संस्काररत्नमाला (भागः १)/षोडशं प्रकरणम्
अथ षोडशं प्रकरणम् ।
व्यासेनौषधिरूपा अप्युपाया उक्ताः--
"अङ्कोलमूलकल्कं तु चूर्णयेद्गुडसंयुतम् । |
उत्तमं कर्णिकामूलं पेषयित्वा पयः पिबेत् । |
क्षीरवृक्षाङ्कुरो वटाङ्कुरः । कर्णिका गोकर्णी ।
"नागकेशरसंयुक्तं जीरकं गोघृतेन च । |
तीर्थरूपमुपायमाह पराशरः--
"महातीर्थे महायोगे महानद्यां तु संगमे । |
देवरातश्च--
([३]बौधायनगृह्येऽपि--
"अथ प्रजार्थहोमः पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा |
पार्श्वयोर्ब्रह्मणः । तान्ब्रह्मधातृविधातॄन् । धातारमावाहयामीत्येवं धातृवि धात्रोरावाहनादि । निवेदनं नैवेद्यस्य । अष्टसहस्रैरष्टाधिकसहस्रैः । अन्यत्स्पष्टार्थम् ।)
नीचमेहनस्य वाजीकरणमुक्तं वडवाचार्येण--
"वाजीवातिबलो येन यात्यप्रतिहतो यतः । |
तत्प्रयोगश्च तेनैवोक्तः--
"भल्लातकबृहतीफलदाडिमकल्कप्रसाधितं कुरुते । |
वैद्यकग्रन्थे--
" सिताश्वगन्धासिन्धूत्थच्छागक्षीरैघृतं पचेत् । |
सिता शर्करा । अश्वगन्धाऽऽस्कन्दः । सिन्धूत्थं सैन्धवम् । एवमन्येऽप्युपाया वैद्यकग्रन्थपञ्चसायकादौ द्रष्टव्याः । एवमपि फलाप्राप्तौ दत्तकपुत्रस्वीकारं कुर्यात् ।
अथ दत्तपुत्रविधानम् ।
- तद्विधिर्बौधायनसूत्रे--
"पुत्रप्रतिग्रहविधिं व्याख्यास्या[९]मः शुक्रशोणितसंभवो मातृ(ता)पितृनिमि- |
वरप्रदानाद्दक्षिणां ददात्येते च वाससी एते कुण्डले एतच्चाङ्गुलीयकं |
मातापितृनिमित्तकः शुक्रशोणितसंभव इत्यन्वयः । मातापितृनिमित्तक इत्यनेन क्षेत्रजादिव्यावृत्तिः । इदं च संभवविशेषणम् । शुक्रशोणितसंभव इत्यनन्तरं यस्येति शेषः । एतेनौरसस्यैव प्रदानपरित्यागविक्रया नान्येषां दत्तकादीनामिति सूच्यते । मातापितरौ प्रभवत इति । मातापित्रोरेव दानाधिकार इत्याशयः । स हि संतानाय पूर्वेषाम् । हि यस्मात्स एकः पुत्रः पूर्वेषां संतानाय भवत्यत एकं पुत्रं नैव दद्यादित्यर्थः । अङ्गुलीयकं चेत्यत्र चकारश्छत्रादिसमुच्चयार्थः । कुशमयं बर्हिरिति प्रतिनिधिर्नैवात्र भवतीति ज्ञापनार्थम् । एवं पर्णमयमिध्ममित्यत्रापि । मध्य इति । बन्धुसमक्षं राजन्यावेदनं कार्यमित्याशयः । अङ्गुलीयकमित्यनन्तरमनुषक्तेन ददातीत्यनेन पुत्रसंबन्धिवस्त्रद्वयकुण्डलाङ्गुलीयकदानं विधीयते । स्त्रिया तु भर्त्रनुज्ञया ग्राह्यः । सा च सधवाया एव दृष्टार्थत्वात् । विधवायास्तु तां विनाऽपि पितुस्तदभावे ज्ञातीनामाज्ञया भवति ।
अत एव--
"रक्षेत्कन्यां पिता विन्नां पतिपुत्रास्तु वार्धके । |
इति याज्ञवल्क्येनावस्थाविशेष एव भर्तुः पारतन्त्र्यमुक्तम् । तदभावे वार्धकादिना तस्याक्षमतायां वा पुत्रादीनामपि ।
कात्यायनेनापि--
"नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा । |
इत्यवस्थाविशेष एव पितृभर्त्राद्यनुज्ञोक्ता । और्ध्वदेहिकं पारलौकिकम् । यस्यामवस्थायां भर्तुरनुज्ञा[११] प्राप्ता सैवात्रानूद्यते न त्वपूर्वा विधीयतेऽतो विधवा या भर्तुरनुज्ञां विनाऽप्यधिकार इति नवीनाः । परिणीत उत्पन्नपुत्रोऽपि च दत्तको भवतीति द्वैतनिर्णये । यत्तु दत्तकमीमांसादौ वृद्धगौतमीयं,
"दत्तपुत्रे यथाजाते कदाचित्त्वौरसो भवेत् । |
इति वचनं तद्दत्तकस्य गुणव[१२]त्त्व औरसस्य च निर्गुणत्वे वेदितव्यम्, यथा- जात इति विशेषणात् । यथा गुणानां जातं समूहो यस्मिन्निति यथाजातो गुणसमूहवानित्यर्थः । यथाशब्दस्य गुणयोगे सादृश्ये शक्तत्वात् ।
अत एव मनुः--
"उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्तिमः । |
इत्यौरसाभावे सर्वरिक्थग्रहणमुक्तवान् । तद्युक्तमेवौरसे सत्यर्धांशहरत्वम् ।
परिग्रहविध्यभावे विशेषमाह स एव--
"अविधाय विधानं यः परिगृह्णाति पुत्रकम् । |
परिग्रहविधिं विना परिगृहीतस्य विवाहमात्रं कार्यं न धनदानमित्यर्थः । किंतु तत्र पत्न्यादय एव धनभाजः । विधिं विना तस्य पुत्रत्वानुत्पादात् ।
अत एव वृद्धगौतमः--
"स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः । |
विधिनैव गोत्रतां यान्तीति नियमः । दानादिविधीनां दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्वात् ।
यथोक्तम्-- "यमद्भिः पुत्रमापदि" इति । आपद्ग्रहणं सकलदानविधेरुपलक्षणं, तेन च प्रतिग्रहविधिरप्याक्षिप्तो भवति । संप्राप्तोऽप्यन्यगोत्रत इति मानवात् । सम्यग्विधिना प्राप्तमि(प्त इ)त्यर्थः । एतदभिप्रेत्यैव[१३] च वसिष्ठेनापि तस्य दानविक्रयपरित्यागेषु मातापितरौ प्रभवत इत्युपक्रम्य परिग्रहविधिरभिहितः । मनुवाक्ये क्रीतादय इत्यादिशब्देन कृत्रिमापविद्धस्वयंदत्तानां ग्रहणम् । तस्मादेषां पञ्चानां पुत्राणां बौधायनाद्युक्तविधिपरिग्रहेणैव पुत्रत्वं नान्यथेति । विस्तरस्त्वन्यत्रानुसंधेयः ।
तत्र पञ्चवार्षिकस्ततो न्यूनः पितृगोत्रेणाकृतचूडश्च प्रतिग्राह्यः । नाधिकवयस्कः कृतचूडश्च । तत्र पुत्रो भ्रातुर्ग्राह्यः । तदभावे सगोत्रः सपिण्डोऽपि यः कश्चित् । तदभावे त्वसगोत्रः सपिण्डः । तदभावे त्वसपिण्डः सगोत्रः । तदभावे त्वसपिण्डोऽसगोत्रोऽपि । तत्रापि भागिनेयदौहित्र[१४]मातृष्वस्रीयपितृष्वस्रीयवर्जं पुत्रत्वबुद्ध्यनर्हभ्रातृपितृव्यमातुलवर्जं च । त्रयाणां वर्णानां स्वसमानवर्ण एव । तत्रापि देशभेदप्रयुक्तगुर्जर[१५]त्वादिजात्या समानजातीय एव । सर्वोऽपि सभ्रातृक एव ज्येष्ठभिन्नश्चेति । अत्र प्रमाणं प्राचीननवीनग्रन्थेषु द्रष्टव्यम्, विस्तरभीत्या न प्रदर्श्यते । ([१६] अत्र नक्षत्रादिकमुक्तं व्यवहारसारे--
