संस्काररत्नमाला (भागः १)/द्वादशं प्रकरणम्
अथ द्वादश प्रकरणम् ।
अथ विवाहः ।
तत्रेदं गृह्यम्--
"समावृत्त आचार्यकुलान्मातापितरौ बिभृयात्ताभ्यामनुज्ञातो भार्या- |
उपनयनप्रभृति ब्रह्मचार्याचार्याधीनः सन्कृतविद्य आचार्यकुलात्समावृत्तः स्नातक इत्यर्थः । स मातापितरौ शुश्रूषयन्धान्याहरणादिना बिभृयात्पोषयेत् । मातापित्रधीनः स्यादित्यर्थः । स्नात इत्येतावत्येव वक्तव्ये समावृत्त आचार्यकुलादितिवचनं स्नातस्यापि विद्याया भूयःश्रुतार्थं पुनराचार्यकुल एव संवसेन्न मातापित्रोर्भरणमितिख्यापनार्थम् । ताभ्यां मातापितृभ्यामनुज्ञातो भार्यामुपयच्छेत्स्वी कुर्यात् । कीदृशीं सजातां सवर्णां समानाभिजनाम् । नग्निकां मैथुनार्हाम् । ब्रह्मचारिणीमकृतमैथुनाम् । समानं गोत्रं वरेण यस्याः सा सगोत्रा न सगोत्राऽसगोत्रा तामसगोत्राम् । सगोत्रत्वमसगोत्रत्वं च प्रवरकाण्डे वक्ष्यामः । ताभ्यामनुज्ञात इतिवचनमननुज्ञातस्य दारसंग्रहप्रतिषेधार्थम् । कृतदारस्यापि पितुरनुज्ञामन्तरेण नास्ति चोदितेषु कर्मसु प्रवृत्तिरिति व्याख्यातं मातृदत्तेन ।
माधवीये मनुः--
"गुरुणाऽनुमतः स्नात्वा समावृत्तो यथाविधि । |
विवाहस्य फलं देवपित्रर्णापाकरणम् । तथा च श्रुतिः-- 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा[१] जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी' इति ।
बौधायनोऽपि--
"प्रजाकामस्योपदेशः प्रजनननिर्वृत्ता समाख्येत्यश्विनावूचतुः--
'आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः । |
विज्ञायते च जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इत्येवमनृणसंयोगं वेदो दर्शयति बन्धनमृणमोक्षं प्रजायाश्चाऽऽयत्तं पितॄणां चानुकर्षशब्दश्च प्रजां दर्शयत्यनुत्सन्नप्रजावान्भवति यावदेनं प्रजाऽनुगृह्णीते तावदक्षय्यं लोकं जयति सत्पुत्रमुत्पाद्याऽऽत्मानं तारयति सप्तावरान्सप्त परान्षडन्यानात्मसप्तमान्सत्पुत्रमधीच्छाम इति यस्मात्प्रजासंतानमुत्पाद्य फलमवाप्नोति तस्मादात्मवान्प्रजामुत्पादयेदात्मनः फललाभाय तस्मात्सत्पुत्रं चोत्पा द्याऽऽत्मानमेवोत्पादयेदिति विज्ञायते चाऽऽत्मा वै पुत्रनामाऽसीत्येवं द्वितीय आत्मा जीवता द्रष्टव्यो यः पुत्रमुत्पादयति स तथा भवति तस्मान्नाऽऽत्मा क्वचिदक्षेत्रे समुत्स्रष्टव्य आत्मानमवमन्यते हि यथाऽऽत्मानमुत्पादयति स तथा भवति तस्मादादित एव क्षेत्रमन्विच्छेत्सवर्णं संस्कृतमुपदेशेन तस्मिन्दारे संयोगेन प्रजामुत्पादयेदौषधमन्त्रसंयोगेन च तस्योपदेशेन श्रुतिः सामान्येनोपदृश्यते सर्ववर्णेभ्यः फलवत्त्वात्" इति ।
प्रजेति समाख्याऽभिधा प्रजनननिर्वृत्ता प्रजननेनैव निर्वृत्ता निष्पादिता । प्रजाया इति षष्ठ्यन्तमध्याहार्यम् । प्रजाया एवेदं हेतुगर्भं विशेषणम् । यतः प्रजा पुत्रादिरूपा प्रजननेनैव निष्पादिताऽत एव प्रजेति । प्रजायाः प्रजननसंबन्धं विनोत्पत्तेरभावात्तस्य च क्षेत्रं विना सर्वथैवासंभवादवश्यं विवाहः कर्तव्य इति फलितोऽर्थः । युक्तो विहितकाल एवोपगमनेन । जितेन्द्रिय इत्यनेन ऋतुकालिकासु रात्रिषु प्रतिरात्र्यनेकवारं गमनं व्यावर्त्यते परस्त्रीगमनं च । जन्मत उत्पत्तेरारभ्य तानि ऋणानि विमुच्य दूरीकृत्य । विमुक्तोऽधर्मसंचयादित्यत्राधर्मसंचयादिति पदच्छेदः । ऋणापाकरणे कृतेऽधर्मसमुदायाद्विमुक्तो भवति । तत आत्मवानात्मस्वरूपलाभवान्भवतीत्यर्थः । पूज्येत्यत्र समासाभावेऽपि क्त्वो ल्यबादेशश्छान्दसः । स्वाध्यायेन स्वाध्यायोऽध्ययनं तत्साधनेन ब्रह्मचर्येणेत्यर्थः । सोमेन सोमद्रव्यवता यागेन । पुरंदरशब्दस्तत्तत्कर्मसंबन्धिदेवतोपलक्षकः । पुरंदर इन्द्रः । इन्द्रस्य भूयिष्ठभाक्त्वेन देवताधिपतित्वेन च मुख्यत्वाद्ग्रहणम् । पितॄन्सर्वानित्यत्र सर्वग्रहणं[२] देवपितॄणामपि ग्रहणार्थम् । एतेषां पूजनेनैतैः कर्मभिः संतर्पणेनानृणः सन्दिवि स्वर्गे मोदते हर्षयुक्तो भवति । लोकान्देवलोकान् । नाकः स्वर्गः । एतैस्त्रिभिः कर्मभिर्ऋणत्रयापाकरणं भवतीत्यत्र श्रुतिं दर्शयति-- विज्ञायते च जायमानो वा इत्यादिना । एवमेवंप्रकारेणानृणसंयोगमनृणसंयोगत्वं, नान्य उपाय ऋणत्रयापाकरणेऽस्तीति वेद एष वा अनृण इत्यादिरूपो दर्शयति बोधयति । बन्धनमृणमोक्षमित्येतत्पूर्वं स्वस्येति शेषः । ऋणानपाकरणं बन्धनम् । ऋणमोक्षमृणापाकरणम् । एतद्द्वयं प्रजाया आयत्तं प्रजाया अधीनम् । प्रजायां सत्यामृणमोक्षस्तस्यामसत्यां बन्धनमित्येतत्प्रजाया अधीनमिति तदर्थः । प्रजाया इत्येतदनन्तरभूतश्चशशब्दोऽवधारणार्थः । पितॄणां च पितॄणामपि । अनपाकृतर्णानां पितॄणामपि बन्धनमोक्षौ प्रजाया आयत्तौ भवत इत्यर्थः । प्रजायाश्चाऽऽयत्तमित्यनेन प्रजो त्पादनस्याधीनता दर्शिता । अनुकर्षशब्द एकांशभूतः शब्दः प्रजैकांशभूतः पुत्ररूपशब्दः प्रजां दर्शयति नतु केवलपुत्रमात्रं ब्रूते किंतु गौण्या वृत्त्या कन्यारूपां प्रजामपि ब्रूत इति । प्रजोत्पादने कृतेऽनुत्सन्नप्रजावान्भवति । प्रजोच्छेददोषो न भवतीति तात्पर्यार्थः । यावद्यावत्कालमेनं प्रजोत्पादकं प्रजाऽनुगृह्णीते तस्मिन्ननुग्रहं करोति तावत्कालमक्षय्यं लोकं जयति । बह्वी प्रजा जाता चेद्बहुकालमक्षय्यलोकजयः । स्वल्पा चेत्स्वल्पकालमक्षय्यलोकजय इत्यर्थः । पुत्रस्य समीचीनत्व एवाऽऽत्मनस्तारणं नान्यदिति सत्पदेन सूच्यते । केवलमात्मतारणमेव न, किं तु अन्येषामपि तारणमित्यस्मिन्नर्थे ब्रह्मवादिनां संमतिं दर्शयति सप्तावरानित्यादिनाऽधीच्छाम इत्यन्तेन । यतस्तरणं सत्पुत्राधीनमतस्तमेवाधीच्छाम इति ब्रह्मवादिन आहुरिति शेषः । उपसंहरति-- यस्मात्प्रजासंतानमित्यादिना । यस्मात्प्रजासंतानमुत्पाद्य फलं यथोक्तं फलमाप्नोति तस्मात्प्रजामवश्यमुत्पादयेत् । संतानशब्दः संततिवाचकः । संतानशब्दस्य पर्यायतां दर्शयितुं संतानवचनम् । अथवा संतानशब्दः प्रजाबाहुल्यावश्यकत्वं द्योतयितुम् । एष्टव्या बहवः पुत्रा इत्यस्ति चात्र स्मृतिरपि । फलं यथोक्तम् । आत्मवान्बलवान् । फललाभाय यथोक्तफललाभाय । यस्माद्विज्ञायते च--आत्मा वै पुत्रनामाऽसीतिश्रुतिस्तस्मात्सत्पुत्रं चोत्पाद्याऽऽत्मानमेवोत्पादयेदित्यन्वयः । ए[३]वमेवं च जीवता पुरुषेण पुत्रो द्वितीयः स्वस्याऽऽऽत्मैव द्रष्टव्यः । यो यथा पुत्रमुत्पादयति स तथा भवति । सत्पुत्रोत्पादने सन्नेव भवति । असत्पुत्रोत्पादने त्वसन्नेव । अक्षेत्रे स्वीयक्षेत्रातिरिक्ते निषिद्धे बलात्कारेणोपभुक्ते च क्षेत्रे । अक्षेत्रे यः पुत्र उत्पाद्यते स आत्मावमान एवं यस्मात्तस्मात्स्वक्षेत्रे यथोक्तकाल एवाऽऽत्मानमुत्पादयेत् । केवलमवमान एव न, किं तु निषिद्धक्षेत्रे पुत्रोत्पादने तद्रूपत्वमपीत्यर्थः । आदित आदौ विवाह एवं क्षेत्रं भार्यामनुलक्षीकृत्यैवेच्छेत्प्रजोत्पादनाय । अनेन परीक्षा संगृहीता भवति । सवर्णं सजातीयम् । आदित इत्यस्य प्रथममित्यर्थः। सार्वविभक्तिकस्तसिः । तेन क्षत्रियवैश्यजातीययोः कन्ययोरपि भार्यात्वेन संग्रहः सिद्धो भवति । उपदेशेन[४] विधिना विवाहविधिना संस्कृ[५]तं क्षेत्रम् । दारशब्दः पुंलिङ्गे वर्तते । एकवचनं छान्दसम् । तस्मिन्दारे सवर्णे संस्कृते संयोगेन संबन्धेन[६] विधिपूर्वकमैथुनेन । यदि संयोगे सत्यपि प्रजोत्पादनं न भवति तदौषधसंयोगमन्त्रसंयोगावपि कर्तव्यौ । संयोगः प्रयोगः । तस्यौषधमन्त्रसंयोगस्योपदेशेन वैद्यकमन्त्रशास्त्रोपदेशेनैव, ज्ञानमिति शेषः । श्रुतिर्जायमानो वा इत्यादिश्रुतिः सामान्येन समानानां भावः सामान्यं साधर्म्यं वेदाध्ययनवत्त्वरूपं तेन हेतुना सर्ववर्णेभ्यः सर्ववर्णार्था दृश्यते । "ब्राह्मणः क्षत्रियो वैश्यो वाऽपाकुर्यादृणत्रयम्" इत्यादिस्मृतिष्विति शेषः ।
यद्यपि जायमान इति श्रुतिर्ब्राह्मणत्व[७]पुरस्कारे[८]णैव दृश्यते तथाऽपि[९] वेदाध्ययनवत्त्वरूपसाधर्म्यमादाय सर्वव[१०]र्णेभ्यो भवति । सर्वेषां फलवत्त्वात्फलेच्छावत्त्वात् । अथवा जायमान इति श्रुतिः केवलं सामान्ये ब्राह्मणत्वजातिमात्रसामान्ये नोपदृश्यते नैव प्रवर्तते । किंतु ब्रह्म वेदस्तदध्ययनवत्सु त्रिषु । कुतः सर्ववर्णेभ्यः फलेच्छावत्त्वादिति ।
का परिणेयेत्याकाङ्क्षायामाह याज्ञवल्क्यः--
"अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् । |
लक्षण्यां बाह्याभ्यन्तरलक्षणैर्युक्ताम् । तान्यग्रे वक्ष्यन्ते । या दानेनोपभोगेन वा पुरुषान्तरपूर्विका न भवति साऽनन्यपूर्विका । अपुनर्भूरिति यावत् । मनोदत्ता वाचा दत्ताऽग्निं परिगता सप्तमं पदं नीता भुक्ता गृहीतगर्भा प्रसूता चेति सप्त पुनर्भ्वः । तत्राऽऽद्यानां तिसृणामन्येन परिणयनं भवतीत्यग्रे वक्ष्यते । कान्तां वरस्य चक्षुर्मनसोरानन्दकारिणीम् । असपिण्डां सापिण्ड्यरहिताम् । तत्र चन्द्रिकापरार्कमेधातिथिमाधवप्रभृतयः-- 'एकस्यां पिण्डदानक्रियायां दातृत्वपिडभाक्त्वलेपभाक्त्वान्यतरसंबन्धेनान्वयः सापिण्ड्यम्' इत्याहुः ।
तत्र मत्स्यपुराणम्--
"लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । |
मार्कण्डेयवचनमपि--
"पिता पितामहश्चैव तथैव प्रपितामहः । |
नन्वेवं भ्रातृपितृव्यमातुलभागिनेयादिभिस्तद्भार्यादिभिश्च सह सापिण्ड्यं न स्यादिति चेत् । न । उद्देश्यदेवतैक्येन क्रियैक्यस्यात्र विवक्षितत्वात् । तथा च देवदत्तकर्तृकपिण्डक्रियायां ये देवतात्वेनानुप्रविशन्ति तेषां मध्ये यः कोऽपि भ्रातृपितृव्यमातुलादिकर्तृकपिण्डक्रियायामप्यनुप्रविशतीत्यस्ति तैः सह सापिण्ड्यम् । भार्याणामपि भर्तृकर्तृकपिण्डदानक्रियायां सहाधिकारित्वात्सापिण्ड्यसिद्धिः।
ननु सहाधिकारसिद्धाविदं स्यात्तत्रैव किं मानमिति चेत् । न । पाणिग्रहणादि सहत्वं कर्मसु तथा पुण्यफलेषु चेति धर्मसूत्रवचनेन,
“तस्मात्साधारणो धर्मः श्रुतौ सर्वः सहोदितः "।
इति मनुवचनेनोद्वाहकाल एवानयोर्वचनेन द्रव्यसाधारण्यं प्रतिपादितम् । धर्मे चार्थे च कामे च नातिचरितव्येत्यनेन न ह्युभयसाधारणमेकेन त्यक्तुं शक्यते । तस्माद्द्रव्यसाधारण्यान्न भर्त्रा सह विभजेदिति विभागप्रतिषेधान्नास्ति भिन्नयोः कर्तृत्वमिति तत्ररत्नेन, सहत्वं कर्मस्विति सहग्रहणं न बलीवर्दवत्समानाधिकार इतिप्रदर्शनार्थम् । ततश्च भर्त्राऽसौ वक्तव्याऽहं दानादि वर्तयामि त्वमपि संकल्पं कुर्विति तयाऽपि तथैव कर्तव्यमन्यथा दोष इत्यपरार्केण, स्मृतिचन्द्रिकाहेमाद्रिमाधवादिभिश्च सहाधिकारस्य सिद्धान्तितत्वात् । न चैवमपि भगिनीपितृष्वस्रादिभिर्न स्यादिति शङ्क्यम् । अविभक्तभ्रातॄणां ज्येष्ठस्यैव कर्तृत्वेन कनिष्ठानां सापिण्ड्यसिद्ध्यर्थं योग्यताया इवात्रापि शरणीकर्तव्यत्वात् ।
ननु--"यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम्" ।
इतिवचनसिद्धगयाश्राद्धदेवतात्ववतां मित्रादीनाम्,
तथा--"सर्वाभावे तु नृपतिः कारयेत्तस्य रिक्थतः" ।
इतिमार्कण्डेयपुराणाद्राज्ञोऽपि श्राद्धकर्तृत्वेन सापिण्ड्यापत्तिरिति चेत्सत्यम् ।
'सप्तमात्पञ्चमादूर्ध्वं पितृतो मातृतस्तथा' इत्यादिवचनानुरोधेन पित्रादिसंबन्धिषु केषुचिदेव सपिण्डशब्दस्य योगरूढ्यङ्गीकारेणाऽऽपत्त्यभावात् । विज्ञानेश्वरमदनपारिजातकारप्रभृतयस्तु-- एकशरीरावयवान्वयरूपं सापिण्ड्यमाहुः । भवन्ति हि एकस्य पितुरेकस्या मातुर्वा शरीरस्यावयवाः पुत्रपौत्रादिषु साक्षा त्परम्परया वा शुक्रशोणितादिरूपेणानुस्यताः । विधात्रवयवान्वयातिप्रसङ्गपरिहारस्तु पूर्ववत्कर्तव्यः ।
"सप्तमात्पञ्चमादूर्ध्वं पितृतो मातृतस्तथा"
इत्येतस्य वचसो निष्कृष्टोऽर्थः शास्त्रान्तरवचनाज्ज्ञेयः--
"वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । |
यतः संतानभेदः स कूटस्थो मूलपुरुष इति यावत् । तमारभ्य वध्वा वरस्य वा तातः पिता सप्तमो यदि भवेत्तयोर्वधूवरयोर्यदि कूटस्थात्पञ्चमी माता भवेत्तदा सापिण्ड्यं निवृत्तं भवतीति । निर्गलितार्थस्तु पितृद्वारकसापिण्ड्यविचारे सप्तमादूर्ध्वं सापिण्ड्यनिवृत्तिः । मातृद्वारकसापिण्ड्यविचारे तु पञ्चमादूर्ध्वमिति ।
संगृहीतोऽयमर्थो विश्वरूपनिबन्धे--
"एवमुक्तप्रकारेण सप्तमात्पितृतस्तथा । |
अत्रोदाहरणं यथा--कूटस्थो मूलपुरुषो देवदत्तः १ तत्पुत्रो ब्रह्मदत्तः २ तत्पुत्रो विष्णुदत्तः ३ तत्पुत्रः शिवदत्तः ४ तत्पुत्रो मित्रदत्तः ५ तत्पुत्रो हरदत्तः ६ तत्पुत्रो यज्ञदत्तः ७ तत्पुत्रः श्रीदत्तोऽष्टम इति पितृद्वारकं सापिण्ड्यं वरविषये ।
मूलपुरुषो देवदत्त एव १ [११]तत्पुरुषो मातृदत्तः २ तत्पुरुषो रुद्रदत्तः ३ तत्पुरुषो भानुदत्तः ४ तत्कन्या श्रीदेवी ५ तत्कन्या श्रीदत्तभक्ता । इति मातृद्वारकसापिण्ड्यं वधूविषये ।
अत्राष्टमः श्रीदत्तः षष्ठीं श्रीदत्तभक्तामुद्वहेत् । मूलपुरुषमारभ्य मध्ये कन्यासंततावप्येवमेव । वैपरीत्येऽप्येवम् ।
यत्तु वसिष्ठः-- "पञ्चमीं सप्तमीं चैव मातृतः पितृतस्तथा" इति ।
उद्वहेदिति शेषः । यच्च विष्णुपुराणम्--
"पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । |
तत्पञ्चमीं सप्तमीमतीत्येति व्याख्येयम् । सप्तमात्पञ्चमादूर्ध्वं, वध्वा वरस्य वा तात इत्यादिवचनानुरोधात् ।
“पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया । |
इत्यपरार्के मरीचिवचनाच्च ।
यत्तु षट्त्रिंशन्मते--
"तृतीयां मातृतः कन्यां तृतीयां पितृतस्तथा । |
यदपि पैठीनसिः--
"त्रीनतीत्य मातृतः पञ्चातीत्य पितृतः" इति ।
यदपि स्मृत्यर्णवे वचनं--
"कन्या चतुर्थी च वरश्च पञ्चमो वरश्चतुर्थो न तु पञ्चमीं वहेत् । |
यदपि पराशरवचनं--
"चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्चमोऽपि वा । |
यान्यपि शाकलवचनानि--
"चतुर्थीमुद्वहेत्कन्यां चतुर्थः पञ्च[१२]मीं च वा । |
"दशभिः पुरुषैः ख्याताच्छ्रोत्रियाणां महाकुलात् । |
इति चतुर्विंशतिमते दशपुरुषविख्यातश्रोत्रियकुलविषय एव सप्तम्यादीनामप्युद्वाह्यत्वोक्तेस्तत्पराण्येतानि वचनान्यत्यन्तापद्विषयाणि वेति ज्ञेयम् ।
संबन्धविवेके शूलपाणिः--
"पञ्चमात्सप्तमाच्चार्वागपि त्रिगोत्रान्तरिता विवाह्या । |
'असंबन्धा भवेन्मातुः पिण्डेनैवोदकेन वा । |
इति बृहन्मनूक्तेः ।
संनिकर्षेऽपि कर्तव्यं त्रिगोत्रात्परतो यदि'
इति देवलोक्तेश्च" इति ।
अस्योदाहरणम्--मूलपुरुषो यज्ञदत्तः १ तत्पुत्रो विष्णुदत्तः २ तत्पुत्रो रुद्रदत्तः ३ तत्पुत्रो ब्रह्मदत्तः ४ तत्पुत्रो हरदत्तः ५ तत्पुत्रो मित्रदत्तः ६ तत्पुत्रः शिवदत्तः ७ तत्पुत्रः श्रीदत्तः ८ इति वरविषये ।
वधूविषये मूलपुरुषो यज्ञदत्तः १ तत्कन्या लक्ष्मी वासिष्ठा २ तत्कन्या सरस्वती नितुन्दगोत्रा ३ तत्कन्या गौरी कौण्डिन्या ४ तत्कन्या श्रीदत्तभक्ता ५ श्रीदत्तेनेयं विवाह्या । एतच्च दाक्षिणात्या न मन्यन्त इति नवीनाः ।
वस्तुतस्तु--
"पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया । |
इति निषेधवाक्यविरोधादिदमप्यापद्विषयमेवेति युक्तम् ।
चतुर्विंशतिमते--
"असपिण्डा च या मातुरसगोत्रा च या पितुः । |
"सापत्नमातुर्भगिनीं तत्सुतां च विवर्जयेत्[१३] । |
अन्योऽपि विशेषः--
"धात्रीपुत्रीं धात्रीभगिनीमिष्टपुत्रीमिष्टभगिनीमिष्टमातुलसुतां ज्येष्ठ- |
गृह्यपरिशिष्टेऽपि--अथ विवाह इत्युपक्रम्याविरुद्धसंबन्धामुपयच्छेतेत्युक्त्वा दंपत्योर्मिथः पितृमातृसाम्ये विरुद्धसंबन्धो यथा भार्यास्वसुर्दुहिता पितृव्यपत्नीस्वसा चेति ।
अस्यार्थः--यत्र दंपत्योर्वधूवरयोः पितृमातृसाम्यं वध्वा वरः पितृस्थानीयो भवति वरस्य वा वधूर्मातृस्थानीया भवति तादृशो विवाहो विरुद्धसंबन्धः । तत्र यथाक्रममुदाहरणद्वयम् । भार्यास्वसुर्दुहिता शालिकापुत्री, पितृव्यपत्नीस्वसा पितृव्यपत्नीभगिनी चेति । विरुद्धसंबन्धविषय उदाहरणान्तरमपि द्रष्टव्यम् ।
नारदः--
"प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम् । |
स्वस्य कन्या यस्य पुत्राय दत्ता तत्कन्यकायाः स्वपुत्रेण परिणयनं प्रत्युद्वाहः ।
सुमन्तुः--
"पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो |
अत्र च यावद्वचनं वाचनिकमिति न्यायात्परिगणितेष्वेव सापिण्ड्यं न तु सप्तमादिपर्यन्तमिति केचित् ।
अन्ये तूद्देश्यतावच्छेदकानां पितृपत्नीत्वतद्भ्रातृत्वादीनां भेदेन वाक्यभेदात्तन्निवृत्त्यै लक्षणंया सपत्नमातामहकुले चतुष्पुरुषं सापिण्ड्यमातिदेशिकं विधीयते । अतश्च मातुलादिदुहितृष्विव तत्पुत्रष्वेपि सापिण्ड्यात्कन्यायाः सापत्नमातुलपुत्रेण न विवाह इत्याहुः ।
मातुलकन्यापरिणयनं तु येषामाचारस्तेषामेवेतरः कुर्वन्दुष्यति ।
तथा च बौधायनः--"पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतो यानि
- दक्षिणतस्तान्यनुव्याख्यास्यामो यथैतदनुपेतेन सह भोजनं स्त्रिया सह
- भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृगमनमित्यथोत्तरत ऊर्णावि-
- क्रयः सीधुपानमुभयतोदद्भिर्व्यवहारः सायुधीयकं समुद्रयानमिति
- तत्रेतर इतरस्मिन्कुर्वन्दुष्यति तत्तद्देशप्रामाण्यात्" इति ।
- दक्षिणतस्तान्यनुव्याख्यास्यामो यथैतदनुपेतेन सह भोजनं स्त्रिया सह
इतरो दाक्षिणात्य इतरस्मिन्नुत्तरदेशे मातुलसंबन्धं कुर्वन्दुष्यति न स्वदेशे । तथेतर उदीच्य इतरस्मिन्दक्षिणदेश ऊर्णाविक्रयसीधुपानादिकं कुर्वन्दुष्यति न स्वदेशे । कुतः । देशप्रामाण्याद्देशनिबन्धनत्वादाचारप्रामाण्यस्येत्यर्थः ।
बृहस्पतिरपि--
"उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः । |
देवलोऽपि--
" यस्मिन्देशे त्वनाचारो न्यायदृष्टः सुकल्पितः । |
ननु शिष्टाचारप्रामाण्ये स्वदुहितृविवाहोऽपि प्रसज्येत प्रजापतेराचरणात् । तथा च श्रुति:-"प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत्" इति । मैवम् ।
"न देवचरितं चरेत्" इति न्यायात् ।
अत एव बौधायनः--
"अनुष्ठितं तु यद्देवैर्मुनिभिर्यदनुष्ठितम् । |
प्रत्युत दोषोऽभिहितः शातातपेन--
"मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । |
"इत्थं सगोत्रसंब[१५]द्धविवाहविषये स्थिते । |
ऐन्दवानि चान्द्रायणानि । बहुवचनात्त्रीण्यधिकानि वा । क(का)श्यप इत्यत्र स गर्भः क(का)श्यपः कश्यपगोत्रो भवति ।"सर्वाः काश्यप्यः प्रजाः" इति श्रुतेरित्यर्थः ।
एतदर्थमेव प्रवरज्ञानमावश्यकमित्युक्तं तेनैव--
"ज्ञातव्याः प्रवरा ब्रह्मसायुज्यश्रुतितोऽन्यथा । |
तिथितत्त्वे बौधायनः--
"सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्" इति ॥
तस्यां प्रजोत्पादने प्रायश्चित्तमाह स एव--
"प्रजा जाता चेत्कृच्छ्राब्दपादं चरित्वा यन्म आत्मनो मिन्दाभू- |
एतच्चाज्ञानतः पूर्वममत्येत्युपक्रमात् । ज्ञानोत्तरं भोगे तां परित्यजेत् । कृच्छ्राब्दपादस्यैन्दवानां च शक्ताशक्तत्वेन व्यवस्था द्रष्टव्या । मत्या तु गुरुतल्पव्रताच्छुद्धिः ।
सपिण्डायामपत्योत्पादने बृहद्यमः--
"सपिण्डापत्यदारेषु प्राणत्यागो विधीयते" इति ।
अपत्ययुक्ता दारा अपत्यदाराः । सपिण्डाश्च ताश्च ताः (ते च ते ) तेषु ।
मण्डनोऽप्याह--
अत एव मनुः--
"यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । |
यस्याः पिता पुत्रिकाकरणाभिप्रायवानिति न ज्ञायेत तां नोपयच्छेत । यत्र तु नैवाऽऽशङ्का तामभ्रातृकामप्युपयच्छेतेत्यभिप्रायः । न विज्ञायेत वा पितेत्युक्तेर्वरेण सह संप्रतिपत्तिं विनाऽपि पितुः संकल्पमात्रात्कन्या पुत्रिका भवतीति गम्यते ।
अत एव गौतमः--
"अभिसंधिमात्रात्पुत्रिकेत्येकेषां तत्संशयान्नोपयच्छेदभ्रातृकाम्" इति । |
अभिसंधिगूढसंकल्पः ।
मनुरपि--
"अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । |
वरेण सह संप्रतिपत्तौ पुत्रिकाकरणं स्पष्टमेव विज्ञायते ।
सा च संप्रतिपत्तिर्वसिष्ठेन दर्शिता--
"अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । |
अयं च तद्दानमन्त्रः । अस्याश्च पुत्रिकायाः स्वपित्रादिभिः सह सापिण्ड्यसगोत्रत्वानिवृत्तिः ।
अत एव लौगाक्षिः--
"मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाः । |
तदेवं तात्पर्यम्--पुत्रिकां शङ्कमानः पुत्रार्थी भ्रातृमतीमेवोपयच्छेतेति । एतच्च कलौ निषिद्धं कलिवर्ज्ये पाठात् ।
असमानार्षगोत्रजामिति । समाने आर्षगोत्रे यस्य तज्जाता या न भवति साऽसमानार्षगोत्रजा ताम् । ऋषेरिदमार्षं प्रवरः । असमानप्रवरजामसमानगोत्रजां चेत्यर्थः । यस्या वध्वा येन वरेण सह प्रवरैक्यं गोत्रैक्यं वा नास्ति सा वधूस्तेन सह विवाहमर्हति । क्वचिद्गोत्रभेदेऽपि प्रवरैक्यमस्ति । तद्यथा--वाधूलमौनमौकादीनां भिन्नगोत्राणां भार्गववैतहव्यसावे[१८]द[१९]सेति प्रवरस्यैक्यात् । तत्र विवाहप्रसक्तौ तद्व्यवच्छेदायासमानार्षजामित्युक्तम् । क्वचित्प्रवरभेदेऽपि गोत्रैक्यम् । तद्यथा--आङ्गिरसाम्बरीषयौवनाश्वेति मांधात्राम्बरीषयौवनाश्वेत्यत्राऽऽङ्गिरसमांधातृप्रवरभेदेऽपि यौवनाश्वगोत्रमेकम् । अतस्तत्र विवाहो मा भूदित्यसमानगोत्रजामित्युक्तम् ।
अथ गोत्रप्रवरनिर्णयः ।
तत्र बौधायनः--
"विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । |
अत्रापत्यपदं केवलपुत्रापत्यपरं न भवति किंतु पौत्रादिपरमपि । अत एव पाणिनिः--' 'अपत्यं पौत्रप्रभृतिगोत्रम्" इत्याह ।
ननु केवलभृगुगणेषु यस्कादिषु केवलाङ्गिरोगणेषु हरितादिषु च सप्तर्ष्यपत्यत्वाभावाद्गोत्रत्वं न स्यादिति चेन्न ।
"एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । |
इति बौधायनोक्तपर्युदासानुपपत्त्या तत्सिद्धेः । प्राप्तिसंभावनायां हि पर्युदासो भवति । यथा यजतिषु ये यजामहं करोतीति सामान्यवाक्यादनूयाजेषु ये यजामहप्राप्तिसंभावनायां नानूयाजेष्वित्यनेनानूयाजव्यतिरिक्तेष्वित्येवं पर्युदासः क्रियते तथाऽत्रापीति । सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमिति सूत्रं तु न लक्षणप्रदर्शकं किंतु अयोगव्यावृत्तिमात्रप्रदर्शकमिति न पूर्वोत्तरसूत्रविरोधः । अत एव विज्ञानेश्वरमाधवमदनपारिजातादिषु गोत्रं वंशपरम्पराप्रसिद्धमित्युक्तम् ।
