संस्कृत व्यवहार साहस्री
नेविगेशन पर जाएँ
खोज पर जाएँ
हिंदी- उसने मुझसे मार्ग पूछा।
संस्कृत- सः मां मार्गं पृष्टवान्।।
शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्]
- हरिः ॐ ! = Hello !
- सुप्रभातम् |* = Good morning.
- नमस्कारः/नमस्ते । = Good afternoon/Good evening.
- शुभरात्रिः । = Good night.
- धन्यवादः । = Thank You.
- स्वागतम् । = Welcome.
- क्षम्यताम् । = Excuse/Pardon me.
- चिन्ता मास्तु । = Dont worry.
- कृपया । = Please.
- पुनः मिलामः । = Let us meet again.
- अस्तु । = All right./O.K.
- श्रीमन् । = Sir.
- मान्ये/आर्ये । = Lady.
- साधु साधु/समीचीनम् । = Very good.
मेलनम् ( Meeting )[सम्पाद्यताम्]
- भवतः नाम किम् ? = What is your name? (masc.)
- भवत्याः नाम किम् ? = What is your name? (fem.)
- मम नाम .....। = My name is .....
- एषः मम मित्रं .....। = This is my friend .....
- एतेषां विषये श्रुतवान् = I have heard of them
- एषा मम सखी .....। = This is my friend ..... (fem.).
- भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
- भवती किं (उद्योगं) करोति? = What do you do? (fem.)
- अहम् अध्यापकः अस्मि । = I am a teacher (masc.)
- अहम् अध्यापिका अस्मि । = I am a teacher.(fem.)
- अधिकारी/अधिकारिणी = Officer;
- टङ्कलेखकः/टङ्कलेखिका = Typist
- तंत्रज्ञः/तन्त्रज्ञा = Engineer;
- प्राध्यापकः/प्राध्यापिका = Professor
- लिपिकः/लिपिका = Clerk
- न्यायवादी/न्यायवादिनी = lawyer
- विक्रयिकः/विक्रयिका = Salesman;
- व्याख्याता/व्याख्यात्री = Lecturer
- अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
- कार्यालये = in an office;
- महाविद्यालये = in a college
- वित्तकोषे = in a bank;
- चिकित्सालये = in a hospital
- माध्यमिकशालायां = in a high school;
- यन्त्रागारे = in a factory
- भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?
- अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.
- अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.
- भवतः ग्रामः ? = Where are you from?
- मम ग्रामः .....। = I am from .....
- कुशलं वा ? = How are you ?
- कथमस्ति भवान् ? = How are you ?
- गृहे सर्वे कुशलिनः वा ? = Are all well at home?
- सर्वं कुशलम् । = All is well.
- कः विशेषः ? ( का वार्ता ?) = What news?
- भवता एव वक्तव्यम् । = You have to say.
- कोऽपि विशेषः ? = Anything special?
- भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
- अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
- भवान्/भवती कुत्र गच्छति ? = Where are you going?
- भवति वा इति पश्यामः । = Let us see if it can be done.
- ज्ञातं वा ? = Understand ?
- कथम् आसीत् ? = How was it?
- अङ्गीकृतं किल ? = Agreed?
- कति अपेक्षितानि ? = How many do you want?
- अद्य एव वा ? = Is it today?
- इदानीम् एव वा ? = Is it going to be now?
- आगन्तव्यं भोः । = Please do come.
- तदर्थं वा ? = Is it for that ?
- तत् किमपि मास्तु । = Don't want that.
- न दृश्यते ? = Can't you see?
- समाप्तं वा ? = Is it over?
- कस्मिन् समये ? = At what time?
- तथापि = even then
- आवश्यकं न आसीत् । = It was not necessary.
- तिष्ठतु भोः । = Be here for some more time.
- स्मरति किल ? = Remember, don't you?
- तथा किमपि नास्ति । = No, it is not so.
- कथम् अस्ति भवान् ? = How are you?
- न विस्मरतु । = Don't forget.
- अन्यच्च = besides
- तदनन्तरम् = then
- तावदेव किल ? = Is it only so much?
- महान् सन्तोषः । = Very happy about it.
- तत् तथा न ? = Is it not so?
- तस्य कः अर्थः ? = What does it mean?
- आम् भोः । = Yes, Dear, Sir.
- एवमेव = just
- अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.
- किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
- भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.
- भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?
ध्यातव्यं: Note:
- शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.
- The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.
- तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
- 'तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
सरल वाक्यानि (Simple sentenes)[सम्पाद्यताम्]
- तथैव अस्तु । = Let it be so/so be it.
- जानामि भोः । = I know it.
- आम्, तत् सत्यम् । = Yes,that is right.
- समीचीना सूचना । = A good suggestion indeed.
- किञ्चित् एव । = A little.
- किमर्थं तद् न भवति ? = Why can't that be done ?
- भवतु नाम । = Leave it at that.
- ओहो ! तथा वा ? = Oh! Is that so ?
- एवमपि अस्ति वा ? = Is it like this ?
- अथ किम् ? = Then ?
- नैव किल ! = No
- भवतु ! = Yes
- आगच्छन्तु । = Come in.
- उपविशन्तु । = Please sit down.
- सर्वथा मास्तु । = Definitely no.
- अस्तु वा ? = Can that be so ?
- किमर्थं भोः ? = Why ?
- प्राप्तं किल ? = You have got it, haven't you ?
सामान्य वाक्यानि (Ordinary sentences)[सम्पाद्यताम्]
- प्रयत्नं करिष्यामि । = I will try.
- न शक्यते भोः । = No, I can't.
- तथा न वदतु । = Don't say that.
- तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
- तद् अहं न ज्ञातवान् । = I didn't know that.
- कदा ददाति ? = When are you going to give me ?
- अहं कथं वदामि 'कदा इति' ? = How can I say when ?
- तथा भवति वा ? = Can that be so ?
- भवतः समयावकाशः अस्ति वा ? = Are you free ?
- अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
- अरे ! पादस्य / हस्तस्य किम् अभवत् ? = Oh! What happened to your legs/arms?
- बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
- तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
- भवान् न उक्तवान् एव । = You have not told me..
- अहं किं करोमि ? = What can I do ?
- अहं न जानामि । = I don't know.
- यथा भवान् इच्छति तथा । = As you wish/say.
- भवतु, चिन्तां न करोतु = Yes, don't bother.
- तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
- सः सर्वथा अप्रयोजकः । = He is good for nothing.
- पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
- मौनमेव उचितम् । = Better be quiet.
- तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
- तर्हि समीचीनम् । = O.K. if that is so.
- एवं चेत् कथम् ? = How then, if it is so ?
- मां किञ्चित् स्मारयतु । = Please remind me.
- तम् अहं सम्यक् जानामि । = I know him well.
- तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
- कदा उक्तवान् भोः ? = When did you say so ?
- यत्किमपि भवतु । = Happen what may.
- सः बहु समीचीनः = He is a good fellow.
- सः बहु रूक्षः । = He is very rough.
- तद्विषये चिन्ता मास्तु । = Don't worry about that.
- तथैव इति न नियमः । = It is not like that.
- कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
- न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much !
- द्रष्टुम् एव न शक्यते । = Can't see it.
- तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
- यथार्थं वदामि । = I am telling the truth.
- एवं भवितुम् अर्हति । = This is O.K./all right.
- कदाचित् एवमपि स्यात् । = It may be like this sometimes.
- अहं तावदपि न जानामि वा ? = Don't I know that much ?
- तत्र गत्वा किं करोति ? = What are you going to do there ?
- पुनः आगच्छन्तु । = Come again.
- मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
- एतद् कष्टं न । = This is not difficult.
- भोः, आनीतवान् वा ? = Have you brought it ?
- भवतः कृते कः उक्तवान् ? = Who told you this ?
- किञ्चिदनन्तरम् आगच्छेत् । = He/It may come sometime later.
- प्रायः तथा न स्यात् । = By and large, it may not be so.
- चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
- अहं पुनः सूचयामि । = I will let you know.
- अद्य आसीत् वा ? = Was it today ?
- अवश्यम् आगच्छामि । = Certainly, I will come.
- नागराजः अस्ति वा ? = Is Nagaraj in ?
- किमर्थं तत् एवम् अभवत् ? = Why did it happen so ?
- तत्र आसीत् वा ? = Was it there ?
- किमपि उक्तवान् वा ? = Did you say anything ?
- कुतः आनीतवान् ? = Where did you bring it from ?
- अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
- मम वचनं शृणोतु । = Please listen to me.
- एतत् सत्यं किल ? = It is true, isn't it ?
- तद् अहं अपि जानामि । = I know it myself.
- तावद् आवश्यकं न । = It is not needed so badly.
- भवतः का हानिः ? = What loss is it to you ?