"हस्तादिपञ्चकभिषग्वसुपुष्यभेषु सूर्यक्षमाजगुरुभार्गववासरेषु । |
हस्तादिपञ्चकं हस्तचित्रास्वातीविशाखानूराधाः । भिषगश्विनी नक्षत्रम् । वसुः श्रविष्ठाः । क्षमाजो भौमः । अन्यत्स्पष्टम् । )
अथ प्रयोगः ।
पूर्वेद्युः कृतोपवासो वाससी कुण्डले अङ्गुलीयकं छत्रमुष्णीषमाचार्यं धर्मसंयुक्तं वेदपारगं कुशमयं बर्हिः पालाशमिध्ममन्यां होमसामग्रीं च संपाद्य[१७] शिष्टानिष्टाञ्ज्ञातीन्बन्धूंश्चाऽऽहूय तान्संपूज्य तत्समक्षं राज्ञि सभासत्सु च निवेद्य तैरनुज्ञातः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ संकीर्त्य ममाप्रजत्वप्रयुक्तपैतृकर्णापाकरणसिद्धिपुनंनामनरकत्राणसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुत्रप्रतिग्रहं करिष्य इति संकल्प्य तदङ्गत्वेन गणपतिं संपूज्य बन्धुवर्गेभ्यो ब्राह्मणेभ्यश्चान्नदानं कृत्वा पुण्याहवाचनमातृकापूजननान्दीश्राद्धाचार्यवरणमधुपर्कार्हणानि कुर्यात् । ([१८]स्त्रीकर्तृकप्रतिग्रहे तु मद्भर्तुर्मम चेति संकल्पवाक्ये विशेषः । गणपतिपूजनाद्याचार्यवरणान्तं ब्राह्मणद्वारा कारयेत् । ) पुत्रप्रतिग्रहाङ्गभूतहोमार्थमाचार्यं त्वामहं वृण इत्याचार्यवरणवाक्ये विशेषः ।
तत आचार्य आचम्य प्राणानायम्योल्लेखनादि[१९]स्थण्डिलसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा पुत्रप्रतिग्रहाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा वैशेषिकप्रधानहोमे-- अग्निं चर्वाहुत्या यक्ष्ये । अग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं स्विष्टकृतं चरुशेषाहुत्या यक्ष्य इत्यादि । अङ्गहोमे वरुणं द्वाभ्यामित्यादि वा । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं वासोद्वयं कुण्डले अङ्गुलीयकं छत्रमुष्णीषं संमार्गदर्भानवज्वलनदर्भान्पर्णमयमेवेध्मं कुशमयमेव बर्हिराज्यं च सहै[२०]वाऽऽसादयेत् । ततः पवित्रकरणादिप्रणीताप्रणयनान्तं कृत्वा विरमति । ततः प्रतिग्रहीता ब्राह्मणैर्बन्धुवर्गैश्च सह दातुः समक्षं गत्वा तत्समी[२१]पे तिष्ठन्पुत्रं मे देहीति भिक्षेत्(त)।
ततो दाता ददामीत्युक्त्वाऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पुत्रदानमहं करिष्य इति संकल्प्य गणपतिं संपूज्य यथाविभवं वस्त्रगन्धादिभिः प्रतिग्रहीतारं संपूज्येमं पुत्रं तव पैतृकर्णापाकरणपुंनामनरकत्राणसि[२२]द्धिद्वाराऽऽत्मनश्च श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं संप्रददे न मम प्रतिगृह्णातु पुत्रं भवानित्यन्ते प्रतिग्रहीतृहस्ते साक्षतं सतुलसीपत्रं जलं क्षिपेत् । त्रिरिति केचित् । ( [२३]स्त्रियै दाने त्विमं पुत्रं त्वद्भर्तुस्तव चेति दानवाक्ये दात्रोहः कार्यः । ) ततः प्रतिग्रहीता ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां धर्माय त्वा गृह्णामि संतत्यै त्वा गृह्णामीति हस्तद्वयेन प्रतिगृह्य स्वाङ्क उपवेश्य मूर्ध्न्याजिघ्रेत् ।
ततो युवं वस्त्राणीत्यस्य विश्वे देवा वसवस्त्रिष्टुप् । वस्त्रपरिधाने विनियोगः । "ॐ युवं वस्त्राणि पीवसा वसाथे० सचेथे" इत्यासादितयोर्वाससोर्मध्य एकं परिधाप्यैतेनैव मन्त्रेण द्वितीयमुत्तरीयं कारयित्वा तूष्णीमुष्णीषं बद्ध्वा कुङ्कुमादिना तिलकं कृत्वा कुण्डलाभ्यामङ्गुलीयकेन चालंकृत्य सति विभवेऽन्यैरपि भूषयित्वा छत्रेणाऽऽच्छादितं बालं नृत्यगीतवाद्यैः स्वस्ति न इन्द्रो वृद्धश्रवा अष्टौ देवा वसवः सोम्यास इति द्वाभ्यां स्वगृहमानीय [२४] हस्तपादान्प्रक्षाल्याऽऽचम्याग्नेः पश्चान्मातुरुत्सङ्ग उपवेशयेत् ।
तत आचार्यः शूर्प चतुरो मुष्टीनिरू(रु)प्येत्यादिचरुकल्पेन चरुं श्रपयित्वाऽभिघार्योद्वास्य परिषेकाधन्वाधानोत्कीर्तनानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । दव्या वेणोपस्तीर्य चरुमवदानविधिना मेक्षणेनैव द्विरवदायावत्तमभिघार्य शिष्टं हविः प्रत्यज्य यस्त्वा हृदेतिद्वयोर्विश्वे देवा अग्निस्त्रिष्टुप् । पुत्रप्रतिग्रहवैशेषिकप्रधानचरुहोमे विनियोगः । “ॐ यस्त्वा हृदा कीरिणा० मश्याम्" इति पुरोनुवाक्यामनूच्य "ॐ यस्मै त्वर सुकृते जातवे ० ते स्वस्ति स्वाहा" इति याज्यया जुहोति । अग्नय 'इदं० । अथवाऽनिद्वयसंसर्गोक्तेन पुरोनुवाक्यायाज्याधर्मेण होमः ।
तत आज्येन व्यस्तसमस्तव्याहृतिभिश्चतस्र आज्याहुतीर्जुहुयात् । एतासामृष्यादिकं तु प्रागुक्तमेव । पुत्रप्रतिग्रहवैशेषिकप्रधानाज्यहोमे विनियोग इति विनियोगवाक्ये विशेषः ।
ततः स्विष्टकृदादि, अङ्गहोमादि वा होमशेषं समाप्याऽऽचार्याय धेनुं दद्यात्[२५] । ते एव वाससी कुण्डले अङ्गुलीयकं च[२६] । धेनुदानं न वा ।
ततो दश त्री[२७]न्वा ब्राह्मणान्भोजयेत् ।
ततोऽग्निं संपूज्य कर्मणः संपूर्णतां वाचयित्वा कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
एवं दत्तकपुत्र्या अपि स्वीकार उक्तविधिना कार्यः । दानप्रतिग्रहविधिषूद्देश्यगतपुंस्त्वाविवक्षणात् । इतिहासपुराणेषु कुन्त्या दत्तकत्वोक्तेश्च ।
