्चिते ६६
- मोट्टायिते कुट्टमिते माने स्तम्भे च तद्भवेत्
- विलासो गमनादि स्याच्चेष्टाऽऽश्लिष्टाङ्गया कृता ६७
- कान्यायाः सुकुमाराङ्गोपाङ्गत्वं ललितं विदुः
- विव्वोकस्त्विष्टलाभेन जाताद्गर्वादनादरः ६८
- हर्षाद्रोदनहासादि प्रोच्यते किलकिञ्चितम्
- मोट्टायितं प्रियकथादृष्ट्यादौ तन्मयात्मता ६९
- केशादिग्रहजे हर्षे दुःखिवद्भवनं तु यत्
- स्यात्तत्कुट्टमितं मानो रोषः प्रणयसंभवः ७०
- स्यात्तु निष्क्रियता स्तम्भो नवोढाप्रियसंगमे ७१
- इति निहञ्चितम्
- पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम्
- तत्कार्यं कोपलज्जादिकृते वक्त्रापसारणे
- परावृत्तानुकरणे पृष्ठतः प्रेक्षणे तथा ७२
- ऊर्ध्ववक्त्रं शिरो ज्ञेयमुत्क्षिप्तं तत्प्रयुज्यते
- दर्शने तुङ्गवस्तूनां चन्द्रादिव्योमगामिनाम् ७३
- इत्युत्क्षिप्तम्
- लज्जादुःखप्रणामेषु स्यादन्वर्थमधोमुखम् ७४
- इत्यधोमुखम्
- शिरः स्याल्लोलितं सर्वदिक्कैः शिथिललोचनैः
- निद्रागदग्रहावेशमदमूर्छासु तन्मतम् ७५
- इति लोलितम्
- तिर्यङ्नतोन्नतिं प्राप्तं शिरस्तिर्यङ्नतोन्नतम्
- विव्वोकादिषु कान्तानां तत्प्रयोगं प्रचक्षते ७६
- इति तिर्यङ्नतोन्नतम्
- स्कन्धानतं तदाख्यातं स्कन्धे यन्निहितं शिरः
- तन्निद्रामदमूर्छासु चिन्तायां च प्रयुज्यते ७७
- इति स्कन्धानतम्
- स्कन्धौ तु किंचिदाश्लिष्य भ्रान्तमारात्रिकं मतम्
- विस्मये दृश्यते तच्च पराभिप्रायवेदने ७८
- इत्यारात्रिकम्
- स्वाभाविकं समं शीर्षं स्वभावाभिनये मतम्
- इति समम्
- पार्श्वाभिमुखमन्वर्थं पार्श्वस्थस्यावलोकने ७९
- इति पार्श्वाभिमुखम्
- इति पञ्च शिरःप्रकाराः
- पताकस्त्रिपताकोऽर्धचन्द्राख्यः कर्तरीमुखः
- अरालमुष्टिशिखरकपित्थखटकामुखाः ८०
- शुकतुण्डश्च काङ्गूलः पद्मकोशोऽलपल्लवः
- सूचीमुखः सर्पशिराश्चतुरो मृगशीर्षकः ८१
- हंसास्यो हंसपक्षश्च भ्रमरो मुकुलस्तथा
- ऊर्णनाभश्च संदंशस्ताम्रचूडोऽपरः करः ८२
- असंयुता मता हस्ताश्चतुर्विंशतिरित्यमी
- अभिनेयवशादेषां संयुतत्वमपीष्यते ८३
- अञ्जलिश्च कपोताख्यः कर्कटः स्वस्तिकस्तथा ८४
- दोलपुष्पपुटोत्सङ्गखटकावर्धमानकाः
- गजदन्तश्चावहित्थो निषधो मकरस्तथा ८५
- वर्धमानश्चेति हस्ताः संयुताः स्युस्त्रयोदश
- एतेऽभिनयहस्ताः स्युः सप्तत्रिंशन्मुनेर्मताः ८६
- चतुरस्रावथोद्वृत्तौ हस्तौ तलमुखाभिधौ
- स्वस्तिकौ विप्रकीर्णाख्यावरालखटकामुखौ ८७
- आविद्धवक्त्रौ सूच्यास्यौ रेचितावर्धरेचितौ
- नितम्बौ पल्लवौ केशबन्धावुत्तानवञ्चितौ
- नितम्बौ पल्लवौ केशबन्धावुत्तानवञ्चितौ ८८
- लताख्यौ करिहस्तश्च पक्षवञ्चितकाभिधौ
- पक्षप्रद्योतकोदण्डपक्षौ गरुडपक्षकौ ८९
- ऊर्ध्वमण्डलिनौ हस्तौ पार्श्वमण्डलिनावपि
- उरोमण्डलिनौ स्यातामुरःपार्श्वार्धमण्डलौ ९०
- मुष्तिकस्वस्तिकावन्यौ नलिनीपद्मकोशकौ
- अलपद्मावुल्बणौ च वलितौ ललिताविति ९१
- नृत्तहस्ता मतास्त्रिंशन्नृत्तमात्रोपयोगिनः
- एतानभिनयेऽप्याहुः शास्त्रतः संप्रदायतः ९२
- लताख्यौ हि मुनिर्वक्ति नृत्ताभिनयगोचरौ
- सूच्यन्तेऽन्ये साहचर्यात्तेनाभिनयगोचराः ९३
- युक्तितः संप्रदायाच्च लोकतोऽत्र विशेषधीः
- यथा हि करिहस्तेन हस्ती लोकेऽभिनीयते ९४
- भट्टाभिनवगुप्ताद्यैरिदमभ्युपगम्यते
- सर्वे च मिलिताः सन्तः सप्तषष्टिरिमे कराः ९५
- चतुःषष्टित्वमेतेषां नयुक्त्यागमगोचरः
- चतुःषष्टित्वमेवं वा तेषां सूरिभिरूह्यताम् ९६
- कर्तव्यौ स्वस्तिकौ हस्तौ विप्रकीर्णविशेषणौ
- करौ हि स्वस्तिकीभूय विच्युतौ विप्रकीर्णकौ ९७
- स्वतन्त्रयोरतो नास्ति प्रयोगो विप्रकीर्णयोः
- उरोमण्डलिनावेवं पार्श्वमण्डलिनोरिह ९८
- विशेषणे चोल्बणयोः कर्तव्यावलपल्लवौ
- विशेषणविशेष्ये च न स्यातां भिन्नगामिनी ९९
- नीलमुत्पलमित्यत्र न हीष्टं पङ्कजद्वयम्
- प्रसिद्धेरुपपत्त्यर्थं युक्तिरेषा मयोदिता १००
- आचार्याणां तु सर्वेषां पृथगुद्देशलक्षणे
- वदतां स्वस्तिकाद्येषु न विशेषणता मता १०१
- निकुञ्चकमयुक्तेषु करं द्विशिखरं पुनः
- युक्तेषु नृत्तहस्तेषु त्वधिकौ वरदाभयौ १०२
- ब्रुवन्तः केचिदाचार्या हस्तसप्ततिमूचिरे
- तेषामीषद्विकारेऽपि विनियोगेष्वनन्यता १०३
- तर्जनीमूलसंलग्नः कुञ्चिताङ्गुष्ठको भवेत्
- पताकः संहताकारः प्रसारिततलाङ्गुलिः १०४
- एष स्पर्शे चपेटे च पताकातालिकादिषु
- ज्वालासूर्ध्वगतास्वस्याङ्गुल्यः प्रविरलाश्चलाः १०५
- धारास्वधोगताः पक्षिपक्षे त्वस्य कटिस्थिते
- ऊर्ध्वं गच्छन्नुच्छ्रितेषु पुष्करप्रहतौ त्वधः १०६
- ऊर्ध्वं गच्छन्कटिक्षेत्रादुत्क्षेपाभिनये करः
- आभिमुख्ये मुखक्षेत्रमागच्छन्निजपार्श्वतः १०७
- स्वपार्श्वे कम्पमानस्तु प्रतिषेधे भवत्यसौ
- शीघ्रं घर्षन्नधिष्ठाय पताकं क्षालने परम् १०८
- पताकं तु शनैर्घर्षन्मर्दने मार्जने तथा
- उत्पाटने धारणे च शिलादिस्थूलवस्तुनः १०९
- उचितौ विच्युतौ कार्यावेतावन्योन्यसंमुखौ
- अधोगतोच्छ्रितचलाङ्गुलिर्वायूर्मिवेगयोः ११०
- इति पताकः
- स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः
- दध्यादिमङ्गलद्रव्यस्पर्शादौ स विधीयते १११
- पराङ्मुखः स्यादाह्वाने लग्नद्व्यङ्गुलिकुञ्चनात्
- बहिःक्षिप्ताङ्गुलिद्वंद्वोऽधस्तलोऽनादरोज्झिते ११२
- नमस्कारे त्वसौ कार्यः शिरस्थः पार्श्वतस्तलः
- उत्तानिताङ्गुलिद्वंद्वो वदनोन्नामने मतः ११३
- संदेहे दधदङ्गुल्यौ क्रमेणैव नतोन्नते
- अधोमुखः शिरःप्रान्ते भ्रमन्नुष्णीषधारणे ११४
- तादृगेव किरीटस्य धृतौ मूर्धोर्ध्वदेशगः
- अनिष्टे गन्धवाग्घोषे नासास्यश्रोत्रसंवृतिम् ११५
- अङ्गुलीभ्यां क्रमात्कुर्वन्पक्षिस्रोतोनिलेषु तु
- क्षुद्रेषूर्ध्वमधस्तिर्यक्क्रमाद्गच्छन्दधत्तथा ११६
- अधोमुखचलाङ्गुल्यौ कटिक्षेत्रगतः करः
- अस्रे तन्मार्जने च स्यादधो यान्तीमनामिकाम् ११७
- नेत्रक्षेत्रगतां बिभ्रत्तिकलके तु ललाटगाम्
- अलकस्यापनयने दधत्तामलकान्विताम् ११८
- इति त्रिपताकः
- एकतोऽङ्गुलिसंघाते यत्राङ्गुष्ठे स्थितेऽन्यतः
- चन्द्रलेखाकृतिर्भाति सोऽर्धचन्द्रोऽभिधीयते ११९
- उपर्युत्तानितोऽर्धेन्दावूर्ध्वगो बालपादपे
- पराङ्मुखस्तु खेदे स्यात्कपोलफलकं दधत्
- प्रयोक्तव्यः कृशे मध्ये बलान्निर्वासनादिषु १२०
- इत्यर्धचन्द्रः
- अश्लिष्टमध्यमा पृष्ठे संस्थिता तर्जनी यदा १२१
- त्रिपताकस्य हस्तस्य तदा स्यात्कर्तरीमुखः
- अलक्तकादिना पादरञ्जने पतने पुनः १२२
- मध्यमां तर्जनीस्थाने पुनस्तत्रैव तर्जनीम्
- दधानोऽधोगतोऽथाग्रस्थोत्ताने लेख्यवाचने १२३
- इति कर्तरीमुखः
- तर्जन्यादिष्वङ्गुलीषु प्राच्याः प्राच्याः परा परा
- दूरस्थोच्चा मनाग्वक्रा धनुर्वक्रा तु तर्जनी १२४
- अङ्गुष्ठः कुञ्चितो यत्र तमरालं प्रचक्षते
- आशीर्वादादिषु प्रोक्तः स पुंसां हृदयस्थितः १२५
- अथ स्त्रीणां केशबन्धे केशानां च विकीर्णने
- द्विस्त्रिः कार्योऽन्यपार्श्वात्तु स्वपार्श्वे वर्तुलभ्रमः १२६
- आव्रजञ्जनसंघे स्यादाह्वाने पतदङ्गुलिः
- विवाहे त्वङ्गुलाग्रस्थस्वस्तिकाकारयोजितम् १२७
- प्रदक्षिणं करद्वंद्वं स्याद्धमन्केवलः पुनः
- प्रदक्षिणं भ्रमत्कार्यो देवतानां प्रदक्षिणे १२८
- कस्त्वं कोऽहं क्व संबन्ध इत्यसंबद्धभाषणे
- बहिः पुनः पुनः क्षिप्ताङ्गुलिर्भालस्थितः पुनः
- भालस्वेदापनयने त्रिपताकोदितेषु च १२९
- इत्यरालः
- तलमध्यस्थितैर्लग्नैरङ्गुल्यग्रैरगोपितैः
- निष्पीड्य मध्यमां तिष्ठत्यङ्गुष्ठो मुष्टिरिष्यते १३०
- कुन्तनिस्त्रिंशदण्डादिग्रहे विविधयोधने
- धावने प्राङ्मुखाङ्गुष्ठो मल्लयुद्धे करद्वयम् १३१
- इति मुष्टिः
- मुष्टेरूर्ध्वकृतोऽङ्गुष्ठः शिखरः संप्रयुज्यते १३२
- शक्तितोमरयोर्मोक्षे धनुर्भल्लाङ्गुशग्रहे
- अलकोत्पीडने मुष्टिः कार्यः सोऽप्यस्य लोकतः १३३
- इति शिखरः
- अङ्गुष्ठाग्रेण लग्नाग्रा तर्जनी शिखरस्य चेत्
- कपित्थः स्यात्तदा कार्यो धारणे कुन्तवज्रयोः १३४
- चक्रचापगदादेश्च शराकर्षादिकर्मणि
- अन्योन्यकार्यविषयौ कपित्थशिखरौ क्वचित् १३५
- इति कपित्थः
- अनामिकाकनीयस्यावुत्क्षिप्ते कुटिलीकृते १३६
- विरले चेत्कपित्थस्य तदा स्यात्खटकामुखः
- उत्तानस्तुरगादेः स्याद्वल्गाचामरधारणे १३७
- कुसुमावचये मुक्तास्रग्दामधरणे तथा
- शरमन्थाकर्षणे च संमुखो दर्पणग्रहे १३८
- कस्तूरिकादिवस्तूनां पेषणेऽधस्तलौ करौ
- ताम्बूलवीटिकावृन्तच्छेदनादौ च स स्मृतः १३९
- इति खटकामुखः
- अरालस्य यदाऽत्यन्तवक्रे तर्जन्यनामिके
- शुकतुण्डस्तदा स स्यात्प्रेमकोपेन वर्षया
- न त्वं नाहं न मे कृत्यं त्वयेति वचने तथा १४०
- द्यूताक्षपातनादौ स्यात्सावज्ञे तु विसर्जने
- आह्वाने च बहिश्चान्तः क्रमात्क्षिप्ताङ्गुलिर्भवेत् १४१
- इति शुकतुण्डः
- काङ्गूलेऽनामिका वक्रा भवेदूर्ध्वा कनीयसी
- ऊर्ध्वास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः १४२
- फलेऽल्पे च मिते ग्रासे स्याद्बिडालपदादिषु
- चिबुकग्रहणे चैव बालकानां विधीयते १४३
- इति काङ्गूलः
- अङ्गुष्ठाङ्गुलयो यस्मिन्नलग्नाग्रा धनुर्नताः
- विरलाः पद्मकोशोऽसौ कार्यो देवार्चने बलौ १४४
- द्विस्त्रिर्वा विप्रकीर्णाग्रः पुष्पाणां प्रकरे करः
- फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः १४५
- इति पद्मकोशः
- व्यावर्तिताख्यं करणं कृत्वैव समवस्थिताः
- यस्याङ्गुल्यः करतले पार्श्वगाः सोऽलपल्लवः १४६
- अलल्पद्मः स एव स्यादङ्गुलीनां च केचन
- अस्य व्यावर्तितस्थाने परिवर्तितमूचिरे १४७
- कस्य त्वमिति नास्तीति वाक्ययोः प्रतिषेधने
- तुच्छाद्युक्तानृतत्वोक्तिष्वेव स्त्रीभिः प्रयुज्यते १४८
- इत्यलपल्लवः
- ऊर्ध्वं प्रसारिता यत्र खटकामुखतर्जनी
- हस्तः सूचीमुखः स स्यादभिनेयमिहोच्यते १४९
- शस्त्रे चक्राभिधे कुम्भकारोपकरणे तथा
- रथाङ्गे जनसंघाते भ्रमन्ती तर्जनी भवेत् १५०
- ऊर्ध्ववक्त्राऽधोमुखी च निजपार्श्वगता तथा
- पार्श्वान्तरान्निजं पार्श्वमायान्ती च क्रमाद्भवेत् १५१
- पताकायां भवेदूर्ध्वा साधुवादे च दोलिता
- एकत्वे तर्जनी चोर्ध्वा नासास्था श्वासवीक्षणे १५२
- अधस्तले पार्श्वयुक्ते संयुक्ते विरहे पुनः
- वियुक्ते च विधातव्ये शार्ङ्गदेवेन कीर्तिते १५३
- इति सूचीमुखः
- पताको निम्नमध्यो यः स तु सर्पशिराः करः
- देवेभ्यस्तोयदानेऽसावुत्तानोऽधोमुखः पुनः १५४
- भुजंगमगतौ स स्यादास्फाले करिकुम्भयोः
- भुजास्फोटे च मल्लानां नियुद्धादिषु कीर्तितः १५५
- इति सर्पशिराः
- अस्याङ्गुष्ठो मध्यमाया मध्यपर्वोदरं श्रितः
- ऊर्ध्वा कनीयसी यत्र चतुरं तं करं विदुः १५६
- अन्ये पताकाङ्गुष्ठस्य मध्यमामूलसंस्थितिम्
- ईषच्च पृष्ठतो यातां कनिष्ठां चतुरे जगुः १५७
- नये वदनदेशस्थो युतौ द्वौ मणिबन्धयोः
- विनयेऽथ विचारे स्यात्पार्श्वगोऽथ हृदि स्थितः १५८
- ऊहापोहे च लीलायामुद्वेष्टितयुतः करः
- कैतवेऽक्षप्रेरणे च भवेदूर्ध्वतलः समे १५९
- अङ्गुष्ठमध्यमान्योन्यमर्दनेन तु मार्दवे
- चातुर्यवचने त्वेतौ संयुतौ चतुरोदितौ १६०
- इति चतुरः
- सर्पशीर्षकरस्योर्ध्वे यदाऽङ्गुष्ठकनिष्ठिके
- मृगशीर्षस्तदा हस्तः स त्वधोवदनो भवेत् १६१
- अद्योहसांप्रतार्थेषूत्तानोद्यूताक्षपातने
- गण्डादिक्षेत्रसंस्थस्तु गण्डादिस्वेदमार्जने १६२
- इति मृगशीर्षः
- लग्नास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः
- शेषे यत्रोर्ध्वविरले हंसास्यः सोऽभिधीयते १६३
- अयं मृदुनि निःसारे श्लक्ष्णेऽल्पे शिथिले लघौ
- मर्दितं मथितं क्षिप्तं दधदग्रं विधूनितम्
- औचित्याच्युतयुक्तं तु कुसुमावचयादिषु १६४
- इति हंसवक्त्रः
- यदि किंचिन्नमन्मूलं तर्जन्याद्यङ्गुलित्रयम्
- पताकस्य तदा हस्तं हंसपक्षं प्रचक्षते १६५
- अयमाचमने कार्यश्चन्दनाद्यनुलेपने
- हनुदेशगतस्तु स्याद्दुःखजे हनुधारणे १६६
- मण्डलीकृतबाहू तौ महास्तम्भप्रदर्शने
- आलिङ्गने च प्रत्यक्षे परोक्षे स्वस्तिकीकृतौ १६७
- रोमाञ्चाद्यनुभावैस्तु रसेष्वेष यथारसम्
- अनुभावा रसवशात्कार्या हस्तान्तरेष्वपि १६८
- इति हंसपक्षः
- अङ्गुष्ठमध्यमाङ्गुल्यौ श्लिष्टाग्रे तर्जनी मता
- यत्रोर्ध्वविरले शेषे स करो भ्रमरो भवेत् १६९
- ग्रहणे दीर्घनालानां पुष्पाणामयमिष्यते
- कर्णपूरे तालपत्रे कण्टकोद्धरणादिषु १७०
- इति भ्रमरः
- यत्राङ्गुष्ठाग्रलग्नाश्च संहताङ्गुलयोऽखिलाः
- ऊर्ध्वाश्च मुकुलः स स्यात्पद्मादिमुकुलाकृतौ १७१
- बलिकर्मणि देवानां पूजने भोजनादिषु
- मुहुर्विकास्य प्रकृतिं नीतो दाने त्वरान्विते १७२
- मुखचुम्बे तु कान्तानां संनिधौ विटचुम्बने
- कुचकक्षादिदेशस्थः स्यादाच्छुरितके करः १७३
- यदाऽङ्गुलीपञ्चकेन सशब्दं नखलेखनम्
- कुचादौ कामसूत्रज्ञास्तदाऽऽच्छुरितकं विदुः १७४
- इति मुकुलः
- पद्मकोशस्य यत्र स्युरङ्गुल्ल्यः पञ्च कुञ्चिताः
- ऊर्णनाभः स चौर्येण ग्रहे केशग्रहादिषु १७५
- शिरःकण्डूयने कार्यश्चिबुकक्षेत्रगौ तु तौ
- कार्यौ सखस्तिकौ सिंहव्याघ्रादिनखरायुधे १७६
- इत्यूर्णनाभः
- अरालाङ्गुष्ठतर्जन्यौ लग्नाग्रे निम्नतां गतः
- किंचिच्चेत्तलमध्यः स्यात्तदा संदंश उच्यते १७७
- स त्रेधा स्यादग्रजश्च मुखजः पार्श्वजः क्रमात्
- प्राङ्मुखः संमुखः पार्श्वमुख इत्यस्य लक्षणम् १७८
- कण्टकोद्धरणे सूक्ष्मकुसुमावचयादिषु
- प्रयोक्तव्योऽग्रसंदंशो धिगित्युक्तौ तु रोषतः १७९
- वृन्तात्पुष्पोद्धृतौ वर्तिशलाकाञ्जनपूरणे
- कर्तव्यो मुखसंदंशः संदंशः पार्श्वजः पुनः १८०
- गुणनिक्षेपणे मुक्ताफलानां वेधने तथा
- निरूपणे च तत्त्वस्य सद्वितीयोऽथ भाषणे १८१
- सरोषे वामहस्तेन किंचिदग्रविवर्तनात्
- अलक्तकादिनिष्पेषेऽप्येष श्रीशार्ङ्गिणोदितः १८२
- इति संदंशः
- भ्रमरस्य तलस्थे चेत्कनिष्ठोपकनिष्ठिके
- ताम्रचूडस्तदा हस्तो बालाह्वानेऽथ भर्त्सने १८३
- गीतादितालमाने च शैघ्र्यविश्वासनादिषु
- सशब्दच्युतसंदंशः कार्योऽसौ छोटिकोच्यते १८४
- प्रसारितकनिष्ठस्य मुष्टेर्यत्ताम्रचूडताम्
- विनियोगं सहस्रादिसंख्यानिर्देशनेऽस्य च
- केऽप्यूचुस्तं तु निःशङ्को नैच्छल्लक्ष्येष्वदर्शनात् १८५
- इति ताम्रचूडः
- पताकहस्ततलयोः संश्लेषादञ्जलिर्मतः १८६
- देवतागुरुविप्राणां नमस्कारेष्वयं क्रमात्
- कार्यः शिरोमुखोरस्थो नृभिः स्त्रीभिर्यथेष्टतः १८७
- इत्यञ्जलिः
- कपोतोऽसौ यत्र श्लिष्टमूलाग्रपार्श्वकौ
- अस्य कूर्मक इत्यन्यां संज्ञां हस्तविदो विदुः १८८
- प्रणामे गुरुसंभाषे विनयाङ्गीकृतौ त्वयम्
- प्राङ्मुखः सशिरःकम्पः स्त्रीकापुरुषयोर्भवेत् १८९
- इति कपोतः
- अन्योन्यस्यान्तरैर्यत्राङ्मुल्यो निःसृत्य हस्तयोः
- अन्तर्बहिश्च दृश्यन्ते कर्कटः सोऽभिधीयते १९०
- अन्तःस्थिताङ्गुलिः कार्यश्चिन्तायामथ जृम्भणे
- ऊर्ध्वं पार्श्वेऽग्रतो वा स्यात्पराङ्मुखतलाङ्गुलिः १९१
- अङ्गानां मोटने चाथ बृहद्देहे स्वसंमुखः
- जठरक्षेत्रगः पृष्ठे त्वङ्गुलीनां हनुं दधत् १९२
- खेदे च संकुचत्किंचिदन्योन्याभिमुखाङ्गुलिः
- शङ्खस्य धारणे सोऽयं जृम्भादौ बहिरङ्गुलिः १९३
- इति कर्कटः
- एकस्य मणिबन्धेऽन्यमणिबन्धस्थितौ करौ
- देहस्य वामपार्श्वस्थावुत्तानौ स्वस्तिको मतः १९४
- अत्रारालौ पताकौ वाऽभिनये वशगौ करौ
- विच्युतः स्वस्तिकः स्त्रीभिरेवमस्तीति भाषने
- गगने सागरादौ च विस्तीर्णे संप्रयुज्यते १९५
- इति स्वस्तिकः
- लम्बमानौ पताकौ तु श्लथांसौ शिथिलाङ्गुली १९६
- दोलो भवेदसौ व्याधौ विषादे मदमूर्छयोः
- संभ्रमादौ यथायोगं स्तब्धो वा पार्श्वदोलितः १९७
- इति दोलः
- सर्पशीर्षो मिलद्बाह्यपार्श्वः पुष्पपुटो भवेत्
- धान्यपुष्पफलादीनामपां च ग्रहणेऽर्पणे
- कार्यः पुष्पाञ्जलौ चैष प्रोक्तः सोढलसूनुना १९८
- इति पुष्पपुटः ।
- अन्योन्यस्कन्धदेशस्थावरालौ स्वस्तिकीकृतौ
- स्वसंमुखौ च विततावुत्सङ्गो गीयते करः १९९
- देहदक्षिणभागस्थं स्वस्तिकं केचिदूचिरे
- अधस्तलत्वमप्यन्येऽन्योन्यकक्षानुवेशिनीः २००
- अङ्गुलीः करयोः पृष्ठद्वयं पार्श्वमुखं विदुः
- करावरालयोः स्थाने सर्पशीर्षावितीतरे २०१
- अतिप्रयत्नसाध्येऽर्थे शीतालिङ्गनयोरपि
- प्रसादनानङ्गीकारे लज्जादौ चैव योषिताम् २०२
- इत्युत्सङ्गः
- खटकामुखयोः पाण्योः स्वस्तिके मणिबन्धने
- अन्योन्याभिमुखत्वे वा खटकावर्धमानकः २०३
- तामूलग्रहणादौ स्यात्कामिनां प्रथमे मते
- पुष्पाणां ग्रन्थने सत्यभाषणादौ मतान्तरे २०४
- स्कन्धकूर्परयोर्मध्यमन्योन्यस्य यदा करौ
- दधाते सर्पशिरसौ गजदन्तस्तदोदितः २०५
- आकुञ्चत्कूर्परौ स्कन्धदेशस्थौ सर्पशीर्षकौ
- अन्योन्याभिमुखौ लक्ष्म गजदन्ते जगुः परे २०६
- एष शैलशिलोत्पाटे गतागतयुतः करः २०७
- विवाहस्थाननयने स्याद्वधूवरयोरयम्
- स्तम्भग्रहेऽतिभारे च श्रीसोढलसुतोदितः २०८
- इति गजदन्तः
- वक्षसोऽभिमुखौ सन्तौ शुकतुण्डावधोमुखौ
- कृत्वा नीतावधो यत्र सोऽवहित्थोऽभिधीयते
- दौर्बल्यौत्सुक्यनिःश्वासगात्रकार्श्येष्वसौ भवेत् २०९
- इत्यवहित्थः
- मुकुलस्य कपित्थेन वेष्टनान्निषधो भवेत् २१०
- शास्त्रार्थसम्यग्ग्रहणे स स्यान्निष्पेषणे तथा
- सम्यक्च स्थापिते तथ्यमिदमित्यपि भाषणे २११
- प्रथमं गजदन्तं तु निषधं केचिदूचिरे
- स शैर्यधैर्यगाम्भीर्यगर्वादिषु मतस्तथा २१२
- इति निषधः
- उपर्युपरि विन्यस्तौ यत्रान्योन्यमधोमुखौ
- ऊर्ध्वाङ्गुष्ठौ पताकाख्यौ करौ स मकरः करः २१३
- स नक्रमकराडीनां क्रव्यादद्वीपिनामपि
- सिंहादीनामभिनये नदीपूरस्य चेष्यते २१४
- इति मकरः
- हंसपक्षौ स्वस्तिकत्वं प्राप्तौ यदि पराङ्मुखौ २१५
- वर्धमानस्तदा हस्तः कपाटोद्घाटने भवेत्
- विच्युतः स्वस्तिकस्तद्वद्वक्षःस्थलविदारणे २१६
- सर्पशीर्षो हंसपक्षस्थानेऽस्मिन्नपरे जगुः
- अपरेऽभ्युपजग्मुस्तं स्वस्तिकेन विना कृतम् २१७
- इति वर्धमानः
- पुरोमुखौ समस्कन्धकूर्परौ खटकामुखौ २१८
- स्थितौ वक्षःपुरोदेशे वक्षसोऽष्टाङ्गुलान्तरे
- चतुरस्राविति प्रोक्तौ स्रगाद्याकर्षणे करौ २१९
- इति चतुरस्रौ
- चतुरस्रीकृत्य पाण्योः कृतयोर्हंसपक्षयोः
- उत्तानोऽधो व्रजत्युएको वक्षोऽन्यो यात्यधोमुखः २२०
- यदा स्यातां तदोद्वृत्तौ तालवृन्तनिरूपणे
- तावेव तालवृन्ताख्याववदन्नृत्तकोविदाः २२१
- प्राङ्मुखौ हंसपक्षाख्यौ व्यावृत्तपरिवर्तितौ
- जयशब्दे प्रयोक्तव्यावुद्वृत्तौ मेनिरे परे २२२
- इत्युद्वृत्तौ
- भूत्वोद्वृत्तौ स्थितौ त्र्यस्रौ हंसपक्षौ स्वपार्श्वयोः
- जातौ मिथः संमुखस्थतलौ तलमुखौ मतौ
- बुधैरभिदधाते तौ मधुरे मर्दलध्वनौ २२३
- इति तलमुखौ
- अश्लिष्टहंसपक्षाभ्यां स्वस्तिकस्वस्तिकौ करौ २२४
- इति स्वस्तिकौ
- विप्रकीर्णौ तु तावेव सहसा स्वस्तिके च्युते
- नीचाग्रावुन्नताग्रौ वा कुचाभ्यां पुरतः स्थितौ
- पराङ्मुखौ हंसपक्षौ विप्रकीर्णौ जगुः परे २२५
- इति विप्रकीर्णौ
- पताकस्वस्तिकं कृत्वा व्यावृत्तपरिवर्तने
- ऊर्ध्वास्यौ पद्मकोशौ च व्यावृत्तपरिवर्तने २२६
- क्रमात्कृत्वा यत्र वाममुत्तानारालमाचरेत्
- खटकामुखमन्यं वाऽधोमुखं चतुरस्रतः २२७
- स्वस्तिकेनाथवा यद्वा कृत्वाऽरालौ करौ कृतौ
- खटकामुखसंज्ञौ तावरालखटकामुखौ २२८
- वणिजां सचिवादीनां वितर्केऽसौ प्रयुज्यते
- अन्ये त्वाहुरुरोग्रस्थः प्राङ्मुखः खटकामुखः २२९
- अरालः प्रोन्नताग्रोऽन्यस्तिर्यगीषत्प्रसारितः
- पार्श्वव्यत्ययतो यद्वा स्वपार्श्वे चेत्करौ स्थितौ
- तलान्तरौ तदा स्यातामरालखटकामुखौ २३०
- इत्यरालखटकामुखौ
- भुजाग्रयोः कूर्परयोरंसयोः सविलासयोः
- सतोः पताकौ व्यावृत्तिं विधाय भवतो द्रुतम्
- अधस्तलौ चेदाविद्धवक्त्रौ हस्तौ तदोदितौ २३१
- विक्षेपवलने प्राहुः प्रयोगं कृतिनस्तयोः २३२
- इत्याविद्धवक्त्रौ
- मध्यमासंगताङ्गुष्ठौ चतुरस्रप्रदेशगौ
- सर्पशीर्षौ क्रमात्तिर्यक्प्रसरन्तौ प्रदेशिनीम्
- बहिः प्रसारितां धत्तो यदा सूचीमुखौ तदा २३३
- पताकौ प्रथमं कार्यौ व्यावृत्तपरिवर्तितौ
- भ्रान्त्वा प्रसारणं चात्र विशेषं केचिदूचिरे २३४
- मध्यप्रसारिताङ्गुष्ठौ सर्पशीर्षाकृती करौ
- रेचितस्वस्तिकौ केचिदूचुः सूच्यास्यलक्षणम् २३५
- इति सूच्यास्यौ
- प्रसारितोत्तानतलावुच्येते रेचितौ करौ
- अथवा रेचितौ प्रोक्तौ हंसपक्षौ द्रुतभ्रमौ २३६
- यद्वा रेचितयोर्लक्ष्म लक्षणे मिलिते इमे
- प्रयोज्यौ तौ नृसिंहस्य दैत्यवक्षोविदारणे २३७
- इति रेचितौ
- एकेन चतुरस्रेण तौ स्यातामर्धरेचितौ २३८
- इत्यर्धरेचितौ
- उत्तानाधोमुखत्वाभ्यां क्रमेण स्कन्धदेशतः
- पताकौ यदि निष्क्रम्य नितम्बक्षेत्रवर्तिनौ
- रेचकं कुरुतो हस्तौ नितम्बावुदितौ तदा २३९
- इति नितम्बौ
- बाहू व्यावर्तितेनोर्ध्वं प्रसार्य परिवर्तितः
- स्वस्तिकाकृतितां नीतौ पताकौ पल्लवौ मतौ २४०
- शिथिलौ त्रिपताकौ तु केचिदत्र प्रचक्षते
- नतोन्नतौ पद्मकोशौ शिथिलौ मणिबन्धयोः २४१
- स्वपार्श्वयोः पुरस्ताद्वा पल्लवाववदन्परे
- पद्मकोशकरस्थाने पताकावपरे जगुः २४२
- इति पल्लवौ
- पार्श्वदेशोत्थितौ पार्श्वमस्पृशन्तौ गतौ शिरः
- नितम्बवत्केशदेशान्निष्क्रम्य च पुनः पुनः
- पृथग्गतागतौ यौ तौ केशबन्धौ करौ मतौ २४३
- इति केशबन्धौ
- कपोलांसललाटानां क्षेत्रे त्वन्यतमे स्थितौ २४४
- त्रिपताकौ करौ किंचित्तिर्यञ्चौ संमुखौ मिथः
- अंसकूर्परयोः किंचिच्चलतोरूर्ध्वतस्तलौ २४५
- क्षणं भूत्वा प्रचलितौ ज्ञेयावुत्तानवञ्चितौ
- अंसकूर्परयोः किंचित्पतनं मन्वते परे २४६
- इत्युत्तानवञ्चितौ
- पताकौ दोलितौ तिर्यक्प्रसृतौ तौ लताकरौ
- अनयोः करयोः केशबन्धयोश्च नितम्बयोः
- त्रिपताकाकृतिं केचिदाचार्याः प्रतिजानते २४७
- इति लताकरौ
- स्पृशत्करिकराकारः पार्श्वयोश्चेल्लताकरः
- उन्नतो दोलितोऽन्यस्तु कर्णस्थः खटकामुखः २४८
- त्रिपताकोऽथवा यत्र करिहस्तममुं विदुः
- नन्वन्यहस्तवत्कस्मान्नात्र द्विवचनं कृतम् २४९
- ब्रूमो यत्रैकशब्देन सजातीयावुभौ करौ
- उक्तौ तत्र द्विवचनं घटवच्चतुरस्रवत् २५०
- भिन्नशब्दौ विजातीयौ यौ वा द्विवचनं तयोः
- यथा घटपटौ स्यातामरालखटकामुखौ २५१
- करिहस्ताकृतिस्त्वेको दृश्यतेऽत्र लताकरः
- इतिकर्तव्यता त्वन्या स्यादेकवचनं ततः २५२
- न चात्र करिहस्तत्वमेकैकत्र घटत्ववत्
- न चात्रैकः करी हस्तः शब्दवाच्योऽपरः करः
- नैकशेषो न च द्वंद्वो यतो द्विवचनं भवेत् २५३
- आश्रितं चैकवचनं मुनिना सर्वदर्शिना २५४
- त्रिपताकौ कटीशीर्षे न्यस्ताग्रौ पक्षवञ्चितौ २५५
- इति पक्षवञ्चितौ
- तौ पार्श्वाभिमुखाग्रौ तु पक्षप्रद्योतकौ मतौ
- उत्तानौ केचिदन्ये तूर्ध्वाङ्गुली च पराङ्मुखौ
- हस्तौ भणन्ति शोभेते चैतौ प्राग्भ्यामनन्तरम् २५६
- इति पक्षप्रद्योतकौ
- उपवक्षस्थलं हंसपक्षे गच्छति पार्श्वतः
- सविलासोऽपरस्तिर्यक्प्रसृतश्चेल्लताकरः २५७
- क्रमादङ्गान्तरेणैवं दण्डपक्षौ तदा करौ
- हस्तप्रसारणं त्वत्र युगपन्मेनिरेऽपरे २५८
- इति दण्डपक्षौ
- अधोमुखौ कटिक्षेत्रे स्थित्वा न्यञ्चितकूर्परौ २५९
- पताकौ तिर्यगूर्ध्वं द्राग्गतौ गरुडपक्षकौ
- त्रिपताकाविमौ कैश्चिदुक्तौ न तु मुनेर्मतौ २६०
- इति गरुडपक्षकौ
- भालस्थलमुरोदेशात्प्राप्य तत्पार्श्वमागतौ
- मण्डलभ्रान्तिविततावूर्ध्वमण्डलिनौ करौ २६१
- ललाटप्राप्तिपर्यन्तमन्ये लक्ष्मानयोर्जगुः
- चक्रवर्तनिकेत्येतौ प्रसिद्धौ नृत्तवेदिनाम् २६२
- तौ पताकाकृती पार्श्वन्यस्तावन्योन्यसंमुखौआ!र्श्वमण्डलिनावुक्तावन्ये त्वाहुः स्वपार्श्वयोः २६३
- आविद्धभ्रामितभुजौ पार्श्वमण्डलिनाविति
- कक्षवर्तनिकेत्येतौ मन्वते नृत्तवेदिनः २६४
- इति पार्श्वमण्डलिनौ
- युगपत्करणे कृत्वोद्वेष्टितं चपवेष्टितम्
- यातौ स्वपार्र्श्वे वक्षस्तो भ्रान्त्या मण्डलवत्क्रमात् २६५
- वक्षोऽभिव्युत्क्रमात्प्राप्तावुरोमण्डलिनौ करौ
- अनयोर्भ्रमणं प्राहुरन्ये वक्षस्थलस्थयोः २६६
- उरोवर्तनिकात्वेन प्रसिद्धौ तद्विदामिमौ
- हंसपक्षौ परे प्राहुरूर्ध्वमण्डलिषु त्रिषु २६७
- इत्युरोमण्डलिनौ
- एकत्रोरःस्थितोत्तानेऽन्यस्मिन्पार्श्वप्रसारिते २६८
- व्यावर्तिते नालपद्मीकृत्वोरस्थो यदा करः
- स्वपार्श्वं नीयतेऽन्यस्तूद्वेष्टितक्रियया करः २६९
- तदैवारालतां प्राप्य यात्युरो मण्डलाकृतिः
- अन्योऽप्येवं कराभ्यासादुरःपार्श्वार्धमण्डलौ २७०
- इत्युरःपार्श्वार्धमण्डलौ
- एकं वर्तनयाऽरालं तथाऽन्यमलपल्लवम्
- हस्तं मुहुः क्रमात्कृत्वा क्रियते स्वस्तिकाकृती २७१
- खटकामुखहस्तौ चेन्मुष्टिकस्वस्तिकौ तदा
- कपित्थौ शिखरौ मुष्टी चाथ वा स्वस्तिकाकृती २७२
- अश्लिष्टस्वस्तिकौ सन्तुअ व्यावृत्तक्रियया करौ
- इति मुष्टिकस्वस्तिकौ
- मिथः पराङ्मुखौ कृत्वा यौ कृतौ पद्मकोशकौ २७३
- नलिनीपद्मकोशौ तावपरे त्वन्यथा जगुः
- अन्योन्यसंमुखौ सन्तौ संश्लिष्टमणिबन्धकौ २७४
- पद्मकोशौ पृथक्प्राप्तौ व्यावृत्तिपरिवर्तने
- नलिनीपद्मकोशौ स्तः केऽप्याहुः पद्मकोशयोः २७५