उक्तं च भट्टपादैरपि--समानेऽपि ब्राह्मण्ये कुण्डिनोऽत्रिरितिस्मरणलक्षणं गोत्रमिति । एवं च यत्राभियुक्तानां गोत्रत्वप्रसिद्धिस्तद्गोत्रमित्येव निर्दुष्टं गोत्रलक्षणं मन्त्रत्वादिवत्सिद्धं भवति । एतेन वसिष्ठादीनां गोत्रत्वानुपपत्तिः, अस्मदादीनां परम्परया तदपत्यत्वेन गोत्रत्वापत्तिश्च परिहृता भवति । यानधिकृत्य प्रवरा आम्नातास्तादृशा गणा ऊनपञ्चाशत् ।
तथा च बौधायन:--
"गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । |
अथ प्रवराः ।
तत्र प्रवरसूत्रस्य प्राचीनव्याख्यानानुपलम्भात्तद्व्याख्यानसहितं प्रवरसूत्रं प्रदर्श्यते । तत्र प्रतिज्ञासूत्रमिदं--'प्रवरान्व्याख्यास्यामः' इति । एतच्च प्रतिज्ञानमग्रिमाणां भार्गवच्यावनाप्नवानौर्वजामदग्न्येत्यादीनां प्रवर इतिसंज्ञासिद्ध्यर्थम् । प्रव्रियन्तेऽग्नेर्विशेषणत्वेनोत्कीर्त्यन्त इति प्रवराः । तान्व्याख्यास्याम एकत्र संगृह्य कथयिष्यामः । अग्नेर्विशेषणत्वेनोत्कीर्तनं तु 'अग्ने महा असि ब्राह्मण भारत' इत्यादीष्टिमन्त्रेषु प्रतिपादितम् । विवाह उत्कीर्तनं तु स्वविशेषणत्वेनैव । अन्यस्यासंभवात् । विवाह आर्षगोत्रोच्चारणं तु वाचनिकं, तच्च सप्रवरत्वसगोत्रत्वशङ्कानिवारणार्थमदृष्टार्थं च भवति । शान्त्यादिकर्मसु तु वाचनिकं कुत्रचित् । कुत्रचिदाचारप्राप्तम् ।
प्रवरणं कर्तव्यमित्यस्मिन्नर्थे श्रुतिं प्रदर्शयति--
'आर्षेयं वृणीते बन्धोरेव नैत्यथो संतत्या इति विज्ञायते' इति ।
आर्षेयमृषेरपत्यमाहवनीयमग्निं यजमानेनोत्पादितत्वाद्यजमानस्यर्षिसंतानत्वात्तं वृणीते प्रार्थयते तद्गोत्रत्वायेति । एवं सति बन्धोरेव नैति पूर्वर्षिसंबन्धान्न च्यवते । अथो अपि च संतत्यै पूर्वेषां पूर्वजानामात्मनश्च संतानायेति विज्ञायते, श्रुतिरिति शेषः ।
देवैर्मनुष्यैश्चाऽऽर्षेयवरणं न कर्तव्यं किं तु ऋषिभिरेवेत्येतदर्थे श्रुतिं दर्शयति--
"न देवै[२०]र्मनुष्यैरार्षेयं वृणीत ऋषिभि- |
आर्षेयोच्चारणकर्तव्यताविषये श्रुतिं दर्शयति--
"आर्षेयमन्वाचष्ट ऋषिणा हि |
आर्षेयमन्वाचष्टे । कस्मात् । ऋषिणा पूर्वजेन कीर्तितेन देवप्रसिद्धेन तदपत्यं पुरुषं देवा अनुबुध्यन्ते भोज्यान्नोऽयं तदपत्यत्वादिति जानन्ति हीत्यर्थः ।
स्वस्याऽऽर्षेयवरणं परित्यज्यान्यस्याऽऽर्षेयवरणे दोष इत्येतदर्थे श्रुतिं दर्शयति--
"यो वा अन्यः सन्नन्यस्याऽऽर्षेयं वृणीते स वा |
यो वै यजमानोऽन्यगोत्रः सन्नन्यगोत्रस्याऽऽर्षेयेण प्रवृणीते स वै स एव ऋषिरस्य यजमानस्य तदिष्टं यागफलं वीतं ब्राह्मणतर्पणादिफलं वृङ्के गृह्णातीत्यर्थः ।
आर्षेयसंख्यानियमार्थिकां चतुर्वरणपञ्चातिप्रवरणनिषेधिकां च श्रुतिं दर्शयति--
"एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो |
एकमार्षेयं वृणीते, एकमृषिं संकीर्त्य तदपत्यमग्निं वृणीते । तथा द्वौ वृणीते त्रीन्वृणीत इत्यत्रापि । चतुरो न वृणीते पञ्चातीत्य षडादीन्न वृणीत इत्यर्थः । आत्मीयानामृषीणां बहूनामनियमेन वरणप्राप्तौ सत्यामेकं वृणीत इत्यादयः संख्यानियमविधयः । न चतुरो वृणीते न पञ्चाति प्रवृणीत इत्येतद्व्यामुष्यायणविषयम् । द्व्यामुष्यायणस्य गोत्रद्वयस्यापि द्व्यार्षेये चतुर्णां वरणप्रसक्तिः । त्र्यार्षेयत्वे तु षण्णां पञ्चार्षेयत्वे द्व्यार्षेयादिसंनिपाते सप्तादीनामपि वरणप्रसक्तिः ।
तन्निषेधार्थमुक्तं--'न चतुरो वृणीते न पञ्चाति प्रवृणीते' इति । 'त्रीन्वृणीते मन्त्रकृतो वृणीते यथर्षि मन्त्रकृतो वृणीते' इति श्रुतिमनुसृत्य प्रवृत्ते 'अत्र्यार्षेयस्य हानं स्यादधिकारात्' इत्यस्मिन्नधिकरणे मीमांसकास्तु त्रीन्वृणीत इत्ययमेव विधिः । एकं वृणीते द्वौ वृणीत इत्युभयमवयुत्यानुवादः । अन्यथा वाक्यभेदापत्तेः । न च त्रीन्वृणीत इत्यत्रापि वाक्यभेदतादवस्थ्याद्विधित्वासंभव इति वाच्यम् । विशिष्टविधाने वाक्यभेदाभावेन विधित्वसंभवात् । स्तुत्यर्थोऽयमेकं वृणीत इत्यादिरनुवादः । एकवरणद्विवरणे अप्रशस्ते अपि यदा कर्तव्ये तदा त्रिवरणस्य प्रशस्तस्य कर्तव्य[२१]त्वं किमु वक्तव्यमिति स्तुतिः । चतुर्निषेधपञ्चातिक्रमनिषेधाभ्यामपि त्रित्वमेव स्तूयते, न च तयोर्निषेधो विधातव्यः । प्रसक्त्यभावादेव तदप्रवृत्तेः । चतुरादयोऽत्यन्तविलम्बकारित्वादप्रशस्ताः । त्रित्वं तु न तथेति प्रशस्तम् । तस्मात्कर्मण्यधिकुर्वन्यजमानस्त्रीनेवोच्चारयेन्न न्यूनं नाप्यधिकमिति तात्पर्यार्थ इत्याहुः ।
एकार्षेयादीनामपि मनुवत्पक्षाश्रयणेनाधिकार इति तन्त्ररत्ने । असमानार्षगोत्रजामितियाज्ञवल्क्योक्तमविवाहप्रयोजकं समानप्रवरत्वापरपर्यायं समानार्षत्वं द्विविधमेकप्रवरसाम्यं द्वित्रिप्रवरसाम्यं चेति । तत्राऽऽद्यं भृग्वङ्गिरोगणव्यतिरितेषु । द्वितीयं भृग्वङ्गिरोगणेषु । तत्र पञ्चप्रवराणां त्रिप्रवरसाम्यं त्रिप्रवराणां द्विप्रवरसाम्यमविवाहप्रयोजकमिति मन्तव्यम् ।
"पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः । |
शेषेष्वेकोऽपि प्रवरः समानश्चेत्तद्विवाहं वारयेदित्यर्थः ।
अथ प्रवरगणना ।
तत्राऽऽदौ भृगवः ।
तत्र सूत्रम्--
"भृगूनेवाग्रे व्याख्यास्यामो जामदग्न्या वत्सास्तेषां पञ्चार्षेयो भार्ग- |
त्यथ वैन्याः पार्थास्तेषां त्र्यार्षेयो भार्गववैन्यपार्थेति पृ[२२]थवद्वेनव- |
एवकार इतरेषां व्यावृत्त्यर्थः । अग्र आदौ व्याख्यास्यामो वक्ष्यामः प्राधान्यादिति शेषः । भृगोः प्राधान्यं तु 'महर्षीणां भृगुरहम्' इति भगवद्वाक्यान्मोक्षधर्मेषु भृगोर्वासुदेवांशताश्रवणादाधानमन्त्रेषु भृगूणामेवाऽऽदौ पार्थक्येन मन्त्रकथनाच्च ।
अथवा, एवकारोऽग्रशब्देनान्वेति । अग्र आदावेव ये भृगुत्वं प्राप्ता भृगवस्तान्वक्ष्यामः, न द्व्यामुष्यायणत्वेन पश्चाद्भृगुत्वमापन्नानिति । द्व्यामुष्यायणानामुत्तरत्र वक्ष्यमाणत्वात् ।
जामदग्न्या वत्सा इत्यत्र वत्सानां जामदग्न्या इति विशेषणमजामदग्न्यवत्सनिराकरणार्थं पञ्चावत्तित्वप्राप्त्यर्थं जामदग्न्याप्रीप्राप्त्यर्थं च । तेषां जामदग्न्यवत्सानां पञ्चार्षेयः प्रवरः, भार्गवच्यावनाप्नवानौर्वजामदग्न्येति । अयं च होतुरमुतोऽर्वाञ्चो होतेतिवचनात् । अमुतो मूलभूतादृषेरारभ्यार्वाञ्चोऽर्वाग्जातान्मन्त्रदृशः । क्रमेण तदपत्यसंबन्धेन प्रार्थयते तमग्निमित्यर्थः । जमदग्निवदुर्ववदप्नवानवच्च्यवनवद्भृगुवदित्ययं प्रवरोऽध्वर्योरत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीत इतिवचनात् । अतो यजमानादूर्ध्वान्मन्त्रदृग्भिरव्यवहितानां मूलभूतान्दृष्टक्रमेण संकीर्त्य तद्वत्तद्वदितिसादृश्यसंबन्धेनाग्निं वृणीते प्रार्थयत इत्यर्थः । एष एव प्रवरक्रमविशेषो होतुरध्वर्योश्चाऽऽध्यायपरिसमाप्तेः सर्वत्रोपदेष्टव्यः । त्र्यार्षेयमु हैके ब्रुवत इति शेषः । त्र्यार्षेयं प्रवरमेक आचार्या ब्रुवत इत्यर्थः । उ हेतिनिपातोऽवधारणार्थो वाक्यालंकारार्थो वा । तं प्रवरं दर्शयति-- भार्गवौर्वजामदग्न्येति जमदग्निवदुर्ववद्भृगुवदितीति । एनमेव प्रवरमन्येष्वतिदिशति-- एष एवाविकृतो जामाल्यैतिशायनेत्यादिना प्राचीनयोग्याना मित्यन्तेन सूत्रेण । एषोऽनन्तरोक्तः पञ्चार्षेयस्त्र्यार्षेयो वा जामाल्यादीनां नवानां भवतीत्यर्थः ।
अथाऽऽर्ष्टिषेणानामित्यत्राथशब्दः पृथगयं गण इतिज्ञापनार्थः । एवं सर्वत्र । अन्यद्गतार्थम् । अथ वीतहव्या इत्यारभ्य पृथवद्वेनवद्भृगुवदित्यन्तं सूत्रं स्पष्टार्थम् । चतुर्विधा हि शुनकाः । केचिच्छुनकादेवजाताः । केचिद्गृत्समदादेवजाताः । केचिद्भृगोरपत्यं गृत्समदस्ततो जाताः । केचिद्भृगोरपत्यं शुनगोत्रस्तदपत्यं गृत्समदस्ततो जाताः । तत्र गृत्समदादेव ये जातास्तेषामेवायं प्रवरो नान्येषामित्येतदर्थं गृत्समददृष्टाप्रीप्रापणार्थं च गार्त्समदा इति विशेषणम् । इतरेषां तु सूत्रान्तरोक्ताः प्रवरा ज्ञेयाः । तत्राऽऽद्यानां शौनकेत्येकार्षेयः प्रवरः । तृतीयानां भार्गवगार्त्समदेति द्व्यार्षेयः । चतुर्थानां भार्गवशौनहोत्रगार्त्समदेति त्र्यार्षेय इति । एकार्षेयेऽमुतोऽर्वाञ्चो होताऽत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीत इत्यनयोर्विध्योर्व्यवस्थापकत्वाभावादव्यवस्थाप्राप्तौ होत्रध्वर्युग्रहणं तद्धितान्तो होतुः प्रवरो वत्प्रत्ययान्तोऽध्वर्योरित्येवं व्यवस्थेतिप्रदर्शनार्थम् । मित्रयुवां वाघ्र्यश्वा इति विशेषणं वाघ्र्यश्वदृष्टाप्रीप्राप्त्यर्थम् । वाघ्र्यश्वेति होता वघ्र्यश्ववदित्यध्वर्युरित्यत्र होत्रध्वर्युग्रहणमुक्तव्यवस्थायास्तत्रैव प्राप्तिशङ्कानिरासार्थम् । इतीमे भृगवो व्याख्याताः ।
उक्तानुभाषणस्येदं प्रयोजनमविद्यमानभृगुशब्दानामपि शुनकमित्रयुवां भृगुत्वं यथा स्यादिति । तेन भृगूणां त्वेति यथर्ष्याधाने भार्गवो होता भवतीत्यादौ चोपप्रवेशसिद्धिः । जामदग्न्यवत्सानां जामाल्यादीनां च परस्परमविवाहः । प्रवरैक्यात्सगोत्रत्वाच्च । एवमार्ष्टिषेणानामपि त्रिप्रवरसाम्यात् । यद्यपि त्रिप्रवरार्ष्टिषेणानां नान्यैः सह द्विप्रवरसाम्यं तथाऽपि पञ्चार्षेयसंगतमपि प्रवरसाम्यमेष्वविवाहप्रयोजकम् । वत्सा विदा आर्ष्टिषेणा इत्येतेषामविवाह इति बौधायनोक्तेः । अजामदग्न्यवत्सार्ष्टिषेणाभ्यां सप्रवरत्वादविवाहः । वीतहव्यादीनां तु स्वं स्वं गणं हित्वा परस्परं पूर्वैश्च सह विवाहो भवत्येव, द्वित्रिप्रवरसाम्याभावात् ।
इति भृगुगोत्रप्रवरकाण्डम् ।
अथ गौतमगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--
"अथातोऽङ्गिरसामयास्या गौतमास्तेषां त्र्यार्षेय आङ्गिरसाया- |
इति गौतमगोत्रप्रवरकाण्डम् ।
अथ भरद्वाजगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--“अथ भरद्वाजानां त्र्यार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजेति भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्येष एवाविकृतस्तु[२३]थ्याग्निवेश्यौर्जयानानां सर्वेषां च स्तम्भस्तम्बशब्दानामथर्क्षाणां पञ्चार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति मतवचोवद्वन्दनवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमु हैक आङ्गिरसवान्दनमातवचसेति मतवचोवद्वन्दनवदङ्गिरोवदित्यथ द्व्यामुष्यायणानां कुलानां यथा शौङ्गशैशिरयो भरद्वाजाः शुङ्गाः कताः शैशिरयस्तेषां पञ्चार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजकात्याक्षिलेत्यक्षिलवत्कतवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमु हैक आङ्गिरसकात्याक्षिलेत्यक्षिलवत्कतवदङ्गिरोवदित्यथ गर्गाणां त्र्यार्षेय आङ्गिरसगार्ग्यशैन्येति शिनिवद्गर्गवदङ्गिरोवदिति भारद्वाजमु हैकेऽङ्गिरसः स्थाने भारद्वाजगार्ग्यशैन्येति शिनिवद्गर्गवद्भरद्वाजवदित्यथ कपीनां त्र्यार्षेय आङ्गिरसमाहाय्यवौरुक्षय्येत्युरुक्षय्यवन्महय्युवदङ्गिरोवदिति तरस्वास्तिलो विदुः शालुः पतञ्जलिर्भूयसी[२४]र्दन्द्वकीर्जलन्द्वः कपेरष्टविधाः प्रजाः" इति ।
तु[२५]त्थ्य आग्निवेश्य और्जयान एतेषां, स्तम्भशब्दो यन्नामसु वर्तते ते स्तम्भ शब्दाः । स्तम्बशब्दो यन्नामसु वर्तते ते स्तम्बशब्दाः । एतेषां चैषोऽनन्तरोक्तस्त्र्यार्षेय एव प्रवरो भवेदित्यर्थः । द्वाभ्यां गोत्राभ्यां व्यपदेशाद्व्यामुष्यायणानि कुलानि । यथा शौङ्गशैशिरय इति पुरातनं द्व्यामुष्यायणकुलम् । इदानींतनानां द्विगोत्राणां द्वयोरपि गोत्रयोरविवाहं वक्तुं दृष्टान्तत्वेनोदाहृतं शुङ्गा भरद्वाजाः कताः शैशिरयो विश्वामित्राः । भारद्वाजस्य शुङ्गस्य बीजाद्वैश्वामित्रस्य शैशिरेः क्षेत्र उत्पन्नाः शौङ्गशैशिरय इत्युच्यन्ते । तत्संततिजातानां पञ्चार्षेयः प्रवरो द्रष्टव्यः । आङ्गिरसबार्हस्पत्यभारद्वाजकात्याक्षिलेति होतुः । अक्षिलवत्कतवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदित्यध्वर्योः । त्र्यार्षेयमेक आङ्गिरसकात्याक्षिलेति होतुः । अक्षिलवत्कतवदङ्गिरोवदित्यध्वर्योः । अस्मिन्प्रवरे जनयितुः पूर्वः प्रवरः प्रतिग्रहीतुरपरो यथोक्तस्तथाऽन्येष्वपि पुत्रिकापुत्रदत्तकक्रीतकृत्रिमपुत्रादीनामपि द्वयोरपि गोत्रयोः प्रवरो ज्ञेयः । शौङ्गशैशिरीणां दृष्टान्तत्वेनोपादानात् । सर्वेषां द्व्यामुष्यायणानां गोत्रद्वयसंबन्धिवरणप्रसक्तौ व्यवस्थामाहाऽऽश्वलायनः--
"तेषामुभयतः प्रवृणीत एकमितरतो द्वावितरतो द्वौ वेतरतस्त्रीनि- |
एकमितरतो द्वावितरत इति त्र्यार्षेये द्वौ वेतरतस्त्रीनितरत इति पञ्चार्षेये । तत्र पूर्वं कस्य प्रवर इत्याकाङ्क्षायां कात्यायनलौगाक्षी आहतुः--
"पूर्वः प्रवर उत्पादयितुरुत्त[२६]रः प्रतिग्रहीतुः" इति ।
एवं वक्ष्यमाणेषु संकृत्यादिष्वपि द्रष्टव्यम् । गर्गाणां भरद्वाजत्वं पाक्षिकभरद्वाजवरणादेव सिद्धम् ।
यद्यपि कपीनां पाठः केवलाङ्गिरोगणमध्ये सर्वेषु सूत्रपुस्तकेषु दृश्यते तथाऽपि स नाऽऽदर्तव्यः । गोत्रप्रवरमञ्जरीप्रयोगपारिजातस्मृत्यर्थसारादिबहुग्रन्थविरोधाद्बहुस्मृतिपुराणसूत्रविरोधात्, भारद्वाजैः सह विवाहः केवलाङ्गिरोभिः सह विवाह इत्येतादृशस्य शिष्टाभिमताचारस्यान्यथात्वापत्तेश्च । अथवा द्वौ कपी ज्ञेयौ । एको भरद्वाजगणस्थः । अपरः केवलाङ्गिरोगणस्थः ।
तथाच मण्डनः--
"भारद्वाजप्रवरणे केचिदाहुः कपी पृथक्" इति ।
अथात्रिगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--"अथात्रीणां त्र्यार्षेय आत्रेयार्चनानसश्यावाश्वेति श्वावाश्ववदर्चनानसवदत्रिवदित्यथ गविष्ठिराणां त्र्यार्षेय आत्रेयार्चनानसगाविष्ठिरेति गविष्ठिरवदर्चनानसवदत्रिवदित्येष एवाविकृतो वामरथ्यसुमङ्गलबीजवापानाम्" इति ।
गतार्थम् । अत्रीणां सर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।
इत्यत्रिगोत्रप्रवरकाण्डम् ।
अथ विश्वामित्रगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्-- "अथ विश्वामित्राणां देवराताश्चिकितकालबवमनुतन्तुबभ्रुयज्ञवल्कौलोन्त्येर्मरिबृहदग्निसांशित्यवारकितारकितारकायणशालावतास्तेषां त्र्यार्षेयो वैश्वामित्रदैवरातौदलेत्युदलवद्देवरातवद्विश्वामित्रवदित्यथ श्रौमतकामकायनास्तेषां त्र्यार्षेयो वैश्वामित्र[२७]माधुच्छन्दसधानंजय्येति धनंजयवन्मधुच्छन्दोवद्विश्वामित्रवदित्यथाष्टका लोहितास्तेषां द्व्यार्षेयो वैश्वामित्राष्टकेत्यष्टकवद्विश्वामित्रवदित्यथ पूरणाः पारिधापयन्त्यस्तेषां द्व्यार्षेयो वैश्वामित्रपौरणेति पूरणवद्विश्वामित्रवदित्यथ कतास्तेषां त्र्यार्षेयो वैश्वामित्रकात्याक्षिलेत्यक्षिलवत्कतवद्विश्वामित्रवदित्यथाघमर्षणाः कुशिकास्तेषां त्र्यार्षेयो वैश्वामित्राघमर्षणकौशिकेति कुशिकवदघमर्षणवद्विश्वा मित्रवदिति" इति ।
गतार्थम् । विश्वामित्रगणानां परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।
इति विश्वामित्रगोत्रप्रवरकाण्डम् ।
अथ कश्यपगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--"अथ कश्यपानां त्र्यार्षेयः काश्यपावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदित्येष एवाविकृतो धौम्याभिषेण्यमाठराणामथ रेभाणां त्र्यार्षेयः काश्यपावत्साररैभ्येति रे[२८]भवदवत्सारवत्कश्यपवदित्यथ शण्डिलानां द्व्यार्षेयो दैवलासितेत्यसितवद्देवलवदिति त्र्यार्षेयमु हैके काश्यपदैवलासितेत्यसितवद्देवलवत्कश्यपवदिति द्व्यार्षेयास्त्वेवं न्यायेन" इति । सर्वेऽपि द्व्यार्षेया एवमनेन प्रकारेण त्र्यार्षेया एव भवितुमर्हन्ति न शण्डिला एव । तस्मादष्टकानां लोहितानां च द्व्यार्षेयाणां त्र्यार्षेयत्वमेव द्रष्टव्यम् । द्व्यार्षेया एव सर्वे शण्डिला भवितुमर्हन्ति न त्र्यार्षेया इति केचिद्व्याचक्षते तदनुपपन्नम् । "अत्र्यार्षेयस्य हानं स्यादधिकारात्" इतिजैमिनीयन्यायविरोधात् । अन्यद्गतार्थम् । कश्यपानां परस्परमविवाहः । कश्यपस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्सप्रवरत्वाच्च ।
इति कश्यपगोत्रप्रवरकाण्डम् ।
अथ वसिष्ठगोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्-- "एकार्षेया वासिष्ठा अन्यत्रोपमन्युपराशरकुण्डिनेभ्यो वासिष्ठेति होता वसिष्ठवदित्यध्वर्युरथोपमन्यूनां त्र्यार्षेयो वासिष्ठैन्द्रप्रमदाभरद्वसो इत्याभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदित्यथ पराशराणां त्र्यार्षेयो वासिष्ठशाक्त्यपाराशर्येति पराशरवच्छक्तिवद्वसिष्ठवदित्यथ कुण्डिनानां त्र्यार्षेयो वासिष्ठमैत्रावरुणकौण्डिन्येति कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदित्यथ संकृतिपूतिमापतण्डिनां त्र्यार्षेयः शाक्त्यसांकृत्यगौरिवीतेति गुरिवीतवत्संकृतिवच्छुक्तिवदिति" इति ।
उत्तरत्र विधानादेवोपमन्युप्रभृतीनां त्र्यार्षेयत्वे सिद्धेऽन्यत्रोपमन्युपराशरकुण्डिनेभ्य इति वचनं केवलं वसिष्ठभेदा न संकृत्यादयस्तेषां द्व्यामुष्यायणत्वादितिप्रदर्शनार्थम् । वासिष्ठमैत्रावरुणकौण्डिन्येत्यस्मिन्प्रवरे मित्रावरुणसंज्ञकौ कौचिदृषी मन्त्रदृशौ द्रष्टव्यौ न प्रसिद्धौ देवताविशेषौ । न देवैर्न मनुष्यैरार्षेयं वृणीत इति निषेधात् । तयोश्च मित्रावरुणयोः संहतयोरेवर्षित्वमत्र द्रष्टव्यं न प्रत्येकम् । न चतुरो वृणीत इति चतुर्णां वरणप्रतिषेधात् । मत्स्यपुराणे मित्रावरुणयोर्बदर्याश्रमे तपस्यतोरागतामुर्वशीं दृष्टवतोः शुक्रं स्कन्नं क्वचित्तोयपूर्णे कलशे गृहीतं ततो वसिष्ठो जातो वसिष्ठाच्च कुण्डिनो जात इति दृष्टत्वात्तयोः संहतयोरेवर्षित्वं पितृत्वं चेति द्रष्टव्यम् । एषां वासिष्ठानां परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च । संकृत्यादीनां द्व्यामुष्यायणानां वसिष्ठत्वं तु वसिष्ठगणमध्ये पाठाद्वासिष्ठस्य शक्तेर्वरणाच्च ।
इति वसिष्ठगोत्रप्रवरकाण्डम् ।
अथागस्त्यगोत्रप्रवरकाण्डम् ।
[तत्र सूत्रम्--]"अथागस्तीनामेकार्षेय आगस्त्येति होताऽगस्तिवदित्यध्वर्युस्त्र्यार्षेयमु हैक आगस्त्यदार्ढच्युतैध्मवाहेतीध्मवाहवद्दृढच्युतवदगस्तिवदिति" इति ।
अगस्तीनां सर्वेषां परस्परमविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।
इत्यगस्तिगोत्रप्रवरकाण्डम् ।
अथ क्षत्त्रियप्रवरकाण्डम् ।
[तत्र सूत्रम्--]"अथ क्षत्त्रियाणां त्र्यार्षेयो मानवैडपौरूरवसेति पुरूरवोवदिडवन्मनुवदित्यथ यदि ह सार्षाः प्रवृणीरन्नेक एवैषां प्रवरो यद्यु वै पृथक्प्रवृणीरन्येषामु ह मन्त्रकृतो न स्युः सपुरोहितप्रवरास्तेऽथ येषां स्युरपुरोहितप्रवरास्ते सपुरोहितप्रवरास्त्वेवं न्यायेनैकार्षेया विशो वात्सप्रेति होता वत्सप्रवदित्यध्वर्युः" इति ।
द्विविधाः क्षत्रियाः सार्षा अनार्षाश्च । तत्र यदि सार्षा आर्षेयवन्तो राजानः प्रवृणीरंस्तदैषां प्रवर उक्त एक एव भवति । यद्येते पृथगेव प्रवृणीरन्पुरोहितप्रवरानेव प्रवृणीरन् । येषां राज्ञां मन्त्रकृत ऋषय आर्षेया इति यावत्, न स्युर्न भवेयुस्ते सपुरोहितप्रवरा ज्ञेयाः । येषां राज्ञां यदि मन्त्रकृतः स्युरपुरोहितप्रवरास्ते ज्ञेयाः । मन्त्रकृतो राजानः सपुरोहितप्रवरास्त्वेवमेतत्प्रकारेण न्यायेन भवन्ति नान्यथा । कोऽसौ न्यायोऽभिमतः । उच्यते-- सर्वेषां पुरोहितस्य विद्यमानत्वात्तेन च विना कर्मानधिकारात्पुर एनं हितमेतत्सर्वं नयतीति पुरोहितशब्दव्युत्पत्तेः । आत्मीयप्रवरपक्षे सर्वेषां समानप्रवरत्वादविवाहः प्रसज्येतेति न्यायः । अयमेव न्यायो वैश्यानामपि द्रष्टव्यः । ([२९]मन्त्रकृ[३०]द्वतां सर्वराज्ञामपुरोहितप्रवराणामपि विवाहमात्रे सपुरोहित[प्रवर]त्वमेवेति फलितोऽर्थः।) राजभ्योऽर्पितानां दत्तानां ब्राह्मणानां राज्ञां ये प्रवरास्त एव तेषाम् । एवं ब्राह्मणेभ्योऽर्पितानां राज्ञां ब्राह्मणानां ये प्रवरास्ते तेषामिति । तथा च सूत्रम्-
"तथा ब्राह्मणाना राजार्पितानां राज्ञां वा |
अथानाज्ञातबन्धूनां गोत्रप्रवरकाण्डम् ।
तत्र सूत्रम्--'अथानाज्ञातबन्धोः पुरोहितप्रवरेणाऽऽचार्यप्रवरेण वा' इति ।
न, आसम्यग्ज्ञातो बन्धुर्येन सोऽनाज्ञातबन्धुस्तस्यानाज्ञातबन्धोः । असंप्रज्ञातबन्धोरिति दर्शपूर्णमासप्रकरणस्थस्य प्रवरविधायकस्य सूत्रस्य पाठः । न सम्यक्प्रज्ञातो बन्धुर्येन सोऽसंप्रज्ञातबन्धुरिति तद्विग्रहः । अर्थस्तु स एव । तस्य पुरोहितस्य पूर्वोक्तस्य प्रवरेण धर्मोपदेष्टाऽऽचार्यस्तस्य वा प्रवरेण प्रवरणमित्यर्थः ।
ननु--
“यो वा अन्यः सन्नन्यस्याऽऽर्षेयं वृणीते |
इति निषेधस्य जागरूकत्वात्कथं पुरोहिताचार्यप्रवरप्रवरणमिति चेन्न । एतस्य प्रवरज्ञानसत्त्व एव प्रवृत्तेः ।
सार्ववर्णिकमार्षेयं दर्शयति--
'अथ ह ताण्डिन एकार्षेय सार्ववर्णिक समामनन्ति मानवेति |
ताण्डिन आचार्या एकार्षेयं मानवेत्येवंरूपं प्रवरं सार्ववर्णिकं सर्वेषां वर्णानां ब्राह्मणादीनां समामनन्ति तत्र हेतुभूतां श्रुतिमुदाहरन्ति-- 'मानव्यो हि प्रजा इति हि ब्राह्मणम्' इति । हि यस्मादेवं तैत्तिरीयशाखायां ब्राह्मणं प्रत्यक्षमेव पठ्यतेऽग्निचयन उखाप्रकरणे-- 'मानव्यो हि प्रजाः' इति तस्मादित्यर्थः । द्विरुक्तिः प्रश्नसमाप्तिद्योतनार्था । एतत्सूत्रं वैशेषिकप्रवरनिषेधपरं न भवति किं तु सार्ववर्णिकप्रवरस्तुतिपरम् ।
नन्वेवं कृत्स्नमेकेषां प्र[३१]वरं प्रतिषिध्य मनुवदित्येतद्विदधातीत्येतत्सूत्रविरोध इति चेन्न । अत्र प्रतिषेधशब्देनाप्राशस्त्यस्यैवोक्तत्वात् । एवं च कृत्स्नवैशेषिकप्रवराणामप्राशस्त्य उक्ते सार्ववर्णिकस्य[३२] प्रशस्तत्वमर्थात्सिद्धं भवति । वैशेषिकाः प्रवरा दुर्विज्ञेया बहुप्रयासलभ्याश्च तस्मान्न कार्याः । अयं तु लघुतरप्रयत्नलभ्यत्वात्कर्तव्य इत्येवं सार्ववर्णिकस्य प्रवरस्य प्रशस्तत्वम् । कथं पुन रयमभिप्रायो गम्यत इति चेत् । अन्यथा प्रवराध्यायानारम्भप्रसङ्गात् । आरभ्यते चायम् । अयं च प्रवरः श्रौतकर्मवरणाभिवादादिष्वेव न विवाहे । अन्यथा समानप्रवरत्वाद्विवाहाभावप्रसङ्गात् ।
पुरोहितगोत्रप्रवरयोराचार्यगोत्रप्रवरयोश्चाज्ञाने तु स्मृत्यन्तरे--
"आचार्यगोत्रप्रवरानभिज्ञस्तु द्विजः स्वयम् । |
