संस्काररत्नमाला (भागः २)/चतुर्थं प्रकरणम्

विकिस्रोतः तः
               




   

अथ चतुर्थं प्रकरणम् ।

अथाक्षरस्वीकारः ।

 तत्र कालादि श्रीधरीये--

"उदग्गते भास्वति पञ्चमेऽब्दे प्राप्तेऽक्षरस्वीकरणं शिशूनाम् ।
सरस्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यात्" इति ॥

 शिशुभिः पञ्चमे वर्षे प्राप्ते उदगयनेऽक्षरस्वीकरणं कर्तव्यमित्यर्थः ।

विधिरत्नेऽपि--

"बालस्य पञ्चमे वर्षे प्राप्ते भानौ मृगादिगे ।
आरभेताक्षरविधिं शुभे काले यथोदि[१]ते" इति ॥

 बृहस्पतिः-- "द्वितीयजन्मनः पूर्वमारभेताक्षरान्सुधीः" इति ।

 द्वितीयं जन्म मौञ्जीबन्धनम् ।

"मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः" इति याज्ञवल्क्योक्तेः ।

 वि[२]श्वामित्रेण विशेष उक्तः--

"प्राप्ते च पञ्चमे वर्षे त्वप्रसुप्ते जनार्दने ।
विद्यारम्भस्तु कर्तव्यो यथोक्ततिथिवासरे" इति ॥


 जनार्दनस्वापकालो विष्णुधर्मोत्तरे--

"आषाढशुक्लद्वादश्यां शयनं कुरुते हरिः ।
निद्रां त्यजति कार्तिक्यां तयोः संपूज्यते हरिः" इति ॥

 नृसिंहः--

"अक्षरस्वीकृतिः प्रोक्ता प्राप्ते पञ्चमहायने ।
उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ॥
शुक्लपक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना" इति ॥

बृहस्पतिः--

"विद्यारम्भो व्रतोद्देशः क्षीरं चैव विशेषतः ।
गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम्" इति ॥

 गलग्रहास्तूपनयनप्रकरण उक्ताः । गलग्रहान्तर्गतायास्त्रयोदश्याः प्रतिप्रसवमाह देवरातः--"त्रयोदश्यक्षरे श्रेष्ठा" इति ।

 मार्कण्डेयः--

"वारे दिनेशभृगुसुज्ञबृहस्पतीनां विद्वानसौ भवति यो हि विमूढबुद्धिः । चन्द्रे च चन्द्रतनये च कृशे च सर्वं(र्व) विघ्नो
भवेदवनिजे रविजे विनाशम्(शः)" इति ।

वसिष्ठश्चाह---

"दिवसांशोदया वर्ज्या यत्नेन कुजसौरयोः ।
श्रेष्ठा[:] सितज्ञजीवानां मध्यमाश्चन्द्रसूर्ययोः ॥
रविवारे तु पूर्वाह्णे विद्यारम्भो विधीयते ।
चन्द्रवारेऽपराह्णे तु विद्या गुर्वी विधीयते ॥
रात्रौ विवर्जयेन्नित्यं संध्ययोश्च विशेषतः" इति ॥

 सुज्ञो बुधः।

 महेश्वरः--

"हस्तादित्रितये तथा निर्ऋतिभे पूर्वान्त्यभे चाश्विभे
मित्रर्क्षे च मृगादिपञ्चसु शुभः प्रारम्भ आद्यः स्मृतः ।
विद्यानां हरिभत्रये च दिवसे सूरेर्भृगोर्वा दिनेऽ-
नध्यायाख्यतदाद्यवर्जिततिथौ केन्द्रस्थितैः सद्ग्रहैः" इति ॥

राजमार्तण्डः--

"विद्यारम्भः प्रशस्तो भवति मधुरिपौ प्राप्तबोधे शशाङ्के
शस्ते तीक्ष्णद्युतौ च त्रिदशपतिगुरावुद्गते चाथ शुक्रे ।
स्वाध्याये सिंहसंस्थं खरकिरणयुतं देवपूज्यं विहाय
शुक्रादित्येज्यवारे त्रिदशपतिगुरौ केन्द्रसंस्थे न पापे" इति ॥

 अक्षरारम्भप्रकारस्तु माधवीये मार्कण्डेयेनोक्तः--

"अभ्यङ्गस्नानपूर्वं तु गन्धवस्त्रादिभूषितः ।
शलाकया सुवर्णस्य पञ्चाशद्वर्णकाल्लिँखेत् ॥

पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् ।
स्वविद्यासूत्रकारांश्च स्वविद्यां च विशेषतः ॥
एतेषामेव देवानां नाम्ना तु जुहुयाद्घृतम् ।
दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥
प्राङ्मुखो गुरुरासीत वारुण्यभिमुखं शिशुम् ।
अध्यापयेत्तु प्रथमं द्विजातिभिः सुपूजितः" इति ॥

 अनेन गुरुपूजनमपि कर्तव्यमिति सूचितम् ।

 सरस्वतीपूजनादिप्रकारमाह पारिजाते गर्गः--

"स्नात्वा शुचौ समे देशे गोचर्ममात्रमुपलिप्य सैकतं स्थण्डिलं[३] कृत्वा पलाशशाखया मृदं खनित्वा तत्र सरस्वतीमावाहयेत्–- भुवनमानः सर्ववाङ्मयरूपे, आगच्छाऽऽगच्छेति । ततः प्रणवेनाऽऽसनार्घ्यपाद्याचमनीयस्नानवस्त्रगन्धपुष्पाक्षतधूपदीपपायसगुडौदननैवेद्यसमर्पणनमस्कारान्कृत्वा विघ्नेशं संपूज्याऽऽचार्यं शक्तितो वस्त्रालंकारादिभिः पूजयित्वा सरस्वतीविघ्नेशाचार्यांस्त्रिः प्रदक्षिणीकृत्य प्रणवपूर्वकमक्षरमारभेत्(त) । तत आचार्यादिवन्दनं कृत्वा सरस्वत्यादीनावाहनक्रमेणोद्वासयेद्विद्यावृद्धिर्भवति" इति ।