- किमर्थम् एतावान् विलम्बः ? = Why are you late ?
- यथेष्टमद अस्ति । = Available in plenty.
- भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
- अस्य किं कारणम् ? = What is the reason for this ?
- स्वयमेव करोति वा ? = Do you do it yourself ?
- तत् न रोचते ? = I don't like it.
- उक्तम् एव वदति सः । = He has been repeating the same thing.
- अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
- किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
- स्पष्टं न जानामि । = Don't know exactly.
- निश्चयः नास्ति । = Not sure.
- कुत्र आसीत् भवान् ? = Where were you ?
- भीतिः मास्तु । = Don't get frightened.
- भयस्य कारणं नास्ति । = Not to fear.
- तदहं बहु इच्छामि = I like that very much.
- कियत् लज्जास्पदम् ? = What a shame ?
- सः मम दोषः न । = It is not my fault.
- मम तु आक्षेपः नास्ति । = I have no objection.
- सः शीघ्रकोपी । = He is short-tempered.
- तीव्रं मा परिगणयतु । = Don't take it seriously.
- आगतः एषऽवराकः । = Camped here.(?)
- युक्ते समये आगतवान् । = you have come at the right time.
- बहु जल्पति भोः । = He talks too much.
- एषा केवलं किंवदन्ती । = It is just gossip.
- किमपि न भवति । = Nothing happens.
- एवमेव आगतवान् । = Just came to call on you.
- विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
- भवतः वचनं सत्यम् । = You are right.
- मम वचनं कः शृणोति ? = Who listens to me ?
- तदा तद् न स्फुरितम् । = It did not flash me then.
- किमर्थं तावती चिन्ता ? = Why so much botheration ?
- भवतः किं कष्टम् अस्ति ? = Tell me, what your trouble is ?
- छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened.
- अन्यथा न चिन्तयतु । = Don't mistake me.
मित्र मिलनम् ( Meeting the friends )[सम्पाद्यताम्]
- नमोनमः । = Good morning/afternoon/evening
- किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !
- नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !
- किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !
- किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !
- वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?
- कथं विस्मरणं भवति भोः ? = How can I forget you ?
- भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address.
- महाजनः संवृत्तः भवान् ! = you have become a big man !
- भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance.
- ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday.
- किं अत्र आगमनम् ? = What made you come here ?
- अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here.
- त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work.
- बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time.
- यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late.
- आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home.
- इदानीं वा, समयः नास्ति भोः । = Now? No time, you know.
- श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?
- अवश्यं तत्रैव आगच्छामि । = I'll come there without fail.
- इदानीं कुत्र उद्योगः ? = Where do you work now ?
- यन्त्राकारे उद्योगः । = I work in a factory.
- ग्रामे अध्यापकः अस्मि । = I am a teacher in a village.
- इदानीं कुत्र वासः ? = Where are you put up ?
- एषः मम गृहसङ्केतः । = This is my address.
- यानं आगतं, आगच्छामि । = Bus has come, bye, bye.
- अस्तु, पुनः पश्यामः । = OK. Let us meet again.
- पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?
- पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)
- तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?
- वयं आगतवन्तः एव । = We have already arrived.
- भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about.
- भवान् अन्यथा गृहीतवान् । = You have mistaken me.
- भवन्तं बहु प्रतीक्षितवान् । = I very much expected you.
- बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days.
- भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter.
- किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance.
- मिलित्वा गच्छामः । = Let us go together.
- तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)
- अस्तु, पिबामः । = Fine, let us have it.
- स्थातुं समयः नास्ति । = No time to stay.
- गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there.
- पुनः कदाचित् पश्यामि । = Meet you again.
- यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day.
- तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP).
- किं भोः, एवं वदति ? = Hey, why do you say so ?
- किञ्चित् कालं तिष्ठतु । = Please wait for some time.
- भवान् एव परिशीलयतु । = Think about it, yourself.
- अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?
- कियद्दूरे अस्ति ? = How far is it ?
- वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?
- किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?
- इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?
- सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything.
- कियद् इति दातुं शक्यम् ? = How much can I give him ?
- कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?
- गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ?
- भवतः परिचयः एव न लब्धः । = Could not recognize you.
- किं भोः, बहु कृशः जातः ? = Hey, You have become very weak.
- अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us.
- सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere.
- यथा भवान् इच्छति । = I am game for whatever you say.
- परिहासाय उक्तवान् भोः । = I said it in fun, You know.
- एषः भवतः अपराधः न । = It is not your fault.
- नैव, चिन्ता नास्ति । = No, no trouble/botheration.
- वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence.
- भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ?
- ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ?
- भवान् विवाहितः वा ? = Are you married ?
- नैव, इदानीमपि एकाकी । = No, still a bachelor.
- भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ?
- सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago.
- सः वृद्धः इव भाति । = He looks aged.
- भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ?
- नैव, सर्वे विभक्ताः = No, we live separately.
- भवतः वयः कियत् ? = How old are you ?
- भवन्तः कति सहोदराः ? = How many brothers are you ?
- वयं आहत्य अष्टजनाः । = We are eight.
- भवान् एव ज्येष्ठः वा ? = Are you the eldest ?
- मम एकः अग्रजः अस्ति । = I have an elder brother.
- सः इदानीमपि बालः । = He is still a boy.
- भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?
- भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.
- अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.
- तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.
- सर्वत्र अग्रे सरति । = He takes the initiative in everything.
- भवन्तं गृहे एव पश्यामि । = I will see you in your house.
- सः निष्ठावान् । = He is very orthodox.
- यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.
- द्वयोः एकः आगच्छतु । = Either of the two come.
- तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?
- तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.
- भवता एतद् न कर्तव्यम् । = You should not do this.
- यदि सः स्यात्\.\.\. । = Had he been here...
- अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.
- कियत् कालं तिष्ठति ? = How long will you be here?
- एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.
- सः स्तोकात् मुक्तः । = He escaped narrowly.
- भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?
- अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ?
- भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?
- भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?
- भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.
- वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.
- दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?
- अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.
- एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.
- प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.
- एषः एकः शनिः । = This fellow is a bugbear.
- भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.
- अहं गन्तुं न शक्नोमि । = I cannot go.
- विषयस्य वर्धनं मास्तु । = Don't escalate the matter.
- सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.
- असम्बद्धं मा प्रलपतु । = Don't talk foolishly.
- सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.
- सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.
- अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.
- इदानीं आगन्तुं न शक्यते । = I cannot come now.
- भवान् अपि अङ्गीकरोति वा ? = Do you agree ?
- भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?
- सः विश्वासयोग्यो वा ? = Is he trustworthy ?
- किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?
- समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !
- युक्ते समये आगतवान् । = You have come at the right time.
- एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.
- अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?
- किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?
- इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.
- भवान् स्वकार्यं पश्यतु । = You mind your business.
- शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.
- आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.
- {\rm `}मास्तु{\rm '} इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.
प्रयाणम् (Journey)[सम्पाद्यताम्]
- चीटिकां कुत्र क्रीणामि ? । = Where shall I buy a ticket ?
- शीघ्रं आगच्छतु, यानं गच्छति । = Come quickly, the bus is about to start.
- इदानीं एव एकं यानं गतम् । = A bus left just a few minutes ago.
- अहं भवतः पार्श्वे उपविशामि । = I'll sit beside you.
- किञ्चित् समञ्जनं कुर्मः । = Let us adjust a bit.
- महान् जनसम्मर्दः । = Terrible rush.
- परिवर्तं ददातु । = Give me the change.
- अग्रे गच्छतु । = Go forward.
- कदा वा निर्गच्छति ? । = What time does it start ?
- शीघ्रं अवतरतु । = Get off quickly.
- अग्रिमं निस्थानं अस्माकं वा ? । = Is the next station ours ?
- मल्लेश्वरयानस्य का संख्या ? । = Which bus (Route No.) goes to Malleswaram?
- किंसंख्याकं यानं जयनगरं गच्छति ? । = Which bus goes to Jayanagar ?
- फलकमपि नास्ति, किमपि नास्ति । = No signboard, nothing.
- अये, पादपथे आगच्छतु । = Hey, walk on the footpath.
- मल्लेश्वरं गन्तुं कः मार्गः ? । = Which is the way to Malleswaram ?
- बहुदूरे अस्ति वा ? । = Is it very far ?
- एषः सङ्केतः कुत्र इति जानाति वा ? । = Could you possibly tell me where this address/place is ?
- इतः केवलं दशनिमेषाणां गमनम् । = It is just ten minutes walk from here.
- यानं न लब्धम् । = Missed the bus.
- यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति । = It is still half an hour before the bus starts.
- यानं दशवादने आगच्छति । = The bus arrives at 10 0'clock.