- व्यावृत्त्या परिवृत्त्या च जान्वन्तिकगताविमौ
- स्कन्धयोः स्तनयोर्यद्वा जानुनोर्निकटं गतौ
- विवर्तितौ पद्मकोशौ तल्लक्ष्मेत्यवदन्परे २७६
- इति नलिनीपद्मकोशौ
- उद्वेष्टितक्रियौ वक्षःक्षेत्रस्थावलपल्लवौ
- स्कन्धान्तिकमथोप्तेत्य प्रसृतावलपद्मकौ २७७
- प्रसार्य स्कन्धयोः स्कन्धाभिमुखप्रचलाङ्गुली
- वर्तितावलपद्मौ चेदुल्बणौ भणितौ तदा २७८
- इत्युल्बणौ
- कूर्परस्वस्तिकयुतौ लताख्यौ वलितौ मतौ
- मुष्टिकस्वस्तिकौ मूर्ध्नि विवृत्तौ तौ परे विदुः २७९
- अन्ये त्वाचक्षतेऽन्योन्यलग्नाग्रौ खटकामुखौ
- ऊर्ध्वगौ पृष्ठतो नम्रकूर्परौ वलितौ मतौ २८०
- इति वलितौ
- पल्लवौ शीर्षदेशस्थौ ललितौकलिता बुधैः
- चतुरस्रीमभञ्जन्तौ शिरस्थावचलौ करौ २८१
- ललितावपरे प्राहुरन्ये तु खटकःमुखौ
- शनैः प्राप्य शिरोऽन्योन्यलग्नाग्रौ ललितौ विदुः २८२
- इति ललितौ
- नृत्तहस्तौ क्रमेणापि प्रयोज्यौ सूरयो विदुः २८३
- इति त्रिंशन्नृत्तहस्ताः
- पताको मध्यमामूललग्नाङ्गुष्ठो निकुञ्चकः
- सस्वल्पाभिनये वेदाध्ययने च प्रयुज्यते २८४
- इत्ययुतहस्तः
- शिखरद्वंद्वसंयोगात्करो द्विशिखरो मतः
- शयनार्थेऽङ्गुलिस्फोटे स्त्रीणामनुनये तथा
- नास्तीत्यर्थं तु संयुज्य वियुक्तं शिखरद्वयम् २८५
- इति संयुतहस्तः
- पृथग्दक्षिणवामौ चेद्वरदाभयदौ करौ
- अरालौ कटिपार्श्वस्थौ तदोक्तौ वरदाभयौ २८६
- इति नृत्तहस्तौ
- प्रदर्शनार्थमुक्तेयं हस्तानां सप्ततिर्मया
- आनन्त्यादभिनेयानां सन्त्यनन्ताः परे कराः २८७
- लोकवृत्तानुसारात्तेऽप्यूह्यन्तामनया दिशा २८८
- नेत्रभ्रूमुखरागाद्यैरुपाङ्गैरुपबृंहिताः
- प्रत्यङ्गैश्च कराः कार्या रसभावप्रदर्शकाः २८९
- उत्तमेष्वभिनेयेषु ललाटक्षेत्रचारिणः
- वक्षःस्था मध्यमेषु स्युरधमेषु त्वधोगताः २९०
- अन्यैरुक्ता व्यवस्थेयमुत्तमाद्यभिनेतृषु २९१
- उत्तमे संनिकृष्टाः स्युर्मध्यमे मध्यसंस्थिताः
- अधमे त्वभिनेये स्युर्विप्रकृष्टचराः कराः २९२
- अल्पो हस्तप्रचारः स्यात्प्रत्यक्षे भूरिसात्त्विके
- परोक्षे प्रचुरः स स्यान्मध्यमे मध्यमो मतः २९३
- कार्याः सुव्यक्तलक्ष्माणः पात्रैरुत्तममध्यमैः
- ससौष्ठवाश्च नीचैस्तु पाणयस्तद्विलक्षणम् २९४
- विषण्णे व्याकुले भीते मूर्छिते तन्द्रयाऽन्विते
- जुगुप्साशेकसंतप्ते सुप्ते ग्लाने जशार्दिते २९५
- रोगशीतार्तनिश्चेष्टसंचितेष्वपि तापसे
- मत्तोन्मत्तप्रमत्तेषु न हस्ताभिनयो भवेत् २९६
- सूचयन्त्यान्तरं भावं ये कराः कर्कटादयः
- विषण्णादिष्वपि प्रायः प्रयोज्यास्ते सतां मताः २९७
- इति हस्तप्रकरणम्
- स्यादक्षः सममाभुग्नं निर्भुग्नं च प्रकम्पितम्
- उद्वाहितं पञधेति तेषां लक्ष्माभिदध्महे २९८
- सौष्ठवाधिष्ठितं वक्षश्चतुरस्राङ्गसंश्रयम्
- प्रकृतिस्थं समं प्राहुः स्वभावाभिनयुए च तत् २९९
- इति समम्
- निम्नं शिथिलमाभुग्नं वक्षः स्याद्गर्वलज्जयोः
- शीतहृच्छल्ययोः शोके मूर्छभीसंभ्रमेषु च
- कार्यं व्याधौ विषादे च ब्रूते शंकरकिंरह् ३००
- इत्याभुग्नम्
- निर्भुग्नं निम्नपृष्ठत्वादुन्नतं स्तब्धमग्रतः
- माने च सत्यवचने स्तम्भे विस्मयवीक्षिते
- प्रहर्षभाषणे गर्वोत्सेके चेदं प्रयुज्यते ३०१
- इति निर्भुग्नम्
- प्रकम्पितं कम्पितं स्यादूर्ध्वक्षेपैर्निरन्तरैः
- स्याद्भीहासश्रमश्वासकासहिक्कासु रोदने ३०२
- इति प्रकम्पितम्
- अकम्पं सरलोत्क्षिप्तमुद्वाहितमुदीरितम्
- दीर्घोच्छ्वासे च जृम्भायामुत्तुङ्गालोकने च तत् ३०३
- इत्युद्वाहितम्
- विवर्तितं चापसृतं प्रसारितमथो चापसृतं प्रसारितमथो नतम्
- उन्नतं चेति संचख्युः पार्श्वं पञ्चविधं बुधाः ३०४
- विवर्तनात्त्रिकस्य स्यात्परावृत्तौ विवर्तितम् ३०५
- इति विवर्तितम्
- तन्निवृत्त्या त्वपृसतं भवेत्पार्श्वविवर्तने
- इत्यपसृतम्
- प्रसारितं तूभय्तो विस्तारात्स्यान्मुदादिषु ३०६
- इति प्रसारितम्
- न्यञ्चितांसं नितम्बं तु नतं स्यादुपसर्पणे
- इति नतम्
- पार्श्वं तद्विपरीतं तून्नतं स्यादपसर्पणे ३०७
- इत्युन्नतम्
- कम्पितोद्वाहिता छिन्ना विवृता रेचिता तथा
- कटी पञ्चविधेत्युक्ता तल्लक्ष्म व्याहरेऽधुना ३०८
- द्रुतं गतागते पार्श्वे दधती कम्पिता मता
- तां कुब्जवामनादीनां गमने विनियुञ्जते ३०९
- इति कम्पिता
- शनैरुच्चलिता पार्श्वद्वयेनोद्वाहिता कटी
- स्त्रीणां लीलागतेष्वेषा पीनाङ्गानां गतावपि ३१०
- इत्युद्वाहिता
- छिन्ना तिर्यङ्मुखे पात्रे मध्यस्य वलनात्कटी
- व्यायामे संभ्रमे चैषा व्यावृत्तप्रेक्षणादिषु ३११
- इति च्छिन्ना
- पराङ्मुखेन पात्रेणाभिमुखं या विवर्तिता
- विवृत्ता सा कटी प्रोक्ता विनियोज्या विवर्तने ३१२
- इति विवृत्ता
- सर्वतो भ्रमणादुक्ता रेचिता भ्रमणे भवेत् ३१३
- इति रेचिता
- समोऽञ्चितः कुञ्चितश्च सूच्यग्रतलसंचरः
- उद्घट्टितश्चेति मुनेः षड्विधश्चरणो मतः ३१४
- त्राटितो घटितोत्सेधो घट्टितो मर्दितस्तथा
- अग्रगः पार्ष्णिगः पादः पार्श्वगश्चापरः परैः ३१५
- इति सप्तापरे प्रोक्ताः पादास्तल्लक्षणं ब्रुवे
- स्वभावेन स्थितो भूमौ समः पादोऽभिधीयते
- स्वभावाभिनये कार्यः स्थिरोऽसौ रेचके चलः ३१६
- इति समः
- भूस्थपार्ष्णिः समुत्क्षिप्ताग्रतलः प्रसृताङ्गुलिः
- अञ्चितः स भवेत्पादाहतिभ्रमणकादिषु ३१७
- इत्यञ्चितः
- कुञ्चिताङ्गुलिरुत्क्षिप्तपार्ष्णिमध्ये च कुञ्चितः
- कुञ्चितः स्यादतिक्रान्तक्रमे तुङ्गस्य च ग्रहे ३१८
- इति कुञ्चितः
- वामः स्वाभाविकोऽन्यस्तु भुव्यङ्गुष्ठाग्रसंस्थितः
- उत्क्षिप्तेतरभागॐऽसौ सूची नूपुरबन्धने ३१९
- इति सूची
- यस्योत्क्षिप्ता भवेत्पार्ष्णिरङ्गुष्ठः प्रसृतस्तथा
- अङ्गुल्यो न्यञ्चिताः स स्यात्पादोऽग्रतलसंचरः ३२०
- प्रेरणे कुट्टने स्थाने पीडने भूमिताडने
- भूस्थापसारने स स्याद्रेचके भ्रमणे मदे ३२१
- इत्यग्रतलसंचरः
- यदि पादतलाग्रेण स्थित्वा भूमौ निपात्यते
- असकृद्वा सकृत्पाष्णिर्भवेदुद्घट्टितस्तदा ३२२
- इत्युद्घट्टितः
- पार्ष्ण्या धरामवष्टभ्य तामग्रेण निहन्ति यः
- त्राटितश्चरणः स स्यात्प्रयोज्यः क्रोधगर्वयोः ३२३
- इति त्राटितः
- घ्नन्मुहुर्घटितोत्सेधोऽग्रपार्ष्णिभ्यां भुवं क्रमात्
- इति घटितोत्सेधः
- घट्टितः क्षितिघाती स्यात्पार्ष्ण्यङ्घ्रिः प्रेरणे च सः ३२४
- इति घट्टितः
- यस्तिरश्चा तलेनोर्वीं प्रमृद्गाति स मर्दितः
- इति मर्दितः
- अग्रगोऽग्रे द्रुतं सर्पन्प्रयोज्यः पङ्किलक्षितौ ३२५
- इत्यग्रगः
- पृष्ठतोऽपसरन्पार्ष्ण्या पार्ष्णिगः पाद उच्यते
- इति पार्ष्णिगः
- स्थितः पार्श्वेऽथवा पार्श्वं व्रजन्पार्श्वग इष्यते ३२६
- इति पार्श्वगः
- एकोच्चौ कर्णलग्नौ चोच्छ्रितौ स्रस्तौ च लोलितौ
- इत्युक्तौ पञ्चधा स्कन्धौ नाम्नैव व्यक्तलक्षणौ ३२७
- एकोच्चौ कथितौ स्कन्धौ मुष्टिकुन्तप्रहारयोः ३२८
- आश्लेषे शिशिरे चांसौ कर्णलग्नौ मतौ सताम्
- उच्छ्रितौ हर्षगर्वादौ स्रस्तौ दुःखे श्रमे मदे ३२९
- मूर्छायां चाथ कर्तव्यौ लोलितौ विटनर्तने
- नृत्तज्ञैर्गदितौ हास्य हुडुक्कावाद्यवादने ३३०
- इति पञ्चधा स्कन्धौ
- समा निवृत्ता वलिना रेचिता कुञ्चिताऽञ्चिता ३३१
- त्र्यस्रा नतोन्नता चेति ग्रीवा नवविधा भवेत्
- समा स्वाभाविकी ध्याने जपे कार्ये स्वभावजे ३३२
- इति समा
- ग्रीवा त्वभिमुखीभूय निवर्तेत यदा तदा
- निवृत्तेत्युच्यते सा स्यात्स्वस्थानाभिमुखादिषु ३३३
- इति निवृत्ता
- पार्श्वोन्मुखी तु वलिता ग्रीवा भङ्गे तथेक्षणे
- इति वलिता
- रेचिता विधुतभ्रान्ता वर्तुले मथने तथा ३३४
- इति रेचिता
- आकुञ्चिता कुञ्चिता स्यान्मूर्धभारे स्वगोपने
- इति कुञ्चिता
- अञ्चिता प्रसृता लोला केशाकर्षेऽथ वीक्षणे ३३५
- इत्यञ्चिता
- त्र्यस्रा पार्श्वगता खेदे पार्श्वेक्षास्कन्धभारयोः
- इति त्र्यस्रा
- नताऽवनम्राऽलंकारबन्धे कण्ठावलम्बने ३३६
- इति नता
- उन्नतोर्ध्वनता ग्रीवाऽलंकारोर्ध्वप्रदर्शने ३३७
- इत्युन्नता
- ऊर्ध्वस्थोऽधोमुखस्तिर्यगपविद्धः प्रसारितः
- अञ्चितो मण्डलगतिः स्वस्तिकोद्वेष्टितावपि ३३८
- पृष्ठानुसारीत्युदितो बाहुर्दशविधो बुधैः
- आविद्धः कुञ्चितो नम्रः सरलान्दोलितावपि ३३९
- उत्सारित इति प्राहुर्बाहून्षडपरान्परे
- शीर्षादूर्ध्वं व्रजन्बाहुरूर्ध्वस्थस्तुङ्गदर्शने ३४०
- इत्यूर्ध्वस्थः ।
- अधोमुखो महीश्लेषी
- इत्यधोमुखः ।
- तिर्यक्पार्श्वगतो भवेत् ॥
- इति तिर्यग्गतः
- बाहुमण्डलवद्गत्या वक्षःक्षेत्राद्विनिर्गतः ३४१
- अपविद्धः
- इत्यपविद्धः ।
- अथाग्रदेशमनुधावन्प्रसारितः ॥
- इति प्रसारितः
- वक्षःक्षेत्राच्छिरः प्रप्य वक्षः प्रत्यागतोऽञ्चितः ३४२
- इत्यञ्चितः
- उच्यते मण्डलगतिः सर्वतो भ्रमणाद्भुजः
- खड्गादिभ्रामणे चास्य विनियोगं प्रपेदिरे ३४३
- इति मण्डलगातिः
- स्वस्तिको लग्नयोर्बाह्वोः पार्श्वव्यत्यासतः स्थितौ
- स स्याद्भानोरुपस्थाने परिरम्भेऽभिवादने ३४४
- इति स्वस्तिकः
- निष्क्रामन्मणिबन्धस्थवर्तनामाश्रितो भुजः ३४५
- उद्वेष्टितो भवेत्
- इत्युद्वेष्टितः ।
- पृष्ठानुसारी पृष्ठतो गतः
- भवेत्तूणशराकर्षे वीटिकाग्रहणे च सः ३४६
- इति पृष्ठानुसारी
- आविद्धोऽभ्यन्तराक्षिप्तः
- इत्याविद्धः
- कुञ्चितस्तु स उच्यते
- यस्तीक्ष्णकूर्परं वक्रीकृतः खड्गादिधारणे ३४७
- प्रहारे भोजने पाने प्रोक्तो निःशङ्कसूरिणा
- इति कुञ्चितः
- ईषद्वक्रस्तु नम्रोऽसौ स्तुतौ माल्यस्य धारणे ३४८
- इति नम्रः
- सरलः पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारितः
- स्यात्पक्षानुकृतौ माने भूस्थनिर्देशने क्रमात् ३४९
- इति सरलः
- गतावान्दोलितोऽन्वर्थः
- इत्यान्दोलितः
- बाहुरुत्सारितः पुनः
- स्वप्श्वमन्यतो गच्छञ्जनतोत्सारणे भवेत् ३५०
- इत्युत्सारितः
- बाहूनां करणेनाथ समस्तव्यस्तयोजनात्
- क्रमाद्द्रुतादिवैचित्र्याज्जायन्तेऽत्र सहस्रशः
- वर्तनाश्चतुरैरूह्यास्ताः शोभाभरसंभृताः ३५१
- ते रेषामनतिक्रम्य भूरिभङ्गिभृतो भुजाः
- रेच्यन्ते यदि लक्षज्ञैश्चालकाः कीर्तितास्तदा ३५२
- ओतावत्सरिगोणीनां पदस्य मलपस्य च ३५३
- गजरोपशमस्यान्ते खण्डेऽप्येलादिगामिनि
- सालगस्थध्रुवाद्यन्ते यच्च प्रहरणं भवेत् ३५४
- तदन्तखण्डेऽन्यत्रापि प्रोद्धते तुण्डकैशिके
- कवितेऽपि प्रयोज्यास्ते नान्यत्रेत्यूचिरे परे ३५५
- इति बाहुप्रकरणम्
- पृष्ठं तु जठरोक्ताभिर्वर्तनाभिर्विवर्तते
- अतो न तत्पृथग्वाच्यं जठरं तूच्यतेऽधुना ३५६
- क्षामं खल्लं तथा पूर्णं त्रेधा जठरमिष्यते
- क्षामं स्यान्नमनाज्जृम्भाहास्यनिश्वासरोदने ३५७
- इति क्षामम्
- निम्नं खल्लं क्षुधार्ते स्यादातुरे श्रमकर्शिते
- वेतालभृङ्गिरिट्यादिजठराकारधारि तत् ३५८
- इति खल्लम्
- पूर्णं स्थूलं व्याधिते स्यात्तुन्दिलेऽत्यशिते तथा
- इति पूर्णम्
- अन्येऽन्वर्थं रिक्तपूर्णं श्वासरोगेऽपरं जगुः ३५९
- इति रिक्तपूर्णम्
- कम्पितो वलितः स्तब्धोद्वतितौ च निवर्तितः
- इत्यूरुः पञ्चधा तत्र मुहुः पार्श्वे नतोन्नते
- यस्यासौ कम्पितो ज्ञेयोऽधमानां गमने च सः ३६०
- इति कम्पितः
- वलितोऽन्तर्गते जानुन्यूरुः स्वैरगतौ स्त्रियाः ३६१
- इति वलितः
- स्तब्धस्तु निष्क्रियः स स्याद्विषादे साध्वसे तथा
- इति स्तब्धः
- पार्ष्णेरन्तर्बहिःक्षेपात्क्षेपादग्रतलस्य च
- मुहुरुद्वर्तितः स स्याद्व्यायामे ताण्डवे तथा ३६२
- इत्युद्वर्तितः
- निवर्तितोऽन्तर्गतया पार्ष्ण्या स्यात्संभ्रमे श्रमे
- इति निवर्तितः
- आवर्तिता नताक्षिप्तोद्वाहिता परिवर्तिता
- इति पञ्चविधा जङ्घा शार्ङ्गदेवेन कीर्तिता ३६३
- निःसृता च परावृत्ता तिरश्चीना बहिर्गता
- कम्पितेत्यपराः पञ्च जङ्घाः संचक्षते परे ३६४
- वामे दक्षिणतः पादे दक्षिणे वामतः कृते
- मुहुरावर्तिता प्रोक्ता विदूषकपरिक्रमे ३६५
- इत्यावर्तिता
- नमज्जानुर्नता जङ्घा स्थानासनगतादिषु
- इति नता
- बहिर्विक्षेपतः क्षिप्ता व्यायामे ताण्डवे च सा ३६६
- इति क्षिप्ता
- ऊर्ध्वं नीतोद्वाहिता स्यादाविष्टगमनादिषु
- इत्युद्वाहिता
- प्रतीपं गच्छतो जङ्घा ताण्डवे परिवर्तिता
- इति परिवर्तिता
- पुरः प्रसारिता जङ्घा निःसृता परिकीर्तिता ३६८
- इति निःसृता
- पश्चाद्गता परावृत्ता भूमिलग्नेन जानुना
- वामेन पितृकार्ये स्यादन्येन सुरकर्मणि ३६९
- इति परावृत्ता
- भूमिलग्नबहिःपार्श्वा तिरश्चीनाऽऽसने मता
- इति तिरश्चीना
- बहिर्गता मता जङ्घा नृत्ते पार्श्वप्रसारिता ३७०
- इति बहिर्गता
- कम्पनात्कम्पिता भीतौ कार्या घर्घरिका ध्वनौ
- इति कम्पिता
- पञ्चधा मणिबन्धः स्यान्निकुञ्चाकुञ्चितौ चलः ३७१
- भ्रमितः सम इत्यत्र निकुञ्चस्तु स उच्यते
- यो बहिर्निम्नतां नीतः स दानाभयदानयोः ३७२
- इति निकुञ्चः
- आकुञ्चितोऽन्तर्निम्नोऽसौ कार्योऽपसरणे बुधैः
- इत्याकुञ्चितः
- निकुञ्चा कुञ्चिताभ्यासाच्चलमावाहने विदुः ३७३
- इति चलः
- भ्रमितो भ्रमणात्खड्गच्छुरिकाभ्रामणादिषु
- इति भ्रमितः
- ऋजुः समः पुस्तकस्य धारणे च प्रतिग्रहे ३७४
- इति समः
- संहतं कुञ्चितं चार्धकुञ्चितं नतमुन्नतम्
- विवृतं सममित्यूचे जानु सप्तविधं बुधैः
- श्लिष्टान्यजानु जानूक्तं हीरोषेर्ष्यासु संहतम् ३७५
- इति संहतम्
- जानु लग्नोरुजङ्घं तु भवेत्कुञ्चितमासने
- इति कुञ्चितम्
- नितम्बनमनाज्जानु त्वर्धकुञ्चितमुच्यते
- इत्यर्धकुञ्चितम्
- महीगतं नतं जानु मतं पाते नमस्कृतौ ३७७
- इति नतम्
- स्तनक्षेत्रागतं जानून्नतं शैलादिरोहणे
- इत्युन्नतम्
- गजारोहे तु विवृतं जानुद्वंद्वं बहिर्गतम्
- इति विवृतम्
- समं स्वाभाविकं जानु स्वभावावस्थितौ भवेत् ३७८
- इति समम्
- तत्तद्वेशजुषो भूषा भूषणानीति मन्वते ३७२
- इति नव प्रत्यङ्गानि
- कान्ता हास्या च करुणा रौद्री वीरा भयानका
- बीभत्सा चाद्भुतेत्यष्टौ द्रष्टव्या रसदृष्टयः ३८०
- स्निग्धा हृष्टा तथा दीना क्रुद्धा दृप्ता भयान्विता
- जुगुप्सिता विस्मितेति दृशोऽष्टौ स्थायिभावजाः
- स्थायिष्वव्यभिचारित्वं प्राप्तेषु स्थायिदृष्टयः ३८१
- शून्या च मलिना श्रान्ता लज्जिता शङ्किता तथा
- मुकुला चार्धमुकुला ग्लाना जिह्मा च कुञ्चिता ३८२
- वितर्किताऽभितप्ता च विषण्णा ललिताभिधा
- आकेकरा विकोशा च विभ्रान्ता विप्लुता परा ३८३
- त्रस्ता च मदिरेत्येता व्यभिचारिषु विंशतिः
- सर्वास्ता मिलिताः सत्यः षट्त्रिंशद्दृष्टयो मताः ३८४
- आपिबन्तीव दृश्यं या सविकासाऽतिनिर्मला
- सभ्रूक्षेपकटाक्षा सा कान्ता मन्मथवर्धिनी ३८५
- यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम्
- तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ३८६
- इति कान्ता
- किंचिदन्तःसमाविष्टविचित्रभ्रान्ततारका ३८७
- आकुञ्चितपुटा मन्दमध्यतीव्रतया क्रमात्
- विस्मापनेऽभिनेतव्ये हास्या दृष्टिः प्रशस्यते ३८८
- इति हास्या
- पतितोर्ध्वपुटा सास्रा शोकमन्थरतारका
- नासाग्रमेवानुगता करुणादृष्टिरुच्यते ३८९
- इति करुणा
- चकितद्विपुटा स्तभ्दतारकाऽत्यन्तलोहिता
- रूक्षा भ्रुकुटिभीमोग्रा रौद्री दृष्टिरुदाहृता ३८९
- इति रौद्री
- अचञ्चला विकसिता गम्भीरा समतारका
- दीप्ता संकुचितापाङ्गा वीरा धीरैरुदाहृता ३९१
- औदार्यधैर्यगाम्भीर्यमाधुर्यललितान्यपि
- तेजःशोभाविलासांश्च सप्त भेदान्विवृण्वती ३९२
- इति वीरा
- स्तब्धोद्वृत्तपुटाऽत्यन्तचञ्चलोद्वृत्ततारका
- दृश्यात्पलायमाने च भीत्या दृष्टिर्भयानका ३९४
- इति भयानका
- बीभत्सा स्यान्मिलल्लोलपक्ष्मा तरलतारका
- दृश्योद्वेगादपाङ्गौ च निकुञ्चितपुटौ श्रिता ३९४
- इति बीभत्सा
- प्रसन्ना स्निग्धशुक्लांशान्तर्बहिर्गामितारका
- ईषत्कुञ्चितपक्ष्माग्राऽद्भुतापाङ्गविकासिनी ३९५
- इत्यद्भुता रसेष्वष्टासु शृङ्गारप्रमुखेषु क्रमादिमाः ३९६
- इत्यष्टौ रसदृष्टयः
- रसदृष्टिर्भवेद्भावदृष्टिर्भावैरनुल्बणैः
- विकासिस्निग्धा मधुरा चतुरे बिभ्रती भ्रुवौ ३९७
- कटाक्षिणी साभिलाषा दृष्टिः स्निग्धाऽभिधीयते
- अत्रैकभ्रूसमुत्क्षेपमाहुः कीर्तिधरादयः ३९८
- इति स्निग्धा
- फुल्लगल्ला विशत्तारा किंचिदाकुञ्चिता चला
- निमेषिणी स्मिताकारा हृष्टा दृष्टिरुदाहृता ३९९
- इति हृष्टा
- या त्वर्धपतितोर्ध्वस्थपुटेषद्रुद्धतारका
- सबाष्पा मन्दसंचारा दीना दृष्टिरसौ मता ४००
- इति दीना
- स्थिरोद्वृत्तपुटां रूक्षां किंचित्तरलतारकाम्
- भ्रुकुटीकुटिलां दृष्टिं क्रुद्धां ब्रूते हरप्रियः ४०१
- इति क्रुद्धा
- सत्त्वमुद्गिरती दृष्टिर्दृप्ता विकसिता स्थिरा ४०२
- इति दृप्ता
- मध्यनिर्गमनोद्युक्ता भावविस्फारितौ पुटौ
- तारके कम्पिते यस्याः सा स्यादृष्टिर्भयान्विता ४०३
- इति भयान्विता
- अस्पष्टालोकिनी मीलत्तारका संकुचत्पुटा
- दृश्यं दृष्ट्वा समुद्विग्ना दृष्टिरुक्ता जुगुप्सिता ४०४
- इति जुगुप्सिता
- दूरविस्फारिताकारपुटद्वंद्वविकाशिनी
- निश्चला दृष्टिरुद्बृत्ततारका विस्मिता स्मृता ४०५
- इति विस्मिता
- दृष्टयोऽष्टासु रत्यादिस्थायिभावेष्विमाः क्रमात्
- इत्यष्टौ स्थायिभावदृष्टयः
- समतारापुटा दृश्यदृष्टिशून्या विलोकिनी
- निष्कम्पा धूसरा शून्या चिन्तायां दृष्टिरिष्यते ४०६
- इति शून्या
- दृश्यादपसृते तारे किंचिन्मुकुलितौ पुटौ
- दधत्यपाङ्गौ विच्छायौ पक्ष्माग्रस्यन्दनं तथा ४०७
- दृष्टिः स्यान्मलिता स्त्रीणां विहृते सा प्रयुज्यते
- प्राप्ते कालेऽप्यसंलापः प्रियेण विहृतं मतम् ४०८
- इति मलिना
- उदूरालोकिनी म्लानपुटाऽप्यलसचारिणी
- पतत्तारा मनाक्कुञ्चत्प्रान्ता श्रान्ता श्रमे मता ४०९
- इति श्रान्ता
- मिथोऽभिगामिपक्ष्माग्राऽप्यधस्ताद्गततारका
- पतितोर्ध्वपुटा दृष्टिर्लज्जायां लज्जिता मता ४१०
- इति लज्जिता
- मुहुश्चलस्थिरा पार्श्वालोकिनी बहिरुन्मुखी
- गूढावलोकिनी शीघ्रं विनिवृत्ता विलोकनात्
- शङ्कायां शङ्किता दृष्टिरुक्ता निःशङ्कसूरिणा ४११
- इति शङ्किता
- स्फुरत्संश्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका
- मुकुला दृष्टिरानन्दे हृद्ययोः स्पर्शगन्धयोः ४१२
- इति मुकुला
- अर्धव्याकोशिते किंचिद्धमन्त्यौ तारके पुटौ
- यत्रार्धमीलितौ साऽर्धमुकुलार्थे सुखप्रदे ४१३
- इत्यर्धमुकुला
- मज्जत्तारा मन्दचारा शिथिला विकलैरिव
- पक्ष्माग्रभ्रूपुटैर्युक्ता ग्लाना ग्लानौ विधीयते ४१४
- किंचित्कुञ्चत्पुटा गूढपतत्तारा विलोकने ४१५
- शनैस्तिर्यङ्निगूढं या सा जिह्मा विनियुज्यते
- असूयायां निगूढेऽर्थे जडतालस्ययोरपि ४१६
- इति जिह्मा
- किंचिच्चेत्कुञ्चितानि स्युः पक्ष्माग्राणि पुटावपि
- सम्यक्च कुञ्चिता तारा तदा दृक्कुञ्चितोच्यते
- अनिष्टे सूचिते तेजो दुष्प्रेक्ष्येऽक्षिव्यथासु सा ४१७
- इति कुञ्चिता
- उद्धामितपुटोत्फुल्लताराऽधःसंचरन्त्यपि
- वितर्कितोदिता दृष्टिर्वितर्के साऽभिधीयते ४१८
- इति वितर्किता
- विलोकनालसे तारे व्यथाप्रचलितौ पुटौ ४१९
- यस्याः संतप्तवद्भान्ति साऽभितप्ताऽभिधीयते
- निर्वेदे वेदितव्या साऽप्यभिघातोपतापयोः ४२०
- इत्यभितप्ता
- या दृष्टिः पतितापाङ्गा विस्तारितपुटद्वया
- निमेषिणी स्तब्धतारा विषण्णा सा विषादिनी ४२१
- इति विषण्णा
- मधुरा कुञ्चितापाङ्गा सभ्रूक्षेपा स्मितान्विता
- मन्मथोन्मथिता दृष्टिर्ललिता ललिते मता ४२२
- इति ललिता
- किंचित्कुञ्चत्पुटापाङ्गा दृष्टिरर्धनिमेषिणी
- पृथक्पथे चान्यनेत्रान्मुहुस्ताराविवर्तिनी
- आकेकरा दुरालोके स्याद्विच्छन्दे च वस्तुनि
- इत्याकेकरा
- विकासितपुटद्वंद्वा विकासिन्यनिमेषिणी
- अनवस्थिततारा च विकोशा कीर्तिता बुधैः ४२४
- ज्ञानविज्ञानगर्वे सा स्यादमर्षोग्रदर्शने ४२५
- इति विकोशा
- या तु क्वचितविश्रान्तमविस्रब्धं विलोकते
- विस्तीर्णा चञ्चलोत्फुल्लतारा सा दृष्टिरुच्यते
- विभ्रान्ता विभ्रमे वेगे संभ्रमे च भवेदसौ ४२६
- इति विभ्रान्ता
- पुटौ विस्फुइ! स्तब्धौ यस्याः स्तः पतितौ क्रमात्
- सा विप्लुताऽऽर्तिदुःखादावुन्मादे चापले तथा ४२७
- इति विप्लुता
- उत्कम्पोत्फुल्लतारा स्यात्त्रासे त्रस्तोद्धमत्पुटा ४२८
- इति त्रस्ता
- मदिरा त्रिविधा प्रोक्ता तरुणे मध्यमेऽधमे
- मदे प्रयोगमर्हन्ती तत्तल्लक्ष्मसमन्विता ४२९
- तीव्रो मदोऽधमोऽत्र स्यादधमे पुरुषे स्थितः
- दृष्टिर्विकसितापाङ्गा क्षामीभूतविलोचना
- आघूर्णमानतारा स्यान्मदिरा तरुणे मदे ४३०
- किंचित्कुञ्चत्पुटा किंचिदनवस्थितचारिणी
- दृष्टिः किंचिद्धमत्तारा मदिरा मध्यमे मदे ४३१
- अधोभागचरी किंचिद्दृष्टतारा निमेषिणी
- यन्नेत्रसिध्यनुन्मेषा मदिरा चाधमे मदे ४३२
- इति त्रिविधा मदिरा
- प्रदर्शनार्थमित्युक्ताः षट्त्रिंशद्दृष्टयो मया
- अनन्ताः सन्ति संदर्भाद्धृतारापुटकर्मणाम् ४३३
- दृष्टयस्ता विरञ्चोऽपि प्रत्येकं वक्तुमक्षमः
- लाघवात्तत्प्रबोधार्थं ब्रूमो भ्रूप्रभृतीन्यतः ४३४
- इति दृष्टिप्रकरणम्
- सहजा पतितोत्क्षिप्ता रेचिता कुञ्चिता तथा
- भ्रुकुटी चतुरा चेति प्रोक्ता भ्रूः सप्तधा बुधैः
- स्वाभाविकी स्यात्सहजा भावेष्वकुटिलेष्वसौ ४३५
- इति सहजा
- पतिता स्यादधो याता सद्वितीयाऽथवा क्रमात्
- उत्क्षेपे विस्मये हर्षे रोषेऽसूयाजुगुप्सयोः
- हासे घ्राणे च पतिते विधीयेतामुभे भ्रुवौ ४३६
- इति पतिता
- उत्क्षिप्ता संमताऽन्वर्था क्रमेण सह चान्यथा
- स्त्रीणां कोपे वितर्के च दर्शने श्रवणे निजे
- भ्रूर्लीलाहेलयोश्चैषा कार्योत्क्षिप्ता विचक्षणैः ४३७
- इत्युत्क्षिप्ता
- एकैव ललितोत्क्षिप्ता रेचिता नृत्तगोचरा ४३८
- इति रेचिता
- केवला सद्वितीया वा मृदुभङ्गा निकुञ्चिता
- मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ४३९
- इति निकुञ्चिता
- आमूलात्सद्वितीया भ्रूरुत्क्षिप्ता भ्रुकुटी क्रुधि ४४०
- इति भ्रुकुटी
- सद्वितीयाऽल्पकस्यन्दादायता मन्थरा भवेत्
- चतुरा रुचिरे स्पर्शे शृङ्गारे ललिते च सा ४४१
- इति चतुरा
- प्रसृतौ कुञ्चितौ स्यातामुन्मेषितनिमेषितौ
- विवर्तितौ च स्फुरितौ पिहितौ च वितालितौ ४४२
- समौ च नवधेत्युक्तौ पुटौ सोढलसूनुना
- आयतौ प्रसृतौ स्यातां वीरे हर्षे च विस्मये ४४३
- इति प्रसृतौ
- आकुञ्चितौ कुञ्चितौ स्तो रूपादौ च मनोहरे
- इति कुञ्चितौ
- उन्मेषितौ तु विश्लेषात्संश्लेषात्तु निमेषितौ
- विवर्तितौ समुद्वृत्तौ त्रयोऽमी क्रोधगोचराः ४४४
- इत्युन्मेषितनिमेषितविवर्तिताः
- स्फुरितौ स्पन्दितौ स्यातां तावीर्ष्याविषयौ मतौ ४४५
- इति स्फुरितौ
- अतीव कुञ्चितौ लग्नौ पिहितौ तौ दृशो रुजि
- सुप्तिमूर्छातिवर्षोष्णधूमवाताञ्जनार्तिषु ४४६
- इति पिहितौ
- उत्तरेणाधराघातादभिघाते विचालितौ
- आहुरन्ये त्वदृश्यौ ताविति विस्फारणात्पुटौ
- इति विचालितौ
- समौ स्वाभाविकावेतौ स्वभावाभिनये मतौ ४४७
- इति समौ
- कर्मभिस्तारकाभेदा यैः स्युस्तान्यधुना ब्रुवे
- तानि द्वेधा स्वनिष्ठानि विषयाभिमुखानि च ४४८
- भ्रमणं वलनं पातश्चलनं च प्रवेशनम्
- विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा ४४९
- स्वनिष्ठानि नवेत्याहुस्ताराकर्माणि सूरयः
- तारयोर्मण्डलभ्रान्तिः पुटान्तर्भ्रमणं मतम् ४५०
- वलनं त्र्यस्रगमनं पातस्तु स्यादधोगतिः
- चलनं कम्पनं प्रोक्तमथ ज्ञेयं प्रवेशनम् ४५१
- प्रवेशः पुटयोरन्तःकटाक्षस्तु विवर्तनम्
- उद्गतिस्तु समुद्वृत्तमन्तरा निर्गमस्तु यः ४५२
- स निष्क्रामः प्राकृतं तु स्वभावस्थितिरुच्यते
- समुद्वृतं च वलनं भ्रमणं वीररौद्रयोः ४५३
- पातस्तु करुणे कार्यश्चलनं तु भयानके
- प्रवेशनं तु बीभत्से हास्ये तु स्याद्विवर्तनम् ४५४
- शृङ्गारे स्यात्तु निष्क्रामो वीरे रौद्रे भयानके
- अद्भुते च प्राकृतं तु भावेनाऽऽवेशभागिनि ४५४
- इति नव स्वनिष्ठानि ताराकर्माणि
- विषयाभिमुखान्यष्टौ ताराकर्माण्यथ ब्रुवे ३५६
- समं साच्यनुवृत्तावलोकितानि विलोकितम्
- उल्लोकितालोकिते च प्रविलोकितमित्यपि ४५७
- एतानि दर्शनान्याहुर्लक्ष्यलक्ष्मविचक्षणाः
- सौम्यं मध्यस्थतारं च दर्शनं सममुच्यते ४५८
- इति समम्
- साच्युच्यते तिरश्चीनपक्ष्मान्तर्गततारकम्
- इति साचि
- रूपनिर्वर्णनायुक्तमनुवृत्तं मतं मुनेः
- निर्वर्णना क्रियाकार्त्स्न्यदिदृक्षाऽन्तश्चिरस्थिरा ४५९
- इत्यनुवृत्तम्
- अधस्थदर्शनं यत्तदवलोकितमुच्यते
- इत्यवलोकितम्
- पृष्ठतो दर्शनं यत्तद्विलोकितमुदाहृतम् ४६०
- इति विलोकितम्
- उल्लोकितं तदूर्ध्वस्थवस्तुनो यदवेक्षणम्
- इत्युल्लोकितम्
- सहसा दर्शनं यत्तदालोकितमुदीरितम् ४६१
- इत्यालोकितम्
- पार्श्वस्थदर्शनं प्रोक्तं कृतिभिः प्रविलोकितम्
- इति प्रविलोकितम्
- साधारणान्यमून्याहू रसभावेषु तद्विदः ४६२
- इत्यष्टौ दर्शनानि
- कुञ्चितौ कम्पितौ पूर्णौ क्षामौ स्फुल्लौ समौ तथा
- कपोलौ षड्विधावुक्तौ तल्लक्षणमथोच्यते ४६३
- संकोचात्कुञ्चितौ रोमाञ्चितौ शीतज्वरे भये
- इति कुञ्चितौ
