संस्काररत्नमाला (भागः १)/षष्ठं प्रकरणम्

विकिस्रोतः तः
               




   

अथ षष्ठं प्रकरणम् ।

अथ विकलाङ्गोपनयनम् ।

 तत्र ब्रह्मपुराणम्--

"ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स इति श्रुतिः ।
तस्मात्षण्ढान्धबधिरकुब्जवामनपङ्गुषु ॥
जडगद्गदरोगार्तशुक्लाङ्गविकलाङ्गिषु ।
उन्मत्ते च तथा मूके ध्वस्तपुंस्त्वे निरिन्द्रिये ॥
सर्वेष्वेतेषु संस्कारा भवेयुस्तु यथोचितम् ।
मूकोन्मत्तौ न संस्कार्याविति केचित्प्रचक्षते ॥
कर्मस्वनधिकाराच्च पातित्यं नास्ति चैतयोः ।
तदपत्यं च संस्कार्यमपरे त्वाहुरन्यथा ॥
संस्कारमन्त्रहोमादीन्करोत्याचार्य एव तु ।
उपनेयांश्च विधिवदाचार्यः स्वसमीपतः ॥
आनीयाग्निसमीपं वा सावित्रीं स्पृश्य वा जपेत् ।
कन्यास्वीकरणादन्यत्सर्वं विप्रेण कारयेत्" इति ॥

 गद्गदो गद्गदभाषी । रोगार्तोऽपस्मारादिरोगार्तः । शुक्लाङ्गः श्वेतकुष्ठादिमान् । विकलानि दुर्बलानि हीनानि वाऽङ्गानि यस्य सः । उन्मत्त उन्मादवान् । ध्वस्तं पुंस्त्वं यस्य सः । निर्गतमिन्द्रियं यस्य सः । आघातेन च्छिन्नेन्द्रिय इति यावत् । यथोचितमित्यनेन ये ये द्विजत्वनिष्पादका उचिता विहिताः संस्कारास्त एतेषामप्यशक्याङ्गहानेन कार्या इति सूच्यते । द्विज त्वनिष्पादका इति विशेषणदानेनाग्न्याधानादीनां स्थालीपाकानां च व्यावृत्तिः क्रियते । तेषां हि केवलं प्रत्यवायमात्रनिवर्तकत्वं न तु द्विजत्वनिष्पादकत्वम् । केचिदाचार्याः 'मूकोन्मत्तौ न संस्कार्यौ' इति वदन्ति । उपनयनाद्यैरिति शेषः । तेषामध्ययनासंभवेनाध्ययनार्थस्योपनयनस्याभावात् । उपनयनवत्काण्डव्रतादीनामप्यभावः । उन्मत्त उन्मादवान्विक्षिप्तचित्त इति यावत् । एतयोर्मूकोन्मत्तयोः कर्मसूपनयनादिकर्मस्वनधिकारादधिकाराभावात् । चकारोऽवधारणार्थः । कर्मस्वधिकाराभावादेव पातित्यं नास्तीत्यर्थः । द्वितीयश्चकारः समुच्चयार्थः । उपनयनादिकर्माणि न सन्ति पातित्यं च नास्तीत्येवं समुच्चयः । मूकोन्मत्तयोः कर्मस्वनधिकारात्पातित्यमिति नास्ति किंतु'ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः सः' इति श्रुत्या ब्राह्मणादुत्पन्नयोर्मूकोन्मत्तयोरप्युपनयनादिसंस्कारार्हत्वप्रतिपादनात्तावपि संस्कार्यौ तदपत्यं च संस्कार्यमित्यपरे । अन्यथा 'न संस्कार्यो' इति कैश्चिदाचार्यैरुक्तं तद्विपरीतमेतादृशमर्थमाहुः । 'संस्कारमन्त्रहोमादीन्करोत्याचार्य एव तु' इत्यत्र कुमारं स्पृष्ट्वेति शेषः । संस्कारमन्त्राः कु(न्त्रान्कु)मारकर्तृकसंस्कारमन्त्रपठनं होमादिकर्माणि चाऽऽचार्य एव कुर्यात् । उपनयने कुमारकर्तृकहोमाभावाद्धोमशब्देन समिदभ्याधानं गृह्यते । आदिशब्देन मार्जनोपस्थानादिकाण्डव्रतानां लोप एव । तेषामध्ययनाङ्गत्वात् ।