- पञ्चवादने एकं यानं अस्ति । = There is a bus at 5 0'clock.
- यानं तदानीं एव आगत्य स्थितम् । = Bus has already arrived at the platform.
- आरक्षणं नास्ति । = No reservation, please.
- एवमेव अग्रे गच्छन्तु । = Go just along this road.
- अत्रैव कुत्रचित् स्यात्, अन्वेषणं कुर्मः । = It will be somewhere here. Let us search for it.
- तत्रैव अस्ति | तत्रैव स्यात् । = It is there./It might be there.
- अहं न जानामि, अन्यं पृच्छतु । = I don't know, ask someone else, please.
- भवान् शीघ्रं न गच्छति चेत् यानं न मिलति । = If you do not walk faster, you will miss the bus.
- एषः मार्गः कुत्र गच्छति ? । = Where does this path lead to ?
- भवान् आरक्षणं कृतवान् वा ? । = Have you reserved your seat ?
- सर्वं स्वीकृतवान् किल ? । = You have taken everything, haven't you ?
- कृपया सर्वबन्धकं स्वीकरोतु । = Please take your hold-all.
- स्यूतम् = the bag.
- एतद् = this.
- चीटिकाम् = the ticket.
- यानस्यूतम् = the air bag.
- यानपेटिकाम् = the suitcase.
- 'वनितास्यूतम् |= the vanity bag.
- धनविषये जागरूको भवतु । = Be careful with your money.
- ततः आगन्तुं एतावान् विलम्बः वा ? । = Such a long time to come here from there ?
- एकं अपि यानं न आगतम् । = Not a single bus has come.
- षष्टिसंख्याकं यानं गतं वा ? । = Has Route 60 bus gone ?
- अहं इदानीं एव आगतवान् । = I have just arrived.
- कीदृशः मार्गः अयम् ! । = What a road !
प्रवासतः प्रतिनिवर्तनम् (On Arrival)[सम्पाद्यताम्]
- कदा आगतवान् ? = When did you come ?
- अद्य प्रातः आगतवान् वा ? = Did you come this morning ?
- कथं आसीत् प्रवासः ? = How was the journey ?(cf. my remarks on the `heading')
- प्रवासे व्यवस्था समीचीना आसीत् वा ? = How were all the arrangements during the tour?
- कति दिनानाम् ? = How many days ?
- एकाकी गतवान् वा ? = Did you go alone ?
- एकाकी किमर्थम् ? परिवारसमेतः गतवान् = | Why alone ? I went with my family.
- दिनत्रयं तत्र स्थितवान् । = I stayed there for three days.
- मार्गमध्ये अपघातः अभवत् । = There was an accident on the road.
- विशेषतया कोऽपि न व्रणितः ? = No one was seriously injured ?
- वस्तूनि तावन्ति एव वा ? = Only so much luggage ?
- बहुधा श्रान्तः अस्मि भोः । = Very tired, you know.
- त्रिचक्रिका किमर्थम् ? = Why rickshaw ?
- लोकयानेन गच्छामः । = Let's go by bus.
- लोकयानेन = By bus
- त्रिचक्रिकायाम् = In a rickshaw
- सुखयानेन = By luxury bus
- पादाभ्याम् = On foot
- सामिसुखयानेन = By semi-luxury bus
- संलपन्तः = talking
- कः प्रतीक्षते भोः ? = Who waits for ?
- त्रिचक्रिकायां एव गच्छामः । = Let's go by rickshaw only.
- किमर्थं वृथा व्ययः इति ? = Why waste money unnecessarily ?
- बहुकालतः प्रतीक्षां करोमि । = I have been waiting for long.
- कदा प्रस्थितः ? = When did you start ?
- काशीं रामेश्वरं सर्वं दृष्टवान् वा ? = Have you visited Kashi and Rameshvar ?
- कियत् सुन्दरं अस्तीति जानाति वा ? = Do you know how nice it is ?
- महद् अद्भुतम् । = Fantastic.
छात्राः (Students)[सम्पाद्यताम्]
- अत्रैव कलाशालायां पठामि । = Studying in a college here.
- सिद्धता कथम् अस्ति ? = How is your preparation ?
- पाठ्यभागः एव न समाप्तः । = Portions have not been completed.
- गणितश्रवणमात्रेण मम शिरोवेदना । = Mathematics is a head-ache to me.
- गाढं अभ्यासः वा ? = Studying very hard ?
- अद्य किमपि न पठितवान् एव । = Couldn't read much today.
- मम अक्षराणि न सुन्दराणि । = My handwriting is not good.
- एतां कादम्बरीं पठितवान् वा ? = Have you read this novel ?
- बहु सम्यक् अस्ति । = It is very interesting.
- बहु पूर्वमेव पठितवान् । = I read it long ago.
- शीघ्रं पठित्वा ददामि भोः । = I'll return it early after reading.
- अद्य उत्थाने विलम्बः सञ्जातः । = Got up a bit late today.
- अहं गृहे एव त्यक्त्वा आगतवान् । = I have left it at home.
- अद्य तु विरामः । = Today is a holiday, anyway.
- भवतः वर्गशिक्षकः कः ? = Who is your class teacher ?
- अद्य समवस्त्रेण गन्तव्यं वा ? = Do we have to go in our uniforms today ?
- यावत् शालां गतवान् तावत् घंठा ताडिता । = The bell went by the time I reached school.
- श्रीमन्, अन्तः आगच्छामि वा ? = May I come in, sir ?
- श्रीमन्, विशेषकक्ष्यां स्वीकरोति वा ? = Are you going to take a special class,sir ?
- लेखनीं एकवारं ददाति वा ? = May I borrow your pen ?
- टिप्पणीं किञ्चित् ददाति वा ? = Would you kindly lend me your notes ?
- ह्यः एव गिरीशः स्वीकृतवान् । = Girish borrowed it yesterday.
- अहं तद्दिने वर्गं न आगतवान् आसम् । = I did not attend the class that day.
- आगच्छतु भोः, क्रीडामः । = Come on, let's play.
- पठनीयं बहु अस्ति भोः । = I have a lot to read, you know.
- किं मम पठनीयं नास्ति वा ? = Do you think I don't have anything to read ?
- पदवी अशीतितमे वर्षे समापिता वा ? = Did you take your degree in the year 1980 ?
- सम्यक् न स्मरामि भोः । = I do not remember exactly.
- तिष्ठतु, अहं स्मरामि तत् । = Wait, I know it.
- श्वः आरभ्य सहाध्ययनं कुर्मः । = Let us do combined study from tomorrow.
परीक्षा (Examination)[सम्पाद्यताम्]
- परीक्षारम्भः कदा इति ज्ञातः वा ? = Do you know when is the examination going to begin ?
- प्रवेशपत्रं स्वीकृतं वा ? = Have you taken the admission ticket ?
- परीक्षा अग्रे गता । = The examination is postponed.
- वेलापत्रिका आगता वा ? = Has the examination time table come ?
- परीक्षा कथं आसीत् ? = How was the exam. ?
- प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् = The question paper was a bit tough.
- अतीव सुलभा आसीत् । = It was very easy.
- अहं प्रथमश्रेण्यां उत्तीर्णः । = I have passed in I class.
- ह्यः फलितांशः प्रकटितः । = The result was announced yesterday.
- अङ्कद्वयेन प्रथमश्रेणी न लब्धा । = I missed I class by two marks.
- प्रश्नेषु विकल्पः एव नासीत् । = There was no choice at all.
- फलितांशः श्वः ज्ञातः भविष्यति । = The result will be announced tomorrow.
- रमेशः उत्तीर्णः वा ? = Has Ramesh passed ?
- एकं पत्रं अवशिष्टं इति उक्तवान् । = He has told me that he has to complete one paper yet.
- पठितं किमपि न स्मरामि भोः । = Don't remember what I have read, you know.
- दशवारं पठितवान्, तथापि न स्मरामि । = I read it ten times, even then I do not remember.
- प्रायशः द्वितीयश्रेणी लभ्येत । = Most probably, I will pass in II class.
- अस्माकं गणे सर्वेऽपि उत्तीर्णाः । = Everyone passed in our batch.
- प्रतिशतं कति अङ्काः प्राप्ताः ? = What is the percentage ?
चलनचित्रम् (Film)[सम्पाद्यताम्]
- मासे कति चित्राणि पश्यति ? = How often do you go to films in a month ?
- द्विवारं त्रिवारं वा ? = Twice or three times.
- चित्रमन्दिरं पूर्णं आसीत् । = It was house-full.
- महान् सम्मर्दः आसीत् । = There was a lot of rush.
- चीटिका न लब्धा वा ? = couldn't you get a ticket ?
- चित्रं कथं आसीत् ? = How was the film ?
- करमुक्तं इति दृष्टवान् । = I just saw that it is tax-free.
- कः निर्देशकः ? = Who is the director ?