एवं भर्त्रनुज्ञया स्त्रियाऽपि रथकारवत्समन्त्रकमेव ग्रहणं कार्यमिति केचित् । अन्यत्रानुज्ञानाद्भर्तुरितिप्रतिप्रसवेन प्रधानाधिकारसिद्धावधिकृताधि[२८]कारेण होममन्त्रादिप्राप्तौ स्त्रीशूद्राणाममन्त्रकमिति मन्त्रपर्युदाससिद्धेरमन्त्रकप्रतिग्रहसिद्धिर्वस्त्वन्तरप्रतिग्रहवदित्यन्ये । यद्यपि मेधातिथिना भार्यात्ववददृष्टरूपं दत्तकत्वं होमसाध्यमुक्तं स्त्रियाश्च होमासंभवस्तथाऽपि व्रतादिवद्विप्रद्वारा होमादि कारयेदिति हरिनाथादयः । जीवतो भर्तुरनुज्ञां गृहीत्वा तदभिप्रायं वा ज्ञात्वा विधवयाऽपि ग्राह्य इति कौस्तुभे । दत्तकमीमांसोदाहृते "अथोढक्षेत्रजकृत्रिमपुत्रिकापुत्रस्त्रीद्वारजासुराद्यूढजदक्षिणाजानां पित्रोश्च" इति सत्याषाढसूत्रे स्त्रीद्वारजस्य गोत्रद्वयसंबन्धोऽभिहितः "मातुरुत्तरं पितुः प्रथमम्" इति सूत्रेणेति । पितृगोत्रसंबन्धश्च पुत्रत्वेन । पुत्रत्वं च पित्रनुज्ञानेनैव[२९] न परिग्रहेण, व्रतस्य तत्र स्त्रीकर्तृकत्वात् । ऊढः सहोढः । स्त्रीद्वारजः स्त्रिया याचितः स्त्रीसत्ताकः । यज्ञे दक्षिणात्वेन प्राप्तायां कन्यायां जातो दक्षिणाजः । अन्ये प्रसिद्धाः, इति शबरस्वामिनः ।
ननु सूत्रकृता " न स्वामित्वस्य भार्यायाः पुत्रस्य देशस्य कालस्याग्नेर्देवतायाः कर्मणः शब्दस्य च प्रतिनिधिर्विद्यते" इति पुत्रप्रतिनिधिनिराकरणाद्दत्तकपुत्रस्वीकरणमनुपपन्नमिति चेन्न । तस्य "तन्तवे ज्योतिष्मतीं तामाशिषमाशासे" इत्यादौ पितापुत्रीयसुब्रह्मण्याह्वानादौ च पुत्रप्रतिनिधिं कृत्वाऽऽशीराशंसनप्रवचननिवृत्त्यर्थत्वात् । अन्यथा "पुत्रप्रतिनिधीनाहुः" इत्यादिबहुस्मृतिविप्लवापत्तेः । "तामाशिषमाशासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो जातः स्यात्तेजस्व्येवास्य ब्रह्मवर्चसी पुत्रो जायते" इति श्रुतिरप्याशीराशंसनं पुत्रप्रतिनिधिं कृत्वा न कर्तव्यमित्यत्र साधिकेति द्रष्टव्यम् ।
इति पुत्रप्रतिग्रहविधिः ।
अथ पुनःसंधानम् ।
तत्र गृह्यसूत्रम्--
"द्वादशाहं विच्छिन्नः पुनराधेयः प्रतिसं- |
द्वादशाहं विच्छिन्न इत्यत्र होमश्चेदिति शेषः । तथा च द्वादशाहं होमविच्छेदे पुनरग्निराधेय इत्यर्थः । अथवा तावत्संख्यान्सायंप्रातर्होमान्प्रतिसंख्याय गणयित्वा समस्यविधिना जुहुयादित्यर्थः । नात्र पुनरग्निराधेयः । अयं च पक्षः संकटे ।
अन्यान्यपि निमित्तानि गृह्य उक्तानि--
पार्वणः पर्वसु भवः स्थालीपाकः । तस्मिन्निति निमित्तसप्तमी, तन्निमित्तमित्यर्थः । नाश इत्यत्राग्नेरिति शेषः ।
"भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा । |
इत्यादिवचनप्रोक्तनिमित्तानि विशब्देन ग्राह्याणीति सूच्यते । योऽग्निसत्त्वेपि तस्य नाशः स विनाशशब्देनोच्यते । वस्तुतस्तु--अधिकमेवेदं प्रयोगवैजयन्त्यामधृतत्वात् ।
शतद्वय्याम्--
"विहारकाले यदि कार्यदोषात्पत्नी तु सीमानमतीत्य गच्छेत् । |
मण्डनः--
"अग्निहोत्रेण रहितः पन्थानं शतयोजनम् । |
अग्निहोत्रेण सहित इत्यपि केषुचित्पुस्तकेषु पाठो दृश्यते । तथा--
"अब्दं स्वयमजुह्वन्यो(द्यो) हावयेदृत्विगादिना । |
तथा--
"मन्त्रं विना समारूढोऽरण्योरात्मनि वा यदि । |
अरण्यात्मग्रहणं गृह्यविहितसमारोहणाधिकरणीभूतायाः समिध उपलक्षणम् । ज्वलनोऽग्निः ।
तथा--
"भार्यायां प्रोषितायां चेदुदेत्यर्कोऽस्तमेति वा । |
छन्दोगपरिशिष्टं कर्मप्रदीपस्तदुक्तो यो नवनाडिकात्मको होमकालस्तदत्यये सत्यनलोऽग्निर्नश्येत् । उदयास्तमयहेतुना नेति । इदमपि पक्षान्तरम् । तथा--
"पत्न्यन्तरेऽथवा पत्यौ हुताशनसमीपगे । |
असमुद्रगामिनीमिति केचित्[३५] । इदं च होमकालेऽनागमने ।
प्रयाणप्रकरणे त्रिकाण्डमण्डनः--
"ज्येष्ठा चेद्बहुभार्यस्य ह्यतिचारेण गच्छति । |
अतिचारेण भर्त्ररण्यसहायेन ।
पुनराधानप्रकरणे स एव--
"पत्नी सीमामतिक्रामेद्विना भर्त्राऽग्निभिः सह । |
असमाधानमनुगतप्रायश्चित्तविधिनाऽनुत्पादनम् ।
सूकररासभकाकशृगालैः [३६]कुक्कुरकुक्कुटमर्कटशूद्रैः । |
रेतोमूत्रपुरीषैर्वा पूयाश्रुश्लेष्मशोणितैः । |
रजस्वलास्पर्शविषये गो[३८]भिलोऽपि--
"अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रकम् । |
सर्वाग्निस्पर्श एव पुनराधानमिति व्यङ्कटेशः । ज्ञानाज्ञानकृता व्यवस्थेत्यन्ये ।
उक्तं च महाभारते--
"रजस्वला चेच्छ्रौताग्निमज्ञानात्स्पृशते यदि । |
अत्र श्रौतमित्यग्निविशेषणादज्ञानतः स्मार्ते स्पर्शेऽपि पुनःसंधानमेव । साक्षात्परम्पराकृता व्यवस्थैव युक्तेति बहवः । चण्डालस्पर्शे पतितस्पर्शे चाऽऽधानमेवेति केशववरदराजादयः । सूतक्युपस्पर्शे शवस्पर्शे चैवमिति केचित् । मानुषास्थिस्पर्शे पुनराधानमेव । इतरास्थिस्पर्शे तु शुचीष्टिमात्रमिति केचिदिति प्रायश्चित्तसारकारादयः ।
मण्डनः--
-"रजोदोषे समुत्पन्ने सूतके मृतके तथा । |
समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् । |
प्रायश्चित्तकुतूहले--
"खरोष्ट्रवृषभं नारी समारुह्याथवा पुमान् । |
यज्ञपार्श्वे--
"गजोष्ट्रवृषभं नारी समारुह्याथवा पुमान् । |
अयं च गजारोहणनिषेधो राजव्यतिरिक्तपरः । राज्ञो गजारोहणस्य बहुषु पुराणेषु दर्शनात् ।
"यस्यच्छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् । |
इति मार्कण्डेयपुराणाच्च । चकारात्तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयः ।
खरोष्ट्रवृषभारोहणनिषेधो निरग्नेरपि ।
"यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् । |
इति स्वतन्त्रनिषेधस्य सत्त्वात् । गजारोहणनिषेधस्तु तथानिषेधाभावात्तस्य न भवति । एवं च समावर्तनोत्तरमौपासनाग्न्युत्पत्तेः प्राग्गजारोहणे विप्रस्यापि निषेधो नास्तीति सिद्धं भवति । गजारोहणे तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयो न भवति । यदि चेद्वै द्विजो गच्छेदित्यनन्तरोदाहृतवचने खरोष्ट्रवृषभारोहण एव तप्तकृच्छ्रपुनःसंस्कारादिकस्य विहितत्वात् ।
यज्ञपार्श्वे--
"नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि । |
त[४१]था--
"आहिताग्निस्तु यो मोहादनुगच्छेच्छवं यदि । |
"आहिताग्निः(ग्नेः) प्रमादाद्वा प्रेतानुगमनं यदि । |
इति प्रायश्चित्तकेशवीकारोक्तेः ।
"आहिताग्नेः प्रमादाच्चेच्छवानुगमनं तदा । |
इति प्रयोगदर्पणे स्मृतिवचनाच्च ।
वाहिनीपतावपि--"असपिण्डशवानुगमने शवस्पर्शे च पुनराधानम्" इति ।
आहिताग्निग्रहणं साग्निकोपलक्षणमिति केचित् । एवमन्यान्यपि निमित्तानि तत्रैव द्रष्टव्यानि ।
नदी[४२]शब्दप्रवृत्तिनिमित्तमपि तत्रैवोक्तम्--
"कूलद्वयान्तरालं तु नदीशब्देन[४३] नोच्यते । |
इति संक्षेपेण पुनराधाननिमित्तानि ।
अथाग्नित्यागप्रायश्चित्तानि ।
तत्र स्मृतिः--
"नास्तिक्याद्वा प्रमादाद्वा आलस्याद्वा कथंचन । |
मनुः--
" अग्निहोत्र्यपविध्याग्निं ब्राह्मणः कामकारतः । |
अपविध्य त्यक्त्वा । मासमपविध्येत्यन्वयः ।
यत्तु हारीतः--
"संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्याद्द्वि- |
शङ्खस्तु--" अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेद्गां च दद्यात् "। इति त्रिवर्षोत्सादे गोदानमप्यधिकमाह । विष्णुरपि--
"वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं भैक्षेण वर्तयेत्" इति । |
व्याघ्रः--
"मासद्वयं तयोर्वह्निं त्यजेदेवं समाचरेत् । |
तयोः प्रमादालस्ययोः । होमद्रव्यं यावत्कालं होमो न कृतस्तावद्धोमपर्याप्तम् । तथा च भरद्वाजगृह्ये--
"यावत्कालमहोमी स्यात्तावद्द्रव्यमशेषतः । |
जातूकर्ण्योऽपि--
"अतीतकालं जुहुयादग्नौ विप्राय वा स्वयम् । |
अत्र होम इति स्थालीपाकोपलक्षणम् । यद्यप्यग्निविच्छेदे सति होमादावधिकाराभावेन दोषाभावाद्धोमलोपप्रायश्चित्तार्थस्य[४४] होमद्रव्यदानस्याप्राप्तिस्तथाऽपि व्याघ्रवचने नास्तिक्यादितिश्रवणान्नास्तिक्यतोऽग्निविच्छेद एव होमलोपप्रायश्चित्तार्थ[४५]होमद्रव्यदानं कार्यं नेतरयोरिति ज्ञेयम् । एतच्च[४६] होमद्रव्यदानं श्रौताग्नित्यागे न भवतीति माधवः । उभयत्यागेऽपि युक्तमिति नवीनाः ।
मासचतुष्टयत्यागे तु व्याघ्र एवाऽऽह--
"चतुष्टये तु संपूर्णे मासानां तु हुताशनम् । |
स्मृत्यन्तरेऽपि--
"योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्द्विजः । |
मासचतुष्टयेऽतिकृच्छ्रमित्यर्थः । षण्मासत्यागे पराकः । अत ऊर्ध्वमब्दपर्यन्तं पयोव्रतम् ।
तथाऽऽहोशना--
"षण्मासांस्त्यजते यो वै पराकं तु समाचरेत् । |
मासषट्कादूर्ध्वं यावत्संवत्सरं याज्ञवल्क्योक्तान्युपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योजनीयानि । संवत्सरादूर्ध्वं तु मनुः--
"ऊर्ध्वं संवत्सरादग्निं यस्त्यजेत्स पयोव्रतम् । |
अत्र द्वैमासिकत्रैमासिकयोः कालाल्पत्वमहत्त्वापेक्षया विकल्पः । एतानि च सर्वाणि प्रायश्चित्तानि नास्तिक्यादग्निपरित्यागे । यदा तु प्रमादात्त्यजति तदा भरद्वाजगृह्ये विशेषः--
"प्राणायामशतमा त्रिरात्रादुपवासः स्यादा विंशतिरात्रादत ऊर्ध्वमा |
इदमेवाकामतो गृह्याग्नित्याग इत्यपरार्के ।
अत्रैव विषये स्कान्दे--
"हुताशनं तु यो विप्रः प्रमादात्त्यजति प्रभो । |
कूर्मपुराणे--
"षष्टिरात्रिं त्यजेदग्निं प्रमादाच्छृणु मे प्रभो । |
तत इत्यनेन त्रिरात्रमुच्यते । मासद्वयमग्नित्यागे त्रिरात्रमुपवासः संवत्सरमग्नित्यागे प्राजापत्यमिति । स्कान्दे तु द्वादशाह्वातिक्रमे त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । संवत्सरातिक्रमे मासमुपवासः पयोभक्षणं वा कुश्माण्डीभिर्होमः क्रमेणोभयं वेत्युक्तम् । इदं च कामतः । उपवासाशक्तौ मासं पयोभक्षणम् । संवत्सरानन्तरमधिककालातिक्रम उभयमिति मदनपारिजा[४७]ते ।
आलस्यादग्निपरित्यागे स्मृत्यन्तरम्--
"आलस्येन यदा वह्निं द्वादशाहात्परं तदा । |
त्रिवर्षे वर्षमेकं तु प्राजापत्यं चरेद्व्रतम् ॥ |
अथ प्रसङ्गात्संक्षेपेण कृच्छ्रादीनां लक्षणानि ।
तत्र कृच्छ्रलक्षणं धर्मसूत्रे--
"त्र्यहमनक्ताश्यदिवाशी ततन्त्र्यहमयाचितव्रतत्र्यहं नाभाति किंचन " इति । |
कृच्छ्रद्वादशरात्रस्य विधिरयम् ।
" त्र्यहं प्रातन्त्र्यहं सायं त्र्यहमद्यादयाचितम् । |
याज्ञवल्क्येनाप्युक्तम्--
"एकमक्तेन नक्तेन तथैवायाचितेन च । |
लघुकच्छू उदाहृत इत्यत्र पादकृच्छ्रः प्रकीर्तित इति पाठान्तरम् । लघुकच्छूस्यैव शिशुकच्छ इति संज्ञान्तरम् । यथाकथंचिदित्यनेनानुलोमः प्रतिलोमो दण्डकलितवदावृत्तः स्वस्थानविश्रद्धो वेति स्मृत्यन्तरसिद्धं पक्षचतुष्टयं संगृह्यते।
ग्राससंख्यापरिमाणे आहाऽऽपस्तम्ब:-
" सायं द्वाविंशतिसाः प्रातः षड्विंशतिः स्मृताः । |
अनयोः पक्षयोः शक्ताशक्तपरत्वेन व्यवस्था । पाराशरे तु-
" सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः" इति पूर्वार्धं पठितम् । |
चतुर्विंशतिमते तु-
"प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु । |
आसां च संख्यानां शक्ताशक्तपरत्वेन व्यवस्था।
कृच्छ्रसंवत्सरलक्षणमुक्तं धर्मसूत्रे-
एवमेवाभ्यस्येत्संवत्सरं स कृच्छूसंवत्सरः" इति । |
पूर्वसूत्रे कृच्छ्रद्वादशरात्रविधेषक्तत्वात्तस्यैवंशब्देन ग्रहणम् । अभोज्यभोजनाभ्यासेऽयम् ।
अतिकृच्छूलक्षणमाह याज्ञवल्क्यः-
"एष एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः" इति । |
“एकैकं ग्रासमश्नीयाच्यहाणि(दहानि ) त्रीणि पूर्ववत् । |
कच्छ्रलक्षणमपि तेनैवोक्तम्-
“कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिः(म्)" इति । |
पत्रपुटकादिना ग्रासपरिमाणं कृत्वैकग्रासपर्याप्तं दुग्धमेकविंशतिदिनेष्वश्नीयात् ।
प्राजापत्योक्तद्वाविंशत्यादिसंख्यया वा यावता प्राणधारणं भवति तावद्वेति मदनपारिजातः । पयोऽत्र जलम् ।
"चरेत्कृच्छ्रातिकृच्छ्रे तु पिबेत्तोयं तु शीतलम् " इति ब्रह्माण्डपुराणात् । |
अभक्षः कृच्छ्रातिकृच्छ्र इति गौतमोक्तेश्चेति भवदेवः ।
पराकलक्षणमाह याज्ञवल्क्यः-
“द्वादशाहोपवासेन पराकः परिकीर्तितः" इति । |
मासोपवासकृच्छ्रमाह जाबालि:-
" अनश्नन्मासमेकं तु महापातकनाशनम् ' इति । |
यविककृच्छ्रमाह शङ्खः-
" गोपुरीपाद्यवानश्नन्मासमेकं समाहितः । |
तप्तकृच्छ्रमाह मनु:-
" तप्तकृच्छ् चरन्विप्रो जलक्षीरघृतानिलान् । |
स्मृत्यन्तरे तु-
" तप्तक्षीरवृताम्बूनामेकैकं प्रत्यहं पिबेत् । |
क्षीरादीनां परिमाणमुक्तं पराशरेण-
" षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् । |
तप्तकृच्छ्रमुक्त्वा शङ्कलिखितौ-" एष एव शीतैः शीतकृच्छ्रः" इति ।
सांतपनमाह शङ्ख:-
"गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । |
"एतदेव त्र्यहाभ्यस्तं यतिसांतपनं स्मृतम्" इति । |
यतिसांतपनमिति संज्ञामात्रम् । तेन न यतिमात्रस्यैवाधिकारः किं तु सर्वेषाम् ।
महासांतपनमाह याज्ञवल्क्यः--
"पृथक्सांतपनद्रव्यैः षडहः सोपवासकः । |
यमः--
"एतान्येव च पेयानि एकैकं च द्व्यहं द्व्यहम् । |
([५२]पञ्चदशाहोऽयम् ।
जाबालः--
"[५३]षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । |
एकविंशत्यहोऽयम् ।
तुलापुरुषकृच्छ्रमाह शङ्खः--
" पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । |
आचाम ओदननिस्रावो मण्ड इति यावत् ।
वज्रकृच्छ्रमाहाङ्गिराः--
"गोमूत्रेण समायुक्तं यावकं[५४] वोपयोजयेत् । |
पूर्वप्रक्रान्तदधितक्रापेक्षया विकल्पः ।
चान्द्रायणमाह यमः--
"वर्धयेत्पिण्डमेकैकं शुक्ले कृष्णे च ह्रासयेत् । |
त्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः । |
शिशुचान्द्रायणमिति संज्ञामात्रम् । एवं यतिचान्द्रायणमित्यपि। यवपिपीलिकामध्ययोस्तिथिवृद्धौ ह्रासे वा ग्रासानामपि ह्रासवृद्धी ।
तथा च विष्णुः--
" ग्रासानास्याविकारमश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण |
सामान्यचान्द्रायणमाह विष्णुः--
"यथाकथंचित्पिण्डानां तिस्रोऽशीतीरश्नीयात्सामान्यचान्द्रायणे" इति । |
प्रतिदिनं संख्यानियमादरेण मासेन चत्वारिंशदुत्तरशतद्वयं ग्रासानश्नीयादित्यर्थः । पिपीलिकामध्ययवमध्यभिन्नचान्द्रायणेषु दिनान्तरेऽप्यारम्भो न प्रतिपद्येव ।
ग्रासपरिमाणमाह याज्ञवल्क्यः--
"तिथिवृद्ध्या चरेपिण्डाञ्छुक्ले शिख्यण्डसंमितान्" इति । शिखी मयूरः । |
चान्द्रायणं प्रकृत्य पराशरस्तु--"कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत्" इति ।
शङ्खस्तु--"आर्द्रामलकमात्रास्तु ग्रासा इन्दुव्रते स्मृताः" इति ।
इन्दुव्रतं चान्द्रायणम् । एतेषां च परिमाणानां शक्ताशक्तपरत्वेन व्यवस्था । एकादश्यादौ नित्यप्राप्त उपवासश्चान्द्रायणविधिना बाध्यते । एतस्य "धर्मार्थं च चरेदेतच्चन्द्रस्येति सलोकताम्" इति काम्यत्वात् । लशुनभक्षणादिनिमित्ते विहितत्वेन नैमित्तिकत्वाच्च । काम्यस्त्वेकादश्याद्युपवासोऽन्यद्वारा कारणीयः । प्रतिनिधिना कृतेऽपि फलप्राप्तेः कात्यायनादिभिरुक्तत्वात् । अयं चैकादश्याद्युपवासबाधो न सामान्यचान्द्रायणे, तत्र प्रतिदिनं ग्रासग्रहणनियमाभावात् ।
अथ संक्षेपेण प्रत्याम्नायाः ।
चतुर्विंशतिमते--
"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । |
"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । |
अनार्द्रशिरःस्नानमिति पदच्छेदः ।
अपरार्के स्मृत्यन्तरे--
"समिद्घृतं हविर्धान्यं तिलान्वा मारुताशनः । |
द्वादशसाहस्रं द्वादशसंख्यसाहस्रं द्वादशाधिकसाहस्रमिति केचित् । जलान्ते जलसमीपे ।
याज्ञवल्क्योऽपि--
"यत्र यत्र च संकीर्णमात्मानं मन्यते जनः । |
संकीर्णं पापयुक्तम् ।
अपरार्केः--
"उपोष्य श्रद्धया युक्तस्तिलपात्राणि धर्मतः । |
तिलपात्राण्युक्तानि कौर्मे--
"तिलपात्रं त्रिधा प्रोक्तं कनिष्ठोत्तममध्यमम् । |
भारो द्विसहस्रपलपरिमितः ।
वसिष्ठः--
"गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् । |
"प्राजापत्यं चरन्विप्रो यद्यशक्तः कथंचन । |
अत्र कपिञ्जलाधिकरणन्यायेन पञ्चस्वप्यहःसु त्रयस्त्रयो विप्रा भोज्या इति केचित् । पञ्चसंख्याया देहलीदीपन्यायेनोभयत्रान्वयः । तेन पञ्च विप्रा भोजनीया इत्यन्ये ।