- स्फुरितौ कम्पितौ कार्यौ रोमहर्षेषु सूरिभिः ४६४
- इति कम्पितौ
- कपोलावुन्नतौ पूर्णौ तौ गर्वोत्साहगोचरे
- इति पूर्णौ
- क्षामौ त्ववनतौ ज्ञेयौ दुःखे कार्याविमौ नटैः
- इति क्षामौ
- गण्डौ विकसितौ फुल्लौ प्रहर्षे परिकीर्तितौ
- इति फुल्लौ
- समौ स्वाभाविकौ भावेष्वनावेशेषु तौ मतौ ४६६
- इति समौ
- स्वाभाविकी नता मन्दा विकृष्टा च विकूणिता ४६७
- सोच्छ्वासेत्युदिता नासा षड्विधा सूरिशार्ङ्गिणा
- स्वाभाविकी स्यादन्वर्था भावेष्वावेशवर्जिता ४६८
- इति स्वाभाविकी
- मुहुः संश्लिष्टविश्लिष्टपुटा नासा नता मता
- सोच्छ्वासाभिनये मन्दविच्छिन्नरुचिगोचरे ४६९
- इति नता
- मन्दा तु मन्दनिश्वासोच्छ्वासा नासाऽभिधीयते
- सा चिन्तौत्सुक्ययोः शोके निर्वेदे च विधीयते ४७०
- इति मन्दा
- विकृष्टाऽत्यन्तमुत्फुल्लपुटा रोषार्तिभीतिषु
- ऊर्ध्वश्वासे च कर्तव्या घ्रातव्ये भूरिसौरभे ४७१
- इति विकृष्टा
- विकूणिता संकुचिता हास्येऽसूयाजुगुप्सयोः ४७२
- इति विकूणिता
- आकृष्टश्वसना नासा सोच्छ्वासा सौरभे भवेत्
- निर्वेदादिषु भावेषु दीर्घोच्छ्वासकरेषु च ४७३
- इति सोच्छ्वासा
- स्वस्थौ चलौ प्रवृद्धश्च निरस्तोल्लासितावपि
- विमुक्तो विस्मितः श्वासः स्खलितः प्रसृतस्तथा ४७४
- एवमुच्छ्वासनिश्वासौ नवधा कोहलोदितौ
- समो भ्रान्तो विलीनश्चाऽऽन्दोलितः कम्पितोऽपरः ४७५
- स्तम्बितोच्छ्वासनिश्वाससूत्कृतानि च सीत्कृतम्
- एवं दशविधः प्रोक्तो लक्ष्यज्ञैर्मारुतोऽपरैः ४७६
- स्वस्थावुच्छ्वासनिःश्वाससंज्ञौ वायू स्वभावजौ
- स्वस्थक्रियासु कर्तव्यावुक्तौ निःशङ्कसूरिणा ४७७
- इति स्वस्थौ
- उष्णौ दीर्घौ सशब्दौ च तौ मुखेन कृतौ चलौ
- कार्यावौत्सुक्यनिर्वेदशोकचिन्तास्विमौ मतौ ४७८
- इति चलौ
- प्रवृद्धः सन्सशब्देन वदनेन विनिर्गतः
- निःश्वासः स्यात्प्रवृद्धाख्यः क्षयव्याध्यादिगोचरः ४७९
- इति प्रवृद्धः
- सशब्दः सन्सकृत्क्षिप्तो निरस्तः कथ्यते मरुत्
- दुःखान्विते सरागे च शान्ते चैष विधीयते ४८०
- इति निरस्तः
- चिरान्मन्दं निपीतस्तु घ्राणेनोल्लासितो मरुत्
- हृद्ये गन्धे विधातव्यः संदिग्धे च विचक्षणैः ४८१
- इत्युल्लासितः
- संयम्य सुचिरं मुक्तो विमुक्तः कथ्यतेऽनिलः
- योगे ध्याने च स प्रोक्तः प्राणायामे च सूरिभिः ४८२
- इति विमुक्तः
- चित्तस्यान्यपरत्वेन यः प्रयत्नेन वर्तते
- स विस्मितो विस्मये स्यादुद्भूते वाऽर्थचिन्तने ४८३
- इति विस्मितः
- महत्त्वाद्दुःखनिष्क्रान्तः कथितः स्खलितोऽनिलः
- स्याद्दशम्यां दशायां स व्याधौ प्रस्खलितेषु च ४८४
- इति स्खलितः
- प्रसुप्ते प्रसृतो दीर्घः सशब्दो निर्गतो मुखात् ४८५
- इति प्रसृतः
- समोऽत्र स्वस्थपर्यायो भ्रान्तोऽन्तर्भ्रमणान्मरुत्
- अन्ये त्वन्वर्थनामानस्तत्र सूत्कृतसीत्कृते ४८६
- शब्दानुकरणे वक्त्रत्याज्यग्राह्येऽनिले क्रमात्
- समः स्वाभाविको भ्रान्तः प्रथमे प्रियसंगमे ४८७
- विलीनो मूर्छिते शैलारोहे त्वान्दोलितो मतः
- कम्पितः सुरते शस्त्रमोक्षादौ स्तम्भितो भवेत् ४८८
- उच्छ्वासः कुसुमाघ्राणे निःश्वासोऽनुशयादिषु
- सूत्कृतं वेदनादौ स्याच्छीते क्लेशे तु सीत्कृतम् ४८९
- नखक्षते मृगाक्षीणां निर्दयाधरचर्वणे
- विनियोगान्तराण्यत्र बुध्यतां लोकतो बुधाः ४९०
- इति मतान्तरेण दशधा श्वसनः
- विवर्तितः कम्पितश्च विसृष्टो विनिगूहितः
- संदृष्टकः समुद्गश्चेत्यधरः षड्विधो मतः ४९१
- अन्येऽन्यानूचुरुद्वृत्तविकास्यायतरेचितान्
- ओष्ठयोः संपुष्टस्तिर्यक्संकोचेन विवर्तितः
- अवज्ञावेदनासूयाहास्यादिषु विधीयते ४९२
- इति विवर्तितः
- व्यथायां कम्पितोऽन्वर्थो भीतौ शीते जपे रुषि ४९३
- इति कम्पितः
- विसृष्टः स्याद्विनिष्क्रान्तो रञ्जनेऽलक्तवादिना
- स्त्रीणां विलासे विव्वोके शार्ङ्गिदेवेन शीर्तितः ४९४
- मुखान्तर्निहितः प्राणसाध्येऽर्थे विनिगूहितः
- रोषेर्ष्ययोश्च नारीणां बलाच्चुम्बति वल्लभे ४९५
- इति विनिगूहितः
- संदष्टकोऽधरो दन्तैर्दष्टः क्रोधे विधीयते ४९६
- इति संदष्टकः
- समुद्गस्तु भवेदोष्ठसंपुटो दधदुन्नतिम्
- स्यात्फूत्कारेऽनुकम्पायां चुम्बने चाभिनन्दने ४९७
- इति समुद्गः
- आस्योत्क्षिप्ततयोद्वृत्तः सोऽवज्ञापरिहासयोः
- इत्युद्वृत्तः
- ईषद्वृश्योर्ध्वदशनो विकासी स स्मिते स्मृतः ४९८
- इति विकासी
- स सार्धमुत्तरोष्ठेन ततः स्यादायतः स्मिते
- इत्यायतः
- पर्यन्तंचलनादुक्तो विलासे रेचितोऽधरः ४९९
- इति रेचितः
- दन्तकर्माणि वक्ष्यामो दन्तलक्षणसिद्धये
- कुट्टनं खण्डनं छिन्नं चुक्कितं ग्रहणं मतम् ५००
- दष्टं निष्कर्षणं चेति दन्तकर्माष्टकं जगुः
- संघर्षणं कुट्टनं स्याच्छीतरुग्भीजरासु तत् ५०१
- इति कुट्टनम्
- खण्डनं तु मुइहुर्दन्तश्लेषविश्लेषणं मतम्
- जपाध्ययनसंलापभक्षणेषु भवेदिदम् ५०२
- इति खण्डनम्
- छिन्नं स्याद्गाढसंश्लेषो रोदने भीतिशीतयोः
- व्याधौ च वीटिकाच्छेदव्यायामादिषु कीर्तितम् ५०३
- इति च्छिन्नम्
- दन्तपङ्क्त्योः स्थितिर्दूरे चुक्कितं जृम्भणादिषु
- इति चुक्कितम्
- तृणस्य चाङ्गुलैर्दन्ते धारणं ग्रहणम् भये ५०४
- इति ग्रहणम्
- किंचिच्छ्लेषः समं तच्च स्वभावाभिनये मतम् ५०५
- इति समम्
- अधरे दंशनं दन्तैर्दष्टं क्रोधेऽभिधीयते
- इति दष्टम्
- निष्कर्षणं तु निष्कासः कार्यं मर्कटरोदने ५०६
- इति निष्कर्षणम्
- ऋज्वी ऋक्वानुगा वक्रोन्नता लोलाऽवलेहिनी ५०७
- जिह्वेति षड्विधा तत्र प्रसृतास्ये प्रसारिता
- ऋज्वी श्रमे पिपासायां श्वापदानां प्रयुज्यते ५०८
- इति ऋज्वी
- सृक्कानुगा लीढसृक्का प्रकोपस्वादुभक्षयोः
- इति सृक्कानुगा
- व्यात्तास्यस्थोन्नताग्रा च वक्रा नृहरिरूपणे ५०९
- इति वक्रा
- व्यात्तास्यस्थोन्नताऽन्वर्था जृम्भास्यान्तस्थवीक्षयोः ५१०
- इत्युन्नता
- व्यात्ते वक्त्रे चला लोला वेतालाभिनये भवेत्
- इति लोला
- दन्तोष्ठं लिहती जिह्वा लेहिनी संमता मुनेः ५११
- इति लेहिनी
- जिह्वोष्ठदन्तक्रियया चिवुकं लक्ष्यते ततः
- उक्तप्रायं सुखार्थं तु वक्ष्ये लक्ष्यानुसारतः ५१२
- व्यादीर्णं श्वसितं वक्रं संहतं चलसंहतम्
- स्फुरितं चलितं लोलमेवं चिबुकमष्टधा
- व्यादीर्णं दूरनिष्क्रान्तं जृम्भालस्यादिषु स्मृतम् ५१३
- इति व्यादीर्णम्
- एकाङ्गुलमधःस्रस्तं श्वसितं वीक्षितेऽद्भुते
- इति श्वसितम्
- वक्रं तिर्यङ्नतं तत्तु ग्रहावेशे विधीयते ५१४
- इति वक्रम्
- निश्चलं मीलितमुखं मौने संहतमिप्यते
- इति संहतम्
- संलग्नौष्ठं चलं नारीचुम्वने चलसंहतम् ५१५
- इति चलसंहतम्
- कम्पितं स्फुरितं प्राहुः शीते शीतज्वरे तथा
- इति स्फुरितम्
- चलितं श्लिष्टविश्लिष्टं वाक्स्तम्भे क्षोभकोपयोः
- इति चलितम्
- रोमन्थे केवलावर्ते लोलं तिर्यग्गतागतम् ५१६
- इति लोलम्
- व्याभुग्नं भुग्नमुद्वाहि विधुतं विवृतं तथा
- विनिवृत्तमिति प्राज्ञाः षड्विधं वदनं जगुः ५१७
- किंचिदायामिवक्रं च व्याभुग्नं मुखमुच्यते
- निर्वेदौत्सुक्यचिन्तादौ तदुक्तं पूर्वसूरिभिः १५८
- इति व्याभुग्नम्
- अधोमुखं तु भुग्नं तल्लज्जायां प्रकृतौ यतेः
- इति भुग्नम्
- लीलासूत्क्षिप्तमुद्वाहि गर्वानादरतो गतौ ५१९
- इत्युद्वाहि
- वारणे नैवमित्युक्तौ विधुतं तिर्यगायतम्
- इति विधुतम्
- विश्लिष्टौष्टं तु विवृतं हास्यशोकभयादिषु ५२०
- इति विवृतम्
- विनिवृत्तं परावृत्तं रोषेर्ष्यासूयितेषु तत् ५२१
- इति विनिवृत्तम्
- इति द्वादश शिरोगतान्युपाङ्गानि
- उत्क्षिप्ता पतितोत्क्षिप्तपतिताऽन्तर्गता तथा
- बहिर्गता मिथो युक्ता वियुक्ताऽङ्गुलिसंगता
- पार्ष्णिरित्यष्टधा पादचारी स्थानेषु दृश्यते ५२२
- गुल्ल्फावङ्गुष्ठसंश्लिष्टावन्तर्यातौ बहिर्गतौ
- मिथो युक्तौ वियुक्तौ च पञ्चधा स्थानकादिषु ५२३
- संहता वियुता वक्र वलिताः पतितास्तथा ५२४
- कुञ्चन्मूलाः करेऽङ्गुल्यः प्रसृताश्चेति सप्तधा
- एते पार्ष्ण्यादिभेदाः स्युः संज्ञाविज्ञानलक्षणाः ५२५
- अधः क्षिप्तास्तथोत्क्षिप्ताः कुञ्चिताश्च प्रसारिताः
- संलग्नाश्चेति चरणाङ्गुलयः पञ्चधा मताः ५२६
- मुहुः पातादधः क्षिप्ता विव्वोके किलकिञ्चिते
- उत्क्षिप्ता मुहुरुत्क्षेपान्नवोढायास्त्रपाभरे ५२७
- संकोचात्कुञ्चिताः शीतमूर्छात्रासग्रहार्दिते
- प्रसारिता ऋजुस्तब्धा स्तम्भे स्वापेऽङ्गमोटने ५२८
- अङ्गुष्ठस्याप्यमी भेदा ज्ञातव्या नृत्तकोविदैः
- स्वाङ्गुष्ठासु मिथो लग्नाः संलग्ना घर्षणे मताः ५२९
- पतिताग्रं चोद्धृताग्रं भूमिलग्नमथोद्धृतम्
- कुञ्चन्मध्यं तिरश्चीनमिति षोढा तलं विदुः ५३०
- इति पार्ष्णिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि ।
- विवृणोति मनोवृत्तिं मुखरागो रसात्मिकाम्
- अतो रसोपयोगित्वान्मुखरागोऽभिधीयते ५३१
- स्वाभाविकः प्रसन्नश्च रक्तश्यामोऽपरस्तथा
- चतुर्धा मुखरागोऽत्रान्वर्थः स्वाभाविको मतः ५३२
- अनाविष्टेषु भावेषु सुधीभिः स विधीयते
- इति स्वाभाविकः
- प्रसन्नो निर्मलो हास्ये शृङ्गारे चाद्भुते भवेत् ५३३
- इति प्रसन्नः
- रक्तोऽरुणः स्यात्करुणे रौद्रे वीरेऽद्भुते तथा
- इति रक्तः
- अन्वर्थो भवति श्यामः स बीभत्से भयानके ५३४
- इति श्यामः
- शशिनेव दिशोऽङ्गानि शोभन्ते मुखरागतः ५३५
- रसभावान्तरे नेत्रमन्यदन्यत्क्षणे क्षणे
- यथातथोचितः कार्यो मुखरागो रसे रसे ५३६
- इति चतुर्धा मुखरागः
- उत्तानोऽधोमुखः पार्श्वगतः पाणिरिति त्रिधा ५३७
- प्रचारं भरता मेने पञ्चधा त्वपरे जगुः
- अग्रगोऽधस्तलश्चेति द्वौ त्रयश्च पुरोदिताः ५३८
- तत्र त्वग्रग उत्तानोऽधोमुखोऽधस्तलः करः
- अन्तर्भूतं वदन्भट्टस्त्रित्वमेव समादधे ५३९
- उत्तानोऽधोमुखः पार्श्वगतो हस्तोऽग्रतस्तलः
- स्वसंमुखतलश्चोर्ध्वमुखोऽधोवदनस्तथा ५४०
- पराङ्मुखः संमुखश्च हस्तोऽन्यः पार्श्वतोमुखः
- ऊर्ध्वगोऽधोगतः पार्श्वगतो हस्तोऽग्रगोऽपरः ५४१
- संमुखागत इत्येतान्प्रचारान्दश पञ्च च
- लक्ष्यलक्षणतत्त्वज्ञः शार्ङ्गदेवोऽभ्यभाषत ५४२
- इति पञ्चदश हस्तप्रचाराः
- निष्पत्तौ निरपेक्षायां करस्याभिनयाय यः
- क्रियाविशेषः क्रियते तद्धस्तकरणं मतम् ५४३
- आवेष्टितोद्वेष्टिते च व्यावर्तितमतः परम्
- परिवर्तितमित्येतच्चतुर्धा धीरसंमतम् ५४४
- तर्जन्याद्यङ्गुलीनां यद्भवेदावेष्टनं क्रमात्
- तलसंमुखमावक्षः करोऽप्यायाति पार्श्वतः
- तदावेष्टितमाख्यातं करस्य करणं बुधैः ५४५
- यत्तु क्रमेण निर्याणमङ्गुलीनां तलाद्बहिः
- वक्षःस्थलात्करस्यापि तदुद्वेष्टितमुच्यते ५४६
- आवेष्टितप्रक्रियया कार्यमावर्तितं करे
- उद्वेष्टितेन व्याख्यातं करणं परिवर्तितम् ५४७
- किंत्वेतत्करणद्वंद्वं कनिष्ठाद्यङ्गुलीकृतम् ५४८
- इति चत्वारि करकरणानि
- धूननं श्लेषविश्लेषौ क्षेपो रक्षणमोक्षणे
- परिग्रहो निग्रहश्चोत्कृष्टाकृष्टिविकृष्टयः ५४९
- ताडनं तोलनं छेदभेदौ स्फोटनमोटने
- स्याद्विसर्जनमाह्वानं तर्जनं चेति विंशतिः
- करकर्माणि नृत्तज्ञैरन्वर्थानि बभाषिरे ५५०
- इति विंशतिः करकर्माणि
- पार्श्वद्वयं पुरस्ताच्च पश्चादूर्ध्वमधः शिरः ५५१
- ललाटकर्णस्कन्धोरोनाभयः कटिशीर्षके
- ऊरुद्वयं च हस्तानां क्षेत्राणीति चतुर्दश ५५२
- इति हस्तक्षेत्राणि
- करणैः करणातीतोऽनङ्गहारोऽङ्गहारकैः
- यः स्थाणू रोदसीरङ्गे नृत्यतीशं नमामि तम् ५५३
- स्यात्क्रिया करपादादेर्विलासेनात्रुटद्रसा ५५४
- करणं नृत्तकरणं भीमवद्भीमसेनवत्
- प्रभेदान्करणस्यास्य ब्रूमहे भरतोदितान् ५५५
- तलपुष्पपुटं लीनं वर्तितं च लितोरु च
- मण्डलस्वस्तिकं वक्षःस्वस्तिकाक्षिप्तरेचिते ५५६
- स्वस्तिकान्यर्धदिक्पृष्ठाद्यानि स्वस्तिकमञ्चितम्
- अपविद्धं समनखोन्मत्ते स्वस्तिकरेचितम् ५५७
- निकुट्टार्धनिकुट्टे च कटीछिन्नं कटीसमम्
- भुजंगत्रासितालातबिक्षिप्ताक्षिप्तकानि च ५५८
- निकुञ्चितं घूर्णितं स्यादूर्ध्वजान्वर्धरेचितम्
- मत्तल्लि चार्धमत्तल्लि स्याद्रेचकनिकुट्टकम् ५५९
- ललितं वलितं दण्डपक्षं पादापविद्धकम्
- नूपुरं भ्रमरं छिन्नं भुजंगत्रस्तरेचितम् ५६०
- भुजंगाञ्चितकं दण्डरेचितं चतुरं ततः
- कटिभ्रान्तं व्यंसितं च क्रन्तं वैशाखरेचितम् ५६१
- वृञ्शिकं वृश्चिकाद्ये च स्यातां कुट्टितरेचिते
- लतावृश्चिकमाक्षिप्तार्गले तलविलासितम् ५६२
- ललाटतिलकं पार्श्वनिकुट्टं चक्रमण्डलम्
- उरोमण्डलमावर्तं कुञ्चितं दोलपादकम् ५६३
- विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम्
- विद्युद्धान्तमतिक्रान्तं विक्षिप्तं च विवर्तितम् ५६४
- गजक्रीडितकं गण्डसूची स्याद्गरुदप्लुतम्
- तलसंस्फोटितं पार्श्वजानु गृध्रावलीनकम् ५६५
- सूच्यर्धसूचिनी सूचीविद्धं च हरिणप्लुतम्
- परिवृत्तं दण्डपादं मयूरललितं ततः ५६६
- प्रेङ्खोलितं संनतं च सर्पितं करिहस्तकम्
- प्रसर्पितमपक्रान्तं नितम्बं स्खलिताभिधम् ५६७
- सिंहविक्रीडितं सिंहाकर्षितं चावहित्थकम्
- निवेशमेलकाक्रीडजनितोपसृतानि च ५६८
- तलसंघट्टितोद्वृत्तविष्णुक्रान्तानि लोलितम्
- मदस्खलितसंभ्रान्तविष्कम्भोद्घट्टितानि च ५६९
- शकटास्योरूद्वृत्ताख्ये वृषभक्रीडितं ततः
- नागापसर्पितमथो गङ्गावतरणं तथा ५७०
- इत्यष्टोत्तरमुद्दिष्टं करणानां शतं मया
- गतिस्थितिप्रयोगाणामानन्त्यात्करणान्यपि ५७१
- अनन्तान्यङ्गहारेषु क्रियन्तामुपयोगिता
- अथ लक्षणमेतेषां वक्ष्ये लक्ष्यविदां मतम् ५७२
- प्रायशो नर्तनारम्भे समपादौ लताकरौ
- चतुरस्रं भवेदङ्गं विशेषस्त्वयमुच्यते ५७३
- चार्या द्व्यर्धिकया पादे विनिष्क्रामति दक्षिणे
- व्यावर्तनात्करयुगे दक्षिणं पार्श्वमागते ५७४
- परिवर्तनतो वामपार्श्वं सततमाश्रिते
- तत्कुचक्षेत्रसंविष्टो यस्य पुष्पपुटः करः
- तलपुष्पपुटं तत्स्यात्पादेऽग्रतलसंचरे ५७५
- यद्यनन्तरमेतत्स्यात्करणं करणान्तरात् ५७६
- तदा करक्रिया तत्तत्त्याज्यग्राह्यकरानुगा
- एतत्पुष्पाञ्जलिक्षेपे लज्जायां च नियुज्यते ५७७
- इति तलपुष्पपुटम्
- ऊर्ध्वमण्डलिनौ कृत्वा करौ वक्षःस्थितोऽञ्जलिः
- निहञ्चितं चांसकूटं यत्र ग्रीवा नता कृता
- लीनं तत्करणं योज्यं वल्लभाभ्यर्थने बुधैः ५७८
- इति लीनम्
- आश्लिष्टौ मणिबन्धस्थस्वस्तिकाभिमुखौ करौ
- कृत्वा वक्षस्येककालं व्यावृत्तपरिवर्तितौ ५७९
- उत्तानौ पातयेदूर्वोर्यत्र तद्वर्तितं मतम्
- असूयायां प्रयोगः स्यात्पताकौ यदि पातयेत् ५८०
- अधोमुखनिघृष्टौ तौ क्रोधं सूचयतः करौ
- शुकतुण्डादयोऽप्यन्ये विनियोगवशादिह ५८१
- इति वर्तितम्
- वक्षःक्षेत्रे समं हस्तौ व्यावृत्तपरिवर्तितौ ५८२
- विधायाऽऽक्षिप्तया चार्या संहतौ परिवर्तनात्
- तत्राऽऽनीय निधीयेते शुकतुण्डावधोमुखौ ५८३
- बद्धा याति स्थितिर्यत्र वलितोरु तदुच्यते
- मुग्धस्त्रीव्रीडिते चास्य प्रयोगः शार्ङ्गिणोदितः ५८४
- इति वलितोरु
- चतुरस्रौ करौ कृत्वा विदधद्विच्यवां ततः
- उद्वेष्टितक्रियापूर्वमूर्ध्वमण्डलिनौ करौ ५८५
- विधाय स्वस्किकौ कुर्यादत्र स्थानं च मण्डलम्
- मण्डलस्वस्तिकं तत्स्यात्प्रसिद्धार्थावलोकने ५८६
- इति मण्डलस्वस्तिकम्
- चतुरस्रौ करौ वक्षःस्थितौ कृत्वाऽथ रेचितौ
- व्यावर्तितेन चाऽऽनीयाभुग्ने वक्षसि यत्र तौ ५८७
- स्वस्तिकौ स्वस्तिकौ पादौ तद्वक्षःस्वस्तिकं मतम्
- अनाभुग्नांसमेतच्च योज्यं लज्जानुतापयोः अ५८८
- इति वक्षःस्वस्तिकम्
- हस्तौ हृत्क्षेत्रगौ यत्र व्यावृत्योर्ध्वं च पार्श्वयोः
- क्षिप्तैकं हंसपक्षं च द्रुतभ्रममधोमुखम् ५८९
- वक्षः प्राप्यापरं तादृग्भूतं निष्क्रामयेत्ततः
- पादावञ्चितसूच्यौ च तत्स्यादाक्षिप्तरेचितम्
- अनेनाभिनये त्यागपरिग्रहपरम्पराम् ५९०
- इत्याक्षिप्तरेचितम्
- दक्षिणः करिहस्तः स्याद्वामस्तु खटकामुखः
- वक्षस्थः स्वस्तिकौ पादौ यत्रार्धस्वस्तिकं तु तत् ५९१
- अन्ये करिकरस्थाने पक्षवञ्चितकं परम्
- पक्षप्रद्योतकं चार्धचन्द्रं कटिगतं विदुः ५९२
- इत्यर्धस्वस्तिकम्
- पार्श्वयोरग्रतः पृष्ठे स्वस्तिकोऽत्र दिशं गतः
- कराङ्घ्री रेचितौ यत्र तद्दिक्स्वस्तिकमुच्यते ५९३
- तद्गीतपरिवर्तेषु विनियुक्तं पुरातनैः
- स्वस्तिकप्रक्रियैषा स्यात्स्वस्तिकोक्त्यन्तरेष्वपि ५९४
- इति दिक्स्वस्तिकम्
- उद्वेष्टितक्रियापूर्वं बाह्वोर्विक्षिप्त्यमाणयोः
- कृत्वा चारीमपक्रान्तां क्रियमाणेऽपवेष्टने ५९५
- रेचयित्वाऽन्यचरणं सूचीस्वस्तिकमाचरेत्
- यत्राङ्घ्रिभ्यां कराभ्यां च तत्पृष्ठस्वस्तिकं भवेत् ५९६
- एतन्निषेधराभस्यपरान्वेषणभाषणे
- प्रयुक्तं नाट्यतत्त्वज्ञैरन्यैर्युद्धपरिक्रमे ५९७
- इति पृष्ठस्वस्तिकम्
- उद्वेष्टेन निष्कास्य पाण्योर्व्यावर्तमानयोः ५९८
- उत्प्लुत्य युगपद्यत्र कराङ्घ्रिः स्वस्तिकः कृतः
- तत्स्वस्तिकं प्रयोक्तव्यं बुधैः पूर्वोक्तवस्तुनोः ५९९
- इति स्वस्तिकम्
- व्यावर्तपरिवर्ताभ्यां नासादेशं गतो यद्गा
- करिहस्तोऽलपद्मत्वं धत्ते स्यादञ्चितं तदा
- संमुखप्रेक्षणे तच्च योज्यं स्वस्यातिकौतुकात् ६००
- इत्यञ्चितम्
- चतुरस्रकरः स्थित्वा हस्तं व्यावर्त्य दक्षिणम् ६०१
- निष्क्रामयन्भजेच्चारीमाक्षिप्तामथ दक्षिणम्
- शुकतुण्डं करं तस्यैवोरौ तु परिपातयेत् ६०२
- यत्रापविद्धं तद्वामे वक्षस्थे खटकामुखे
- तत्कोपासूययोर्योज्यमुक्तं सोढलसूनुना ६०३
- इत्यपविद्धं
- देहः स्वाभाविको यत्र पादौ समनखौ युतौ
- लताहस्तौ समनखं स्यात्प्रवेशे तदादिमे ६०४
- चार्या विद्धाञ्चितपदे पर्यायाद्रेचितः करः
- यत्रोन्मत्तं तु तद्गर्वे सौभाग्यादिसमुद्भवे ६०५
- इत्युन्मत्तम्
- चतुरस्रः स्थितः कृत्वा हंसपक्षौ द्रुतभ्रमौ
- व्यावृत्तिपरिवृत्तिभ्यामधश्चोर्ध्वं शिरःस्थलात्
- आनीयाऽऽविद्धवक्रौ चेद्वक्षसि स्वस्तिकौ कृतौ ६०६
- विप्रकीर्णौ ततः कार्यौ पक्षवञ्चितकौ करौ
- पक्षप्रद्योतकौ पश्चाच्चारी तद्वशगा भवेत् ६०७
- अन्तेऽवहित्थकं स्थानं तदा स्वस्तिकरेचितम्
- नृत्ताभिनयने तच्च प्रहर्षादौ नियुज्यते ६०८
- इति स्वस्तिकरेचितम्
- मण्डलस्थानके कृत्वा चतुरस्रतया स्थितः
- उद्वेष्ट्य दक्षिणं हस्तं नीत्वा स्कन्धशिरस्यमुम् ६०९
- पतनोत्पतनाविष्टकनिष्ठाद्यङ्गुलीद्वयम्
- अलपद्माकृतिं कृत्वोद्घट्टितेऽङ्घ्रौ च दक्षिणे ६१०
- आविद्धवक्त्रतां नीत्वा करेऽत्र चतुरस्रिते
- तथैव वामपाण्यङ्घ्रि यत्र स्यात्तन्निकुट्टकम्
- आत्मसंभावनाख्यानपरे वाक्ये नियुज्यते ६११
- इति निकुट्टकम्
- तदेवार्धनिकुट्टं स्यादेकेनाङ्गेन चेत्कृतम्
- अप्ररूढवचःप्रोक्ते तत्रैवार्थे नियुज्यते ६१२
- इत्यर्धनिकुट्टकम्
- पार्श्वेन भ्रमरीं कृत्वा मण्डलस्थानके स्थितः
- कृत्वा छिन्नां कटीमेकां बाह्वोः शिरसि पल्लवम् ६१३
- करमङ्गान्तरेणैवं यत्र त्रिचतुराः कृताः
- आवृत्तयः कटीछिन्नं तद्विस्मयनिरूपणे ६१४
- इति कटीछिन्नम्
- आक्षिप्तामप्यपक्रान्तां चारीं कृत्वा करद्वयम्
- स्वस्तिकीकृत्य नाभिस्थो दक्षिणः खटकामुखः ६१५
- कट्यामन्योऽर्धचन्द्रश्च कृतः पार्श्वं च तन्नतम्
- अन्यदुद्वाहितं यत्र वृत्तिरङ्गान्तरैस्तथा ६१६
- तत्कटीसममादिष्टं वैष्णवस्थानकान्वितम्
- प्रयोज्यं सूत्रधारेण जर्जरस्याभिमन्त्रणे ६१७
- इति कटीसमम्
- भुजंगत्रासितां चारीं कृत्वोत्क्षिप्य च कुञ्चितम्
- अङ्घ्रिमूरुकटीजानुत्र्यस्रं यत्र विवर्तयेत् ६१८
- व्यावृत्तिपरिवृत्तिभ्यामेको दोलाकरोऽपरः
- खटकाख्यस्तदन्वर्थं भुजंगत्रासितं मतम् ६१९
- इति भुजं गत्रासितम्
- चार्यालाता नितम्बश्च करोऽथ चतुरस्रकः
- एतद्दक्षिणतो वाम ऊर्ध्वजानुस्तथैव चेत्
- अङ्गान्तरं तदाऽलातं नृत्ते सललिते मतम् ६२०
- इत्यलातम्
- हस्ते व्यावर्तमाने तु सोऽङ्घ्रिर्विक्षिप्यते बहिः
- चतुरस्रः परः पाणिः पूर्वोऽथ परिवर्तने ६२१
- पाणिराक्षिप्यते चाङ्घ्रिर्यत्राङ्गं चान्यदीदृशम्
- विक्षिप्ताक्षिप्तकं च स्याद्गतागतनिरूपणे ६२२
- इमं तु नाट्यतत्त्वज्ञा विनियोगं न मन्वते
- वाक्यार्थाभिनयस्तत्र यत्राभिनयहस्तकाः ६२३
- प्राधान्येन विधीयन्ते नृत्तमात्रपरं त्विदम्
- अतोऽन्तरालसंधाने गतीनां च परिक्रमे ६२४
- तथा युद्धनियुद्धस्थचारीस्थानकसंक्रमे
- कार्ये तालानुसंधाने योज्यं करणमीदृशम् ६२५
- वृश्चिकं चरणं कृत्वा यत्रारालं शिरस्थले
- तद्दिक्कं करमाधाह नासाक्षेत्रार्जवेन तु ६२६
- कृतो वक्षस्यरालोऽन्यस्तद्वदन्ति निकुञ्चितम्
- एतदुत्पतनौत्सुक्यवितर्कादौ प्रयुज्यते ६२७
- अन्ये पताकसूच्यास्यावस्मिन्नासाग्रगौ विदुः ६२८
- इति निकुञ्चितम्
- ऊर्ध्वं व्यावर्तनेनाधः परिवर्तनतः करे
- पार्श्वक्षेत्राद्धाम्यमाणे जङ्घास्वस्तिकमाचरेत् ६२९
- ततोऽपक्रान्तचारीकस्तद्दिक्कश्चरणो यदा
- वामो दोलाकरः प्रोक्तं करणं घूर्णितं तदा ६३०
- इति घूर्णितम्
- कुञ्चिते चरणे चार्यां चोर्ध्वजानौ यदा करः
- तद्दिग्भवोऽलपद्मो वाऽरालश्चोर्ध्वमुखो भवेत् ६३१
- पक्षवञ्चितकौ चोर्ध्वं स्तनसाम्यस्थजानुनः
- खटकाख्योऽपरो वक्षस्यूर्ध्वजानुस्तदोच्यते ६३२
- इत्यूर्ध्वजानुः
- मण्डले स्थानके स्थित्वा वक्षस्थः खटकामुखः
- सूचीमुखं चापसार्य यदा तस्यान्तिके कृतः ६३३
- अङ्घ्रिरुद्घृट्टितः पार्श्वं संनतं चापसारणे
- तदर्धरेचितं योज्यमसमञ्जसचेष्टने ६३४
- इत्यर्धरेचितम्
- गुल्फयोः स्वस्तिकं कृत्वा पादयोरपसर्पणे
- युगपत्करयोर्यत्रोद्वेष्टनं चापवेष्टानम्
- कुर्यान्मुहुर्महुस्तत्तु मत्तल्लि मदवेदकम् ६३५
- इति मत्तलि
- उपेत्याप्रसृतौ पादौ वामश्चेद्रेचितः करः
- कट्यामन्यस्तदा त्वर्धमत्तल्लि तरुणे मदे ६३६
- रेचितो दक्षिणो हस्तः सोऽङ्घ्रिरुद्धट्टितो भवेत्
- यत्र दोलाकरो वामस्तद्रेचकनिकुट्टकम् ६३७
- इति रेचकनिकुट्टकम्
- नितम्बकेशबन्धादिवर्तनो दक्षिणः करः ६३८
- बहुशः करिहस्तोऽन्यः पादश्चोद्घट्टितस्तथा
- अङ्गान्तरं चेल्ललितं तदा नृत्ते विलासिनि ६३९
- इति ललितम्
- देहक्षेत्रात्करे सूचीमुखसंज्ञेऽपसर्पति
- सूचीपादोऽप्यपसृतश्चारी स्याद्धमरी ततः
- क्रमादङ्गद्वयेऽप्येवं ललिते वलितं भवेत् ६४०
- इति वलितम्
- यत्रोर्ध्वजानुश्चारी स्याल्लताहस्तौ करौ कृतौ ६४१
- तयोरेकं ततो न्यस्येदुपर्यूर्ध्वस्थजानुतः
- पुनरङ्गान्तरेणैव दण्डपक्षं तदुच्यते ६४२
- इति दण्डपक्षम्
- पराङ्मुखौ नाभितटे हस्तौ चेत्खटकामुखौ
- सूचीपादोऽङ्घ्रिणाऽन्येन युक्त्वाऽपक्रान्तयाऽन्वितः
- अङ्घ्रिरन्यस्तथैव स्यात्तदा पादापविद्धकम् ६४३
- इति पादापविद्धकम्
- विधाय भ्रमरीं चारीं ततो नूपुरपादिकाम् ६४४
- पादेनैकेन तद्दिक्कं हस्तं रेचितमाचरेत्
- द्वितीयं तु लताहस्तं यत्र तन्नूयुरं विदुः ६४५
- इति नूपुरम्
- पादमाक्षिप्तचारीकं तदैवोद्वेष्टितं करम्
- त्रिकं च वलितं कृत्वा पादस्वस्तिकमाचरेत् ६४६
- ततस्तद्वद्द्वितीयाङ्गं युगपच्चोल्बणौ करौ
- यत्र तद्धमरं योज्यं तच्चोद्धतपरिक्रमे ६४७
- इति भ्रमरम्
- अलपद्मौ कटीपार्श्वक्षेत्रे यत्र क्रमात्करौ
- कटीछिन्ना च वैशाखं स्थानं तच्छिन्नमुच्यते
- स्यात्तालभञ्जने तच्च तथाऽङ्गप्रतिसारणे ६४८
- इति च्छिन्नम्
- भुजंगत्रासिता चारी ततो यत्र च रेचितौ
- हस्तौ स्तो वामपार्श्वे तद्भुजंगत्रस्तरेचितम् ६४९
- इति भुजंगत्रस्तरेचितम्
- चारी चेद्दक्षिणाङ्घ्रेः स्यात्पूर्वोक्ता दक्षिणः करः
- रेचितोऽन्यो लताहस्तो भुजंगाञ्चितकं तदा ६५०
- इति भुजंगाञ्चितम्
- चारी चेद्दण्डपादा स्याद्दण्डपक्षौ च हस्तकौ
- प्रमोदनृत्तविषयं तदा स्याद्दण्डरेचितम्
- प्रयोगमपरे त्वाहुरस्योद्धतपरिक्रमे ६५१
- इति दण्डरेचितम्
- वक्षःक्षेत्रस्थयोः पाण्योर्वामश्चेदलपल्लवः
- दक्षिणश्चतुरोऽङ्घ्रिस्तूद्घट्टितश्चतुरं तदा
- एतद्विस्मयसूचायां वैदूषिक्यां नियुज्यते ६५२
- इति चतुरम्
- द्रुतापसारितं वामं सूचीपादं विधाय चेत्
- तत्पार्श्वे दक्षिणं न्यस्येत्तत्कालं रेचयेत्कटिम् ६५३
- कुर्वन्वा भ्रमरीं हस्तौ व्यावृत्तपरिवर्तितौ
- कृत्वाऽन्ते चतुरस्रः स्यात्कटिभ्रान्तं तदा भवेत् ६५४
- अस्य तालान्तरालेषु यतीनां परिपूरणे
- प्रयोगमाह निःशङ्कस्तथा गतिपरिक्रमे ६५५
- इति कटिभ्रान्तम्
- एक उद्वेष्टितेनाधो विप्रकीर्णः करोऽपरः
- ऊर्ध्वं तादृक्परावृत्त्या वक्षःक्षेत्रगतस्ततः ६५६
- उत्तानो रेचितश्चैकोऽपरोऽधोमुखरेचितः
- आलीढं स्थानकं यत्र तद्व्यंसितमुदाहृतम्
- आलीढं स्थानकं यत्र तद्व्यंसितमुदाहृतम्
- प्रयोज्यमाञ्जनेयादिमहाकपिपरिक्रमे ६५७
- इति व्यंसितम्
- चार्याऽतिक्रान्तया पादं पात्यमानं तु कुञ्चयेत्
- व्यावर्तितेन तत्कालं करं निष्क्रामयेत्ततः ६५८
- आक्षिप्य परिवर्तेन तं कुर्यात्खटकामुखम्
- वक्षस्येवं द्वितीयाङ्गं यत्र तत्क्रान्तमिष्यते
- प्रयोगमाहुराचार्यास्तस्योद्धतपरिक्रमे ६५९
- इतिक्रान्तम्
- हस्तपादकटिग्रीवं रेचितं स्थानकं पुनः
- वैशाखं यत्र तज्ज्ञेयं विज्ञैर्वैशाखरेचितम् ६६०
- इति वैशाखरेचितम्
- करिहस्तौ करौ पादः पृष्ठे वृश्चिकपुच्छवत्
- दूरसम्नतपृष्ठं च यत्र तद्वृश्चिकं विदुः