- तर्हि समीचीनं एव स्यात् । = In that case it should be good.
- संवादः/कथा समीचीना अस्ति । = The dialogue/story is good.
- एतद् द्वितीयवारं पश्यन् अस्मि । = I am seeing it for the second time.
- एकमपि चित्रं सम्यक् नास्ति । = Not a single film is good.
- परह्यः एव दृष्टवान् अहम् । = I saw it the day before yesterday.
- केवलं निस्सारं, जामिता भवति । = Just bogus, terribly boring.
- तर्हि किमर्थं द्रष्टव्यम् ? = Why should you see it then ?
- मयापि एकवारं द्रष्टव्यम् । = I must see it once myself.
- सर्वे मिलित्वा गतवन्तः वा ? = Did you all go together ?
- केवलं धनं व्यर्थम् । = Just waste of money.
शिक्षकः (Teacher)[सम्पाद्यताम्]
- भवतः वेतनश्रेणी का ? = What is your scale of pay ?
- इदानीं सर्वत्र समाना किल ? = Now it is uniform everywhere, isn't it ?
- प्राचार्यस्य आदेशं दृष्टवान् वा ? = Have you seen the Principal's memo (orders) ?
- अहो! तत्तु सामान्यम् । = Oh!leave it. It is common.
- अधिवेतनं लब्धं वा ? = Got your increment ?
- लिपिकं दृष्टवान् वा? = Have you seen the clerk ?
- एवं चेत् कथं जीवामः ? = How to live in that case ?
- महान् कोलाहलः इति श्रुतवान् । = I heard, there was a lot of noise.
- पत्रिका पठिता वा ? वेतनं वर्धितम् । = Read the newspaper. A rise in pay is announced.
- कदा आरभ्य अन्वयः ? = When does it come into effect ?
- इदानीं कक्ष्या अस्ति वा ? = Do you have classes now ?
- अद्य कक्ष्यां न स्वीकरोमि, इति सूचयतु । = Tell them, I am not going to take classes today.
- प्राचार्यः आगतः वा ? = Has the Principal come ?
- अस्मिन् मासे कति विरामः ? = How many holidays (are there) this month ?
- परश्वः विरामः अस्ति वा ? = Is there a holiday, the day after ?
- प्रश्नपत्रिका सज्जीकृता वा? = Is the question paper ready ?
- अस्मिन् वर्षे फलितांशः कथम् ? = How is the result this year ?
- एतावन्तः अङ्काः कथं लब्धाः इति ? = How did he manage to get such high marks ?
- परीक्षकाणां औदार्यम् । = Examiners' large heartedness.
- परीक्षा अन्या, योग्यता अन्या ! = Examination is one thing, ability another.
- मौल्यमापनार्थं गच्छति वा ? = Are you going for valuation ?
- मौल्यमापनं कुत्र ? = Where is valuation going to be ?
- अस्वस्थः अपि आगतवान् । = I am here in spite of being ill.
- इदानींतन बालास्तु ! = The students of the present day !
- अये अत्र आगच्छतु ! = Hey, come here.
- गणितस्य अध्यापकः अस्ति वा पश्यतु । = See, if the mathematics teacher is there.
- ते तु बालाः किल ! = After all they are students.
- किं भोः सम्यक् पठति किल ! = You are studying well, aren't you ?
- संशयः अस्ति चेत् पृच्छन्तु ! = Ask if you have any doubts !
- ज्ञातं किल ! = Understand !
- पुनः एकवारं वदतु । = Beg your pardon (This means please repeat).
- एकं अपि गणितं न कृतवान् वा ? = Haven't you worked out a single sum ?
- एवं चेत् परीक्षायां किं करोति ? = At this rate how are you going to face examination?
- सेवकं किञ्चित् आह्वयतु । = Please call the peon.
- घण्टा नादिता वा ? = Has the bell gone ?
- टिप्पणीं लिखन्तु । = Please take the notes.
- एकोऽपि न जानाति वा ? = Does not even one know the answer ?
- भवान् ज्ञातवान् वा ? वदतु किञ्चित् । = Have you understood? Come on. Repeat.
- अद्य एतावदेव पर्याप्तम् । = Enough for today.
- अस्य अनुच्छेदस्य अन्ते समापयामः । = Let us stop at the end of this paragraph.
- श्वः एतद् सम्यक् पठित्वा आगन्तव्यम् । = Read this well when you come tomorrow.
- गृहे किमपि पठन्ति वा ? = Do you read anything at home ?
- किं भोः कोलाहलः । = Whaat is the noise there about ?
- ह्यः कियत् पर्यन्तं पाठितवान् ? = Where did we stop yesterday ?
स्त्रियः (Women)[सम्पाद्यताम्]
- गृहकार्यं सर्वं समाप्तं वा ? = Finished your household work ?
- समाप्तप्रायम् । = Yes, almost finished.
- किं द्वित्रीणि दिनानि न दृष्टा ! = Not seen for two or three days ?
- अहं मातृगृहं गतवती । = I had been to my mother's house.
- एषु दिनेषु विमला मिलितवती वा ? = Have you met Vimala recently ?
- कार्यालयतः तस्य आगमन समयः एषः । = It is time he comes from the office.
- ममापि बहु कार्यं अस्ति । = I have a lot of work to do myself.
- अतिथयः आगताः सन्ति । = Guests have come.
- किञ्चित् {\rm `}शर्करां{\rm '} ददाति वा ? = Would you kindly lend me some sugar ?
- शर्कराम् = sugar
- क्षीरम् = milk
- काफीचूर्णम् = coffee powder
- सुपिष्टम् = wheat flour
- पृथुकम् = beaten rice
- चालनीम् = sieve
- भवतः मातः किं करोति स्म ? = What was your mother doing ?
- अद्य प्रातः आरभ्य बहु कार्याणि = I've had a lot of work since morning.
- तेषां पुत्र्याः विवाहः निश्चितः इति श्रुतवान् = Their daughter's marriage is fixed, I think.
- वरः विदेशे अस्ति । = The bridegroom is in a foreign country.
- कन्यायाः कृते किं किं आभरणं दास्यन्ति ? = What jewellery are they going to give the bride ?
- मृत्तैलं लब्धं वा ? = Got kerosene ?
- मृत्तैलं विक्रीयते इति श्रुतवती । = I heard, they are selling kerosene.
पाकः (cooking)[सम्पाद्यताम्]
- पाकः समाप्तः वा ? = Finished cooking ?
- अद्य कः पाकः ? = What cooked today ?
- भोजनं अभवत् वा ? = Have you had lunch ?
- भवत्याः गृहं कश्चिद् आगत इव । = It seems someone has come to your house.
- अन्यत् किमपि नास्ति केवलं सारः । = Nothing ewxcept soup.
- अस्मत् गृहे एकैकस्य एकैका रुचिः । = In our house every one has his/her different tastes.
वेषभूषणानि (Dress, jewellery)[सम्पाद्यताम्]
- भवत्याः शाटिका नूतना वा ? = Is your saree new ?
- नैव, गतवर्षे एव क्रीतवती = No, it was brought last year.
- तथापि नूतनं इव प्रतिभाति = Still it appears to be new.
- एतादृशी शाटिका मम समीपे अपि अस्ति । = I have one saree like this.
- अहं नूतनशाटिकां क्रीतवती = I have bought a new saree.
- अञ्चलः बहु सम्यक् अस्ति । = The border is very beautiful.
- इमां कुत्र क्रीतवती ? = Where did you buy this ?
- अस्याः शाटिकायाः अनुरूपः चोलः न लब्धः । = I could not get a matching blouse for this saree.
- वलयस्य विन्यासः आकर्षकः अस्ति । = The style of the bangles is really attractive.
- शाटिकया सा प्रौढा इव दृश्यते । = This saree makes her look taller.
- परिणाहः बहु न्यूनः । = Width is less.
- अहं अपि एकां क्रेतुं इच्छामि । = I would like to buy one.
- बहु सुन्दरं अस्ति किल एतद् ? = It is very good, isn't it ?
- भ्वत्याः एतद् युज्यते । = This suits you well.
- कियद् दत्तवती । = How much did you pay ?
- मुम्बईतः मम अग्रजः आनीतवान् । = Brother brought it from Bombay.
कार्यालयः (Office)[सम्पाद्यताम्]
- भवान् कति दिनानि विरामं स्वीकरोति ? = How many days of leave are you taking ?
- एषु दिनेषु महान् कार्यभारः । = Of late the weight of work is unbearable.
- इमां सूचनाफलके स्थापयतु । = Put this up on the notice board.
- अत्र हस्तांकनं करोतु । = Sigh here, please.
- सः विरामं स्वीकृतवान् । = He is on leave.
- अस्मिन् विषये पुनः अपि चिन्तयामि । = I will think about this again.