स्मृत्यर्थसारे--
निवर्तनलक्षणं तु--"दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम्" इति ।
निवर्तनद्वादशांशभूमिदानेन कृच्छ्र इत्यर्थः ।
माधवीये--
" प्राजापत्यक्रियाशक्तौ धेनुं दद्यात्पयस्विनीम् । |
मदनरत्ने ब्राह्मे--"गवामभावे निष्कः स्यात्तदर्धं पादमेव[५८] वा" इति ।
चतुर्विंशतिमते--
"प्राजापत्ये तु गामेकामतिकृच्छ्रे तथा द्वयम् । |
स्मृत्यर्थसारे तु-- "षडुपवासाः प्राजापत्यप्रत्याम्नायः । एकविप्रभोजनमुपवासस्येति च"
इति । पक्षिवधे नक्तं रूप्यमाषकं वा दद्यादिति हारीतोक्ते रूप्यमाषकदानं नक्तस्येति शूलपाणिः ।
शूलपाणिरेव--"चान्द्रायणं तु कुर्वाणाः कुर्युः कृच्छ्रचतुष्टयम्" इति ।
तथा--
" चान्द्रायणपराकाभ्यां निष्कृतिं यो न शक्नुयात् । |
कृच्छ्रातिकृच्छ्रे धेनुचतुष्टयमिति भवदेवः । अत्र गुरुलघुपक्षाणां शक्ताशक्तपरत्वेन व्यवस्था । इति प्रत्याम्नायाः ।
अथ पुनःसंधानम् ।
तत्र नक्षत्राणि--
"कृत्तिका रोहिणी मृगशीर्ष पुनर्वसू फल्गुन्यौ हस्तश्चित्रा विशाखे |
कृत्तिकाबहुवचनान्तेनैकमेव नक्षत्रम् । अनूराधाः, प्रोष्ठपदाः, पुनर्वसू, पुंलिङ्गाः । फल्गुन्यौ विशाखे स्त्रीलिङ्गे । स्पष्टान्यन्यानि । "अमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रे" इति । आपूर्यमाणः पक्षः पूर्वः पक्षः । आपूर्यमाणपक्ष इत्यनेन पूर्णमासग्रहणे पुनरुपादानमतिशयार्थं तत्प्रतिपद्ग्रहणार्थं च । आपूर्यमाणपक्ष इत्यनेन पुण्ये नक्षत्र इति समुच्चीयते । वाशब्दस्यात्रानन्वयात् । आषाढे मासि पुनःसंधानं न कर्तव्यम् ।
"आदधीतानलान्विप्रो नाऽऽषाढे मासि कर्हिचित् । |
ऊरुजो वैश्यः । विस्तरस्तु श्रौता[६०]ज्ज्ञेयः । विच्छिन्नसंधानस्य नैमित्तिकत्वान्निमित्तानन्तरमधिमासेऽपि करणमुचितं नातिपन्नस्य जातेष्टिवत् ।
अमुनैवाऽऽशयेन दीपिकायामुक्तम्--
"यन्नैमित्तिकमग्निनष्ट्यनुगताग्न्याधानमर्चासु वा |
अथवा विवाहोक्तान्येव नक्षत्रादीनि ग्राह्याणि । अस्मिन्पक्षे विवाहहोमीयप्रधानाज्याहुतिषट्कं लाजाहुतित्रयं चायाश्चेत्याहुत्योपवासेन वा समुच्चितं द्रष्टव्यम् । न्यायतोऽप्येवम् । यदि तु सर्वथा पुत्राद्यभावस्तदा मन्त्रलिङ्गविरोधादाज्याहुतिषट्काभाव एव । लाजाहुतित्रयमात्रं कर्तव्यम् । पूर्ववदाहुत्या उपवासस्य वा समुच्चयोऽत्राप्यस्त्येव । वस्तुतस्तु शुभकर्मानुकूलानि सामान्यनक्षत्रादीन्यत्र ज्ञेयानि । अस्मिन्कल्पे विवाहहोमीयाहुतिषट्कं लाजाहुतित्रयं च न । असंकरात्सर्वत्रेदमेव युक्तम् । सर्वपक्षेषु निमित्तानन्तरकरणपक्षे न नक्षत्राद्यपेक्षेति द्रष्टव्यम् ।
अथ पुनःसंधानप्रयोगः ।
कर्ताऽऽदौ होमसामग्रीं स्थालीपाकार्थं चरुस्थाल्यादिकम[६१]ग्न्यायतनस्य समन्तात्परिश्रयणार्था[६२]नि च्छदींषि, उदुम्बरशाखाः प्लक्षशाखा वा सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्कराहिरण्यशकलरजतशकलपुष्करपर्णाश्वस्थोदुम्बरपलाशशमीविकङ्कतपल्लवानशनिहतवृक्षकाष्ठं चोपकल्पयेत् । सिकताः प्रसिद्धाः । ऊषाः(षः) क्षारमृत् । आखूत्करं वन्याऽऽखूत्कीर्णा मृत् । अभाव उत्कीर्णा ग्राम्या । वल्मीकशब्देन व[६३]रोलम् । तस्य वपा वपाकारा मृदुच्यते । सूदो हृदमृत् । तदभावे कुलीरमृत् । वराहविहत आरण्यवराहोत्कीर्णा मृत् । शर्कराः क्षुद्रपाषाणाः । भाषया काङ्कर इति प्रसिद्धाः । शकलस्वरूपं तु स्मृतौ[६४]--"यवार्धं त्रुटिरित्युक्ता द्वे त्रुटी शकलं स्मृतम्" इति ॥
पुष्करपर्णं कमलिनीपर्णम् । अश्वत्थादयश्चत्वारः प्रसिद्धाः । विकङ्कतः सकण्टकवृक्षः। भाषया सुतवी इति प्रसिद्धः । अशनिहतो विद्युद्धतः। अभावे वातहतः । एवं सामग्रीं संभारांश्च परिकल्प्य समिन्नाशादिनिमित्तानन्तरं रात्रौ चेत्समिन्नाशादिनिमित्तं तदा द्वितीयदिने प्रातस्तस्यातिक्रमे शुभे दिने कृत्तिकारोहिणीमृर्गशीर्षपुनर्वसू(सु)पूर्वा(र्व)फल्गुन्युत्तरा(र)फल्गुनीहस्तचित्राविशाखानूराधाश्रवणोत्तरा(र)प्रोष्ठपदान्यतम आधानोक्तनक्षत्रे शुभकर्मानुकूलसामान्यनक्षत्रान्यतमनक्षत्रे वा पत्न्या सह प्राणानायम्य देशकालौ संकीर्त्य मम नास्तिक्यादेतावत्कालपर्यन्तं गृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमेतावत्प्रायश्चित्तमहमाचरिष्य इति संकल्पं कुर्यात् । प्रमादेन विच्छेदे तु मम प्रमादादेतावत्कालपर्यन्तमिति । ममाऽऽलस्यादेतावत्पर्यन्तमित्यालस्येन विच्छेदे । एवं संकल्प्याग्निविच्छेदकालगणनया प्रायश्चित्तं दंपती सह कुरुतः । अशक्तौ प्रत्याम्नायद्वारा ।
तत्र नास्तिक्याद्द्वादशाहपर्यन्तं पराकः । ततोऽब्दपर्यन्तं मासं पयोव्रतम् । अब्दे पूर्णे द्वैमासिकं त्रैमासिकं वा व्रतम् । ततः प्रतिवर्षमेतस्यैवाऽऽवृत्तिरिति ।
प्रमादात्त्रिरात्रमग्निविच्छेदे प्राणायामशतम् । द्वाविंशतिरात्रपर्यन्तमेकदिनमुपवासः । मासद्वयपर्यन्तं त्रिरात्रमुपवासः । अब्दे प्राजापत्य इति ।
आलस्याद्द्वादशाहं विच्छेदे तु त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । षण्मासातिक्रमे मासं पयोव्रतम् । संवत्सरातिक्रमे मासमुपवासः पयोभक्षणं कूश्माण्डहोमो वा, समुच्चयो वैतेषाम् ।