- एतदैरावणादीनां व्योमयाने नियुज्यते ६६१
- इति वृश्चिकम्
- वृश्चिकं चरणं कृत्वा बाहुशीर्षे यदा क्रमात्
- अलपद्मौ निकुट्येते तदा वृश्चिककुट्टितम्
- सविस्मये व्योमयानवाञ्छादौ विनियुज्यते ६६२
- इति वृश्चिककुट्टितम्
- यत्राङ्घ्री वृश्चिकीभूतौ स्वस्तिकौ रेचितौ करौ
- विच्युतौ चेत्तदाऽऽकाशयाने वृशिकरेचितम् ६६३
- इति वृश्चिकरेचितम्
- वृशिकश्चरणो यत्र वामहस्तो लताभिधः
- तल्लतावृश्चिकं योज्यं गगनोत्पतने बुधैः ६६४
- इति लतावृश्चिकम्
- आक्षिप्ता यत्र चारी स्यादाक्षिप्तः खटकामुखः
- चतुरो वा तदाक्षिप्तं विदूषकगतौ मतम् ६६५
- इत्याक्षिप्तम्
- कनिष्ठाङ्गुलिभागे चेद्वामाङ्घ्रेर्दक्षिणः स्थितः ६६६
- स्तब्धजङ्घः सार्धतालद्वितयं स्यात्प्रसारितः
- तदैव स्तब्धबाहुः सन्वामपार्श्वेऽलपल्लवः ६६७
- बामेतरः करः किंचित्प्रसृताग्रोऽर्गलं तदा
- परिक्रमेऽङ्गदादीनां शार्ङ्गदेवेन कीर्तितम् ६६८
- इत्यर्गलम्
- ऊर्ध्वमूर्ध्वाङ्गुलितलः पादः पार्श्वे प्रसारितः ६६९
- तदग्रयुक्पताकोऽङ्गं यत्रेत्थमपरं क्रमात्
- सूत्रधारादिविषये तत्स्यात्तलविलासितम् ६७०
- इति तलविलासितम्
- अङ्गुष्ठो वृश्चिकाङ्घ्रेश्चेललाते तिलकं लिखेत्
- तदा ललाटतिलकं विद्याधरगतौ मतम् ६७१
- इति ललाटतिलकम्
- पाण्योः स्वस्तिकयोरूर्ध्वमुख पार्श्वे निकुट्टितः ६७२
- एकोऽन्योधोमुखो यत्र तद्वत्पादो निकुट्टितः
- तत्प्रकाशनं संचाराभ्यासे पार्श्वनिकुट्टकम् ६७३
- इति पार्श्वनिकुट्टकम्
- यत्र कृत्वोड्डितां चारीं दोलाभ्यां चक्रवद्धमेत् ६७४
- अन्तर्नतेन गात्रेण तदूचुश्चक्रमण्डलम्
- सुराणां वरिवस्यायां तदुद्धतपरिक्रमे ६७५
- इति चक्रमण्डलम्
- चार्यौ बद्धास्थितावर्ते उरोमण्डलिनौ करौ
- यत्रोरोमण्डलं तत्तु शिववल्लभभाषितम् ६७६
- इत्युरोमण्डलम्
- उद्वेष्टितेनापवेष्टे यत्र दोलाभिधौ करौ
- चारी चाषगतिस्तत्स्यादावर्तं भयसर्पणे ६७७
- इत्यावर्तम्
- उत्तानो वामपार्श्वस्थोऽलपद्मो दक्षिणः करः ६७८
- यत्र तत्कुञ्चितं पादे सव्येऽग्रतलसंचरे
- तेन देवानभिनयेदानन्दभरनिर्भरान् ६७९
- इति कुञ्चितम्
- ऊर्ध्वजानोः परं चारी दोलापादा यदा भवेत्
- दोलौ हस्तौ तदा प्रोक्तं दोलापादं विदांवरैः ६८०
- इति दोलापादम्
- पादमाक्षिप्तया चार्याऽऽक्षिप्याऽऽक्षिप्य करावपि ६८१
- व्यावृत्तपरिवृत्ताभ्यां कृत्वा भ्रमरिकां करौ
- रेचितौ चेद्विवृत्तं स्यात्तच्चोद्धतपरिक्रमे ६८२
- इति विवत्तम्
- सूच्यङ्घ्रिणा द्वितीयाङ्घ्रेः पार्ष्णितः स्वस्तिकं भवेत्
- व्यावृत्तिप्रत्यावृत्तिभ्यां वलयित्वैकपार्श्वतः ६८३
- त्रिकं बद्धाभिधां चारीं कुर्याद्धस्तौ च रेचितौ
- यत्र तद्विनिवृत्तं स्यात्पूर्वोक्तविनियोगभाक् ६८४
- इति विनिवृत्तम्
- पार्श्वक्रान्ता भवेच्चारी करौ पादानुगौ यदा अ ६८५
- पार्श्वक्रान्तं तदा यद्वाऽभिनेयवशगौ करौ
- तद्योज्यं भीमसेनादे रौद्रप्राये परिक्रमे ६८६
- इति पार्श्वक्रान्तम्
- पार्ष्णिदेशे द्वितीयाङ्घ्रः कुञ्चितश्चरणो भवेत्
- समुन्नतमुरः पाणेः खटकाख्यस्य मध्यमा ६८७
- यत्राङ्गुलिस्तिलकयेल्ललाटं तन्निशम्भितम्
- यद्वा वृश्चिकहस्तः स्यादभिनेयो महेश्वरः ६८८
- इति निशुम्भितम्
- पृष्ठतो भ्रामितं पादं सर्वतोमण्डलप्लुतः ६८९
- भ्रामयेच्चेच्छिरः क्षेत्रे विद्युद्धान्तं तदोच्यते
- प्रयोगमस्य च प्राहुरुद्धतानां परिक्रमे ६९०
- इति विद्युद्धान्तम्
- कृत्वा चारीमतिक्रान्तामङ्घ्रिमग्रे प्रसारयेत्
- यत्र हस्तौ प्रयोगार्हावतिक्रान्तमदो विदुः ६९१
- इत्यतिक्रान्तम्
- विद्युद्धान्तादण्डपाद क्रमाच्चार्यौ विधाय चेत्
- उद्वेष्टितापवेष्टाभ्यामेकमार्गगतौ करौ ६९२
- रेचयन्नग्रतः पृष्ठे पार्श्वयोर्विक्षिपेत्तदा
- विक्षिप्तमभिनेतव्यस्तेनोद्धतपरिक्रमः ६९३
- इति विक्षिप्तम्
- करं चरणमाक्षिप्य यत्र त्रिकविवर्तनम्
- करोऽपरो रेचितश्च तद्वदन्ति विवर्तितम् ६९४
- इति विवर्तितम्
- दोलापादा यदा चारी करिहस्तोऽस्य कर्णगः
- क्रियाविष्टः करोऽन्वर्थं गजक्रीडिकं तदा ६९५
- इति गजक्रीडितकम्
- सूचीपादो नतं पार्श्वं वक्षस्थः खटकामुखः ६९६
- वामो
- लपल्लवो गण्डक्षेत्रे चेद्गण्डसूचितम्
- क्षेत्रेऽत्र केचिदिच्छन्ति सूचीपादं परे पुनः ६९७
- सूचीमुखं नृत्तहस्तमन्येऽभिनयहस्तकम्
- करणेनाभिनेतव्या कपोलालंकृतिस्तदा ६९८
- इति गण्डसूची
- लतारेचितकौ हस्तौ वृश्चिकाङ्घ्रिः समुन्नतम्
- उरो यत्र तदन्वर्थाभिधानं गरुडप्लुतम् ६९९
- इति गरुडप्लुतम्
- दण्डपादाख्यया चार्या यद्वाऽतिक्रान्तया द्रुतम् ७००
- उत्क्षिप्य पात्यमानेऽङ्घ्रावग्रे चेत्तालिकां करौ
- सशब्दां कुरुतोऽन्वर्थं तलसंस्फोटितं तदा ७०१
- इति तलसंस्फोटितम्
- समपादस्तु पृष्ठे चेन्निहितश्चरणोऽपरः ७०२
- मुष्टिहस्तः स्थितो वक्षस्यर्धचन्द्रः कटीतटे
- पार्श्वजानु तदा ज्ञेयं योज्यं युद्धनियुद्धयोः ७०३
- इति पार्श्वजानु
- पृष्ठेऽङ्घ्रिः प्रसृतो भूमिश्लिष्टाङ्गुष्ठौ लताकरौ
- यदा तदा महाज्पक्षियुद्धे गृध्रावलीनकम् ७०४
- इति गृध्रावलीनकम्
- उत्क्षिप्य कुञ्चितः पादः स्थाप्यते भूमिमस्पृशन्
- खटकाख्यश्च तद्दिक्को हस्तो वक्षस्यथापरः ७०५
- अलपद्मः शिरोदेशे ततहिवाङ्गान्तरं क्रमात्
- यत्र तच्छार्ङ्गदेवेन गदितं सूचि विस्मये ७०६
- इति सूचि
- सूच्येवैकाङ्गरचितमर्धसूचि प्रचक्षते ७०७
- इत्यर्धसूचि
- पक्षवञ्चितको वाऽर्धचन्द्रो हस्तः कटीगतः
- खटकाख्योऽपरो वक्षस्यन्यपार्ष्णिस्थितोऽपरः
- सूच्यङ्घ्रिश्चेत्तदा सूचीविद्धं चिन्तादिगोचरम् ७०८
- इति सूचीविद्धम्
- हरिणप्लुतया चार्या दोलाखटकहस्तकम्
- हरिणप्लुतमाख्यातं नामोक्तविनियोगकम् ७०९
- इति हरिणप्लुतम्
- ऊर्ध्वमण्डलिनौ हस्तौ सूच्यङ्घ्रिर्यत्रबद्धया
- विवृत्तोऽथ भ्रमरिका परिवृत्तं तदुच्यते ७१०
- इति परिवृत्तम्
- चारीनूपुरपादोऽथ दण्डपादाद्द्रुतं करः
- दण्डवन्न्यस्यते यत्र दण्डपादं तदुच्यते
- सूरयो विनियुञ्जन्ति तत्साटोपपरिक्रमे ७११
- इति दण्डपादम्
- हस्तौ चेद्रेचितावूरू वृश्चिकाङ्घ्रिं निकुञ्च्य च
- भ्रमरी क्रियतेऽन्वर्थं मयूरललितं तदा ७१२
- इति मयूरललितम्
- दोलापादाख्यचारीकादङ्घ्रेरन्याङ्घ्रिणा यदा
- उत्प्लुत्य भ्रमरीं कुर्याद्भवेत्प्रेङ्खोलितं तदा ७१३
- इति प्रेङ्खोलितम्
- कृत्वा मृगप्लुतं यत्र कृतोऽङ्घ्रिः स्वस्तिकोऽग्रतः
- दोलौ हस्तौ संनतं तदधमापसृतौ भवेत् ७१४
- इति संनतम्
- अञ्चितेऽपसरत्यङ्घ्रावन्याङ्घ्रेर्नामितं शिरः
- तस्मिन्पार्श्वे करोऽप्येष रोचितोऽङ्गान्तरं तथा
- यत्र तत्सर्पितं मत्तस्योपसर्पापसर्पणे ७१५
- इति सर्पितम्
- वामश्चेत्खटको वक्षस्युद्वेष्टिततया परः ७१६
- त्रिपताकः करः कर्णे तद्दिक्कश्चरणोऽञ्चितः
- निष्क्राम्यते यदा प्रोक्तं करिहस्तं तदा बुधैः ७१७
- इति करिहस्तम्
- हस्तो यो रेचितस्तद्दिक्पादश्चेद्भूमिघर्षणात्
- चलेत्पादान्तरान्मन्दं मन्दमन्यो लताकरः
- तदा खेचरसंचारगोचरं स्यात्प्रसर्पितम् ७१८
- बद्धाज्पक्रान्तयोश्चार्योः कृतयोर्हस्तयोः पुनः
- तत्तत्प्रयोगानुगयोरपक्रान्तमुदाहृतम् ७१९
- इत्यपक्रान्तम्
- अधोमुखाङ्गुली हस्तौ पताकौ चेच्छिरःस्थलम्
- आनीय परिवृत्तेन निष्क्राम्योर्ध्वांसयोस्तयोः ७२०
- मिथोमुखाववस्थाप्य स्वदेहाभिमुखाङ्गुली
- नितम्बाख्यौ विधीयेते नितम्बं करणं तदा ७२१
- इति नितम्बम्
- दोलापादाङ्घ्रिगमनागमने हंसपक्षकः
- अभ्येत्यथेत्थमन्याङ्गं यत्र तत्स्खलितं मतम् ७२२
- इति स्खलितम्
- कृत्वाऽलातां पुरोऽङ्घ्रिं चेद्द्रुतं न्यस्य चपेटवत्
- कृतो हस्तस्तथाऽन्याङ्गं सिंहविक्रीडितं तदा
- एतद्रौद्रगतौ योज्यं ब्रूते श्रीकरणाग्रणीः ७२३
- इति सिंहविक्रीडितम्
- वृश्चिकोऽङ्घ्रिः पद्मकोशौ वौर्णनाभौ यदा करौ ७२४
- अन्याङ्घ्रौ वृश्चिके प्राञ्चौ भङ्क्त्वा तौ तादृशौ पुनः
- कृतौ सिंहाभिनयने सिंहाकर्षितकं तदा ७२५
- इति सिंहाकर्षितम्
- विधाय जनितां चारीं यद्यरालालपल्लवौ
- ललाटवक्षःक्षेत्रस्थौ हस्तावभिमुखाङ्गुली ७२६
- क्रमात्कृत्वोद्वेष्टितेन व्यावृत्त्या पार्श्वगौ ततः
- वक्षोदेशेऽपवेष्टेन परिवृत्त्या च तादृशौ ७२७
- मिथोमुखौ निधीयेते तदा स्यादवहित्थकम्
- गॐपनप्रायवाक्यार्थाभिनये तन्नियुज्यते ७२८
- अन्येऽवहित्थहस्तेन युक्तत्वादवहित्थकम्
- वदन्ति चिन्तादौर्बल्यप्रभृत्यभिनयक्षमम् ७२९
- इत्यवहित्थकम्
- यत्र वक्षसि निर्भुग्ने निहितौ खटकामुखौ
- मण्डलं स्थानकं तत्तु निवेशं गजवाहने ७३०
- इति निवेशम्
- एलकाक्रीडिता चारी चेद्दोलखटकौ करौ
- संनतं वलितं गात्रमेलकाक्रीडितं तदा
- अधमप्रकृतिप्राणिगतिगोचरमिष्यते ७३१
- इत्येलकाक्रीडितम्
- चारी चेज्जनिता मुष्टिर्वक्षस्यन्यो लताकरः
- यदा तदा क्रियारम्भाभिनये जनितं भवेत् ७३२
- इति जनितम्
- आक्षिप्तां वामतश्चारीं व्यावृत्य परिवर्तितम् ७३३
- करं कृत्वा नते पार्श्वे दक्षिणेऽरालतां नयेत्
- यत्र तत्स्यादुपसृतं विनयेनोपसर्पणे ७३४
- इत्युपसृतम्
- दोलापादां भजंश्चारीं संघट्टिततलौ करौ
- पताकौ रेचयित्वा चेद्वैष्णवे स्थानके स्थितः ७३५
- कटिस्थं दक्षिणं हस्तं वामं रेचितमाचरेत्
- अनुकम्पाविधाने स्यात्तलसंघट्टितं तदा ७३६
- इति तलसंघट्टितम्
- यत्रापसारितानीतं हस्तपादं विधीयते
- गात्रमुद्वृत्तचारीकं तदुद्वृत्तं विदुर्बुधाः ८३७
- इत्युद्वृत्तम्
- कुञ्चितः प्रसरत्यङ्घ्रिरग्रे यत्रोद्गमोन्मुखः
- करौ च रेचितौ विष्णुक्रान्तं तत्क्रमणे हरेः ७३८
- इति विष्णुक्रान्तम्
- रेचितः पाणिरेकः स्याद्वक्षस्यन्योऽलपल्लवः
- लोलितं शीर्षमुभयोर्विश्रान्तं पार्श्वयोरपि
- वैष्णवं स्थानकं यत्र तदाहुर्लोलितं बुधाः ७४९
- इति लोलितम्
- स्वस्तिकापसृतौ पादौ क्रमेण परिवाहितम् ७४०
- शिरो दोलौ यदा हस्तौ मदस्खलितकं तदा
- एतन्मध्यमदे योज्यं भाषते भववल्लभः ७४१
- इति मदस्खलितम्
- आविद्धां विदधच्चारीं व्यावृत्तपरिवर्तितम्
- अलपद्मकरं न्यस्येदूरुपृष्ठे यदा तदा
- संभ्रान्तं तत्प्रयोक्तव्यं ससंभ्रमपरिक्रमे ७४२
- इति संभ्रान्तम्
- अपेत्योपव्रजेद्वामं दक्षिणो नृत्तहस्तकः ७४३
- सूचीमुखो निकुट्येत साङ्घ्रिर्वामकरो यदि
- तद्वदङ्गान्तरं कृत्वा सूचीपादश्च दक्षिणः ७४४
- हस्तोऽसावलपद्मः स्याद्वामहस्तस्तु पूर्ववत्
- एवं पुनः पुनर्यत्र विष्कम्भं तद्बभाषिरे ७४५
- इति विष्कम्भम्
- उद्घट्टितोऽङ्घ्रिः पार्श्वं तत्संनतं तालिकोद्यतौ
- हस्तौ यत्रोद्घट्टितं तदावृत्ताङ्गं प्रमोदकम् ७४६
- इत्युद्घट्टितम्
- शकटास्या भवेच्चारी प्रसार्येताङ्घ्रिणा सह ७४७
- एको हस्तो द्वितीयस्तु वक्षस्थः खटकामुखः
- यत्र तच्छकटास्यं स्यात्तादृशे बालखेलिते ७४८
- इति शकटास्यम्
- सहोरूद्वृत्तया चार्या यत्र व्यावर्तनान्वितौ
- अरालखटकौ हस्तौ निदध्यादूरुपृष्ठयोः
- ऊरूद्वृत्तं तदीर्ष्यायां प्रार्थनाप्रेमकोपयोः ७४९
- इत्यूरूद्वृत्तम्
- अलातां विदधच्चारीं हस्तौ कुर्वीत रेचितौ ७५०
- व्यावृत्त्या कुञ्चितौ कृत्वाऽलपद्मौ बाहुशीर्षयोः
- न्यस्येते यत्र तद्धीरा वृषभक्रीडितं जगुः ७५१
- इति वृषभक्रीडितम्
- हस्तौ चेद्रेचितौ स्यातां शिरस्तु परिवाहितम्
- स्वस्तिकापसृतौ पादौ तदा नागापसर्पितम्
- प्राहुः प्रयोगमेतस्य सूरयस्तरुणे मदे ७५२
- इति नागापसर्पितम्
- अङ्घ्रेरुत्क्षेपनिक्षेपावनु प्रोन्नतिसंनती ७५३
- भजेतां त्रिपताकौ चेदेवमेव शिरस्तदा
- गङ्गावतरणं गङ्गावतारे शार्ङ्गिणोदितम् ७५४
- इति गङ्गावरतणम्
- कर्तव्यः करणे प्रायो वामो वक्षःस्थितः करः
- पाणिस्तु दक्षिणस्तत्र स्यात्तत्तत्करणानुगः ७५५
- इत्यष्टोत्तरशतं करणानि
- अथ देश्यनुसारेण देशे देशे लसद्यशाः
- वदत्युत्प्लुतिपूर्वाणि करणानि हरप्रियः ७५६
- अञ्चितं चैकचरणाञ्चितं स्याद्भैरवाञ्चितम्
- दण्डप्रणामाञ्चितं च कर्तर्यञ्चितकं ततः ७५७
- अलगं त्रीणि कूर्मोर्ध्वान्तरपूर्वालगानि च
- लोहडी कर्तरीलोहड्येकपादादिलोहडी ७५८
- ततः स्याद्दर्पसरणं शयनं जलपूर्वकम्
- नागबन्धं कपालाद्यं चूर्णनं नतपृष्ठकम् ७५९
- स्यान्मत्स्यकरणं चाथ करस्पर्शनसंज्ञकम्
- एणप्लुतं ततस्तिर्यक्करणं तिर्यगञ्चितम् ७६०
- तिर्यक्स्वस्तिकसंज्ञं च सूच्यन्तमथ कीर्तितम्
- बह्यान्तश्छन्नतिरिपालगचक्रोचितादिमाः ७६१
- सप्त भ्रमर्यो भ्रमरी शिरःपूर्वा दिगादिमा
- समपादाञ्चितं भ्रान्तपादाञ्चितमतः परम् ७६२
- स्कन्धभ्रान्तं च षट्त्रिंशदिति सोढलनन्दनः
- संक्षिप्योत्प्लुतिपूर्वाणि करणानि समादिशत् ७६३
- अञ्चितं समपादेन स्थित्वोत्तालोत्प्लुतो भवेत्
- इत्यञ्चितम्
- एकपादाञ्चितं तत्स्यादेकपादविनिर्मितम् ७६४
- इत्येकचरणाञ्चितम्
- ऊरुपृष्ठस्थितैकाङ्घ्रेरुत्प्लुतौ भैरवाञ्चितम्
- इति भैरवाञ्चितम्
- उत्प्लुत्याञ्चितवद्यत्र निपतेद्दण्डवद्भुवि
- दण्डप्रणामाञ्चितं तद्गदितं नृत्तवेदिभिः ७६५
- इति दण्डप्रणामाञ्चितम्
- अञ्चितं स्वस्तिकाङ्घ्रिभ्यां कर्तर्यञ्चिमुच्यते
- इति कर्तर्यञ्चितम्
- अधोमुखोत्प्लुतोऽग्रे च पतित्वा कुक्कुटासनम्
- बध्नीयाद्यत्र तत्प्रोक्तमलगं सूरिशार्ङ्गिणा ७६६
- इत्यलगम्
- कूर्मासनं यद्यलगे भवेत्कूर्मालगं तदा
- इति कूर्मालगम्
- ऊर्ध्वालगं तत्पतित्वा समाङ्घ्रेरूर्ध्वसंस्थितौ ७६७
- इत्यूर्ध्वालगम्
- कृतालगो निपत्योर्व्यामुत्तानोरःस्थलस्थितः
- पृष्ठतः श्रोणिसंस्पर्शि शिरः स्यादन्तरालगे ७६८
- इत्यन्तरालगम्
- समपादस्थितो यत्र विवर्त्य त्रिकमुत्प्लुतः
- तिर्यक्पाते लोहडी तल्लुण्ठितं चोच्यते बुधैः ७६९
- इति लोहडी लुण्ठितं वा
- स्वस्तिकाङ्घ्रिकृता सैव कर्तरीलोहडी मता
- इति कर्तरीलोहडी लुण्ठितं वा
- एकाङ्घ्रिजा त्वेकपादलोहडी संमता सताम् ७७०
- इत्येकपादलोहडी एकपादलुण्ठितं वा
- वैष्णवे स्थानके स्थित्वा पतेत्पार्श्वेन चेद्भुवि
- करणं दर्पसरणं तदाह करणाधिपः ७७१
- इति दर्पसरणम्
- तदेव जलशय्याख्यमासने जलशायिवत्
- इति जलशयनम्
- नागबन्धं तदेव स्यान्नागबन्धवदासने ७७२
- इति नागबन्धम्
- समपादस्थितो यत्र संस्पृश्य शिरसा भुवम्
- परावृत्तस्तत्कपालचूर्णनं वर्णितं बुधैः ७७३
- इति कपालचूर्णनम्
- कपालचूर्णनं कृत्वोत्तानं वक्षस्थलं ततः
- यत्रोक्तं नतपृष्ठं तद्वङ्कोलमपरैरदः ७७४
- उत्प्लुत्य मध्यमावर्त्य वामपार्श्वेन मत्स्यवत्
- परिवर्तेत चेन्मत्स्यकरणं वर्णितं तदा ७७५
- इति मत्स्यकरणम्
- अलगं करणं कृत्वा हस्तेनाऽऽश्रित्य च क्षितिम्
- परिवर्तेत यत्रादः करस्पर्शनमूचिरे ७७६
- इति करस्पर्शनम्
- उत्प्लुत्यान्यतमां सूचीं खे कृत्वा भजते क्षितौ
- यदोत्कटासनं चोर्ध्वस्थानमेणप्लुतं तदा ७७७
- इत्येणप्लुतम्
- तिर्यगेकेन पादेन समुत्प्लुत्य निपत्य चेत्
- तिष्ठेद्भुव्यङ्घ्रिणाऽन्येन स्यात्तिर्यक्करणं तदा ७७८
- इति तिर्यक्करणम्
- समपादात्परम् तिर्यगुत्प्लुतौ तिर्यगञ्चितम्
- इति तिर्यगञ्चितम्
- स्यात्तिर्यक्स्वस्तिकं कृत्वा स्वस्तिकं तिर्यगुत्प्लुतौ ७७९
- इति तिर्यक्स्वस्तिकम्
- समाद्यन्यतमां सूचीं दधते निधने यदि
- करणानि तदा प्राञ्चि सूच्यन्तानि प्रचक्षते ७८०
- इति सूच्यन्तम्
- दक्षिणेनाङ्घ्रिणा स्थित्वा वाममङ्घ्रिं तु कुञ्चयेत्
- वामावर्तं भवेद्यत्र सा बाह्यभ्रमरी मता ७८१
- इति बाह्यभ्रमरी
- एतस्यास्तु विपर्यासादन्तर्भ्रमरिका भवेत्
- इत्यन्तर्भ्रमरी
- त्रिविक्रमाकारधारी स्थानमास्थाय यत्र तु
- वामावर्तभ्रमादाहुस्तां छन्नभ्रमरीं बुधाः ७८२
- इति च्छन्नभ्रमरी
- तिरिपभ्रमरी तिर्यग्भ्रमेऽङ्घ्रिस्वस्तिकात्परम् ७८३
- इति तिरिपभ्रमरी
- वैष्णवस्थानके स्थित्वा यदा वामाङ्घ्रिणा स्थितः
- देहं भ्रामयते तिर्यगलगभ्रमरी तदा ७८४
- इत्यलगभ्रमरी
- चक्रभ्रमरिका खण्डसूच्यर्धे चक्रवद्धमात्
- इति चक्रभ्रमरी
- समपादाननतरं चेत्तिरश्चीं भ्रामयेत्तनुम्
- उचितभ्रमरीं प्राह तदा शंकरवल्लभः ७८५
- इत्युचितभ्रमरी
- शिरसैव भुवि स्थित्वोर्ध्वीकृतौ चरणौ दधत्
- परिभ्रमति यत्र त्रिः सा शिरोभ्रमरी मता ७८६
- इति शिरोऽभ्रमरी
- प्राग्वत्सकृत्सकृद्धान्त्वा हस्तभ्रान्त्या धृतक्षितिः
- दिक्चतुष्के क्रमात्तिष्ठेद्यदा दिग्भ्रमरी तदा ७८७
- इति दिग्भ्रमरी
- समपादाञ्चितं कृत्वा स्कन्धेनैकेन भूस्थितः ७८८
- परिवृत्य च तिर्यक्चेत्पादावुल्लोलयेत्तदा
- समपादाञ्चितं प्राह सूरिः श्रीकरणाग्रणीः ७८९
- इति समपादाञ्चितम्
- भ्रामयित्वा दक्षिणाङ्घ्रिं तदीयतलपृष्ठतः
- जङ्घामध्यमवष्टाभ्य वामाङ्घ्रेरञ्चितं पदम् ७९०
- विधाय तिर्यक्संधाभ्यामधिष्ठाय विवृत्य च
- पादावुल्लोलयेत्प्रोक्तं भ्रान्तपादाञ्चितं तदा ७९१
- इति भ्रान्तपादाञ्चितम्
- उत्कटासनमास्थायाञ्चितं कृत्वा सयुग्मतः
- स्थित्वा भुवि व्योम्नि कृत्वाऽङ्गान्तराणि ततो भुवम् ७९२
- अवष्टाभ्य कराभ्यां चेद्धान्त्वा भ्रान्त्वा च पूर्ववत्
- तिष्ठेत्प्रतिदिशं प्रोक्तं स्कन्धभ्रान्तं तदा बुधैः ७९३
- इति स्कन्धभ्रान्तम्
- विद्यन्तेऽन्येऽपि भूयांसो भेदाः करणसंश्रयाः
- न ते श्रीशार्ङ्गिणा प्रोक्ता ग्रन्थप्रथिमभीरुणा ७९४
- इति षट्त्रिंशदुत्प्लुतिकरणानि
- पूर्वरङ्गे प्रयोक्तव्यान्दृष्टादृष्टफलानपि
- अङ्गहारान्प्रवक्ष्यामि नामतो लक्ष्मतस्तथा ७९५
- अङ्गानामुचिते देशे प्रापणं सविलासकम्
- मातृकोत्करसंपाद्यमङ्गहारोऽभिधीयते ७९६
- यद्वा हारो हरस्यायं प्रयोगोऽङ्गैरिति स्मृतः ७९७
- करणाभ्यां मातृका स्यात्कलापः करणैस्त्रिभिः
- चतुर्भिः खण्डको ज्ञेयः संघातः पञ्चभिर्मतः
- इति संघविशेषेण संज्ञाभेदान्परे जगुः ७९८
- करणन्यूनताधिक्यं तेषां मेने मुनिः स्वयम्
- द्वाभ्यां त्रिचतुराभिर्वेत्येतद्वाशब्दसूचितम् ७९९
- स्थिरहस्तोऽथ पर्यस्तः सूचीविद्धोऽपराजितः
- वैशाखरेचितः पार्श्वस्वस्तिको भ्रमरोऽपरः ८००
- आक्षिप्तकः परिच्छिन्नो मदाद्विलसितस्ततः
- आलीढाच्छुरितौ पार्श्वच्छेदसंज्ञोऽपसर्पितः ८०१
- मत्ताक्रीडस्तथा विद्युद्धान्तोऽमी षोडशोदिताः
- चतुरस्रेण मानेनाङ्गहारा मुनिसत्तमैः ८०२
- विष्कम्भापसृतौ मत्तस्खलितो गतिमण्डलः
- अपविद्धश्च विष्कम्भोद्घट्टिताक्षिप्तरेचिताः ८०३
- रेचितोऽर्धनिकुट्टश्च वृश्चिकापसृतस्ततः
- अलातकः परावृत्तः परिवृत्तादिरेचितः ८०४
- उद्धृत्तकश्च संभ्रान्तसंज्ञः स्वस्तिकरेचितः
- षोडशेति त्र्यस्रमाना द्वात्रिंशदुभये मताः ८०५
- करणव्रातसंदर्भानन्त्यात्तेषामनन्तता
- द्वात्रिंशत्ते तथाऽप्युक्ताः प्राधान्यविनियोगतः ८०६
- एकैकं करणं कार्यं कलया गुरुरूपया
- सर्वेषामङ्गहाराणामित्याह करणाग्रणीः ८०७
- लीनं समनखं कृत्वा व्यंसितं चात्र विच्युतौ
- करौ कृत्वोज्झितालीढः प्रत्यालीढं व्रजेत्ततः ८०८
- निकुट्टकोरूद्वृत्ताख्यस्वस्तिकाक्षिप्तकान्यथ ८०९
- नितम्बं करिहस्तं च कटीच्छिन्नमिति क्रमात्
- करणैः स्थिरहस्तः स्याद्दशभिः शिववल्लभः ८१०
- अङ्गहारेषु सर्वेषु प्रत्यालीढान्तमादितः
- प्रयोक्तव्यमिति प्राहुः केचिन्नाट्यविशारदाः ८११
- इति स्थिरहस्तः
- तलपुष्पपुटं पूर्वमपविद्धं च वर्तितम्
- निकुट्टकोरूद्वृत्ताख्याक्षिप्तोरोमण्डलान्यथ ८१२
- नितम्बं करिहस्तं च कटीछिन्नमिति क्रमात्
- दशभिः करणैरेभिः प्रोक्तः पर्यस्तको बुधैः ८१३
- इति पर्यस्तकः
- अर्धसूच्यथ विक्षिप्तमावर्तं च निकुट्टकम्
- ऊरूद्वृत्तमथाऽऽक्षिप्तमुरोमण्डलसंज्ञकम् ८१४
- करिहस्तं कटीछिन्नं नवभिः करणैरिति
- सूचीविद्धाभिधः प्रोक्तोऽङ्गहारो भरतादिभिः ८१५
- इति सूचीविद्धः
- दण्डपादं द्व्यंसितं च प्रसर्पितकसंज्ञकम्
- निकुट्टार्धनिकुट्टे चाऽऽक्षिप्तोरोमण्डले ततः ८१६
- करिहस्तं कटीछिन्नमिति लक्ष्मापराजिते
- नवभिः करणैर्युक्तमुक्तं निःशङ्कसूरिणा ८१७
- इत्यपराजितः
- वैशाखरेचितं द्वाभ्यामङ्गाभ्यामथ नूपुरम् ८१८
- भुजंगत्रासितोन्मत्तमण्डलस्वस्तिकान्यथ
- निकुट्टकोरूद्वृत्ताख्याक्षिप्तोरोमण्डलानि च ८१९
- करिहस्तं कटीछिन्नमित्येकादशभिः क्रमात्
- करणैरङ्गहारः स्यान्नाम्ना वैशाखरेचितः ८२०
- इति वैशाखरेचितः
- दिक्स्वस्तिकं ततश्चाङ्गेनैकेनार्धनिकुट्टकम्
- पुनर्दिक्स्वस्तिकमथान्याङ्गेनार्धनिकुट्टकम् ८२१
- अपविद्धोरूद्वृत्ताख्ये तथाऽऽक्षिप्तं नितम्बकम्
- करिहस्तं कटीछिन्नमष्टभिः करणैरिति
- स्यात्पार्श्वस्वस्तिकोऽभ्यासात्त्वाद्ययोर्दशभिर्भवेत् ८२२
- इति पार्श्वस्वस्तिकः
- नूपुराक्षिप्तकच्छिन्नसूचीन्यथ नितम्बकम् ८२३
- करिहस्तं च करणमुरोमण्डलकं ततः
- कटीछिन्नमिति प्रोक्तः करणैर्भ्रमरोऽष्टभिः ८२४
- इति भ्रमरः
- कृत्वा नूपुरविक्षिप्तालातान्याक्षिप्तकं ततः
- उरोमण्डलसंज्ञं च करणैरेभिराक्षिप्तकोऽष्टभिः
- विक्षिप्तालातकाक्षिप्तप्रयोगं द्विः परे जगुः ८२६
- इत्याक्षिप्तकः
- कृत्वा समनखं छिन्नं संभ्रान्तमथ वामतः
- भ्रमरं वामपार्श्वार्धसूच्यङ्घ्रिक्रान्तसंज्ञकम् ८२७
- भुजंगत्रासितादूर्ध्वं करिहस्तं विधीयते
- कटीछिन्नं परिच्छिन्नो नवभिः करणैरिति ८२८
- इति परिच्छिन्नः
- मदस्खलितमत्तल्लितलसंस्फोटितानि च
- बहुशश्चित्रगुम्फानि निकुट्टकमतः परम् ८२९
- ऊरूद्वृत्तं च करणं करिहस्तसमाह्वयम्
- कटीछिन्नं च सप्तेति मदाद्विलसिते जगुः ८३०
- करणानि त्रयाणां तु त्रिरभ्यासात्त्रयोदश
- अभ्यासांस्त्रिषु वाञ्छन्ति चतुष्पञ्चादिकानपि ८३१
- इति मदबिलसितः
- द्व्यंसितं सनिकुट्टं स्यान्नूपुरं वामतोऽङ्घ्रितः
- अन्यतोऽलातकाक्षिप्ते उरोमण्डलकं ततः ८३२
- करिहस्तं कटीछिन्नमित्येभिः करणैः क्रमात्
- भवेदष्टभिरालीढोऽङ्गहारो मुनिसंमतः ८३३
- इत्यालीढः
- नूपुरं भ्रमरं चाथ व्यंसितालातके ततः ८३४
- नितम्बं सूचिसंज्ञं च करिहस्तमतः परम्
- कटीछिन्नं च करणान्यष्टेत्याच्छुरिते विदुः ८३५
- इत्याच्छुरितः
- वृश्चिकाद्यं कुट्टितं स्यादूर्ध्वजानु ततः परम्
- आक्षिप्तस्वस्तिकं कृत्वा त्रिकस्य परिवर्तनम् ८३६
- उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्
- कटीछिन्नं च करणं पार्श्वच्छेदेऽष्टमं मतम् ८३७
- इति पार्श्वच्छेदः
- अपक्रान्तं व्यंसितस्य केवलं करयोः क्रिया
- करिहस्तं चार्धसूची विक्षिप्ताख्यं कटीयुतम् ८३८
- छिन्नमूरूद्वृत्तसंज्ञमाक्षिप्तं करिहस्तकम्
- कटीछिन्नं च सप्तेति करणान्यपसर्पिते
- सार्धानि द्विः कटीछिन्नकरिहस्तकृतेर्नव ८३९
- इत्यपसर्पितः
- भ्रमरं नूपुराख्यं च भुजंगत्रासिताभिधम् ८४०
- दक्षिणाङ्गेनैव कृत्वा कुर्याद्वैशाखरेचितम्
- आक्षिप्तच्छिन्नकरणे भ्रमरव्यंसिते ततः ८४१
- उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्
- कटीछिन्नं च करणैरेभिर्द्वादशभिः क्रमात् ८४२
- एकादशभिरभ्यासाद्गणना भ्रमरस्य तु
- मत्ताक्रीडाभिधानः स्यादङ्गहारो हरप्रियः ८४३
- इति मत्ताक्रीडः
- वामाङ्गेनार्धसूचि स्याद्विद्युद्धान्तं तु दक्षिणे
- पुनरङ्गविपर्यासाद्द्वयं छिन्नमतः परम् ८४४
- अतिक्रान्तं वामतोऽथ लतावृश्चिकमाचरेत्
- कटीछिन्नं च षडिति द्वयोरभ्यासतः पुनः
- करणान्यष्टसंख्यानि विद्युद्भ्रान्तेऽभ्यधुर्बुधाः ८४५
- इति विद्युद्भ्रान्तः
- निकुट्टकाख्यकरणं विधायार्धनिकुट्टकम्
- भुजंगत्रासितादूर्ध्वं भुजंगत्रस्तरेचितम् ८४६
- आक्षिप्तोरोमण्डले च क्रमात्कृत्वा लताकरम्
- कटीछिन्नं सप्तमं तु विष्कम्भापसृते भवेत् ८४७
- इति विष्कम्भापसृतः
- मत्तल्लिगण्डसूच्याख्ये लीनं मत्तापविद्धकम्
- तद्गतत्वेन कर्तव्यं तलसंस्फोटितं ततः ८४८
- करिहस्तं कटीछिन्नं करणानि क्रमादिति
- सप्ताङ्गहारे प्रोक्तानि मत्तस्खलितसंज्ञके ८४९
- इति मत्तस्खलितः
- मण्डलस्वस्तिकादूर्ध्वं निवेशोन्मत्तसंज्ञके
- उद्घट्टिताख्यं मत्तल्लि स्यादाक्षिप्तमतः परम् ८५०
- उरोमण्डलकं छिन्नं कट्यादि गतिमण्डले
- इत्यष्टौ करणानि स्युरिति निःशङ्कभाषितम् ८५१
- इति गतिमण्डलः
- अपविद्धं प्रथमतः सूचीविद्धमथो करौ
- उद्वेष्टिते समं चार्या बद्धया वलयेत्त्रिकम् ८५२
- ऊरूद्वृत्तं च करणमुरोमण्डलकं ततः
- कटीछिन्नं पञ्चमं चेदपविद्धस्तदा भवेत् ८५३
- इत्यपविद्धः
- निकुट्टकाख्यं करणं स्यान्निकुञ्चितमञ्चितम्
- ऊरूद्वृत्तं ततोऽप्यर्धनिकुट्टकरणं ततः ८५४
- भुजंगत्रासितं हस्तोद्वेष्टने भ्रमरं ततः
- करिहस्तं कटीछिन्नं विष्कम्भे नवमं भवेत् ८५५
- इति विष्कम्भः
- उद्घट्टिते निकुट्टाख्यमुरोमण्डलकं ततः
- नितम्बं करिहस्तं स्यात्कटीछिन्नं च पञ्चमम् ८५६
- इत्युद्घट्टितः
- स्वस्तिकाद्यं रेचितं स्यात्पृष्ठस्वस्तिकसंज्ञकम्
- दिक्स्वस्तिकं कटीछिन्नं समं घूर्णितनामकम् ८५७
- भ्रमरं वृश्चिकाद्यं च रेचितं पार्श्वपूर्वकम्
- निकुट्टकमुरःपूर्वं मण्डलं संनतं ततः ८५८
- सिंहाकर्षितकं नागापसर्पितसमाह्वयम्
- अथ वक्षःस्वस्तिकं तु केचिदिच्छन्ति सूरयः ८५९
- दण्डपक्षं च करणं ललाटतिलकाह्वयम्