 न चैवमुपनयनस्याप्यध्ययनार्थत्वान्मूकोन्मत्तविषये लोपोऽस्त्विति वाच्यम् । तस्य द्विजत्वसंपादनद्वाराऽध्ययनार्थत्वेनाध्ययनासंभवेऽपि द्विजत्वसंपादनायावश्यमपेक्षितत्वात् । एवं गोदानमपि भवत्येव । तस्याध्ययनाङ्गत्वाभावात् ।

 विवाहसंभवे समावर्तनमपि कंचित्कालं व्रताचरणं कृत्वोत्तरायणे कार्यम् । विद्यास्नानोभयस्नानयोरभावाद्व्रतस्नानमेव तयोः । विवाहासंभवे तु तस्य नैष्ठिकब्रह्मचर्यमेव । कलौ यो नैष्ठिकब्रह्मचर्यनिषेधः स मूकोन्मत्तत्वदोषरहितपुरुषपरः । 'उपनेयांस्तु विधिवदाचार्यः स्वसमीपतः' इत्यस्यार्थः--उपनेयान्पूर्वोक्तषण्ढादीन्विधिवत्स्वगृह्योक्तप्रकारेणाऽऽचार्यः स्वसमीपतः स्वाभिमुखान्कुर्यादिति । 'आनीयाग्निसमीपं वा सावित्रीं स्पृश्य वा जपेत्' इत्यस्यार्थः--अग्निसमीपं वाऽग्न्यभिमुखान्वा कुर्यात् । पूर्वत्राऽऽचार्यः स्वाभिमुखान्कुर्यादित्युक्तं तत्रेदं पक्षान्तरम् । 'सावित्रीं स्पृश्य वा जपेत्' इत्यत्रत्यो वाशब्दः प्रसिद्धेन सावित्रीवाचनेन सह विकल्पार्थः । स च योग्यतानुसारेण व्यवस्थितो ज्ञेयः । कुमारस्य मूकत्वे स्पर्शपूर्वकः सावित्रीजपः । उन्मत्तत्वे यदि पठति तदा वाचनं नो चेत्स्पृष्ट्वा जप इति । षण्ढत्वान्धत्वादौ तु वाचनमिति व्यवस्था । सावित्रीं स्पृश्य वा जपेदित्यत्र स्पृश्य वा सावित्रीं जपेदित्यन्वयः । स्पृश्येत्यत्र कुमारमिति शेषः । स्पृश्येत्यत्र समासाभावेऽपि क्त्वोल्यबादेशश्छान्दसः । एवं कुमारकर्तृकसंस्कारमन्त्रपठनविधितदीयहोमादिकरणविधी व्यवस्थितौ ज्ञेयौ । पूर्वविधिः कुमारस्य मूकत्वे ज्ञेयः । उत्तरविधिस्तु कुमारस्याङ्गवैकल्ये । उन्मत्तत्वे पूर्ववत् । उपनेयांस्तु विधिवदित्याद्यग्निसमीपं वेत्यन्तं सर्वेषु समानम् । मूकबधिरादौ को नामासीति नामप्रश्नोऽपि नास्त्ययोग्यत्वान्न नाम पृच्छतीति बोधायनोक्तेश्च । अन्यदङ्गजातं यथासंभवं कार्यम् । मूकोन्मत्तयोरुपनयनेऽस्य द्विजत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमाचार्यपैतृकसावित्रीमातृकमुपनयनाख्यसंस्कारं करिष्य इति संकल्पवाक्यम् ।

इति विकलाङ्गोपनयनम्।

अथ पुनरुपनयनम् ।

 तच्च त्रिविधम् । प्रत्यवायनिमित्तप्रायश्चित्तत्वेन विहितं निमित्तविशेषेण कृतोपनयनस्य वृथाचेष्टात्वापत्तौ तत्फलार्थत्वेन विहितं वेदान्तराध्ययनचिकीर्षायां तदर्थत्वेन विहितं च ।