विष्णुधर्मोत्तरे--

"ब्राह्मणानां गुरूणां च देवतानामनन्तरम् ।
ततः संपूज्य वित्तेन धात्रीं राम गुरुं तथा" इति ॥

 गुरूणां पित्रादीनाम् । धात्री माता । गुरुराचार्यः । रामेति श्रोतृसंबोधनम् ।

इत्यक्षरस्वीकारः ।

अथ प्रयोगः ।

 कुमारमभ्यङ्गस्नानपूर्वकं स्नापयित्वा गन्धादिभिरलंकृत्य यथोक्ते मुहूर्त आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यामुकशर्मणः पुत्रस्याक्षरारम्भार्थं मार्कण्डेयगर्गाद्युक्तविधिं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं विधाय पुनः कुमारेण सह स्नात्वा शुचौ समे देशे गोचर्ममात्रं यथापर्याप्तं वा स्थलं गोमयेनोपलिप्य सैकतं स्थण्डिलं तत्र कृत्वा पलाशशाखामूलेन स्थण्डिलमध्ये मृदं खनित्वा पलाशशाखां तत्रैव रोपयित्वा तत्र सरस्वतीमावाहयेत् 'ॐ भुवनमातः सर्ववाङ्मयरूपे, आगच्छाऽऽगच्छ' इति मन्त्रेण । ततः प्रणवेनाऽऽसनार्घ्यादिनमस्कारान्तानुपचारान्दद्यात् । अत्र नैवेद्यं पायसं गुडौदनश्च । ततो हरिं लक्ष्मीं विघ्नेशं च नाममन्त्रैः संपूज्य 'ॐ स्वविद्यासूत्रकारेभ्यो नमः, ॐ स्वविद्यायै नमः' इति नाममन्त्राभ्यां स्वविद्यासूत्रकारान्स्वविद्यां च संपूज्य स्थण्डिलकरणादि । बलवर्धननामाऽत्राग्निः । समित्त्रयमादायेत्यादि प्राणायामान्तं कृत्वाऽक्षरारम्भार्थहोमकर्मणि या इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे सरस्वतीं हरिं लक्ष्मीं विघ्नेशं स्वविद्यासूत्रकारान्स्वविद्यां चाष्टाष्टसंख्याकाभिर्घृताहुतिभिर्यक्ष्य इत्युक्त्वाऽङ्गहोमे वरुणं द्विरित्यादि अग्निं स्विष्टकृतमित्यादि वा पूर्वान्तानुसारेणोक्त्वा समिदभ्याधानादि प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा प्रधानहोमं कुर्यात् ।

 'ॐ सरस्वत्यै स्वाहा । ॐ हरये स्वाहा । ॐ क्ष्म्यै स्वाहा । ॐ विघ्नेशाय स्वाहा । ॐ स्वविद्यासूत्रकारेभ्यः स्वाहा । ॐ स्वविद्यायै स्वाहा' इत्येतैर्नामभिस्तत्तद्देवतोद्देशेनाष्टाष्टसंख्याका घृताहुतीर्जुहुयात् । स्वविद्यासूत्रकारेभ्यः स्वविद्यायै च न वा होमः । ततोऽङ्गहोमादि स्विष्टकृदादि वा पूर्वान्तानुसारेण होमशेषं समापयेत् । न त्रिवृदन्नहोमः । आपूर्विकतन्त्रेण वा सर्वो होमः । स्वस्य कर्तुमसंभवेऽक्षरारम्भार्थहोमार्थमाचार्यं त्वामहं वृण इत्याचार्यं वृत्वा संपूज्य तेन होमं कारयेत् ।

 ततोऽक्षरप्रवक्तारं प्राङ्मुखमासीनं शक्तितो वस्त्रालंकारादिभिर्यथाविभवं संपूज्य शिष्टान्ब्राह्मणान्संपूज्य तेभ्यो यथाविभवं दक्षिणां दत्त्वा कुमारेण सह सर्वा आवाहितदेवतास्त्रिः प्रदक्षिणीकृत्य कुमारेणाक्षरप्रवक्त्रभिवन्दनं कारयित्वा क्रमेणाऽऽवाहितदेवता उद्वासयेत् ।

 ततः कुमारो ब्राह्मणान्पितृमात्रादीन्गुरुं च संपूज्य नमस्कृत्य प्राङ्मुखस्याक्षरप्रवक्तुः समीपे प्रत्यङ्मुख उपविश्याक्षरप्रवक्तारं नमस्कुर्यात् ।

 ततोऽक्षरप्रवक्ताऽऽयुष्मान्विद्यावान्भव सौम्या३ इत्याशिषो दत्त्वा प्रणवपूर्वकं लेखयेच्च । 'ॐ नमः सिद्धम्' इति पूर्वं पाठयित्वा लेखयित्वाऽकाराद्यक्षराणि पाठयेल्लेखयेच्चेति संप्रदायः । इति प्रयोगः ।

 अक्षरस्वीकृतिमारभ्यानध्यायवर्जनमुक्तं मार्कण्डेयेन--

"प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं तु कारयेत् ।
ततः प्रभृत्यनध्यायान्वर्जनीयान्विवर्जयेत्" इति ॥