अत्राऽऽचार्यग्रहणं पुरोहितोपलक्षणम् । आचार्यशब्देन निषेकादिक्रियाकर्ता द्विज इतिश्रवणाद्ब्राह्मणक्षत्त्रियवैश्यानां विधिः ।
यत्तु--'गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते' ।
इति तत्पुरोहिताचार्ययोर्गोत्राज्ञाने सत्येव विवाहातिरिक्तविषयम् ।
इति सूत्रोक्तः प्रवरनिर्णयः ।
अथ स्मृत्यनुसारेण प्रवरास्तद्गणाश्च ।
तत्र भृगवो द्विविधाः । जामदग्न्याः केवलाश्च । जामदग्न्यौ द्वौ, वत्सबिदौ । केवलाः षट् । वत्सा वैन्या वीतहव्या आर्ष्टिषेणा वाघ्र्यश्वा गार्त्समदा इति । तत्र द्विविधा अपि वत्सास्तत्त्रेणोच्य[३३]न्ते । मार्कण्डेया माण्डूकेया माण्डव्याः कांसेया आले[३४]खना दार्भायणाः शार्कराक्ष्या दैवतायना शौनकायना माधुकेयाः पार्षिकाः साकाः प्रा[३५]त्तायनाः पैलाः पैङ्गलायना [३६]दार्ध्वेपकयो बाह्यकयो वैश्वानरयो वैहीनरयो वैरोहिता बाह्या [३७]ब्राध्रा गोष्ठायनाष्टीकयः काशकृत्स्ना वाद्भुतकाः कृतभागा ऐतिशायना ज्ञानायनाः पाणिनयो वा[३८]ल्मीकिः स्थौलपिण्डायन: सैवातवा जिहीतयः सावर्णिकायना वालायनाः सौकृतयो मण्डवः सौविप्वयो हस्ताग्रहः शौद्धकयः शौ[३९]र्द्वकयो वैकर्णा द्रोणकजिह्वय औरसयः कम्बलोदरयो वाकारकृतो वैहलयः साङ्कवाः कास्तम्बराः कारवास्तामसा विरूपाक्षा वृकाश्वा उच्चैर्मन्यवो द्वैमत्या आर्यायणाः पा[४०]कायणाः काह्वायना वा[४१]नयश्चायनिनः शार्ङ्गरवाश्चान्द्रमसा गाङ्गेया नौ[४२]धेया या[४३]ज्ञिया जाबालि[४४]र्बाहुमित्रायणा आपिशलयो वैश्वपुरयो लोहितायना उष्ट्राक्षा मालायनाः शारद्वतायना रजतवा[४५]हा वत्सा वा[४६]त्सायनाः.।
एतावन्तो बौधायनोक्ताः ।
अथ कात्यायनलौगाक्ष्युक्ताः ।
ना[४७]लायना वागायना अनुमातकयो जैह्मतयो जीवन्तयः काम्बलोदरयो वैहायना रेखायनयः पा[४८]र्षतयः पार्णिलय उच्चयमानाः सात्यकर्णयः कालाकयस्तालकेशिन ऋतभागा आर्तभागा आ[४९]जीहिता आतिथयः स्थौमाङ्गिरयः स्थौलाः सौरवा बर्हिषो देवमतयो गार्ग्यायणा गेह्यायना गोष्ठायना वैशम्पायना गा[५०]लवाः सांकृतयो वाणकेया ऐतिकायना भ्राष्ट्रेया भा[५१]स्त्रेया लाक्षेया लाकुचयो लालाटय आवय आङ्गावयः सै[५२]ष्पिकयः सात्यकायना नैकर्षयः शाकल्याः पाकानुम[५३]तयः कनि[५४]ष्णयो जैह्माशिनय आश्मक्रमाः कौचहस्तय आनुलोमिनः क्रौञ्चा[५५]श्चेक्षाः क्रौञ्चाक्षयः सौरध्वजयो वा[५६]ध्यात्केया निरीणयो वासयः सादनाः स्यो[५७]याः स्यन्दनयः कटेरणयो लवेरणयो यौगोलयो मा[५८]ध्योदा मात्स्या ना[५९]डायना वैरायणा वैन्या रौहित्यायनिः कृपानीलुः सावर्णिः पिकस्वरो विष्णुस्तौलकेशिर्जहिनो वीतिनः फेनयास्तलिनः शिखापत्तिर्जलधिः सेनाजित्कृत्स्नः पैङ्गलायनिर्दिवःपतिर्ऋषभः सुतः पलतः पलवः कोपियज्ञो मित्रयज्ञ आमिलायना हापत्तिर्वैकर्णिनिर्भाल्लकायनिर्लाक्ष्मणः शाल्यायनिर्माल्यायनिः कौटलिः सौक्तिः कोटरः साक्षी सान्द्रमणिर्नैकजिह्वो जिह्वाशून्यः केललेटिर्हिकश्वरिः सा[६०]रध्वजिर्नैमिश्यो लोष्टाक्षिर्गरवेणिः पौ[६१]र्णसैगन्धिः काशकृ[६२]द्विलभृत्सौमदायनाः स्वा[६३]नुमतयो मण्डचित्राः शौक्रायणास्त्वाष्ट्रेयाः को[६४]वहुण्डयः शौनायनाः शा[६५]कपौ[६६]णयो व्रीहिमतयो मायामती राध्रेवकिः कोशनो[६७] मौद्गल्यः का[६८]रवचः सांतपनायना गेह्वि र्भेह्रिः किरुषः स्तन्वत औलन्धिर्वायर्गिरायणिः श्येन[६९]यागतिर्नै[७०]कट्यिः शौककर्णिर्निडायनः ।
इत्येते वत्साः ।
तत्र[७१] ये जामजग्न्या वत्सास्तेषां पञ्च प्रवराः, भार्गवच्यावनाप्नवानौर्वजामदग्न्येति । त्रयो वा, भार्गवौर्वजामदग्न्येति ।
ये त्वजामदग्न्या वत्सास्तेषां त्रयः, भार्गवच्यावनाप्नवानेति ।
अथ जामद[७२]ग्न्या बिदाः ।
बिदाः शैला अवटाः प्राचीनयोग्या अभयदानाः काण्डरथा वैनभृतः पुलस्त्य आर्कायणो नाष्ट्रायणस्ताम्रायणः क्रौञ्चायणः कामलः पौलस्त्यो वेदभृदभयजातास्त्रैकायना भ्रा[७३]जा भ्रादन्त्याः ष्टैकायना भृञ्जायनाः ।
इति बिदाः ।
तेषां पञ्च प्रवराः । भार्गवच्यावनाप्नवानौर्ववैदेति । त्रयो वा, भार्गवौर्वजामदग्न्येति ।
अजामदग्न्यविदानां भार्गवौर्वजामदग्न्येति त्रय इति कात्यायनः । वत्सानां भार्गवच्यावनाप्नवानेति त्रय इत्यपि तेनैवोक्तम् । पञ्चप्रवरेषु बिदेषु जमदग्नेः सत्तयाऽनुवृत्तिः ।
अथ वैन्याः ।
वैन्याः पार्था बाष्कलाः शै[७४]ताः ।
इति वैन्याः ।
श्यैता इति केचित् । तेषां त्रयः, भार्गववैन्यपार्थेति ।
अथ वीतहव्याः ।
वीतहव्या या[७५]स्का मौनो मौको वाधुलो वर्षपुष्पो भागलेपो भागविज्ञेयो दुर्दिनो भास्करो दैवजायनो वार्कलेयो मा[७६]ध्यमेया वासयः कौशाम्बेयाः क्रो[७७]विल्याः सत्यकयाश्चित्रसेना भागुरिश्छपो माधूला मौसला जीवन्तायना अर्धलेखयो वृकाश्मकयो मदोकधो वारेया गै[७८]रिक्षिता[७९] दैर्घचित्ताः पञ्चालवाः पौ[८०]ष्पावता गोदायनाश्चण्डमोदनो भागलिर्भागवित्तिः पिलि: खलिः काश्य[८१]पिः समदा गपिः सौरिर्ज्वरिभागा[८२]न्तपः[८३] सानुस्वयो मादायनाः शालंकायनास्तार्काः प्रावरेयाः शार्कराक्षिः कौटिल्यो विलेभि[८४]र्वाह्वियो हालेयो दीर्घ[८५]चित्ताः ।
इति वीतहव्याः ।
य[८६]स्का इति केचित् । एतेषां त्रयः, भार्गववैतहव्यसावेदसेति ।
अथाऽऽर्ष्टिषेणाः ।
आर्ष्टिषेणा नैर्ऋ[८७]थयो ग्राम्यायणयः कार्णायनाश्चान्द्रायणाः पौटकलायनाः सिद्धाः सुमनायना गौराभिर्मृट्वङ्गीयो मार्गपथो नैकर्षिराषस्तम्बिर्वाल्मिः कार्दमायनिर्गार्लभिरनूपो वदायनिः कविराश्वभिः ।
इत्यार्ष्टिषेणाः ।
तेषां पञ्च प्रवराः।
भार्गवच्यावनाप्नवा[८८]नार्ष्टिषेणानृपेति । त्रयो वा, भार्गवार्ष्टिषेणानूपेति । केचिदेष्वपि जमदग्नेः सत्तयाऽनुवृत्तिमाश्रित्य जामदग्न्यत्वमाहुः । तत्स्मृत्यर्थसारादिविरुद्धम् । पञ्चावत्तिता चैषामजामदग्न्यत्वेऽपि वाचनिकी । "वत्सा बिदा आर्ष्टिषेणाः" इत्युक्त्वा "एते पञ्चावत्तिनः" इति बौधायनवचनात् । अविवाहो वत्सबिदाभ्यां स[८९]हाऽऽर्ष्टिषेणानां पाक्षिकत्रिप्रवरसाम्यात् ।
वात्स्यानां त्रयः । भार्गवच्यावनाप्नवानेति । वत्सपुरोध[९०]सोः पञ्च, भार्गवच्यावनाप्नवानवात्सपौरोधसेति । वैजवनिमथितयोः पञ्च, भार्गवच्यावनाप्नवानबैजव[९१]नमथितेति । एतेऽपि क्वचित् । एतेषां परस्परं पूर्वोक्तैश्चाविवाहः, प्रवरसाम्यात् ।
अथ वाघ्र्यश्वाः ।
वाघ्र्यश्वा रैष्ठ्या[९२]नाः सा[९३]पिण्डिनाः सुरभिनेया माल्या महावाल्यास्तार्क्ष्यायणाः कैतवायनाः खालायनाः शाकटायना मैत्रेयाः सा[९४]चर्या द्रौणायना रौ[९५]क्थायना अ[९६]पिशला[९७] आटिकायना हंसजिह्वा रौप्या[९८]यणः[९९] सात्यण्डिनः पिण्डिकाक्षा मौदायनाः कापिशायनाः शाडेयाः साक्षिता मित्रयत आपिशायनाः पाटिकायना मित्रयुवो दिवोदासाः ।
इति वाघ्र्यश्वाः ।
मित्रयुव इति केचित् । दिवोदासा इत्यन्ये । एषामेको वाघ्र्यश्वेति । त्रयो वा, भार्गववाघ्र्यश्वदैवोदासेति [१००] ।
गृत्स(गार्त्स?)मदानां गार्त्समदेत्येकः प्रवरः । वैन्यवीतहव्यवाघ्र्यश्वगार्त्समदानां स्वस्वगणं हित्वा परस्परं पूर्वैश्च सह विवाहो भवत्येव । द्वित्रि(त्र)प्रवरसाम्याभावात् ।
तदुक्तं स्मृत्यर्थसारे--
"यस्का मित्रयुवो वैन्याः शुनकाः प्रवरैक्यतः । |
अत्र यस्का मित्रयुवः शुनका इत्येकपक्षाभिप्रायम् । प्रवरैक्यतः स्वगणं हित्वेति संबन्धः । क्वचित्त्वधिकं गणद्वयमुक्तम् । वेदविश्वज्योतिषां त्रयः, भार्गववैदवैश्वज्योतिषेति । शाठरमाठराणां त्रयः, भार्गवशाठरमाठरेति । अनयोः परस्परं पूर्वैश्च विवाहः[१०१] ।
मण्डनोऽपि--
"जमदग्निर्भरद्वाजो विश्वामित्रोऽत्रिगौतमौ । |
इति परिभाषामुक्त्वाऽऽह--
" भृगूणां वीतहव्यात्प्राग्विवाहो न परस्परम् । |
इति भृगवः ।
अथाङ्गिरसः । (२)
ते त्रि[१०३]विधाः । गौतमा भारद्वाजाः केवलाश्च । तत्र गौतमाङ्गिरसः सप्त । आयास्याः शरद्वन्तः(न्ताः?) कौमण्डा दीर्घतमसः कारेणुपालयो वामदेवा औशनसाश्च ।
आयास्याः श्रोणि[१०४]वेधा मूढरथाः सत्य[१०५]कयो वैदेहाः कौमारवत्यास्तौण्डदर्भिर्दैवकिः सात्यमुग्रिः कौबाह्या बौभ्या नौकरिः स्वस्तैषकिः कीलाल[१०६]पिः कारुणपः क[१०७]टोरयः काशिवाजः साक्षीकः पार्थिवाः ।
इत्यायास्याः ।
तेषां त्रयः, आङ्गिरसायस्यगौतमेति ।
अथ शरद्वन्ताः ।
शरद्वन्ता आभिजिता रोहिण्याः क्षीरकरम्भाः सौमुचयः सौयामुना औपबिन्दवो र[१०८]हूगणा गणपा भाष[१०९]ण्याः क्षौलेया नैकरयः करभोगिण्याः सैन्धवा गालवाः साङ्गराः सौमिनयः पौ[११०]ष्पिण्डवो भा[१११]वलाः काण्डवाः कारोहाः काशवारयो मान्द्यर्था इषवो रोहितायना अङ्गारकाः क्रौलायनाः कास्तौ[११२]र्ष्णयोऽरुणयः पार्थिवा मौदहायनाः स्कान्दाः सरावाः कौटिल्या वासमूलयो वासपुष्पयो वासस्तेवयो वासधूपयः काचाक्षयः क्ष[११३]या वारण[११४]याः करेलय उतथ्या बोधयोनगाः सुगोमाक्षयः क्षीरषाष्टिकयो राद्धकर्णयः सौपुत्रयः सामलोमकयः पौष्कजितयो भागत्राश्चण्डाडकाः सुतपाः सुरैषिणो रोहिणायनयः क्रौष्टाय[११५]नय आरुणायनयः सौदामनयः कासोषाः कौशल्या रौहिणेयाः काराधनयो मूलपो वासवः पुष्पवन्तो याविका रेचय औप[११६]मान्याः ष्टैटिकाः शौनरयः शौलापयः खरिका नैकर्षयस्तोदेया वाल्वोटाः ।
इति शरद्वन्ताः ।
तेषां त्रयः, आङ्गिरसगौतमशारद्वन्तेति ।
अथ कौमण्डाः ।
कौमण्डा मामन्थरे[११७]षणा मांसुराक्षाः काष्ठरेखय आञ्जायना वाञ्जायनाः काक्षीवता औशिजा मासुरेखयो वाशियः ।
इति कौमण्डाः ।
दीर्घतमसां पञ्च, आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेति । त्रयो वा,आङ्गिरसौतथ्यदैर्घतमसेति ।
[अथ कारेणुपालयः ।]
कारेणुपालयो वास्तव्याः श्वेतीयाः पौञ्जिष्ठा औदजायना माधुक्षारा आजगन्धाः ।
इति कारेणुपालयः ।
तेषां त्रयः, आङ्गिरसगौतमकारेणुपालेति ।
वामदेवानां त्रयः। आङ्गिरसवामदेव्यगौतमेति । अन्त्ययोर्व्यत्ययो वा । आङ्गिरसवामदेव्यवार्हदुक्थेति वा ।
[ अथौशनसाः ।]
औशनसा दिश्याः प्रशस्ताः सुरूपाक्षा महोदरा विकंहताः सुबुध्या निहता गुहः ।
इत्यौशनसाः ।
तेषां त्रयः, आङ्गिरसगौतमौशनसेति ।
अन्येऽपि । औतथ्यानां त्रयः, आङ्गिरसौतथ्यगौतमेति । औशिजानां त्रयः । आङ्गिरसौशिजकाक्षीवतेति[११८] ।
आयास्यौशिजानां पञ्च । आङ्गिरसायास्यौशिजगौतमकाक्षीवतेति । रहूगणानां त्रयः, आङ्गिरसराहूगणगौतमेति । सोमराजानां त्रयः, आङ्गिरससोमराज्यगौतमेति । बृहदुक्थानां त्रयः, आङ्गिरसबार्हदुक्थगौतमेति । कक्षीवतां पञ्च, आङ्गिरसौतथ्यगौतमौशिजकाक्षीवतेति । रायुवाणां त्रयः, आङ्गिरसरायुवगौतमेति । एषां सर्वेषां गौतमाङ्गिरसां परस्परमविवाहः । गौतमस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्प्रायेण द्वित्रि(त्र)प्रवरसाम्याच्च ।
इति गौतमाः ।
अथ भ(भा?)रद्वाजाः ।(३)
ते चत्वारः[११९] । भारद्वाजाः कपयो गर्गा रोक्षायणाश्च । भ(भा)रद्वाजाः क्षाम्यायणा मेङ्गडा देवाश्वा इद्वहव्याः प्राग्वंशयो वाहच्छन्ना[१२०] वाह्यो[१२१]गा[१२२] वासीतायनास्तैदेहा आश्ला औक्षाः शूरयः पारिणद्धेयाः केशस्वेयाः शौ[१२३]द्वय ऊरू[१२४]ढाः खारग्रीवय औपसयोतय आग्निवेश्याः शवा गौरिवायनाः खेलकः स्तनकर्णा ऋक्षा माणभिन्द्याः कद्वौदकाः सौज्व[१२५]लापा वैलाः खौरडा देवयोनयो भरुण्डेया भ[१२६]न्दादयः सौरंभराः शुङ्गा देवमाय इषुमत्ता औदमेघयः प्रावाहणेयाः कल्माषा राजस्तवयः संघोषकृतयः पराह[१२७]रायो[१२८] वलभोकयो रुद्राङ्गपथाः शालद्वलयो वेदचेला नृत्यायना नृत्याः शा[१२९]लालयः शार्हलयः काक्षला बाष्कलाः सैह्यकेयाः कौ[१३०]डायनाः कौण्डिन्या ब्रह्मस्तम्भा राजस्तम्भा अग्निस्तम्भा वायुस्तम्भाः सूर्यस्तम्भाः सोमस्तम्भा विष्णुस्तम्भा यमस्तम्भा इन्द्रस्तम्भा आपस्तम्भाः । ये चान्ये स्तम्भशब्दान्तास्तेऽपि । आरणाः सिन्धवः कौमुदगन्धयः शिखायना मात्रेयायणा भामाण्याः कुक्षाः कौकाक्षयस्तैदुन्दयो दार्भयः शामेया मत्स्यक्राथाः कारुणायनाः कारुपथयः करिपा[१३१]यः कावल्या वालिशायनाः सौहयो वाराहयो विविषयः शिलामलयः पैलाः शालंकाय[१३२]नो जैह्मलाय[१३३]नयः साष्टकयो ला[१३४]भायनय आ[१३५]पस्तबयो धौताञ्चकयो जित्यद्रोणयो[१३६] बाह्यगच्छयो व्यष्टकथः स्वारग्रीवयो वाजपृष्टयः प्रवाहयो दशा[१३७]दीकयस्तूर्णकर्णयः काञ्चयो देवागरयो हारिकर्णयः सपौलयः सौगेया मालोहराः खगखलायनाः सौविष्टा हालो[१३८]दराः सात्यमुग्रयो लेखायनाः कारुणायनाश्चेला रुक्षाः किकायना वाललक्षा गौरिवाः[१३९] सौपथाः सौभराः सौबुद्धयो धौरकुलिका वि[१४०]किराः कुषिया मालाहलाः श्रीपथा अपिना निद्राङ्गवधाः शैखेया मा[१४१]धुकवर्याः काण्डण्या औवेया मैथुनमतयः कौरुलेत्र[१४२]याः खारणादयो[१४३] देवस्थानयः शालुहवो गो[१४४]खपिङ्गलयो गङ्गोदयोऽधिकारग्रीवयोऽयम्ब[१४५]कयो माषायणाः शाक्राः काजाः सौविश्वाः[१४६] कमु कायनाः सिन्धवः सारावयो वाहयः । सामस्तम्बयः सोमस्तम्बयो ब्रह्मस्तम्बय आश्वलाय[१४७]नो मार्कण्डेयः कुक्काः सौङ्गयः ।
इति[१४८] भारद्वाजाः ।
तेषां त्रयः, आङ्गिरसबार्हस्पत्यभारद्वाजेति ।
[ अथ कपयः ।]
कपयः स्वस्तितरवो बिन्दवो दण्डिनो दिक्ष्वशक्तयः पतञ्जलयो भूयसिनस्तैरेवयो वैतकय ऊर्ध्वा राजकेशिनः कलसिनः कण्वाः करीतपो वान्यायना आमावास्याय[१४९]नाः कात्यायनाः कषेतराः स्वेदतरा जलसिञ्चयः कु[१५०]सीद[१५१]रयः सौज[१५२]टयः सामवयः सलयः क्षण्याः सावस्थायनयः ।
इति कपयः ।
तेषां त्रयः । आङ्गिर[१५३]सामहय्यवौरुक्षय्येति । आङ्गिर[१५४]सामहय्यौरुक्षय्येति वा पाठः । आङ्गिर[१५५]सामहीयवौरुक्षयसेत्याश्वलायनपाठः ।
केचित्तु--आङ्गिरसबार्हस्पत्यभारद्वाजेति । आङ्गिर[१५६]सबार्हस्पत्यकाषेयेति पक्षद्वयमाहुः ।
[ अथ गर्गाः ।]
गर्गाः साम्भरायणाः सस्वीनयो माधरायणा बाहुलयो भ्राष्ट्रकृतो भ्राष्ट्रधृतो भ्राष्ट्रबिन्दवः क्रो[१५७]ष्टकयः सौयामुना भ्राजिनाक्षयो होत्रापचयः सत्याप[१५८]चया[१५९] वात्स्यतरायणाः साम्भादा वत्सचतुरायणाः काण्वायनाः सांख्यायनाः कानायनाः कैवलायनाः कोण्डायना भारमता पैशङ्गाः पैल्वकायना विश्वायवकायनाः क्रौलिनो मधुरावहाः सा[१६०]परिवारा वालाकयः शालायनयः साहनयो माथुरा[१६१]चरा ऐन्द्रालयो लोपकृतो[१६२] वांसायनाः शारायणाः श्यामायना रामिनो(णो?) भाङ्गिनः कारिण आस्मिनः क्रीडिनो राचारता भाल[१६३]विद औपमर्कटाः कार्षायनाः कौञ्जपयः शालङ्कायनाः कोलास्त्राः श्यामाः ।
इति गर्गाः ।
आङ्गिरसशैन्यगार्ग्येति वा । तित्तिरः कपिभुवः खण्डिताः । इत्येतेषां गर्गाणां त्रयः, आङ्गिरसशैन्यगार्ग्येति । आङ्गिरसतैत्तिरकापिभुवेति वा ।
[ अथ रौक्षायणाः ]
रौक्षायणाः कपिलाः शबलाः शिफिला विभिण्डयः कौथुमा अग्निजिह्वाः कर्णाः सुताः ।
इति रौक्षायणाः ।
तेषां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातृवचसेति । त्रयो वा । आङ्गिरसवान्दनमातृवचसेति । आत्मभुवां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजमा[१६४]त्त्रवरा[१६५]त्मभुवेति । अयं गणः क्वचित् । एषां भारद्वाजाङ्गिरसां परस्परमविवाहः । व्रियमाणतया सत्तया वा भरद्वाजानुवृत्तेः सगोत्रत्वात्प्रायेण द्विप्रवरसाम्याच्च ।
इति भरद्वाजाः ।
केवलाङ्गिरसः षट्, हरिताः कुत्साः कण्वा रथीतरा विष्णुवृद्धा मुद्गलाश्च ।
[ अथ हरिताः । ]
हरिताः शङ्खदर्भयः सौभा[१६६] मादा नैयगवा मतायवा वालोदरा महोदरा नैमिश्रयो मिश्रोदकाः कौतपाः करीषवः कौलयः पौलयः पोटलयः पौटला भ[१६७]त्सा मांधातवो माण्डकारयः खाण्डायना माण्डमालयो[१६८] गवेरणयो मत्स्यमालयो गाणगारयो मद्रगारयः कुत्सा हंसा हस्तिवायसाः पैङ्गलाः पिङ्गाः पालाशिनो दा[१६९]दला हास्तिनः कौमारहारिता इलाः ।
इति हरिताः ।
तेषां त्रयः । आङ्गिरसाम्बरीषयौवनाश्वेति, मांधात्राम्बरीषयौवनाश्वेति वा ।
कुत्सानां त्रयः । आङ्गिरसमांधात्रकौत्सेति ।[ अथ कण्वाः । ]
कण्वा औपमर्कटायनाः बाष्कलाः पौला हस्तिनो मौञ्जिभाजयो मौनिगन्धा[१७०] वीजिवाजयो वाजश्र[१७१]वाश्वा भारुण्डा भ[१७२]रुण्डा र[१७३]मण्यः स[१७४]ना मर्कटा ग[१७५]र्हभाः प्राकासराः शाकटायनाः गोदाय[१७६]नाः शानायना रामायणा शौवेरि[१७७]णो नारीणा आर्यादयश्चतुराः श्यामायनयः ।
इति कण्वाः ।
तेषां त्रयः । आङ्गिरसाजमीढकाण्वेति । आङ्गिरसघोरकाण्वेति वा ।
[ अथ रथीतराः । ]
रथीतरा हस्तिदाः सिकाह्वायना नैतिरक्षयो मैलयो भिलीभाय[१७८]नाः सावहवा भै[१७९]क्षवाहा हेमगवा वैरूव्या विरूपा आङ्गुष्ठा अष्टादंष्ट्राः पृषदश्वाः ।
[१८०]इति रथीतराः ।
तेषां त्रयः । आङ्गिरसवैरूपपार्षदश्वेति । आङ्गिरसवैरूपराथीतरेति वा । अष्टादंष्ट्रवैरूपपार्षदश्वेति वा । अन्त्ययोर्व्यत्ययो वा ।
विष्णुवृद्धाः शठा मषणा मन्द्रणा भद्रणा भद्रयो[१८१] बादरायणा वात्सप्रायणा सात्यकयः सात्यकायना नितुन्दिनः स्तुत्या भारुण्या वै[१८२]होढा देवस्थानयः क्षत्त्रिणाश्छत्रिणा हो[१८३]त्रीणाः पुत्रिणा जतृणा वत्रिणाः कर्तृणाः शाम्बरायणा औपमीतय औपगवयः कुशमिवद्वत्सावनाः सावनार्या वाच्यायनिनः का[१८४]यम्भायनिनः ।
इत्येते विष्णुवृद्धाः ।
तेषां त्रयः । आङ्गिरसपौरुकुत्स्य[१८५]त्रासदस्येति । त्रासदस्यवेति केचित् ।
मुद्गलाः सात्यमुग्रयो हिरण्यस्तम्बयो हंसजिह्वा देवजिह्वा आलवाला[१८६] बिडालद[१८७]योऽग्न्यादयः सुनयश्छत्रहयास्तारणाः कार्यभासिता हिरण्याक्षा दीर्घजङ्घा हिरण्यगर्भा भिन्दयः ।
इति मुद्गलाः ।
हरितकुत्सयोस्त्वविवाहः पाक्षिकद्विप्रवरसाम्याभावात् । हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामित्याश्वलायनेन सर्वप्रवरसाम्योक्तेश्च ।
मण्डनः--
"भरद्वाजात्पुराऽन्योन्यं न विवाहोऽङ्गिरोगणे । |
इति केवलाङ्गिरसः ।
अथात्रयः ।(४)
ते[१८८] च चत्वारः--अत्रयो गविष्ठिरा वाद्भुतका मुद्गलाश्च ।
अत्रयो भूरयश्छा[१८९]न्दयश्छान्दोगेयाः पौष्पिका मोहलयः सौपालगलाश्छागलास्तृणबिन्दवो भार्गतयो मा[१९०]लरुचो व्यालयः सां[१९१]वव्या[१९२]नयः का[१९३]मार्यानयो दाक्षायणः स्तैदेहा गाथितपा औद्दालकयो द्रोणभावा गौरिग्रीवयो गाविष्ठिराः शैशुपालाः कृष्णात्रेया गौरात्रेया ऋ[१९४]क्षात्रेया नीलात्रेयाः श्वेतात्रेयाः श्यामात्रेया महात्रेया गालेया वालेयाः शौभ्रेया वामरथ्याः श्वेतभावाः शौद्रेया गोपवनाः कालापचया नीलायना आनङ्गयो मानङ्गयो दौरङ्गयो सौरङ्गयो गौरङ्गयः पुष्पयः सौपुष्पयः साकेतायना भारद्वाजायना इन्द्रातिथयः शास्त्ररव आहायनाः पवनाशाः किकिदीवयः शौनककर्णयः सौश्रुतयो गौरग्रीवः कैर[१९५]ञ्जयो जैत्रा[१९६]यणाः श्वेकयो बाहुनेत्रा वा[१९७]हमित्रा जानुकयः पनञ्ज[१९८]नो भागमादनाः सांख्येयाः सारायणाः सौक्तचरा अर्घपथा गौधन्याः कालजिह्वा उद्गरग्रीवयो वैडालयः शाकलायना गौणीपथा ब[१९९]लदा[२००] भ[२०१]वपादा अर्घ्यायणा[२०२] बादर्यायणा माङ्गला बाहुदन्तयो भागले[२०३]योऽरुणात्रेया दत्ता[२०४]त्रेयाः[२०५] शैस्वयः करायणा नीशायना दर्भ्या बुयादुला वामरथा वैश्वानकयः शोधूलकयो निकलाः ।
इत्यत्रयः ।
तेषां त्रयः, आत्रेयार्चनानसश्यावाश्वेति ।
गविष्ठिरा दक्षयो भलन्दना और्णनाभयश्चन्द्रात्रेया बैजवापयो मौञ्जकेशाः पूर्वातिथयः श्यामपुष्पयः शिलंदलयो ब्रह्मपुष्पयो[२०६] वाघ्र्यपुष्पयः[२०७] सौपुष्पयः कार्ष्णशायको हिरण्यपुष्पयः कालाक्षयः कालशीर्षयो ह्म[२०८] क्षयो बलयो घृतयः पार्ष्णयः कटुकयो मैत्राण्याः[२०९] शिरीषकाः ।
इति गविष्ठिराः ।
तेषां त्रयः । आत्रेयार्चनानसगाविष्ठिरेति । आत्रेयगाविष्ठिरपौर्वातिथेति वा ।
वाद्भुतकानां त्रयः । आत्रेयार्चनानसवाद्भुतकेति ।
मुद्गलाः शालिसंधय आ[२१०]र्णवा बौधाक्षा वैतवाहाः शिरीषयः शालिमता गौरिता गौरकयो वाजवताः ।
इति मुद्गलाः ।
पूर्वातिथय इति केचित् ।
तेषां त्रयः । आत्रेयार्चनानसपौर्वातिथे[२११]ति । क्वचित्त्चन्ये पञ्चाऽऽम्नाताः । अतिथयो वामरथ्याः सुमङ्गला बीजवापा धनंजयाश्चेति । आद्यानां चतुर्णामात्रेयार्चनानसातिथेति । आत्रेयार्चनानसगाविष्ठिरेति वा । सुमङ्गलानामात्रेयसुमङ्गलश्यावाश्वेति वा । धनंजयानामात्रेयार्चनानसधानंजय्येति । वाले[२१२]या हालेयाः कौद्रेयाः शै[२१३]द्रेया वामरथ्या गोपवनाः । इत्यत्रेः पुत्रिकापुत्राः । तेषां त्रयः । आत्रेयवामरथ्यपौत्रिकेति । अत्रीणां सर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।
इत्यत्रयः ।
अथ विश्वामित्राः ।(५)
ते दश, कुशिका लोहिता रोक्षकाः कामकायना अजाः कता धनंजया अघमर्षणाः पूरणा इन्द्रकौशिकाश्चेति ।
कुशिकाः पार्णजङ्घा वारक्या औदलयो माणयो बृहदग्नय आल[२१४]षय आद्य[२१५]हय आपद्यष्याः कामन्तका बद्धकथाश्चिकिताः कामकायनाः शालङ्कायनाः कास्यायना लौ[२१६]का गौराः सौगन्तव्या यमदूता आनाभन्नास्तारकायणाश्चौवला जाबालयो याज्ञवल्क्या वितण्डा नुवलयः सौशृतय औपगहनय उदपरयो भ्राष्टग्याः श्यामेयाश्चैत्रेयास्तालोचतरा मयूराः[२१७] सांम[२१८]त्याश्चित्रतवयाः साततायना मनवस्तन्तवः सान्तवः पक्षा नालशब्दा वाभ्रव्याः कालापा उत्सरथो देवराता औलकय उलूका वा[२१९]भ्रवाः शाला विशालाः कालवचाः सैन्धवायनाः सौरधयः कारीषयः संसृत्या औलोप्याः पार्योदरयः क्षरयः पडल[२२०]या गालवा वैकृतयो वैतण्डा ब[२२१]लशङ्कवः श्यामायनाः काला वालखिल्या या[२२२]जयः सौ[२२३]मेया आश्वलायना आवाहा उलूखला जैमिनयः सांकृतय औधेयाः साक्षयो ववा ईर्मवा वारकयः शालावताः ।
इति कुशिकाः ।
तेषां त्रयः । वैश्वामित्रदेवरातौदलेति ।
लोहिताः कुटुकयाश्चाक्रवर्णायनास्तन्तायना बाह्यकयोऽष्टकाः ।
इति लोहिताः । रोहिता इति केचित् । अष्टका वा । तेषां द्वौ वैश्वामित्राष्टकेति । त्रयो वा । वैश्वामित्राष्टकलौहितेति । अन्त्ययोर्व्यत्ययो वा । वैश्वामित्रमाधुच्छन्दसाष्टकेति वा । रौक्षकाः स्वोद्वहला रेवणाः । इति रौक्षकाः । रेवणा वा ।
तेषां त्रयः । वैश्वामित्ररौक्षरैव[२२४]णेति । वैश्वामित्रगाथिन[२२५]रवणेति वा । कामकायना[२२६] देवश्रवसा दैवतरसाः श्रीमता ज्यामकायनाः ।
इति कामकायनाः । श्रीमता वा ।
तेषां त्रयः । वैश्वामित्रदैवश्रवसदैवतरसेति ।
अजा भार्गमित्रा माधुन्छन्दसाः । इत्यजाः ।
तेषां त्रयः । वैश्वामित्रमाधुच्छन्दसाजेति ।