 तत्राऽऽद्यं प्रयोगपारिजाते शातातपः--

"लशुनं गृञ्जनं जग्ध्वा पलाण्डुं च तथा शु[१]नम् ।
उपनायं पुनः कुर्यात्तप्तकृच्छ्रं तथैव च" इति ॥

 लशुनः प्रसिद्धः । ( [२]स च श्वेत एव निषिद्धः ।

 तथा च पराशरः--

"पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने" इति ।

 श्वेतपदं लशुनवृन्ताकाभ्यामपि संबध्यते । तेन रक्तलशुनकृष्णवृन्ताकभक्षणे न प्रायश्चित्तमिति माधवः । ) गृञ्जनं लशुनतुल्यः कन्द इति विज्ञानेश्वरः । यदीयं चूर्णं गायकाः कण्ठशुद्ध्यै विटाश्च मदार्थमश्नन्ति स पत्रविशेष इति माधवः।  ([३]माधवीये श्राद्धप्रकरणे तु--

 "श्वेतकन्दः पलाण्डुविशेषो गृञ्जनम् ।

'लशुनो दीर्घपत्रश्च पिष्टगन्धो महौषधः ॥
फरण्यश्च पलाण्डुश्च लतार्कश्च परारिका ।
गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः' ।

 इति सुश्रुतेनोक्तत्वात्" इत्युक्तम् ।

 मूलविशेषो वा गाजरापरपर्याय इत्यपि माधवेनोक्तम् ।

"गन्धाकृतिरसैस्तुत्यः सूक्ष्मनालः पलाण्डुना ।
सूक्ष्मनालाग्रपत्रत्वाद्भिद्यतेऽसौ पलाण्डुतः" ।

 इति वाग्भट्टटीकायां हेमाद्रौ बाष्पचन्द्रवचनमेव विनिगमकं त्विह परिभावनीयम् । परं तु गाजरापरपर्यायता वक्ष्यमाणेनैव दूषिता द्रष्टव्या । हेमाद्रावप्युत्तरत्र पलाण्डुविशेष एवेत्युक्तम् ।

 राजनिघण्टौ--

"रसेभो हि महाकन्दो गृञ्जनो दीर्घपत्रकः ।
पृथुपत्रः स्थूलकन्दो यवनेष्टो बलो हितः ॥

गृञ्जनस्य मधुरं कटुकन्दं नालमप्युपदिशन्ति कषायम् ।
पत्रतश्च यमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥

गाजरं पिण्डमूलं च पीतकन्दः समूलकम् ।
स्वादुमूलं सुपीतं च नागरं पीतमूलकम् ॥
गाजरं मधुरं रुच्यं किंचित्कटु कफापहम् ।
आध्मानकृमिशूलघ्नं दाहपित्तविनाशनम्" इति ॥

वैद्यके--

"गृञ्जनं शिखिमूलं च यवनेष्टश्च वर्तुलम् ।
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥
गृञ्जनं कटु उष्णं च कफवातरुजापहम् ।
रुच्यं च दीपनं हृद्यं दुर्गन्धि गुल्मनाशनम्" इति ॥ )
"विषदग्धेन शल्येन यो मृगः परिहन्यते ।
अभक्ष्यं तस्य तन्मांसं तद्धि गृञ्जनमिष्यते" इत्यपरार्कः ।

 यत्तु हेमाद्रिः--गाजराख्यं मूलं गृञ्जनमित्याह, यच्च माधवः-- मूलविशेषो गाजरापरपर्यायो गृञ्जनमित्याह, तदुभयमपि न ।

"गृञ्जनं चुक्रिकां चुक्रं गाजरं पोतिकां तथा" ॥

 इति ब्राह्मे पृथङ्निर्देशानुपपत्तेः । चुक्रिका 'चुक्का' इति भाषया प्रसिद्धा । चुक्रमत्यम्लं दधि । पोतिका 'पोई' इति प्रसिद्धा । एतच्च पुनरुपनयनं बुद्ध्या भक्षणे । अबुद्ध्या भक्षणे तु तप्तकृच्छ्रमात्रम् ।

"छत्राकं लशुनं चैव पलाण्डुं गृञ्जनं तथा ।
चत्वार्यज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेद्द्विजः" इति बृहस्पत्युक्तेः ।