 वर्जनीयान्नित्यानष्टमीचतुर्दश्यादीन् । विद्यारम्भश्चात्राक्षरपरिचितिः ।

अथ बालानां वाक्शुद्ध्युपायः ।

"वचा ब्राह्मी च मण्डूका घनं(नः)कुष्ठं सनागरम् ।
घृतेन परिदेयं च चूर्णं वाक्पटुकारणम् ॥
गुडूचिकाऽपामार्गश्च विडङ्गं शङ्खपुष्पिका ।
विष्णुक्रान्ता वचा पथ्या नागरं च शतावरी ॥
चूर्णं घृतेन संमिश्रं लिह्यात्प्रज्ञां विवर्धयेत् ।
त्रिभिर्दिनैः सहस्रैकं श्लोकानामवधार्यते ॥
त्रिकटु त्रिफला धन्या यवानी शतमूलिका ।
वचा ब्राह्मी तथा भार्ङ्गी चूर्णं समधु लेहितम् ॥
वाक्पटुत्वं च बालानां वीणावाद्यसमस्वरम्" इति ।

 वचा वेखण्डम् । ब्राह्मी प्रसिद्धा । मण्डूकाऽस्तपर्णी । घनो नाम मुस्ता । कुष्ठं प्रसिद्धम् । नागरं शुण्ठी । गूडचिका गुळवेली । अपामार्ग आघाडा । विडङ्गं वायविडङ्गम् । शङ्खपुष्पी श्वेतपुष्पी प्रसिद्धा । विष्णुक्रान्ता प्रसिद्धा । पथ्या हरीतकी । सर्वत्र हरीतकीग्रहणे दलं ग्राह्यमिति वैद्यकपरिभाषा । त्रिकटु शुण्ठि मिरे पिप्पली । धन्या धणे । यवानी ओंवा । अन्यानि प्रसिद्धानि । हिरडा बेहडा आवळकठी त्रिफला ।

अथ संक्षेपेणानुपनीतधर्माः ।

तत्रेदं धर्मसूत्रम्--

"आऽन्नप्राशनाद्गर्भा नाप्रयता भवन्त्यापदि संवत्सरादित्येके यावता वा दिशो न प्रतिजानीयुरोपनयनादित्येकेऽत्र ह्यधिकारः शास्त्रैर्भवतीति सा निष्ठा स्मृतिश्च" इति ।

 व्याख्यातमेतदुज्ज्वलाकृता--अन्नप्राशनात्प्राग्गर्भा बाला अप्रयता न भवन्ति रजस्वलास्पर्शेऽपि । यावत्संवत्सरो न पूर्येत तावन्नाप्रयता गर्भा आपदीत्येके मन्यन्ते । यावद्दिग्भागज्ञानं नास्ति तावन्नाप्रयता भवन्ति । उपनयनादर्वाङ्नाप्रयता इत्येके मन्यन्ते । तत्रोपपत्तिः--अत्र ह्यधिकारः शास्त्रैर्भवतीति । यस्मादत्रोपनयने विधिनिषेधशास्त्रैरधिकारो भवति । इतिकरणं हेतौ । सा निष्ठा । उपनयनमपि परामृशतस्तच्छब्दस्य निष्ठाशब्दसामानाधिकरण्यात्स्त्रीलिङ्गता । सा निष्ठा तदुपनयनमवसानम[४]नधिकारस्येति । स्मृतिश्च, अस्मिन्नर्थे स्मृतिरपि भवति प्रागुपनयनात्कामचारकामवादकामभक्षा इति । ([५]माधवीये विष्णुपुराणे--

"भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथाऽनृते ।
अस्मिन्काले न दोषः स्यात्स यावन्नोपनीयते" इति ॥

 गौतमोऽपि--"प्रागुपनयनात्कामचारकामवादकामभक्षाः" इति ।)

 कामचार इच्छागतिः । कामवादोऽश्लीलादिभाषणम् । कामभक्षः पर्युषितादिभक्षणम् । एतदपवादस्तत्रैव स्मृत्यन्तरे--

"स्यात्कामचारभक्षोक्तिर्महतः पातकादृते" इति ।

 महापातके तु पित्रा भ्रात्रा वा प्रायश्चित्तं कर्तव्यम् ।

तदुक्तं जातूकर्ण्येन--

"अनुपेतस्तु यो विप्रो मद्यं मोहात्पिबेद्यदि ।
तस्य कृच्छ्रत्रयं कार्यं पित्रा भ्रात्राऽपि वा तथा" इति ॥

 अन्यच्च--

"वैश्वदेवं पुरोडाशमग्निमध्ये तु यद्धुतम् ।
प्रमादाच्छिशुराकर्षन्पित्रा रक्ष्यः प्रयत्नतः" इति ॥

 आचारविषय आह वसिष्ठः--

"न ह्यस्य विद्यते कर्म किंचिदामौञ्जिबन्धनात् ।
वृत्त्या शूद्रसमस्तावद्यावद्वेदो न जायते" इति ॥

गौतमः--

"यथोपपादितमूत्रपुरीषो भवति न तस्याऽऽचमनकल्पो विद्यते
न ब्रह्माभिव्याहरे(हारये)दन्यत्र स्वधानिनयनात्" इति ।

 यथोपपादितेत्यनेन दिवा संध्यासूदङ्मुखत्वं रात्रौ दक्षिणामुखत्वमित्यादिनियमाभावो ज्ञाप्यते । कल्पग्रहणादितिकर्तव्यताया एव निषेधो न त्वाचमनस्य । अन्यथा न तस्याऽऽचमनं विद्यत इत्येवं ब्रूयात् । अत एव 'शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः' इतियाज्ञवल्क्यवचोव्याख्यावसरे विज्ञानेश्वरेण चकारादनुपनीतोऽपीत्युक्तम् ।