कता औदुम्बरयः शैशिरयस्तैकायनाः स्तोकायनयस्ता[२२७]र्श्यायनयः कात्यायनयः करीराभयो लावकयाः शालङ्कायना मौञ्जहायना[२२८] गाङ्गायनयः कालयो वेदमानयो गो[२२९]दायनयो मोदायनयो वेदायनयो वैनायनयो[२३०] रामणयो रातकयो मौञ्जायनयः ।
इति कताः ।
तेषां त्रयः । वैश्वामित्रकात्यात्कीलेति, वैश्वामित्रकात्याक्षिलेति वा ।
धनंजयाः पार्थिवा बन्धुला मन्दकाः पाणिलाश्चैत्रेयाः परिकुरयः ।
इति धनंजयाः ।
तेषां त्रयः। वैश्वामित्रमाधुच्छन्दसधानंजय्येति । वैश्वामित्रमाधुच्छन्दसाघमर्षणेति वा ।
अघमर्षणानां त्रयः । वैश्वामित्राघमर्षणकौशिकेति ।
पूरणानां परिधापयन्तानां च द्वौ, वैश्वामित्रपौरणेति । त्रयो वा, वैश्वामित्रदैवरातपौरणेति ।
इन्द्रकु(कौ)शिकानां द्वौ । वैश्वामित्रैन्द्रकौशिकेति ।
क्वचिदन्येऽप्येकादशोक्ताः । आश्मरथ्याः साहुला गाथिना वैणवा हिरण्यरेतसः सुवर्णरेतसः कपोतरेतसः शालङ्कायना घृतकौशिकाः कथका रोहिणाश्चेति ।
आश्मरथ्या घोटमुखाः कामुकायनाः कामलायना बन्धुलाः पाणिनयो[२३१] नैतुलाङ्गुलयः कौशिकाः ।
इत्याश्मरथ्याः । कुशिका इति केचित् । अजा इत्यन्ये ।
तेषां त्रयः । वैश्वामित्राश्मरथ्यवा[२३२]धूलेति । साहुला माहुला राहुलाः काहुलाः फा[२३३]गुला औमिला औ[२३४]दलाः शातातपाः कामलायनाः सातवव्रयो जातवयः ।
इति साहुलाः ।
तेषां त्रयः । वैश्वामित्रसाहुलमाहुलेति ।
गाथिना औद्दालकय उदवासा रौवश्वका आज्येद्वला रेणु[२३५]वाः ।
इति गाथिनाः । रेणु[२३६]वा इति केचित् । उदवेणव इत्यन्ये । हर्यश्वा इत्यपरे ।
तेषां त्रयः । वैश्वामित्रगाथिनरैणवेति । रेणुवेति क्वचित्पाठः ।
वैणवानां त्रयः । वैश्वामित्रगाथिनवैणवेति ।
हिरण्यरेतसां द्वौ । वैश्वामित्रहरैण्यरेतसेति ।
सुवर्णरेतसां द्वौ । विश्वामित्रसौवर्णरेतसेति ।
कपोतरेतसां द्वौ[२३७] । विश्वामित्रकापोतरेतसेति ।
शा[२३८]लङ्कायनाः शालाक्षा लोहिताक्षा लोहिता जह्नवः ।
इति शालङ्कायनाः । कौशिका वा । जह्नवो वा । तेषां त्रयः । वैश्वामित्रशालङ्कायनकौशिकेति ।
घृतकौशिकानां द्वौ, विश्वामित्रघृतकौशिकेति ।
कथकाः क्रथका आहू[२३९]घया उदूणयाः ।
इति कथकाः ।
तेषां त्रयः । वैश्वामित्रकाथकक्राथकेति ।
रोहिणानां त्रयः । वैश्वामित्रमाधुच्छन्दसरौहिणेति ।
विश्वामित्रगणानां परस्परमविवाहः । सगोत्रत्वात्सप्रवरत्वाच्च ।
इति विश्वामित्राः ।
अथ कश्यपाः । (६)
ते त्रयः । निध्रुवा रेभाः[२४०] शण्डिलाश्च ।
निध्रुवाः कश्यपा अष्टाङ्गिरयो भ[२४१]ण्टरा[२४२] ऐतिशायना आशून्या वैशिप्रा धूम्रा धूम्रायणाः सौम्या धम्यायणाः स्रौववृक्षा राग्रायणाश्चैवकयः प्रार्चयो हृद्रोगा आतपाः पाञ्चायनिका मेषान्तकयः सागसयो माघसरावयो वार्षकयः सैन्धवयः सांयस्या असुराय[२४३]णाश्छागल्याः सौनयः स्थौलकेशयः पार्षकय औपाव्या लाक्षायणाः क्रोष्टवो जायनयः साद्रायणा रोहितायना मितकुम्भाः पि[२४४]ङ्गाक्षय औदुलय आरमणाः पौलयो वैकर्णयः कौषीतकेया धूमलहाणयः सुरा गौ[२४५]गिरिवायना महाचक्रेयाः पैठीनस्याः पानस्या विषगणा दी[२४६]क्षमाणयो भालन्दनाः शाङ्खमित्रेया हरित्याजा मात्स्यारमणयः साविश्रवसो ([२४७]वैशम्पायनाः खैरङ्कयः कासलय उल्कायनयो मार्जलायनाः कासकायना देवा होतारः सुचक्रयः खरेना अयःस्थू[२४८]णा भागुरयाः पाथिकया गोमयना हिरण्यवाया अग्नयो देवयः सौर्या मुसला[२४९] आविश्रेण्या उदलीमन्त्रिता वैकर्णयः स्थूलबिन्दव आग्रायणा मौषकास्तैतिकायना औपप्रतिमा साराहरेयाः कौरञ्जाश्चैकेता[२५०] नृत्याः स्वैकयो भौव[२५१]नाश्चैत्रगा आहूगायका देवयानाः सोमयागाः श[२५२]त्रुहयः काचायनाश्चक्रधर्मिणो महाचक्रधर्मिणः श्रेपयणा हा[२५३]र्कारयो दाक्षपाणयो हास्तयो[२५४] दासयो वात्स्यपाणयो हस्तलायना आश्ववातायनाः कौसीरकाः खगादा आग्निशर्मायणाः कैकसेयाः काश्वहायना) विहायना हस्त्याः सानुश्चुता हरितायना मार्गगाः सोमभुवो ज्ञानराधाः श्यामाः पक्षा वभ्र[२५५]वो वाजिवाहायना[२५६] बाहकायना भौमया गोष्ठायना वात्स्यायना वा[२५७]ष्टायना नागशिरसः शौकया ज्ञानहस्तयो भवनन्द[२५८]यो भावनन्दयः प्र[२५९]तिश्रवाः प्रातिथेयाः कौजालयः काण्डवायनः पैलमेलयः श्वाक्रायणाः कौषीतका मारीचाः कामेया नकयो वै[२६०]णीवा भिक्षयः ।
इति निध्रुवाः ।
तेषां त्रयः । काश्यपावत्सारनैध्रुवेति । एष एव धौम्याभिषेण्यमाठंराणाम् ।
रेभाणां त्रयः । काश्यपावत्साररैभेति । रैभ्येति वा पाठः ।
शाण्डिलाः कोहलाः पाप[२६१]कास्तापिका औदमेघाः सौदानवाः सा[२६२]चसाः कारेयः कौकण्टयस्तैक्षिमाह[२६३]यो[२६४] महोडकयः कोशयो मौजायना भाणवेशाः
खार्वभाय[२६५]नो गाङ्गायना वात्सभालयो गोभिला वेदायना वात्स्यायना बहूदरयो भागुरयः खादन्तीमुखा हिरण्यबाहवो नै[२६६]दाहा गोमूत्रा वाक्यशठा जानन्धरयो धन्वन्तरय एकखण्डा गर्दभीमुखा[२६७] आजवंशास्तृणबिन्दवः कोकिलाः पैप्पलादयो जलं[२६८]धवा गौ[२६९]शिलाः शत्रुगायना जीनाः पिप्पलाः
शि[२७०]जाः केशिला मुञ्जमयूराः पैदानवाः कौवलयः कौ[२७१]रण्डजा उत्तराः सुजातपूराश्चेरलाः सुकेतवः कुहका बहु[२७२]मिण्डा हैपुटा व[२७३]टायना महाकोरलयः कु[२७४]हलासो मं[२७५]हता धवलाः कराताः प[२७६]र्यश्वा भुजाजलयः परिवारिणः ।
इति शण्डिलाः ।
तेषां द्वौ[२७७], दैवलासितेति । त्रयो वा । काश्यपदैवलासितेति । काश्पपावत्सारशाण्डिल्येति वा । अन्त्यस्थाने देवलो वा । असितो वा काश्यपासितदेवलेति वा । अन्त्ययोर्व्यत्ययो वा । शाण्डिल्यासितदैवलेति वा । शाण्डिलेति क्वचित्पाठः । असितदेवलशाण्डिल्येति वा ।
कश्यपानां परस्परमविवाहः, कश्यपस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्सप्रवरत्वाच्च ।
इति कश्यपाः ।
अथ वसिष्ठाः । (७)
ते चत्वारः । वसिष्ठाः कुण्डिना उपमन्यवः पराशराश्च ।
वसिष्ठा वैतालकवयो रकयः सारबला गौरिश्रव[२७८]सा आश्वलायनाः क[२७९]पिष्ठलाः शौचिवृक्षा व्याघ्रपादा बाह्यका[२८०]यनो गायन[२८१]या नयाव्या जातूकर्ण्या रौध्नाम[२८२]याः कौभोजयः कौलायनाः सुवाहा हा[२८३]रीताः काण्डवृद्धयः सौपवत्सायना आलम्भायना लोमायनाः स्वस्त्याकर्षिताः पार्ष्णिकायनाः पार्णवल्का दे[२८४]वना गौरव्या विश्वायना वाहकथयोऽवकितयो वस्वपाजयाः पूतिमाषाः सर्मवेला औपवना औपगवा वैष्णवाः । सात्वलायना औडुलोमा गोपायना धो[२८५]वयो या[२८६]लिसया वाग्रयथा आयःस्थूणा ब्रह्मपुरेयाः स्वस्तिकाः
पाण्डुलयो गोधिलयो मालोहवयो ब्रह्मवलयाः श्वौलयः पौहिश्रवसो याज्ञवल्क्या रावणेयो मौलयः कौलय औपलोना आ[२८७]श्लायना मिथोवलयाश्चण्डालयो गौरिलयो व्यालोहयः स्यामुनाश्वाः सुपाचयो दासध्या भ्र[२८८]लिसथा आर्जुनाक्षयः।
इति वसिष्ठाः ।
तेषामेकः । वासिष्ठेति । त्रयो वा वासि[२८९]ष्ठैन्द्रप्रमदाभरद्वस्विति ।
कुण्डिना लोहितायना गुग्गुलयोऽश्व[२९०]त्था नैकर्णय औपवस्था आश्मरथा बाहवाः क्रौङ्क्रोल्याः साङ्गतिनः कापटवः पे[२९१]टका नवग्रामा हिरण्याक्षायणाः पैप्पलादयः सौगयोक्षिता माध्यंदिनाः सोमयक्षयः सौ[२९२]स्थ्यो घृतयो नै[२९३]शृङ्गा लोभायना गोवना विधंकषयो मैत्रावरुणाः ।
इति कुण्डिनाः ।
तेषां त्रयः । वासिष्ठमैत्रावरुणकौण्डिन्येति ।
उपमन्यव औदलया माण्डलेखयः कापिञ्जला जालागतास्तपोलोकास्त्रैव[२९४]र्णाः पार्णागिरयः सादाक्षरा मौलालयो महाकण्वायना बालशिखा औद्वहनायना बलायना भागवित्तायनाः कुण्डोदरायणा लाक्ष्मणेया बा[२९५]ह्यकेयो वार्कय आलवचाः कपिकेशाः शौ[२९६]लालयः शाकधियो दाकायना वलेखला लम्बायना ब्रह्म[२९७]चर्याः शाकोहयाः सरावणाः कण्वायनाः कालाक्षा दशेरकाः कृष्णास्तरायणाः पालङ्कायना उद्गाहाः कौरव्याः क्रो[२९८]धिना मानेया ब्रह्मवलयो माशरावत्याः सांख्यायना गोरथाः सुहाकाः श्यामयो राथ्येया औपलेखयो गोपोद[२९९]नयः
कौमाराः काण्डोदरयश्चक्रदर्भयः का[३००]रपू[३०१]रयः कौलम[३०२]लयो व्याघ्रायणा रोक्षहेमयो नौ[३०३]हुलयो बाहुलयः कालपायना भागुरायणाः शांकर्या मु[३०४]चकायनाः पाथश्रवसो मारायणाः पादकायनाः[३०५] स्काम्भायना धातुहयो भागहयः कौर[३०६]कृकशायनाः ।
इत्युपमन्यवः ।
पराशराः काण्डूशया वाजयो वाजिमन्तयो भैमतायना गोवालयः प्रा[३०९]गेहया वैकलयः प्लक्षयः कौकुचादयो हार्यश्वयः क[३१०]ल्पाः पनयो गोपयः[३११] स्यातयो आरुणय आलुक्या वाजरयाः काच्छ्रायनाः कौमतयः कृष्णाजिनाः कापिसुखाः स्वाप्यायनयः श्वेतपू[३१२]पयः [३१३]पौष्करसादयो गर्ग्यादयस्तार्णेयाः श्रौतुहयाः सहचोलयो जेनयाः पाथेयाः कारुजायनाः का[३१४]र्ष्णायनाः शोकयो वा[३१५]र्ष्ण्यायनाः कपिश्रोता: स्कम्भिन्या माण्डिकाः शानपातयाः पटिका वधिका[३१६]स्तिलपूप[३१७]यः साल्वायनाः क्षौमयो हर्यावयः शिवय इषीकहस्ताः ।
इति पराशराः ।
तेषां त्रयः । वासिष्ठशाक्त्यपाराशर्येति । एषां वसिष्ठानां परस्परमविवाहः, सगोत्रत्वात्सप्रवरत्वाच्च ।
इति वसिष्ठाः ।
अथागस्त्याः(स्तयः) । (८)
त एकादश, अ[३१८]गस्तय इध्मवाहाः साम्भवाहाः सोमवाहा यज्ञवाहा दर्भवाहाः सारवाहाः पूर्णमासाः पारणिनो हिमोदकाः पाणिकाश्च ।
अगस्तयः करम्भयः कौशल्याः सुमेधसो मयोभुवो गाधरायणाः फुलस्तयः पुलहाः ऋतवः का[३१९]र्णाटा म[३२०]हेन्द्राः ।
इत्यगस्तयः ।
तेषामे[३२१]कः । आगस्त्येति । त्रयो वा[३२२] । आगस्त्यदार्ढच्युतैध्मवाहेति[३२३] । आगस्त्यमाहेन्द्रमायोभुवेति वा ।
इध्मवाहा विशालाद्याः स्फा[३२४]लायना औपदहनयः कल्माषा दण्डयो लाव णयो लव्यारदण्डयो वैरणयो मु[३२५]ण्डोदरयः सैवपथयः शाल्मातपा मौ[३२६]ञ्जिलताः पादोहता हारिग्रीवी रोहिष्या मौसलयः सैवगः साम्भरायणाः कैकर्णायना मा[३२७]र्गायणा आचर्याः शालङ्कायनय उपकल्मकायनयो वारिणयो यवात्यायनयः क्षौमिनयो लाशयः साकाक्षयस्तण्डयो लाज्यायनयो हृ[३२८]दोगयो मादुराक्षयः पण्डोद्धनाः कुण्ड्याक्षय उप[३२९]कूला अ[३३०]र्बुदाः शैवायुधाः परहता वैत्योरन्दय औकुला वैरण्डयो गोव्यादयो दामाः सो[३३१]म्यानया ब्राह्मण्याः पुत्रयो वासिषाय[३३२]णाः शारगरः स्फा[३३३]ण्टावचनाः ।
इतीध्मवाहाः ।
तेषां त्र[३३४]यः । आगस्त्यदार्ढच्युतैध्मवाहेति दा[३३५]र्ढ्येति वा पाठः । एको वा[३३६]ऽऽगस्त्येति ।
साम्भवाहानां साम्भवाहान्त्यौ पूर्वावेव । आगस्त्यदार्ढच्युतसाम्भवाहेति ।
एवं सोमवाहादीनां चतुर्णां तत्तन्नामान्त्यौ पूर्वावेव ।
पूर्णमासानां पारणिनां च त्रयः । आगस्त्यपौर्णिमासपारणेति ।
हिमोदकाः । अक्राः शक्ताः शुक्ता हंसाः श्वासा हेमचर्चयः ।
इति हिमोदकाः ।
तेषां त्रयः । आगस्त्यहैमचर्चिहैमोदकेति ।
पाणिका वि[३३७]मितेलयः । मामितेकलयः । पिना[३३८]मकाः । नन्दयो[३३९]नियः । विलयः ।
इति पाणिकाः ।
तेषां त्रयः । आगस्त्यपैनामकपाणिकेति ।
अगस्तीनां सर्वेषां परस्परमविवाहः, सगोत्रत्वात्सप्रवरत्वाच्च ।
इत्यगस्तयः ।
अथ दिगोत्राः ।
शौङ्गशैशिरयः संकृतयो लौगाक्षयश्च ।
तत्र भरद्वाजाच्छुङ्गाद्वैश्वामित्रस्य शैशिरेः क्षेत्रे जातः शौङ्गशैशिरिनामा वद्गोत्राणां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजकात्यात्कीलेति । आङ्गिरसबार्हस्पत्यभारद्वाजशौङ्गशैशिरेति वा । त्रयो वा, आङ्गिरसकात्यात्कीलेति । आद्यो भरद्वाजो वा । भारद्वाजकात्यात्कीलेति । कात्याक्षिलेति वा पाठः । एषां विश्वामित्रभरद्वाजाभ्यां नान्वयः ।
संकृतयः पूतिमा[३४०]षास्तण्डयः शम्बवो भैमगवाः सौ[३४१]पवना जानकयः सैराधा रतव्या ऋषनयो वारायणयः सहयो गाङ्गयो लौक्षयस्ताला नागहया भिल्लातयो[३४२] विभीतकास्तैलयः परिभवा वैयाघ्रपद्याः श्रौतायनाश्चान्द्रायणा मल्लकाः शालायना आर्षण्या हारिनियाः पौला आघ्रयः ।
इति संकृतयः ।
तेषां त्रयः[३४३] । शाक्त्यसांकृत्यगौरिवीतेति । अन्त्ययोर्व्यत्ययो वा[३४४] । शाक्त्यगौरिवीतसांकृत्येति । आङ्गिरसगौरिवीतसांकृत्येति वा । एषां संकृतीनां वसिष्ठत्वमस्ति, सत्याषाढापस्तम्बादिभिर्वसिष्ठगणमध्ये पाठात्[३४५] । वासिष्ठशक्तेः पाक्षिकवरणाच्च । तेनैषां सर्वैर्वासिष्ठैरहर्वासिष्ठैर्लोगाक्षिभिश्च सहाविवाहः, सगोत्रत्वात्किंचित्प्रवरसाम्याच्च । केवलाङ्गिरो[३४६]भिरप्यविवाहः । बौधायनेन केवलाङ्गिरोभिर्विश्वामित्रैर्वसिष्ठैश्च सह संकृतिभिरविवाह इत्युक्तम् । केचित्तु केवलाङ्गिरोगणैर्विवाह एव सगोत्रत्वाभावाद्द्वित्रि(त्र)प्रवरसाम्याभावाड[३४७]च्चेति वदन्ति । प्रयोगपारिजाते तु काश्यपैरप्येषामविवाह इत्युक्तं, तत्र हेतुश्चिन्त्य इति नव्याः ।
लौगाक्षयो दार्भायणा मैत्रवादयो द्रेहकालेयाः कापुटयः क[३४८]लयाः कंसपात्राश्चालकायनयो नित्यराः, तादय ओदकयः कौनामयः सौतयः सैतिकयः ष्टेभरा निशयः ष्टैषि[३४९]कयः सौसुखि[३५०]कयः सैरन्ध्रयो वोषणयः कालकयः सौरन्ध्रयो राजबाहवोऽनश्वयो मिगुरयो राजवन्नयः सैरयः स्विरोदवाहयो राजसवकयः सौ[३५१]रङ्घ्रयः पिङ्गाक्षयः काकुलयः शाकुलयो रावफालयः सैकयः सा[३५२]सुधयः श[३५३]रद्वन्ता औपपत्यकयः सौतपाः ।
इति लौगाक्षयः ।
तेषां त्रयः । काश्यपावत्सारवासिष्ठेति । काश्यपावत्सारासितेति वा । वासिष्ठावत्सारकाश्यपेति वा । एतेऽहर्वसिष्ठाः । नक्तं कश्यपाः । एषां वसिष्ठकश्यपाभ्यां संकृतिभिश्चाविवाहः सगोत्रत्वात्कैश्चित्सप्रवरत्वादपि ।
पारिजातधृतसंग्रहस्मृत्यर्थसारयोस्त्वन्ये षडुक्ताः । देवरातानां त्रयः । वैश्वामित्र[३५४]दैवरातौदलेति । एषां जमदग्निविश्वामित्राभ्यामविवाहः ।
"जमदग्निगणस्यापि विश्वामित्रगणस्य च । |
बौधायनादिभिर्जामदग्न्येषु देवरातस्यापठितत्वाज्जामदग्न्यत्वं चिन्त्यमिति केचित् ।
अन्ये तु--
"और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः । |
इत्युक्त्वा--
"देवैर्दत्तः शुनःशेपो विश्वामित्राय भार्गवः । |
इति हरिवंशे देवरातस्य जमदग्निसंबन्धकथनाज्जामदग्न्यत्वमुपपन्नमित्याहुः । धर्मप्रदीपे तु--"मातामहैः शुद्धजामदग्न्यैर्देवराता[३५५]नां न विवाहः" इत्युक्तम् ।
धनंजयानां वैश्वामित्रमाधुच्छन्दसधानंजय्येति । एषामत्रिविश्वामित्राभ्यामविवाहः ।
जातूकर्ण्यानां वासिष्ठात्रेयजातूकर्ण्येति । एषामत्रिवसिष्ठाभ्यामविवाहः ।
वामरथ्यादीनां पूर्वोक्तानामत्रिपुत्रिकापुत्राणामत्रिवसिष्ठाभ्यामविवाहः । अत्रिविश्वामित्राभ्यामिति केचित् ।
कपिलानां पञ्च । आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति । एषां विश्वामित्र[३५६]भारद्वाजाभ्यामविवाहः । न च कपिलस्य विश्वामित्रसंबन्धे मानाभावः । वैश्वामित्रं देवरातं प्रकृत्य तस्यैते कापिलेयवाभ्रवा इत्यैतरेयि(य)ब्राह्मणगतकापिलोक्तेर्लिङ्गवि[३५७]धया मानत्वात् । कपिलानां विश्वामित्रत्वाभावे कापिलानां वैश्वामित्रत्वानुपपत्तेः ।
कतानां त्रयः । वैश्वामित्रकात्यात्कीलेति । एषां विश्वामित्रभारद्वाजाभ्यामविवाहः ।
एवमिदानींतनानामपि दत्तकादीनामुत्पादकपालकयोः पित्रोर्गोत्रप्रवरावर्ज्या इति प्रवरमञ्जर्यादयः । मण्डनः--
"आविश्वामित्रमात्रेया नोद्वहन्ति च ते मिथः । |
इयं व्यवस्था क्षत्त्रियविषयिण्येव पूर्वत्र तस्यैवोपक्रमात् । अयमेव न्यायो वैश्यानामपि । गणसंदेहे त्वविवाह एव ।
इति प्रवरनिर्णयः ।
अथ मातृगोत्रनिर्णयः ।
तत्र स्मृतिवचनम्--
"मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । |
अयं च मा[३६१]तृगोत्राविवाहनिषेधो गान्धर्वादिविवाहोढासुतानां सर्वेषामेव । ब्राह्मादिविवाहोढासुतानां सर्वेषां न, किंतु माध्यंदिनीयानामेव 'मातृगोत्रं माध्यंदिनीयानाम्' इति वचनात् । शिष्टाचारोऽप्येवमेव ।
केचित्त्वेतस्य वचनस्य निर्मूलत्वात्सर्वेषां मातृगोत्रवर्जनमित्याहुः । युक्तं तु शिष्टाचारसहकृतवचनान्माध्यंदिनीयानामेव तद्वर्जनम् ।
इति मातृगोत्रनिर्णयः ।
अथ दत्तकस्य विवाहाद्युपयोगिगोत्रादिनिर्णयः ।
तत्र यद्यपि यश्च प्रतिग्रहीत्रा जातकर्मादिभिश्चूडादिभिर्वा संस्कृतः स एकगोत्रः ।
एतदभिप्रेत्यैव--"गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः" ।
इति शास्त्रमपि प्रवृत्तम् । एतदन्यस्तु प्रतिग्रहीत्रोपनयनमात्रसंस्कृतस्तदुत्तरं प्रतिगृहीतो वा देवरातवद्द्विगोत्र एवेति व्यवस्था निबन्धकारैरुक्ता, तथाऽप्येषा व्यवस्थाऽभिवादनश्राद्धादिगतगोत्रनिर्देशार्था । विवाहे तु दत्तकमात्रेण वीजिप्रतिग्रहीत्रोः पित्रोर्गोत्रप्रवरवर्जनं कार्यम् । प्रवरमञ्जर्यादिनिबन्धेषु तन्निषेधोक्तेरिति कौस्तुभे ।
दत्तकमीमांसाकारस्तु दत्तकमात्रे गोत्रद्वयवर्जनं न, किंतु द्व्यामुष्यायणे दत्तकवि[३६२]शेषे [इत्याह] । तथाहि । द्विविधा दत्तकादयः। नित्यद्व्यामुष्याणा अनित्यद्व्यामुष्यायणाश्च । तत्र नित्यद्व्यामुष्यायणा नाम ये जनकप्रतिग्रहीतृभ्यामावयोरयं पुत्र इति संप्रतिपन्नाः । अनित्यद्व्यामुष्यायणास्तु ये चूडान्तैः संस्कारैर्जनकेन संस्कृता उपनयनादिभिश्च प्रतिग्रहीत्रा, तेषां गोत्रद्वयेनापि संस्कृतत्वाद्द्व्यामुष्यायणत्वं परं त्वनित्यम् । जातमात्रस्यैव परिग्रहे गोत्रद्वयेन संस्काराभावात्तस्य परिग्रहीतृगोत्रमेव । तदिदं सर्वमभिप्रेत्याऽऽह[३६३] सत्याषाढः-- "नित्यानां द्व्यामुष्यायणानां द्वयोः" इति सूत्रेण नित्यद्व्यामुष्यायणानां गोत्रद्वये प्रवरसंबन्धमुक्त्वा तमेवानित्येष्वतिदिशति, "दत्तकादीनां तद्द्व्यामुष्यायणवत्" इति सूत्रेण ।
व्याख्यातं चैतच्छबरस्वामिभिः--
"द्व्यामुष्यायणप्रस[३६४]ङ्गेनानित्यानाह दत्तकेति । तावदेव नोत्तरसं- |
अस्य भाष्यस्यायमर्थः । यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वयसंबन्धो नोत्तरसंततेः । जनकगोत्रसंबन्धे किं कारणमित्याह--प्रथमेनेति । प्रथमो जनकस्तेनैव संस्कृतत्वात् । संस्काराश्च चौलान्ताः ।
"पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते । |
इति कालिकापुराणात् । व्याख्यातं चैतत्प्रागेव । अन्यस्यासाधारणीं पुत्रतां न याति किंतु द्व्यामुष्यायणो भवतीति । प्रथमेनासंस्कारे कथमित्यत आह । परिग्रहीत्रा चेदिति । परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणे चौलादिसंस्कारकरणेऽपि वोत्तरस्य परिग्रहीतुरेव गोत्रम् । तत्र हेतुः पूर्वत्वात्संस्कारकरणे प्रथमत्वात् । द्व्यामुष्यायणसंततौ चापेक्षितगोत्रमाह--तेनैवेति । परिग्रहीतृगोत्रेणैवोत्तरसंततेर्गोत्रमुभयत्रापि । सगोत्रपरिग्रहमाह--तथेति । जनकपरिग्रहीत्रोरेकगोत्रत्वेऽपि परिग्रहीत्रैव व्यपदेशः परिग्रहसंस्कारकरणादिति ।
यत्तु--"गोत्ररिक्थे जनयितुर्न भ[३६५]जेद्दत्तिमः सुतः" इति,
तत्परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणपक्षे वेदितव्यम् । ये त्वनित्यद्व्यामुष्यायणा दत्तकादयस्तेषां गोत्रद्वयम्,
"द्व्यामुष्यायणका ये स्युर्दत्तकक्रीतकादयः । |
इति पारिजातस्मरणात् । गोत्रद्वये जनकगोत्रे परिग्रहीतृगोत्रे च ।
दत्तकादीनां च द्व्यामुष्यायणत्वे ।
"इदं नित्यानां द्व्यामुष्यायणानां दत्तकादी[३६६]नां द्व्यामुष्यायणवत्" |
इति सत्याषाढवचनं प्रमाणम् ।प्रवरमञ्जर्यामप्यनेनैवाभिप्रायेणोक्तम् । दत्तक्रीतकृत्रिमपुत्रिकापुत्रादीनां यथासंभवं गोत्रद्वयं[३६७] सप्रवरमस्त्येवेति । एतावता द्विगोत्राणां गोत्रद्वयं सप्रवरं विवाहे वर्ज्यमित्याह । तत्र युक्तं ग्राह्यम् । न चेदानींतनसूत्रपुस्तक एतत्सूत्रस्यैवादर्शनात्कथमेतस्य सत्याषाढीयत्वमिति वाच्यम् । अतिप्रामाणिकेन मीमांसाभाष्यकृता शबरस्वामिना सत्याषीढयत्वेन धृत्वैव व्याख्यातत्वेनैतदनुरोधेनेदानींतनसूत्रपुस्तक एतत्सूत्रस्योच्छिन्नताया एव कल्पनात् । संक[३६८]र्षकाण्डमुच्छिन्नमित्यभियुक्तप्रवादोऽप्यस्ति । द्विगोत्रस्य जनकपितृगोत्रवर्जनाव[३६९]धेः क्वचिदपीदानीमनुपलम्भाद्यावद्विज्ञानं वर्जनम् ।
इति दत्तकगोत्रनिर्णयः ।
अथ दत्तकसापिण्ड्यनिर्णयः ।
गौतमः--" ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो वीजिनश्च मातृबन्धभ्यः पञ्चम्याः" इति ।
- उक्तं च--" वसु[३७०]देवाङ्गजाता च कौन्तेयस्य विरुध्यते" ।
इतिवार्तिकव्याख्यानावसरे न्यायसुधाकृता दत्तकविषयमेतदित्यङ्गीकृत्य कुन्त्या जनककुले साप्तपुरुषं सापिण्ड्यमिति । व्याख्यातं तद्विषयत्वेनैव सापिण्ड्यमीमांसायाम् । अतः कुलद्वयेऽपि साप्तपुरुषसापिण्ड्यं प्रतीयते । पैठीनसिस्तु-- "त्रीन्मातृतः पञ्च पितृतः पुरुषानतीत्योद्वहेत्" इत्याह । व्याख्यातमेतदपरार्के-- दत्तकादिपुत्रान्पितृपक्षतो निवृत्तपिण्डगोत्रार्षेयान्प्रत्येतदुच्यते पञ्च पितृत इतीति । अतश्च प्रतिग्रहीतृपितृकुले साप्तपुरुषं सापिण्ड्यं प्रतीयते । प्रतिग्रहीतृमातापितृकुलयोस्त्रिपुरुषं सापिण्ड्यमिति प्राञ्चः ।
अत्र व्यवस्थोक्ता सापिण्ड्यदीपिकायाम् -- दत्तक्रीतादीनां जनकगोत्रेणोपनयने कृते जनककुले साप्तपुरुषं सापिण्ड्यम् । प्रतिग्रहीतृमातापितृकुले निर्वाप्यपिण्डलक्षणं त्रिपुरुषं सापिण्ड्यम् । प्रतिग्रहीतृगोत्रेणोपनयने तत्कुले साप्तपुरुषमिति ।
उपनयनमात्रे कृते पाञ्चपुरुषम् । जातकर्माद्युपनयनान्ते कृते साप्तपुरुषमिति पैठीनसिवचःसाफल्याय व्याख्येयम् ।
न केवलं दत्तकस्य परिणयनार्थमेवैष सापिण्ड्योपन्यासः, किंतु तत्संततेस्तत्पित्रादिकुलोत्पन्नैः सह संबन्धसंभवनिर्णयार्थमपि । अन्यथा पार्थसुभद्रयारदत्तयोः संबन्धासंभवशङ्काया आचायकर्तृकोपन्यासस्य तदुपपत्त्ये सुधाया गौतमीयोपन्यासस्यालग्नकतापत्तेः । यादृशस्य दत्तकस्य यथा सापिण्ड्यमुक्तं तत्संततेरपि तथैव तद्बोध्यम् । अत एव यन्मदनपारिजातेऽप्युक्तं दत्तपुत्र्याः सुतस्य मातुः प्रतिग्रहीतृपितृमातृकुले त्रिपुरुषं सापिण्ड्यम् । दत्तपुत्रसुतस्य[३७१] स्वजनककुले पञ्चपुरुषमिति, तदपि पूर्वोक्तरीत्या दत्तकविशेषसंततिविषयत्वेन व्याख्येयम् ।
इति कौस्तुभोक्तदत्तकसापिण्ड्यनिर्णयः ।
अथ प्रसङ्गाद्दत्तकस्याऽऽशौचनिर्णयः ।
दत्तकपुत्रस्य जन्ममरणयोः पूर्वापरपित्रोस्त्रिरात्रं सपिण्डानामेकाहम् [आशौचम्] । यद्यसपिण्डः पुत्रीकृतः--
"बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम्" इति वचनात् , |
इति माधवीये हा[३७२]रीतवचनाच्च । तादृशेन दत्तकेन पित्रादिमरणे त्रिरात्रं कार्यम्--
"दत्तकश्च स्वयं दत्तः कृत्रिमः क्रीत एव च । |
इति शुद्धितत्त्वे ब्राह्मवचनात् ।