 पलाण्ड्वाद्येकनाश्यरोगे तु नैष दोषः ।

 तथा च पलाण्ड्वाद्यनुवृत्तौ सुमन्तुः--

"एतान्येवाऽऽतुरस्य भिषक्क्रियायामप्रतिषिद्धानि" इति ।

 गौतमः--

"उष्ट्रीक्षीरमानुषीक्षीरप्राशने पुनरुपनयनं तप्तकृच्छ्रं च" इति ।

 प्राशनाभ्यास एतदिति शूलपाणिः । ([४]अविखरोष्ट्रीक्षीरप्राशने पुनरुपनयनं तप्तकच्छ्रं चेति ) ।

 स्मृत्यन्तरे--

"रेतोमूत्रपुरीषाणां गौडीमाध्व्योश्च भक्षणे ।
क्रव्यादपशुविष्ठानां संस्काराच्छुद्धिरिष्यते" इति ।

 मनुः--

"अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च ।
पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः" इति ॥

 एतदतीतसुरासंपर्कविषयम् । तप्तकृच्छ्रपूर्वकश्चैष विधिर्ज्ञेयः । तप्तकृच्छ्रपूर्वकं पुनःसंस्कारं प्रकृत्य 'मूत्रपुरीषकुणपरेतसां प्राशने चैवम्' इति गौतमोक्तेः ।

 बृहस्पतिः--

"रेतोमूत्रपुरीषाणां शुद्ध्यै चान्द्रायणं चरेत्" इति ।

 रेतोमूत्रपुरीषाणामित्यनन्तरं प्राशन इति शेषः । अत्र चान्द्रायणतप्तकृच्छ्रयोर्ज्ञानाज्ञानाभ्यां व्यवस्था ज्ञेया । संस्कारस्तूभयत्र तुल्य एवेति शूलपाणिः ।

 पाद्मे--

"प्रेतशय्याप्रतिग्राही पुनःसंस्कारमर्हति" इति ।

 स्मृत्यन्तरे--

"सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति" इति ।

 एतच्च तीर्थयात्रां विना गमने ।

"तीर्थयात्रां विना गत्वा पुनःसंस्कारमर्हति" इति बौधायनोक्तेः ।

 मार्कण्डेयः--

"खरमारुह्य विप्रस्तु योजनं यदि गच्छति ।
तप्तकृच्छ्रत्रयं प्रोक्तं शरीरस्य विशोधनम् ॥

पुनर्जन्म प्रकुर्वीत घृतगर्भविधानतः ।
जातकर्मादिसंस्कारैः संस्कृतः शुद्धिमाप्नुयात्" इति ॥

शाकलः--

"यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् ।
पुनस्तस्य क्रियाः कार्याः शिखाया वापनेन च ॥
आदौ तु विधिना त्र्यब्दं प्रायश्चित्तं समाचरेत्" इति ।

 हेमाद्रौ प्रायश्चित्तकाण्डे वृद्धगौतमः--

"खरमुष्ट्रं च महिषमनड्वाहमविं तथा ॥
बस्तमारुह्य मुखजे क्रो[५]शे चान्द्रं विनिर्दिशेत्" इति ॥

 मुखजो विप्रः । चान्द्रं चान्द्रायणम् ।

 मनुः--

"चाण्डालान्नं द्विजो भुक्त्वा सम्यक्चान्द्रायणं चरेत् ।
बुद्धिपूर्वे तु कृच्छ्राब्दं पुनःसंस्कारमेव च" इति ॥

 अभ्यासविषयमेतदिति मदनरत्ने ।

पराशरः--

"यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः ।
अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥
स चरेत्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ।
जातकर्मादिभिः सर्वैः संस्कारैः शुद्धिमाप्नुयात्" इति ॥

 भारद्वाजीयपितृमेधसूत्रे--

 "यद्येतस्मिन्कृत आगते घृतकुम्भादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रं व्रतं चरित्वा तयैव जाययाऽग्नीनादधीत व्रात्येन पशुना वा यजेत गिरिं गत्वाऽग्नये कामायेष्टिं निर्वपेदीप्सितैः क्रतुभिर्यजेत" इति ।