 रजस्वलादिस्पर्शे तु पारिजाते स्मृतिदीपिकायां व्यवस्थोक्ता--

"शिशोरभ्युक्षणं प्रोक्तं बालस्याऽऽचमनं स्मृतम् ।
रजस्वलादिस्पर्शे तु स्नानमेव कुमारके ॥
प्राक्चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारकस्तु विज्ञेयो यावन्मौञ्जीनिबन्धनम् " इति ।

 विज्ञानेश्वरोक्तमनुपनीताचमनमकुमारावस्थायां बोध्यम् । रजस्वलादि स्पर्शनिमित्तस्नानविधेस्तत्तन्निमित्ताचमनविधेश्च साहचर्यदर्शनात् । अन्यत्रेत्यादिना पितृकर्मणि दाहादावनुपनीतस्यापि मन्त्रोच्चारणं भवतीति ज्ञाप्यते । तदपि कृतचूडस्य त्रिवर्षस्य च ज्ञेयम् ।

"अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम् ।
यद्यसौ कृतचूडः स्याद्यदि स्याच्च त्रिवत्सरः" इतिसुमन्तूक्तेः ।

 एतच्चौरसविषयम् ।

"पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः ।
और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारकाः" इति स्कान्दात् ॥
"नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जी न बध्यते ।
मन्त्राननुपनीतोऽपि पठेदेवैक औरसः" इति सुमन्तूक्तेश्च ।

 कृतशौचमपि नाग्निहोत्रादिषु नियुञ्ज्यात् ।

तदाह गौतमः--"न त्वेनमग्निहवनबलिहरणयोर्नियुञ्ज्यात्" इति । तस्य मन्त्रहीनत्वादित्यभिप्रायः ।

 न च मन्त्रान्ग्राहयित्वा विनियोज्य इति शङ्कनीयम् । 'न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमेन 'नाभिव्याहारयेद्ब्रह्म स्व[६]धानिनयनादृते'  इति सुमन्तुना च मन्त्रोच्चारणस्य निषेधाद्विशेषवचनाभावाच्च ।

 उपनयनकर्मण आरम्भात्प्रागेव कुमारसंबन्धिकर्मोपयुक्तमन्त्रान्कुमारं पाठयेत् । इति(अन्यथा) कर्मकाले मन्त्राध्ययनासंभवेन तत्साध्यस्य कर्मणोऽप्यसंभवापत्तेः । न चाऽऽचार्येण तदा वाचनीय इति वाच्यम् । तादृशविधेरेवाभावात् । तदैव वाचयीत वा । इत्यनुपनीतधर्माः ।

अथ बालपितृधर्माः ।

विष्णुधर्मोत्तरे--

"अपथ्यं न च बालानां तथा भार्गव पश्यताम् ।

 पश्यद्भिः पित्रादिभिरपथ्यं निवारणीयमित्यर्थः ।

बालकाश्चानुनेयाः स्युर्धर्मकामैः सदा नरैः ॥
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ॥
तेषां क्रीडनकं दत्त्वा मोदते नन्दते दिवि ।
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥
अभुक्तवत्सु बालेषु न चाश्नीयात्कदाचन" इति ॥

धर्मसूत्रेऽपि--"अतिथीनेवाग्रे भोजयेत्कुमारान्रोगसंयुक्तान्स्त्रीश्चान्तर्वत्नीः" इति ।  रोगसंयुक्ता ये केचन । अन्तर्वत्न्यो गर्भिण्यः ।

इति संस्कारमालायां पद्धतौ बालपितृधर्माः ।

अथ श्वग्रहप्रायश्चित्तम् ।

 श्वग्रहोऽपस्मारः । उन्मत्तः सारमेय इत्येके । अथवा येन गृहीतः श्वेव वदति श्ववद्व्याचष्टे स श्वग्रहः । महाव्याधिश्चायं, तस्य नाशाय प्रायश्चित्तं भेषजं वक्ष्यमाणं कर्म कर्तव्यम् । कर्ता कर्माङ्गत्वेनाधिकं यज्ञोपवीतं धृत्वाऽऽचम्य नूतनेन शरावेणोदकमाहृत्य कितवसभायां मध्येऽधिदेव[७]नमुद्धत्यावोक्ष्य विभीतकान्यथार्थान्न्युप्य प्रतिदिशं विभज्य पुनस्तानेकधा कृत्वा यथा तेषु शाययितुं शक्यते तथा तान्प्रसार्य सभाया उपरिष्टात्तृणैराच्छाद्यैकत्र मार्गं कृत्वा तेन मार्गेण ग्रहगृहीतं कुमारं सभामध्ये प्रवेश्य तेषु विभीतकेषूत्तानं शाययित्वा दध्ना लवणोदकमिश्रितेन तं प्रोक्षति--

"कुर्कुरः सुकुर्कुरः कुर्कुरो नीलबन्धनः । औलव इत्तमुपाह्वयतार्जिमच्छबलो अथो राम उलुम्बरः । सारमेयो ह धावति समुद्रमिव चाकशत् । बिभ्रं निष्कं च रुक्मं च शुनामग्र सुवीरिणः । सुवीरिणः सृज सृजैकव्रात्य सृज शुनक सृजच्छत् । टेकश्च ससरमटङ्कश्च तूलश्च वितूलश्च । अर्जुनश्च लोहितश्चोत्सृज त्व शितिम्न त्वं पिशंकरो हतः । अमी एके सरस्यका अवधावति तृतीयस्यामितो दिवि । छदये हि सीमरम सारमेय नमस्ते अस्तु सीसर । दूत्या ह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । दुला ह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । समश्वा वृषण: पदो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । संतक्षा हन्ति चक्रिणो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर" इति ।