- आगामि सप्ताहे मां पश्यतु । = See me next week.
- अस्मिन् विषये अनन्तरं वदामि । = I'll tell you about it later.
- एतत् अहं अवश्यं स्मरामि । = I'll certainly remember this.
- भवदुक्तं सर्वं ज्ञातवान् भोः । = I have understood what you said.
- अत्र तस्य एव सर्वाधिकारः । = He is all in all here.
- मम कृते काऽपि दूरवाणी आगता वा ? = Any phone calls for me ?
- भवतः कृते दूरवाणी आगता आसीत् । = There was a phone call for you.
- भवान् कस्मिन् स्थाने नियुक्तः अस्ति ? = Which post do you occupy in the office ?
- एषः सर्वदा आगत्य पीडयति । = He troubles me always.
- इदानीं समयः अतीतः । = It is getting late.
- कृपया श्वः आगच्छतु । = Come tomorrow,please.
- सः आगतवान् इति स्मरामि । = I remember, he came here.
- पञ्चवादनपर्यन्तं अत्रैव आसीत् । = He was here till 5.00.
- मां आहूतवान् वा ? = Did you call me?
- तद् व्यवस्थां अहं करोमि । = I will see to that arrangement.
- कार्यालयस्य समाप्तिः कदा ? = When does your office close ?
- एतद्विषये श्वः पुनरपि स्मारयतु । = Remind me about this tomorrow.
- तं अत्र आगन्तुं सूचयतु । = Ask him to come here.
- किमर्थं इदानीं अपि कार्यं न आरब्धम् ? = Why hasn't the work begun ?
- अन्येषां उपहासेनैव कालं यापयति । = He spends time criticizing othere.
- मया किं करणीयं, वदतु । = Tell me what I should do.
- अहं किं करोमि भोः ? = What shall I do ?
- अस्तु, परिशीलयामः । = Be it so, let us see.
- आगच्छतु, किञ्चित् काफीं पिबामः । = Come, let's have a cup of coffee.
- भवान् शीघ्रं प्रत्यागच्छति वा ? = Are you going to be back soon ?
- कृपया उपविशतु । = Please, sit down.
- पञ्चनिमेषेषु एतद् कृत्वा ददामि । = I'll get it done in five minutes.
- अद्य सः अत्र नास्ति किल । = As you know, he is not here today.
- सः एकसप्ताहाभ्यन्तरे आगच्छेत् । = He may be back in a week's time.
आरोग्यम् (Health)[सम्पाद्यताम्]
- मम आरोग्यं समीचीनं नास्ति । = I am not well.
- महती पादवेदना । = Terrible leg pain.
- सामान्यतः शिरोवेदना तदा तदा आगच्छति । = Generally I get headache now and then.
- किञ्चित् ज्वरः इव । = Feel a little feverish...
- वैद्यं पश्यतु । = Consult a doctor.
- मम वमनशङ्का । = I feel like vomitting.
- वैद्यस्य निर्देशनं स्वीकरोतु । = Get a doctor's advice.
- किमर्थं कण्ठः अवरुद्धः ? = Why is there the blocking of the throat ?
- अहं अतीव श्रान्तः । = I am very tired.
- तस्य आरोग्यं कथं अस्ति ? = How is his health ?
- अद्य किञ्चित् उत्तमा (देहस्थितिः ) । = A bit better today.
- प्रातः आरभ्य लघु शिरोवेदना । = Slight head-ache since morning.
- आरोग्यं तावत् सम्यक् नास्ति । = Somehow, my health is not good.
- वैद्यं कदा दृष्टवान् ? = When did you see the doctor last ?
- उत्साहः एव नास्ति भोः । = Don't feel active, you know.
- ह्यः तु स्वस्थः आसीत् । = He was all right yesterday.
- किं अद्य अहं भोजनं करोमि वा ? = Shall I have my meals today ?
- अद्य ज्वरः कथं अस्ति ? = How is the fever today ?
- यथावत् । = As usual.
- तदा तदा उदरवेदना पीडयति किल ? = You get stomach-ache now and then, don't you ?
- ज्वरपीडितः वा? कदा आरभ्य ? = Fever ? Since when ?
- अय्यो! रक्तं स्रवति ! = Oh! Blood is coming out.
- अपघाते सः जीवितः इत्येव विशेषः । = It is a miracle, he survived the accident.
- सः चिकित्सालये प्रवेशितः । = He is admitted to the hospital.
- मम शिरः भ्रमति इव । = I feel giddy.
समयः (Time)[सम्पाद्यताम्]
- कः समयः ? = What is the time?
- सपादचतुर्वादनम् । = A quarter past four.
- द्विवादने अवश्यं गन्तव्यं अस्ति । = I must leave at 2.
- त्रिवादने एकं यानं अस्ति । = There is a bus at three.
- पादोन षड्वादने भवान् मिलति वा ? = Will you meet at a quarter to six ?
- सार्धपञ्चवादने अहं गृहे तिष्ठामि । = I will be at home at half past five.
- पञ्च ऊन दशवादने मम घटी स्थगिता । = My watch stoppped at 5 minutes to 10 o'clock.
- संस्कृतवार्ताप्रसारः सायं दशाधिक षड्वादने । = The Sanskrit news bulletin is at 6.10 p.m.
- सार्धं द्विघण्टात्मकः कार्यक्रमः । = It is a programme for two and a half hours.
- षड्वादनपर्यन्तं तत्र किं करोति ? = What are you going to do there till six o'clock ?
- शाला दशवादनतः किल ? = The school is from 10 o'clock, isn't it ?
- इतोऽपि यथेष्टं समयः अस्ति । = Still there is a lot of time.
- सः षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति । = He does Yogasana from 6 A.M. to 7 A.M.
- मम घटी निमेषद्वयं अग्रे सरति । = My watch goes two minutes fast every day.
- समये आगच्छतु । = Come in time.
- अरे! दशवादनम् ! = Oh! it is 10 o'clock.
- भवतः आकाशवाणी समयः वा? = Is yours the radio time ?
- इदानीं यथार्थः समयः कः ? = What is the exact time now ?
- किमर्थं एतावान् विलम्बः ? = Why (are you) so late ?
- इदानीं भवतः समयावकाशः अस्ति वा ? = Are you free now? (Can you spare a few minutes for me ?)
- रविवासरे कः दिनाङ्कः ? = What date is Sunday ?
- रविवासरे चतुर्विंशतितमदिनाङ्कः ? = Sunday is 24th ?
- पञ्चदशदिनाङ्के कः वासरः ? = Which/What day is 15th ?
- भवतः शाला कदा आरब्धा ? = When did your school begin ?
- जून प्रथम दिनाङ्के । = On 1st June.
- भवतः जन्मदिनाङ्कः कः ? = Which/What is your date of birth ?
- अष्टादश दश षडशीतिः । = 18-10-63 (Should be 18-10-86).
दूरवाणी (Telephone)[सम्पाद्यताम्]
- हरिः ओम् । = Hello
- प्रतिष्ठानस्य कार्यालयः वा ? = Is it the Pratishthana office ?
- राजुमहोदयस्य गृहं वा ? = Is it Mr. Raju's house ?
- एषा षट् शून्य शून्य शून्य चत्वारि वा ? = Is it 60004 ?
- कः तत्र ? (कः संभाषणं करोति ?) = Who is speaking, please ?
- अहं कृष्णः । = I am Krishna, speaking.
- कः अपेक्षितः ? = Whom do you want to speak to ?
- कृष्णः गृहे अस्ति वा ? = Is Mr. Krishna at home ?
- क्षम्यतां, सः गृहे नास्ति । = Sorry, he is not at home.
- कृपया एतत् कृष्णं सूचयतु । = Would you kindly pass this on to Mr. Krishna ?
- कृपया तं आह्वयति वा ? = Would you please call him ?
- अस्तु, एकक्षणं तिष्ठतु । = Yes, wait a minute, please.
- कः दूरवाणीं कृतवान् इति वदामि ? = Who shall I say phoned him up ?
- सः श्वः आगच्छेत् । = He may be back, tomorrow.
- अस्तु, श्वः पुनः दूरवाणीं करोमि । = O.K. I will ring him up again tomorrow.
- किं, इदानीमपि न आगतवान् वा ? = What ? Hasn't he come yet ?
- तस्य दूरवाणी संख्या का ? = What is his phone number ?
- गृहे मिलेत् वा ? = Will he be available at home ?
- मद्रासतः इदानीमपि न आगतवान् । = Not yet returned from Madras.
- अवश्यं सूचयामि । = Certainly I will inform him.
- स्थापयामि वा ? = Shall I put down the phone ? (Shall I hang up ?).
- किञ्चित् उच्चैः वदतु । = Speak louder, please.
वाणिज्यम् (Commerce)[सम्पाद्यताम्]
- रूप्यकस्य कति फलानि ? = How many a rupee ?