- विलासितं तलाद्यं च भवेदथ निशुम्भितम् ८६०
- विद्युद्धान्ताभिधादूर्ध्वं गजक्रीडितकं ततः
- नितम्बविष्णुक्रान्ताख्योरूद्वृत्ताक्षिप्तकानि च ८६१
- उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्
- वैकल्पिकं कटीछिन्नमिच्छन्त्याक्षिप्तरेचिते ८६२
- पञ्चविंशतिसंख्यानि करणानि पुरातनाः
- नितम्बोरोमण्डलयोस्त्वावृत्त्या सप्तविंशतिः ८६३
- ये वक्षःस्वस्तिकं चात्र कटीछिन्नं च मन्वते
- पञ्चविंशतिरेव स्यादावृत्तावपि तन्मते ८६४
- इत्याक्षिप्तरेचितः
- स्वस्तिकाद्यं रेचितं स्यादर्धरेचितकं ततः
- वक्षःस्वस्तिकमुन्मत्तसंज्ञमाक्षिप्तरेचितम् ८६५
- अर्धमत्तल्लिकरणं स्याद्रेचकनिकुट्टकम्
- भुजंगत्रस्तपूर्वं च रेचितं नूपुरं ततः ८६६
- वैशाखरेचितं कृत्वा भुजंगाञ्चितमाचरेत्
- दण्डरेचितकं चक्रमण्डलं वृश्चिकादिमम् ८६७
- रेचितं वृश्चिकादूर्ध्वं विवृत्तविनिवृत्तके
- विवर्तितं च गरुडप्लुतकं ललितं भवेत् ८६८
- मयूराद्यं सर्पितं च स्खलिताख्यं प्रसर्पितम्
- तलसंघट्टितमथो वृषभक्रीडितं ततः ८६९
- लेलितं षट्त्रिंशतिर्या करणानामितीरिता
- तां कृत्वा विषमैर्भागैश्चतुर्धा दिक्चतुष्टाये ८७०
- परिवृत्तप्रकारेण प्रयुज्यान्ते समाचरेत्
- उरोमण्डलकं यत्र कटीछिन्नं स रेचितः ८७१
- इति रेचितः
- नूपुराख्यं विवृत्तं च निकुट्टार्धनिकुट्टाके
- अर्धरेचितकादूर्ध्वं स्याद्रेचकनिकुट्टकम् ८७२
- ललिताख्यं च वैशाखरेचितं चतुरं ततः
- दण्डरेचितकादूर्ध्वं भवेद्वृश्चिककुट्टितम् ८७३
- निकुट्टाकं पाश्वपूर्वं संभ्रान्तोद्घट्टिते ततः
- उरोमण्डलकादूर्ध्वं करिहस्तसमाह्वयम्
- कटीछिन्नं सप्तदश भवेदर्धनिकुट्टके ८७४
- इत्यर्धनिकुट्टकः
- लतावृश्चिकमादौ स्यान्निन्कुञ्चितमतः परम्
- मत्तल्लि च नितम्बाख्यं करणं करिहस्तकम् ८७५
- कटीछिन्नं स्मृतं षष्ठं वृश्चिकाक्पसृते बुधैः
- अत्र स्थाने नितम्बस्य भ्रमरं केचिदूचिरे ८७६
- इति वृश्चिकापसृतः
- स्वस्तिकं व्यंसितं तु द्विरलाताख्योर्ध्वजानुनी
- निकुञ्चितार्धसूच्याख्यविक्षिप्तोद्वृत्तकान्यथ ८७७
- आक्षिप्तं करिहस्तं स्यात्कटीछिन्नमलातके
- एकादश स्युः करणान्येकं द्विर्व्यंसितेऽधिकम् ८७८
- इत्यलातकः
- दक्षिणाङ्गेन जनितं शकटास्यमलातकम् ८७९
- भ्रमरं चाथ गण्डस्थनिन्कुट्टितकरान्वितम्
- करिहस्तं कटीछिन्नं करणानि क्रमादिति ८८०
- परावृत्ते षडुक्तानि श्रीमत्सोढलसूनुना
- नमनोन्नमनं तज्ज्ञैरङ्गस्योक्तं निकुट्टाकम् ८८१
- इति परावृत्तः
- नितम्बं करणं कृत्वा कुर्यात्स्क्वस्तिकरोचितम् ८८२
- विक्षिप्ताक्षिप्तकमथो लतावृश्चिकसंज्ञकम्
- उन्मत्तं करिहस्तं च भुजंगत्रासितं ततः ८८३
- आक्षिप्तकं नितम्बं च नितम्बान्तान्यमून्यथ
- नव भ्रमरकाख्येण परिवृत्तं समाचरेत् ८८४
- दिगन्तरमुखे कृत्वा व्यावृत्य परयोर्दिशोः
- करिहस्तकटीछिन्ने कुर्यादाद्यदिशि स्थितः ८८५
- यत्र तं प्राहुराचार्याः परिवृत्तकरेचितम्
- परिवृत्तविधिश्चायं त्यक्त्वाऽन्त्यं करणद्वयम् ८८६
- सर्वेषामङ्गहाराणां शार्ङ्गदेवेन सूरिणा
- भट्टाभिनयगुप्तादिमतज्ञेन निगद्यते ८८७
- इति परिवृत्तकरेचितः
- नूपुरात्करणादूर्ध्वं भुजंगाञ्चितमाचरेत्
- गृध्रावलीनकं द्वे च विक्षिप्ते पृथगङ्गजे ८८८
- उद्वृत्तमध्येर सूच्याख्यं नितम्बमथ वृश्चिकम्
- लतापूर्वं कटीछिन्नं नवभिः करणैरिति
- उद्वृत्तको द्विर्विक्षिप्तोद्वृत्ताख्यमधिकं द्वयम् ८८९
- इत्युद्वृत्तकः
- विक्षिप्तमञ्चितं गण्डसूची सर्वान्तिमं ततः
- अर्धसूचि ततो दण्डपादं वामाङ्गसाधितम् ८९०
- चतुरं भ्रमरं चाथ नूपुराक्षिप्तनामके
- अर्धस्वस्तिकसंज्ञं च नितम्बं करिहस्तकम् ८९१
- उरोमण्डलसंज्ञं च कटीछिन्नमिति क्रमात्
- करणैः पञ्चदशभिः संभ्रान्तमभणन्बुधाः ८९२
- इति संभ्रान्तः
- वैशाखरेचितादूर्ध्वं वृश्चिकं द्विरिदं द्वयम्
- निकुट्टकाभिधादूर्ध्वं क्रमावाप्तलताकरम् ८९३
- कटीछिन्नं चतुर्थं चेत्तदा स्वस्तिकरेचितम्
- ज्ञेयमाद्यद्वयाभ्यासादधिकं करणद्वयम् ८९४
- इति स्वस्तिकरेचितः
- मृदङ्गैर्गोमुखैर्भम्भाभेरीपटहडिण्डिमैः ८९५
- पणवैर्दर्दुराद्यैश्च वाद्यैस्ताललयानुगैः
- वर्धमानासारितेषु पाणिकागीतकादिषु ८९६
- पूर्वरङ्गस्य चाङ्गेषु धीरैरुत्थापनादिषु
- अङ्गहाराः प्रयोक्तव्याः श्रेयः परमभीप्सुभिः ८९७
- विनियोगोऽङ्गहारेषु करणानामितीरितः
- आहुः पृथक्प्रयोगेऽपि करणानां महत्फलम् ८९८
- इति द्वात्रिंशदङ्गहारलक्षणम्
- रेचकानथ वक्ष्यामश्चतुरो भरतोदितान्
- पादयोः करयोः कट्या ग्रीवायाश्च भवन्ति ते ८९९
- पार्ष्ण्यङ्गुष्ठाग्रयोरन्तर्बहिश्च सततं गतिः
- नमनोन्नमनोपेता प्रोच्यते पादरेचकः ९००
- परितो भ्रमणं तूर्णं हस्तयोर्हंसपक्षयोः ९०१
- यत्पर्यायेण रचितं स भवेत्कररेचकः
- विरलप्रसृताङ्गुष्ठाङ्गुलेस्तिर्यग्भ्रमेण च ९०२
- सर्वतो भ्रमणं कट्याः कटिरेचकमूचिरे
- ग्रीवाया विधुतभ्रान्तिः कथ्यते कण्ठरेचकः
- अङ्गहाराङ्गमप्येते जनयन्ति पृक्फलम् ९०३
- इति रेचकलक्षणम्
- विचित्रमङ्घ्रिजङ्घोरुकटीकर्म समं कृतम्
- चारी स्यात्करणे ङीषि चरेरिञ्प्रत्ययान्ततः ९०४
- हस्तो वाऽभिनये गत्यां चरणो यो यदेप्सितः
- तत्संपत्त्युचिता चारी कार्या तदुचिता परा ९०५
- एवमन्योन्यनियमात्सैव व्यायाम उच्यते
- चारी च करणं खण्डो मण्डलं चेति तद्भिदाः ९०६
- तत्रैकपादनिष्पाद्या चारी चार्येव कीर्तिता
- पादद्वयेन करणं तन्नृत्तकरणात्पृथक् ९०७
- करणैः स्यात्त्रिभिः खण्डो मण्डलं खण्डकैस्त्रिभिः
- चतुर्भिर्वा क्रमात्ताले त्र्यस्रे च चतुरस्रके ९०८
- भौमी चाऽऽकाशिकीत्येषा द्वेधा भौम्योऽत्र षोडश
- समपादा स्थितावर्ता शकटास्या च विच्यवा ९०९
- अध्यर्धिका चाषगतिरेलकाक्रीडिता तथा
- समोसरितमत्तल्ली मत्तल्ल्युत्सन्दिताऽड्डिता ९१०
- स्यन्दिताऽपस्यन्दिताख्या बद्धा च जनिताभिधा
- ऊरूद्वृत्तेत्यथ ब्रूमः षोडशाऽऽकाशिकीरिमाः ९११
- अतिक्रान्ताऽप्यपक्रान्ता पार्श्वक्रान्ता मृगप्लुता
- ऊर्ध्वजानुरलाता च सूची नूपुरपादिका ९१२
- दोलापादा दण्डपादा विद्युद्धान्ता भ्रमर्यपि
- भुजंगत्रासिताऽऽक्षिप्ता विद्धोद्वृत्तेति कीर्तिताः ९१३
- भरताभिमताश्चार्यो द्वात्रिंशन्मिलितास्तु ताः
- देशीप्रसिद्धाः सन्त्यन्यास्ताः संप्रत्यभिदध्महे ९१४
- रथचक्रा परावृत्ततला नूपुरविद्धिका ९१५
- तिर्यङ्मुखा मराला च करिहस्ता कुलीरिका
- विश्लिष्टा कातारा पार्ष्णिरेचिताऽप्यूरुताडिता ९१६
- ऊरुवेणी तलोद्वृत्ता हरिणत्रासिका परा
- अर्धमण्डलिका तिर्यक्कुञ्चिता च मदालसा ९१७
- संचारितोत्कुञ्चिता च स्तम्भक्रीडनिका ततः
- चारी लङ्घितजङ्घाख्या स्फुरिताऽप्यपकुञ्चिता ९१८
- अपि संघट्टिता खुत्ता स्वस्तिका तलदर्शिनी
- पुराट्यर्धपुराटी च सरिका स्फुरिका ततः ९१९
- निकुट्टका लताक्षेपाऽप्युडुस्खलितिका परा
- समस्खलितिका भौम्यः पञ्चत्रिंशदितीरिताः ९२०
- विद्युद्धान्ता पुरःक्षेपा विक्षेपा हरिणप्लुता
- अपक्षेपा च डमरी दण्डपादाङ्घ्रिताडिता ९२१
- जङ्घालङ्घनिकाऽलाता जङ्घावर्ता च वेष्टनम्
- उद्वेष्टनमथोत्क्षेपः पृष्ठोत्क्षेपश्च सूचिका ९२२
- विद्धा प्रावृत्तमुल्लोल इत्यत्रैकोनविंशतिः
- व्योमगाः स्युरुभयास्तु चतुष्पञ्चाशदूचिरे ९२३
- मार्गदेशीगताचार्यः षडशीतिरिमा मताः
- लक्षणानि क्रमात्तासां चारीणामभिदध्महे ९२४
- निरन्तरौ समनखौ पादौ कृत्वा स्थितो यदा ९२५
- स्थानेन समपादेन समपादा तदोदिता
- प्रचारयोग्यतामात्राच्चारी स्थानेऽप्यसौ मता ९२६
- इति समपादा
- चरणान्तरपार्श्वं चेद्गत्वाऽग्रतलसंचरः
- अन्तर्जानुः स्वस्तिकत्वं प्राप्तः पादस्तथेतरः
- विश्लिष्य पार्श्वं संनीतः स्थितावर्ता तदोच्यते ९२७
- इति स्थितावर्ता
- यत्र धृत्वा पूर्वकायं पादोऽग्रतलसंचरः ९२८
- प्रसार्योद्वाहितमुरः शकटास्या तदा भवेत्
- आस्यं क्षेप्यं हि शकटं चारीमेनामुपाश्रितैः ९२९
- इति शकटास्या
- विच्युत्य समपादायाः पादौ यदि तलाग्रतः
- निकुट्टयेतां धरणीमुच्यते विच्यवा तदा ९३०
- इति विच्यवा
- दक्षिणाङ्घ्रेः पार्ष्णिदेशे वामः पादो निधीयते
- दक्षिणस्त्वपसृत्य स्वे पार्श्वे त्र्यस्रतया स्थितः ९३१
- सार्धतालान्तरत्वेन दक्षिणोऽप्येवमेव चेत्
- वामपार्ष्णौ स च त्र्यस्रो भवेदध्यर्धिका तदा ९३२
- इत्यध्यर्धिका
- तालमात्रं पुरः सृत्वा द्वितालं पृष्ठतो गते
- दक्षिणेऽङ्घ्रौ समं पादौ किंचिदुत्प्लुतिपूर्वकम् ९३३
- उपसृत्यापसर्पेतामपसृत्योपसर्पतः
- यत्र सत्रासगत्यादौ सैषा चाषगतिर्मता ९३४
- इति चाषगतिः
- किंचिदुत्प्लुत्य चरणौ यत्राग्रतलसंचरौ
- पर्यायशो निपततः सैलकाक्रीडिता मता ९३५
- इत्येलकाक्रीडिता
- अभ्यन्तरेऽङ्घ्रेरन्यस्य पादेऽग्रतलसंचरे
- सजङ्घास्वस्तिकेऽथान्यपादेऽग्रतलसंचरे ९३६
- कृतेऽङ्घ्र्योर्घूर्णतोर्यत्रापसृतिश्चोपसर्पणम्
- समोसरितमत्तल्ली सा भवेन्मध्यमे मदे ९३७
- इति समोसरितमत्तल्ली
- भूमिश्लिष्टाखिलतलौ जङ्घास्वस्तिकसंयुतौ ९३८
- अर्धत्र्यस्रौ यदा पादौ घूर्णन्तौ वोपसर्पतः
- यद्वाऽपसर्पतः सा स्यान्मत्तल्ली तरुणे मदे ९३९
- इति मत्तल्ली
- कनिष्ठाङ्गुलिभागेनाङ्गुष्ठभागेन च क्रमात्
- रेचकस्यानुकारेण शनैरङ्घ्रिर्गतागतम् ९४०
- कुरुते यत्र सा चारी बुधैरुत्सन्दितोदिता
- रेचितं नृत्तहस्तं च केचिदत्र प्रचक्षते ९४१
- इत्युत्सन्दिता
- समाङ्घ्रेरग्रपृष्ठाभ्यामन्योऽग्रतलसंचरः
- निघृष्टश्चरणो यत्र क्रमात्तामड्डितां विदुः ९४२
- इत्यड्डिता
- निषण्णोरुः समो वामो दक्षिणोऽङ्घ्रिः प्रसारितः
- पञ्चतालान्तरं तिर्यग्यस्यां सा स्यन्दिता मता ९४३
- इति स्यन्दिता
- अङ्घ्रिचारविपर्यासात्सैवापस्यन्दिता मता ९४४
- इत्यपस्यन्दिता
- ऊरुद्वयस्य वलनं जङ्घास्वस्तिकसंयुतम्
- भङ्क्त्वा वा स्वस्तिकं पादतलाग्रे मण्डलभ्रमम्
- कृत्वा पार्श्वं गते स्वं स्वं यत्र बद्धेति सा मता ९४५
- इति बद्धा
- चारी सा जनिता यस्यां पादोऽग्रतलसंचरः ९४६
- मुष्टिर्वक्षसि हस्तोऽन्यो यथाशोभं प्रवर्तते
- अङ्घ्रिक्रिया प्रधानं स्यादितिकर्तव्यतेतरा ९४७
- इति जनिता
- पार्ष्णिः पादस्य चेदग्रतलसंचरसंज्ञितः
- अन्याङ्घ्रिपृष्ठाभिमुखी विपर्यासोऽथवा भवेत् ९४८
- अभ्यन्यजङ्घं वलिता जङ्घा चेन्नतजानुका
- ऊरूद्वृत्ता तदा चारी लज्जेर्ष्यादौ नियुज्यते ९४९
- इत्यूरूद्वृत्ता
- नियुद्धे चाङ्गहारेषु नाट्ये चैताः प्रतिष्ठिताः
- अनादिवेदमूलेन नाट्यवेदेन कीर्तिताः ९५०
- इति षोडश भौमचार्यः
- अथाऽऽकाशिक्यः
- गुल्फक्षेत्रेऽन्यपादस्योद्वृत्याङ्घ्रिं कुञ्चितं पुरः
- किंचित्प्रसार्य चाऽऽक्षिप्य यथाप्रकृति लोकवत् ९५१
- चतुस्तालाद्यन्तरेण ततोऽग्रेण निपातयेत्
- यत्र चारीमतिक्रान्तां निःशङ्कस्तामकीर्तयत् ९५२
- इत्यतिक्रान्ता
- बद्धां विधाय चारीं चेदुद्वृत्याङ्घ्रिं च कुञ्चितम्
- पार्श्वे विनिक्षिपेच्चारीमपक्रान्तां तदाऽऽदिशेत् ९५३
- इत्यपक्रान्ता
- नीत्वोपरि स्वपार्श्वेन कुञ्चितं चरणं ततः
- पार्ष्ण्या चेत्पातयेद्भूमौ पार्श्वक्रान्ता तदोच्यते ९५४
- सा पार्श्वदण्डपादेति प्रसिद्धा लोकवर्त्मनि ९५५
- अन्योरुक्षेत्रपर्यन्तमुत्क्षिप्य चरणं ततः
- उद्घट्टितं भुवि न्यस्येदस्यामित्यपरे जगुः ९५६
- इति पार्श्वक्रान्ता
- कुञ्चितं पादमुत्क्षिप्योत्प्लुत्य भूमौ निपात्य तम्
- अन्याञ्चिताङ्घ्रिजङ्घां च पश्चाद्देशे क्षिपेद्यदा
- तदा मृगप्लुता ज्ञेया सा विदूषककर्तृका ९५७
- इति मृगप्लुता
- कुञ्चितोत्क्षिप्तपादस्य जानुस्तनसमं यदा
- न्यस्य स्तब्धीकृतोऽन्योऽङ्घ्रिरूर्ध्वजानुस्तदा भवेत् ९५८
- इत्यूर्ध्वजानुः
- पृष्ठप्रसारिताङ्घ्रेश्चेदन्योर्वभिमुखं तलम्
- कृत्वा पार्ष्णिः स्वपार्श्वे क्ष्मान्यस्ताऽलाता तदोदिता ९५९
- इत्यलाता
- उत्क्षिप्य कुञ्चितं पादं जङ्घामस्य प्रसार्य च ९६०
- जान्वन्तां वोरुपर्यन्तामग्रयोगे नतं भुवि
- चरणं पातयेद्यस्यां सा सूचीति निगद्यते ९६१
- इति सूची
- पश्चान्नीत्वाऽञ्चितं पादं तस्य पार्ष्ण्या स्फिजं स्पृशेत्
- तं ततोऽञ्चितजङ्घं च भूमावग्रतलेन चेत्
- विपातयेत्तदा चारी प्रोक्ता नूपुरपादिका ९६२
- इति नूपुरपादिका
- पादं कुञ्चितमुद्धृत्य दोलयित्वा च पार्श्वयोः
- न्यस्येत्पार्ष्ण्या स्वपार्श्वे चेद्दोलापादा तदोच्यते ९६३
- इति दोलापादा
- नूपुरश्चरणोऽन्यस्य पार्ष्णिदेशे विधाय चेत् ९६४
- स्वदेहक्षेत्राभिमुखं जान्वग्रत्वेन वेगतः
- अग्रे प्रसार्यते चारी दण्डपादा तदोदिता ९६५
- इति दण्डपादा
- पृष्ठतो वलितः स्पृष्ट्वा शिरो भ्रान्त्वा च सर्वतः
- प्रसृतश्चरणो यत्र विद्युद्धान्ता भवेदसौ ९६६
- इति विद्युद्धान्ता अतिक्रान्तागतं पादं त्र्यस्रस्योरोविवर्तनम्
- कृत्वा पादान्तरतलभ्रमेण भ्राम्यते तनुः
- यत्र सा भ्रमरी चारी शार्ङ्गदेवेन कीर्तिता ९६७
- इति भ्रमरी
- अन्योरुमूलक्षेत्रान्तं पादमुत्क्षिप्य कुञ्चितम्
- नितम्बाभिमुखी पार्ष्णिः कुर्याज्जानु स्वपार्श्वगम् ९६८
- यत्रोत्तानं पादतलं कटीजानुविवर्तनात्
- भुजंगत्रासिता सा स्याद्गुजंगत्रासमूचिका ९६९
- इति भुजंगत्रासिता
- तालत्रयान्तरोत्क्षिप्तं कुञ्चितं पादमानयेत् ९७०
- पार्श्वान्तरं ततो जङ्घां स्वस्तिकीकृत्य पातयेत्
- धरण्यां पार्ष्णिभागेन यत्राऽऽक्षिप्ताममूं विदुः ९७१
- इत्याक्षिप्ता
- विश्लिष्टजङ्घयोः कृत्वा स्वस्तिकं तस्य कुञ्चितः
- पादः प्रसारितो वक्रः स्वपाश्वस्थोऽथ पात्यते
- पार्ष्ण्या पार्ष्ण्यन्तरक्षेत्रे यत्राऽऽविद्धा भवत्यसौ ९७२
- इत्याविद्धा
- आविद्धापादमन्योरुप्रदेशस्थास्नुपार्ष्णिकम् ९७३
- कृत्वोत्प्लुत्य भ्रमरकं दत्त्वा यत्र निपातयेत्
- तथाऽन्यं पादमुद्धृत्य सोद्वृत्ताशेषरूपिणी ९७४
- इत्युद्वृत्ता
- ललिताङ्गक्रियासाध्याश्चार्यो युद्धनियुद्धयोः
- नृत्ते नाट्ये गतौ चैताः प्रयोक्तव्या मनीषिभिः ९७५
- प्रधानं यो यदा यत्र हस्तः पादोऽथवा भवेत्
- सोऽग्रे तदनुगोऽन्यः स्यात्साम्ये तु समकालता ९७६
- यतः पादस्ततो हस्तो यतो हस्तस्ततस्त्रिकः
- चरणानुचराण्याहुरङ्गोपाङ्गानि सूरयः ९७७
- एवं चारीप्रधानत्वे स्यादङ्गविनियोजनम्
- प्राधान्ये हस्तकानां तु हस्तमङ्गान्युपासते ९७८
- चारं चारं यथा चार्यां चरणः श्रयते महीम्
- कारं कारं करस्तद्वद्विश्राम्यति कटीतटे ९७९
- अर्धचन्द्रः करो नाट्ये संश्रयेत कटीतटम्
- पक्षवञ्चितको नृत्ये पक्षप्रद्योतकोऽथवा ९८०
- इति द्वात्रिंशच्चारीलक्षणम्
- चतुरस्रं समाश्रित्य संलग्नौ चेत्प्रसर्पतः
- पुरतः पृष्ठतो वाऽङ्घ्री रथचक्रा तदोच्यते ९८१
- इति रथचक्रा
- पश्चादुत्तानिततलश्चरणः प्रसृतो बहिः
- यस्यां परावृत्ततला शार्ङ्गदेवेन सोदिता ९८२
- इति परावृत्ततला
- स्थित्वा स्वस्तिकबन्धेन पार्ष्ण्योः प्रपदयोस्तथा
- रेचितौ चरणौ यत्र सोक्ता नूपुरविद्धिका ९८३
- इति नूपुरविद्धा
- वर्धमाने स्थितौ स्थाने वामदक्षिणतो यदा
- सरतोद्रुतमानेन पादौ तिर्यङ्मुखा तदा ९८४
- इति तिर्यङ्मुखा
- नन्द्यावर्तस्थितौ पादौ पार्ष्णिपादाग्ररेचितौ
- पुरः प्रसारितौ यस्यां सा मरालाऽभिधीयते ९८५
- इति मराला
- संहतस्थानके स्थित्वा पार्श्वाभ्यां घर्षतः क्षितिम्
- चरणौ यत्र सा चारी करिहस्ता प्रकीर्तिता ९८६
- इति करिहस्ता
- नन्द्यावर्तस्थयोरङ्घ्र्योस्तिर्यक्सृत्वा कुलीरिका
- इति कुलीरिका
- पार्ष्णिविद्धस्थितौ पादौ चेद्विश्लिष्योपसर्पतः
- यद्वाऽपसर्पतः प्रोक्ता सा विश्लिष्टाभिधा बुधैः ९८७
- इति विश्लिष्टा
- नन्द्यावर्तस्थपादाभ्यां पश्चात्सृत्वा तु कातरा
- इति कातरा
- पार्ष्णिपार्श्वगते स्थाने स्थित्वा चेद्रेचिता कृता
- पार्ष्णिस्तदोदिता चारी निष्णातैः पार्ष्णिरेचिता ९८८
- इति पार्ष्णिरेचिता
- एकपादे स्थितः स्थाने भूस्थेन चरणेन चेत्
- ऊरुं ताडयति प्रोक्ता तदा चार्यूरुताडिता ९८९
- इत्यूरुताडिता
- ऊरुस्थस्वस्तिकाकारावङ्घ्री संघर्षतो भुवम्
- पार्श्वाभ्यां यत्र तामाहुरूरुवेणीं मनीषिणः ९९०
- इत्यूरुवेणी
- अङ्गुलीपृष्ठभागेन पुरतः सरतो द्रुतम्
- प्रपदे यत्र सा चारी तलोद्वृत्ता मता सताम् ९९१
- इति तलोद्वृत्ता
- कुञ्चिते स्वस्तिकीकृत्य वलितान्ते तले यदा
- अङ्घ्र्योरुत्प्लुत्य निपतेद्धरिणत्रासिका तदा ९९२
- इति हरिणत्रासिका
- भूमिघृष्ट्या बहिर्नीतावावर्तेते शनैः क्रमात्
- चरणौ यत्र तामाहुरर्धमण्डलिकां बुधाः ९९३
- इत्यर्धमण्डलिका
- यत्राऽऽकुञ्च्य तिरश्चीनं चरणं प्रक्षिपेन्मुहुः
- तां तिर्यक्कुञ्चितां चारीमाह श्रीकरणेश्वरः ९९४
- इति तिर्यक्कुञ्चिता
- इतस्ततश्च चरणौ स्थापयेत विसंस्थुलौ
- मत्तवद्यत्र तामाहुश्चारीं धीरा मदालसाम् ९९५
- इति मदालसा
- आकुञ्चितोऽङ्घ्रिरुत्क्षिप्योत्क्षिप्यान्येनाङ्घ्रिणा यदा
- युज्यतेऽन्यस्तु संसर्पेत्तिर्यक्संचारिता तदा ९९६
- इति तिर्यक्संचारिता
- उत्क्षिप्य कुञ्चितौ पादौ न्यस्येदेकैकमग्रतः
- यस्यां सोत्कुञ्चिता चारी प्रोक्ता सोढलसूनुना ९९७
- इत्युत्कुञ्चिता
- तिर्यक्प्रसारितैकाङ्घ्रि पार्श्वमन्यत्तलेन चेत्
- मुहुः संयोजयेदुक्ता स्तम्भक्रीडनिका तदा ९९८
- इति स्तम्भक्रीडनिका
- स्थानेऽङ्घ्रिः खण्डसूच्याख्ये तिष्ठन्नाकृष्य वेगतः
- लङ्घ्यतेऽन्याङ्घ्रिणा यत्र सोक्ता लङ्घितजङ्घिका ९९९
- इति लङ्घितजङ्घिका
- स्फुरिताऽग्रे सृतौ वेगाद्भूस्पृशोः पादपार्श्वयोः
- इति स्फुरिता
- क्रमादाकुञ्चिताङ्घ्रिभ्यां पश्चाद्गत्याऽपकुञ्चिता १०००
- इत्यपकुञ्चिता
- स्थाने विषमसूच्याख्ये स्थित्वोत्प्लुत्य पतन्भुवि
- अङ्घ्री संघट्टयेद्यत्र सोक्ता संघट्टिताभिधा १००१
- इति संघट्टिता
- धरण्यां चरणाग्रेण घातः खुत्ता निगद्यते
- इति खुत्ता
- चरणः स्वस्तिकाकारकारितः स्वस्तिका भवेत् १००२
- इति स्वस्तिका
- यत्राङ्घ्री संहतस्थाने स्थित्वा तिर्यक्पृथक्कृतौ
- स्पृशतो बाह्यपार्श्वाभ्यां भुवं सा तलदर्शिनी १००३
- इति तलदर्शिनी
- निकुट्टनं मिथोऽङ्घ्रिभ्यामुद्धताभ्यां पुराटिका
- इति पुराटिका
- उद्धृतेन निकुट्टेन चरणेन निकुट्टनम्
- उद्धृतस्यान्यपादस्य यत्र साऽर्धपुराटिका १००४
- इत्यर्धपुराटिका
- चरणोऽग्रे सरत्येको यत्र सा सरिका मता १००५
- इति सरिका
- पुरःसरणमङ्घ्रिभ्यां समाभ्यां स्फुरिका भवेत्
- इति स्फुरिका
- स्थितिस्तु चरणाग्रेण कुञ्चितेन निकुट्टिका १००६
- इति निकुट्टिका
- पश्चान्न्यस्य पुरस्तं च प्रसार्य चरणं यदि
- निकुट्टयेद्भुवं तेन लताक्षेपस्तदोदितः १००७
- इति लताक्षेपः
- स्खलिते चरणे तिर्यगड्डस्खलितिका भवेत् १००८
- इत्यड्डस्खलितिका
- पुरतः पृष्ठतस्तिर्यक्चरणौ युगपद्यदा
- स्खलतः प्रोच्यते चारी समस्खलितिका तदा १००९
- इति समस्खलितिका
- यस्यां पुरोऽङ्घ्रिमुत्क्षिप्य ललाटस्योपरि द्रुतम्
- भ्रामयित्वा भुवि न्यस्येद्विद्युद्धान्ताममूं विदुः १०१०
- इति विद्युद्धान्ता
- अङ्घ्रिं कुञ्चितमुत्क्षिप्य पुरो विस्तार्य वेगतः
- विन्यसेदवनौ यत्र पुरःक्षेपा भवेदसौ १०११
- इति पुरःक्षेपा
- पुरो गगनभागे चेत्प्रसार्य चरणं मुहुः
- आकुञ्चयेत्तदा चारी विक्षेपा शार्ङ्गिणोदिता १०१२
- इति विक्षेपा
- नताङ्घ्रेरुत्प्लुत्याभीक्ष्णं निपाताद्धरिणप्लुता १०१३
- इति हरिणप्लुता
- बाह्यपार्श्वेन यत्रोरोः पृष्ठं स्पृष्ट्वेतरत्पदम्
- नितम्बनिकटं याति साऽपक्षेपा प्रकीर्तिता १०१४
- इत्यपक्षेपा
- डमर्याकुञ्चितस्याङ्घ्रेर्वामदक्षिणतो भ्रमात्
- इति डमरी
- यत्र स्वस्तिकमावर्त्य प्रोत्क्षिपेत्तिर्यगूर्ध्वतः
- चरणौ दण्डपादा सा चारी निःशङ्ककीर्तिता १०१५
- इति दण्डपादा
- विस्तार्याङ्घ्री प्लुतं कृत्वा गमनं ताडयेन्मितथः
- यदा पादतलद्वंद्वं तदा चार्यङ्घ्रिताडिता १०१६
- इत्यङ्घ्रिताडिता
- किंचिदाकुञ्चितं पादमङ्घ्रिणाऽन्येन लङ्घयेत्
- गगने चेत्तदा चारी जङ्घालङ्घनिका मता १०१७
- इति जङ्घालङ्घनिका
- अलाताङ्घ्रौ पृष्ठगते शीघ्रमन्याङ्घ्रिलङ्घिते १०१८
- इत्यलाता
- तलमन्तर्भ्रमस्याङ्घ्रेर्जानुपृष्ठे क्षिपेद्यदि
- बहिर्भ्रमस्य तत्पार्श्वे जङ्घावर्ता तदा भवेद् १०१९
- इति जङ्घावर्ता
- अङ्घ्रिणैकेन चेदन्यं वेष्टयेद्वेष्टानं तदा
- तदेव वलनं केचिदवदन्नृत्तकोविदाः १०२०
- इति वेष्टनम्
- उद्वेष्टानं वेष्टयित्वा पृष्ठतोऽङ्घ्रौ प्रसारिते १०२१
- इत्युद्वेष्टानम्
- आकुञ्चितस्य पादस्य पुरतः पृष्ठतस्तथा
- उत्क्षेपो जानुपर्यन्तमुत्क्षेपः कथ्यते बुधैः १०२२
- इत्युत्क्षेपः
- स चेत्पृष्ठत एव स्यात्पृष्ठोत्क्षेपममुं विदुः
- इति पृष्ठोत्क्षेपः
- ऊरौ पार्श्वेन विन्यस्य पदं यत्र प्रसारयेत्
- तीक्ष्णाग्रीकृत्य तामाह सूचीं श्रीकण्ठवल्लभः १०२३
- इति सूची
- पादयोः स्वस्तिकेऽस्यैकः किंचिदान्दोलितः पुरः
- कुञ्चितश्चरणो यत्र सा विद्धा बोधिता बुधैः १०२४
- इति विद्धा
- ललिता वलिता मूर्तिरुद्वृत्तश्चरणो भवेत्
- यत्र तत्प्रावृतं ज्ञेयं मकरध्वजजीवनम् १०२५
- इति प्रावृतम्
- उल्लोलः स्याच्चरणयोः क्रमेणोल्लालनाद्दिवि १०२६
- इत्युल्लोलः
- स्थानं स्थितिर्गतिश्चारी स्थानमाद्यन्तयोर्गतेः
- स्थित्वा गच्छति गत्वा च तिष्ठतीत्यविनाकृताः
- चार्यः स्थानेन ताभ्योऽतोऽनन्तरं स्थानमुच्यते १०२७
- संनिवेशविशेषोऽङ्गे निश्चलः स्थानमुच्यते १०२८
- वैष्णवं समपादं च वैशाखं मण्डलं तथा
- आलीढप्रत्यालिढे च स्थानानीति नरेषु षट् १०२९
- अथ स्थानानि वक्ष्यामस्त्रीणि स्त्रीणां मुनेर्मतात्
- आयताख्यावहित्थाश्वक्रान्तान्यन्यच्चतुष्टयम् १०३०
- अथापि चेति वदता मुनिना सूचितं ब्रुवे
- गतागतं च वलितं मोटितं विनिवर्तितम् १०३१
- अथ देशीस्थानकानां त्रयोविंशतिरुच्यते
- स्वस्तिकं वर्धमानाख्यं नन्द्यावर्तं च संहतम् १०३२
- समपादं चैकपादं पृष्ठोत्तानतलं तथा
- चतुरस्रं पाष्णिविद्धं पार्ष्णिपार्श्वगतं तथा १०३३
- एकपार्श्वगतं च स्यादेकजानुनताभिधम्
- परावृत्ताह्वयं सूचि समादि विषमाद्यपि १०३४
- खण्डसूचि ततो ब्राह्मं वैष्णवं शैवगारुडे
- कूर्मासनं नागबन्धं वृषभासनमित्यपि १०३५
- स्वस्थं मदालसं क्रान्तं स्याद्विष्कम्भितमुत्कटम्
- स्रस्तालसं जानुगतं मुक्तजानु विमुक्तकम् १०३६
- उपविष्टस्थानकानि नवेति भरतोऽभ्यधात्
- सममाकुञ्चितं स्थानं प्रसारितविवर्तिते १०३७
- उद्वाहितं नतं चेति सुप्तस्थानानि सन्ति षट्
- इति स्थानानि षट्पुंसां स्त्रीणां सप्तापराण्यपि १०३८
- त्रयोविंशतिरुक्तानि नव स्थानानि चाऽसने
- सुप्तस्थानानि षट्तानि सर्वाणि मिलितानि तु १०३९
- एकपञ्चाशदाचष्ट निःशङ्कः करणाग्रणीः
- सर्वेषां वच्मि लक्ष्मैषामिदानीं तद्विदां मतम् १०४०
- एकः समस्थितः पादस्त्र्यस्रः पक्षस्थितोऽपरः १०४१
- सार्धद्वितालान्तरालो जङ्घा किंचिन्नता भवेत्
- सौष्ठवं यत्र तज्ज्ञेयं वैष्णवं विष्णुदैवतम् १०४२
- प्रकृतिस्थस्य संलापेनानाकार्यान्तरान्विते
- प्रयोज्यं तन्मुनिः प्राह नृभिरुत्तममध्यमैः १०४३
- विष्णुवेषधरेणैव नटेनेत्यपरे जगुः
- सूत्रधारादिना नाट्यस्थितिकर्त्रेति चापरे १०४४
- पक्षस्थितोऽसौ चरणो यः पार्श्वाभिमुखाङ्गुलिः
- त्र्यस्रः स एव किंचिच्चेत्पुरोदेशाभिमुख्यभाक् १०४५
- अङ्गुष्ठमध्यमाङ्गुल्यौ ये हस्तस्य प्रसारिते
- तदग्रयोरन्तरालं तालमाहुर्मनीषिणः १०४६
- कटी जानुसमा यत्र कूर्परांसशिरःसमम्
- उरः समुन्नतं सन्नं गात्रं तत्सौष्ठवं भवेत् १०४७
- सन्नं स्वस्थानविश्रान्तं निषण्णं त्वचलस्थिति १०४८
- चलपादमनत्युच्चमचञ्चलमकुब्जकम् १०४९
- सौष्ठवेऽङ्गं भवेत्तच्च कार्यमुत्तममध्यमैः
- एतच्च वैष्णवं स्थानं चतुरस्रस्य जीवनम् १०५०
- वैष्णवं स्थानकं यत्र कटीनाभिचरौ करौ
- पृथक्समुन्नतं वक्षश्चतुरस्रं तदुच्यते १०५१
- इति वैष्णवम्
- प्रधानं सौष्ठवं पादावेकतालान्तरौ समौ १०५२
- यत्र तत्समपादं स्याच्चतुराननदैवतम्
- एतच्च विप्रदत्ताशीःस्वीकारेऽथ निरीक्षणे १०५३
- मध्यमानां विहंगानां कन्यावरकुतूहले
- लिङ्गिव्रतिविमानस्थस्यन्दनस्थेषु चेष्यते १०५४
- इति समपादम्
- भूमेरूर्ध्वनिषण्णौ चेत्सार्धतालत्रयान्तरे
- नभूस्यूरू चरणयोस्तावदेवान्तरं भुवि १०५५
- त्र्यस्रपक्षस्थयोः स्थानं वैशाखं कथितं तदा
- विशाखदैवतं तच्च स्थूलपक्षीक्षणे भवेत्
- यद्धादौ प्रेरणेऽश्वानां वेगादाने च वाहने १०५६
- इति वैशाखम्
- पक्षस्थौ चरणौ त्र्यस्रावेकतालान्तरौ भुवि
- कटीजानुसमौ व्योम्नि सार्धतालद्वयान्तरे १०५७
- ऊरू यत्र निषण्णौ तन्मण्डलं शक्रदैवतम्
- धनुर्वज्रादिशस्त्राणां प्रयोगे गजवाहने १०५८
- वीक्षणे गरुडादीनामिदं मुनिरुपादिशत्
- चतुस्तालान्तरौ पादौ मण्डलेऽन्ये प्रचक्षते १०५९
- इति मण्डलम्
- वामो यत्र निषण्णोरुरम्बरे पूर्वमानतः
- दक्षिणश्चरणश्चाग्रे पञ्चतालं प्रसारितः १०६०
- त्र्यस्रौ द्वावपि तद्विद्यादालीढं रुद्रदैवतम्