 एतस्मिन्कृते, उत्तरकर्मणि कृते । व्रात्येन व्रात्यस्तोमेन । पशुनैन्द्राग्नेन ।

वृद्धमनुः--

"जीवन्यदि समागच्छेद्घृतकुम्भे निमज्जयेत् ।
उद्धृत्य स्नापयित्वाऽस्य जातकर्मादि कारयेत् ॥
व्रतचर्या द्वादशाहं त्रिरात्रमथवाऽस्य तु ।
स्नात्वोद्वहेत्ततो भार्यामन्यां वा तदभावतः ॥
अग्नीनाधाय विधिवद्व्रात्यस्तोमेन वै यजेत् ।
अथैन्द्राग्नेन पशुना गिरिं गत्वा च तत्र तु ॥
इष्टिमायुष्मतीं कुर्यादीप्सितांश्च क्रतूंस्तथा" इति ।

 तदभावतस्तदभाव इत्यर्थः ।

 ममौर्ध्वदेहिकजनितानिष्टदोषनिबर्हणपूर्वकपुनर्गृहस्थाश्रमसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं तामेव स्त्रियमुद्वहिष्य इति संकल्पः[६] । न वा पुनर्गृहस्थाश्रमसिद्धिद्वारेति । देवपित्रर्णानपाकरणे तु देवपित्रर्णापाकरणसिद्धिद्वारेत्यपि वक्तव्यम् । यदि पूर्वस्त्रिया अभावस्तदा स्वोद्वाहं करिष्य इति प्रीत्यर्थमित्यनन्तरं वदेत् । नात्र पित्रादिकर्तृकं दानम् । पूर्वोढायामेतस्यां भार्यायां मदुपभोगार्हतासिद्धिद्वारैतस्मिन्नग्नावौपासनत्वसिद्धिद्वारा चेति विवाहहोमसंकल्पवाक्यम् । स्त्र्यन्तरपरिणये तु विवाहसंकल्पः प्रथमविवाहसंकल्पवदेव । विवाहहोमोत्तरं गृहप्रवेशस्थालीपाकश्चतुर्थीकर्म च ।

 ब्रह्मचारिणं पुरस्कृत्य पैठीनसिः--

"मधुमांसाशने त्रिरात्रमुपवासः पुनरुपनयनं च" इति ।

 अयं च त्रिरात्रोपवासः प्राजापत्याशक्तस्येत्युक्तं मदनरत्ने । 'एतयोरमत्या भक्षणे कृच्छ्रो मत्या पराकः । अभ्यासे द्विगुणं पुनःसंस्कारश्च' इति स्मृत्यर्थसारे । तथा तत्रैव-- 'मातापितृगुर्वाचार्योपाध्यायेभ्योऽन्यप्रेतसंस्कारे ब्रह्मचारिणः पुनरुपनयनं कार्यम्' इति । अपरार्केऽप्येवम् । तथा-- 'रेतोविण्मूत्रकरनिर्मथितदधिबहिर्वेदिपुरोडाशभक्षणानामत्यभ्यासेऽतिकृच्छ्रः पुनरुपनयनं च' इति । बहिर्वेदिपुरोडाशभक्षणं लौकिकपुरोडाशभक्षणमिति केचित् । ऋत्विग्व्यतिरिक्तकर्तृकसंस्कृतपुरोडाशभक्षणमेव लौकिकपुरोडाशभक्षणम् । तथा च लौकिकं च तत्पुरोडाशभक्षणं चेत्येवमेव समासोऽत्रेत्यन्ये । पुरोडाशशब्दस्य विहितसंस्कारपूर्वकाकारविशिष्टद्रव्यवाचित्वादुत्तरकल्प एव श्रेयान् । एतच्च ज्ञानतोऽज्ञानतस्तूपवासः ।

तथा च कौर्मे--

"शणपुष्पं शाल्मलीं च करनिर्मथितं दधि ।
बहिर्वेदि पुरोडाशं जग्ध्वा नाद्यादहर्निशम्" इति ॥