प्रयोगपारिजाते त्वत्राधिकमुक्तम्--द्वादशाहपर्यन्तं त्र्यहमुपवासः । मासपर्यन्तं द्वादशाहमुपवासः । अब्दपर्यन्तं[६५] मासं पयोव्र[६६]तम् । द्विवर्षपर्यन्तं मासं पयोव्रतं चान्द्रायणं च । अब्दपर्यन्तं चान्द्रायणं [६७]सोमायनं च । तदूर्ध्वमब्दकृच्छ्रं धनिनो गोदानं चेति ।
नास्तिक्यादग्निविच्छेदवशेन लुप्तानां सायंप्रातर्होमानां दर्शपूर्णमासस्था लीपाका[६८]नां च पर्याप्तमिदं व्रीह्याद्यन्यतमं होमद्रव्यमाज्यं च तन्निष्क्रयद्रव्यं वाऽमुकेभ्यो ब्राह्मणेभ्यः संप्रदद इति संकल्प्याग्निविच्छेदकालगणनया दद्यात् । आग्रयणकरणपक्षे दर्शपूर्णमासस्थालीपाका[६९]नामित्यनन्तरमाग्रयणस्थालीपाकस्य चेत्यूहः । एतच्च प्रायश्चित्तं विच्छेदोत्तरं कालविलम्बे यद्य[७०]कृताग्निद्वयसंस[७१]र्गो यजमानस्तदाऽग्निद्वयविच्छेदस्यापि तत्तत्कालगणनया प्रायश्चित्तं कार्यम् । नास्तिक्याद्विच्छेदश्चे[७२]द्धोमद्रव्यदानं स्थालीपाकद्रव्यदानं च । अनारब्धस्थालीपाकस्य यजमानस्य विभ्रष्टस्थालीपाकमात्रं न लुप्तस्थालीपाकद्रव्यदानम् । अनारब्धत्वात्तेषाम् । संकल्पवाक्ये दर्शपूर्णमासाग्रयणस्थालीपाकोल्लेखोऽपि न ।
ततः सपत्नीकः पुनराचमनप्राणायामदेशकालसंकीर्तनानि कृत्वाऽमुकंनिमित्तेन विच्छिन्नस्य गृह्याग्नेः पुनःसंधानं करिष्य इति संकल्प्य गणेशं संपूज्य कृतभस्मोत्सर्गोपलेपनमग्न्यायतनं परिश्रित्य फलाद्यन्यतमेन ताम्र[७३]शकलयुक्तेन पूर्ववदुल्लिख्यावोक्षणोत्सेचनोदकनिधानानि कृत्वाऽभ्यादिनोद्धत्यावोक्ष्य सिकता न्युप्योदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्करा इति भौमान्, हिरण्यरजतशकलपुष्करपर्णाश्वत्थोदुम्बरपलाशशमीविकङ्कताशनिहता इति वानस्पत्यान्संभारांस्तूष्णीमग्न्यायतने प्रक्षिपेत् । सर्वेषां भौमानामलाभे सिकताग्रहणं, वानस्पत्यानामलाभे त्वश्वत्थग्रहणम् । एवं संभारांस्तूष्णीं प्रक्षिप्य स्वयोनित उत्पन्नमग्निमाहृत्य भूर्भुवः सुवरोमित्यग्न्यायतने प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा विच्छिन्नगृह्याग्निपुनःसंधानहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे--मिन्दवन्तमग्निमाज्याहुत्या यक्ष्ये । अग्निमिन्द्रं बृहस्पतिमश्विनौ चाऽऽज्याहुत्या यक्ष्ये । तन्तुमन्तमग्निं तिसृभिराज्याहुतिभिर्यक्ष्ये । अग्निमभ्यावर्तिनमा० । अग्निमङ्गिरसमा० । अग्निं द्वाभ्यामा० । अग्निमा० । वायुमा० । सूर्यमा० । प्रजापतिमा० । अयासमग्निमा० । मनस्वन्तमग्निमा० । प्रजापतिमा० । सप्तवन्तमग्निमा० । वाचस्पतिं ब्रह्माणमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादिव्याहृतिहोमान्तं कृत्वा वैशेषिकप्रधानहोमं कुर्यात् ।
यन्म आत्मनः पुनरग्निरिति द्वयोर्मन्त्रयोः सोम ऋषिः । प्रथमस्य मिन्दवान ग्निर्देवता । द्वितीयस्याग्निरिन्द्रो बृहस्पतिरश्विनौ च देवताः । प्रथमस्य गायत्री छन्दः । द्वितीयस्यानुष्टुप्छन्दः । विच्छिन्नगृह्याग्निपुनःसंधानवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ यन्म आत्मनो मिन्दा० विचर्षणिः स्वाहा" मिन्दवतेऽग्नय इदं० । "ॐ पुनरग्निश्चक्षु० मक्ष्योः स्वाहा" अग्नय इन्द्राय बृहस्पतयेऽश्विभ्यां चेदं० ।
तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रि शत्तन्तव इति मन्त्रत्रयस्याग्निर्ऋषिः । तन्तुमानग्निर्देवता । प्रथमस्य जगती छन्दः । द्वितीयस्य त्रिष्टुप्छन्दः । तृतीयस्य जगती छन्दः । विच्छिन्नगृह्याग्निपुनःसंधानवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ तन्तुं तन्वन्रजसो० जन स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ उद्बुध्यस्वाग्ने० मेत स्वाहा" तन्तुमतेऽग्नय इदं० । "ॐ त्रयस्त्रि शत्तन्त० स्वाहा" तन्तुमतेऽग्नय इदं० ।
अग्नेऽभ्यावर्तिन्नित्यादीनां चतुर्णां मन्त्राणामग्निर्ऋषिः । प्रथमस्याग्निरभ्यावर्ती देवता । द्वितीयस्याग्निरङ्गिराः । तृतीयचतुर्थयोरग्निः । प्रथमस्य[७४] पञ्चपदोष्णिक् । द्वितीयस्य[७५] पञ्चपदा महाबृहती । तृतीयचतुर्थयोर्गायत्री । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः-- "ॐ अग्नेऽभ्यावर्ति० धनेन स्वाहा" अग्नयेऽभ्यावर्तिन इदं० । "ॐ अग्ने अङ्गिरः० मा कृधि स्वाहा" अग्नयेऽङ्गिरस इदं० । "ॐ पुनरूर्जा० विश्वतः स्वाहा" अग्नय इदं० । "ॐ सह रय्या नि० स्परि स्वाहा" अग्नय इदं ।
व्यस्तसमस्तव्याहृतीनां पूर्ववदृष्यादि, विच्छिन्नेत्यादि विनियोगवाक्यम् । "ॐ भूः स्वाहा" अग्नय इदं० । "ॐ भुवः स्वाहा" वायव इदं० । "ॐ सुवः स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवः स्वाहा" प्रजापतय इदं० । अयाश्चाग्न इत्यस्य वामदेवोऽया अग्निः पङ्क्तिः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ अयाश्चाग्ने० भेषज स्वाहा" अयसेऽग्नय इदं० ।
मनोज्योतिर्जुषतामित्यस्याग्निर्मनस्वानग्निस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । "ॐ मनोज्योति० घृतेन स्वाहा" मनस्वतेऽग्नय इदं ।
प्रजापत इत्यस्य विश्वे देवाः प्रजापतिस्त्रिष्टुप् । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ प्रजापते न त्वदे० रयीणा स्वाहा' प्रजापतय इदं० । सप्त ते अग्न इत्यस्याग्निः सप्तवानग्निर्जगती । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । 'ॐ सप्त ते अग्ने० घृतेन स्वाहा' सप्तवतेऽग्नय इदं० ।