सपिण्डस्य पुत्रीकरणे तु सपिण्डमरणादिनिमित्तं दत्तकस्य तन्मरणादिनिमित्तं सपिण्डानां दशरात्रमेव निर्विवादम् । सापिण्ड्यं च पूर्वोक्तरीत्या व्यवस्थितमाशौचहेतुः ।
दत्तकपुत्रस्य जननमरणयोः पूर्वापरपित्रोस्त्रिरात्रं सपिण्डानामेकाहमिति कौस्तुभीयवाक्यस्यायमर्थः । दत्तकपुत्रस्येत्यत्र संस्कारानन्तरं गृहीतस्य दत्तकस्य पुत्रो दत्तकपुत्र इति तत्पुरुषेण पूर्वापरपित्रोर्जननाशौचस्य संशयनिवृत्तिर्भवतीत्यर्थः ।
तथाऽऽह मरीचिः--
"सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । |
यदा तु पितुस्त्रिरात्रं तदा सपिण्डानामेकाह[३७३] इत्यर्थः ।
"अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । |
इत्यस्यायमर्थः--अनौरसेष्वितीयमधिकरणसप्तमी । अनौरसेषु दत्तकादिषु तत्र जातेषूत्पन्नेषु पुत्रेषूत्पन्नबालकेषु सत्सु मृतेषु सत्सु च परः पूर्वः पतिर्यासां ताः परपूर्वास्तासु जारासक्तास्विति यावत् ।
तथा च प्रजापतिः--
"अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । |
इत्याशौचनिर्णयः ।
अथ जनकप्रतिग्रहीत्रुद्देश्यकदत्तककर्तृकपिण्डदाननिर्णयः ।
मनुः--
"गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः । |
एतच्च जनकस्य पु[३७४]त्रसत्त्वे ।
प्रवरमञ्जर्यां कात्यायनलौगाक्षिभ्यां स्पष्टं चैतदुक्तम्--
"अथ ये दत्तकक्रीतकृत्रिमपुत्रिकापुत्राः परपरिग्रहेणाऽऽर्षेया |
इत्यादिना द्वयोः पित्रोः प्रवरानुक्त्वोक्तम्[३७५]--
"अथ यद्येषां स्वासु भार्यास्वपत्यं न स्याद्रिक्थं हरेयुः पिण्डं चैभ्यस्त्रिपुरुषं दद्युर्यद्युभयोर्न स्यादुभाभ्यामेव दद्युरेकस्मिञ्श्राद्धे पृथगुद्दिश्यैकपिण्डे द्वावनुकीर्तयेत्प्रतिग्रहीतारं चोत्पादयितारं चाऽऽतृतीया- त्पुरुषात्" इति ।
हेमाद्रौ कार्ष्णाजिनिः--
"यावन्तः पितृवर्गाः स्युस्तावद्भिर्दत्तकादयः । |
चतुर्थपुरुषे छन्दस्तस्मादेषा त्रिपूरुषा ॥ |
अस्यार्थमाह हेमाद्रिः--दत्तकादयो जनकपालकयोः कु[३७६]लप्रेतानां स्ववर्गीयैः सपिण्डनं कुर्युः । दत्तकानां पुत्र(त्रा)स्तु पितुर्दत्तकस्य पितृभ्यां जनकपालकाभ्यां स्वपितामहाभ्यां सपिण्डनं कुर्युः । तेषां पौत्राः स्वपितरं दत्तकेन पितामहेन तज्जनकेन च सपिण्डयेयुः । चतुर्थोऽपि तत्कुलस्थ एव, तेषां प्रपौत्रस्तु दत्तकस्य प्रपितामहस्य पालककुलस्थं चतुर्थं योजयेन्न वा । छन्द इच्छा । दर्शमहालयादौ तु द्वयोः पित्रोः पिनामहयोः प्रपितामहयोर्वा श्राद्धं देयम् । तत्र द्वयोः पित्राद्योः पृथक्पिण्डदानं, द्वयोद्देशेनैको वेति । श्राद्धे गोत्रं तु पालकस्य, विवाहादौ तूभयोरित्यादि प्रवरदर्पणादिषु ज्ञेयम् ।
अथ विवाहकालः ।
तत्र मदनरत्ने नारदः--
"युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम् । |
पुंसां युग्मेऽब्दे स्त्रीणामयुग्मेऽब्द इत्येवंरूपे व्यत्यये । तयोर्वधूवरयोः पाणिपीडनं नाशकृद्भवतीत्यर्थः ।
पराशरमाधवीये स्मृत्यन्तरे तु--
"गर्भाधानाज्जन्मतो वा पञ्चमाब्दात्परं शुभम् । |
पञ्चमाब्दात्परमिति । पञ्चमाब्दात्परं यदयु(द्यु)ग्मं वर्षं त[३७७]त्र कुमारीवरणादि शुभं भवतीत्यर्थः । तेन युग्मेऽब्दे जन्मत इत्यनेन न विरोधः ।
बौधायनः--
"दद्याद्गुणवते कन्यां नग्निकां ब्रह्मचारिणे । |
यत्तु मनुनोक्तम्--
"काममामरणात्तिष्ठेद्गृहे कन्यर्तुमत्यपि । |
इति तद्गुणवति संभवति गुणहीनाय न दद्यादित्येवंपरं न तु सर्वथा गणहीननिषेधपरम् । नो चेदपि वा गुणहीनायेति बौधायनोक्तः कल्पो निर्विषयः स्यात् । ऋतुमत्यपि तिष्ठेदितिवचनमुक्तरीत्या न स्वार्थे तात्पर्यवत् । अतो नोपरुन्ध्याद्रजस्वलामित्यनेन न विरोधः ।
अत एव वसिष्ठोऽपि--
"प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता । |
कन्याशब्देन लज्जाद्यभिमानरहितवयोयुक्ता विविक्षता ।
तथा च माधवीये पुराणम्--
"यावन्न गूहतेऽङ्गानि कन्या पुरुषसंनिधौ । |
अमरस्तु नग्निकाऽनागतार्तवेत्याह।
स्मृत्यन्तरे--
"षडब्दमध्ये नोद्वाह्या कन्यका वत्सरद्वयम् । |
एतन्मूलभूता श्रुतिरपि--
"सोमः प्रथमो विविदे" इत्यारभ्य "तृतीयोऽग्निष्टे पतिः" इत्यन्ता ।
नन्वस्य विरोधो ब्रह्मपुराणे गौतमीमाहात्म्ये भानुतीर्थवर्णने विष्टिभानुसंवादे दृश्यते--
"चतुर्थाद्वत्सरादूर्ध्वं यावन्न दशमात्ययः । |
सत्यम् । एतत्पुराणवाक्यं शुद्राविषयं न ब्राह्मण्यादिविषयमित्यविरोधः । सप्तमवर्षं विषमत्वान्नारदादिभिः स्त्रीविवाहे नाङ्गीकृतं तस्मात्सर्ववर्णानामविरुद्धमष्टमनवमदशमवर्षेषु स्त्र्युद्वहनम् ।
ननु नवमवर्षस्य ग्रहणं विरुद्धं युग्मेऽब्दे जन्मतः स्त्रीणामितिनारदवचनविरोधादिति चेत्सत्यम् । "नववर्षा तु रोहिणी" इति नववर्षाया रोहिण्याः "वैकुण्ठो रोहिणीं ददन्"इति वक्ष्यमाणमरीचिवचने [३७८]रोहिणीप्रदाने फलविशेषोक्त्या नवमवर्षस्यापि विवाहकालत्वेनोक्तत्वात् ।
वयोविशेषेण दातुः फलविशेषमाह मरीचिः--
"गौरीं ददन्नाकपृष्ठे वैकुण्ठे रोहिणीं ददन् । |
वसतीति शेषः । गौर्यादिशब्दार्थो यमेन दर्शितः--
"अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । |
संवर्तोऽपि--
"अष्टमे तु भवेद्गौरी नवमे नग्निका भवेत् । |
देवलः--
"कुलशीलवयोवृत्तरूपाढ्यां नग्निकां शुभाम् । |
इति विवाहकालः ।
अथ विवाहे मासादिनिर्णयः ।
तत्र मासा उक्ता वात्स्येन--
"माघमासे भवेद्व्यूढा कन्या सौभाग्यसंयुता । |
धनिनी स्वातन्त्र्येण धनसंग्रहवती । नित्यमित्यनेन भर्त्रादिशुश्रूषाव्यावृत्तिः सूच्यते । सोमदेवतो मार्गशीर्षः ।
मदनरत्ने नारदः--
"माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः । |
यथोक्तं गर्गेण--
"सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः" इति । |
कश्यपेन चान्द्रमानमप्युक्तम्--
"उपवासव्रतोद्वाहयात्राक्षौरोपनायनम् । |
इतरे चैत्राषाढश्रावणभाद्रपदाश्विनपोषाः ।
ज्योतिष्प्रकाशे व्यासः--
पृथ्वीचन्द्रोदये भरद्वाजः--
"माघफाल्गुनवैशाखज्येष्ठाषाढमृगाभिधाः । |
अत्र विहितप्रतिषिद्धानामाषाढादीनां व्यवस्थामाह मदनरत्ने वसिष्ठः--
"पौषेऽपि कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात् । |
देशाचाराद्व्यवस्था ।
आपस्तम्बः--
"सर्व ऋतवो विवाहस्य शैशिरौ मासौ |
शैशिरौ मासौ माघफाल्गुनौ । नैदाघ उत्तमो मास आषाढः । एतद्वर्जं नव मासा मुख्यः काल इति सुदर्शनभाष्येऽण्डविलायां ब्रह्मविद्यातीर्थैश्चोक्तम् ।
बौधायनसूत्रेऽपि--
"सर्व मासा विवाहस्य शुचितपस्तपस्यवर्जमित्येके" इति । |
शुचिराषाढः । तपा माघः । तपस्यः फाल्गुनः । अत्र स्मृत्युक्तानां मासानां सूत्रोक्तानां मासानां च परस्परविरोधाद्देशाचाराद्व्यवस्था । सूत्रे विहितानां श्रावणादीनां त्वासुरादिविषयत्वं द्रष्टव्यम् । देशाचाराद्व्यवस्था ।
चण्डेश्वरः--
"मार्गे मासि तथा ज्येष्ठे क्षौरं परिणयो व्रतम् । |
इतिनिषेधो वधूवरयोरन्यतरज्येष्ठत्वे न प्रवर्तते ।
"ज्येष्ठस्य ज्येष्ठकन्याया विवाहो न प्रशस्यते । |
ज्येष्ठा कन्या ज्येष्ठो वरो ज्येष्ठमास इति ज्येष्ठत्रयम् । ज्येष्ठानक्षत्रेणापि ज्येष्ठत्रयम्, ज्येष्ठानक्षत्रं ज्येष्ठो मासो ज्येष्ठा कन्या वरो वा ज्येष्ठ इत्येवं वा ज्येष्ठत्रयम् । ज्येष्ठचतुष्टये ज्येष्ठत्रयस्य सद्भावान्निषेधप्रवृत्तिरस्त्येव । ज्येष्ठस्य वरस्य ज्येष्ठकन्यायाश्च ज्येष्ठमासे विवाहो न प्रशस्यते । तयोर्मध्येऽन्यतरज्येष्ठत्वे तु प्रशस्यत इत्यर्थः ।
नारदः--"जन्ममासे च जन्मर्क्षे न जन्मदिवसेऽपि च । आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः" इति ॥
करग्रहो विवाहः ।
आश्वलायनः--
"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपन- |
कल्याणं ज्योतिःशास्त्राविरोधीति वृत्तिकृत् ।
ज्योतिर्निबन्धे--
"सार्वकालिकमिच्छन्ति विवाहं गौतमादयः" इति । |
एतच्च सार्वकालिकत्वमासुराद्यधर्म्यविवाहविषयमिति केचित् । आसन्नर्तुकालकन्याविषयमित्यन्ये ।
कात्यायनः--"उदगयन आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात्" इति ।
नारदः--"शुक्लपक्षं प्रशंसन्ति विवाहे गौतमादयः" इति । अत्र शुक्लपक्षप्राशस्त्योक्त्याऽसंभवे कृष्णपक्षस्यापि ग्रहणमिति सूच्यते । सर्व ऋतवो विवाहस्येत्यापस्तम्बसूत्रव्याख्यावसरे सुदर्शनेनापि पूर्वपक्षनियमाभाव उक्तः ।
तिथय उक्ता[३८१] भरद्वाजेन--
"प्रतिपद्दुःखजननी द्वितीया प्रीतिवर्धिनी । |
विवाह इति शेषः ।
फलं बहुविधं पञ्चदश्यां चैव विशेषतः" इति । |
पञ्चदशी पूर्णिमा ।
"विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् । |
इति ज्योतिर्निबन्धवचनादमाया विवाहदिवसान्तर्भावनिषेधे सिद्धे सुतरां तत्र विवाहनिषेधस्यापि सिद्धेः । चतुर्थीशब्दस्य हृस्वत्वमार्षम् । श्राद्धं तद्युक्तं दिनमिति विवाहमध्ये श्राद्धस्यैव निषेधो न तु तद्रहिततत्तिथिमात्रस्य ।
अन्यथा--"वृत्ते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेत्तम्" ।
इति शास्त्रस्य निर्विषयत्वापत्तेः[३८३] । तं विवाहविधिम् । दर्शदिनमिति स्वरूपेण तिथिनिषेधः । तथा[३८४] सत्येव पृथगुपादानस्य सार्थक्यात् । अयमेव विषय उपनयनादिष्वपि ज्ञेयः "ये वा भद्रं दूषयन्ति स्वधाभिः" इति श्रुतौ सामान्यत उक्तेः । एतत्सर्वमतिसंकटे ज्ञेयम् ।
ज्योतिर्निबन्धे प्रयोगचिन्तामणौ च लल्लः--
"अत्रापि कृष्णपक्षस्य दशमीमविवाहिकाम् । |
अथ नक्षत्राणि ।
तत्र--"अह्नः पञ्चसु कालेषु प्रातः संगवे म[३८५]ध्यंदिनेऽपराह्णे सायं वैतेषु यत्कारी स्यात्पुण्याह एव कुरुते" इत्येतत्सूत्रव्याख्यानावसरे मातृदत्तः--
"पुण्यानि तिथिवारनक्षत्राणि कालज्ञानविहितान्युपादेयानि प्रदर्शनार्थत्वाच्चैतस्य विधानस्येति । नक्षत्रेष्वपि यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । यत्पुण्यं नक्षत्रम् । तद्वट्कुर्वीतोपव्युपमित्यादिश्रुतेश्च देवनक्षत्राणि ज्योतिःशास्त्रविहितविवाहनक्षत्राविरोधीनि प्रशस्तानि द्रष्टव्यानि । देवस्य सवितुरिति प्रकृत्यसमानस्याह्नः पञ्च पुण्यानि नक्षत्राणीति श्रुतेष्वन्तरालेषु चतुरोऽश्लीलान्कालान्रात्रिं च वर्जयित्वा यत्कर्तव्यं कर्म तत्कर्तुं शीलं यस्य स यत्कारी सर्वाणि कर्माणि तेष्वेव कालेषु कर्तव्यानीत्यर्थः । स पुण्याह एव प्रशस्त एव दिने कुरुते । तत्र प्रागुदयादेका नाडिकोर्ध्वं चैका प्रातरित्युच्यते । प्राक्प्रथमाहश्चतुर्भागान्तादेका नाडिकोर्ध्वं चैका स संगवः । प्राग्द्वितीयाहश्चतुर्भागान्तादेका नाडिकोर्ध्वं चैका स मध्यंदिनः । प्राक्तृतीयाहश्चतुर्भागान्तादेका नाडिकोर्ध्वं चैका सोऽपराह्णः । प्रागस्तमयादेका नाडिकोर्ध्वं चैका स सायम् । अयं सर्वकर्मणां कालो न विवाहस्यैव । यत्कारीतिवचनाद्धोराणामेवायं विकल्प इति वाशब्दो ज्योतिर्ज्ञानप्रसिद्धकालविकल्पार्थः" इति व्याख्यातवान्[३८६] ।
चतुर्थो भागश्चतुर्भागः । अह्नश्चतुर्भागोऽहश्चतुर्भागः । प्रथमश्चासावहश्चतुर्भागश्च प्रथमाहश्चतुर्भागः । प्रथमाहश्चतुर्भागस्यान्तः प्रथमाहश्चतुर्भागान्तः । तस्मात् । इत्येवं समासः । एवमग्रेऽपि[३८७] ।
आपस्तम्बो विवाहं प्रकृत्याऽऽह--
"सर्वाणि पुण्योक्तानि नक्षत्राणि" इति । |
यानि ज्योतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि तानि ग्राह्याणि । नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात्तिथ्यादीन्यपि पुण्योक्तानि सर्वाण्युपसंहर्तव्यानीति सुदर्शनेन व्याख्यातम् ।
आश्वलायनोऽपि--"कल्याणे नक्षत्रे" इति । छन्दोगसूत्रेऽपि--"पुण्यनक्षत्रे दारान्कुर्वीत" इति ।
नक्षत्रग्रहणात्तिथ्याद्यपेक्षया नक्षत्रमावश्यकमिति तद्भाष्यम् ।
तान्युक्तानि कात्यायनेन--
"त्रिषूत्तरादिषु स्वातौ मृगशिरसि रोहिण्यां वा" इति । |
"उत्तराफल्गुनीहस्तचित्रा इति त्रीणि । उतराषाढाश्रवणधनिष्ठा इति त्रीणि" उत्तराप्रोष्ठपदारेवत्यश्विन्य इति त्रीणि इति हरिहरः ।
पारिजाते बृहस्पतिरपि--
"सौम्यपैतृकहस्ताश्च मैत्रमूलाश्विवासवाः । |
हेमाद्रावपि--
"हस्तोत्तराणि वायव्यं भैत्रं मूलं च रेवती । |
वसिष्ठोऽपि--
"मूलोत्तरापैतृकपौष्णमैत्रप्राजेशचन्द्रार्कसमीरणेषु । |
उत्तरोत्तरात्रयम् । पैतृकं मघाः । पौष्णं रेवती[३८९]नक्षत्रम् । प्राजेशं रोहिणी । चन्द्रो मृगशिरः । अर्को हस्तः । समीरणः स्वाती ।
आपस्त[३९०]म्बबौधायनौ--
"यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात्प्रियैव |
इयं भर्तुः प्रिया स्यादिति यां दुहितरं पिता कामयेत तां निष्ट्यायां स्वातौ वराय दद्यात् । सा तस्य प्रियैव भवति । नेव तु नैव च रोगदारिद्र्यादिना पीड्यमानाऽपि न पुनः पितृगेहमागच्छतीति स्वगृह एवास्याः सर्वेऽर्थाः संपद्यन्त इति ब्राह्मणावेक्षो विधिः । अत्रापि पूर्ववत्स्मार्तपुण्योक्तनक्षत्रैर्विकल्प इति सुदर्शनेन व्याख्यातम् ।
इन्वकानिष्ट्याशब्दप्रवृत्तिनिमित्तामा[३९१]हतुर्बोधायनापस्तम्बौ--
"इन्वकाशब्दो मृगशिरसि । निष्ट्याशब्दः स्वातौ" इति । |
"गुरुशुक्रेन्दुपुत्राणां दिनेषु परिणीयते । |
जीवभार्गवावपि क्षीणौ निषिद्धौ परिज्ञेयौ । अत्र दिनष्वित्यभिधानाद्रात्रावभ्यनुज्ञा गम्यते ।
तथा च स्मरन्ति--"न वारदोषाः प्रभवन्ति रात्रौ" इति मदनपारिजाते ।
निर्णयामृते स्मृत्यन्तरे--
"शनैश्चरदिने प्राप्ते यदा रिक्ता तिथिर्भवेत् । |
नृसिंहः--
"बुधशुक्रेन्दुजीवानां वारेषु शुभदं भवेत् । |
ज्योतिर्निबन्धे गर्गः--
"स्त्रीणां गुरुबलं श्रेष्ठं पुरुषाणां रवेर्बलम् । |
ज्योतिर्निबन्धे--
"विवाहे गर्भसंस्कारे स्त्रीणां विधुबलं भवेत् । |
मुहूर्तचिन्तामणावप्येवम् ।
ज्यो[३९२]तिःसागरे--
"कन्याचापे तथा सिंहे कर्के शुक्रो यदा भवेत् । |
"प्रायेण सर्वत्र विलोकयन्ति चान्द्रं बलं गोचरतो विशुद्धम् । |
एकतस्तु ग्रहाः सर्वे एकतः शशलाञ्छनः । |
ततस्तस्मात् ।
बृहस्पतिः--
"झषचापकुलीरस्थो जीवोऽप्यशुभगोचरः । |
लल्लः--
"द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीये च । |
गर्गः--
"सर्वत्रापि शुभं दद्याद्वादशाब्दात्परं गुरुः । |
मदनरत्ने गर्गः--
"चन्द्रताराबलं मुख्यं दंपत्योः पाणिपीडने । |
विवाहे मुख्यकाले तयोर्बलालाभे पूजा कार्या ।
"विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः । |
इति तत्रैव नारदोक्तेः । चेदित्यस्य दुर्बलेत्यत्रान्वयः ।
गुरुपूजाप्रकारं तु शान्तिरत्नमालायां वक्ष्यामः । रवेरपि पूजां तत्रैव ।
लल्लः--
"बृहस्पतौ शोभनगोचरस्थे विवाहमिच्छन्ति हि दाक्षिणात्याः । |
"मीने धनुषि सिंहे च स्थिते सप्ततुरंगमे । |
सप्ततुरंगमः सूर्यः ।
ज्योतिर्ग्रन्थे--
"सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् । |
लल्लः--
"नर्मदापूर्वभागे तु शोणस्योत्तरदक्षिणे । |
प[३९३]राशरः--
"गोदाभागीरथीमध्ये नोद्वाहः सिंहगे गुरौ । |
कालनिर्णये--
"शान्तिकं पौष्टिकं यात्राप्रतिष्ठोद्वाहपू[३९४]र्वकम् । |
माण्डव्यः--
"इष्टापूर्तं च चौलादिसंस्कारा वास्तुकर्म च । |
ज्योतिर्निबन्धे--
"सिंहे गुरौ सिंहनवांशकोर्ध्वं गोदावरीदक्षिणकूलजातैः । |
ज्योतिःसंग्रहे--
"मागधे गौडदेशे च सिन्धुदेशे च कोङ्कणे । |
मकरस्थतायां विवाहे विशेषो देवीपुराणे--
"मकरस्थो यदा जीवो वर्जयेत्पञ्चमांशकम् । |
एवं गुरोः सिंहस्थत्वेऽपि विवाहविषये विशेषमाह राजमार्तण्डः--
"सिंहराशौ तु सिंहांशे यदा भवति वाक्पतिः । |
अत एव--"सिंहेऽपि भगदैवत्ये गुरौ पुत्रवती भवेत्" इत्युक्तम् ।
भगदैवत्यं पूर्वे फल्गुन्यौ । भगदैवत्यप्रथमपादस्य सिंहांशत्वेन परित्याज्यत्वात्तद्व्यतिरिक्तं भगदैवत्यं ग्राह्यम् ।
तथा[३९५] च माण्डव्यः--
"मघा(घ)ऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् । |
अत्रैतैर्वचनैः सिंहस्थगुरौ मघानक्षत्रपरित्यागेन यत्परिणयनं प्रतिपादितं तन्माघ्यां पौर्णमास्यां तद्वर्षे मघानक्षत्राभावे बोध्यम् । अन्यथा सिंहे गुरौ परिणीतेतिवक्ष्यमाणवचनेन विरोधः स्यादिति ।
तथा च ज्यौ[३९६]तिषे--
"गुरौ हरिस्थे न विवाहमाहुर्हारीतगर्गप्रमुखा मुनीन्द्राः । |
तथा--"माघ्यां य[३९७]दा मघा न स्युः सिंहे गुरुरकारणम्" इति ।
अकारणं विवाहेऽनिषेधक इत्यर्थः ।
अत एव--
"सिंहे गुरौ परिणीता पतिमात्मानमात्मजान्हन्ति । |
[३९८]इत्यादि राजमार्तण्डादौ मघादिनक्षत्रत्रयेऽपि विवाहे प्रोक्तो दोषोऽविरुद्धतयासंगच्छत इति विभावनीयम् ।
अत्र च गोदावर्युत्तरतीरमारभ्य भागीरथीदक्षिणकुलं मर्यादीकृत्य यो गोदावरीभागीरथ्योरन्तरालवर्ती देशस्तत्रैव सिंहस्थो गुरुर्वर्ज्य इत्याह लल्लः--
"गोदावर्युत्तरतो यावद्भागीरथ्यास्त(थीत?)टं याम्यम् । |
अर्थाद्गोदावरीदक्षिणतटे भागीरथ्युत्तरदेशे च विवाहे सिंहस्थगुरुदोषो नास्तीति ।
तथा च वसिष्ठः--
"भागीरथ्युत्तरे कूले गौतम्या दक्षिणे तथा । |
एवं मेषस्थे सूर्ये सिंहस्थगुरुदोषो नास्तीति दाक्षिणात्यसंग्रहे ज्योतिर्निबन्धे पठन्ति--
"मङ्गलानीह कुर्वन्ति सिंहस्थो वाक्पतिर्यदा । |
तथा नारदेन देशभेदेन समसप्तकदोषोऽपि विवाह उक्तः--
"समदृष्टिगुरोः शुक्रस्तन्मासे तु प्रयत्नतः । |
शौनकः--
"एकराशिगतौ सूर्यजीवौ स्यातां यदा पुनः । |
एतच्चैकनक्षत्रावच्छेदेनैकराशिगतत्वे बोध्यम् ।
"एकराशिगतौ स्यातामेकर्क्षविषये यदि । |
इतिवचनैकवाक्यत्वात् ।
अत एव--"गुर्वादित्ये दशाहे तु व्रतोद्वाहादि वर्जयेत्"
इत्यनेन यत्कर्मवर्जनमुक्तं तद्भिन्ननक्षत्रविषयं बोध्यमिति । यदि चैकर्क्षघटितविशेषवचनसहकारेण मुन्यन्तरोक्तसामान्यवचनस्याप्येकस्यैव निषेधविधेः कल्पनालाघवात्तदेकवाक्यत्वानुरोधेन विशेषविधिपरत्वं कल्प्यते तदा विभिन्ननक्षत्रविषये तयोरेकराशिस्थत्वं बोध्यमिति नवीनाः ।
वात्स्यः--
"गुरुभार्गवयोर्मौढ्ये बाल्ये वै वार्धकेऽपि च । |
[३९९]ज्योतिर्वसिष्ठः--
"यात्रोद्वाहौ प्रतिष्ठां च गृहचूडाव्रतादिकम् । |
कृत्यचिन्तामणौ--
"तथा मलिम्लुचे मासि सुराचार्येऽतिचारगे । |
अतिचारगते जीवे वक्रे चैव बृहस्पतौ । |
तत्रैव--
"अतिचारगतो जीवः पूर्वभं नैव गच्छति । |
तथा--
"अतिचारगतो जीवस्तं राशिं नैति चेद्यदि । |
पूर्वराशिशेषमतिक्रम्य राश्यन्तरसंचारोऽतिचारस्तं प्राप्तो गुरुः पुनस्तं राशिं यदि नैति तदा लुप्तः संवत्सरः सर्वकर्मसु गर्हितो ज्ञेय इत्यर्थः ।
अस्य सर्वराशिसाधारण्येन प्राप्तौ क्वचिदपवादमाह च्यवनः--
"यदि भवेदतिचारगतो गुरुर्न पुनरेति निजप्रथमस्थितिम् । |
मदनरत्नेऽपि--
"यदाऽतिचारं हि गुरुः करोति कुम्भालिसंस्थो वृषमीनसंस्थः । |
दशमासभोगानन्तरमेकादशमासभोगानन्तरं वेतरेष्वप्यतिचारे लुप्ताब्ददोषो नास्ति ।
तदुक्तं च्यवनेन--
"मासान्दशैकादश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः । |
अयं च लुप्ताब्ददोषो देशभेदेनैवात्रिमतेन ।
तथा च स्मृतिसंग्रहे--
"लुप्ताब्ददोषोऽत्रिमतेन मध्ये सोमोद्भवायाः सुरनिम्नगायाः" इति । |
सोमोद्भवा नर्मदा । सुरनिम्नगा गङ्गा ।
वक्रातिचारयोरपवादमाह राजमार्तण्डः--
"वक्रातिचारगे जीवे वर्जयेत्तदनन्तरम् । |
वक्रातिचारयोरष्टाविंशतिवासरवर्जनमत्यन्तसंकटविषयकं बोध्यम् ।
"प्राग्राशिगतजीवस्य चातिचारस्त्त्रिपक्षकः" इत्यनेन गुरोस्तादृशातिचारे पक्षत्रयपर्यन्तमेव तत्कर्मवर्जनस्योक्तत्वात् । हा[४००]रीतः--
"अतिचारगते जीवे वृषेऽलौ मीनकुम्भयोः । |
दीपिकायाम्--
"त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः प्रयातः । |
त्रिकोणेत्यादिकमर्थात्पाणिग्रहीतुरेव । त्रिकोणं नवमः पञ्चमश्च राशिः । जाया सप्तमराशिः । धनं द्वितीयो राशिः । लाभ एकादशो राशिः । तत्रेत्यर्थः ।
त्रयोदशदिनपक्षनिषेधमाह व्यासः--
"त्रयोदशदिने पक्षे विवाहादि न कारयेत् । |
आदिशब्देनोपयनादि । विवाहे दंपत्योः, आदिपदोपात्त उपनयन उपनेतुः, चौले शिशोः, इत्यादि द्रष्टव्यम् ।
क्षयपक्षः कदा पततीत्यपेक्षायां मदनरत्ने--
"पक्षस्य मध्ये द्वितिथी इते यदा तदा भवेद्रौरवकालयो[४०१]गः । |
त्रयोदशदिने पक्षे नूनं संहरते जगत् । |
इते गते । 'पक्षस्य मध्ये द्वितिथी पतेतां तदा भवेद्रौरवकालयोगः' इत्येवमपि कुत्रचित्पाठः । पतेतां क्षयं गच्छत इत्यर्थः ।
क्षयमासनिषेधो दीपिकायाम्--
"काम्यादिष्वखिलेषु कर्मसु परित्याज्यौ क्षयाख्योत्तरासंक्रान्ती" इति । |
पञ्चकनिषेधो व्यवस्था च ज्योतिर्निबन्धे--
"गततिथ्या युतं लग्नं नवभक्तावशेषकम् । |
वह्निं परित्यजेद्भौमगृहारम्भदिनेषु तु । |
एतत्पञ्चकम् । ([४०३]बलं तु लघुजातके--)
"अधिपयुतो दृष्टो वा बुधजीवनिरीक्षितश्च यो राशिः । |
अथ विस्तरेण चन्द्रसूर्ययोर्ग्रहणशुद्धिः कम्पादिप्रयुक्ता शुद्धिश्च विचार्यते ।
तत्र ग्रस्तेऽस्ते ग्रहणात्पूर्वं दिनत्रयं वर्ज्यम् । ग्रस्तेऽभ्युदिते तु ग्रहणात्परतो दिनत्रयं वर्ज्यम् । ग्रस्तास्तग्रस्तोदययोरभावेऽपि चन्द्रसूर्ययोः खण्डग्रासे पूर्वं त्रिदिनं पश्चात्त्रिदिनं च मिलित्वैकैकस्मिन्स्थले षड्दिनानि वर्ज्यानि । एतस्मिन्नेव विषये संपूर्णग्रासे तु पूर्वं सप्त दिनानि परस्ताच्च सप्त दिनानीति मिलित्वा चतुर्दश दिनानि वर्ज्यानि ।
तथा च ज्योतिःसंग्रहे बृहस्पतिः--
"ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्गस्तोदये तथा । |
तथा कश्यपः--
"ग्रस्तोदये परो दोषो ग्रस्तास्तेऽर्वाक्शशीनयोः । |
द्युनिशार्ध इत्यनेन दिवाखण्डे निशाखण्डे च सूर्यस्य चन्द्रस्य च ग्रस्तास्ताभ्युदययोरसंभवेनैव तयोरभावः सूचित इति । [४०४]उभयं तदित्यादि । दिनेषु खण्डग्रास एकैकस्मिन्स्थले पूर्वत्र परत्रापि दिनत्रये दिनत्रये दोषः, संपूर्णग्रासे तु पूर्वं परस्ताच्च सप्तदिनेषु सप्तदिनेषु दोष इत्युभयं तदित्येतदर्थो बोध्यः, बृहस्पतिवचनैकवाक्यत्वात् ।
अत एव--
"चन्द्रसूर्योपरागेषु त्र्यहं प्राक्तु शुभं त्यजेत् । |