 एतैः प्रतिमन्त्रं तस्य कुमारस्य दक्षिणतः प्रोक्षणसमये यः कश्चन पुरुषः कांस्यं ताडयति । सूत्रे बहुवचनमनियतकर्तृकत्वार्थम् । प्रधानेऽभ्युक्षण एवैते मन्त्राः । न त्वङ्गभूते कांस्यताडने । अभ्युक्षणस्य प्रधानत्वं तु कुमारसंस्कारत्वात्संनिपत्योपकारकत्वाच्च ।

 ततो वरं वृणीष्वेति कर्ता ब्रूयात् । ततः कुमार एवाहं वरं वृण इति वदेत् । कुमारमेवाहं वृण इति पाठेऽन्यो यः कश्चन प्रतिवक्ता । एवं वारत्रयं प्रातर्मध्यंदिने सायं च कर्तव्यम् । इति श्वग्रहप्रायश्चित्तम् ।

अथ शूलगवं कर्म ।

 शूल इव गवां भवतीति शूलगवो रुद्रः । स यस्य देवता तच्छौ(च्छू)लगवं कर्म । गवामुपतापशान्त्यर्थं कर्तव्यम् । तद्धिताभाव आर्षः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे देशकालौ स्मृत्वा गवामुपतापशान्त्यर्थं शूलगवाख्यं कर्म करिष्य इति संकल्प्य गणेशं संपूज्यौपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा शूलगवहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधान होमे-- भवं देवं शूलगवौद[८]नेनाऽऽहुत्या, रुद्रं देवं शू० । अत्रोदकस्पर्शः । शर्वं देवं शू०, ईशानं देवं शू०, पशुपतिं देवं शू०, उग्रं देवं शू०, भीमं देवं शू०, महान्तं देवं श०, भवस्य देवस्य पत्नीं मीढुष्योद[९]नाहुत्या, रुद्रस्य देवस्य पत्नीं मी०, शर्वस्य देवस्य पत्नीं मी०, ईशानस्य देवस्य पत्नीं मी०, पशुपतेर्देवस्य पत्नीं मी०, उग्रस्य देवस्य पत्नीं मी०, भीमस्य देवस्य पत्नीं मी०, महतो देवस्य पत्नीं मी०, जयन्तमष्टवारं जयन्तौद[१०]नाहुत्या यक्ष्ये । अग्निं स्विष्टकृतं[११] हुतशेषसर्वौदनैरेकदेशाहुत्या यक्ष्ये । प्रायश्चित्तहोमे । अग्निं[१२] द्वाभ्यामित्यादि । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रो[१३]क्षणीपात्रं चरुस्थालीं[१४] शूर्पं कृष्णाजिनमुलूखलं मुसलं कुट्यर्थं कुशांस्त्रीण्युद्धरणपात्राणि त्रिंश[१५]त्पत्राणि चान्दनमनुलेपनं वर्ष्यमुदकमखण्डयवानखण्डतण्डुलान्वा गोमयं दुर्वास्तम्बम्, उदुम्बरपलाशशमीविकङ्कताश्वत्थशाखागोवालानुपवेषं[१६] मेक्षणं संमार्गदर्भानवज्वलनदर्भानिध्मं बर्हिर्दुग्धमाज्यं चेति पात्राण्यासादयेत् । मेक्षणस्य प्रहरणपक्ष उपवेषेण साकं मेक्षणासादनम् । ([१७]अप्रहरणपक्षे चरुस्थाल्या सह ।) अत्रापि वोदगग्राः पश्चात्पुरस्ताच्च भवन्तीत्ययमेव पक्षो नियतः, संपरिस्तीर्येति संशब्दाज्ज्ञापकात् ।

 ततो ब्रह्मवरणादिप्रणीताप्रणयनान्तेऽपरेणाग्निं शूर्पे पवित्रे निधाय शूलगवाय मीढुष्यै जयन्ताय चतुरश्चतुरो मुष्टीन्व्रीहीन्निरू(रु)प्य प्रोक्षणीः संस्कृत्य व्रीहीन्प्रोक्ष्य पात्राणि प्रोक्षति ।  ततः कृष्णाजिनास्तरणादि स्वयमेवावहत्य त्रिष्फलीकृत्य पयसि श्रपयति । न वा निर्वापादि । किं तु पर्याप्तान्व्रीहीन्गृहीत्वा पत्न्याऽवघातं कारयित्वा तन्निष्पन्नांस्तण्डुलान्सक्षीरायां स्थाल्यामोप्य श्रपयति । कृष्णाजिनासादनमत्र कृताकृतम् । पर्यग्निकरणं तु कर्तव्यमेव ।

 ततः स्रुवदर्व्यौ संमृज्याऽऽज्यसंस्कारं कुर्यात् । त[१८]त्राऽऽज्येन सह चरोरपि पर्यग्निकरणम् ।

 ततः शृतं चरुं स्रुवेणाभिघार्योद्वास्य बर्हिषि निधायापरेणाग्निं द्वे कुटी दक्षिणोत्तरे प्राग्द्वारे कृ[१९]त्वा 'ॐ आ त्वा वहन्तु० शर्वो३म्' इति दक्षिणस्यां कुट्यां शूलगवं रुद्रमावाहयति ।

 तत उत्तरस्यां कुट्यां मीढुषीमावाहयामीति शूलगवस्य पत्नीं मीढुषीमावाह्य तयोः कुट्योरन्तराले जयन्तमावाहयामीति शूलगवस्य पुत्रं जयन्तमावाहयति ।