- एकैकस्य पञ्चविंशतिपैसाः । = 25 paise each, please.
- रूप्यकस्य पञ्च । = Five per rupee.
- शुद्धं नवनीतं ददातु । = Give me good butter, please.
- पुस्तकानि समाप्तानि । = The book is out of stock.
- एतद् पुस्तकं नास्ति वा ? = Don't you have this book ?
- तण्डुलः सम्यक् नास्ति । = The rice is not good.
- दशपैसाः न्यूनाः सन्ति । = The amount is short by 10 paise.
- मम व्यवहारं समापयतु । = Please settle my account.
- भवतः परीवृत्तिः कथमस्ति ? = How is your business ?
- तत्र गमनं मास्तु भोः, सः बहुमूल्यं वदति। = He is very expensive, let us not go to him.
- कृपया देयकं / प्राप्तिपत्रं ददातु । = Please give me the bill/receipt.
- विंशतिरूप्यकाणि वा ? तर्हि मास्तु । = Is it Rs.20 ? Then I don't want it.
- आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति । = I wanted it, but you quote a very high price.
- भवतः कृते इति न्यूनमूल्येन ददामि । = I am selling it at a lower price to you.
- पार्श्वापणे पृच्छतु । = Please enquire at the next shop.
- एतावत् न्यूनमूल्येन अन्यत्र कुत्रापि न लभ्यते । = You can't get it cheaper anywhere else.
- एकपञ्चाशत् रू/ स्वीकुर्वन्तु । = Please take Rs.51.
- नैव, तत्र विवादः एव नास्ति । = No, no haggling, please.
- एतद् वस्त्रं कुत्र क्रीतवन्तः ? = Where did you buy this cloth ?
- भवान् अधिकं (मूल्यं) दत्तवान् । = You paid more.
- {\rm `}किलो{\rm '} कृते कति ? = How much is this per kilo ?
- फेनकस्य मूल्यं कियत् ? = How much does this soap cost ?
- {\rm `}किलो{\rm '} दालस्य कृते कति रूप्यकाणि ? = How much is the pulse per kilo ?
- दन्तफेनः अस्ति वा ? = Have got toothpaste ?
- तिष्ठतु, ददामि । = Please wait, I'll give you.
- कति/कियत् ददामि ? = How much shall I give you ?
- इदानीं मास्तु, अनन्तरं आगच्छामि । = Not now, I will come later.
- एतद् समीचीनं अस्ति वा ? = Is it good ?
वातावरणम् (Weather)[सम्पाद्यताम्]
- वायुः एव नास्ति। = The wind is still.
- आरात्रि वृष्टिः आसीत् । = It rained for the whole night.
- घर्मो घर्मः । = Very hot indeed.
- किं भोः ! क्लिन्नः अस्ति ! = You have perspired all over.
- प्रातः आरभ्य एवमेव वृष्टिः । = It has been raining like this since morning.
- अद्य वृष्टिः भवति वा ? = Is it going to rain today ?
- किं एषा उष्णता भोः ! = What sultry weather, you know.
- शैत्यं अहो शैत्यं ! = It is very cold indeed.
- महती वृष्टिः । = Heavy rain.
- वृष्टितः एव भयम् । = I am frightened only of the rain.
- दिने दिने शीतं अधिकं भवति । = The cold is increasing day by day.
- यद्वा तद्वा वृष्टिः । = Too much rain/It is raining cats and dogs.
- वायुरहो वायुः । = Too much of wind/Too windy.
- अत्र वायुः सुष्ठु वाति । = Nice breeze here.
- बहु औष्ण्यं किल ? = It is very hot, isn't it ?
- अद्य किञ्चित् शैत्यं अधिकम् । = It is a bit colder today.
- भवतः प्रदेशे वृष्टिः कथम् ? = Have you had rains in your place ?
- कुत्रापि वृष्टिः नास्ति । = No sign of rain anywhere.
गृहसम्भाषणम् (Domestic)[सम्पाद्यताम्]
- अद्य प्रातराशः का ? = What have you cooked for breakfast ?
- अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति । = Today's cooking is really grand.
- किमर्थं अद्य रुचिरेव नास्ति । = Why dishes are not tasty today ?
- रुचिकरं नास्ति वा ? = Aren't they tasty, really ?
- लवणं एव नास्ति । = No salt at all.
- व्यञ्जने लवणं न्यूनम् । = This curry has no salt at all.
- अन्नं बहु उष्णम् । = The rice is very hot.
- तद् किञ्चित् परिवेषयतु । = Serve the other dish a bit more.
- जलं पूरयतु । = Get me some water, please.
- एकचषकं जलं आनयतु । = Get me a glass of water, please.
- किञ्चित् व्यञ्जनं परिवेषयतु । = Get me some dry curry.
- अन्नं = rice
- क्वथितम् = Sambar
- तक्रम् = buttermilk
- व्यञ्जनम् = dry curry
- सारः = soup
- उपदंशम् = pickle
- तैलम् = oil
- उपसेचनम् = Chutney
- लवणम् = salt
- घृतम् = ghee
- पर्पटम् = Pappadam
- किं, न रोचते वा ? = Aren't they tasty ? Don't you like them ?
- लवणं किञ्चित् अधिकम् = A bit too much of salt in it.
- किं अम्ब, प्रतिदिनं सारः एव ? = Dear, why, only soup/Rasam every day ?
- अद्य अपि सारः एव ? = Just soup today also ?
- किं अम्ब ! कियत् परिवेषितवती ? = Dear, you have served a bit too much.
- कियद् अस्ति तत् ? = Oh ! That is not much.
- अम्ब ! किञ्चित् उपदंशं परिवेषयतु । = Mummy, get me some pickles, please.
- अम्ब ! अद्य कदा वा भोजनम् ? = Mummy, What time are you going to serve lunch/dinner today ?
- सावधानं परिवेषयतु । = Serve slowly, please.
- अद्य भूरि भोजनम् । = Today we have a grand meal.
- अधिकं जलं मा पिबतु, शीतं भवति । = Don't drink too much water. You will catch a cold.
- अनेन व्यञ्जनं करणीयं आसीत् । = You should have cooked dry curry with this vegetable.
- तेमनं न परिवेषितवती एव । = You have not served 'curd sambar' at all.
- पुनः एकवारं पायसं परिवेषयतु । = May I have a second helping with 'payasam ' ?
- उत्तिष्ठतु, भोजनं कुर्मः । = Get ready, please, let us have meals.
- इदमिदानीं भोजनं समाप्तम् । = I have just had meals, thank you.
- अहं रोटिकां न खादामि । = I do not eat 'chapathis'.
- रोटिका अस्ति चेत् समीचीनं (अभविष्यत्) । = It would have been wonderful had there been 'chapatis'.
- किं भोः, भोजनमेव न करोति ? = Why dear, you do not eat anything ?
- अन्ने केवलं पाषाणाः । = A lot of stones in the rice.
- दध्यन्नं परिवेषयामि वा ? = Shall I serve curd-rice ?
- तक्रं न इच्छति वा ? = Don't you want buttermilk ?
- भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि । = Eat well, please. I will give a doll.
- तेषां गृहे किं खादितवान् ? = What did you eat in their house ?
- शीघ्रं भोजनं करोतु, विलम्बः अभवत् । = It is getting late, eat quickly.
- इदानीं मास्तु, अनन्तरं ददामि । = Not now, I will give it to you later.
- किञ्चित् वा दध्यन्नस्य भोजनं करोतु । = Eat at least a little curd-rice.
- अद्य मधुरभक्ष्यं किम् ? = What sweets have you prepared today ?
- बहु मधुरम् । = It is too sweet.
- अम्ब, बुबुक्षा भवति । = Mummy, I am hungry.
- मम तु इदानीं अतीव बुबुक्षा । = I am very hungry.
- भोजनं सिद्धं वा ? शालायाः विलम्बः भवति । = Have you finished eating? It is getting late for school.
- भोजनं कृत्वा निद्रां करोतु । = Have a nap after meals.
- अस्तु, परिवेषणं करोमि । = Yes, I am going to serve in a minute.
- किञ्चित् स्वीकरोतु । = Take a little.
- मास्तु, अधिकं भवति । = No, thank you. It is too much for me.
- परिवेषणार्थं कियान् विलम्बः ? = Dear, how long do you take to serve ?
- यावद् रोचते तावदेव स्वीकरोतु । = Eat only what you can.
- सर्वे मिलित्वा भोजनं कुर्मः । = Let us eat together.
- अय्यो, घृतं एव न परिवेषितवती अहम्। = My goodness ! I haven't served ghee at all.
- भवता वक्तव्यं आसीत् किल ? = Shouldn't you have told me that ?
- कियान् विलम्बः भोः, शीघ्रं आगच्छतु । = How long do you take,come quickly.
