अथ ग्रन्थकर्तृविरचितगणेशस्तोत्रम् ।
जय देव गजानन प्रभो जय सर्वासुरगर्वभेदक ॥
[१]जय संकटपाशमोचन प्रणवाकार विनायकाव माम् ॥ १ ॥
तव देव जयन्ति मूर्तयः कलितागण्यसुपुण्यकीर्तयः ॥
मनसा भजतां हतार्तयः कृतशीघ्राधिककामपूर्तयः ॥ २ ॥
तव रम्यकथास्वनादरः स नरो जन्मलयैकमन्दि[२]रम् ॥
न परत्र न चेह सौख्यभाङ्निजदुष्कर्मवशाद्विमोहभाक् ॥ ३ ॥
गजवक्त्र तवाङ्घ्रिपङ्कजे ध्वजवज्राङ्कयुते सदा भजे ॥
तव मूर्तिमहं परिष्वजे त्वयि हृन्मेऽस्तु सुमूषकध्वजे ॥ ४ ॥
त्वदृते हि गजानन प्रभो नहि भक्तौघसुखौघदायकः ॥
सुदृढा मम भक्तिरस्तु ते चरणाब्जे विषुधेश विश्वपाः ॥ ५ ॥
फलपूरगदेक्षुकार्मुकैर्युत रुक्चक्रधराब्जपाशधृक् ॥
अव वारिजशालिमञ्जरीरदधृग्रत्नघटाढ्यशुण्ड माम् ॥ ६ ॥
करयुग्मसुहेमशृङ्गल द्विजराजाढ्यक तुन्दिलोदर ॥
शशिसुप्रभ विद्यया युत स्तनभारानमितेड्य रक्ष माम् ॥ ७ ॥
शशिभास्करवीतिहोत्रदृक्शुभसिन्दूररुचे विनायक ॥
द्विपवक्त्र महाहिभूषण त्रिदिवेशासुरवन्द्य पाहि माम् ॥ ८ ॥
सृणिपाशवरद्विजैर्युत द्विजराजार्धक मूषकध्वज ॥
शुभलोहितचन्दनोक्षित श्रुतिवेद्याभयदायकाव माम् ॥ ९ ॥
स्मरणात्तव शंभुविध्यजेन्द्विनशक्रादिसुराः कृतार्थताम् ॥
गणपाऽऽपुरघौघभञ्जन द्विपराजास्य सदैव पाहि माम् ॥ १० ॥
शरणं भगवान्विनायकः शरणं मे सततं च सिद्धिका ॥
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ११ ॥
गलद्दानगण्डं महाहस्तितुण्डं सुपर्वप्रचण्डं धृतार्धेन्दुखण्डम् ॥
करास्फोटिताण्डं महाहस्तदण्डं हृताढ्यारिमुण्डं भजे वक्रतुण्डम् ॥ १२ ॥
गणनाथ निबन्धसंस्तवौ कृपयाऽङ्गीकुरु मत्कृताविमौ ॥
इदमेव सदा प्रदीयतां करुणा मय्यतुलाऽस्तु सर्वदा ॥ १३ ॥
|
नत्वा नत्वा सद्द्विजान्कोविदेशान्भूयो भूयो याचते गोपिनाथः ।
अत्रानुक्तं वा दुरुक्तं निबन्धे स्यात्तत्सर्वं शोधनीयं भवद्भिः ॥ १ ॥
|
संस्काररत्नमालेयं गोपीनाथेन धीमता ।
विद्यागणपतेः कण्ठे योजिता राजतां सदा ॥ २ ॥
प्रीतोऽस्त्वनेन भगवान्विघ्नेशो मङ्गलालयः ।
सिद्धिबुद्धिसमायुक्तो विद्यागणपतिः सदा ॥ ३ ॥
[३] श्रीमत्पार्थिवशालिवाहनशके[४] सप्ताष्टभूषैर्मिते १६८७
शुक्ले श्रावणमासि[५] विघ्नपतिथौ कर्काटकस्थे गु[६]रौ ।
वर्षे[७] पार्थिवनामके गुणवती संस्काररत्नैर्युता
मालेयं परिपूर्णतां समगम[८]त्सोमे दिने भे शुभे ॥
|
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयस[९]चातुर्होत्रकाठकसर्वतोमुख-
साग्निचित्पौण्डरीकयाजिगणेशदीक्षिततनूजभट्टगोपीनाथदी-
क्षितविरचितायाः सत्याषाढहिरण्यकेशिस्मार्तसंस्का-
ररत्नमालाया उत्तरार्धं समाप्तिमगमत् ।
समाप्तोऽयं ग्रन्थः ।