संस्कृत भाषायाः वैज्ञानिकता

विकिस्रोतः तः

संस्कृतभाषाया: वैज्ञानिकता


संस्कृतभाषा एव संस्कृते: आधारभूता अस्ति । भाषायाः वैज्ञानिकता परिभाषापेक्षया अनुभवस्य विषय: अस्ति । तथ्यात्मकीवाणी अपि कदाचित् शब्दक्रीडायुक्ततर्कै:पराजयितुम् अर्हति, किन्तु अनुभवस्य माहात्म्यम् एव सत्यम् अस्ति। कस्मिन् व्यक्तौ अनुभूतिं प्रमाणयितुं सामर्थ: नगण्यो भवति । अस्य लौकिकोदाहरण: अस्ति यत् शर्करा गुडश्च द्वौ अपि मधुरौ स्तः चेत्तयो:उभयोर्मध्‍ये को भेद : ? तर्हि एतयो: द्वयो: आस्वादनं कृत्वा मधुरताया: भिन्नानुभूति करणीया | आशय: अस्ति यत् संस्कृतभाषायाः उच्चारणम् अथवा विनिमयस्य आस्वादनमेव संस्कृतभाषाया: माधुर्यानुभूतिं कारयितुं शक्नोति, परन्तु भाषाबद्धा अभिव्यक्तिः न कारयितुं शक्नोति ।

संस्कृतभाषायां यत् वर्णसंयोजनम् अस्ति तदपि एका कला अस्ति । अस्माकं हृदये एको विशेष: संस्कारो भवति यत् स्वीकारात्मकध्वनिना उत्पन्न: स्पन्दनेन प्रभावपूर्णाशैल्या झंकृतो भवति, यस्मात् कारणात् प्रसन्नतामूलकरसायन:अस्माकं शरीरे स्रावित : भवति येन अस्माकं मनोमस्तिष्कचेतनानाञ्च सा अनन्तज्योतिः सदैव अह्लादकतां निःसृतः करोति। स संस्कार: एतावान् प्रभावशाली भवति यत् सः स्पन्दन:अस्माकं शरीरे रक्तमज्जावसामांसान्यस्थिनी रक्तादीन् च झंकृत्य अस्माकं स्वभावमपि परिवर्तयितुं सक्षमो भवति। यः स्पन्दनस्वभाव: परिवर्तनाधारं भवितुमर्हति। निश्चितरूपेण त्रिकाल दर्शिभि: ऋषिभिः कृतं तप एव अक्षरस्वरूपे परिभाषितं व्यापी चास्ति संस्कृतभाषा।