- सः इदानीं अपि न आगतवान् वा ? = Hasn't he come yet ?
- स्थालिका स्थापिता वा ? = Have you laid the table ? (Have you set the plates for meals ?)
- स्थालिका एव न स्थापिता ! = You haven't laid the table yet !
- लवणं किञ्चित् योजयतु, सम्यक् भवति । = Add some salt. It will be O.K.
- हस्तं प्रक्षाल्य उपविशतु । = Wash (the hand ) before you come for meals.
- मास्तु, यथेष्टं अभवत् । = No, thank you, I have had enough.
- सङ्कोचः मास्तु, आवश्यकं चेत् पृच्छतु । = Please feel at home. Ask for anything you want.
- न, मम सङ्कोचः एव नास्ति । = No, I do not have any reservations.
- किञ्चित् । = A little more.
- अम्ब, अत्र किञ्चित् परिवेषयतु । = Mummy, get me some more.
- कः लवणं आवश्यकं इति उक्तवान् ? = Who has asked for salt ?
- क्वथितापेक्षया सारः एव रुचिकरः । = The soup is tastier than the `sambar'.
- एकैकशः वदतु नाम । = Speak one at a time, please.
- विना शब्दं भोजनं कुर्वन्तु नाम । = Eat without making too much noise.
- प्रथमः कः ? सः वा भवान् वा ? = Who is first ? He or you ?
- पाकः शीतलं भवति । = Dishes are getting colder.
- पाकः तदानीं एव सिद्धः । = Lunch/Dinner is ready.
- व्याघरणं कृतं चेत् पाकः सिद्धः । = Everything is ready. I have to season the curry, that is all.(?)
- शाकः नास्ति, अहं किं करोमि ? = No vegetables, what can I do ?
- भवती पक्तुं एव न जानाति अम्ब ! = Mummy, you do not know how to cook.
- ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् ! = How tasty was yesterday's dry curry !
- कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ? = How many times did I tell you that I don't like it.
- तथा चेत् श्वः भवान् एव पाकं करोतु । = In that case you cook the food yourself tomorrow.
- अस्य रुचिं पश्यतु । = Taste this, please.
- 'क्षीरं दूषितम् |= Milk has become sour.
- तूष्णीं भोजनं करोतु वा ? = Will you eat without comments ?
- पुनः पुनः चर्वणं कृत्वा खादतु । = Chew the food well before you swallow it.
- परिवेषणं कृतं, शीघ्रं आगच्छतु । = Food is already served. Come quickly.
- भवान् किमपि न खादितवान् ? = You haven't eaten anything.
- पुनः परिवेषयतु । = Serve again.
पितरः पुत्राः च (Fathers/sons/mothers)[सम्पाद्यताम्]
- एतावत्पर्यन्तं कुत्र गतवान् ? = Where had you been so long ?
- कुत्रापि न, अत्रैव आसम् । = I was just here.
- पठनं किमपि नास्ति वा ? = Nothing to read ? (Don't you have anything to read ?)
- वक्ता प्रष्टा कोऽपि नास्ति वा ? = Is there no one to keep you under check ?
- सहस्रवारं उक्तं, श्रुतवान् वा ? = I told you a thousand times. Did you listen to me ?
- मम गृहपाठः बहु अस्ति । = I have a lot of homework to do.
- अद्य एव शुल्कं दातव्यं अस्ति । = I have to pay the fees right today.
- अन्तिमदिनाङ्कः कदा ? = Which is the last date for payment of fees ?
- अद्य एव दातव्यं वा ? = Have to pay it right today ?
- किं, अद्य दातव्यं वा ? = What, do we have to pay it today ?
- अम्ब, एकं नवीनं युतकं आवश्यकम् । = Mummy, I would like to have a new shirt.
- गोविन्द, आपणं गत्वा आगच्छति वा ? = Govind, will you go to the shop to get something ?
- अम्ब, वेणीबन्धं करोतु, शालायाः विलम्बः भवति । = Mummy, twine my plait, it is getting late for school.
- कः समयः इति जानाति वा ? = Do you know what time it is now ?
- किमर्थं विलम्बः ? = Why are you late ?
- पितरं एकवारं आह्वयतु । = Please ask daddy to come here.
- भवतः कृते कथनापेक्षया स्वयं करणं वरम् । = Better do the work myself rather than asking you to do it.
- भवती अनन्तरं उपविशतु । = You sit down a little later.
- तस्य कृते चत्वारि दत्तवती, मम कृते तु त्रीणि एव ! = You gave him four, only three to me.
- सर्वं भवान् एव खादितवान् वा ? = Have you eaten everything yourself ?
- एकं कार्यं कतिवारं वक्तव्यम् ? = How often should I tell you about that ?
- कुत्रापि स्थापयति, अनन्तरं मां पृच्छति । = You misplace it somewhere and come and ask me.
- भोजनसमये आह्वयामि, इदानीं गच्छतु । = I will call you during meal time, off you go now.
- {\rm `}तेन सह न गच्छतु{\rm '} इति दशवारं उक्तवती । = I have asked you ten times not to go in his company.
- पार्श्वगृहं गत्वा पत्रिकां आनयतु । = Get me the newspaper from our neighbour.
- अहं सर्वं व्यवस्थितं स्थापयितुं, सः व्यस्तं कर्तुम् । = I keep things in order and he throws everything away.
- अम्ब, किञ्चित् सीवनं करोतु । = Mummy, stitch this up, please.
- कृपया एतद् बहिः क्षिपतु । = Please, throw this away.
- शाकं किञ्चित् कर्तयित्वा ददातु । = Cut the vegetables, please.
- एकवारं एव सर्वं वदतु भवती । = Tell me everything at one go.
- भवान् धीमान्/कुशलः बालः । = You are a good boy.
- अम्ब, अत्र किञ्चित् वेदना अस्ति । = Mummy, it pains me here.
- निद्रां करोतु,सम्यक् भविष्यति । = Sleep well, you will be all right.
- रात्रौ कषायं करोमि । = I'll make some concoction (medicine) at night.
- पीत्वा शयनं करोतु । = You may drink it and then sleep.
- इदानीं गत्वा किञ्चित् पठतु । = Go and read now.
- किं, इदानीम् एव निद्रा वा ? = What ! feeling sleepy so early ?
- {\rm `}गणिते दश अङ्काः एव{\rm '} इति स्मरति वा ? = Do you remember, you have secured only 10 marks in Mathematics ?
- अम्ब, तान् अन्यत्र पठितुं वदतु । = Mummy, ask them to read in separate rooms.
- एतावत् धनं न पर्याप्तम् । = This much money is not enough.
- शिरसि तैलसमुक्षणं करोतु । = Please apply oil to my head.
- निद्रया आन्दोलनं करोति, पश्यतु । = See, he is dozing.
- शिशुः रोदिति । = The child is crying.
- संमार्जनं कृतवती वा ? = Have you swept the floor ?
- इदानीं अपि रङ्गवल्लीं न लिखितवती वा? = Haven't you yet drawn designs in front of the house ?
- कतिवारं वक्तव्यम् ? = How often should I tell you ?
- कुत्र गतवान् ? गृहे नास्ति वा ? = Where has he gone ? Isn't he at home ?
- प्रत्युत्तरं न वदतु । = Don't answer back.
- उक्तं न श्रुतवान् वा ? = Haven't you listened to what I told you ?
- अद्यतन पत्रिकां ददातु । = Give me today's newspaper.
- सः आगतवान्, एषः प्रस्थितवान् । = He has arrived and this fellow has started/departed.
- कटं प्रसारयतु । = Spread the mat.
- रजकः वस्त्रं नीतवान् वा ? = Has the washerman taken the clothes?
- वस्त्राणि शुष्कयितुं प्रसारयतु । = Spread the clothes for drying.
- गत्वा शयनं करोतु । = Go to bed and sleep.
- एकं आसन्दं आनयतु । = Bring me a chair.
- इदानीम् अपि निद्रा न आगता वा ? = Haven't you slept yet ?
- पश्यतु, कः शब्दं करोति ? = see, who is making that noise ?
- किमिदं, सर्वत्र अवकरः ? = What is this ? It is dirty everywhere.
- द्वारं पिदधातु (द्वारपिधानं करोतु) । = Close the door, please.
- एतद् किञ्चित्कालं गृह्णातु । = Hold it for some time.
- मध्ये सम्भाषणं न करोतु । = Don't butt in when I speak.
- कोलाहलं मा करोतु । = Don't make noise, be quiet.
- दीपान् ज्वालयतु । = Put on the lights, please.
- दीपान् निर्वापयतु । = Put off the lights, please.
- व्यजनं चालयतु । = Put on the fan,please.
- बहिः अन्धकारः, करदीपं गृहीत्वा गच्छतु । = It is dark outside, take the torch with you.