 स्मृत्यन्तरे--

"कर्मनाशाजलस्पर्शात्करतोयाविलङ्घनात् ।
गण्डकीबाहुतरणात्पुनः संस्कारमर्हति" इति ॥

 गौडास्तु--

"करतोयाजलस्पर्शात्कर्मनाशाविलङ्घनात्" ॥

इति पठन्ति । तन्न । दानधर्मेषु करतोयास्नाने प्राशस्त्योक्तेः ।

"करतोये सदानीरे सरिच्छ्रेष्ठेऽतिविश्रुते ।
आप्लावयसि पौराणां पापं हरकरोद्भवे" ॥

 इति स्मृतिदर्पणचन्द्रिकालिखितस्नानमन्त्राच्च ।

 स्मृतिमञ्जर्याम्--

"द्विजोऽकृतोपाकरणः समावर्तेत मोहतः ।
स प्राजापत्यपूर्वं तु पुनःसंस्कारमर्हति" इति ॥

 इत्थं विहिते प्रायश्चित्तार्थे पुनरुपनयने विशेषः पारिजातमदनरत्नयोः कश्यपेनोक्तः--

 "चीर्णप्रायश्चित्तः प्राच्यामुदीच्यां वा दिशि गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन्देशेऽग्निं प्रज्वाल्य ब्रह्मासनमास्तीर्य प्राक्प्रणीतेन विधिना पुनः संस्कारं कुर्यात्" इति ।

 ब्रह्मासनमास्तीर्येतिवचनं ब्रह्मनियमार्थम् । तेन नात्र दण्डादिभिर्ब्रह्मसिद्धिः । प्राक्प्रणीतेन प्रागुक्तेन विधिनेत्यर्थः ।

स्मृत्यन्तरे--

"मेखलाम(चा)जिनं वासो दण्डो भिक्षा व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि" इति ॥

 अथ द्वितीयं पुनरुपनयननिमित्तम्--तच्च पाणिभ्यां कुमारस्यांसाभिमर्शनपूर्वकसमीपानयनरूपप्रधानोपनयनविधायके सूत्रे मातृदत्तेनोक्तम्--

 "अत्राथशब्द इदं प्रधानकर्मैतस्य विस्मरणे सर्वं कर्माऽऽवर्तत इति ख्यापनार्थः" इति ।

 समयोद्योते स्मृत्यन्तरे--

"विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
[७]अनध्याये चोपनीतः पुनःसंस्कारमर्हति" इति ॥

 विनर्तुना वसन्तेनेति पृथगेकं पुनःसंस्कारे निमित्तम् । कृष्णपक्षगलग्रहापराह्णा इति निमित्तत्रयं च तथा । विनर्तुना वसन्तेनेति वसन्तलाभे सत्यन्यत्र करणे पुनःसंस्कारनिमित्तं नान्यदा । अन्यथा माघफाल्गुनज्येष्ठाषाढानां विधानं विरुद्धं स्यात् ।

 अथवा विनर्तुना वसन्तेनेत्येतस्य संनिहितत्वात्कृष्णपक्षशब्देऽन्वयः । तथा चायमर्थो भवति । वसन्तर्तुना विना कृष्णपक्ष उपनयने पुनःसंस्कारो नान्यदेति । कृष्णपक्षगलग्रहशब्दयोरप्यन्वय इति केचित् । गलग्रहशब्द एवान्वय इत्यन्ये ।  स्मृतिदर्पणे वसिष्ठः--

"पापांशकगते चन्द्रे अरिनीचस्थितेऽपि च ।
अपराह्णे चोपनीतः पुनःसंस्कारमर्हति" इति ॥

 अत्रापराह्णस्त्रेधाविभक्तदिनतृतीयांश इत्युक्तं मदनरत्ने ।

 अथ तृतीयं पुनरुपनयननिमित्तम्--एतच्च'सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मणम्' इति धर्मसूत्रव्याख्यानावसर उज्ज्वलाकृतोक्तम् 'उपनयने यत्सावित्र्या अनुवाचनं तन्मुखेन सर्वे वेदा अनुक्ता भवन्ति । अतोऽगृह्यमाणविशेषत्वादेकमेवोपनयनं सर्वार्थम्' इति ।