इति वचनेन यत्पूर्वं त्र्यहे शुभवर्जनमुक्तं तत्संकटविषयकं सर्वग्रासविषयकं च बोध्यम् । परत्र सप्तरात्रोत्कीर्तनात् । शक्तिविषये पूर्वार्धं खण्डग्रासविषयकम् । तद्विषय एव पूर्णग्रासविषयकं परार्धमिति । त्र्यहं प्रागशुभं त्यजेदितिपाठे प्राक्त्र्यहमशुभं भवति तस्मिन्नशुभे त्र्यहे त्यजेत् । किमित्याकाङ्क्षायां योग्यतया शुभमिति शेषः । त्र्यहं प्राक्तु शुभं त्यजेदितिपाठे त्वग्रिममशुभपदं त्र्यहमित्यत्राप्यन्वेति । शुभपदं त्वस्त्येवेति ज्ञेयम् ।
अत्र च कर्मभेदेन श[४०५]क्तभेदेन च दिनमर्यादामाह भोजराजः--
"अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने । |
त्रिविधेति । दिव्यभौमनाभसेत्यर्थः ।
अयं चोत्पातादौ सप्तरात्रनिषेधः[४०६] स क्षत्त्रियवैश्यविषयकः ।
तथा च भृगुः--
"कम्पादौ क्षत्त्रे वैश्ये च सप्ताहं ब्राह्मणे त्र्यहम् । |
अनिष्ट इतिकीर्तनाच्छुभोत्पाते सप्तरात्रं न किं तु तत्रैकरात्रम्, शुभोत्पातप्रदुष्टं दिनमितिवचनात् । तत्र शुभोत्पातो यथा वराहसंहितायाम्--
"चण्डाशनिमहीकम्पसंध्यानिर्घातनिस्वनाः । |
ग्रहे चन्द्रसूर्यग्रहणे । अत्र सप्तरात्रं सर्वग्रासे संकटविषयकं बोध्यम् ।
अङ्गिराश्च ग्रासभेदेन वर्ज्यदिनमाह--
"सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् । |
वसिष्ठः पुनराह--
"सर्वग्रासे दिनान्यष्टौ सर्वकार्येषु वर्जयेत् । |
कार्यस्याऽऽवश्यकत्वे तु राहुदूषितस्थले वर्ज्यदिनमुहूर्ता उक्ता मुनिमतभेदेन ज्योतिर्निबन्धे--
"पञ्च दिनानि वसिष्ठस्त्रिदिनं गर्गश्च कौशिकस्त्वेकम् । |
अत्र ग्रह[४०७]काले भूकम्पादिसमाहारेऽधिकदिनानि वर्ज्यान्याह भोजराजः--
"ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोषे । |
व्रत इत्युपलक्षणं विवाहादीनाम् । अत्र ग्रहणसमये भूकम्पादीनां भूयसां समाहारे त्रयोदशाहमशुद्धं, तदल्पसमाहारे दशाहमिति बोध्यम् ।
गर्गः--
"दिग्दाहे दिनमेकं तु ग्रहे सप्त दिनानि च । |
अत्र चानिष्टे त्रिविधोत्पात इत्यनेन सप्त दिनानि वान्युक्तानि । गर्गेण तु दिग्दाहोत्पातवज्रपातयोरेकदिनवर्जनमुक्तम् । यत्र च पूर्वं मतभेदेन न्यूनाधिकमुक्तं तत्र विरोधस्तु तत्तत्कर्मणां सापेक्षनिरपेक्षत्वेन परिहरणीयः । तथा च राजमार्तण्डः--
"उक्तानि प्रतिषिद्धानि पुनः संभावितानि च । |
अस्यार्थः--उक्तानि सामान्यविधिना तत्काले कर्तव्यत्वेन प्रतिपादितानि तान्येव कर्माणि विशेषतो निषेधविधिना कालेयत्तादिना निषिद्धानि । अथ पुनरपि तान्येव तत्कालन्यूनकालेयत्तादिना संभावितानि कर्तव्यत्वेन प्रदिपादितानि । सापेक्षेत्यादि । सापेक्षाणि निरपेक्षाणि कालान्तरापेक्षाविशिष्टानि कालान्तरापेक्षाशून्यानीत्यर्थः । अपेक्षा चात्र कालान्तरकर्तव्ययोग्यतानिश्चयः । सोऽपि स्वसामर्थ्याधीनः । सामर्थ्यमप्यत्र कालान्तरतत्तत्क[४०८]र्मौ[४०९] पयोगिकसामग्रीसमवधानकर्तृयोग्यताबलवद्विघ्नोपस्थित्यभावयोरन्यतररूपं पर्यवसन्नम् । मीमांस्यानि विचारणीयानि, कालान्तरकर्तव्यत्वयोग्यतानिश्चयविषयत्वरूपसापेक्षत्वेन तादृशाभावरूपनिरपेक्षत्वेन च विचारणीयानीति यावत् । तथा च यदि कर्तव्यकर्मणां सापेक्षत्वेन ज्ञानं तदाऽधिकविषयनिषिद्धेतरस्मिन्दिने तेषामनुष्ठानं, यदि च निरपेक्षत्वेन ज्ञानं तदा स्वल्पविषयनिषिद्धेतरस्मिन् । अथ च व्यापकनिषिद्धमध्येऽनुष्ठानं कर्तव्यमिति तात्पर्यार्थः ।
तथाहि--
"उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे |
इत्याद्याश्वलायनगृह्याद्युक्तोपनयनादिकर्मणां यथाविधिविहितोत्तरायणे क्वचिदपि दिवसे त्रिविधोत्पाताद्यन्यतमत्वेऽपि तथाविधसामान्यतः प्राप्तौ पूर्वोक्तेन "अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने" इत्यादिना वचनेन तत्तत्कर्मणां सप्तदिनपर्यन्तं निषेधमुक्त्वा पुनः "एकरात्रं परित्यज्य" इत्यादिवाक्यान्तरेण मुनिना विवाहोपनयनयोरेकरात्रत्रिरात्रनिषेधमुखेनैकरात्राद्यतिरिक्तदिनानां सप्ताहाभ्यन्तरवर्तिनामप्यभ्यनुज्ञानं कृतं सापेक्षत्वनिरपेक्षत्वविचारेणैवेति । एवमन्यत्राप्यूह्यमिति दिक् ।
अद्भुतसागर एतदपवादः--
"अथ दिवसत्रयमध्ये मृदु पानीयं यदा भवति । |
संबन्धतत्त्वे--
"भूकम्पादेर्न दोषोऽस्ति वृद्धिश्राद्धे कृते सति" इति । |
"इरावत्या विपाशायाः शतद्वास्तीरभूमिषु । |
इरावत्यादिनद्यश्च पश्चिमदेशे प्रसिद्धाः । होलिका फाल्गुनपूर्णिमा, ततः प्राग्दिनाष्टकं वर्जयेदित्यर्थः ।
तथाऽर्वाचीनग्रन्थस्थं पद्यमपि--
"विपाशेरावतीतीरे शतद्र्वाश्च त्रिपुष्करे । |
ज्योतिर्निबन्धे--
" चूडाव्रतविवाहादि गृहारम्भप्रवेशनम् । |
([४११]कालामृतसंग्रहे--
अब्देषु क्षयवत्सरो न शुभकृत्पक्षोऽब्दसंधौ तथा |
सर्वत्रामृतसिद्धियोगस्य ग्राह्यतायां विवाहादिषु कस्यचिन्निषेध उक्तो ज्योतिर्निबन्धे--
"विवाहे गुरुपुष्यौ च प्रयाणे शनिरोहिणी । |
ज्योतिष्प्रकाशे--
"अर्वाक्षोडश नाड्यः संक्रान्तेः पुण्यदाः परतः । |
अत्र व्रतशब्देन वेदव्रतम् । आदिशब्देन सर्वं शुभकर्म गृह्यते ।
नारदः--
"भू१बाण५नव९हस्ता२श्च रस६दिख१०ह्नि३पर्वताः७ । |
विवाहभेदाः ।
अथ विवाहभेदाः सविशेषा उच्यन्ते । तत्रेदं धर्मसूत्रम्--
"बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्र[४१२]जां सहत्वकर्मभ्यः प्रतिपादयेद्ब्राह्मे विवाहे शक्तिविषयेणालंकृत्य दद्यादार्षे दुहितृमते मिथुनौ गावौ देयौ देवे यज्ञतन्त्त्र ऋत्विजे प्रतिपादयेन्मिथः कामान्सां(त्सां)वर्तेत स गान्धर्वो यथाशक्ति द्रव्याणि दत्त्वा वहेरन्स आसुरो दुहितृमतः प्रोथयित्वा वहेरन्स राक्षसः" इति ।
ब्रह्मणा सृष्टो ब्राह्मस्तस्मिन्विवाहे वरस्य बन्ध्वादीन्वुद्ध्वा परीक्ष्य प्रजां दुहितरं सहत्वकर्मभ्यः सह कर्तव्यानि यानि कर्माणि तेभ्यस्तानि कर्तुं प्रतिपादयेत् । शक्तिविपयेणेति विभक्तिप्रतिरूपकोऽयं निपातो यथाशक्तीत्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाहः । प्रजासहत्वकर्मभ्य इतिपाठे प्रजार्थं सहत्वकर्मार्थं चेति ।
ऋषिभिर्दृष्टे विवाहे मिथुनौ गावौ देयौ स्त्रीगौः पुंगौश्च दुहितृमते देयौ, एष आर्षो विवाहः ।
देवैर्दृष्टे विवाहे यज्ञतन्त्रे वितत ऋत्विजे कर्म कुर्वते कन्यां दद्यादेष दैवो विवाहः ।
यत्र कन्यावरौ मिथो रहसि कामाद्रागात्परस्परं सांवर्तेत मिथुनी भवतः स गान्धर्वो विवाहः । समो दीर्घश्छान्दसः । अत्र संयोगादुत्तरकालं विवाहसंस्कारः कर्तव्यः ।
यत्र विवाहे कन्यावते यथाशक्ति द्रव्याणि दत्त्वा वहेरन्कन्यां स आसुरो विवाहः । कन्यायै गृहक्षेत्रादिदानेन विवाहो नाऽऽसुरः ।
प्रमथ्य यत्र वहेरन्स राक्षसो विवाहः ।
"हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत्स राक्षसः" इत्याश्वलायनः । |
अत्रापि विवाहसंस्कारः । द्वौ चापरौ विवाहौ शास्त्रान्तरेषूक्तौ ।
तत्राऽऽश्वलायनः--
"सह धर्मं चरत इति प्राजापत्यः सुप्तानां |
ताविह पृथङ्नोक्तौ ब्राह्मराक्षसयोरन्तर्भावादिति व्याख्यातमुज्ज्वलाकृता । बन्धुशीलेत्यारभ्य प्रतिपादयेदित्यन्तं ब्राह्मार्षदैवविवाहेषु नियतमासुरे त्वनियतं तस्येच्छाधीनत्वात् । इतरेषु तु नैतत् । प्रतिपादनाभावेन परीक्षाया अप्यभावात् । अलंकृत्य दद्यादित्यत्र ददातिः प्रतिपादनार्थ एव । पूर्वत्र प्रतिपादयेदित्यस्यैवोपक्रान्तत्वात् । दुहितृमते मिथुनगोदानं विवाहहोमानन्तरम् ।
तथा च बौधायनः--
"पूर्वं लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दद्यात्" इति । |
दैवे यज्ञ ऋत्विजे प्रतिपादयेदित्येतावतैव सिद्धौ तन्त्रग्रहणस्वरसान्महतः सौमिककर्मण एवात्र ग्रहणं नैष्ठिकपाशुकयोरिति । प्रतिपादयेदितिवचनादृत्विज इत्येकस्मा एव प्रतिपादनाच्च नेयं तन्त्रसंबन्धिदक्षिणा । ऋत्विज इत्यत्रासगोत्रासपिण्डो यः कश्चनर्त्विक्संप्रदानत्वेन ज्ञेयः ।
एतच्च प्रतिपादनं प्रधानदक्षिणादानानन्तरम् ।
तथा च बौधायनः--
"दक्षिणासु नीयमानास्वन्तर्वेद्यृत्विजे दद्यात्" इति । |
अत्र प्रतिग्रहे मन्त्रविशेष उक्तो बौधायनेन--
"अथ यदि दक्षिणाभिः सह दत्ता स्यात्तां प्रतिगृह्णीयात्प्रजापतिः स्त्रियामिति षड्भिरनुच्छन्दसम्" इति । |
दक्षिणाभिः सह दत्तेति वचनमपि कन्याप्रतिपादनस्य यागदक्षिणात्वं नेत्यत्र लिङ्गम् । अयं च प्रतिग्रहमन्त्रविशेषोऽस्माकमप्यविरुद्धः । न च तान्त्रीणां दक्षिणानां दर्शयतीतिसूत्रविरोध इति वाच्यम् । एतस्य प्रतिग्रहमन्त्रविशेषस्य दक्षिणाप्रतिग्रहप्रकरणे सूत्रकारेणापठितस्य तान्त्रीणां दक्षिणानां दर्शयतीतिसूत्रविषयकत्वासंभवेन विरोधाभावात् । दीक्षितो न ददातीति निषेधो यज्ञतन्त्रे कन्याप्रतिपादने न प्रवर्तते विधानबलात् । प्रतिपादनं तु कृत्स्नेन कन्यादानोक्तविधिना कार्यम् । कन्याप्रतिपादनाङ्गभूतहिरण्यादिदानस्य तु ददातिविहितत्वान्निषेधोऽस्त्येव । ([४१३]पुण्याहवाचनादिकं कन्यावरणं वाग्दानं मधुपर्कश्च निवर्तते ।) एतेषां षण्णां मन्त्राणां विश्वे देवा ऋषयः प्रजापत्यादयो देवता आद्याः पञ्चानुष्टुभ आपस्तत्सत्यमाभरन्निति गायत्री कन्याप्रतिग्रहे विनियोग इत्यृष्यादि द्रष्टव्यम् । आश्वलायनेन त्वष्टौ भेदा उक्ताः । आद्यानां चतुर्णां फलविशेषश्चोक्ताः--
"अलंकृत्य कन्यामुदकपूर्वा दद्यादेष ब्राह्मो विवाहस्तस्यां जातो द्वादशावरान्द्वादश परान्पुनात्युभयत ऋत्विजे वितते कर्मणि दद्यादलंकृत्य स दैवो दशावरान्दश परान्पुनात्युभयतः सह धर्मं चरत इति प्राजापत्योऽष्टावरानष्ट परान्पुनात्युभयतो गोमिथुनं दत्त्वोपयच्छेत स आर्षः सप्तावरान्सप्त परान्पुनात्युभयतो मिथः समयं कृत्वोपयच्छेत स गान्धर्वो धनेनोपतोष्योपयच्छेत स आसुरः सुप्तानां प्रमत्तानां वाऽपहरेत्स पैशाचो हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत्स राक्षसः" इति ।
तत्राऽऽद्यास्त्रयः प्रशस्ताः । उक्तं च धर्मसूत्रे--
"तेषां त्रय आद्याः प्रशस्ता यथा युक्तो |
तेष्वपि पूर्वः पूर्वः श्रेयानुत्तरेषूत्तरः पापीयानिति ।
आपस्तम्बोऽपि--"पूर्वः पूर्वोऽतिशयेन प्रशस्तः" इति ।
वर्णानुपूर्व्येण विवाहनियम उक्तः स्मृत्यन्तरे--
"चत्वारो ब्राह्मणस्याऽऽद्याः शस्ता गान्धर्वराक्षसौ । |
अन्त्यः पैशाचः । गर्हितो न कस्यापि प्रशस्त इत्यर्थः ।
एतत्सर्वं बौधायनोऽप्याह--
"अष्टौ विवाहाः श्रुतशीले विज्ञाय ब्रह्मचारिणेऽर्थिने ददाति स ब्राह्म आच्छाद्यालंकृत्यैनया सह धर्मश्चर्यतामिति प्राजापत्यः पूर्वं लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दद्यात्स आर्षो दक्षिणासु नीयमानास्वन्तर्वेद्यृ- त्विजे स दैवः सकामेन सकामायां मिथः संगमात्स गान्धर्वो धनेनोपतोष्याऽऽसुरः प्रसह्य हरणाद्राक्षसः सुप्तां मत्तां प्रमत्तां[४१४] वोपयच्छेदिति स पैशाचस्तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्वपि पूर्वः पूर्वः श्रेयानुत्तरेषामुत्तरः पापी[४१५]यानत्रापि षष्ठसप्तमौ क्षत्त्रियधर्मानुगतौ तत्प्रत्ययत्वात्क्षत्त्रियस्य पञ्चमाष्टमौ वैश्यशूद्राणामयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति कर्षणशुश्रूषाधिकृतत्वाद्गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वाद्यथा युक्तोविवाहस्तथा युक्ताः प्रजा भवन्तीति विज्ञायते" इति ।
तत्प्रत्ययत्वात्तदधीनत्वात् । अयन्त्रितकलत्रा अनियतकलत्रा विधिविरहि तपरिगृहीतकलत्रा इति यावत् । हिर[४१६]प्यर्थे । कर्षणाधिकृता वैश्याः शुश्रूषाधिकृताः शूद्राः । पैशाचस्यान्त्यत्वं तु मनुवाक्यसिद्धम् ।
अन्यविवाहासंभवे ब्राह्मणादीनां पैशाचमप्यनुजानाति वत्सः--
"सर्वोपायैरसाध्या स्यात्सुकन्या पुरुषस्य या । |
यत्तुः--"आसुरवदार्षोऽपि पापीयान्क्रयक्रीतत्वाविशेषात् ।
अत एव कश्यपः--
"क्रयक्रीता तु या नारी न सा पत्न्यभिधीयते । |
यमोऽपि--
"कन्याविक्रयिणो मूर्खा रहःकिल्विषकारिणः । |
एतच्चाऽऽत्मार्थं धनग्रहणे । कन्यार्थे तु न दोषः ।
यथाऽऽह मनुः--
"यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः । |
आनृशंस्यमपापित्वम् ।
- मनुः--
"ब्राह्मो दैवस्तथैवाऽऽषः प्राजापत्यस्तथाऽऽसुरः । |
इत्यष्टौ भेदानुक्त्वा तेषां लक्षणान्यभिधाय तेष्वार्षस्य क्रयक्रीतत्वादधर्म्यत्वमित्यभिप्रेत्याऽऽह--
"पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह । |
ब्राह्मादीनामासुरान्तानां मध्ये ब्राह्मदैवप्राजापत्यास्त्रयो धर्म्याः क्रयाभावात् । आर्षासुरौ द्वावधर्म्यौ क्रयक्रीतत्वात्तयोरप्यासुरः पैशाचवदापद्यपि न कर्तव्यः" इति ।
तन्न । पञ्चाना[४१७] मितिवचनस्य मतान्तरोपन्यासपरत्वात् । कुत एतत् । यतः स्वयमेवोत्तरत्र गोमिथुनस्य शुल्कत्वं मतान्तरेणानूद्य निषेधति--
"आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् । |
अत एव देवलः--
"पूर्वे विवाहाश्चत्वारो धर्म्यास्तोयप्रदानिकाः । |
आर्षविवाहे नक्षत्रमाहाऽऽपस्तम्बः--
"मघाभिर्गावो गृह्यन्ते" इति ।
आर्षे दुहितृमते मिथुनौ गावौ देयाविति वचनादार्षे विवाहे वरेण दीयमानौ गावौ दुहितृमद्भिर्मघासु गृह्यन्ते । एतदुक्तं भवति । आर्षविवाहं मघास्वेव कुर्यात्, न ब्राह्मादिवन्नक्षत्रान्तरेऽपीति । फल्गुनीभ्यां व्यू(व्यु)ह्यत इति, तत्र वधूः फल्गुन्योरेव व्यू(व्यु)ह्यते नीयते स्वगृहान्नतु तां तत इति वचनाद्ब्राह्मादिवत्तदानीमेवेति सुदर्शनेन व्याख्यातम् ।
दुर्विवाहे भोजनादिनिषेधस्तत्प्रायश्चित्तं चोक्तं पारिजाते--
"अधर्म्येषु विवाहेषु भोजनं चानुमोदनम् । |
प्रतिकूलनिर्णयः ।
अथ प्रतिकूलनिर्णयः स्मृत्यन्तरे--
"वधूवरार्थे घटिते सुनिश्चिते वरस्य गेहेऽप्यथ कन्यकायाः । |
घटितं संबन्धः सुनिश्चितो वाचा निश्चितः । वाग्दानविधिना निश्चित इति गोविन्दार्णवे । इदं च सुशब्दाल्लभ्यते ।
ज्योतिःसागरे--
"वाङ्निश्चये कृते पश्चात्पितरौ निधनं गतौ । |
"वरवध्वोः पिता माता पितृव्यश्च सहोदरः । |
([४२०]चकारात्प्रपितामहः । द्वितीयचकारः प्रपितामहीसमुच्चयार्थः ।)
माण्डव्यः--
"वाग्दानानन्तरं माता पिता भ्राता विपद्यते । |
तेन तया वा सहेति शेषः । वरपक्षे प्रतिकूले[४२१] वरार्थं तां न स्वी कुर्यात् । वधूपक्षे प्रतिकूले तस्मै वराय न दद्यादिति विवाहो नैव कर्तव्य इत्यस्यार्थः । न तु विवाह एव न कर्तव्य इति ।
संकटे प्रवृत्तिप्रकारमाह मेधातिथिः--
"वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । |
स्मृतिरत्नावल्याम्--
"पितुरब्दमिहाऽऽशौचं तदर्धं मातुरेव च । |
पित्रोरब्दमिहाऽऽशौचमिति क्वचित्पाठः । अत्र मातृपदं[४२२] सापत्नमातृपरमिति केचित्[४२३] । एतन्मते पित्रोरब्दमित्ययमेव पाठोऽभिमत इति गम्यते । द्वयोरपी[४२४]त्यन्ये । अविशेषादित्याशयः[४२५] । एतन्मते पितुरब्दमित्येव पाठः । पित्रोरब्दमितिपाठे मुख्यमातुरब्दं सापत्नमातुरब्दार्धम् । पितुरब्दमितिपाठ उभयोरप्यब्दार्धमेवेति भेदः।
ज्योतिष्प्रकाशे--
"प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा । |
स्मृत्यन्तरे--
"प्रतिकूले न कर्तव्यं लग्नं यावदृतुत्रयम् । |
तयोर्निश्चितघटितयोर्वधूवरयोः । वध्वा वरालाभे वरस्य वध्वलाभे संकटे सति नान्यां वधूमन्यं वरं वा प्रेक्षेदि(ते)ति तात्पर्यार्थः ।
ज्योतिःसागरे--
"दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये । |
अन्यत्रापि--
"दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । |
अस्मिन्वाक्ये सामान्यतः शुभं कर्मेतिश्रवणादुपनयनस्यापि विनायकशान्तिपूर्वकमेवानुष्ठानमिति केचित् । अन्ये तु शुभकर्मशब्दो विवाह एवोपसंह्रियते तेन शान्तिपूर्वको विवाह एव भवति । उपनयनं तु नैव भवतीत्याहुः । उपनयनं तु शान्तिमन्तरेणापि भवतीति परे ।
वसिष्ठः--
"प्रतिकूले तु संप्राप्ते विवाहं नैव कारयेत् । |
"कृते वाङ्निश्चये पश्चान्मृत्युर्मर्त्यस्य गोत्रिणः । |
अन्यत्रापि--
"वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः । |
अत्र यद्यपि कश्चिदिति मृतिर्भवति कस्यचिदित्यविशे[४२७]षेणोक्तं तथाऽपि पितामह्यादीनामिव मातामह्यादीनामपि मरणस्य प्रतिकूलदोषनिमित्तत्वेन क्वचिदकीर्तनात्, अविवाहिताया भगिन्या इव विवाहिताया मरणस्य तथात्वानुक्तेः, मेधातिथिवाक्ये स्वगोत्रिणामिति चन्द्रिकावाक्ये मर्त्यस्य गोत्रिण इति च कीर्तनात्, वध्वा वरस्य वा सगोत्रसपिण्डेषु त्रिपुरुषान्तर्गते मर्त्ये मृते प्रतिकूलदोष इति मन्तव्यम् । स्त्री वरस्य द्वितीयादिविवाहसमये पूर्वोढा । सुतस्तस्यां पूर्वोत्पन्नः । एतत्पौत्रोपलक्षणम् । एवं पितृव्यग्रहणं तत्पुत्रस्य[४२८] । एवं च वरमारभ्य जनकत्रिपुरुषी[४२९] जन्या त्रिपुरुषी कूटस्थमारभ्य संतानभेदे च त्रिपुरुष्यत्र बोद्धव्या । वधूवरयोः समानगृहे तन्मरणे कंचित्कालं प्रतीक्ष्यैव विवाह इति तदा न कुर्युरित्यादिशब्दैर्बोध्यते । तयोस्तत्प्रतिकूलं स्यादिति कालप्रतीक्षाशान्तिभ्यामसमाधेयो दोषो द्वयोर्युगपन्मरणज इत्याशयः । अत एवोक्तं नान्येषां तु कदाचनेति । अन्येषां सपिण्डानां तयोरप्येकैकमरणजस्तु समाधेय इत्याशयः ।
वृद्धवसिष्ठवाक्ये चतुर्णां मरणस्य महाविघ्नप्रदत्वकथनं तत्र प्रतीक्षासहिता केवला वा विनायकशान्तिरितिकथनार्थम् । अत एव तद्विधिवाक्यशेषे शान्त्यकरणे पदे पद इति विघ्नस्य महत्त्वं प्रदर्शितम् । एभिरेव विपन्नैरिति कालप्रतीक्षासहितायाः श्रीपूजनादिशान्तेर्निमित्तमेतन्मरणमेवेत्याशयः । अत एव माण्डव्यवाक्ये नैव कर्तव्यो निमित्तानन्तरमिति व्याख्येयम् । एवं वृद्धवसिष्ठवाक्यमपि ।
प्रतीक्षा च सामान्यतः संवत्सरमृतुत्रयं मासमात्रं वेति पक्षत्रयं मेधातिथिवाक्यसहितस्मृत्यन्तरवाक्याद्बोद्धव्यम् । रत्नावलीवाक्य आशौचशब्देन प्रतिकूलकृतं विवाहानधिकारमात्रं प्रतीक्षातात्पर्यकं बोध्यम् ।
महागुरुव्यतिरिक्तमरणकृतप्रतिकूलाभावे प्रथमाब्देऽपि सपिण्डीकरणमा सिका[४३०]पकर्षं कृत्वा विवाहो भवति । महागुरुमरणकृतप्रतिकूलाभावे तु वृद्धिनिमित्तमन्तरेण सपिण्डीकरणापकर्षे वृद्धिदैवपित्र्येष्वनधिकार एवेति द्रष्टव्यम् ।
तत्र पितुर्मरणे संकटतारतम्येनानन्तरोक्तं पक्षत्रयम् । मातुर्मरणे संवत्सरार्धं मासमात्रं वेति पक्षद्वयम् । भार्यामरणे मासत्रयं मासमात्रं वेति । भ्रातृमरणे पुत्रमरणे च सार्धमासं मासमात्रं वेत्येवं पक्षद्वयम् । पितामह्यादिसपिण्डान्तरमरणे तु मासमेव प्रतीक्षेति व्यवस्था । यदि गुणवत्तरमातृमरण ऋतुत्रयप्रतीक्षया न परितोषस्तदा संवत्सरप्रतीक्षाऽपि कार्या ।
एवं गुणवत्तरभार्यादिमरण ऋतुत्रयप्रतीक्षाऽपीत्याशयेन तयोरपि पक्षयोः सामान्यविध्युपपत्तिः ।
पितृमातृपितृव्यसोदराणां[४३१] चतुर्णां मरण उक्तव्यवस्थया प्रतीक्षान्ते विनायकशान्तिः । अन्यमरणे तदन्ते शान्त्यन्तरम् । एतच्च शान्तिद्वयं शान्तिरत्नमालायां वक्ष्यते ।
यदा त्वतिसंकटवशेन सर्वत्र निमित्ते मासादिकप्रतीक्षाया असंभवस्तदा तन्मध्येऽपि[४३२] किंचित्कालं प्रतीक्ष्योक्तव्यवस्थयाऽल्पतरां शान्तिं कृत्वा गां दत्त्वा वाग्दानादि पुनश्चरेदिति ज्योतिष्प्रकाशवाक्यकृतो विशेषः । न तु क्वचिदपि प्रतिकूले पूर्वाशौचादिनिमित्तेन निवृत्ताशौचस्यापि सद्यो विवाहे प्रवृत्तिरुचिता । यथा सगोत्रसपिण्डे पुरुषत्रयपर्यन्तमेव प्रतिकूलस्य निषेधनिमित्तत्वम् । एवं प्रवेश[४३३]मुण्डनयोर्निर्गम[४३४]मण्डननिषेधनिमित्तत्वमपि तेष्वेतावत्पर्यन्तमेवेति पुरुषत्रयेतिमेधातिथिवाक्यार्थः[४३५] । स्वगोत्रिणामाचतुर्थमित्यनुषङ्गलभ्यार्थसिद्ध्यै प्रेतकर्माण्यनिर्वर्त्येत्यस्य भिन्नार्थकस्यापि वाक्यस्यानन्तरं पाठः । कुले चतुष्पुरुषपर्यन्तं प्रेतोद्देशेन विहितानि कर्माण्यनिर्वर्त्यासमाप्याऽऽभ्युदयिकं नाऽऽचरेदित्यर्थः । प्रेतशब्दोद्देशविशिष्टानि कर्माणीत्येतादृशार्थस्तु सपिण्डीकरणोत्तरमासिकासंग्रहापत्तिग्रस्तत्वात्परित्यक्तः ।
एतेषामुत्पत्तिवेलायां प्रेतोद्देशेन विहितानामपि तच्छन्दोदेशरहिता पुनरावृत्तिः शाट्यायनिनोक्ता--
"सपिण्डीकरणादर्वागपकृष्य कृतानि तु । |
कात्यायनः--
"निर्वर्त्य वृद्धितन्त्रं तु मासिकानि न तन्त्रयेत् । |
वृद्धिकर्मोत्तरं मासिकानुष्ठाने मृतस्य मरणमयातयामं भवेत् । नूतनमिव भवेत् । तच्च माङ्गलिककर्मणः पूर्वं मृतस्य माङ्गलिककर्मोत्तरमापद्यमानमनुचितमिति भाव इति नवीनाः।
केचिन्नवीनाः--
"भ्राता वा भातृपुत्रो वा सपिण्डः शिष्य एव वा । |
इति लघुहारीतवाक्ये भ्रातृशिष्याद्युक्तेर्न नान्दीश्राद्धेज्यदेवतामात्रपरोऽपकर्ष इति[४३६] । अस्मिन्मते भ्रात्रादिमरणे तत्सपिण्डनमासिकानामपकर्षं विना न नान्दीश्राद्धमिति ।
अन्ये नवीनास्तु यस्याऽऽभ्युदयिकश्राद्धान्तर्गतदेवताभूतस्य सपिण्डनं विना न तन्निर्वहति तस्यैवेह वाक्ये सपिण्डनं विधीयते, आकाङ्क्षितविधानात् । अन्यथा भिन्नजातीयगुरोरपि सपिण्डनं शिष्येण कार्यं स्यादित्याहुः । एत[४३७]स्मिन्मते तु तद्विनाऽपि भवतीति भेदो द्रष्टव्यः ।
सकलदाक्षिणात्यप्रभृत्यनेकशिष्टाचारसंवादान्नान्दीश्राद्धेज्यदेवतामात्रपरोऽपकर्ष इति द्वितीयमतमेव युक्तम् ।
प्रेतकर्माण्यनिर्वर्त्येत्यत्र यद्यपि प्रेतकर्मभिः सहाऽऽभ्युदयिकक्रियाया मङ्गलापरपर्यायायाः समानकर्तृकत्वं प्रतीयते तथाऽपि तदसति कर्त्रन्तरे मुख्यं सति तु प्रेतकर्मसु प्रयोजककर्तृकतामादायोपपादनीयम् । इत्थमेव हि--"वध्वञ्जलावुपस्तीर्य भ्राता भ्रातृस्था[४३८]नीयो वा द्विर्लाजानावपति" इत्याश्वलायनसूत्रे वृत्तिकृदादिभिस्तु तदुपपाद्यते, विवाहहोम उपस्तरणस्य वरकर्तृकत्वं लाजावपनस्य भ्रात्रादिकर्तृ[४३९]कत्वं विच्छिन्नसंधानार्थे तु तस्मॅिंल्ला[४४०]जहोमस्यापि वरकर्तृकत्वं वदद्भिः ।
एवं नान्दीश्राद्धदेवतात्वसिद्ध्यर्थं सपिण्डीकरणापकर्षपरत्वेन पराभिमतवचनेऽपि समानकर्तृकत्वमित्थमेव स्वीकार्यम् । तद्यथा शाट्यायनिः--
"प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । |
लघुहारीतोऽपि--
"भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा । |
मृतस्य कन्यादाने हि तस्य ज्येष्ठकनिष्ठभ्रातरावधिकारिणौ कन्यायाः पितृपितामहभ्रात्रभावात्संभवतः ।