 केचित्तु--आ त्वा वहन्त्वित्यनेनैव शोर्वो३मित्येतस्य स्थाने मीढुषो३म् जयन्तो३म्, इति यथायथमूहितेन मीढुषीजयन्तयोरावाहनं कार्यमिति वदन्ति ।

 तत आवाहनक्रमेणैताभ्यो देवताभ्यस्त्रींस्त्रीनुदकाञ्जलीन्दद्यात् । ततस्त्रिषूद्धरणपात्रेषूपस्तीर्य स्थालीपाकं त्रिषु पात्रेषु व्युद्धृत्याभिधारयति ।

 ततः, 'ॐ उपस्पृशतु मीढ्वान्मीढुषे स्वाहा' इति मन्त्रमुच्चार्य शूलगवाय मीहुषेऽयमोदनो न ममेत्युक्त्वा तत्संनिधावोदनं स्थापयति ।'ॐ उपस्पृशतु मीढुषी मीनुष्यै स्वाहा' इति मन्त्रमुच्चार्य शूलगवस्य पत्न्यै मीढुष्या अयमोदनो न ममेत्युक्त्वा द्वितीयमुद्धृतमोदनं शूलगवस्य पत्न्या मीढुष्याः [२०]संनिधौ स्थापयति । 'ॐ जयन्तमुपस्पृशतु जयन्ताय स्वाहा' इति मन्त्रमुच्चार्य शूलगवस्य पुत्राय जयन्तायायमोदनो न ममेत्युक्त्वा तृतीयमुद्धृतमोदनं शूलगवपुत्रस्य जयन्तस्य संनिधौ स्थापयति ।

 ततः परिधिपरिधानादिव्याहृतिहोमान्तं कृत्वा प्रथममोदनमानीय स्रुवेण दर्व्यामुपस्तीर्य तस्मादोदनान्मेक्षणेन द्विरवदायाभिघार्य हविः प्रत्यज्य 'ॐ भवाय देवाय स्वाहा'  इति जुहोति । भवाय देवायदं० । एवं पुन: पुनरवदाय 'ॐ रुद्राय देवाय स्वाहा' 'ॐ शर्वाय देवाय स्वाहा' 'ॐ ईशानाय देवाय स्वाहा' 'ॐ पशुपतये देवाय स्वाहा' 'ॐ उग्राय देवाय स्वाहा' 'ॐ भीमाय देवाय स्वाहा' 'ॐ महते देवाय स्वाहा' इत्येतैर्जुहोति । यथा--लिङ्गं त्यागः । रुद्राहुत्युत्तरमुदकस्पर्शः ।

 अथ द्वितीयमोदनमानीय तथैव जुहोति । 'ॐ भवस्य देवस्य पत्न्यै स्वाहा' 'ॐ रुद्रस्य देवस्य पत्न्यै स्वाहा' 'ॐ शर्वस्य देवस्य पत्न्यै स्वाहा' 'ॐ ईशानस्य देवस्य पत्न्यै स्वाहा' 'ॐ पशुपतेर्देवस्य पत्न्यै स्वाहा' 'ॐ उग्रस्य देवस्य पत्न्यै स्वाहा' 'ॐ भीमस्य देवस्य पत्न्यै स्वाहा' 'ॐ महतो देवस्य पत्न्यै स्वाहा' इत्येतैर्जुहोति । यथालिङ्गं त्यागः ।

 अथ तृतीयमोदनमानीय 'ॐ जयन्ताय स्वाहा' इत्येतेनाष्टवारमावृतेनाष्टाऽऽहुतीस्तथैव जुहोति । जयन्तायेदमिति त्यागः ।

 ततः स्रुवेण दर्व्यामुपस्तीर्य सर्वेभ्य ओदनेभ्यः सकृत्सकृत्समवदाय सहैव दर्व्यां निधायाभिघार्य स्विष्टकृद्धर्मेण जुहोति 'ॐ अग्नये स्विष्टकृते स्वाहा' इति । अग्नये स्विष्टकृत इदमिति त्यागः । सहैव दर्व्यां निधानं समवदायेतिशब्दान्न लभ्यते।

 परिकर्मिण इध्माधानसमयेऽग्नेर्दक्षिणतश्चोत्तरतश्चाऽऽत्मीया गा यथा हूयमानस्य हविषो गन्धं घ्रातुं शक्नुयुस्तथा स्थापयेयुः ।

 तत्तः शुल्बप्रहरणादिहोमशेषं समापयेत् ।

 ततः--'ॐ स्वस्ति नः पूर्णमुखः परिक्रामतु' इति मन्त्रेण कुट्यादिसहितमग्निं प्रदक्षिणं परिक्रम्य नमस्ते रुद्रेत्यस्य प्रश्नस्याग्निर्ऋषिः । रुद्रो देवता[२१] । ([२२]प्रथमानुवाकमन्त्राणामनुष्टुबादीनि च्छन्दांसि द्वितीयानुवाकादिनवमानुवाकान्तानां मन्त्राणां यजुः । दशमानुवाकमन्त्राणामास्तारपङ्क्त्यादीनि च्छन्दांसि । एकादशानुवाकमन्त्राणामनुष्टुप्छन्दो यजुश्च । ) शूलगवोपस्थाने विनियोगः । 'ॐ नमस्ते रुद्र मन्यवे० जम्भे दधामि' इति शूलगवमुपतिष्ठते । सानुषङ्गैर्मन्त्रैरिति केचित् । प्रथमोत्तमानुवाकाभ्यां वा ।