चित्तिः स्रुगिति दशहोतृसंज्ञकस्य वाचस्पते विधे नामन्नित्यादिग्रहसंज्ञकभागसहितस्य प्रजापतिर्वाचस्पतिर्ब्रह्मा यजुः । विच्छिन्नगृह्याग्निवैशेषिकप्रधानाज्यहोमे विनियोगः । ॐ चित्तिः स्रुक्० नृम्णं धात्स्वाहा' वाचस्पतये ब्रह्मण इदं० । इत्यष्टादशाऽऽहुतीर्हुत्वा, इमं मे वरुणेत्यादिसंस्थाजपान्तं कृत्वोक्तरीत्या त्रिवृदन्नहोमं कृत्वा पुण्याहस्वस्त्ययनर्द्धिवाचनं विधायाग्निः प्रीयतामिति वदेत् ।
ततः पार्वणस्थालीपाकवदाग्नेयस्थालीपाकं सद्य एव कृत्वा वाससी धेनुमनड्वाहं तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दक्षिणां दद्यात् ।
ततो यथाविभवं ब्राह्मणान्संभोज्य भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
"प्रातर्होमोऽङ्गभूतत्वादकालेऽपि विधीयते । |
इति प्रातरौपासनहोमस्य पुनःसंधानाङ्गभूतत्वेन विहितकालासत्त्वेऽपि क्रियेति केचिद्गृह्यकारा आहुः ।
अन्ये तु प्रातरौपासनहोमस्य पुनःसंधानाङ्गभूतत्वे प्रमाणाभावान्नाविहितकाले क्रियेति । येषां मतेऽङ्गत्वं तन्मत आग्नेयस्थालीपाकात्पूर्वमेव कर्तव्यः । येषां मतेऽङ्गत्वं नास्ति तन्मतेऽन्तःपाती प्रथमो होमो नास्त्येव । नित्यस्य कालप्राप्तस्य प्रातर्हो[७६]मस्यानुष्ठाने विकल्पः ।
तत्र कारिकाद्वयम्--
"आधाने पुनराधाने सायंकाल उपक्रमः । |
इदानीं प्रचुराचारः सायमुपक्रमविषय एव । यदि संसर्गविधेः प्राग्द्वावप्यग्नी विच्छिन्नौ तदा प्राणानायम्य मम विच्छिन्नस्य प्रथमगृह्याग्नेः पुनःसंधानं करिष्य इति संकल्प्य तदीयविच्छेदप्रायश्चित्तपूर्वकं ज्येष्ठपत्न्या सह तदीयमग्निं संधायैवमेव कनिष्ठया तदीयमग्निं संदध्यात् । तत्र प्रथमगृह्याग्नेरित्यत्र द्वितीयगृह्याग्नेरिति विशेषः । वस्तुतस्तूपवासाहुत्यात्मकमेव प्रायश्चित्तं युक्तं, सूत्रोक्तत्वात् । पाणिग्रहणादिरित्येतत्खण्डं तु क्षेपकमव्याख्यानात् । अनुगते भार्यायाः पत्युर्वेत्येतत्सूत्रस्थभाष्यलिङ्गात् । तस्यौपासनेनाऽऽहिताग्नि[७७]त्वं पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति कश्चिद्वक्ष्यत्याचार्य इत्याधानप्रकरणे कश्चिदिति वैजयन्तीकारोक्तेश्च । स चोपवासो दिवाकर्मत्वादासायं द्रष्टव्यः[७८] । आहुतिस्त्वयाश्चाग्न इति ।
इति संस्काररत्नमालायां पुनःसंधानम् ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां षोडशं प्रकरणम् ॥ १६ ॥
- ↑ ड. च. स्ना सावि ।
- ↑ ङ. वित्र्यै यद । च. वित्र्ययद ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
- ↑ ङ. च. ब्राह्मणं ।
- ↑ ङ. आचम्य ।
- ↑ ग. ङ. त्वा ब्राह्मण ।
- ↑ ग. ङ. व द्विश्व ।
- ↑ ग. ङ. शभ्यर्णै ।
- ↑ क. स्याम एकः शु । ग. स्याम एव शु । च. स्यामः शोणितशुक्रसं ।
- ↑ च. दि वाऽगा ।
- ↑ क. ज्ञा प्रमाणैवा ।
- ↑ च. वत्त्वे वे ।
- ↑ क. ग. व व ।
- ↑ क. ख. त्रव ।
- ↑ क. रत्वजा ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
- ↑ क. ख. द्य ज्ञाती ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
- ↑ ख. ग. ङ. च. दिसं ।
- ↑ ग. ङ. च. हैव सा ।
- ↑ क. मीपं ति ।
- ↑ ख. ङ. च. सिद्ध्यर्थमात्म ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
- ↑ हस्तपादमिति तूचितम् ।
- ↑ क. ख. त् । कु ।
- ↑ क. ख. ग. च । त ।
- ↑ ग. च. त्रीन्ब्राह्म ।
- ↑ च. धिका ।
- ↑ क. ग. व.प ।
- ↑ ख. ग. स्मिन्पथि ।
- ↑ ग. रपथि ।
- ↑ ख. ग. संस्पृष्टे ।
- ↑ ग. च. च्छत्यन्या ।
- ↑ क. भाष्ये च प्रे ।
- ↑ ख. ग. ङ. च. त् । प्र ।
- ↑ अत्र क. पुस्तके कुक्कुभेति पाठः । तदुपरि "कुक्कुभो लावा इति प्रसिद्धः" इति टिप्पणी च ।
- ↑ क. द्वा वोदक्याप ।
- ↑ क.ख. गोपालोऽ ।
- ↑ क. म् । नात्वान्वा ।
- ↑ क. पुस्तके "प्रवसत्यपि" इति शोधितः पाठः ।
- ↑ क. प्रायश्चित्तदीपि(धि)तौ ।
- ↑ च. शब्दे प्र ।
- ↑ क. न चोच्य ।
- ↑ क. स्य हौम्यद्र । ख. ङ. च. स्य हौम ।
- ↑ क. ख. च. र्थहौम्यद्र । ड. र्थहाम ।
- ↑ क.ख. च. च्च हौम्यद्र । ङ.च हौम ।
- ↑ क. जातः । आलस्ये ।
- ↑ क. नुनोक्तः । व्य ।
- ↑ ङ. च. म्- ए ।
- ↑ क. ख. ग. नियम्य ।
- ↑ ख. ग. ङ. च. तप्ताहेन ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
- ↑ अत्र क. पुस्तके "षट्त्वं कुशोदकसाहित्येनेति प्रायश्चित्तेन्दुशेखर उक्तम्" इति टिप्पणी ।
- ↑ ग. ङ. कं चोप ।
- ↑ च. कृच्छ्रे द्वा ।
- ↑ क. न्धुमाती ।
- ↑ क. व्यं मूल्यं तुल्यं न ।
- ↑ क. व च" इ ।
- ↑ क. णे देया ।
- ↑ क. ताग्निनाशे । वि ।
- ↑ क. मन्यान्याय ।
- ↑ ग. ङ. च. र्थादीनि ।
- ↑ क. वारोळम् ।
- ↑ च. तौ--यावा ।
- ↑ ग. न्तं चान्द्रायणं सो ।
- ↑ क. व्रतं चा
- ↑ अत्र क. पुस्तके टिप्पण्याम् "गोक्षीरं सप्तरात्र तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् । स्तनत्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनमिति प्रायश्चित्तेन्दुशेखर उक्तम्" इति ।
- ↑ ग. ङ. च. कादीनां ।
- ↑ क. कान ।
- ↑ ड. च. द्यग्निकृ ।
- ↑ क. ख. सर्गको य ।
- ↑ क. ख. श्चेद्धौम्यद्र ।
- ↑ ग. ड. च. म्रकलशयु ।
- ↑ ख. स्य निचृदनुष्टुप् । द्वि ।
- ↑ ख. स्य पङ्क्तिः । तृ ।
- ↑ क. र्होमानु ।
- ↑ क. त्वं तथा पा ।
- ↑ क. व्य । अशक्तस्त्व ।