- अवहितमनसा करणीयम् । = Do it with some interest, please.
- श्रद्धया करणीयम् । = Do it with your heart in it, please.
- तं यानं आरोप्य आगच्छतु । = Please see him on to the bus.
- पाणिपादं प्रक्षालयतु । = Have a wash,please (Wash your hands and feet).
- कुड्मान् योजयतु । = Button your shirt, please.
- आरोग्यं निर्लक्ष्य मा पठतु । = Don't read too much and spoil your health.
- इतः परं एवं न कर्तव्यम् । = Don't do this again.
- द्राविडप्राणायामेन न वदतु, साक्षात् वदतु । = Don't go on beating about the bush, speak plainly.
- सम्यक् दन्तधावनं करोतु । = Brush your teeth well.
- विना कारणं कुप्यति । = You get angry and shout unnecessarily.
- वृथा कालहरणं करोति । = You are wasting time.
- मां न कोपयतु । = Don't enrage me.
- हठं मा करोतु । = Don't be arrogant.
- किमर्थं भवान् क्षुभ्यति ? = Why are you shouting ?
- प्रथमं शिरोमार्जनं करोतु । = Dry your hair first.
- आर्द्रवस्त्रं न धारयतु । = Don't put on wet clothes.
- शीघ्रं स्नानं कृत्वा आगच्छतु । = Have your bath quickly.
- भाण्डे जलं अस्ति वा ? = Is there water in the barrel ?
- आकाशवाणीं चालयतु । = Put on the radio, please.
- विविधभारतीं योजयतु । = Switch on to Vividhabharathi, please.
- वार्ता समाप्ता वा ? = Is the news over ?
मातापितरः (Parents)[सम्पाद्यताम्]
- अद्य किञ्चित्पूर्वं आगच्छन्ति वा ? = Will you come back home a bit early today, dear ?
- किमर्थं ? कः विशेषः ? = Why? anything special ?
- सायं आगमनसमये शाकं आनयन्ति वा ? = Bring home some leafy vegetable, will you ?
- रविवासरे तान् आह्वयामः वा ? = Shall we invite them on Sunday ?
- बालिका किमपि आवश्यकं इति वदति स्म । = The girl was asking for something.
- अवश्यं स्मृत्वा आनयन्तु । = Please bring it without fail.
- किमर्थं प्रतिदिनं विलम्बेन आगच्छन्ति ? = Why do you come late everyday ?
- कस्मिन् समये आगच्छन्ति अद्य ? = What time will you be back today ?
- कुञ्चिकां पार्श्वगृहे दत्वा गच्छामि । = I will leave the key with our neighbours.
- किमिति पदे पदे आह्वयन्ति ? = Why are you calling me again and again ?
- सर्वं तत्रैव अस्ति, किञ्चित् पश्यन्तु । = Everything is there. Look for them a bit more carefully, please.
- भोजनार्थं कोऽपि विशेषः ? = Any special arrangement for meals ?
- अद्य अस्माकं कृते काफी अस्ति वा ? = Is there going to be some coffee for us ?
- इदानीम् अपि स्नानं न कृतम् ? = No bath yet ?
- भवन्तः किल मास्तु इति उक्तवन्तः । = It is you who said you did not want it.
- समये एकमपि/किमपि न मिलति । = You do not get anything when you need it badly.
- वेतनं लब्धं वा ? = Got your salary ?
- क्षीरार्थं अद्य एव दातव्यं अस्ति । = We have to pay the milk-man today.
- ते सर्वदा कलहं कुर्वन्ति । = They always quarrel.
- तथा किमर्थं वदति ? = Why do you say so ?
- तत्र अस्ति वा नास्ति वा इति प्रथमं एव द्रष्टव्यम् । = You have to see first if it is there or not.
- अहं कार्यालयं गच्छामि । = I am going to my office.
- अस्य जतुलेपं कारयन्तु । = Get this vessel gilted.
- मार्गे सौचिकं विचार्य गच्छन्तु । = Look up the tailor on your way.
सुताः (Children)[सम्पाद्यताम्]
- मम लेखनीं स्वीकृतवान् वा ? = Have you taken my pen ?
- पिता अस्ति, तूष्णीं उपविशन्तु । = Daddy is in, be quiet.
- कृपया मनसि पठतु । = Read silently, please.
- भगिनि, मम कृते गणितं पाठयति वा ? = Sister dear, will you teach me mathematics ?
- 'मम शिक्षकः एवं एव पाठितवान् । = My teacher has taught one just this way.
- भवतः लेखनी कुत्र ? = Where is your pen ?
- मम छत्रं भवान् किमर्थं स्वीकृतवान् ? = Why did you take my umbrella ?
- तस्य कृते किमर्थं दत्तवान् ? = Why did you give it to him ?
- तत्कारणतः इदानीं अनुभवतु । = Now you suffer on account of that.
- न, अहं पितरं सूचयामि । = No, I am going to tell daddy.
- पठनं नास्ति, किमपि नास्ति, केवलं अटति । = Doesn't read at all, just roams about.
- भवतः सर्वं अहं जानामि । = I know all your secrets.
- भवती बहु पठति, जानामि । = You read a lot,I know.
- अद्य भवतः मित्रं मार्गे मिलितः । = I met your friend on the way.
- भवतः मित्रं अहं मिलितवान् = I met your friend.
- सः किमपि उक्तवान् वा ? = Did he say anything ?
- परीक्षा कदा इति स्मरति किल ? = You remember when your examination commences, don't you ?
- रमेशः भवन्तं आह्वयति । = Ramesh is calling ypou.
- पश्यतु, नासिका स्रवति । = Look, you have a running nose.
- नासिकां स्वच्छं कृत्वा आगच्छतु । = Clean your nose, will you ?
- वक्तव्यं आसीत्, करोमि स्म । = You should have told me, I would have done it.
- अङ्कन्या मास्तु, लेखन्या लिखतु । = Write with your pen, not with a pencil.
- तिष्ठतु, युतकं परिवर्त्य आगच्छामि । = Wait, I will just change the shirt.
- एतद् युतकं बहु सम्पृक्तम् । = This shirt is a bit too small.
- अपरं युतकं एवं नास्ति । = The other shirt is not so.
सङ्कीर्ण वाक्यानि (Miscellaneous sentences)[सम्पाद्यताम्]
- उच्चत्या उभावपि समानौ । = Both are of the same height.
- अस्माकं गृहे सर्वे अस्वस्थाः । = Everyone is ill in my house.
- मशको मशकः ! = Too many mosquitoes.
- मत्कुणो मत्कुणः । = Too many bugs.
- मशकजालः कुत्र ? = Where is the mosquito net ?
- अन्तः कोऽपि नास्ति वा ? = Isn't there any one at home ?
- दूषितः कालः । = Times have changed for the worse.
- कर्मकराः एव दुर्लभाः । = You don't get labourers at all.
- महती घोरिका भोः महारावस्य । = This big fellow snores loudly.
अतिथिः (Guests)[सम्पाद्यताम्]
- पानीयं किं ददामि ? = What would you like to have for a drink ?
- तर्हि पानकं आनयामि । = O.K. I will bring juice.
- भवान् काफीं पिबति उत चायम् ? = Do you prefer coffee or tea ?
- किञ्चित् विश्रान्तिं अनुभवतु । = Have some rest, please.
- अद्यैव गन्तव्यं वा ? = Do you have to leave right now ?
- भोजनान्तरं गच्छतु । = Go after lunch.
- दिनद्वयं तिष्ठतु भोः । = Stay for two days.
- रात्रौ निद्रा सम्यक् आसीत् । = I had sound sleep last night.
- रात्रौ निद्रा एव नास्ति भोः । = I did not have even a wink of sleep last night.
- बहिः गतवान्, इदानीं आगच्छति । = He has gone out, will be back in a few minutes.
शुभाशयाः (Greetings)[सम्पाद्यताम्]
- दीपावली शुभाशयाः । = Wish you a happy Deepavali.
- युगादि शुभाशयाः । = Wish you a happy New Year.
- मकरसङ्क्रमणस्य/पोङ्गल् शुभाशयाः । = Wish you a happy Sankranti/Pongal.
- नववर्षस्य शुभाशयाः । = Hearty greetings for a happy New Year.
- नववर्षं नवचैतन्यं ददातु । = Let the new year bring a new life.
- भवतः वैवाहिकजीवनं शुभमयं भवतु । = Wish you a very happy married life.
- नवदम्पत्योः वैवाहिकजीवनं सुमधुरं भूयात् । = Wish the couple a very happy married life.
- सफलतायै अभिनन्दनम् । = Hearty congratulations on your success.
- भवदीयः समारम्भः यशस्वी भवतु । = Wish the function a grand success.
- शतं जीव शरदो वर्धमानाः । = May you live for one hundred years.
- शुभाः ते पन्थानः । = Good bye (God be with you)