 अस्मिन्नर्थे शाट्यायनब्राह्मणमेव पठितम् । अथर्ववेदार्थं तु पृथगुपनयनं वचनात्कर्तव्यम् । तथा च तत्रैव श्रुतम् 'नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत' इति । अन्यत्रान्यवेदार्थम् । भृग्वङ्गिरसोऽथर्ववेद इति । त्रिविधे पुनरुपनयने द्वितीयतृतीययोः क्वचिदपि ग्रन्थे विशेषानुक्तेरविकृतं पुनरुपनयनं गार्हपत्याधानात्प्राक्सूर्योदयेऽविकृताधानवत् ।

प्रायश्चित्तभूतपुनरुपनयनप्रयोगः ।

 प्रायश्चित्तभूतपुनरुपनयने तूक्तेभ्यो वचनेभ्योऽनेकविशेषावगतेस्तत्प्रयोगो लिख्यते । तच्च यत्र प्रायश्चित्तसहितं विहितं तत्र पर्षदुपदिष्टविधिना प्रायश्चित्तं कृत्वा कार्यम् । यथोष्ट्रीक्षीरपानादौ । यत्र जातकर्मादिसंस्कारसहितं विहितं तत्र निमित्तानन्तरं करणपक्ष उदगयनवसन्ताद्यनालोच्यैव पर्षदुपदेशेन चौलान्तान्संस्कारान्कृत्वा कार्यम् । अन्यथोदगयनवसन्ताद्यावश्यकम् । तिथिनक्षत्रालोचनमात्रमेव वा । कालान्तरे पुनरुपनयनकर्तव्यतायामपि तावत्पर्यन्तं संध्यावन्दनं भवत्येव ।

"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इति वचनात् ।

 महापातकप्रकरणे--'सम्यक्संध्यामुपासीत' इति स्मृतेश्च महापातकिनोऽपि संध्यावन्दनकर्तव्यतायां सिद्धायां किमु वक्तव्यं तदन्यस्य । ब्रह्मयज्ञादिकं तु न भवत्यशुचित्वात्तथावचनाभावाच्च । पुनःसंस्कारार्हस्य तु कर्मलोपभयाद्रात्रावपि संस्कारो विहितो नान्यस्येति मुहूर्तमार्तण्डटीकायाम् । कर्ता च पितृसत्त्वे स एव । तदभावे पितामहपितृव्यादिः सपिण्डः । तदभावे यः कश्चिद्विद्वान्स्वशाखाढ्यः । पुनरुपनयनं यस्मिन्देशे तत्रैव जातकर्मादयः कार्याः ।

 अस्य कृतौर्ध्वदेहिकस्य पुनःसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातक र्मादीन्युपनयनान्तानि संस्कारकर्माणि करिष्य इति संकल्पः । एवं निमित्तान्तरेऽपि तत्तन्निमित्तोहेन संकल्पः ।

 ततः सर्वोद्देशेन स्वस्तिवाचनादि । श्मश्रूपपक्षवापनानन्तरं चौले केशवापनमिति विशेषो महद्व(हाव)यसः । विवाहसंकल्पतदर्थस्वस्तिवाचनादिकं तु संस्कार्येण स्वयमेव पृथक्कर्तव्यम् । यत्र तु पुनरुपनयनमात्रं प्रायश्चित्तत्वेन विहितं तत्र पर्षदुपदिष्टविधिना तदेव कार्यम् । तत्राऽऽचार्यः कृच्छ्रत्रयमग्निपवित्रमन्त्रजपपूर्वकं द्वादशसहस्रं द्वादशाधिकसहस्रं वा गायत्रीजपं कुर्यात् । संस्कार्यो निमित्तानन्तरोपनयन एतत्प्रायश्चित्तं न कुर्यादिति केचित् ।

 ततः कृतनित्यक्रिय आचार्यः पत्नीसत्त्वे सपत्नीको ग्रामात्प्राच्यामुदीच्यां वा दिशि गत्वा यत्र ग्राम्यपशुशब्दो न श्रूयेत तादृशं देशं यावत्पर्याप्तं संमार्जनोपलेपनाभ्यां शोधयित्वा तत्रोपविश्य स्वस्य दक्षिणतः संस्कार्यमुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणस्तीर्थयात्रां विना प्रत्यन्तादिदेशगमनजनितदोषनिरसनपूर्वकपुनःसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुनरुपनयनं करिष्य इत्येवं तत्तन्निमित्तानुसारेण संकल्पं कृत्वा गणपतिपूजनपुण्याहवाचनादिमण्डपदेवताप्रतिष्ठापनान्तं कुर्यात् । पुण्याहवाचने त्वग्निः प्रीयतामिति विशेषः ।