- ईर्ष्याक्रोधकृतो जल्पः कार्यस्तेनोत्तरोत्तरः १०६१
- वीररौद्रकृतं मल्लसंघर्षास्फोटनादिकम्
- तथा संधाय शस्त्राणि प्रत्यालीढं समाश्रयेत् १०६२
- इत्यालीढम्
- आलीढाङ्गविपर्यासात्प्रत्यालीढमुदीरितम्
- आलीढकृतसंधानशस्त्रमेतेन मोक्षयेत्
- रुद्रं च दैवतं तत्र भाषते शंभुवल्लभः १०६३
- इति प्रत्यालीढम्
- एषामाद्यानि चत्वारि दृश्यन्ते नाट्यनृत्तयोः
- प्रयोगस्त्वन्त्ययोस्तज्ज्ञैरिष्टो नाट्यैकगोचरः १०६४
- अन्ये पञ्चविधेऽप्याहुर्नर्तने स्थानकानि षट् १०६५
- इति षट्पुरुषस्थानकानि
- घामस्तालान्तरस्त्र्यस्रो दक्षिणश्चरणः समः
- प्रसन्नं वदनं वक्षः समुन्नतमनुन्नता १०६६
- कटीनितम्बगो हस्तो दक्षिणोऽन्यो लताकरः
- यत्राऽऽयतं तदाख्यातं कमला चात्र देवता १०६७
- स्थानं चिकीर्षितासु स्यात्क्षतासु च गतिष्विदम्
- आभाषणे च कर्तव्ये सखीप्रियतमादिभिः १०६८
- रङ्गावतरणारम्भे पुष्पाञ्जलिविसर्जने
- अमर्षे प्रतिषेधे च कार्यं मानावलम्बने
- गर्वगाम्भीर्यमौने स्यादावाहनविसर्जने १९७०
- पूर्वरङ्गे स्त्रीभिरेव प्रयोज्यं केचिदूचिरे
- नरो नार्योऽथवा कुर्युः प्रवेशे स्थानकं स्त्रियाः १०७१
- स्थानं यथाभिनेयं स्यात्प्रविष्टेष्विति चापरे
- आयतानन्तरं कार्या रङ्गावतरणादयः १०७२
- हस्तपादप्रचारस्तु तेषु ज्ञेयो यथोचितम्
- भट्टाभिनवगुप्तस्य मतमेतदुदीरितम् १०७३
- इत्यायतम्
- अवहित्थं तदेव स्याद्विपर्यासेन पादयोः
- चिन्तावितर्कयोस्तोषे संलापे च निसर्गजे १०७४
- विस्मये भूरिसौभाग्यगर्वजे स्वाङ्गवीक्षणे
- लीलाविलासलावण्यवरमार्गविलोकने १०७५
- कार्यं दौर्गमिदं स्थानमवहित्थस्य सूचकम् १०७६
- इत्यवहित्थम्
- समस्थैकस्य पादस्य पार्ष्णिदेशशतोऽपरः
- सूचीपादः स्वपार्श्वे वा समस्तालान्तरे स्थितः १०७७
- यत्राश्वारोहणारम्भे तदश्वक्रान्तमुच्यते
- स्खलिते विगलद्वस्त्रधारणे गोप्यगोपने १०७८
- प्रसूनस्तबकादाने तरुशाखावलम्बने
- नैसर्गिके च संलापे विभ्रमे ललिते तथा
- प्रयोक्तव्यमिदं स्थानं भारती चात्र देवता १०७९
- इत्यश्वक्रान्तम्
- गत्युन्मुखी च यत्रैकं पदमुद्धृत्य नर्तकी
- उदास्ते तद्गतिस्थित्योर्निरोधात्स्याद्गतागतम् १०८०
- इति गतागतम्
- शरीरमीषद्वलितं पादो वलितदिग्भवः
- कनिष्ठाश्लिष्टभूरन्यो भूलग्नाङ्गुष्ठको यदा
- तदा वलितमाख्यातं साभिलाषविलोकने १०८१
- इति वलितम्
- एकः समोऽङ्घ्रिरन्यस्तु कुञ्चितोऽर्धतलाङ्गुलिः
- अग्रे यदोर्ध्वगौ हस्तौ कर्कटौ मोटितं तदा
- कामावस्थासु सर्वासु विनियोगोऽस्य कीर्तितः १०८२
- इति मोटितम्
- पृष्ठतोऽङ्गपरावृत्त्या तदेव विनिवर्तितम् १०८३
- इति विनिवर्तितम्
- स्वस्तिको हंसकस्थाने चरणौ कुञ्चितौ यदा
- मिथः श्लिष्टकनिष्ठौ च तदाहुः स्वस्तिकं बुधाः १०८४
- इति स्वस्तिकम्
- वर्धमाने तु चरणौ तिर्यञ्चौ पार्ष्णिसंगतौ १०८५
- इति वर्धमानम्
- अस्यैव चेच्चरणयोरन्तरं स्यात्षडङ्गुलम्
- वितस्तिमात्रमथवा नन्द्यावर्तं तदोदितम् १०८६
- इति नन्द्यावर्तम्
- देहः स्वाभाविकोऽङ्गुष्ठौ पादयोश्चेन्मिथो युतौ
- गुल्फौ च संहतं तत्स्यात्पुष्पाञ्जलिविसर्जने १०८७
- इति संहतम्
- वपुः स्वाभाविकं पादौ वितस्त्यन्तरितावृजू
- यत्र तत्समपादाख्यं शार्ङ्गदेवः समादिशत् १०८८
- इति समपादम्
- समस्याङ्घ्रेर्जानुमूर्ध्वं बाह्यपार्श्वे यदीतरः
- बाह्यपार्श्वेन लग्नोऽङ्घ्रिरेकपादं तदोच्यते १०८९
- इत्येकपादम्
- भूलग्नाङ्गुलिपृष्ठोऽङ्घ्रिः पश्चादेकोऽपरः पुरः
- समो यत्र तदादिष्टं पृष्ठोत्तानतलं बुधैः १०९०
- इति पृष्ठोत्तानतलम्
- नन्द्यावर्तस्य चेदङ्घ्र्योर्भवेदष्टादशाङ्गुलम्
- अन्तरं चतुरैः स्थानं चतुरस्रं तदोदितम् १०९१
- इति चतुरस्रम्
- पार्ष्णिरङ्गुष्ठसंश्लिष्टा पार्ष्णिविद्धे विधीयते
- इति पार्ष्णिविद्धम्
- पार्ष्णिपार्श्वगते पार्ष्णिरन्तः पार्श्वान्तरस्थितः १०९२
- इति पार्ष्णिपार्श्वगतम्
- समस्याङ्घ्रेः पुरः किंचिदपरश्चरणो यदा
- स्याद्बाह्यपार्श्वगस्तिर्यगेकपार्श्वगतं तदा १०९३
- इत्येकपार्श्वगतम्
- एकः समोऽङ्घ्रिरन्यश्चेदन्तरे चतुरङ्गुले
- तिर्यक्कुञ्चितजानुः स्यादेकजानुनतं तदा १०९४
- इत्येकजानुनतम्
- परावृत्ते समे स्यातां पार्ष्ण्याऽङ्गुष्ठकनिष्ठिके
- इति परावृत्तम्
- पार्ष्णिजङ्घोरुसंलग्नधरणी चरणौ यदा
- तिर्यक्प्रसारितौ स्यातां समसूचि तदोच्यते १०९५
- इति समसूचि
- सूचीपादौ पृथग्यत्र पुरः पश्चात्प्रसारितौ १०९६
- युगपद्गदितं तज्ज्ञैः स्थानं विषमसूचि तत्
- भूलग्नजानुगुल्फौ तौ चरणौ केचिदूचिरे १०९७
- इति विषमसूचि
- एकोऽङ्घ्रिः कुञ्चितोऽन्यस्तु भूसंलग्नोरुपार्ष्णिकः
- तिर्यक्प्रसारितो यत्र खण्डसूचि तदोच्यते १०९८
- इति खण्डसूचि
- एकः समोऽङ्घ्रिरन्यश्चेत्कुञ्चितीकृत्य पृष्ठतः
- जानुसंधिसमत्वेनोत्क्षिप्तो ब्राह्मं तदुच्यते १०९९
- इति ब्राह्मम्
- सममेकं विधायाङ्घ्रिमन्यश्चेत्कुञ्चितो मनाक्
- पुरः प्रसारितस्तिर्यक्पदं स्याद्वैष्णवं तदा ११००
- इति वैष्णवम्
- अङ्घ्रेः समस्य वामस्य जानुशीर्षसमोऽपरः
- उद्धृतः कुञ्चिताकारो यत्र शैवं तदुच्यते ११०१
- इति शैवम्
- आकुञ्चितः पुरो वामः पश्चादन्यस्तु जानुना
- भुवं गतौ यदा पादौ गारुडं गदितं तदा ११०२
- इति गारुडम्
- दक्षिणश्चरणो जानुबाह्यगुल्फमिलत्क्षितिः
- वामः समो भवेद्यत्र कूर्मासनमदो विदुः ११०३
- इति कूर्मासनम्
- यदोपविश्य वामोरोः पृष्ठे न्यस्यति दक्षिणाम्
- जङ्घां तदा नागबन्धमभ्यधात्करणाग्रणीः ११०४
- इति नागबन्धम्
- वियुते संयुते वा चेज्जानुनी संस्थिते क्षितौ
- वृषभासनमाख्यातं सौष्ठवाधिष्ठितं तदा ११०५
- इति वृषभासनम्
- विस्तारिताञ्चितावङ्घ्री यत्रोरः किंचिदुन्नतम्
- करावूरुकटिन्यस्तौ स्वस्थं स्थानं तदुच्यते ११०६
- इति स्वस्थम्
- एकः प्रसारितः किंचिदन्योऽङ्घ्रिस्त्वासनाश्रितः
- शिरःपाश्वगतं यत्र तन्मदालसमिष्यते
- मदे विपदि निर्वेदेऽथौत्सुक्ये विरहे भवेत् ११०७
- इति मदालसम्
- हस्तौ चिबुकविन्यस्तौ बाहुशीर्षश्रितं शिरः
- ईषद्बाष्पे च नयने यत्र क्रान्तमदो मतम्
- निर्जिते निगृहीते च शोकग्लाने भवेदिदम् ११०८
- इति क्रान्तम्
- ऊरुविस्तारितौ बाहू पादौ विस्तारिताञ्चितौ ११०९
- यदा निमीलिते नेत्रे विष्कम्भं भणितं तदा
- योगे ध्याने भवेदेतत्स्वभावेन भटासने १११०
- इति विष्कम्भितम्
- समासनसमं स्पृष्टभूतलं चरणौ समौ
- यदा तदोत्कटं योगध्यानसंध्याजपादिषु ११११
- इत्युत्कटम्
- हस्तौ स्रस्तौ विमुक्तौ च शरीरमलसं यदा
- लोचने मन्थराकारधरे स्रस्तालसं तदा
- हानिग्लानिमदव्याधिमूर्छाभीतिषु तद्भवेत् १११२
- इति स्रस्तालसम्
- जानुभ्यां भूमिसंस्थाभ्यां स्थानं जानुगतं मतम् १११३
- होमे देवार्चने दीनयाचने मृगदर्शने
- कुसत्त्वत्रासने चेदं भवेत्क्रुद्धप्रसादने १११४
- इति जानुगतम्
- उत्कटस्यैव जान्वैकं धरापृष्ठमधिष्ठितम्
- यत्रैतन्मुक्तजानु स्यान्मानिनीनां प्रसादने
- हवने सज्जनानां च सान्त्वने साधुकर्तृके १११५
- इति मुक्तजानु
- विमुक्तं भूप्रपतनं हावक्रन्दादिषु स्मृतम्
- इति विमुक्तम्
- सुप्तमुत्तानवक्त्रं च स्रस्तमुक्तकरं समम् १११६
- इति समम्
- आकुञ्चिताङ्गमाविद्धजान्वाकुञ्चितमुच्यते
- प्रयोगस्तस्य शीतार्ताभिनये शार्ङ्गिणोदितः १११७
- इत्याकुञ्चितम्
- उपधाय भुजामेकां यत्प्रसारितजानुकम्
- सुप्तं प्रसारितं स्थानं सुखसुप्ते तदिष्यते १११८
- इति प्रसारितम्
- विवर्तितमधोवक्त्रं सुप्तं शस्त्रक्षतादिषु १११९
- इति विवर्तितम्
- स्कन्धन्यस्तशिरः सुप्तं कूर्पराधिष्ठितक्षितिः
- यत्तदुद्वाहितं प्रोक्तं लीलयाऽवस्थितौ प्रभोः ११२०
- इत्युद्वाहितम्
- ईषत्प्रसृतजङ्घं यत्सुप्तं स्रस्तकरद्वयम्
- तन्नतं स्थानकं खेदश्रमालस्यादिषु स्मृतम् ११२१
- इति नतम्
- वाङ्मनःकायजा चेष्टा पुरुषार्थोपयोगिनी
- वृत्तिः सा भारती सात्त्वत्यारभट्यथ कैशिकी ११२२
- चतुर्विधेति विज्ञेया तासामुत्पत्तिरुच्यते
- ऋग्वेदाद्भारती जाता यजुर्वेदात्तु सात्त्वती
- अथर्वणादारभटी सामवेदात्तु कैशिकी ११२३
- वृत्तिः संस्कृतवाक्यैकप्रधाना भरैतर्नृभिः
- प्रयुज्यमाना वाग्वृत्तिः प्राधान्याद्भारती मता ११२४
- सत्त्वप्रकाशकं यत्स्यात्तद्युक्तं सत्त्वमुच्यते
- मनस्तत्प्रभवा हर्षशौर्यत्यागास्तु सात्त्वताः ११२५
- तत्प्रधाना सात्त्वती स्याद्वीररौद्राद्भुतोत्कटा
- हीना शृङ्गारनिर्वेदकरुणैरुद्धताश्रयात् ११२६
- आरादुत्साहिनो ये स्युर्भटास्तत्कायसंभवा
- भवेदारभटी वृत्ती रौद्रादावुद्धते रसे
- मायेन्द्रजालबहुला चित्रयुद्धप्रवर्धिनी ११२७
- वागङ्गाभरणानां या सौकुमार्येण निर्मिता
- उल्लसद्गीतनृत्ताढ्या शृङ्गाररसनिर्भरा ११२८
- निःशङ्कः कैशिकीं ब्रूते तां सौन्दर्यैकजीविताम्
- सौन्दर्यसौकुमार्याभ्यां रौद्रादावप्यसौ भवेत् ११२९
- आमुखं च प्रहसनं तथा वीथी प्ररोचना
- अंशाः स्युरिति चत्वारो ये भारत्या मुनेर्मताः ११३०
- उद्घात्यकावलगिते कथोद्घातः प्रवर्तकम्
- प्रयोगातिशयश्चेति भेदाः पञ्चाऽऽमुखस्य ये ११३१
- उत्थापकाभिधो भेदः सात्त्वत्याः परिवर्तकः
- संलापकश्चतुर्थस्तु यः संघात्यकसंज्ञकः ११३२
- संक्षिप्तकं चावपातः स्याद्वस्तूत्थापनं तथा
- संफेटश्चाऽऽरभट्यां यदिति भेदचतुष्टयम् ११३३
- कैशिक्यां यन्मतं नर्म नर्मस्पुञ्जस्तथाऽपरः
- नर्मस्फोटो नर्मगर्भश्चेति भेदचतुष्टयम् ११३४
- परिचित्ताक्षेपकं च परोपालम्भकं तथा
- रोषेर्ष्यासूचकं चेति नर्मभेदास्त्रयश्च ये ११३५
- सोदाहरणलक्ष्माणस्तेऽमी नाटकगोचराः
- विस्तरत्रस्तचित्तेन निःशङ्केन न तेनिरे ११३६
- काव्यं गीतं तथा नृत्तं वृत्तिहीनं न शोभते
- अतो वृत्तीर्विजानीयादेता भरतभाषिताः ११३७
- इति वृत्तिलक्षणम्
- युद्धे परात्मशस्त्राणां क्रमाच्च्यावनपातने
- विधातुमुचिता गात्रवर्तना न्याय उच्यते ११३८
- भारतः सात्त्वतो वार्षगण्यः कैशिकसंज्ञकः ११३९
- भेदास्तस्येति चत्वारः क्रमाद्वृत्तिचतुष्टये
- तेषां लक्षणसिद्ध्यर्थं प्रविचारान्ब्रुवेऽधुना ११४०
- याः प्रकृष्टा विचित्राच गतयस्ते परिक्रमाः
- त एव प्रविचाराः स्युः शस्त्रमोक्षणगोचराः ११४१
- फलकं वामहस्तेन खड्गं दक्षिणपाणिना
- गृहीत्वाऽपसृतौ कृत्वा करावाक्षिप्य तौ ततः ११४२
- फलकभ्रामणं कृत्वा पार्श्वयोरुभयोरथ
- परितः शिरसः शस्त्रं भ्रामयित्वा तु खड्गिनम् ११४३
- करं शिरःकपोलान्तरुद्वेष्ट्य मणिबन्धतः
- फलकस्याप्युपशिरः परिभ्रमणमाचरेत् ११४४
- विधिरेष सकृत्कट्यां शस्त्रपातश्च भारते
- सात्त्वतेऽप्येवमेव स्याच्छस्त्रभ्रान्तिस्तु पृष्ठतः ११४५
- कर्तव्यः शस्त्रपातस्तु पादयोरिह तद्विदा
- प्रविचारः सात्त्वतवद्वार्षगण्ये विधीयते ११४६
- पृष्ठतः फलकस्यापि भ्रामणं स्यादिहाधिकम्
- स्कन्धे वक्षसि वा शस्त्रहस्तस्योद्वेष्टानं तथा ११४७
- प्रहारपातनं चात्र वक्षस्थलगतं मतम्
- कैशिके स्याद्भारतवच्छस्त्रपातस्तु मूर्धनि ११४८
- शक्तिकुन्तादिशस्त्राणि धनुर्वज्रादिकान्यपि
- न्यायेष्वेषु प्रयुञ्जीत सौष्ठवेन समन्वितः ११४९
- प्रविचारा न शोभन्ते सौष्ठवेन विना कृताः
- संज्ञामात्रेण कर्तव्यः प्रहारो न तु वास्तवः ११५०
- मायेन्द्रजालैरथवा प्रहारमिव दर्शयेत्
- एते न्यायाः प्रयोक्तव्याश्चारीभिः शस्त्रमोक्षणे ११५१
- इनि न्यायलक्षणम्
- चारीचयविशेषः प्राङ्मण्डलं प्रतिपादितम्
- तद्भेदानधुना धीमान्वक्ति श्रीकरणाग्रणीः ११५२
- भ्रमरास्कन्दितावर्तशकटास्यानि चाड्डितम्
- समोसरितमध्यर्धमेलकाक्रीडितं ततः ११५३
- पिष्टकुट्टं चाषगतं भौमानीति दशावदन्
- अतिक्रान्तं दण्डपादं क्रान्तं ललितसंचरम् ११४४
- सूचीविद्धं वामविद्धं विचित्रं विहृतं ततः
- अलातं ललितं चेति व्योमजानि दशाब्रुवन् ११५५
- भौमाकाशिकचारीणां प्राचुर्यान्मण्डलान्यपि
- भौमान्याकाशिकानीति व्यपदेशं प्रपेदिरे ११५६
- एतेषां विनियोगश्च विज्ञेयः शस्त्रमोक्षणे
- नभोभवानां प्राधान्यं बोध्यं युद्धपरिक्रमे ११५७
- चारीनाम्नाऽत्र चरणं वक्ष्ये चारीविवक्षया
- चारीणां न्यूनताधिक्यं न दूषयति मण्डलम् ११५८
- दक्षिणो जनितो वामः स्यन्दितो दक्षिणः पुनः
- शकटास्यस्तथा वामः पादोऽपस्यन्दितोऽथवा ११५९
- दक्षिणो भ्रमरो वामः स्यन्दितोऽङ्घ्रिरथेतरः
- शकटास्यश्चाषगतिर्वामोऽन्यो भ्रमरो भवेत्
- वामान्ते स्यन्दितो यत्र तदूचे भ्रमरं बुधैः ११६०
- इति भ्रमरम्
- दक्षिणो भ्रमरो वामोऽड्डितोऽथ भ्रमरः स चेत्
- दक्षिणः शकटास्यत्वं गत्वोरूद्वृत्ततां गतः ११६१
- वामो वाऽध्यर्धिकीभूय भ्रमरो दक्षिणः पुनः
- स्यन्दितः शकटास्यस्तु वामस्तेनैव भूतलम्
- स्फुटमास्फोटितं धीरैस्तदास्कन्दितमिष्यते ११६२
- इत्यास्कन्दितम्
- दक्षिणो जनितो वामः स्थितावर्तस्ततः परम्
- शकटास्यो भवेत्पश्चादेलकाक्रीडिताह्वयः ११६३
- ऊरूद्वृत्तोऽड्डितश्चारीं जनितामाश्रितस्ततः
- समोसरितमत्तल्लिः क्रमादङ्घ्रिस्तु दक्षिणः ११६४
- शकटास्यः क्रमादूरूद्वृत्तश्च स्यादथेतरः
- पादश्चाषगतिर्द्विः स्याद्दक्षिणः स्यन्दितस्ततः ११६५
- वामाङ्घ्रिः शकटास्यः स्यादन्योऽङ्घ्रिर्भ्रमरस्ततः
- वामश्चाषगतिर्यत्र तदावर्तमवादिषुः ११६६
- इत्यावर्तम्
- जनितः सप्तपूर्वोक्तस्थितावर्तादिभेदभाक्
- क्रमेण शकटास्यश्च दक्षिणः स्यन्दितोऽपरः ११६७
- शकटास्यस्ततः पादो यावन्मण्डलपूरणम्
- क्रमेण यत्र तज्ज्ञेयं शकटास्याभिधं बुधैः ११६८
- इति शकटास्यम्
- उद्घट्टितस्ततो बद्धः समोसरितपूर्वकः
- मत्तल्लिरर्धमत्तल्लिरपक्रान्तश्च दक्षिणः ११६९
- उद्वृत्तो इद्युद्धान्तश्च भ्रमरः स्यन्दितश्च सः
- वामस्तु शकटास्योऽन्यो द्विः स्याच्चाषगतिस्ततः ११७०
- वामोऽड्डितोऽध्यर्धिकस्तु क्रमाच्चाषगतिः परः
- समोसरितमत्तल्लिर्मत्तल्लिर्भ्रमरस्तथा ११७१
- वामोऽथ स्यन्दितो भूत्वा भूतटास्फोटनं यदा
- कुरुते दक्षिणः प्राहुरड्डितं मण्डलं तदा ११७२
- इत्यड्डितम्
- स्थानेन समपादेन स्थित्वा हस्तौ प्रसारयेत्
- निरन्तरावूर्ध्वकृतावावेष्ट्योद्वेष्ट्यवत्क्षिपेत् ११७३
- कटीतटे ततः पादौ भ्रामयेद्दक्षिणे ततः
- क्रमेणानन्तरं वामं पुरः पादं प्रसारयेत् ११७४
- एवं भ्रान्त्वा क्रमाद्यत्र मण्डलभ्रमणं भवेत्
- चतुर्दिक्कं तदाख्यातं समोसरितसंज्ञकम् ११७५
- इति समोसरितम्
- क्रमेण दक्षिणः पादो जनितः स्यन्दितस्ततः
- अड्डितोक्ता चतुर्भेदी वामस्याध्यर्धिकादिका ११७६
- दक्षिणः शकटास्यः स्याद्यत्रान्ते दिक्चतुष्टये
- मण्डलभ्रमणं तत्तु नियुद्धेऽध्यर्धमण्डलम् ११७७
- इत्यध्यर्धम्
- भूयुक्तैश्चरणैः सूचीविद्धं करणमाश्रितैः
- सूचीविद्धाभिधे चार्यावेलकाक्रीडितैरथ ११७८
- संपूर्णैर्भ्रमरैः प्राग्वत्सूचीविद्धाङ्घ्रिभिस्ततः
- आक्ष्प्तैर्मण्डलभ्रान्त्या दिक्चतुष्टययुक्तया
- अन्ते रचितया ज्ञेयमेलकाक्रीडिताह्वयम् ११७९
- इत्येलकाक्रीडितम्
- सूची दक्षिणपादः स्याद्वामोऽपक्रान्तकस्ततः ११८०
- सव्यवामौ च बहुशो भुजंगत्रासितौ क्रमात्
- यत्रान्ते मण्डलभ्रान्तिः पिष्टकुट्टं तदुच्यते ११८१
- इति पिष्टकुट्टम्
- चरणैश्चाषगतिभिः समस्तैर्मण्डलभ्रमम्
- अन्ते दधच्चाषगतं नियुद्धविषयं भवेत् ११८२
- इति चाषगतम्
- जनितः शकटास्यश्च दक्षिणश्चरणः क्रमात्
- वामोऽलातो दक्षिणस्तु पार्श्वक्रान्तस्ततोऽपरः ११८३
- सूची स एव भ्रमर उद्वृत्तो दक्षिणो भवेत्
- वामस्त्वलातको वाऽघ्री छिन्नाख्यकरणाश्रयौ ११८४
- वाह्यभ्रमरकं यत्र वामाङ्गं रेचितं भवेत्
- अतिक्रान्तस्ततो वामो दण्डपादस्तु दक्षिणः
- अवोचत्तदतिक्रान्तं मण्डलं शंकरप्रियः ११८५
- इत्यतिक्रान्तम्
- दक्षिणो जनितो भूत्वा दण्डपादो भवेदथ
- सूची च भ्रमरो वाम उद्वृत्तो दक्षिणस्ततः ११८६
- अलातो वामचरणः पार्श्वक्रान्तस्तु दक्षिणः
- भुजंगत्रासितश्चासौ वामोऽतिक्रान्ततां गतः ११८७
- दक्षिणो दण्डपादोऽथ सूची च भ्रमरोऽपरः
- यत्र तद्दण्डपादाख्यं मण्डलं बभणे बुधैः ११८८
- इति दण्डपादम्
- दक्षिणः सूच्यपक्रान्तो वामोऽघ्रिर्दक्षिणस्ततः
- पार्श्वक्रान्तस्तथा वामः समन्तान्मण्डलभ्रमः ११८९
- सूची यत्राथ वामः स्यादपक्रान्तस्तु दक्षिणः
- तदुक्तं कृतिभिः क्रान्तं स्वभावगतिगोचरम् ११९०
- इति क्रान्तम्
- ऊर्ध्वजानुस्तथा सूची दक्षिणश्चरणः क्रमात्
- वामपादस्त्वपक्रान्तः पार्श्वक्रान्तस्तु दक्षिणः ११९१
- क्रमात्सूची भ्रमरको वामः पादोऽथ दक्षिणः
- पार्श्वक्रान्तस्ततो वामोऽतिक्रान्तो दक्षिणः पुनः ११९२
- सूच्यपक्रान्तको वामः पार्श्वक्रान्तोऽपरस्ततः
- स्याद्वामाङ्घ्रिरतिक्रान्तश्चरणद्वितयी ततः ११९३
- स्याच्छिन्नकरणोक्ता चेद्वामाङ्घ्रिरचितं श्रिता
- बाह्यभ्रमरकं विद्यात्तदा ललितसंचरम् ११९४
- इति ललितसंचरम्
- दक्षिणश्चरणः सूची भ्रमरश्च भवेत्ततः
- पार्श्वक्रान्तोऽथ वामाङ्घ्रिरपक्रान्तोऽथ दक्षिणः ११९५
- सूची वामस्त्वपक्रान्तः पार्श्वक्रान्तस्तु दक्षिणः
- यत्र तन्मण्डलं प्रोक्तं सूचीविद्धं पुरातनैः ११९६
- इति सूचीविद्धम्
- सूच्यङ्घ्रिर्दक्षिणो वामस्त्वपक्रान्तोऽथ दक्षिणः ११९७
- दण्डपादोऽथ सूची स्याद्वामो भ्रमरकश्च सः
- पार्श्वक्रान्तो दक्षिणः स्यादाक्षिप्तो दक्षिणेतरः ११९८
- दक्षिणो दण्डपादः स्यादूरूद्वृत्तोऽप्यनन्तरम्
- वामश्च सूची भ्रमरोऽलातश्च क्रमतो भवेत् ११९९
- पार्श्वक्रान्तो दक्षिणः स्याद्वामोऽतिक्रान्ततां व्रजेत्
- यत्र तद्वामविद्धाख्यं मण्डलं शार्ङ्गिणोदितम् १२००
- इति वामविद्धम्
- दक्षिणो जनितोऽङ्घ्रिः स्यादूरूद्वृत्तश्च विच्यवः
- ततः समस्थितावर्तोद्व्यावर्तोदितभेदभाक् १२०१
- स्यन्दितो वामपादः स्यात्पार्श्वक्रान्तस्तु दक्षिणः
- भुजंगत्रासितो वामोऽतिक्रान्तो दक्षिणो भवेत् १२०२
- उद्वृत्तश्चैव वामस्तु स्यादलातोऽथ दक्षिणः
- पार्श्वक्रान्तोऽथवा सूची वामो विक्षिप्य दक्षिणम्
- वामोऽपक्रान्ततां नीतस्तद्विचित्रं प्रचक्षते १२०३
- इति विचित्रम्
- दक्षिणो विच्यवो भूत्वा स्यन्दितोऽनन्तरं भवेत् १२०४
- पार्श्वक्रान्तो दक्षिणोऽङ्घ्रिर्वामस्तु स्यन्दितस्ततः
- उद्वृत्तो दक्षिणोऽलातो वामः सूची तु दक्षिणः १२०५
- पार्श्वक्रान्तस्तु वामाङ्घ्रिराक्षिप्तीभूय दक्षिणः
- भ्रान्त्वा सव्यापसव्येन दण्डपादत्वमागतः १२०६
- वामः क्रमेण सूची स्याद्धमरश्चाथ दक्षिणः
- भुजंगत्रासितो वामोऽतिक्रान्तो विहृताभिधे १२०७
- इति विहृतम्
- सूचीं च भ्रमरीं वामे क्रमात्पादे तु दक्षिणे १२०८
- भुजंगत्रासितां चारीमलातां दक्षिणेतरे
- षट्कृत्वः सप्तकृत्वो वा कृत्वा चारीरिमाः क्रमात् १२०९
- चतुर्दिक्षु द्रुतं भ्रान्न्वा परिमण्डलिताकृतिः
- दक्षिणाङ्घ्रावपक्रान्तां वामे तु चरणे क्रमात् १२१०
- अतिक्रान्ता भ्रमरिके ललितैश्चरणक्रमैः
- करोति यत्र तत्प्राहुरलातं मण्डलं बुधाः १२११
- इत्यलातम्
- सूच्यङ्घ्रिर्दक्षिणो वागस्त्वपक्रान्तोऽथ दक्षिणः
- पार्श्वक्रान्तत्वमागत्य भुजंगत्रासितो भवेत् १२१२
- अतिक्रान्तस्तु वामाङ्घ्रिराक्षिप्तो दक्षिणस्ततः
- वामोऽतिक्रान्ततां नीत्वोरूद्वृत्तोऽलातकः क्रमात् १२१३
- पार्श्वक्रान्तो दक्षिणः स्याद्वामः सूच्यथ दक्षिणः
- अपक्रान्तो वामपादस्त्वतिक्रान्तीकृतो यदा
- ललितं संचरेदुक्तं ललितं मण्डलं तदा १२१४
- इति ललितम्
- इति दशाऽऽकाशिकमण्डलानि
- चालिश्चालिवडश्चाथ लढिः सूकमुरोङ्गणम् १२१५
- धसकश्चाङ्गहारः स्यादोयारो विहसी मनः
- लास्याङ्गानि दशैतानि देश्यां देशीविदो विदुः १२१६
- कोमलं सविलासं च मधुरं ताललास्ययुक्
- नातिद्रुतं नातिमन्दं त्र्यस्रताप्रचुरं तथा १२१७
- पादोरुकटिबाहूनां यौगपद्येन चालनम्
- चालिः सा शैघ्र्यसांमुख्यप्राया चालिवडो भवेत् १२१८
- सुकुमारं तिरश्चीनं विलासरसिकं च यत्
- युगपत्कटिबाहूनां चालनं सा लढिर्मता १२१९
- कर्णयोर्हावबहुलं लसल्लीलावतंसयोः
- विलम्बेनाविलम्बेन सूकं तल्लयचालनम् १२२०
- विलम्बेनाविलम्बेन कुचयोर्भुजशीर्षयोः
- ललितं चालनं तिर्यक्तज्ज्ञाः प्राहुरुरोङ्गणम् १२२१
- धसकः स्यात्सुललितं स्तनाधोनयनं लयात् १२२२
- सतालललितोपेता क्रमात्कार्या द्वयोर्नतिः
- धनुर्वदङ्गहारः स्यादिति निःशङ्कभाषितम् १२२३
- किंचित्तिर्यगधो मूर्ध्नो गतिरोयारको मतः
- स्मितं स्याद्विहसी यस्तु शृङ्गाररसनिर्भरः १२२४
- अभ्यस्तादन्य एवातिसूक्ष्मप्रत्यग्रभाङ्गिभाक्
- गीतादेरागतः स्थायस्तल्लयात्तन्मनो मतम् १२२५
- इति दश लास्याङ्गानि
- शिरोनेत्रकरादीनामङ्गानां मेलने सति
- कायस्थितिर्मनोनेत्रहारी रेखा प्रकीर्तिता १२२६
- इति रेखालक्षणम्
- विघ्नेशं भारतीं देवीं ब्रह्मविष्णुमहेश्वरान्
- रङ्गं तद्देवतास्तालवाद्यभाण्डानि च क्रमात् १२२७
- उपाध्यायं नृत्तकन्याः स्तम्भयुग्मं च दण्डिकाम्
- कस्तूरिकाचन्दनाद्यैः सामोदैरनुलेपनैः १२२८
- शुभ्रैरः सुगन्धिभिः पुष्पैर्धूपैरानात्रिकैरपि
- नैवेद्यैर्विविधैर्वस्त्रैस्ताम्बूलैर्बलिभिस्तथा १२२९
- अर्चयित्वा शुभे लग्ने प्रारभेत श्रमं सुधीः
- स्तम्भद्वयोपरिन्यस्येत्कृत्वा हृदयसंमिताम् १२३०
- हस्तग्राह्यां तिरश्चीनामवष्टम्भाय दण्डिकाम्
- वसित्वा वसनं शुभ्रं दृढमादाय कञ्चुकम् १२३१
- दण्डिकालम्बिनी कन्याऽभ्यस्येदङ्गविवर्तनम्
- वलनं स्थापनं रेखां तालसाम्यं लयानपि १२३२
- अङ्गादीनि पुरोक्तानि लास्याङ्गान्यखिलान्यपि
- गीतवाद्यानुगमनं शिक्षेत सुमनाः सती १२३३
- इति श्रमविधिः
- पात्रं स्यान्नर्तआधारो नृत्ते प्रायेण नर्तकी
- मुग्धं मध्यं प्रगल्भं च पात्रं त्रेधेति कीर्तितम् १२३४
- मुग्धादेर्लक्षणं प्रोक्तं यौवनत्रितयं क्रमात् १२३५
- लीनाधरस्तनाभोगकपोलजघनोरुकम्
- सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम् १२३६
- पीनोरुजघनं पीनकठिनोच्चघनस्तनम्
- जीवितं मन्मथस्योक्तं द्वितीयं यौवनं बुधैः १२३७
- उन्मादकं श्रिया जुष्टं संपन्नरतिनैपुणम्
- कामशिक्षितभावं च तृतीयं यौवनं विदुः १२३८
- यौवनं तुर्यमप्यस्ति मन्दोत्साहमनो भवेत्
- म्लानाधरस्तनाभोगकपोलजघनं च तत् १२३९
- अतिप्रगल्भमेतस्माद्यौवनात्पात्रमुच्यते
- तज्जराभिमुखं शोभाविकलं नाऽऽदृतं बुधैः
- बालं मनोविहीनत्वान्न पात्रं तज्ज्ञरञ्जकम् १२४०
- इति पात्रलक्षणम्
- सौष्ठवं रूपसंपत्तिश्चारुविस्तीर्णवक्त्रता
- विशालनेत्रता बिम्बाधरता कान्तदन्तता १२४१
- सुकण्ठकम्बुता वेल्लल्लतासरसबाहुता
- तनुमध्योन्नतिस्थूलनितम्बकरभोरुता ११४२
- अत्युच्चखर्वपीनत्वराहित्यमशिरालता १२४३
- लावण्यकान्तिमाधुर्यधैर्यौदार्यप्रगल्भता
- गौरता श्यामता वेति तज्ज्ञैः पात्रगुणा मताः १२४४
- यत्पात्रं गात्रविक्षेपैः कोमलैर्विलसल्लयैः
- सुतालैरक्षराणीव प्रोद्गिरद्गीतवाद्ययोः १२४५
- गीतवाद्यध्वनिं चाङ्गैश्चाक्षुषत्वमिवाऽऽनयत्
- सुमनांसीव गात्राणि रसपूर्णतया दधत्
- नृत्यत्युत्तममाचष्ट तदिदं करणाग्रणीः १२४६
- इति पात्रगुणाः
- व्यस्तानां वा समस्तानामेषां दोषो विपर्ययः
- गुणदोषौ परीक्षेत पात्रे नृत्तस्य सिद्धये १२४७
- मार्कण्डेयपुराणोक्ता नृत्ते पात्रैकतन्त्रता १२४८
- नृत्तेनालमरूपेण सिद्धिर्नान्येन रूपतः
- चार्वधिष्ठानवन्नृत्तं नृत्तमन्यद्विडम्बना १२४९
- इति पात्रदोषाः
- सुलीनस्निग्धविस्तीर्णकेशपाशनिवेशितः
- ग्रन्थिर्विलुलितः पृष्ठे लसत्पुष्पावतंसकः १२५०
- वेणी वा सरला दीर्घा मुक्ताजालविराजितैः
- कलितं कुन्तलैर्भालं कस्तूरीचन्दनादिना १२५१
- रचितं चित्रकं भाले नेत्रे तन्वञ्जनाञ्चिते
- उल्लसत्कान्तिवलये तालपत्रे च कर्णयोः १२५२
- दन्तपङ्क्तिः प्रभाजालप्रोज्ज्वलीकृतरङ्गभूः
- कस्तूरीपत्रभङ्गाङ्कौ कपोलौ कण्ठलम्बिता १२५३
- ताराहारावली स्थूलमौक्तिका स्तनमण्डना
- प्रकोष्ठौ न्यस्तसद्रत्नसौवर्णवलयान्वितौ १२५४
- अङ्गुल्यो धृतमाणिक्यनीलवज्रादिमुद्रिकाः
- चन्दनैर्धूसरं गात्रं यद्वा कुङ्कुमरञ्जितम् १२५५
- क्षीरोदकं दुकूलादि वस्त्रं कूर्पासकस्तनुः
- सकञ्चुकं वा चलनं तत्तद्देशानुसारतः १२५६
- एतन्मण्डनमन्यद्वा पात्रयोः श्यामगौरयोः
- यथोचितं विधातव्यमित्याह शिववल्लभः १२५७
- इति पात्रमण्डनानि
- रूपवान्नृत्ततत्त्वज्ञो ग्रहमोक्षविचक्षणः
- समादिग्रहविज्ञश्च वाद्यवादनवेदिता १२५८
- संप्रदायागतज्ञानो ध्वनिमाधुर्यतत्त्ववित्
- स्थायाधिक्योनताभिज्ञः कुशलो लयतालयोः १२५९
- वाद्यप्रबन्धनिर्माता मुखवाद्येषु कोविदः
- उद्भेत्ता नूत्नभङ्गीनां शिष्यशिक्षणदक्षिणः १२६०
- प्रतिष्ठापयिता नृत्तगीतवाद्यव्यवस्थितेः
- प्रविष्टो हृदयं यद्वा पात्रस्य हृदि च स्वयम् १२६१
- रञ्जकः स्यादुपाध्यायो नृत्तदोषविधानवित् १२६२
- इत्युपाध्यायलक्षणम्
- यत्रैको मुखरी श्रेष्ठस्तथा प्रतिमुखर्यपि
- द्वावडावजिनौ स्कन्धावजिनौ करटाधरौ १२६३
- द्वात्रिंशन्मर्दलधरा वरास्तालधरद्वयम्
- कांस्यतालधरास्त्वष्टाविष्टाः काहलिकद्वयम् १२६४