अथ बौड्यविहाराख्यं शूलगवाङ्गभूतं प्रतिपत्तिकर्मोच्यते ।

 प्रागासादितानि त्रिंशत्पलाशपर्णानि बौड्यानि तेषां विहारो विहरणं नानादेशेषु स्थापनम् । 'ॐ गृहपोषस्पृश गृहपाय स्वाहा' 'ॐ गृहप्युपस्पृश गृहष्यै स्वाहा' 'ॐ द्वारपोषस्पृश द्वारपाय स्वाहा' 'ॐ द्वारप्युपस्पृश द्वारष्यै स्वाहा' इति चतुर्भिर्मन्त्रैश्चत्वारि[२३], एकस्मिन्प्रदेश एव चतुर्षु देशेषु [ वा ] समीपे स्थापयति[२४]

 तत एवमन्यस्मिन्प्रदेश उत्तरमन्त्रैः । 'ॐ घोषिण उपस्पृशत घोषिभ्यः स्वाहा' 'ॐ निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा' 'ॐ अन्वासारिण उपस्पृशतान्वासारिभ्यः स्वाहा' 'ॐ प्रयुन्वन्त उपस्पृशत प्रयुन्वद्भ्यः स्वाहा' ॐ विचिन्वन्त उपस्पृशत विचिन्वद्भ्यः स्वाहा' 'ॐ समश्नन्त उपस्पृशत समश्नद्भ्यः स्वाहा' इति षड्भिः षट्[२५]

ततोऽन्यस्मिन्प्रदेशे । 'ॐ देवसेना उपस्पृशत देवसेनाभ्यः स्वाहा' एतेन दश । प्रतिपर्णं मन्त्रावृत्तिः । 'ॐ या आख्याता देवसेना याश्चानाख्याता उपस्पृशत ताभ्यः स्वाहा' एतेन दश । प्रतिपर्णं मन्त्रावृत्तिः । अथैतेषामेव पर्णानां शलाकासंतर्दनेन पुटं कृत्वा तस्मिन्स्रुवेणोपस्तीर्य, ओदनशेषत एकं पिण्डं कृत्वा पुटेऽवधायाभिघार्य तमादाय कोशद्वयाधिकमध्वानं शत्रोर्गोः संचारभूमिं वा गत्वा 'ॐ निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा' इति कस्मिंश्चिद्वृक्षे तं पुटं बध्नाति । 'ॐ निषङ्गिन्नुपस्पृश निषङ्गिणे स्वाहा' इत्येकवचनान्तं पाठं केचिदाहुः ।

 नमो निषङ्गिण इत्यस्याग्नी रुद्रो यजुः । पुटोपस्थाने विनियोगः-- 'ॐ नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः' इति बद्धं पुटमुपतिष्ठते ।

 ततो होमदेशं प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्याऽऽसादिते चान्दनानुलेपनवर्ष्योदके आसादितानखण्डयवानखण्डतण्डुलान्वाऽऽसादितगोमयदूर्वास्तम्बोदुम्बरपलाशशमीविकङ्कताश्वत्थशाखा गोवालांश्चैकीकृत्य गाः प्रोक्षति । तत्र पुंगवमेवाऽऽदौ प्रोक्षति पश्चादितराः । शिवो भवेत्येतावान्प्रोक्षणमन्त्रः । [२६]वीप्सा प्रतिद्रव्यमावृत्तिप्राप्त्यर्थम् ।

 केचित्तु शिवो भव शिवो भवेत्येतावानेक एव मन्त्र इत्याहुः ।

 ततः कर्माङ्गत्वेन ब्राह्मणान्भोजयित्वा प्रमादादिति विष्णुं संस्मरेत् । एवं कृते शूलगवो रुद्रः प्रीतो भवति । शिवो हैव भवतीति वचनात् ।

 अथ तस्मिन्दिनेऽनन्तरमेव क्षेत्रपतिदेवताकः स्थालीपाकः कार्यः । स च शूलगवाङ्गभूत एव । तदर्थं प्रज्वलितमग्निं कृत्वा ध्यायेत् । नात्रान्वाधानमनग्नि साध्यत्वात् । अग्नेः परिस्तरणे विकल्पः । ततोऽग्नेरुत्तरतो दर्भानास्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रं चरुस्थालीं[२७] शूर्पं कृष्णाजिनमुलूखलं मुसलं चत्वारि सप्त वा पलाशपर्णा[२८]न्युपवेषं मेक्षणं संमार्गदर्भानवज्वलनदर्भानाज्यं चेति पात्राण्यासाद्य पवित्रे कृत्वाऽग्नेः पश्चाच्छूर्पं निधाय तस्मिन्पवित्रे निधाय क्षेत्रस्य पतये चतुरो मुष्टीन्निरू(रु)प्य तूष्णीं किंचिदन्वोष्य प्रोक्षणीः संकृत्य हविः पात्राणि च प्रोक्षेत् ।

 ततः कृष्णाजिनास्तरणादिफलीकरणान्तं पत्न्येव कुर्यात् ।

 ततः कर्ता चरुस्थालीं सोदकामौपासनाग्नावधिश्रित्य तस्यां तण्डुलानोप्य श्रपयति । न वा निर्वापादि । किंतु पर्याप्तान्व्रीहीन्गृहीत्वा पत्न्याऽवघातं कारयित्वाऽवघातनिष्पन्नांस्तण्डुलान्सोदकायां स्थाल्यामोप्य श्रपयति । कृष्णाजिनासादनं कृताकृतम्[२९]