 ततो युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा कृतमङ्गलस्नानं संस्कार्यं भोजयित्वा वपनस्नाने कारयेत् । महद्व(हाव)यसः श्मश्रूपपक्षवापनानन्तरं केशवापनम् । ततः स्थण्डिलकरणादि । अन्वाधाने प्रायश्चित्तभूतपुनरुपनयनहोमकर्मणि या इत्यादि प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वाऽग्निं स्विष्टकृतं हुतशेषाज्याहुत्येत्यादि । पात्रासादनेऽहतवासोमेखलाजिनदण्डभिक्षापात्रव्यतिरिक्तानि पात्राण्यासादयेत् ।

 ततो ब्रह्माणं दक्षिणत उपवेश्य पवित्रकरणादिकपकादिपरिदानान्तम् । तत्राहतवासःपरिधापनमेखलाबन्धनाजिनोत्तरीयकरणानि न सन्ति । तत्तद्विधायके सूत्रेऽथशब्देन तत्तदभावस्य ज्ञापितत्वात् । नात्र जयाद्युपहोमाः ।

 ततोऽपरेणाग्निं कूर्चमित्यादिविधिना सावित्रीवाचनं कृत्वा सप्तपलाशसमिद्धोमादि । नात्र व्रतं, चरितत्वात् । भिक्षाचरणमपि न । तद्विधायकसूत्रेऽथशब्देन तदभावस्य ज्ञापितत्वात् । दण्डदानभिक्षामन्त्रदानयोः परस्परसंबन्धित्वेनैकसंबन्धिनिवृत्तावपरसंबन्धिनिवृत्तेरपि सिद्धेः । एतयोः परस्पर संबन्धित्वं तु दण्डं प्रदायेतिल्यपा सिद्धम् । प्रथम[८]वस्त्रदानमपि न । परिहितत्वात् । यदि ब्रह्मचारिणः समापितवेदस्य पुनरुपनयनं तदा संध्योपासनादिरूप एव कर्म कुर्वित्यत्रत्यकर्मशब्दस्यार्थ उपदेष्टव्यः । न तु गुरुशुश्रूषादिरूपवेदाध्ययनादिरूपावप्यर्थावुपदेष्टव्यौ ।

 यदि त्वब्रह्मचारिणः पुनरुपनयनं तदा समिध आधेहीत्यस्य वाक्यस्य लोपः । प्रथमोपनयनवत्र्यहमग्निधारणम् । अग्निकार्याधिकारी चेत्तदा समिध आधेहीत्यस्त्येव । उपनयनाग्नावग्निकार्यत्रिवृदन्नहोमो भवतः । वास्तुबलिर्नियतः । यस्मिन्नाश्रमे पुनरुपनयनं प्राप्तं तदाश्रमधर्माः कार्याः । यत्र तु पुनरुपनयनानन्तरमाश्रमान्तरस्वीकारस्तत्र जीर्णानि मेखलादीनि व्युदस्य नूतनानि धारयित्वा ब्रह्मचारिव्रतचर्यामुचितकालेन समाप्य विधिनाऽऽश्रमान्तरं स्वीकुर्यात् ।

इति संस्काररत्नमालायां विकलाङ्गोपनयनपुनरुपनयनप्रयोगः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिगणेशदीक्षि-
ततनूजभट्टगोपीनाथदीक्षितविरचितायां सत्याषाढ-
हिरण्यकेशिस्मार्तसंस्काररत्नमालायां पष्ठं
प्रकरणम् ॥ ६॥

  1. ख. ग. शुभम् ।
  2. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।
  3. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।
  4. धनुश्चिह्नान्तर्गतं सर्वपुस्तकेषु वर्तते । परं त्वधिकं लेखकप्रमादात्पतितं प्रतिभाति ।
  5. ग. क्रोशं ।
  6. घ. ङ. ल्पः । दैव ।
  7. अत्र प्रदर्शितार्थानुसारेण 'अपराह्णे' इति पाठोऽपेक्षितः
  8. क. ख. घ. ङ. मवास्यादा ।