- वांशिकौ रसिकौ व्यक्तसुरक्तप्रचुरध्वनी
- चत्वारो मधुरध्वाना भवन्त्येते करास्तयोः १२६५
- द्वौ मुख्यगायनौ सार्धमष्टभिः सह गायनैः
- मुख्यगायनिके चाष्टौ सहगायनिकास्तयोः १२६६
- संप्रदायसमुल्लासि पात्रमेकं गुणान्वितम्
- सर्वेऽमी रूपवन्तः स्युश्चित्रालंकरणान्विताः १२६७
- गीतादिसाम्यनिपुणाः प्रहर्षोत्फुल्लचेतसः
- उत्तमः संप्रदायोऽसौ लोके कुटिलमुच्यते
- तदर्धं मध्यमो न्यूनोऽस्मात्कनिष्ठो निगद्यते १२६८
- इति संप्रदायलक्षणम्
- अनुवृत्तिर्मुखरिणस्तलयोर्न्यूनपूरणम्
- तालानुवृत्तिरित्येते चत्वारः कुटिले गुणाः १२६९
- संप्रदायस्य दोषः स्यादेतद्गुणविपर्ययः १२७०
- इति संप्रदायगुणदोषाः
- संगीतज्ञैर्बुधैः सार्धं नायके प्रेक्षके स्थिते
- प्रविश्य रङ्गभूमिं ते तिष्ठन्तः सांप्रदायिकाः १२७१
- वाद्यानां नादसाम्यं च कृत्वाऽवस्थितमानसाः
- मेलापकं वादयेयुः प्रबन्धं गजरं ततः १२७२
- ततो जवनिकान्तर्धौ दधानं कुसुमाञ्जलिम्
- पात्रं तिष्ठेदधिष्ठाय स्थानकं सौष्ठँवान्वितम् १२७३
- ततश्चोपसमारम्भेऽन्तर्धाने चापसारिते
- सभाजनमनोहारि पात्रं रङ्गभुवं विशेत् १२७४
- वाद्यमाने प्रबन्धे चोपशमादौ च वादकैः
- सुप्ताङ्गैरङ्गपीठस्य मध्ये पुष्पाञ्जलिं क्षिपेत् १२७५
- यतः स्वयं सुरज्येष्ठो मध्येरङ्गमधिष्ठितः
- ततः प्रहर्षसंपन्नं सुप्ताङ्गैरेव केवलैः
- वाद्येनोपशमेनात्र नृत्येत्पात्रं मनोन्वितम् १२७६
- पदमोता च कवितं मलपावत्सकावपि
- रिगोणी तुडुकेत्येभिः प्रवन्धैर्नियतक्रमैः १२७७
- स्वेच्छाकृतक्रमैर्यद्वा वाद्यमानैः समन्ततः
- समाङ्गैर्विषमाङ्गैर्वोभयैर्वा नृत्तमाचरेत् १२७८
- ततः शुद्धप्रबन्धैश्च गीयमानैर्निजेच्छया
- पात्रं विधाय त्रिविधं नर्तनं स्थानमाचरेत् १२७९
- गजरानन्तरं नास्ति यदोपशमनादृते
- पात्रं पादो परा रम्भे प्रविशेदिति तद्विदः १२८०
- इति पद्धतिरुक्तेयं प्रोक्ता परिविडिर्जने
- वादनं समहस्तस्य प्राक्प्रवेशात्परे जगुः १२८१
- समहस्तादिभिः पाटैः सुवृत्तैः पृष्ठसौष्ठवैः
- स्थितेन समपादेन प्रवेशं च प्रचक्षते १२८२
- केचिदाहुः केवलयोः प्रयोगं गीतवाद्ययोः
- एकैकशः प्रयोगोऽपि गीतादेः कैश्चिदिष्यते १२८३
- इति शुद्धपद्धतिः
- वाद्यप्रबन्धैः कठिनैस्त्यक्तमेलादिभिस्तथा
- गीतैः सालगसूडस्थैः प्रबन्धैर्यद्ध्रुवादिभिः १२८४
- लास्याङ्गैः केवलैरङ्गैः कोमलैश्चैव नृत्यति
- स्वयं गायति वाद्यं च त्रिवलीं वादयेत्स्वयम् १२८५
- तत्पात्रं गौण्डली केचिद्वादनं नात्र मन्वते
- त्रिवलीधारणं स्कन्धे ग्राम्यत्वं कुरुते स्त्रियाः १२८६
- अगायन्ती त्वशारीरा सैव स्यान्मूकगौण्डली
- गौडल्या मण्डलं प्रोक्तं तज्ज्ञैः कर्णाटदेशजम् १२८७
- तस्याश्च नर्तनं प्राहुर्गौण्डलीं लक्षणाश्रयात्
- तत्रत्यां पद्धतिं प्राहुस्तद्विदो गौण्डलीविधिम् १२८८
- सा देशीपद्धतिस्तूक्ता तल्लक्ष्म ब्रूमहेऽधुना
- कर्णाटमण्डलैर्युक्तास्तत्र स्युः सांप्रदायिकाः १२८९
- पूर्ववत्समनादत्वमातोद्यानां विधीयते
- मेलापकं वादयेयुरेकताल्या समाहिताः १२९०
- येन केनापि तालेन गजरे वादिते सति
- निःसारणैकताल्या वाऽऽरब्धस्योपशमे सति १२९१
- पात्रं प्रविश्य रङ्गस्य मध्ये पुष्पाञ्जलिं क्षिपेत्
- आविष्कुर्वत्सव्यवामपुरोङ्गाण्यथ नृत्यतः १२९२
- गजरोपशमेनैव ततः सर्वाङ्गनर्तनम्
- अड्डतालं निसारुं चैकतालीं श्रितया ततः १२९३
- रिगोण्या तालनियमरहिताभ्यामतःपरः
- अवत्सकविताभ्यां च क्रमान्नर्तनमाचरेत् १२९४
- नानाविधं पुनर्नृत्येद्रिगोण्योट्टवणात्मना १२९५
- निवारितेषु वाद्येषु दत्ते स्थानेऽथ वांशिकैः
- सह गायति संयुक्तैस्तैः सार्धमथ गौण्डली १२९६
- उच्चार्य स्थायिनं कुर्याद्रागालप्तिं चतुर्विधाम्
- अन्या वा गायनी मुख्या विविधालप्तिमाचरेत् १२९७
- मण्ठकात्प्रतिमण्ठाच्च तालेनान्येन संयुतम्
- सकलं ध्रुवकं गीत्वा जक्कया वाद्यमानया १२९८
- श्लक्ष्णं ध्रुवाख्यखण्डेन गीयमानेन संततम्
- गायनैर्मेलकोपेतैर्मनोव्यक्तिमनोहरम् १२९९
- नृत्तं किंचिद्विधायाथ शान्तयोर्गीतवाद्ययोः
- विधाय विविधस्थायान्मुहुर्ध्रुवपदं व्रजेत् १३००
- कांश्चिद्गीतस्य तालेन गीततालाक्षरैः परान्
- नातिदीर्घान्नातिनीचान्माधुर्यप्रौढिपेशलान् १३०१
- रक्तियुक्तान्वितांस्तालं यदि वाऽऽदौ विधाय तान्
- सुतालकलितप्रान्तान्ध्रुवखण्डे कलासयेत् १३०२
- कलासे वाद्यघातं च कुर्युः साम्येन वादकाः
- कलासेषु भवेत्पात्रं लीनं चित्रार्पितं यथा १३०३
- एवं कुर्वत्प्रक्रियायां कृतायां पूर्ववत्पुनः
- नृत्तं समाचरेत्पात्रं गीयमाने ध्रुवांशके १३०४
- आभोगेनाथ नृत्येच्च वाद्यमानेन वादकैः १३०५
- गौण्डल्योजोन्विता सा स्यात्त्यागे संनिहिते सति
- नानाविधप्रौढचारीचालकं नृत्तमाचरेत् १३०६
- अत्र प्रहरणं वाद्यमाभोगेऽप्येतदिष्यते
- कृत्वाऽथ वाद्यसाम्येन त्यागं विश्रान्तिमाचरेत् १३०७
- कृत्वा नृत्तं ध्रुवेणैवं ध्रुववन्मण्ठकादिभिः
- क्रमान्नृत्ते विशेषस्तु तेषामेषोऽभिधीयते १३०८
- मण्ठादेर्ध्रुवखण्डेन केवलं नर्तनं भवेत्
- मण्ठे तु मण्ठतालेन प्रारम्भे नर्तनं मतम् १३०९
- ततः स्यादेकताल्यैव मण्ठनृत्तं क्रमात्क्रमात्
- नर्तनं प्रतिमण्ठादौ स्वतालेनैव कीर्तितम् १३१०
- एषु सालगगीतेषु नृत्तं द्रुतलयाश्रयम्
- विलम्बितो लयस्तूक्तस्ताण्डवे पण्डितैः सदा १३११
- रूपकैरेकताल्यन्तैरेवं सालगसूडगैः
- नर्तित्वा क्रियते त्यागो यत्रासौ गौण्डलीविधिः १३१२
- इति गौण्डलीविधिः
- भस्मादिश्वेतलिप्ताङ्गो बिभ्रन्मुण्डं शिरः शिखाम्
- भ्राजद्घर्घरिकाजालजङ्घः शारीरपेशलः १३१३
- पञ्चाङ्गकुशलस्तालकलालयविचक्षणः
- सभाजनमनोहारी यो नृत्यति स पेरणी १३१४
- घर्घरो विषमं भावाश्रयश्च कविचारकः
- गीतं चेति समाचष्ट पञ्चाङ्गानि हरप्रियः १३१५
- तत्र घर्घरिकावाद्ये वहनिर्घर्घरो मतः १३१६
- पटिवाटश्चापडपः सिरिपिट्यलगादिमः
- वाटः सिरिहिराख्यश्च ततः खलुहुलाह्वयः
- इति घर्घरभेदाः स्युः षडमी तद्विदां मताः १३१७
- भूमिलग्नाग्रयोरङ्घ्र्योः पर्यायाद्भूमिकुट्टनम्
- पार्ष्णिद्वयेन पार्ष्ण्या वैकया स्यात्पटिवाटकः १३१८
- भवेच्चापडपः पादतलेनावनिकुट्टनम्
- तलेन भूमिलग्नेन पादस्य सरणं पुरः १३१९
- तथाऽपसरणं पश्चान्मुहुः सिरिपिटी भवेत्
- द्वयोश्चरणयोर्व्योम्नि पर्यायेण प्रकम्पनम् १३२०
- यत्कृतं कोमलं सोऽत्रालगवाटः प्रकीर्तितः
- सत्येकस्मिन्समे पादेऽङ्घ्रिः पुरः प्रेरितो भवेत् १३२१
- यस्तस्य जङ्घया कम्पः प्रोक्तः सिरिहिरो बुधैः
- यदा द्वयोः स्वभावेन तिष्ठतोः पादयोर्भुवि १३२२
- जङ्घयोः कम्पनं प्राहुर्धीराः सिरिहिर तदा
- भूलग्नाग्रस्य वामाङ्घ्रेः पार्ष्ण्या यद्भूमिकुट्टनम् १३२३
- भूलग्नाग्रस्य चान्यस्य भ्रमः सव्यापसव्यतः
- योऽसौ खलुहुलः प्रोक्तो घर्घरो नृत्तकोविदैः १३२४
- दिशाऽनया परेऽप्यूह्या घर्घराः शोभयाऽन्विताः
- सर्वे घर्घरभेदास्ते कार्यास्तालानुगामिनः १३२५
- अत्र चोत्प्लुतपूर्वं स्यात्करणं विषमाभिधम्
- विकृतार्थानुकारस्तु बुधैर्भावाश्रयो मतः १३२६
- कविचारो भवेदत्रोत्तमनायकवर्णनम्
- अत्र स्यात्सालगं गीतं यदुक्तं गौण्डलीविधौ १३२७
- इति पेरणिलक्षणम्
- गौण्डलीविधिवच्चात्र रङ्गस्थाः सांप्रदायिकाः
- कुर्युर्गम्भीरमातोद्यध्वनिं धिधिधिधीति ते १३२८
- ततो विलम्बितप्राये रिगोण्युट्टवणाश्रये १३२९
- पादत्रये वाद्यमाने द्विर्द्विर्निःसारुतालतः
- विशेद्विकृतवाग्वेषभूषो रङ्गेऽट्टबोडकः १३३०
- तस्मिन्नृत्यति हास्यैकरसे विशति पेरणी
- रिगोण्युपशमेनैष प्रविष्टो नृत्तमाचरेत् १३३१
- प्रशान्ते वाद्यसंघाते ततस्तालधरैः समम्
- वाद्यमाने सुनिपुणं ताले गारुगिसंज्ञके १३३२
- यद्वा सरस्वतीकण्ठाभरणे वादकैस्तथा
- क्रियमाणे मर्दलादेर्मण्डितालसमध्वनौ
- पेरणी घर्घरान्कुर्यान्नाना चापडपादिकान् १३३३
- ततः कूटनिबद्धेन यद्वा वर्णसरात्मना
- कवितेनैष विषमं नृत्येन्निःसारुतालतः १३३४
- ततः सालगसूडेन नृत्ते तत्र च दर्शयेत्
- रेखां च स्थापनां हृद्या वहनीर्गीतनर्तनम् १३३५
- विषमं च प्रहरणानुगमाभोगवादने
- कविचारांस्तथा भावाश्रयान्पेरणिपद्धतौ १३३६
- इति पेरणीपद्धतिः
- तौर्यत्रये लक्ष्यलक्ष्मवेद्याचार्यः प्रकीर्तितः
- वाग्ग्मी सुरूपवेषोऽसौ सुरसस्तुतिकोविदः
- सभासु परिहासज्ञो भवेद्वादनवाद्यवित् १३३७
- इत्याचार्यः
- चतुर्धाभिनयाभिज्ञो नटो भाणादिभेदवित् १३३८
- इति नटः
- नर्तकः सूरिभिः प्रोक्तो मार्गनृत्ते कृतश्रमः १३३९
- इति नर्तकः
- सर्वभाषाविशेषज्ञो जनानां नर्मकर्मदः
- पटुः परापवादेषु स्मृतो वैतालिको बुधैः १३४०
- इति वैतालिकः
- किङ्किणीवाद्यवेदी च वृत्तो विकटनर्तकैः
- मर्मज्ञः सर्वरागेषु चतुरश्चारणो मतः १३४१
- इति चारणः
- भारस्य भूयसो वोढा प्रौढो भ्रमरिकादिषु
- रज्जुसंचारचतुरश्छुरिकानर्तने कृती
- शस्त्रसंकटसंपातपटुः कोह्लाटिको मतः १३४२
- इति कोह्लाटिकः
- मध्यस्थाः सावधानाश्च वाग्ग्मिनो न्यायवेदिनः
- त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः १३४३
- अगर्वा रसभावज्ञास्तौर्यत्रितयकोविदाः
- असद्वादनिषेद्धारश्चतुरा मत्सरच्छिदः
- अमन्दरसनिष्यन्दिहृदयाः स्युः सभासदः १३४४
- इति सभासदः
- शृङ्गारी भूरिदो मान्यो मान्यपात्रविवेचकः
- श्रीमान्गुणलवस्यापि ग्राहकः कौतुके रतः १३४५
- वाग्ग्मी निर्मत्सरो नर्मनिर्माणनिपुणः सुधीः
- गम्भीरभावः कुशलः सकलासु कलासु च १३४६
- समस्तशास्त्रविज्ञानसंपन्नः कीर्तिलोलुपः
- प्रियवाक्परिचित्तज्ञो मेधावी धारणान्वितः १३४७
- तूर्यत्रयविशेषज्ञः पारितोषिकदानवित्
- सर्वोपकरणोपेतो देशीमार्गविभागवित् १३४८
- हीनाधिकविवेकज्ञः प्राज्ञो मध्यस्थधीरधीः
- स्वाधीनपरिवारश्च भावको रसनिर्भरः १३४९
- सत्यवादी कुलीनश्च प्रसन्नवदनोत्तरः
- स्थिरप्रेमा कृतज्ञश्च करुणावरुणालयः
- धर्मिष्ठः पापभीरुश्च विद्वद्बन्धुः सभापतिः १३५०
- इति सभापतिलक्षणम्
- विचित्रा नृत्यशाला स्यात्पुष्पप्रकरशोभिता
- नानावितानसंपन्ना रत्नस्तम्भविभूषिता १३५१
- तस्यां सिंहासनं रम्यमध्यासीनः सभापतिः
- वामतोऽन्तःपुराणि स्युः प्रधाना दक्षिणेन तम् १३५२
- पृष्ठभागे प्रधानानां कोशः श्रीकरणाधिपः
- तत्संनिधौ तु विद्वांसो लोकवेदविशारदाः १३५३
- रसिकाः ह्कवयोऽप्यत्र चतुराः सर्वरीतिषु
- मान्याञ्ज्योतिर्विदो वैद्यान्विद्वन्मध्ये निवेशयेत् १३५४
- स्याद्वामेतरभागे तु मन्त्रिणां परिमण्डलम्
- तत्रैव सैन्यमान्यानामन्येषामुपवेशनम् १३५५
- विलासिनो विलासिन्यः परितोऽन्तःपुराणि च
- पुरतोऽपि नृपस्य स्युः पृष्ठभागे तु भूपतेः १३५६
- चारुचामरधारिण्यो रूपयौवनसंभृताः
- स्वकङ्कणझणत्कारनिर्वाणजनमानसाः १३५७
- अग्रिमा वामभागे स्युरग्रे वाग्गेयकारकाः
- कथका बन्दिनश्चात्र विद्यावन्तः प्रियंवदाः १३५८
- प्रशंसाकुशलाश्चान्ये चतुराः सर्वमातुषु
- ततः परं तु परितः परिवारोपवेशनम् १३५९
- अधिष्ठितं सदः कार्यं दक्षैर्वेत्रधरैर्नरैः
- अङ्गरक्षास्तु तिष्ठेयुः सर्वतः शस्त्रपाणयः १३६०
- संनिवेश्य सभामेवं नेता संगीतमीक्षते १३६१
- इति सभासंनिवेशः
- रसप्रधानमिच्छन्ति तौर्यत्रिकमिदं विदः
- तत्सामान्यविशेषाभ्यामधुनाऽभिदधे रसम् १३६२
- विभावैरनुभावैश्च नटस्थैर्व्यभिचारिभिः
- जनिताऽऽत्मपरामित्रमित्राद्याश्रयतां विना १३६३
- अवस्थादेशकालादिभेदसंभेदवर्जितम्
- केवलं रतिहासादिस्थायिरूपं प्रगृह्णती १३६४
- अतो निरन्तरायत्वात्परां विश्रान्तिमाश्रिता
- प्रतिभानुभवस्मृत्याद्यन्यबोधविलक्षणा १३६५
- ब्रह्मसंविद्विसदृशी नानारत्यादिसंगमात्
- सुखरूपा स्वसंवेद्या संविदास्वादनाभिधा
- रसः स्यादथवा स्थायी रसस्तद्गोचरीभवन् १२६६
- दध्यादिव्यञ्जनैश्चैव हरिद्रादिभिरौषधैः
- मधुरादिरसोपेतैर्यद्वद्द्रव्यैर्गुडादिभिः १३६७
- युक्तैः पाकविशेषेण षाडवाख्योऽपरो रसः
- उत्पाद्यते विभावाद्यैः प्रयोगेण तथा रसः १३६८
- शृङ्गारहास्यौ करुणो रौद्रो वीरो भयानकः
- बीभत्सश्चाद्भुतः शान्तो नवधेति रसो मतः १३६९
- शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात्
- अष्टावेव रसा नाट्येष्विति केचिदचूचुदन् १३७०
- तदचोद्यं यतः किंचिन्न रसं स्वदते नटः
- सामाजिकास्तु लिहते रसान्पात्रं नटो मतः १३७१
- ते शुद्धहृदयाः शान्तं स्वविभावविभावितम्
- एकाग्रचेतसः सन्तोऽनुभवन्तीति युज्यते १३७२
- रतिहासशुचः क्रोधोत्साहौ भयजुगुप्सने
- विस्मयश्चाथ निर्वेदः स्थायिभावा नवेत्यमी १३७३
- जुगुप्सां स्थायिभावं तु शान्तं केचिद्बभाषिरे
- उत्साहमाहुरन्येऽन्ये शमं सर्वान्परे विदुः १३७४
- उद्दिश्य स्थायिनः प्राप्ते समये व्यभिचारिणाम्
- अमङ्गलमपि ब्रूते पूर्वं निर्वेदमेव यत् १३७५
- मुनिर्मेनेऽस्य तन्नूनं स्थायिताव्यभिचारिते
- पूर्वापरान्वयो ह्यस्य मध्यस्थस्यानुषङ्गतः १३७६
- स्थापी स्याद्विषयेष्वेष तत्त्वज्ञानोद्भवो यदि
- इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ १३७७
- निर्वेदग्लानिशङ्कौग्र्यदैन्यासूयादमश्रमाः
- चिन्ता धृतिः स्मृतिर्व्रीडामोहालस्यानि चापलम् १३७८
- हर्षामर्षविषादाश्चापस्मारो जडता तथा
- वितर्कसुप्तमौत्सुक्यमवहित्थं तथा मतिः १३७९
- विबोधो व्याधिरुन्मादो गर्वावेगौ मृतिस्तथा
- त्रासो निद्रा त्रयस्त्रिंशदिति स्युर्व्यभिचारिणः १३८०
- स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः
- वैवर्ण्यमश्रु प्रलयोऽष्टौ भावाः सात्त्विका इति १३८१
- विभावाद्यैरनुचितः स्थानत्वाद्विकृतिं गतैः
- शृङ्गारादिरसाभासाः कृता हास्यस्य हेतवः १३८२
- फलं बन्धुवधो रौद्रे विभावः करुणे च सः
- जगदुस्तद्विदो रौद्रमतः करुणकारणम् १३८३
- रौद्रं भयानके हेतुमत एव प्रचक्षते
- शृङ्गाराद्विप्रलम्भाख्यात्करुणोत्पत्तिरिष्यते
- भयानकेऽद्भुते हेतुं वीरं धीरा बभाषिरे १३८४
- विदूषकस्य हासस्तु नायके हास्यकारणम्
- साम्याद्रुधिरमोहादिविभावाद्व्यभिचारिणाम् १३८५
- बीभत्से सति भीरूणामुत्पद्येत भयानकः
- अन्योन्यजन्यजनका भवन्त्येवमिमे रसाः १३८६
- श्यामः सितो धूसरश्च रक्तो गौरोऽसितस्तथा
- नीलः पीतस्ततः श्वेतो रसवर्णाः क्रमादिमे १३८७
- विष्णुमन्मथकीनाशरुद्रेन्द्राः कालसंज्ञकः
- महाकालः क्रमाद्ब्रह्मा बुद्धश्च रसदेवताः
- शृङ्गारे देवतामाहुरपरे मकरध्वजम् १३८८
- वक्ष्ये विशेषलक्ष्माणि रसादेरधुना क्रमात् १३८९
- विभावैर्वरकान्ताद्यैः स्वकाव्ये कविगुम्फितैः
- साक्षात्कारमिवाऽऽनीतैर्नटेन स्वप्रयोगतः १३९०
- नीतो रतिस्थायिभावः सदस्यरसनीयताम्
- नटेन कान्तदृष्ट्याद्यैरनुभावैः प्रदर्शितैः १३९१
- आवेशातिशयं नीतश्चित्रितो व्यभिचारिभिः
- हर्षचिन्तादिभिः प्रोक्तः शृङ्गारः सूरिशार्ङ्गिणा १३९२
- संभोगविप्रलम्भौ वाऽवस्थे द्वे तस्य कीर्तिते
- कान्तासंयोगविरहौ लक्षणे च तयोः क्रमात् १३९३
- स्त्रीपुंसयोरुत्तमयोर्यूनोः पूर्णसुखोदया
- प्रारम्भात्फलपर्यन्तव्यापिनी स्मरसंभृता
- संविदोरैक्यसंपत्त्या क्रीडाऽत्र स्थायिनी रतिः १३९४
- लोके स्थाय्यादिभावानां दृष्टये जन्महेतवः
- उपनीताः कविवरैर्नटैः साक्षात्कृता इव
- रसान्प्रसुन्वते ते स्युर्विभावास्तद्विभावनात् १३९५
- कान्तौ तीव्रस्मराक्रान्तौ दूतीसख्यादयो जनाः १३९६
- तत्तद्योग्योऽप्यलंकारः किरीटकटकादिकः
- समयोऽपि वसन्तादिर्विषयाश्चन्दनादयः १३९७
- गीतादयश्च देशोऽपि रम्यहर्म्यवनादिकः
- कान्तानुकरणं हंसयुग्मचित्रादिदर्शनम् १३९८
- जलकेलीत्येवमाद्याः श्रुता यद्वा विलोकिताः
- विभावत्वेन विख्याता रसे शृङ्गारनामनि १३९९
- भावानां यानि कार्याणि नाट्यन्ते कुशलैर्नटैः
- अनुभावा हेतवस्ते स्वहेत्वनुभवे यतः १४००
- ते भावानाभिमुख्येन नयन्ति गमयन्ति हि
- अतोऽभिनयशब्देनाप्युच्यन्ते कृत्रिमा नटैः १४०१
- कान्ता दृष्टिः कटाक्षाख्यं तारकाकर्म शर्मकृत्
- चतुरे च भ्रुवौ चारुगोचरा मधुरा गिरः १४०२
- रोमाञ्चमुखरागादिरचितः सात्त्विकोत्करः
- अनुभावा भवन्त्येते शृङ्गाररसपोषिणः १४०३
- आलस्यौग्र्यजुगुप्साभ्योऽन्येऽत्र स्युर्व्यभिचारिणः
- आलस्यादित्रयं वर्ज्यं स्वविभावैकगोचरम् १४०४
- एष संभोगशृङ्गारगतः परिकरो मतः
- विप्रलम्भे नानुभावः कान्ता दृष्ट्यादिरिष्यते १४०५
- चिन्तासूयाश्रमौत्सुक्यनिर्वेदग्लानिमृत्यवः
- उन्मादव्याध्यपस्मारविबोधजडतास्तथा १४०६
- दैन्यं निद्रा तथा स्वप्नसुप्तचिन्तादयश्च ये
- तदीयैरनुभावैस्तु विप्रलम्भोऽभिनीयते १४०७
- उन्मादादिदशां चातिकष्टां नात्र प्रदर्शयेत्
- न चात्र मरणं साक्षाद्दर्शयेत्तस्य सूचिकाम् १४०८
- तदनन्तरजातां तु दर्शयेत्सुखिनीं दशाम्
- दशां वा भाविनिधनां सूचयेन्न त्विमां वदेत् १४०९
- ननु दुःखात्मकः कस्माद्विप्रलम्भो रसो मतः
- मैवं रत्यनुसंधानं विप्रलम्भेऽपि दृश्यते १४१०
- विप्रलम्भोद्भवा शङ्का संभोगे दुस्त्यजा ध्रुवम्
- इतरेतरचित्रत्वाद्रसत्वं सुलभं तयोः १४११
- नैकरूपे चिरास्वाद्यः शर्करावद्भवेदसौ १४१२
- संभोगेऽपि न निद्राऽस्ति नन्वन्योन्याभिलाषिणोः
- विबोधस्त्वस्त्यसौ कस्माद्विप्रलम्भैकगोचरः १४१३
- नैतन्निद्राविनाशो हि विबोधस्तामृते कुतः १४१४
- रतिश्रमकृता निद्रा संभोगेऽप्यस्ति चेन्न तत्
- भवन्त्यपि न सोद्भाव्या रत्युत्कर्षविरोधिनी १४१५
- करुणे विप्रलम्भे च चिन्तादिव्यभिचारिणाम्
- साषारण्यात्तयोर्भेदो नास्ति चेत्तदसांप्रतम् १४१६
- शोको हि करुणे स्थायी विप्रलम्भे रतिर्मता १४१७
- स्थायिभेदाद्विभागोऽतस्तयोरुत्तमपूरुषे
- नतु नीचे तु माल्यादिविभावानामसंभवात् १४१८
- रत्यभावे विप्रलम्भः शृङ्गारो जायते कथम्
- अतः स्यात्करुणः स्पष्टस्तत्रेष्टविरहोद्भवः १४१९
- माल्याद्यसंभवान्नीचे संभोगासंभवोऽपि चेत्
- तन्न नीचरतिर्यस्मान्नारीमात्रविभावजा
- वियोगेऽपि तथा माल्याद्यभावेन कथं रतिः १४२०
- आशाबन्धश्लथीभूतचिन्तादिव्यभिचारिकः
- विरहः करुणाद्भिन्नः प्रियनैराश्यकारितात् १४२१
- कामसूत्रे च शृङ्गारो दशावस्थः प्रदर्शितः
- अभिलाषस्ततश्चिन्तानुस्मृतिर्गुणकीर्तनम् १४२२
- उद्वेगोऽथ विलापः स्यादुन्मादो व्याधिसंभवः
- जडता मरणं चेति दशावस्थाः प्रकीर्तिताः १४२३
- भोक्ता प्रधानो भोग्या तु कान्ता तदुपसर्जनम्
- अतो नरान्तरासक्तिस्तस्याः शृङ्गारभङ्गकृत्
- भोक्तस्त्वपरतन्त्रत्वात्कान्तान्तरमभञ्जकम् १४२४
- वाङ्नेपथ्याङ्गवेष्टाभिः शृङ्गारस्त्रिविधो मतः
- रामादिव्यञ्जको वेषो नटे नेपथ्यमिष्यते १४२५
- इति शृङ्गारः
- वेषालंकारगमनगदितानां विकारिता १४२६
- एतेषां च परस्थानामनुकारो विलज्जता
- विषयेऽरुचिता दृष्ट्याऽप्यसंगतविभाषणम् १४२७
- हासनीयस्य कक्षादिसंस्पर्शः कुहनावहः
- इत्यादयो विभावाः स्युरनुभावास्तु नेत्रयोः १४२८
- कपोलयोरोष्ठयोश्च स्पन्दो दृष्ट्योर्विकासनम्
- अत्यन्तमीलनं किंचित्कुञ्चनं पार्श्वपीडनम् १४२९
- प्रस्वेदमुखरागाद्या यस्याथ व्यभिचारिणः
- स्वप्नोऽवहित्थमालस्यनिद्रातन्द्रादयोऽपरे १४३०
- एते स्मितादिभेदेषु यथायोगं व्यवस्थिताः
- स्थायिभावश्च हासः स्यादसौ हास्यः प्रकीर्तितः १४३१
- आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम्
- आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः १४३२
- हसन्तमपरं दृष्ट्वा विभावैश्चोपजायते
- योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः १४३३
- उत्तमानां मध्यमानां नीचानामप्यसौ भवेत्
- त्र्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे १४३४
- स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः
- भवेद्विहसितं चोपहसितं मध्यमे नरे
- नीचेऽपहसितं चातिहसितं परिकीर्तितम् १४३५
- ईषत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः
- अदृश्यदशनो हास्यो मन्थरस्मितमुच्यते १४३६
- वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः
- किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते १४३७
- सशब्दं मधुरं कालागतं वदनरागवत्
- आकुञ्चिताक्षिगण्डं च विदुर्विहसितं बुधाः १४३८
- निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः
- उत्फुल्लनासिको हास्यो नाम्नोपहसितं मतः १४३९
- अस्थानजः साश्रुदृष्टिराकम्प्रस्कन्धमूर्धकः
- शार्ङ्गदेवेन गदितो हास्योऽपहसिताह्वयः १४४०
- स्थूलकर्णः कटुध्वानो बाष्पपूरप्लुतेक्षणः
- करोपगूढपार्श्वश्च हास्योऽतिहसितं मतः १४४१
- पूर्वाणि स्वसमुत्थानि स्मितादियुगलत्रये
- पराणि त्वपरस्थानि पूर्वसंक्रान्तिजत्वतः १४४२
- हास्यरौद्रावपि त्रेधा वाङ्नेपथ्याङ्गचेष्टितैः
- उपलक्षणमेतत्तु तेषां सर्वेषु संभवात् १४४३
- इति हास्यः
- इष्टबन्ध्वियोगश्च श्रीनाशो वधबन्धने १४४४
- व्यसनप्रभवोऽनर्थः सुतादिनिधनं तथा
- देशभ्रंशादयश्चैते श्रुता यद्वा विलोकिताः १४४५
- विभावाः संमताः पुंसामुत्तमानां पराश्रिताः
- मध्यमाधमपुंसां तु ते स्युरात्मैकगोचराः १४४६
- अश्रुपातो मुखे शोषो विलापः परिदेवनम्
- स्तम्भो विवर्णता स्रस्तगात्रता प्रलयस्तथा १४४७
- श्वासोच्छ्वासौ देहपातघातोरस्ताडनादयः
- एते यत्रानुभावाः स्युरथ ग्लानिः श्रमो भयम् १४४८
- मोहो विषादनिर्वेदौ चिन्तौत्सुक्ये च दीनता
- जडता व्याधिरुन्मादालस्यापस्मारमृत्यवः १४४९
- स्तम्भकम्पाश्रुवैवर्ण्यस्वरभङ्गादयस्तथा
- यत्र संचारिणः स्थायी शोकः स करुणो मतः १४५०
- व्यवस्थाऽत्रानुभावानां योग्यत्वादुत्तमादिषु १४५१
- विलापो रोदनं शोच्यगुणस्तवपुरःसरम्
- स्याद्दैवात्मपराणां यदुपालम्भेन रोदनम्
- परिदेवनमित्युक्तं तदिदं शब्दकोविदैः १४५२
- धर्मोपघातजो वित्तनाशजो बन्धुनाशजः
- करुणस्त्रिविधस्तेषामुत्तमेष्वेव पूर्वजः १४५३
- त्रेधा रुदितमानन्दार्तीर्ष्याहेतुकृतं भवेत् १४५४
- दुःखस्मृतियुतानन्दाज्जातं फुल्लकपोलकम्
- सरोमाञ्चमपाङ्गस्थबाष्पमानन्दजं मतम् १४५५
- उच्चैः स्वरविलापं च सभ्रूप्रान्तविवर्तितम्
- स्रुताश्रुधारमस्वस्थचेष्टाङ्गं चाऽऽर्तिजं मतम् १४५६
- शिरःकल्पितनिश्वासं स्फुरदोष्ठकपोलकम्
- कटाक्षभ्रुकुटीवक्रं स्त्रीणामीर्ष्याकृतं भवेत् १४५७
- धैर्यादुत्तममध्यानां नाश्रु स्वव्यसने स्रवेत्
- परस्थे तु स्रवेन्नारीनीचानां तूभयत्र तत् १४५८
- इति करुणः
- हन्तृप्रकृतयो रक्षोदैत्याद्यन्यायकारिणः
- युद्धं क्रोधोऽनृतं वाक्यं परदारादिधर्षणम् १४५९
- देशजातिकुलाचारविद्यानिन्दा परस्य
- वधान्यदारयात्रादिप्रतिज्ञापरुषोक्तयः १४६०
- गृहादिभञ्जनं राज्यहरणं मत्सरस्तथा
- जिघांसाद्याश्च यत्र स्युर्विभावाः कविकीर्तिताः १४६१
- भ्रुकुटीरक्तनेत्रत्वं कपोलस्फुरणं तथा
- दन्तोष्ठपीडनं हस्तनिष्पेषोऽथान्यविग्रहे १४६२
- तलाद्यैस्ताडनं छेदो मर्दः पाटनमोटने
- शस्त्राणां ग्रहणं पातः प्रहारो रुधिरस्रुतिः १४६३
- एतेऽनुभावास्तेषां तु कर्म यत्ताडनादिकम्
- न तत्साक्षात्प्रयोक्तव्यं कीर्तनीयं परं नटैः १४६४
- उत्साहसम्यग्बोधौ चामर्षावेगौग्र्यचापलम्
- स्वेदवेपथुरोमाञ्चगद्गदस्वरतादयः १४६५
- साक्षात्स्वेदोऽभिनेयो वा व्यजनग्रहणादिना
- उत्साहस्त्वत्र संचारी न तस्माद्वीरसंकरः १४६७
- ननु चाव्यभिचारेण भावस्य स्थायिता मता
- स्थायी तत्कथमुत्साहो वीरेऽप्येष भविष्यति १४६८
- मैवं क्षणिकविद्योता विद्युद्वद्व्यभिचारिणः
- स्थिराः स्युः स्थायिनस्तेन द्विरूपोऽयं रसद्वये १४६९
- ननु स्थाय्यपि भावत्वान्निसर्गात्क्षणिको भवेत्
- सत्यं किंतु स संस्काररूपेण स्थायितां गतः १४७०
- तत्तिरस्कृतसंस्कारास्त्वन्ये तत्स्थैर्ययोगिनः
- आविर्भावतिरोभावधर्माणश्चात्र यन्त्रिताः १४७१
- गुरौ प्रिये रिपौ भृत्ये भवेत्क्रोधश्चतुर्विधः
- गुरावव्यक्तचेष्टः स्यात्क्रोधो विनययन्त्रितः १४७२
- अपाङ्गनिर्गताल्पास्रो भ्रुकुटीकुटिलाननः
- स्फुरितोष्ठो मृगाक्षीणां कोपः प्रणयजः प्रिये १४७२
- दष्टोष्ठो हस्तनिष्पेषी विकटभ्रुकुटीपुटः
- स्वभुजप्रेक्षणैः शत्रौ भवेत्क्रोधो निरर्गलः १४७४
- विकृतप्रेक्षणैरक्षिविस्तारैर्भूरिभर्त्सनैः
- भृत्ये कार्यवशात्कोपः कृत्रिमः क्रूरतोज्झितः १४७५
- अविस्मयादसंमोहादविषादाच्च यः सताम्
- धर्प्राद्यर्थविशेषेषु कार्यस्तत्त्वविनिश्चयः १४७६
- नयश्च विनयः कीर्तिः पराक्रमणशक्तता
- प्रतापः प्रभुशक्तिश्च दुर्धर्षप्रौढसैन्यता १४७७
- मन्त्रशक्तिश्च संपन्नधनाभिजनमन्त्रिता
- इत्यादयो विभावाः स्युर्नटे काव्यसमन्विताः १४७८
- सामादीनामुपायानां यथास्वं विनियोजने
- विज्ञत्वं स्थैर्यधैर्ये च शौर्यं त्यागो यथोचितम् १४७९
- भाषणं भावगम्भीरवाक्यस्येत्येवमादयः
- सर्वे गर्वानुभावाश्चानुभावाः स्युरथ स्मृतिः १४८०
- औग्र्यमावेगरोमाञ्चावमर्षश्च धृतिर्मतिः
- एवंप्रभृतयो भावा यत्र स्युर्व्यभिचारिणः १४८१