 पर्यग्निकरणं तु कर्तव्यमेव । ततो दर्वीं मेक्ष[३०]णं च संमृज्याऽऽज्यं संस्कुर्यात् । तत्राऽऽज्येन सह चरोः पर्यग्निकरणम् । ततः शृतं चरुमभिघार्योदगुद्वास्य दर्वीं मेक्षणमाज्यं दर्भमुष्टिं पलाशपर्णानि चाऽऽदाय गवां मार्गे होमार्थं देशं दर्भैः परिस्तीर्य तदुत्तरतो दर्भेषु दर्व्यादीनि निधाय होमदेशस्य पश्चात्कुटीं कृत्वा तत्राऽऽसादितानि पलाशपर्णानि संस्थाप्य 'ॐ आ त्वा वहन्तु० हव्याय क्षेत्रस्य पतो३म्' इति तेषु क्षेत्रस्य पतिमावाहयति ।

 ततस्तूष्णीमुदकाञ्जलिं दत्त्वा 'ॐ उपस्पृशतु क्षेत्रस्य पतिः क्षेत्रस्य पतये स्वाहा'इति कृत्स्नं चरुं तत्संनिधौ स्थापयति ।

 ततश्चरुमभ्याहृत्य होमदेशं परिषिच्य मेक्षणेनोपहत्य, 'ॐ क्षेत्रस्य पतये स्वाहा' इति परिषिक्ते देशे जुहोति । क्षेत्रस्य पतय इदं० ।

 अयं च होमः संनिधौ चरुस्थापनादनन्तरं झटित्येव कार्यः । न तु मध्ये कालविलम्बः कार्यः । 'नूर्ते यजते पाको देवः' इतिवचनात् । नूर्ते शीघ्रं यजते कुतः स देवः पाकः पचनशीलस्तीक्ष्णस्तस्मादेवेति मातृदत्तः[३१] । पाको बालो बालवद्गमनशीलाय क्षेत्रस्य पतय आवाहनोत्तरं क्षिप्रं शीघ्रं बलिं दद्यादित्यर्थ इति सुदर्शनः ।

 ततः पुनर्भूय उपहत्य 'ॐ अग्नये स्विष्टकृते स्वाहा' इति जुहोति । अग्नये स्विष्टकृत इदं० । दर्व्यैव वा होमः । अस्मिन्पक्षे न मेक्षणस्य संमार्गः । ततो मेक्षणमनुप्रहरेत् । न वा प्रहरणम् । ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कृत्वा क्षेत्रस्य पतिनेति द्वयोर्विश्वे देवा ऋषयः क्षेत्रस्य पतिर्देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ क्षेत्रस्य पतिना० ॐ क्षेत्रस्य पते मधुमन्त०' इति द्वाभ्यां क्षेत्रस्य पतिमुपतिष्ठते ।

 ततो हुतशिष्टमन्नं किंचित्किंचिदुपादाय ये कर्तुः सकुल्याः सपिण्डा भवन्ति ते प्राश्नन्ति [३२]प्रत्तानां स्त्रीणां न भवति तासां कुलान्तरसंक्रान्तत्वात् ।

 ततः शान्तिं पठन्गृहं प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्य ब्राह्मणान्भोजयित्वा विष्णुं संस्मरेत् ।

 कौषीतकिनां वाजसनेयिनां च ब्राह्मणे दृष्टत्वाच्छ्रौतमेवेदं न स्मार्तम् । अत एतद्धेषे श्रौतं प्रायश्चित्तं कार्यमिति मातृदत्तः ।

इति संस्काररत्नमालाख्यायां पद्धतौ शूलगवप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे चतुर्थं प्रकरणम् ॥ ४ ॥

  1. ङ. च. दितम् इ ।
  2. क. ख. विश्वामित्रीये ।
  3. ख. लं तत्र कृ ।
  4. ङ. च. मधि ।
  5. धनुश्चिह्नान्तर्गतं ङ. च. पुस्तकयोर्नास्ति ।
  6. पदद्वयमधिकं सुमन्तुवचने तदभावात् । तत्स्थाने यावन्मौञ्जी न बध्यत इति वा पाठ्यम् ।
  7. च. वयज्ञन ।
  8. ख. ङ. च. दनेन, रु ।
  9. ख. ङ. च. दनेन, रु' ।
  10. ख. ङ. च. दनेन य ।
  11. ख. ङ. च. तं सर्वैरोदनैर्यक्ष्ये ।
  12. ख. ङ. च. ग्निं द्विरित्या ।
  13. क. प्रोक्षणीं
  14. ख. ङ. च. ली मेक्षणं शू ।
  15. क. शत्पात्रा ।
  16. ख. ङ. च. षं सं ।
  17. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. च. पुस्तकेषु ।
  18. ख. ङ. च. तत्र चरुणा सहाऽऽज्यस्य । प ।
  19. च. गत्वा ।
  20. सर्वपुस्तकेषु "संनिधावोदनं स्थापयति" इति पाठः ।
  21. ख. च. ता । शूल ।
  22. धनुश्चिह्नान्तर्गत ग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"महाविराट्छन्दः" इति ।
  23. ख. ङ. च. रि देशान्तरे स्था ।
  24. ख. ङ. च. ति । एवमुत्तरत्राप्युत्तरैः । घो ।
  25. ख. ङ. च. द । दे ।
  26. एतेन शिवो भवेति द्विवारमपेक्षितं पूर्वत्रेति भाति ।
  27. ख. ङ. च. लीं मेक्षणं शू ।
  28. ख. ङ. च. र्णानि सं ।
  29. क. म् । ततो ।
  30. ख. ङ. च. क्षणमाज्यं च सं ।
  31. ङ. च. त: । पाको देवः पा ।
  32. अत्र क. पुस्तकटिप्पण्याम् “ विवाहितकन्यकानाम्" इति ।