- उत्साहः स्थायिभावश्च धीरा वीरं तमूचिरे
- उत्तमप्रकृतिष्वेव पुरुषेष्वेष जायते १४८२
- सम्यग्विज्ञाय षाड्गुण्यप्रयोगो गीयते नयः १४८३
- संधिश्च विग्रहो यानमासनं संश्रयस्तथा
- द्वैधीभाव इति प्रोक्ता नीतिशास्त्रेषु षड्गुणाः १४८४
- इन्द्रियाणां जयं प्राह विनयं शंकरप्रियः
- प्रतापः पौरुषोद्भूता प्रसिद्धिः शत्रुतापिनी १४८५
- कीर्तिः सुहृदुदासीनजनानन्दप्रदं यशः
- सामदाने भेददण्डावित्युपायचतुष्टयम् १४८६
- स्थैर्यं त्वचलचित्तत्वं धैर्यं गाम्भीर्यशालिता
- शौर्यं भवेदनुद्भूतभयं युद्धप्रवर्तनम् १४८७
- वीरः स्यादुचिते युद्धे रौद्रस्त्वनुचिते भवेत् १४८८
- दानवीरो धर्मवीरो युद्धवीर इति त्रिधा
- वीरो दानादयस्तत्र विभावाः प्रतिनायके
- नायके त्वनुभावाः स्युर्वीरस्येति विदां मतम् १४८९
- इति वीरः
- रक्षःपिशाचभल्लूकप्रभृतेर्भीषणाकृतेः
- दर्शनं श्रवणं शून्यागारारण्यप्रवेशयोः १४९०
- विकृतस्य ध्वनेस्त्रासोद्वेगयोः परसंस्थयोः
- श्रवणं चानुसंधानं बन्धूनां वधबन्धयोः १४९१
- एवमाद्या विभावाः स्युरथ नेत्रकराङ्घ्रिणः
- मध्ये मध्ये स्तम्भकम्पौ रोमाञ्चनिचयस्तथा १४९२
- शुष्कोष्ठतालुता कम्प्रहृदयत्वं विवर्णता
- मुखस्य स्वरभेदश्च गात्रस्रंसो विलक्ष्यता १४९३
- कांदिशीकतया दृष्टेरनुभावा भवन्त्यमी
- अथ स्तम्भादयोऽप्यष्टौ दैन्यमावेगचापले १४९४
- शङ्कामोहावपि त्रासापस्मारमरणादयः
- यत्र संचारिणः स्थायि भयं स स्याद्भयानकः १४९५
- वास्तवं कृत्रिमं चेति भयं द्वेधा निगद्यते १४९६
- स्त्रीणां च नीचप्रकृतेः पुंसः स्याद्वास्तवं भयम्
- मध्यमे चोत्तमे पुंसि कृत्रिमं तदुदाहृतम् १४९७
- स्वभावादभयौ तौ हि स्वामिनं च गुरुं प्रति
- भयं विनयबोधाय दर्शयेतामतात्त्विकम् १४९८
- नीचैः स्वभावबोधार्थं तत्कार्यं मृदुचेष्टितैः १४९९
- स्वहेतूत्थः कृत्रिमश्च वित्रासितकमित्यपि
- भयानकस्त्रिधा तत्र प्रथमोऽन्वर्थनामकः १५००
- कृत्रिमस्तूत्तमकृतो गुर्वादीन्प्रत्यवास्तवः
- विभीषिकार्थो बालादेर्वित्रासितकमिष्यते १५०१
- इति भयानकः
- स्वभावाद्धातुदोषाद्वा वस्त्वत्यन्ताप्रियात्मकम्
- निषिद्धमतितृप्तेश्चारुचितं मलमिश्रितम् १५०२
- अनिष्टफलदानेन मुहुरुद्वेगदायकम्
- स्याद्विभावोऽथानुभावा उत्कम्पो गात्रधूननम् १५०३
- संकोचनं च नासोष्ठहनूनां ष्ठीवनं तथा
- पदन्यासोऽप्यनियतः पिधानं नासयोर्दृशोः १५०४
- अथ संचारिणो मोहावेगापस्मारमृत्यवः
- व्याधिश्च यत्र बीभत्सः स स्थायिन्या जुगुप्सया १५०५
- शुद्धोऽशुद्धोऽत्यन्तशुद्धो बीभत्सस्त्रिविधो मतः १५०६
- आद्यौ रुधिरविष्ठादिशुद्धाशुद्धविभावजौ
- शुद्धधर्मोद्भवोऽत्यन्तशुद्धः संसारगोचरः १५०७
- इति बीभत्सः
- दुर्लभाभीष्टसंप्राप्तिः खेचराणां विलोकनम्
- विमानानां च मायानामिन्द्रजालस्य दर्शनम् १५०८
- प्रासादोपवनादेरप्यपूर्वस्यातिशायिनः
- दर्शनं श्रवणं वाक्यं शिल्पाद्यतिशयान्वितम् १५०९
- एते यत्र विभावाः स्युरनुभावास्तु नेत्रयोः
- विस्तारणं निर्निमेषमीक्षणं पुलकोद्गमः १५१०
- साधुवादोल्लुकसने चाऽऽनन्दाद्धारवस्तथा
- गद्गदं वचनं स्वेदवेपथू हर्षगोचराः १५११
- स्पर्शग्रहाश्रिताश्चानुभावाः संचारिणस्त्वमी
- स्तम्भः स्वेदश्च रोमाञ्चः प्रलयो गद्गदं वचः १५१२
- आवेगसंभ्रमौ जाड्यमिति यत्राथ विस्मयः
- स्थायी तमद्भुतं प्राह श्रीमत्सोढलनन्दनः १५१३
- माया मिथ्याप्रकटितं रूपादिपरिवर्तनम् १५१४
- असंभाव्यस्य सत्त्वस्य दर्शनं विविधौषधैः
- हस्तलाघवतो मन्त्रैरिन्द्रजालं प्रकीर्तितम् १५१५
- गात्रोद्धूननमाह्लादादत्रोल्लुकसनं मतम्
- किंचिदाकुञ्चिते नेत्रे स्पर्शः स्कन्धकपोलयोः
- भ्रूक्षेपणं चानुभावास्तत्र स्पर्शग्रहाश्रिताः १५१६
- आनन्दजस्तथा दिव्यो द्विविधोऽभिदधेऽद्भुतः
- आद्यो मनोरथावाप्तेर्दिव्यवस्तूद्भवोऽपरः १५१७
- इत्यद्भुतः
- संसारभीरुता दोषदर्शनं विषयेषु च
- योगिसङ्गो मुनीनां च श्रुताः शमदमक्षमाः १५१८
- अध्यात्मविषया गोष्ठी तापसास्तापसाश्रमाः
- भूरिनिर्झरझांकारि वारि तीर्थानि तीर्थिकाः १५१९
- सरितः पुण्यपयसो नीवाराङ्कितसैकताः
- शैवं च वैष्णवं क्षेत्रं विजनानि वनानि च १५२०
- भक्ता भक्तिरसोन्मत्ताः शंकरस्य हरेरपि
- विष्णुभक्तिप्रभावाद्या विभावा यत्र संमताः १५२१
- मन्दस्पन्दं बहिश्चित्तमानन्दाश्रुप्लुते दृशौ
- रोमाञ्चकञ्चुका मूर्तिर्मोक्षशास्त्रार्थचिन्तनम् १५२२
- ब्रह्मविद्योपदेशश्च संवादस्तत्त्वगोचरः
- नासाग्रानुगते नेत्रे ज्ञानमुद्राप्रदर्शनम् १५२३
- इत्यादयोऽनुभावाः स्युरिमे तु व्यभिचारिणः
- उन्मादः परमानन्दरसपानसमुद्भवः १५२४
- हर्षो धृतिः समीचीनो विबोधश्च स्मृतिर्मतिः
- निर्वेदस्तत्त्वबोधोत्थः स्थायी शान्तो भवेदसौ १५२५
- रत्यादिभेदविधुरो विषयोपप्लवोज्झितः
- परानन्दघनैकात्मनिर्भासः शान्त उच्यते १५२६
- स्वतो विषयवैमुख्यं शमः स्थाय्यथवा भवेत्
- नाट्यनिर्वाहको मध्ये मध्ये संचारिसंभवः १५२७
- स्वभावेऽभिनयाः पूर्वमाङ्किका ये निरूपिताः
- ते शान्तविषया यस्माच्छान्तः प्रकृतिरात्मनः १५२८
- विहाय विषयौन्मुख्यं निजानन्दस्थितिर्यतः
- आत्मनः कथ्यते शान्तः स्वभावोऽसौ मतस्ततः १५२९
- इति शान्तः
- भक्तिं स्नेहं तथा लौल्यं केचित्त्रीन्मन्वते रसान्
- श्रद्धार्द्रताभिलाषांश्च स्थायिनस्तेषु ते विदुः १५३०
- तदसद्रतिभेदौ हि भक्तिस्नेहौ नृगोचरौ
- व्यभिचारित्वमनयोर्नृनार्योः स्थायिनौ तु तौ १५३१
- अयुक्तविषया तृष्णा लौल्यं तद्धास्यकारणम्
- अतो रसा नवैवेति मुनिना संप्रधारितम् १५३२
- रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः
- स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः
- रसान्तरेष्वपि तदा यथायोगं भवन्ति ते १५३३
- यथा हि हासः शृङ्गारे रतिः शान्ते च दृश्यते
- वीरे क्रोधो भयं शोके ज्गुप्सा च भयानके १५३४
- उत्साहविस्मयौ सर्वरसेषु व्यभिचारिणौ
- शमः सर्वरसेष्वस्ति स्थैर्यत्वेऽव्यभिचार्यसौ १५३५
- इति नवरसलक्षणम्
- अथ व्यभिचारिणां निर्वेदादीनां लक्षणम्
- आक्रोशनमधिक्षेपो व्याधिक्रोधौ च ताडनम्
- दारिद्र्यमिष्टविरहः परवृद्धेश्च दर्शनम् १५३६
- नीचेष्विति विभावाः स्युरुत्तमे त्वपमाननम्
- तत्त्वबोधश्च यत्र स्यादनुभावास्तु रोदनम् १५३७
- निश्वासोच्छ्वसिते दीनमुखता संप्रधारणम्
- इत्यादयः स निर्वेदो भावः सूरिभिरिष्यते १५३८
- इति निर्वेदः
- व्याधिर्वान्तिर्विरेकश्चोपवासो नियमस्तपः
- मनस्तापोऽतिपानाटिव्यायामसुरतानि च १५३९
- निद्राछेदोऽध्वगमनं क्षुत्पिपासादयस्तथा
- विभावाः स्युरथ स्रस्ताधरनेत्रकपोलता १५४०
- मन्दावुत्क्षेपनिक्षेपौ पादयोस्तनुगात्रता
- विवर्णशिथिलाङ्गत्वं कम्पानुत्साहतादयः
- यत्र भावानुभावाः स्युः सा ग्लानिरभिधीयते १५४१
- इति ग्लानिः
- चौर्यराजापराधादेरकार्याद्ग्रहणं नृणाम्
- अन्येषु तत्सहायेषु विभावश्चेदथाऽऽत्मनः १५४२
- अन्येनादर्शने यत्र पार्श्वयोर्मुहुरीक्षणम्
- कण्ठोष्ठमुखशोषश्च जिह्वायाः परिलेहनम् १५४३
- वेपथुर्मुखवैवर्ण्यं गुरुविह्वलजिह्वता
- उन्मुखेक्षणमित्यादिरनुभावगणो यदा १५४४
- नीचेषूत्तममध्येषु नरेषु मृदुचेष्टितैः
- सोत्तमानामपि स्त्रीणां भीरुत्वाद्भयकृद्भवेत् १५४५
- प्रियविप्रियजा शङ्का शृङ्गारे शार्ङ्गिणोदिता
- चौर्यराजापराधादिप्रभवा तु भयानके १५४६
- परस्था स्वसमुत्था च द्वेधा शङ्का निगद्यते
- नृषु भीरुस्वभावेषु तरलालोकनादिभिः १५४७
- सापराधत्वशङ्का याऽन्येषां सा परसंस्थिता
- स्वसमुत्था परे ज्ञास्यन्त्यपराधं ममेत्यसौ १५४८
- स्वशङ्कायां परज्ञानशङ्का या स्वसमुत्थिता
- सहभावोऽवहित्थेन शङ्काया दृश्यते रसे १५४९
- इति शङ्का
- नृपापराधोऽसद्दोषकीर्तनं चोपधारणम्
- विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने
- एते यत्रानुभावास्तदौग्र्यं निर्दयतात्मकम् १५५०
- इत्यौग्र्यम्
- चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभावतः १५५१
- अनुभावात्तु शिरसो व्यावृत्तेर्गात्रगौरवात्
- देहोपस्करणत्यागाद्दैन्यं भावं विभावयेत् १५५२
- इति दैन्यम्
- नानापराधो विद्वेषः परस्यैश्वर्यसंपदाम्
- सौभग्यमेधाविद्यादेर्दर्शनं च विभावकम् १५५३
- अनुभावास्त्वमर्षादिदोषोक्तिर्गुणनिह्नवः
- गुणस्य दोषीकरणमप्रेक्षणमधोमुखम्
- अवज्ञाभ्रुकुटीत्याद्या यत्रासूयाममूं विदुः १५५४
- इत्यसूया
- मद्यपानं विभावोऽथानुभावाः पञ्च यत्र च
- शयनं हसनं गानं रोदनं परूषोक्तयः १५५५
- उत्तमे पुरुषे स्वापो हासगाने तु मध्यमे
- रोदनं पुरुषोक्तिश्च भवतः पुरुषेऽधमे १५५६
- स स्यान्मदः स च त्रेधा तरुणो मध्यमोऽधमः
- तरुणोऽल्पोऽधमस्त्वत्र प्रवृद्धोऽधमसंश्रयात् १५५७
- सर्वेषां तरुणः प्रोक्तो मध्यमो मध्यनीचयोः
- पुमांसोऽधमसत्त्वा ये तेषामेवाधमो मदः १५५८
- अव्यक्तासंगतैर्वाक्यै रोमाञ्चनिचयैस्तनोः
- सुकुमारस्खलद्गत्याऽभिनयेत्तरुणं मदम् १५५९
- स्रस्तव्याकुलविक्षिप्तौ भुजौ स्खलितघूर्णिते
- नेत्रे गतिश्च कुटिलाऽनुभावा मध्यमे मदे १५६०
- गतिभङ्गः स्मृतेर्नाशो हिक्का छर्दिः कफस्नुतिः
- गुर्वी जिह्वा ष्ठीवनं चानुभावाः स्युर्मदेऽधमे १५६१
- रङ्गे विधाय पानं तु नाटयेन्मदवर्धनम्
- पीत्वा रङ्गप्रवेशे तु मदक्षैण्याय बुद्धिमान्
- हर्षशोकभयोपायान्युगपद्दर्शयेद्बहून् १५६२
- इति मदः
- अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः १५६३
- गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः
- निश्वासैर्जृम्भितैर्मन्दैः पादक्षेपैः श्रमो यतः १५६४
- इति श्रमः
- विभावा यत्र दारिद्र्यमैश्वर्यं भ्रंशनं तथा
- इष्टार्थापहृतिश्चाथ श्वासोच्छ्वासावधोमुखम् १५६५
- संतापः स्मरणं ध्यानं कार्श्यं देहानुपस्कृतिः
- अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता
- वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्ये वोपजायते १५६६
- इति चिन्ता
- विवेकः श्रुतिसंपत्तिर्गुरुभक्तिस्तपस्विता १५६७
- एते विषयभावेन करणत्वेन च स्थिताः
- इष्टाधिकानामिष्टानां लाभस्तु विषयत्वतः १५६८
- क्रीडा करणभावेन विभावा यत्र संमताः
- प्राप्तभाग्योपभोगस्य त्वप्राप्तातीतभोगयोः १५६९
- जीर्णे नष्टे चाविषादो न तु शोचनमित्यपि
- अनुभावद्वयं यत्र धृतिं तां ब्रुवते बुधाः १५७०
- इति धृतिः
- पश्चिमप्रहरे रात्रेः स्वास्थ्यं निद्राक्षयस्तथा
- ध्यानं च मुहुरभ्यासः सदृशः श्रुतिदर्शने १५७१
- एते यत्र विभावाः स्युरनुभावास्तु कम्पितम्
- उद्वाहितं च शीर्षस्यासदृशस्यावलोकनम् १५७२
- भ्रूनतिश्च स्मृतिः सा स्यात्सुखदुःखप्रदायिनाम्
- चिरविस्मृतवस्तूनां स्मरणं स्मृतिरुच्यते १५७३
- इति स्मृतिःगुरुव्यतिक्रमोऽवज्ञा कृते त्यागेऽनुतापिता
- प्रतिज्ञातार्थनिर्वाहो विभावैरेभिरुद्गता १५७४
- मुखावनमनं गूढवचनं च विचिन्तनम्
- वस्त्राङ्गुलीयकस्पर्शो नखानां कर्तनं मुहुः १५७५
- भुवि लेखनमित्याद्यैर्व्रीडाभावोऽनुभाव्यते
- व्रीडानुतापशुचिभिर्दृष्टा कार्ये कृते सति १५७६
- इति व्रीडा
- देवजोपद्रवाद्देहपीडेष्टविरहादिकम्
- मर्मप्रहारोऽप्यस्थाने घोरचोरादिजं भयम् १५७७
- तत्प्रतीकारशून्यस्य वैरानुस्मरणादयः
- विभावाः सन्ति यत्राथ पतनं देहघूर्णनम् १५७८
- हृदयस्मानवस्थानमिन्द्रियाणामचेष्टता
- इत्यादयोऽनुभावास्तं मोहमाहुर्मनीषिणः १५७९
- पश्यतो भीतिहेतुं तत्प्रतीकारमपश्यतः
- कार्यानिश्चयिनी चित्तवृत्तिर्मोहोऽभिधीयते १५८०
- इति मोहः
- अतितृप्तिः स्वभावश्च गर्भव्याधिश्रमादयः
- विभावा अनुभावास्तु निद्रा तन्द्रासनाशनात्
- ऋते सर्वक्रियाद्वेषो यत्राऽऽलस्यं तदुच्यते १५८१
- इत्यालस्यम्
- अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश्च मत्सरः
- इति यत्र विभावाः स्युरनुभावास्तु भर्त्सनम् १५८२
- वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने
- तच्चापलमनालोच्याकार्यकारित्वमिष्यते १५८३
- इति चापलम्
- देवभर्तृगुरुस्वामिप्रसादः प्रियसंगमः १५८४
- मनोरथाप्तिरप्राप्यमनोरथधनागमः
- समुत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते १५८५
- नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः
- अश्रुस्वेदादयश्चानुभावा हर्षं तमादिशेत् १५८६
- इति हर्षः
- विद्याधनबलैश्वर्याधिकैर्मध्येसभं नृभिः
- अधिक्षेपादमर्षः स्यात्प्रतीकारस्पृहात्मकः
- नृणामुत्साहिनामेव स स्यात्तस्यानुभावकः १५८७
- स्वेदोऽधोमुखता मूर्धकम्पो निर्लक्षचित्तता
- उपायान्वेषणं चित्तोत्साहस्तस्यानुभावकाः १५८८
- इत्यमर्षः
- सत्युपायेऽपि कार्यस्यासिद्धिर्दुर्दैवकारिता १५८९
- नृपापराधश्चौर्यादिग्रहणं च विभावकाः
- सहायान्वेषणोपायचिन्तने विमनस्कता १५९०
- उत्तमे मध्यमे चानुभावाश्चोत्साहसंश्रयाः
- अधमे धावनं ध्यानं मुखशोषविलोकने १५९१
- निद्रा निःश्वसितं सृक्कलेहनं चानुभावकाः
- सन्ति यत्र विषादोऽसौ भावो भावविदां मतः १५९२
- इति विषादः
- देवैर्नागैस्तथा यक्षैः पिशाचैर्ब्रह्मराक्षसैः
- भूताद्यैश्च ग्रहैरुग्रैरावेशस्तत्स्मृतिस्तथा १५९३
- अशुचेश्चिरसंस्थानं शून्यागारस्य सेवनम्
- धातुवैषम्यमित्याद्यैर्विभावैरनुभावकैः १५९४
- स्पन्दनं कम्पनिःश्वासौ धावनं पतनं भुवि
- जिह्वाया लेहनं स्वेदः स्तम्भो वक्त्रं च फेनिलम् १५९५
- निःसंज्ञतेत्यादिभिश्चापस्मारमुपलक्षयेत् १५९६
- इत्यपस्मारः
- कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा
- तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा १५९७
- अनुभावास्तु चैवास्याः प्रतिवादावभाषणे
- इष्टानिष्टापरिज्ञानं चानिमेषेक्षणादयः
- सा पूर्वं परतो वा स्यान्मोहादिति विदां मतम् १५९८
- इति जडता
- यत्र विप्रतिपत्तिः स्यात्संशयोऽपि विमर्शनम्
- पक्षयोरुभयोरुक्ते माने साधकबाधके १५९९
- विभावाः स्युरिमे चानुभावाः शीर्षस्य कम्पनम्
- भ्रूक्षेपश्चतुरो हस्तस्तं वितर्कं प्रचक्षते १६००
- यो वितर्कान्वितस्थायी सोऽवहित्थेन युज्यते १६०१
- इति वितर्कः
- निद्राविभावजं सुप्तं सुप्तावस्थात्मकं मतम्
- तस्यानुभावा निभृतं गात्रं नेत्रनिमीलितम्
- स्वप्नप्रलापनं श्वासोच्छ्वासौ बाह्याक्षलीनता १६०२
- इति सुप्तम्
- संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः १६०३
- निद्रया तन्द्रया गात्रगौरवेण च चिन्तया
- अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः १६०४
- इत्यौत्सुक्यम्
- अनुभावपिधानार्थोऽवहित्थं भाव उच्यते १६०५
- तद्विभाव्यं भयव्रीडाधार्ष्ट्यकौटिल्यगौरवैः
- गर्वादगणनेनापि तस्येते त्वनुभावकाः १६०६
- प्रियादिगोचरकथाभङ्गो धैर्यं च कृत्रिमम्
- अन्यथाकथनं तद्वदन्यथा वेक्षणादयः १६०७
- इत्यवहित्थम्
- अ पूर्वप्रतिभानं स्यान्मतिस्तां तु विभावयेत्
- अन्वयव्यतिरेकोत्थैः प्रत्ययैः शास्त्रचिन्तनैः १६०८
- ऊहापोहैश्च विविधैरथ तामनुभावयेत्
- संदंशचतुराद्यैश्च करैरुत्क्षेपणैर्भ्रुवोः १६०९
- नानाशास्त्रार्थविषयैः शिष्याणामुपदेशनैः
- तर्काख्यौ प्रत्ययावूहापोहौ विधिनिषेधयोः १६१०
- इति मतिः
- स्वप्नान्तनिद्राछेदाभ्यामाहारपरिणामतः
- शब्दस्पर्शादिभिः स्वप्नैः स्मृतैर्वा जाग्रति स्थितैः १६११
- विभाव्यतेऽथ जृम्भाक्षिमर्दनैः शयनोद्गमैः
- अङ्गुलित्रोटनैरङ्गवलनैर्योऽनुभाव्यते १६१२
- भुजविक्षेपणैः श्वासैर्विबोधप्रतिबोधनम्
- सम्यग्बोधोऽथवा लोकात्तद्विभावानुभावधीः १६१३
- इति बोधः
- एकैकशो द्वंद्वशो वा त्रयाणां वा प्रकोपतः
- वातपित्तकफानां भावो व्याधिरित्यभिधीयते
- स्तम्भाङ्गस्रंसविक्षिप्तगात्रसंकुचिताननैः १६१५
- उत्क्रोशकम्पस्तनितैश्चाभिनेयो ज्वरः पुनः
- कामजोऽप्यस्ति स द्वेधा शीतदाहप्रवर्तनात् १६१६
- हनुचालेन सर्वाङ्गकम्पेन मुखशोषतः
- परिदेवनरोमाञ्चमुखसंकोचनादिभिः १६१७
- शीतज्वरोऽभिनेयोऽथ दाहकोऽम्बुपिपासया
- कराङ्गगात्रविक्षेपाद्भूमिशय्याभिलाषतः
- शीतानुलेपनाकाङ्क्षाविकृष्टपरिदेवनैः १६१८
- इति व्याधिः
- उत्तमानां विप्रलम्भे भवेत्प्रियवियोगतः
- नीचानां विभवभ्रंशात्सर्वेषां संनिपाततः १६१९
- अभिघातात्तथोन्मादस्तमेभिरनुभावयेत्
- विना निमित्तं हसितं रुदितं पठितं तथा १६२०
- नृत्तं गीतं च शयनोपवेशोत्थानधावनम्
- असंबद्धप्रलपनं चोद्वृत्तिर्धूलिभस्मनोः १६२१
- कपालचीरनिर्माल्याद्यलंकरणमित्यपि
- उन्मादः पृथगुक्तोऽयं व्याधिष्वन्तर्भवन्नपि १६२२
- अयं हि विप्रलम्भादौ वैचित्र्यं कुरुते तमाम्
- अपस्मारोऽप्येवमेव बीभत्से च भयानके १६२३
- इत्युन्मादः
- कुलरूपबलैश्वर्यविद्याद्रविणयौवनैः १६२४
- नीचानां जायते गर्वः प्राधान्येन मुहुर्मुहुः
- विद्युद्वदुत्तमानां तु बाहुल्यात्त्वेष योषिताम् १५२५
- उद्ग्रीवावेक्षणावज्ञासूयानुत्तरदानतः
- अभाषणादमर्षाच्च पारुष्याद्विभ्रमादपि १६२६
- अङ्गनेत्रविकाराच्चाधिक्षेपातिक्रमाद्गुरोः
- तस्याभिनयनं कार्यमित्याह करणाग्रणीः १६२७
- वागङ्गसात्त्विकाहार्यक्रियाव्यत्यासनं भवेत्
- विभ्रमो योषितां हर्षानुरागमदगर्वजः १६२८
- इति गर्वः
- अधीराणां जातमात्रे शोकेऽनन्तरमुद्भवेत्
- आवेगः प्रबलोऽयं तु धीरैर्धैर्यान्निरूप्यते १६२९
- असौ प्रतिविभावं च पृथक्चित्रानुभावभाक्
- अतो विभावरूपाणां हेतूनां भेदतोऽष्टधा १६३०
- उत्पातवातवर्षाग्निकुञ्जरोद्धमणानि च
- प्रियाप्रियश्रुतिर्वैरव्यसनं चेति हेतवः १६३१
- विद्युदुल्कानिपाताभ्यां निर्घाताद्भूमिकम्पनात्
- सूर्यचन्द्रोपरागाभ्यामावेगः केतुदर्शनात् १६३२
- उत्पातजोऽस्यानुभावो वैवर्ण्यं स्रस्तगात्रता १६३३
- विषादविस्मयगतानुभावाश्चेह संमताः
- वातजे त्वत्र वस्त्रेण पिधानं नेत्रमर्दनम् १६३४
- त्वरितागमनं चानुभावाः स्युर्वर्षजे पुनः
- सर्वाङ्गपीडनं गेहाद्याश्रयः शीघ्रधावनम् १६३५
- अग्निजे धूतिरङ्गानां धूमाकुलितनेत्रता
- चार्याऽतिक्रान्तया चापक्रान्तया चरणं भवेत् १६३६
- कुञ्जराणां निरवधिभ्रमणाद्यस्तु जायते
- सरणापसृती तत्र त्वरिते भयवेपथुः १६३७
- विस्मयो वीक्षणं पश्चात्प्रियश्रवणजे पुनः
- वस्त्राभरणदानं चाभ्युत्थानं परिरम्भणम् १६३८
- कथायामश्रुरोमाञ्चाश्चाप्रियश्रुतिजे त्वमी
- विलापः पतनं भूमौ चलनं परिवर्तनम् १६३९
- परिभावनमित्याद्या वैरिव्यसनजे त्वमी
- सहसाऽपसृतिः शस्त्रचर्मवर्मादिधारणम् १६४०
- गजानां तुरगाणां चाऽऽरोहणं संप्रधारणम्
- पृथगित्यनुभावाः स्युरावेगे संभ्रमात्मके १६४१
- इत्यावेगः
- मरणं द्विविधं प्रोक्तं व्याधिजं चापघातजम्
- दोषवैषम्यजैर्गण्डज्वराद्यैर्व्याधिजं भवेत् १६४२
- वातपित्तकफा दुष्टा दोषत्वेनेह संमताः
- शस्त्रादिविषतोयेभ्यः श्वापदात्तुरगाद्गजात् १६४३
- अग्न्युच्चपतनादिभ्यो जातं स्यादभिघातजम्
- निश्चेष्टप्रसृतैरङ्गैर्मीलनेन च नेत्रयोः १६४४
- हिक्कोर्ध्वश्वासवमनजनतापरिवारणैः
- अव्यक्ताक्षरभाषाद्यैर्व्याधिजस्यानुभावनम् १६४५
- शस्त्रजे सहसा भूमौ पतनं च विकम्पनम्
- स्फुरणादि प्रयोक्तव्यमथाहिविषपानजे १६४६
- अनुभावा भवन्त्यष्टौ विषवेगात्क्रमादिमे
- कार्ष्ण्यवेपथुदाहाश्च हिक्काफेनश्च पञ्चमः १६४७
- स्कन्धभङ्गश्च जडता मरणं चेति संमताः
- अभिघातान्तरोद्भूतेऽनुभावाः शस्त्रजातवत् १६४८
- व्याध्यादेरनिवर्त्यत्वान्निश्चिते मरणे सति
- अत्र प्राङ्निधनाच्चित्तवृत्तिर्मरणमिष्यते १६४९
- इति मरणम्
- गात्रोत्कम्पी चमत्कारः सहसा त्रास उच्यते
- तस्योत्पाताद्घोरनादश्रुतेर्भीषणदर्शनात् १६५०
- उत्पत्तिरनुभावास्तु गात्रसंकोचकम्पने
- स्तम्भो गद्गदशब्दश्च रोमाञ्चाः स्रस्तगात्रता १६५१
- निमीलनं लोचनयोः प्रलयश्चेति कीर्तिताः
- पूर्वापरविचारोत्थं भयं त्रासात्पृथग्भवेत् १६५२
- इति त्रासः
- निद्रेन्द्रियाणां प्रथमा निवृत्तिः स्वस्वगोचरात्
- अत्याहारः स्वभावश्च चिन्तालस्ये मदः क्लमः १६५३
- व्याख्यानादिप्रयासेन वैलक्षण्यं च हेतवः
- निद्रायामनुभावाः स्युर्जृम्भावदनगौरवम् १६५४
- शरीरलोलनं नेत्रघूर्णनं गात्रमोटनम्
- निःश्वासोच्छ्वसितं स्रस्तगात्रताऽक्षिनिमीलनम् १६५५
- इति निद्रा
- त्रयस्त्रिंशद्विचित्रत्वकारित्वात्स्थायिनं रसम्
- कुर्वन्तीति मया प्रोक्ताः सन्ति त्वन्ये सहस्रशः १६५६
- अन्तर्भावोऽस्ति केषांचिदभिलाषस्य वा रतौ १६५७
- अवहित्थे तु दम्भस्य ग्लानौ क्षुत्तृष्णयोर्यथा
- उद्वेगस्य तु निर्वेदेऽन्येषामप्येवमूह्यताम् १६५८
- इति त्रयस्त्रिंशद्व्यभिचारिभावाः
- अथ सात्त्विकलक्षणम्
- उक्तै रत्यादिभिर्भावैः संविद्विक्रियते यदा
- प्राणेऽध्यस्यति साऽऽत्मानं देहं प्राणस्तनोति सः
- तदा स्तम्भादयो देहे विकाराः प्रभवन्त्यमी १६५९
- एवं सति स्वाद्यमानरत्यादिस्वैर्विभावकैः
- विभाविता देहसंस्थैः स्तम्भाद्यैरनुभाविताः १६६०
- अध्यस्तसंविदि प्राणे प्रकाशन्तेऽन्तरे भवाः
- एते स्युः सात्त्विका भावाः सत्त्वप्राणप्रकाशनात् १६६१
- सांख्योक्तो वा गुणः सत्त्वं साधुत्वं वा तदुच्यते
- निर्मलप्राणदेहत्वं साधुत्वमिह संमतम्
- तत्र सत्त्वे भवा भावाः सात्त्विकाः संमताः सताम् १६६२
- चत्वारि क्ष्मादिभूतानि प्राधान्येनावलम्बते
- कदाचित्स्वप्रधानः सन्देहे प्राणश्चरत्ययम् १६६३
- यदाऽध्यास्ते धरां स्तम्भं भावं भावयते तदा
- प्राणाज्जलस्थादश्रूणि तेजःस्थात्तु विवर्णता १६६४
- स्वेदश्चाऽऽकाशनिष्ठात्तु प्रलयो जायते ततः
- स्वतन्त्रोऽसौ क्रमान्मन्दमध्यतीव्रत्वभेदभाक् १६६५
- रोमाञ्चं वेपथुमथ स्वरभेदं च भावयेत् १६६६
- बाह्याः स्तम्भादयो देहे नृणां देहात्ममानिनाम्
- सुलभा दुर्लभास्त्वेते सतामनभिमानिनाम् १६६७
- हर्षाद्रागाद्भयाद्दुःखाद्विषादाद्विस्मयाद्रुषः
- विक्षेपाच्च भवेत्स्तम्भोऽनुभावा जाड्यशून्यते
- निःसंज्ञस्तब्धगात्रत्वे निश्चेष्टत्वाप्रकम्पने १६६८
- इति स्तम्भः
- मनस्तापो रुजा हर्षो लज्जा क्रोधो भयं श्रमः
- पीडाऽऽघातातपौ मोहव्यायामौ च विभावकाः १६६९
- व्यजनग्रहणं स्वेदोऽप्यरालो भालमार्जकः
- इत्येतेऽभिनया यत्र तं स्वेदं जगदुर्बुधाः १६७०
- इति स्वेदः
- आलिङ्गनाच्छुरितके शीतहर्षभयक्रुधः १६७१
- विभावयन्ति रोमाञ्चं व्यक्तस्याभिनयास्त्वमी
- गात्रस्पर्शोल्लुकुसने मुहुः कण्टकिता तनुः १६७२
- इति रोमाञ्चः
- औग्र्यरोगजराक्रोधभयहर्षमदादयः
- विभावा विस्वरो भिन्नो गद्गदश्च ध्वनिर्भवेत् १६७३
- अनुभावस्तदा भावः स्वरभेदोऽभिधीयते
- स्थानभ्रष्टो विस्वरः स्याद्विच्छिन्नो भिन्नसंज्ञकः
- अव्यवस्थिततानोच्चनीचभावस्तु गद्गदः १६७४
- इति स्वरभेदः
- आलिङ्गनाच्छुरितके हर्षो रोषो भयं जरा
- विभावाः शीतरोगौ च यत्रैते त्वनुभावकाः १६७५
- वेपनं स्फुरणं कम्पो वेपथुं कथयन्ति तम्
- वेपनाद्याः कम्पभेदाः पूर्वात्सातिशयः परः १६७६
- इति वेपथुः
- रोगमोहभयक्रोधशीततापश्रमैर्भवेत् १६७७
- वैवर्ण्यमस्याभिनयो नाडीपीडनयोगतः
- सिन्दूराद्येन वा वर्णान्तरसंचारणं मुखे १६७८
- इति वैवर्ण्यम्
- हर्षामर्षाञ्जनाद्धूमाद्भयाच्छोकाच्च जृम्भणात्
- अनिमेषेक्षणाच्छीताद्रोगाद्भावोऽश्रु जायते
- तं चानुभावयेदश्रुस्रवणैर्नेत्रमार्जनैः १६७९
- इत्यश्रु
- मदमूर्छाभिघातेभ्यो निद्रामोहश्रमादिभिः
- प्रलयः स्यादभिनयेन्महीनिपतनेन तम् १६८०
- इति प्रलयः
- इत्युक्तास्त्रिविधा भावाः स्थायिनो व्यभिचारिणः
- सात्त्विकाश्च रसेषु स्युः सर्वे सर्वेषु सात्त्विकाः १६८१
- एकः कार्यो रसः स्थायी रसानां नाटके सदा
- रसास्तदनुयायित्वादन्ये तु व्यभिचारिणः १६८२
- विरोधिनो रसास्तेषु संदर्भ्यः पृथगाश्रयः
- गुम्फश्चित्रो रसानां स्यान्नाट्ये कुसुमगुम्फवत्
- स्थायी तु सूत्रस्थानीयो रसो रसविदां मतः १६८३
- सूरिश्रीशारङ्गदेवेन नाट्यवेदाम्बुधेरिदम्
- समस्तमुद्धृतं सारं धीरैरातृप्ति सेव्यताम् १६८४
- ग्रन्थे मदीये यदि कश्चिदस्ति गुणस्ततस्तस्य परिग्रहाय
- नाभ्यर्थये वः सुधियः परेषां गुणोऽणुरप्यद्रिसमो भवत्सु १६८५
- सावद्यता वा निरवद्यताऽस्तु ग्रन्थे मयाऽत्र ग्रथिते तया किम्
- आराधने वः प्रवणा मतिर्मे सन्तो गुणः कं ननु नातिशेते १६८६
- युष्मत्क्षोदक्षमं वस्तु कियत्रास्ति जगत्त्रये
- किं तुमत्प्रेमतः सन्तः पुरस्कुरुत मे कृतिम् १६८७
- यद्वा पुराणं पन्थानं मुनीनामहमन्वगाम्
- स्निह्यन्ति च निसर्गेण सन्तः सन्मार्गगामिनि १६८८
- आरिराधयिषोः साधून्किं प्रज्ञाविभवेन मे
- राममानन्दयन्ति स्म तिर्यञ्चोऽपि कपीश्वराः १६८९
- न विद्यादर्पतो ग्रन्थप्रवृत्तिर्मम किं त्विदम्
- विद्वन्मानसवासाय गन्तुं पाथेयमास्थितम् १६९०
- इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे सप्तमो नर्तनाध्यायः समाप्तः ७
- समाप्तिमगमदयं कलानिधिसमेतः संगीतरत्नाकरः