"पिता पितामहो भ्राता सकुल्यो जननी तथा । |
तस्य सपिण्डीकरणे तु कनिष्ठस्यैवाधिकारो न ज्येष्ठस्य ।
"न पुत्रस्य पिता दद्यान्नानुजस्य तथाऽग्रजः । |
इति सपिण्डीकरणस्य तं प्रति विशिष्य निषेधात् । अतो ज्येष्ठस्य सपिण्डीकरणे प्रयोजककर्तृकत्वं कनिष्ठस्य मुख्यकर्तृकतामङ्गीकृत्यैवोक्तवचनयोः समानकर्तृकत्वमुपपादनीयम् । एवं चानयोर्वचनयोर्देवतात्वसिद्धिप्रयोजनासंकीर्तनाद्विधेयाथैक्याच्च मूलैक्यलाघवानुरोधेन प्रेतकर्माण्यनिर्वर्त्येति कृष्णभट्टीप्रयोगोदाहृतवचनार्थपरत्वं स्वीकर्तुमुचितमिति कौस्तुभे ।
अन्यच्च तत्रैव । पितामहे प्रपितामहे वाऽकृतसपिण्डने सति पितरि मृत औचित्येन तयोः सपिण्डीकरणोत्तरं पितुः सपिण्डीकरणकर्तव्यतायां प्राप्तायामपि यदा तथाऽनुष्ठानेन पितुः सपिण्डीकरणकालातिक्रमो भवति तदा न्यायतः कालातिक्रमेण तथैव तत्कर्तव्यतायां प्राप्तायां वचनेनाकृतसपिण्डीकरणाभ्यामपि ताभ्यां पितुः सपिण्डीकरणं कर्तव्यतया विहितम् ।
यथाऽऽह कात्यायनः--
"असंस्कृतौ न संस्कार्यौ पूर्वौ पौत्रप्रपौत्रकैः । |
असंस्कृतावकृतसपिण्डीकरणौ । पूर्वौ पितामहप्रपितामहौ । पापिष्ठमकृतसपिण्डनं पितरं शुद्धेन कृतसपिण्डनेन पापकृताऽकृतसपिण्डनेन वा पितामहेन सह शुद्धं निवृत्तप्रेतावस्थं कुर्यादित्यर्थः । एवं कृते दर्शश्राद्धमपि तादृशाभ्यां सह कर्तव्य[४४१]मित्यपि तेनैवोक्तम्--
"पितुःसपिण्डतां कृत्वा कुर्यान्मासानुमासिकम्" इति । |
एवं च दर्शश्राद्धविकृतित्वान्नान्दीश्राद्धेऽपि तादृशयोर्देवतात्वसंभवेऽपि माङ्गलिकविवाहाद्यनुरोधेन तयोः सपिण्डीकरणं कृत्वैव माङ्गलिकं कर्म कार्यं तयोश्चतुष्पुरुषान्तरगतत्वात् ।
अत एव शुभागम एव सपिण्डीकरणापकर्षनिमित्तत्वेन कालादर्शे पठ्यते--
"एकादशे द्वादशेऽह्नि त्रिपक्षे वा त्रिमासि वा । |
"अनन्तरस्त्रिपक्षः" इति "शुभस्य विवाहादेरागम उपस्थिते सति" इति च तत्रैव व्याख्याय मूलवाक्योदाहरणमित्थं कृतम्--
"महाभारते--'सपिण्डीकरणं कुर्याद्यजमानस्त्वनग्निमान्' ।
इत्युपक्रम्य 'एकादशेऽपि वा मासि मङ्गले स्यादुपस्थिते' इति" [इति ।]
- "अत्र च शुभमङ्गलशब्दाभ्यां विवाहाद्येवोक्तमिति प्रतीतेर्न नान्दीश्राद्धप्रतीतिर्न[४४२] सुतरां तद्देवतात्वस्य" इत्यपि तत्रैव ।
सपिण्डनापकर्षे तत्पूर्वतनमासिकानामवशिष्टानामपि निवृत्तिः । तदुत्तरकर्तव्यमासिकानामप्यवशिष्टानां निवृत्तिर्वचनादिति द्रष्टव्यम् ।
"प्रेतकर्माण्यनिर्वर्त्य" इति वाक्यात्, |
इति वाक्याच्च चतुष्पुरुषपर्यन्तं यस्य कस्यापि सगोत्रसपिण्डस्य तत्पुत्रे प्रोषितेऽपि व्यवहितोऽपि सपिण्डः प्रेतस्य प्रेतश्राद्धसपिण्डीकरणमासिकानि कृत्वैव वृद्धिश्राद्धं कुर्यादित्यर्थः ।
"प्रेतश्राद्धानि सर्वाणि सपिण्डीकरणं तथा । |
इति हेमाद्रिलिखितशाट्यायनिवचोऽप्येतदर्थकमेव, प्रेतकर्मणां यावतः पुरु षाप्रति नान्दीमुखानुरोधेनावश्यकर्तव्यता विहिता तान्प्रत्येवापकर्षविधावपि शब्दसामञ्जस्यात् । सपिण्डीकरणस्य सत्यपि प्रेतश्राद्धत्व आहिताग्न्यादिविषयत्वेन व्यवस्थापितत्रिपक्षादिकालबाधेनाप्यपकर्षसिद्ध्यर्थं पृथग्ग्रहणम् ।
"सपिण्डीकरणादर्वागपकृष्य कृतानि तु । |
इति शाट्यायनिवचोऽपि तावत्पुरुषविषयमेव पुनरपीत्युक्तेस्तान्प्रत्येव संभवादिति कौस्तुभे ।
ज्वरितस्य यावत्स्वास्थ्यं मङ्गलं न कार्यम् ।
तथा च गर्गः--
"ज्वरस्योत्पादनं यस्य शुभं तस्य न कारयेत् । |
कस्यचित्कुलजस्य शरीरेऽतिदारुणज्वरोत्पत्तौ निश्चयोऽपि न कार्यः ।
तथा च स एव--
"केचिदूचुर्गृहस्थस्य कस्यचिद्दारुणो ज्वरः । |
इति प्रतिकूलविधिः ।
अथ रजोदोषनिर्णयः ।
माधवीये--
"प्रारम्भात्प्राग्विवाहस्य माता यदि रजस्वला । |
तस्य रजोदोषस्य निवृत्तिः कर्तव्या कर्मार्थं शुद्धिः प्रतीक्षणीयेत्यर्थः । विवाहारम्भात्प्राग्यदि माता रजस्वला भवेत्तदा तस्याः शुद्धौ सत्यामेव विवाहः कर्तव्यो न तु तां परित्यज्येति तात्पर्यार्थः । अत्र हेतुमाह-- सहत्वश्रुतिचोदनादिति । यद्यप्यत्र सामान्यतो निवृत्तिस्तस्य कर्तव्येत्युक्त्या चतुर्थदिवसे रजोनिवृत्तौ सत्यां चतुर्थदिनेऽपि विवाहः कर्तव्य इति प्राप्तं तथाऽपि--
"दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति" । |
इति वचनेन पञ्चमदिन एव सर्वकर्माधिकारस्योक्तत्वात्तद्दिनमारभ्यैव विवाहेऽधिकारो न[४४३] तु चतुर्थदिनमारभ्यापीति ज्ञेयम् । प्रारम्भशब्दार्थो विष्णुनोक्तः--
"प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । |
नान्दीमुखं नान्दीश्राद्धम् । विवाहादावित्यादिपदेनोपनयनादि गृह्यते । पाकपरिक्रिया पाकारम्भः । पाकप्रोक्षणमिति केचित् ।
"प्रारब्धे सूतकं न स्यात्" इतिवचने सूतकमिति मृतकस्याप्युपलक्षणम् ।
मेधातिथिः--
"चौले च व्रतबन्धे च विवाहे यज्ञकर्मणि । |
गर्गोऽपि--
"यस्योद्वाहादिमाङ्गल्ये माता यदि रजस्वला । |
एतेषु वचनेष्वविशेषात्सापत्नमातुरपि ग्रहण[४४४]म् ।
बृहस्पतिः--
"वैधव्यं च विवाहे स्याज्जडत्वं व्रतबन्धने । |
यदि विवाहादिपारम्भोत्तरं रजः, प्रारम्भात्प्रागपि रजसि सर्वथा मुहूर्तान्तरालाभो वा, तदा शान्तिं कृत्वाऽनन्तरं कर्म कार्यमेव ।
यथोक्तं कपर्दिकारिकायाम्--
"सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकम् । |
श्लोकभेदेन प्राप्तपदोक्तारम्भस्य मुहूर्तान्तरालाभस्य च श्रवणान्न परस्परसापेक्षत्वमिति कौस्तुभे । सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धोमपूर्वकमितिवचनप्रतिपादिता शुद्धिश्चतुर्थदिवसविषयिणी द्रष्टव्या । अत्र शुद्धिशब्देनाधिकार उच्यते । तथा च--अधिकाराय गां दद्याद्धोमपूर्वकमित्यर्थो भवति । होमपूर्वकमिति विहितो होमः कुश्मा(ष्मा)ण्डैरेव, कपर्दिकारिकासु पूर्वत्र तस्यैवोपक्रमात् ।
रजस्वलाविषये--
"दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति" । |
इति वचनसिद्धस्य चतुर्थदिवसेऽनधिकारस्य बाधोऽनेन क्रियते ।
सूतिकाविषये तु "विंशतिरात्रं पुत्रप्रसूर्मासेन स्त्रीजननी" इत्यनेन प्रतिपादितस्यानधिकारस्यात्र बाधः ।
इयं वैधी शुद्धिः संकटविषये द्रष्टव्या ।
रजोदर्शनादिसंभावनायां नान्दीश्राद्धस्यापकृष्यानुष्ठाने विधिः स्मृत्यन्तरे--
"एकविंशत्यहर्यज्ञे विवाहे दश वासराः । |
चौले त्रयो वासरा उपनयने षड्वासरा इत्यर्थः ।
इति रजोदोषनिर्णयः ।
अथ विवाह आशौचपाते निर्णयः ।
याज्ञवल्क्यः--
"दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे । |
विष्णुः--
"व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । |
प्रारम्भशब्दार्थस्तु प्रागेवोक्तः ।
विवाहे सद्यः शौचं केषामित्यपेक्षायां ब्रह्मपुराणे सद्यःशौचं प्रकृत्य--
"दातुः प्रतिग्रहीतुश्च कन्यादाने च नो भवेत् । |
अत्र दातृप्रतिग्रहीतृग्रहणं संस्कार्यसंस्कारकयोरुपलक्षणम् । चकाराद्दातृपत्नीकन्ययोर्ग्रहणम् । आरम्भाभावेऽप्यग्रे मुहूर्तान्तरालाभे सामायां च कृतायां सूतकिनोऽप्यधिकारोपायमाह पारिजाते विष्णुः--
"अनारब्धविशुद्ध्यर्थं कू[४४६]ष्माण्डैर्जुहुयाद्घृतम् । |
अनारब्धविशुद्ध्यर्थमित्यनेनैव सिद्धे ततः शुध्यतीति पुनर्वचनमतिसंकटे विवाहाद्युपयोगिपाकपरिवेषणादावपि शुद्धिज्ञापनार्थमिति नवीनाः । सूतकीति जननाशौचवन्तं प्रत्येवेदं प्रवर्तत इत्यपि केचिन्नवीनाः ।
संग्रहे--
"संकटे समनुप्राप्ते सूतके समुपस्थिते । |
एवं शुद्धिपूर्वकविवाहाद्यनुष्ठाने तदङ्गत्वेन संकल्पितान्नभोजने न दोष इत्याह बृहस्पतिः--
"विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । |
मृतकसूतकमध्ये विवाहाद्यनुष्ठान उक्तशुद्धिपूर्वकमारब्ध इति पूर्वार्धार्थः ।
नान्दीश्राद्धोत्तरं सूतकादौ विवाहाद्यारम्भोत्तरमपि संकल्पितान्ने विशेषः
षट्त्रिंशन्मते--
"विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । |
परैरसगोत्रैः ।
स्मृतिकौमुद्यामपि--
"विवाहोत्सवयज्ञेषु आरब्धे सूतकं यदि । |
पूर्वसंकल्पितान्नभोजनसमये सूतकप्राप्तौ विशेषः षट्त्रिंशन्मते--
"भुञ्जानेषु तु विप्रेषु त्वन्तरा मृतसूतके। |
भोक्तृभिर्भुक्तशेषस्त्याज्यः पक्वशेषः सूतकिभिर्भोक्तव्य इत्याशयः ।
"भोजनार्धे तु संभुक्ते यदि कश्चिन्म्रियेत वै । |
बह्वन्नसंभरणसंपादिनां धारणाशक्तावाह विष्णुः--
"न देवप्रतिष्ठाविवाहयोः पू[४४९]र्वसंभृतसंभारयोः" इति । |
देवप्रतिष्ठाविवाहयोः[४५०] पूर्वसंभृतसामग्रीकयोरुपक्रमात्प्रागपि तत्कर्तुराशौचं न भवतीत्यर्थः । एतदुक्तं भवति, यावति काले संभृतबहुसंभारधारणं कर्तुं शक्यते तावत्कालमध्ये प्रतिष्ठाविवाहाङ्गभूतं कालान्तरं यत्र न लभ्यते तद्विषय एवायं संकल्पात्प्रागाशौचाभाव इति[४५१] ।
सिङ्गाभट्टीये बौधायनः--
"स्थालीपाकात्पूर्वं वध्वा यदि मृतिः स्यात्तामन्वारभ्य स्थालीपाकं कृत्वौपासनाग्निना दाहयेद्वरस्य मातापित्रोर्यदि मृतिः स्यादुत्तरशेषं समाप्य पश्चात्पैतृमेधिकमाचरेदसावेव ज्येष्ठश्चेत्कङ्कणं कन्याहस्ते बद्ध्वा तद्विपरीतमाचरेत्" इति ।
इति विवाह आशौचनिर्णयः ।
अथ समानक्रियाविचारः ।
सारावल्याम्--
"एकोदरप्रसूतानामेकस्मिन्वत्सरे सदा । |
ज्योतिर्विवरणे--
"एकोदरयोर्वरयोरेकदिनोद्वाहतो भवेन्नाशः । |
शार्ङ्गधरीयेऽपि--"नद्यन्तरेऽपि शुभदं पृथशैलरोधे" इति ।
- स्मृत्यन्तरे--
"विवाहस्त्वेकजातानामेकस्मिन्नुदये कुले । |
उदयो लग्नम् ।
पारिजाते गर्गः--
"भ्रातृयुग्मे स्वसृयग्मे भ्रातृस्वस्रोश्च युग्मके । |
मदरत्ने नारदः--
" एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । |
न समानक्रियामित्यनेन द्वयोश्चौले द्वयोव्रतबन्धौ द्वयोर्विवाहौ वा न कुर्यादिति बोध्यते । मातृभेदे विधीयत इत्येतेनैकस्य पुंसो विवाहद्वयमप्येकदिने निषिद्धं मातृभेदाभावात् ।
अन्यच्च[४५२] ज्योतिर्ग्रन्थे--
"नैकस्मिन्वत्सरे कार्यौ गेहोद्वाहौ कथंचन" इति । |
गे[४५३]हशब्देन गेहारम्भः प्रवेशश्च गृह्यते ।
विशेषमाह स एष--
"पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । |
मङ्गलं विवाहादि । अमङ्गलं श्राद्धादि ।
ज्योतिर्निबन्धे--
"मातृयज्ञक्रियापूर्वं ज्येष्ठं कृत्वा तु मङ्गलम् । |
ज्येष्ठमङ्गलं(ले) विवाहोपनयने । लघुमङ्गलं चौलादि । अनेन वचनेन समावर्तनमपि निषिध्यते तस्यापि लघुमङ्गलत्वादिति केचित् । अन्ये तु पित्रादिकर्तृकपुत्रादिसंस्कारपरं न तु स्वकर्तृकस्वसंस्कारपरम् । समावर्तनस्य स्वकर्तृकत्वान्नायं निषेधस्तत्रेति प्राहुः । अत्र प्रमाणाभावाच्चिन्त्यमेतत् । एवं च विवाहोत्तरमुपनयनोत्तरं वा, ऋतुत्रयादर्वाक्चौलं न कार्यमित्युक्तं भवति ।
तथा च मदनरत्नेऽत्रिः--
"कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मुण्डनम् । |
तथा च मेधातिथिः--
"पुरुषत्रयपर्यन्तं प्रतिकुलं स्वगोत्रिणाम् । |
मण्डनमुण्डनशब्दार्थः कात्यायनेनोक्तः--
"मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम् । |
चौलस्य मुण्डनप्रधानत्वादिति तदाशयः । मौञ्ज्यां मुण्डनमङ्गं न प्रधानमिति मौञ्जी न मुण्डनमित्यस्याऽऽधायः । वरणात्परं कन्यावरयोर्वरणोत्तरं कन्यावरयोर्वरणप्रभृतीति यावत् ।
प्रवेशानिर्गमशब्दार्थः कात्यायनेनोक्तः--
"पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः" इति । |
संहितासारावल्याम्--
"न मण्डनान्मुण्डनमूर्ध्वमिष्टं न पुत्रयोर्मण्डनमेकवर्षे । |
मदनरत्ने वसिष्ठः--
"न पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्यं दुहितुः प्रकुर्यात् । |
मिहिरः--
"पुत्रोपनयनादूर्ध्वं षण्मासाभ्यन्तरं तथा । |
एतदपवादस्तत्रैव--
"ऋतुत्रयस्य मध्ये चेदन्याब्दस्य प्रवेशनम् । |
अत्र[४५४] तुशब्देन विवाहभिन्नमेकोदरविषयं मङ्गलद्वयमब्दभेदेऽपि न भवतीति ज्ञाप्यते । सारावल्याम्--
"फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने । |
संकटे गर्गः--
"पुत्रीपरिणयादूर्ध्वं यावद्दिनचतुष्टयम् । |
परिणयो विवाहः ।
कपर्दिकारिकाऽपि--
"उद्वाह्य पुत्रीं न पिता विदध्यात्पुत्र्यन्तरस्योद्वहनं कदाऽपि । |
अत्र चतुर्थदिने कश्यपः--
"मौञ्जीबन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि वा । |
अत्रोत्तरत्र पुत्र्युद्वाहं न कुर्वीतेति श्रवणात्पूर्वत्रोद्वाहः पुत्रस्य द्रष्टव्यः । अत्रैवमर्थः--मौञ्जीबन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि कर्तव्यः, परं तु षण्मासाभ्यन्तरे पुत्रोद्वाहात्परं पुत्र्युद्वाहं न कुर्वीत, यदि विभक्ता भ्रातरस्तदा षण्मासाभ्यन्तरे पुत्रोद्वाहोत्तरं पुत्र्युद्वाहकरणे न दोष इति । एतच्चातिसंकटे द्रष्टव्यम् ।
यत्तु ज्योतिर्निबन्धे मेधातिथिः--
"पृथङ्मातृजयोः कार्यो विवाहस्त्वेकवासरे । |
तत्कर्तृभेदाभिप्रायम् । कार्य इति कर्मप्रत्यये द्वाभ्यां त्रिभिरित्यन्वयसंभवात् । उदाहृतगर्गवाक्ययोः कपर्दिवाक्ये चैककर्तारं प्रति निषेधो ज्ञायते । कुर्यात्कुर्वीत न पिता विदध्यादितिशब्दैस्तथैव प्रतीतेः । अतश्च द्वाभ्यां कर्तृभ्यामेकस्मिन्नपि लग्न एकस्मिन्नपि गृहे भिन्नोदरयोर्विवाहः कार्यः । कर्तृभेदेनैव मण्डपप्रतिष्ठादिभेदः । एकः कर्ता तु दिनचतुष्टयेन पूर्वं विवाहं समाप्योत्तरं कुर्यात् । अतिसंकटे त्वेकस्मिन्नपि दिने मण्डपदेवताप्रतिष्ठाद्यभेदेऽपि गृहभेदेन वेति व्यवस्था बोध्या । तथा च वसिष्ठः--
"द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु । |
अत्रोत्तरार्धं भिन्नोदरसाधारणं ज्ञेयम् ।
चतुर्थदिनादर्वाग्विषये वसिष्ठः--
"एकलग्ने द्विलग्ने वा द्वे गृहे यत्र शोभने । |
यत्र गृहे द्वे शोभने द्वौ विवाहावित्यर्थ इति चिन्तामणौ ।
अतिसंकट एकोदरयोरप्येकाहे कर्तव्यतोक्ता ज्योतिर्विवरणे--
"न प्रतिषिद्धं लग्नं संप्राप्ते संकटे महति । |
यम[४५५]योस्तु विशेषः स्मृत्यन्तरे--
"एकस्मिन्वत्सरे चैव वासरे मण्डपे तथा । |
गार्यः--
"एकस्मिन्वासरे प्राप्ते कुर्याद्यमलजातयोः । |
एतच्चाभ्यनुज्ञापरं न तु नियमविधिरिति द्रष्टव्यम् ।
इति समानक्रियाविचारः ।
अथ संक्षेपेण कन्यादातृनिर्णयः ।
तत्र याज्ञवल्क्यः--
"पिता पितामहो भ्राता सकुल्यो जननी तथा । |
भ्राता कन्यायाः ।
स च संस्कृतः ।
"असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । |
अत्र शूलपाणिः--पूर्वसंस्कृतैर्भ्रात्रादिभिः पितुरर्धं(र्थे) पैतृकादेव धनादसंस्कृता भ्रातरो जातकर्मादिसंस्कारैः संस्कार्याः । भगिन्योऽपि स्वाद्धनाच्चतुर्थभागं दत्त्वा तेनैव धनेन विवाहाख्यसंस्कारेण संस्कुर्यात् (स्कार्याः) [ इति ] ।
बृहस्पतिना तु--
"समांशा मातरस्त्वेषां तुरीयांशाश्च कन्यकाः" । |
इत्यनेन पितृधनाच्चतुर्थांशहरत्वमुक्तं तदपि संस्कारार्थमेव । चतुर्थांशेन विवाहासंभवे यावता धनेन संभवति तावद्देयम् ।
यथा देवलः--
"कन्याभ्यश्च पितृद्रव्याद्देयं वैवाहिकं वसु । |
स्ववित्तानुसारेणेत्याह विष्णुः--'अनूढानां तु कन्यानां स्ववित्तानुसारेण संस्कारं कुर्यात्' [४५६]इति । सकुल्यो दायादः । दायादेष्वपि संनिहित एवाधिकारी । प्रकृतिस्थः पातित्योन्मादादिदोषरहितः । अत्र प्रकृतिस्थग्रहणादप्रकृतिस्थेन पित्रादिना कृतमप्यकृतमेव ।
"स्वतन्त्रो यदि तत्कार्यं कुर्यादप्रकृतिं गतः । |
इत्यपरार्के नारदवचनात् । पितृत्वादिना स्वतन्त्रोऽपि सन्नप्रकृतिस्थत्वेन हेतुना परतन्त्रो यदि भवति तदा तत्कृतं वाग्दानादिकार्यमकृतमेव वेदितव्यं यदि तस्मिन्वरे पतनीयदोषा अचिकित्स्यरोगा वा भवेयुः । वरे पतनीयदोषाद्यभावे तु तथैवोपरितनं कर्म प्रकृतिस्थः कुर्यात् । यदा त्वप्रकृतिस्थदत्ताया विवाहसंस्कारो निर्व्यूढस्तदा प्रधानकर्मणो निष्पन्नत्वेनाधिकारिमात्रवैकल्यात्तत्रापि न सर्वात्मना प्रत्यावर्तनीया कन्या ।
एवं तर्ह्यनधिकारिणा कृतमप्यकृतमेवेत्येतद्विरुध्येतेति चेत्सत्यम् । तद्विरोध स्थूलाक्षरैः युक्तः भागःपरिहाराय परिवेत्तृविवाह इव तां प्रत्याहृत्य पुनस्तस्मा एवाधिकारी दद्यात् । तत्र च पुनर्विवाहोऽपि परिवेत्तृविवाहवदेव ज्ञेय इति मदनपारिजाते । यदि तु सप्तपदीक्रमणान्तं जातं भवेत्तदाऽधिकारिदातृरूपाङ्गवैकल्येऽपि नाऽऽवृत्तिर्विवाहस्य । अङ्गानुरोधेन प्रधानावृत्तेरन्याय्यत्वादिति केचित् ।
नारदोऽपि दातॄनाह--
"पिता दद्यात्स्वयं कन्यां भ्राता वाऽनुमतेः पितुः । |
अत्र पितृग्रहणं पितामहोपलक्षणम् । अत्र पित्रभावे पितामहस्तदभावे भ्रातेत्येवं क्रमो द्रष्टव्यः । उदाहृतयाज्ञवल्क्यवचोनुरोधात् । सकुल्या दायादा बान्धवा मातृपक्षीयाः स्वजातयो ब्राह्मणादयः । यस्य वर्णस्य या कन्या तज्जातीया अधिकारिण इत्यर्थः ।
मदनपारिजाते कात्यायनः--
"स्वयमेवौरसीं दद्यात्पित्रभावे स्वबान्धवाः । |
ततोऽन्यामौरसीभिन्नाम् । धर्मजां नियोगात्क्षेत्रजां मातामहो माता मातुलो वा दद्यात् । तेनौरसीदाने पितृबन्धुषु सत्सु मातामहादीनां नाधिकारः ।
अस्यापवादस्तत्रैव--
"दीर्घप्रवासयुक्तेषु पौगण्डेषु च बन्धुषु । |
पौगण्डो व्यवहाराद्यसमर्थः । समये रजोदर्शनोचितसमयात्पूर्वकाले ।
मनुः-
"यदा तु नैव कश्चित्स्यात्कन्या राजानमाव्रजेत्" इति । |
उक्तसकलाधिकार्यभावे स्वयं वरयेत् ।
"गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयं वरम्" इतिवचनात् । |
इति भारते सावित्र्युपाख्याने पित्रनुज्ञयाऽपि स्वयंवरणमुक्तं तत्क्षत्त्रियाधिकारत्वात्तद्विषयम् । गम्यं गमनार्हं सावर्ण्यादिगुणयुक्तमित्यर्थः । अनाथायाः कन्याया धर्मार्थविवाहकरणं तत्फलं चोक्तं पुराणान्तरे--
"आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् । |
अतोऽन्यदीया कन्याऽन्येनापि धर्मार्थं देया ।
कन्याया रजःप्राप्त्यनन्तरं दाने दोषमाह शाट्यायनिः--
"माता च जनकश्चैव ज्येष्ठो भ्राता तथैव च । |
- मरीचिरपि--
"यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । |
- हारीतोऽपि--
"पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता । |
असंस्कृताऽविवाहिता ।
- तत्र प्रायश्चित्तपूर्वकं विवाहमाह शौनकः--
"कन्यामृतुमतीं शुद्धां कृत्वा निष्कृतिमात्मनः । |
निष्कृतिमात्मनः कृत्वा कन्यां चर्तुमतीं शुद्धां कृत्वा वराय प्रतिपादयेदित्यन्वयः । स्वपुत्र्याः स्वकन्यायाः । तस्याः कन्याया दाने कर्तव्ये यथाविधि गोदानविधिना शक्तेन तदृतुसंख्या गावो दातव्याः । अशक्तेन त्ववश्यमेकाऽपि गौर्गोदानविधिना देयेत्यर्थः । उपोष्येति श्लोकेन दृष्टरजस्कक न्याया उपवासत्रयान्ते गव्यपयःपानपूर्वकं गोदानं विधीयते । अदृष्टरजसे कुमार्यै सरत्नभूषणदानेन विवाहयोग्यतोच्यते । तामुद्वहन्नित्यनेन वरस्य कुश्माण्डहोमेन तदुद्वाहयोग्यता प्रतिपाद्यते ।
कन्यया गोदानोत्तरं पादकृच्छ्रमपि कर्तव्यम् ।
"कन्यका तु विवाहात्प्राग्रजसा चेत्परिप्लुता । |
इति हेमाद्रौ स्मृत्यन्तरोक्तेः ।
बौधायनस्तु--
"अथ यदि कन्योपसाद्यमाना वोह्यमाना वा रजस्वला स्यात्तामनुमन्त्रयते--पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानिन्द्रश्च सूर्यश्च पुमांसं वर्धयत्वियमित्यथ द्वादशरात्रमलंकृत्य प्राशयेत्पञ्चगव्यं ततः शुद्धा भवति" इत्याह ।
उपसाद्यमाना दात्रा दीयमाना । उह्यमाना वरेण पाणिग्रहणेन । वाशब्दद्वयमुभयोः प्राधान्यं द्योतयितुम् ।
तस्या उपसाद्यमानाया उह्यमानाया वा पतने स एवाऽऽह--
- "अथ यदि कन्योपसाद्यमाना वोह्यमाना वा पतेत्तामुत्थापयेदुद-
- स्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय
- वरुणाय च" इति ।
होमकाले रजोदर्शने तु यज्ञपार्श्वः--
"विवाहे वितते तन्त्रे होमकाल उपस्थिते । |
युञ्जानः प्रथमं मन इत्येकेनर्ज्मन्त्रेण साध्याऽऽहुतिर्युञ्जानाहुतिस्तां हुत्वेत्यर्थः ।
यदा तु दात्रभावेन रजोदर्शनं तदा विशेषमाह बौधायनः--
"त्रीणि वर्षाण्यृतुमती काङ्क्षेत पितृशासनम् । |
"त्रीणि वर्षाण्युदीक्षेत ना[४५७]री ऋतुमती सती । |
अदीयमाना दात्रभावाद्दात्रुपेक्षणाच्च । सा यं भर्तारमधिगच्छति सोऽपि नैनोऽधिगच्छतीति माधवेन व्याख्यातम् ।
यत्तु विष्णुवचनम्--
"ऋतुत्रयमपास्यैव कन्या कुर्यात्स्वयं वरम्" इति । |
तद्गुणवद्वरलाभे वेदितव्यम् ।
स्वयंवरणे विशेषमाह मनुः--
"अलंकारं नाऽऽददीत पितृदत्तं स्वयंवरा । |
कन्यादानफलमाह स एव--
'नाग्निहोत्रादिभिस्तत्स्याद्रक्षातो ब्राह्मणस्य वा । |
रक्षातो रक्षणेन ।
सालंकारकन्यादाने फलविशेषमाह संवर्तः--
'कूकुदश्चाश्वमेधी च प्राणदाता भयेषु च । |
कुकुदशब्दः--'सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः' इति कोशात्सत्कारपूर्वकालंकारयुतकन्यादातरि रूढः । कूपद इति पाठेऽप्यर्थः स एव ।
वैवाहिकप्रदानमुक्तं स्कन्दपुराणे--
'वैवाहिकप्रदानं हि यो ददाति दयापरः । |
वैवाहिकं विवाहोपयोगि द्रव्यवस्त्रालंकारादि । न चेदं फलश्रवणात्काम्यमेवेति वाच्यम् ।
'वैवाहिकप्रदानं यो न करोति नराधमः । |
अन्यस्य धर्मार्थं विवाहकरणे फलमुक्तं महाभारते--
'ज्ञात्वा स्ववित्तसामर्थ्यमेकमुद्वाहयेद्द्विजम् । |
अपरार्के दक्षोऽपि--
'मातापितृविहीनं तु संस्कारोद्वाहनादिभिः । |
कन्यागृहे भोजननिषेधो भविष्ये--
'अप्रजायां तु कन्यायां न भुञ्जीत कदाचन । |
न भुञ्जीतेत्यत्र कन्यागृह इति शेषः ।
अपरार्क आदित्य पुराणेऽपि--
'अप्रजायां तु कन्यां नाश्नीयात्कन्यकागृहे । |
ब्राह्मविवाहविधिना दातुं योग्यां कन्यां दत्त्वा कदापि तस्या गृहे नैवाश्नीयादित्यर्थः । अत्राप्यप्रजायामित्यनुषञ्जनीयम् ।
शाकलकारिकास्वपि--
'दुहित्रन्नं न भुञ्जीयाद्यावत्तस्या भवेत्सुतः । |
अथ दत्तापहारः ।
तत्र याज्ञवल्क्यः--
'दत्तामपि हरेत्पूर्वं श्रेयांश्चेद्वर आव्रजेत्' इति । |
पूर्ववरापेक्षया श्रेयान्गुणैर्वरिष्ठो वर आव्रजेदागच्छेच्चेत्पूर्ववराय दत्तां वाचा दत्तामपि कन्यां हरेत् । तस्मै न दद्यादित्यर्थः । अत एव प्रतिश्रुत्यवसरे स्मर्यते शिष्टैः--
'अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते । |
दश दोषाः संग्रह उक्ताः--
'उन्मत्ता वृत्तिहीनाश्च तथाऽपस्मारदूषिताः । |
निवृत्ता विवाहात् ।
यत्तु मनुवचनम्--
'एतत्तु न परे चक्रुर्नापरे जातु साधवः । |
यच्च नारदवचनं--
'सकृदंशो निपतति सकृत्कन्या प्रदीयते' इति । |
तद्दोषरहितवरविषयम् । दोषरहितवरतः कन्याया अपहारे दण्ड उक्तो याज्ञवल्क्येन--
'सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक्' इति । |
तां कन्यां हरतश्चोरस्य यथा दण्डस्तथैव दण्ड इत्यर्थः ।
नारदोऽपि--
'दत्तां न्यायेन यः कन्यां वराय न ददाति चेत् । |
अदुष्टश्चेदित्यनेन दुष्टाय न देयेति गम्यते ।
उक्तं च गौतमेन--
'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति । |
दुष्टेनापि यदि पाणिग्रहणं सप्तपद्यन्तं कृतं तदनन्तरं ततो नैव ग्राह्या ।
अत एव नारदः--
'स्त्रीपुंसयोस्तु संबन्धाद्वरणं प्राग्विधीयते । |
तयोरनियतं प्रोक्तं वरणाद्दोषदर्शनात् । |
अस्यार्थः--स्त्रीपुंसयोः संबन्धः संभोगस्तस्मात्प्राग्वरणं तदनन्तरं पाणिग्रहणं च भवति । एवं संबन्धस्त्रिलक्षणः । वरणं पाणिग्रहणमुपभोगश्चेति त्रीणि लक्षणानि यस्य स संबन्धस्त्रिलक्षणः । स्त्रीपुंसयोरित्यत्राचतुरेति सूत्रेणाकारान्तता । गान्धर्वादिषु नायं क्रमः । तयोः स्त्रीपुंसयोः कन्यावरयोरिति यावत् । अनियतमनियमः, वृतोऽपि न परिणीयते वाग्दत्ताऽपि न दीयत इत्येवंरूपः । तत्र हेतुः--वरणाद्दोषदर्शनादिति । वरणादूर्ध्वं कन्यावरयोरन्योन्यं दोषदर्शनात् । अनेन विवाहादूर्ध्वं नानियम इत्युक्तं भवति । तत्र नियमे हेतुमाह पाणिग्रहणिका मन्त्रा इति । तैर्मन्त्रैरुत्पादितसंस्कारयोर्न परित्याग इत्यर्थः । पाणिग्रहणमन्त्रोत्पाद्यसंस्कारावधिमाह-तेषामिति ।
निष्ठा नियता स्थितिः ।
"वरणाद्ग्रहणं पाणेः संस्कारो ह्यग्निलक्षणः । |
इति पाठे तु पाणेर्ग्रहणं यत्सोऽग्निलक्षणः संस्कारः, अग्निचिह्नितो होमादिनिष्पाद्यः संस्कारः । तयोर्वरणपाणिग्रहणयोर्मध्ये वरणमेव दोषदर्शनादनियतं, न पाणिग्रहणं, तस्मादर्वाक्पतित्वानुपपत्तेरित्यर्थः ।
यमः--
"नोदकेन न वा वाचा कन्यायाः पतिरुच्यते । |
अनेन सप्तपद्याक्रमणात्प्राग्वरमरणे वैधव्यं नेति गम्यते ।
उक्तं च वसिष्ठेन--
"अद्भिर्वाचा च दत्तायां म्रियते यदि वै वरः । |
सा पितुरेव न प्रतिग्रहीतुरित्यर्थः । सा च देवराय प्रदेया । तदभावे तद्गोत्राय । तदभावेऽन्यस्मै । एतत्सर्वं देशाचारानुसारेण भवति ।
बलादपहृतायां तु विशेषमाहतुर्यमवसिष्ठौ--
"बलादपत्दृता कन्या मन्त्रैर्यदि न संस्कृता । |
"गान्धर्वादिविवाहेषु पुनर्वैवाहिको विधिः । |
गान्धर्वादिविवाहेष्वनुष्ठितमपि विवाहहोमपूर्वतनं विधिं पुनः कृत्वाऽग्निसाध्यं विवाहहोमादिकं कर्तव्यमित्यर्थः । होमादिसप्तपद्यन्ता मन्त्रा विवक्षिताः । तत्रैव भार्यात्वोत्पत्तेरिति माधवः ।
बहुभ्यो वाग्दाने कात्यायनोक्तो विशेषो द्रष्टव्यः--
"अनेकेभ्यो हि दत्तायामनुढायां तु यत्र वै । |
सर्वेषां गुणवतां वराणामागमे सत्याद्य एव वरस्तां कन्यां लभेतेत्यर्थः । आद्यवरव्यतिरिक्तानां सर्वेषामागमे यो दूरादागतः स तां लभेत ।
तथा च चन्द्रिकायाम्--
"पश्चाद्दूरादागतो यः स हि प्रतिलभेत ताम्" इति । |
पश्चादाद्यवरलाभासंभवनिर्णयानन्तरं दूरस्थो वरस्तां कन्यां प्रतिलभेतेत्यर्थः । आद्यस्य दोषवत्त्वे परस्य गुणवत्त्वे परस्प्रा एव देया--
"कुलशीलविहीनस्य पश्चाद्धि पतितस्य च । |
इति याज्ञवल्क्योक्तेश्च । पश्चाद्वाग्दानोत्तरं पतितस्येत्यर्थः[४५९] । सगोत्रोढा सप्रवरेणोढा ।
वरणोत्तरं वरस्य देशान्तरगमने नारदः--
"प्रतिगृह्य तु यः कन्यां वरो देशान्तरं व्रजेत् । |
प्रतिगृह्य वरयित्वेत्यर्थः ।
शुल्कदातुर्देशान्तरगमने कात्यायनः--
"प्रदाय शुल्कं गच्छेद्यः कन्यायां स्त्रीधनं तथा । |
शुल्कं कन्यामूल्यम् । स्त्रीधनं कन्याप्रीतये दत्तमलंकारद्रव्यादि । शुल्कदमरणे मनुवसिष्ठौ--
"कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । |
याज्ञवल्क्या--
"महादोषे तु विज्ञाते पूर्वं सप्तपदीविधेः । |
महादोषाः कारिकानिबन्धे--
"अन्धो मूकः क्रियाहीनश्चापस्मारी नपुंसकः। |
दूरस्थोऽपि गुणवत्त्वेन बहुभिः परिज्ञातश्चेत्तदा न दूरस्थत्वं दोषः ।
तदुक्तं स्मृत्यन्तरे--
"गुणवानिति विज्ञातो दूरस्थोऽपि हि सन्वरः" इति । |
वसिष्ठः पाणिग्रहणोत्तरमप्यन्यस्मै देयेत्याह--
"पाणिग्रहे कृते कन्या केवलं मन्त्रसंस्कृता । |
एतच्च कलौ निषिद्धम्--
"देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः । |
इति कलिवर्ज्यप्रकरणे बृहन्नारदीयवचनात् । परस्य परस्मा इत्यर्थः । वाग्दानोत्तरं कन्यादोषोपलम्भे गृहीताया अपि त्याग उक्तो मनुना--
"विधिवत्प्रतिगृह्यापि त्यजेत्कन्यां विगर्हिताम्" इति । |
विगर्हितां दुष्टाम् ।
- नारदः--
"नादुष्टां दूषयेत्कन्यां नादुष्टं दूषयेद्वरम् । |
कन्यादोषास्तेनैव दर्शिताः--
"दीर्घकुत्सितरोगार्ता व्यङ्गा संस्पृष्टमैथुना । |
अन्यस्मिन्पुरुष आहितः कृतो भावोऽभिलाषो यया सा ।
अदुष्टात्यागे दोषमाह याज्ञवल्क्यः--
"अदुष्टां च त्यजन्दण्ड्यो दूषयंस्तु मृषा शतम्" इति । |
"यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । |
पणशतद्वयं सप्तत्यधिकं पूर्वसाहसम् ।
यत्तु याज्ञवल्क्येनोक्तम्--
"अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम्" इति । |
तद्दोषभूयस्त्वाभिप्रायम् । उत्तमसाहसं साशीतिपणसाहस्रम् ।
उक्तं च प्रायश्चित्तप्रकरणे तेनैव--
"साशीतिपणसाहस्रो दण्ड उत्तमसाहसम्" इति । |
इति दत्तापहारनिर्णयः ।
अथ कुलपरीक्षा ।
तत्राऽऽश्वलायनः--
"कुलमग्रे परीक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरस्तात्" इति । |
ये मातृतः पितृतश्च दशपुरुषं समनुष्ठितविद्यातपोभ्यां पुण्यैश्च कर्मभिर्येषामुभयतो नाब्राह्मण्यं निनयेयुः पितृत इत्येक इत्यस्मिन्सूत्रे यथोक्तं तथाऽऽदौ कुलं परीक्षेतेत्यर्थः ।
मनुः--
"उत्तमैरुत्तमो नित्यं संबन्धानाचरेदिह । |
उत्तमलक्षणं तेनैवोक्तम्--
"विशुद्धाः कर्मभिश्चैव शृतिस्मृतिनिर्शिनः । |
वर्ज्यकुलान्युक्तानि देवलेन--
"अग्रजा येषु वंशेषु स्त्रीप्रजाप्रसवास्तथा । |
अग्रजा इति स्त्री[ प्रजा ] प्रसवविशेषणम् । यत्र येषु कुलेषु, तानि कुलानि । मनुरपि--
"महान्त्यपि समृद्धानि गोजाविधनधान्यतः । |
हीनक्रियं विहितक्रियाविरहितम् । इदमुपलक्षणं निषिद्धवर्जनस्य । निष्पुरुषं पुंस्प्रसवरहितम् । निश्छन्दो वेदाध्ययनरहितम् । रोमशं प्ररूढरोमसर्वाङ्गम् । अर्शसमित्यादिपदैस्तत्तद्रोगवन्ति कुलान्युच्यन्ते ।
स्मृत्यन्तरे--
"कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । |
दारसंग्रहफलभूतसंततौ दोषानुवृत्तिपरिहारायैषा कुलपरीक्षा । "कुलानुरूपाः प्रजाः संभवन्ति" इति हारीतवचनात् ।
इति कुलपरीक्षा ।
अथ कन्यालक्षणानि ।
तत्राऽऽपस्त[४६०]म्बबौधायनौ--
"बन्धुशीललक्षणसंपन्नामरोगामुपयच्छेत" इति । |
अत्र संपन्नामिति प्रत्येकमभिसंबध्यते । बन्धुसंपन्ना प्रशस्ताभिजना । शीलसंपन्नाऽऽस्तिक्यादिगुणान्विता । लक्षणसंपन्ना गूढगुल्फत्वादिलक्षणयुक्ता । अरोगा क्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिता । एतादृशीं कन्यामुपयच्छेतोद्वहेदिति सुदर्शनेन व्याख्यातम् ।
प्रयोगपारिजाते शौनकोऽपि--
"लब्धाभ्यनुज्ञो गुरुतो द्विजो लक्षणसंयुताम् । |
बाह्यलक्षणान्याह मनुः--
"अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । |
लोमान्युरोगतानि तनूनि सूक्ष्माणि लोमानि, तनवः केशा दन्ताश्च यस्याः सा तनुलोमकेशदती ।
शातातपः--
"हंसगतिर्मेघवर्णा मधुपिङ्गललोचना । |
नारदोऽपि--
"मृगाक्षी मृगगुह्या च मृगग्रीवा मृगोदरी । |
एवमन्यान्यपि बहूनि लक्षणानि सामुद्रिकतिलकहस्तसंजीवनादिसामुद्रिकशास्त्रग्रन्थेषु द्रष्टव्यानि ।
वर्जनीयकन्या आहाऽऽपस्तम्बः--
"सुप्तां रुदतीं निष्कातां वरणे परिवर्जयेद्दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां सांकारिकां र[४६१]तां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेन्नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः सर्वाश्च रेफलकारोपान्त्या वरणे परिवर्जयेत्" इति ।
बौधायनोऽधिकमाह--
"नक्षत्रनामानदीनामावृक्षनामापर्वतनामाप्रेष्यनामापक्षिनामापिशाचनामाश्च गर्हिताः" इति ।
सुप्तां निद्रिताम् । रुदतीं रोदनकारिणीम् । निष्कान्तां मलिनां परिवर्जयेत्, अत्यन्तं वर्जयेत् । दत्तामन्यस्मै वाचा प्रतिश्रुतामुदकपूर्वं वा प्रतिपादिताम् । गुप्तामदर्शनार्थं कञ्चकादिभिरावृताम् । रक्ष्यमाणां वा दौःशील्यादिशङ्कया । द्योतां पिङ्गलाक्षीं बभ्रुकेशीं वा विषमदृष्टिं वा । ऋषभामृषभप्रधानामृषभस्येव शरीरं गतिः ककुच्छीलं वा यस्याः [ ताम् ] । शरभां शीर्णदीप्तिं सवर्गात्रेषु नीललोम्नीं वाऽरूपां वा निष्प्रभा वा । विनतां कुञ्चिताङ्गीम् । विकटां विकटजङ्घां वा । मुण्डामपनीतकेशां वा । मण्डूषिकामल्पकायामरुणदन्तां वा मण्डूकत्वचं वा । केचित्तु वामनां दग्धाङ्गां वेति वदन्ति । सांकारिकां गर्भस्थायां यस्यां माता भर्त्रस्थिसंचयनं करोति तां कुलान्तरस्य दुहितृत्वं गतां वा । [४६२]रतां रमणशीलां कन्दुकादिक्रीडाप्रियामित्यर्थः । ऋतुस्नातामिति केचित् । पालीं वत्सक्षेत्रादिपालिकामित्यर्थः । मित्रां बहुमित्राम् । स्वनुजां शोभना अनुजा यस्याः । केचित्तु वरजन्मसंवत्सर एव पश्चाज्जातामिति वदन्ति । वर्षकारीं वराद्वर्षेणाधिकामत्यन्तं स्रवन्तीं वा। परिवर्जयेदित्यनुषङ्गे सत्यपि पुनर्वर्जयेदिति वचनं ब्रा[४६३]ह्मादिषु सर्वेष्वासां प्रतिषेधार्थं दत्तेतरासामनिषेधार्थं वा । नक्षत्रनामैव नाम यासां ता नक्षत्रनामाः । एकस्य नामशब्दस्य लोप उष्ट्रमुखशब्दवत् । एवमुत्तरयोरपि विग्रहः । रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः । गङ्गेत्येवमादयो नदीनामाः । शिंशुपेत्यादयो वृक्षनामाः । गर्हिता वर्जनीयाः । रेफो वा लकारो वा यासां नाम्न्युपान्त्य उपधेत्यर्थः । यथा गौरी शालेत्यादि । व्यक्तं शिष्टम् । अत्र चकारेण गर्हिता इत्यनुकर्षणादासां वर्जनीयत्वे सिद्धे वरणे परिवर्जयेदिति पुनर्वचनं व्यर्थं, न, सुग्रहत्वार्थम् । अथवा या एता रेफलकारोपान्त्या गौरी शालेत्यादयः । याश्च प्रकारान्तरेणापि रेफलकारोपान्त्याः स्मृत्यन्तरेणोक्ताः सगोत्रा समानप्रवरा पुंश्चलीति तास्ता वरणे परिवर्जयेदितिज्ञापनार्थमिति व्याख्यातं सुदर्शनेन । यद्यपि विग्रहे शोभना अनुजा यस्या इति सामान्यतः स्वनुजशब्दार्थो भाष्यकृता प्रदर्शितस्तथाऽप्यत्र स्वनुजशब्दः स्त्रीलिङ्गः सावधारण एव द्रष्टव्यः । तेन शोभना अनुजा भगिन्य एव इत्यर्थो निष्पद्यते । नातो यस्यास्तु न भवेद्धाता तां नोपयच्छेतेत्यनेन विरोधः ।
मनुरपि--
"नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । |
उद्वहेदिति शेषः । कपिलां रक्ततण्डुलवर्णाम् । पिङ्गलामग्निवर्णाम् । अन्त्यां म्लेच्छनाम्नीम् । आभ्यन्तरलक्षणान्यप्यापस्तम्बेनोक्तानि--
"शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेदिति नानाबोजानि संसृष्टानि वेद्याः पांसून्क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिरुत्तमं परिचक्षते" इति ।
शक्तिः सामर्थ्यम् । विषयोऽवकाशः । अस्यामृद्धिपरीक्षायां वरतत्पक्षीयाणां सामर्थ्यस्यावकाश(शे)संभवे सति यदीयकन्या तदीयाश्चेमां परीक्षामुपगच्छेयुरित्यर्थः । यत एवात्र शक्तिविषय इत्याह, अत एवेयमृद्धिपरीक्षा ज्यौतिषादिभिर्वैकल्पिकी न तु नित्या । द्रव्याणि वक्ष्यमाणानि मृत्पिण्डेषु प्रच्छन्नान्येकैकस्मिन्भाजने निधाय कन्यासमीपे च कृत्वा तां ब्रूयात्, एषां मृत्पिण्डानामेकमुपस्पृशेति । कानि तानीत्याह नानाबीजानि व्रीहियवादिबीजानि, संसृष्टानि एकस्मिन्पिण्डे प्रक्षिप्तानि, वेद्याः सौमिक्या आहृतापांसून्क्षेत्रात्सस्यसंपन्नादाहृतं लोष्टम् । अवशिष्टे प्रसिद्धे । पूर्वेषां चतुर्णामुपस्पर्शने यथायोग्यमृद्धिः । नानाबीजानामुपस्पर्शने प्रजासमृद्धिः । वेद्याः पांसूनामुपस्पर्शने यज्ञसमृद्धिः । क्षेत्रलोष्टस्पर्शने सस्यानां समृद्धिः । शकृत उपस्पर्शने पशूनां समृद्धिः । ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्थः । उत्तमं श्मशानलोष्टं परिचक्षते गर्हन्ते शिष्टाः । जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादित्यर्थ इति व्याख्यातं सुदर्शनेन ।
एतावत्कर्तुमशक्तं प्रत्या[४६४]हतुरापस्तम्बबौधायनौ--
"यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियतेत्येके " इति । |
यस्यां कन्यायां वरस्य मनसश्चक्षुषोश्च निबन्धो नितरां बन्धनं, यस्यामासक्त्यतिशयान्मनश्चक्षुषी निबद्धे इव तिष्ठेते इत्यर्थः । तस्यां जायायां सत्यामृद्धिर्धर्मादीनां, नेतरद्गुणदोषानुदर्शनमाद्रियेतेत्येक आचार्या ब्रुवत इति व्याख्यातं सुदर्शनेन । नेतरदाद्रियेतेत्ययं निषेधः सुप्तादिरेफलकारोपान्त्यान्तानामेव, न तु धर्मसूत्रोक्तानां सगोत्रसप्रवरसपिण्डानामपि । एतदर्थमेव धर्मसूत्रे सगोत्रादिविवाहनिषेधः कृतो न तु गृह्यसूत्रे । तथा च सगोत्रादिविवाहनिषेधोऽस्त्येव । एवं च यो निषेधः स्वसूत्रोक्तं सगोत्रादिविवाहनिषेधं बाधितुं नार्हति सूत्रान्तरोक्तं सगोत्रादिविवाहनिषेधमीक्षितुमपि नार्हति कुतस्तं बाधितुम् । अतः सत्याषाढादिसूत्रोक्तसगोत्रादिविवाहनिषेधबाधनशङ्कैव न । मातुश्च योनिसंबन्धेभ्य इति सत्याषाढापस्तम्बसूत्रयोश्चकारः सप्रवरपितृसपिण्डयोः समुच्चयार्थः । तेनैतयोरपि निषेधोऽस्त्येव ।
लक्षणान्यवश्यं परीक्षणीयान्यन्यथा दोष इत्युक्तं बौधायनेन--
"वर्जयेत्सर्वथा कन्या अशुभा लक्षणैश्च याः । |
इति कन्यालक्षणानि ।
अथ वरलक्षणानि ।
तत्राऽऽपस्तम्बः-- "श्रुतवानिति" इति ।
श्रुतमध्ययनं तेन संपन्नः । विदुष एवोक्तकर्माधिकारात् । इत्येवंभूता वरसंपत् । एवंभूताय वराय दद्यादित्यर्थ इति सुदर्शनः ।
बौधायनः--"बन्धुशीललक्षणसंपन्नः श्रुतवानरोग इति" इति ।
आश्वलायनः--"बुद्धिमते कन्यां प्रयच्छेत्" इति ।
यमः--
"कुलं च शीलं च वयश्च रूपं विद्यां च वित्तं च सनाथतां च । |
नाथशब्देन पोषकाः पित्रादय उच्यन्ते ।
यत्तु चन्द्रिकायाम्--
"ब्राह्मणस्य कुलं ग्राह्यं न वेदाः सपदक्रमाः । |
तत्कन्यादानादौ ब्राह्मणस्य कुलप्राधान्यप्रतिपादनपरं न तु लक्षणान्तरनिषेधपरम् ।
लैङ्गे--
"दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने । |
अत्र ब्रह्मचारिण इत्यस्यायमर्थः--अस्खलितब्रह्मचर्येणैव प्रथमविवाहः कार्यः । ब्रह्मचर्ये स्खलिते यो ब्रह्मचारी स्त्रियमुपेयात्स गदर्भं पशुमालभेतेत्यादिना विहितं प्रायश्चित्तं कृत्वा कन्यामुद्वहेदिति ।
कात्यायनः--
"उन्मत्ताः पतिताश्चैव कुष्ठिषण्ढस्वगोत्रजाः । |
"कन्यां ददाति वृद्धाय नीचाय धनलिप्सया । |
([४६५] ब्रह्मवैवर्तेऽपि--
"वराय गुणहीनाय वृद्धाय ज्ञानिने तथा । |
वृद्धपदमत्यशक्तपरतालक्षकम् । ज्ञानिपदं विवाहानिच्छुपरतालक्षकम् । पङ्गुलः पादहीनः । अत्यन्तपापिने महापातकयुक्तायेत्यर्थः। अपिशब्दात्प्रतिग्रहीतुरपि दोषः। वैष्णवाय विष्णुभक्ताय । विष्णुशब्दः शिवाद्युपलक्षकः । विपदा विपद्रूपहेतुना धनलोभेन चेत्यर्थः ।)
याज्ञवल्क्यः--
"एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । |
अत्र भ्रातृमत्त्वानन्यपूर्वत्वयवीयस्त्वरूपगुणत्रयभिन्नाः सर्वे गुणा अतिदिश्यन्ते । सवर्णः समानवर्णः । असपिण्डादिगुणातिदेशादुभयतःसापिण्ड्यनिवृत्तिरभिप्रेता । तेन वरनिरूपितं कन्यायां कन्यानिरूपितं च वरे पृथगेव सापिण्ड्यं न तु व्यासज्यवृत्ति उभयनिरूपितमेकमिति नवीनाः । पुंस्त्वपरीक्षोक्ता नारदेन--
"यस्याप्सु प्लवते बीजं ह्रादि मूत्रं च फेनिलम् । |
बीजं रेतः । ह्रादि ध्वनिमत् । फेनिलं फेनवत् ।
परीक्षाकारणमपि तेनैवोक्तम्--
"अपत्यार्थं स्त्रियः सृष्टाः स्त्रीक्षेत्रं बीजमर्हति । |
सामुद्रिकशास्त्रे--
"पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् । |
एवमन्यान्यपि लक्षणानि सामुद्रिकतिलकादौ द्रष्टव्यानि ।
इति वरलक्षणम् ।
अथ परिवित्त्यादिस्वरूपं तत्प्रायश्चित्तं च ।
तत्र मनुः--
"परिवित्तिः परिवेत्ता यया च परिविन्दति । |
यया कन्यया परिविन्दति पुरुषः सा कन्याऽपि नरकं यातीत्यर्थः । दातृयाजकपञ्चमा इत्यत्र दाता च याजकश्च दातृयाजकौ तौ पञ्चमौ पञ्चसंख्यापूरकौ येषां परिवित्तिपरवेत्तृकन्यानां ते दातृयाजकपञ्चमा इति समासः । दाता च याजकाश्च दातृयाजकाः । ते पञ्चसंख्यापूरका येषामित्येवं वा समासः । याजक ऋत्विक् । अथवा याजकश्चासौ पञ्चमश्च याजकपञ्चमः । दाता च याजकपञ्चमश्च दातृयाजकपञ्चमौ तौ येषु ते दातृयाजकपञ्चमाः । दातृयाजकौ सर्वेऽपि ते पूर्वोपात्ताश्च नरकं यान्ति गच्छन्तीत्यर्थः ।
परिवित्त्यादिस्वरूपं तेनैवोक्तम्--
"दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । |
अत एव गर्गः--
"सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद्दारसंग्रहम् । |
तथा च [४६६] मनुः--
"अग्रजे ब्रह्मचर्यस्थे योऽनुजो दारसंग्रहम् । |
पितृव्यपुत्रभिन्नोदरादीनां न दोष इत्याह शातातपः--
"पितृव्यपुत्रसापत्नपरनारीसुतेषु च । |
सापत्नाः सापत्नमातृजाः । परनारीसुता व्यभिचारादुत्पन्ना दत्तकादयो वा ।
गौतमोऽपि--
"भिन्नोदरे दत्तके च पितृव्यतनयेऽग्रजे । |
इदमपि प्रथमविवाहाग्न्याधानादौ ।
तथा च मण्डनः--
"दर्शेष्टिं पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम् । |
अनुज्ञयाऽऽधानं भवतीत्याह सुमन्तुः--
"तिष्ठेद्भ्राता यदि ज्येष्ठ आधानं नैव चाऽऽश्रयेत् । |
आज्ञयाऽऽधानाद्येव भवति न विवाहः ।
तदाह हारीतः--
"सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् । |
दारैस्त्वित्यत्र तुशब्दोऽवधारणार्थः ।
कन्याविषये गर्गः--
"एकमातृप्रसूतानां पुत्रिणीपरिवेदने । |
"देशान्तरस्थान्क्लीबांश्च शूद्रतुल्यान्सहोदरान् । |
क्लीबाः स्त्रीसंभोगविषयेऽधृष्टाः । शूद्रतुल्याः शूद्रधर्मिणः । वेश्यासक्ता वेश्यास्वभिरताः । कुवृषणाः कुत्सितवृषणाः । पतिता ब्राह्मण्याच्च्युताः । अतिरोगाः क्षयापस्मारकुष्ठादयस्तद्वन्तः । जडादयो वामनान्ताः प्रसिद्धाः । खेलका भग्नपादाः । अतिवृद्धाः प्रसिद्धाः । अभार्या नैष्ठिकब्रह्मचारिणः । कामतोऽकारिणो विवाहादिच्छया निवृत्ताः । कुहकाः परवञ्चनाय वृथोद्योगपराः । कुहकपदस्थाने कुटिल इति क्वचित्पाठः । अत्र ये सर्वात्मना विवाहानधिकारिणः क्लीबादयस्तेषु सत्सु कालविशेषमन्तरेणापि परिवेदनान्न दोषः । ये तु कालान्तरे संभावितविवाहाधिकारा देशान्तरस्थविरक्तवेश्यातिसक्तशूद्रतुल्यकृषिसक्तराजपरतन्त्रधनवृद्धिप्रसक्तकामतोकारिकुहकतस्करास्तेषु सत्सु वक्ष्यमाणकालप्रतीक्षणं कृत्वा परिवेदनं कुर्वतां न दोषोऽस्तीति हेमाद्रिः ।
देशान्तरगतज्येष्ठसोदरविषये प्रतीक्षावधिमाह वसिष्ठः--
"द्वादशाष्टौ वा वर्षाणि ज्येष्ठभ्रातरम[४६७]निविष्टमप्रतीक्षमाणः |
अत्र हेमाद्रिः--धर्मार्थमर्थार्थं वा देशान्तरगतस्य ज्येष्ठस्य द्वादशवर्षं प्रतीक्षा ।
तथा च स्मृतिः--
"द्वादशैव तु वर्षाणि ज्यायान्धर्मार्थयोगतः । |
धर्मार्थयोगत इति विद्याया अप्युपलक्षणार्थम् । अत एव गौतमेन 'नष्टे भर्तरि' इति प्रक्रम्य 'द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धेन' इति भार्यायाभर्तृप्रतीक्षणकालमुक्त्वाऽभिहितम्-- 'भ्रातरि चैवं ज्यायसि यवीयान्कन्याग्न्याधेयेष्टिषु' इति । नष्टे भर्तरि कुत्र गत इत्यज्ञाते भर्तरि । अत्यन्तदूरदेशान्तरगत इति यावत् । विद्यासंबन्धेन विद्याग्रहणार्थं देशान्तरगते भर्तरि ब्राह्मणभार्यया द्वादश वर्षाणि प्रतीक्ष्य तत्क्रियादि कार्यम् । एवं ब्राह्मणः कनिष्ठो ज्येष्ठे भ्रातरि विद्याग्रहणार्थं देशान्तरगते द्वादश वर्षाणि प्रतीक्ष्य विवाहाग्न्याधानेष्टीः कुर्यात् । कार्यान्तरार्थं देशान्तरगमने तु दशाष्टौ वेति पक्षद्वयम् । अत्रेदं विवक्षितम् । देशान्तरगतस्य स्वाभिमतं कार्यं निर्वर्त्य प्रत्यागमनसंभावनानिवृत्तौ तदुत्तरकालं कनिष्ठेन दाराग्निहोत्रसंयोगे क्रियमाणे परिवेत्तृत्वरूपो दोषो न भवतीति । एवमेव विरक्तवेश्यातिसक्तादिष्वपि च कियन्तमपि कालं तथैवावस्थितेषु तत्स्वभावत्वावधारणेन विवाहसंभावनानिवृत्तौ तदुत्तरकालं कनिष्ठेन विवाहादौ क्रियमाणे न दोषः ।
अनेनैवाभिप्रायेण सुमन्तुनाऽप्युक्तम्--
"व्यसनासक्तचित्तो वा नास्तिको वाऽथवाऽग्रजः । |
आधानग्रहणं विवाहस्याप्युपलक्षणार्थम् । क्लीबादयस्तु स्वभावतः सर्वथा विवाहानर्हत्वात्कियन्तमपि कालं न प्रतीक्षणीयाः । द्वादशेति मुख्यः पक्षः । अष्टावित्यनुकल्पः ।
गर्गोऽत्र विशेषमाह--
"प्रोषितं तु प्रतीक्षेत वर्षत्रयमपि त्वरन् । |
पादं पादकृच्छ्रम्[४६८] ।
कार्ष्णाजिनिः--
"उन्मत्तः किल्विषी कुष्ठी पतितः क्लीब एव वा । |
अथैतत्प्रायश्चित्तम् ।
तत्र वसिष्ठः--
"परिवेत्ता च दाता च कृच्छ्रातिकृच्छ्रौ चरित्वा |
अत्रापरार्के कनिष्ठेनोढां ज्येष्ठ उद्वहेत् । अशास्त्रीयविवाहेन कनिष्ठनिरूपितभार्यात्वानुत्पत्तेर्ज्येष्ठोद्वाहयोग्यत्वात् । कनिष्ठस्त्वन्यामुद्वहेदिति । हारीतेन ज्येष्ठस्याब्दव्रतमुक्त्वाऽन्योद्वाह एवोक्तः--
"ज्येष्ठस्य समाप्तेऽब्दे तां कन्यां ज्येष्ठायोपपादयेयुः, |
तस्मात्परिवेत्ता कृच्छ्रातिकृच्छ्रोत्तरं स्वोढां ज्येष्ठाय ब्रह्मचार्याहृतभैक्षवद्गुरुपरिभवपरिहारार्थं निवेद्य तेनानुज्ञातां तामेवोद्वहेदिति वासिष्ठार्थः । अत्रैवं व्यवस्था । संनिधावकामतः कृच्छ्रातिकृच्छ्रौ याज्ञवल्कीयं व्रतचतुष्टयं च वर्णशक्त्याद्यपेक्षया योजनीयम् । कामतः संनिधौ कन्यापित्राद्यनुज्ञातोद्वाहे तु मानवं त्रैमासिकमिति ।
यत्तु सुमन्तुः--
"परिवित्तिपरिवेत्तृकन्यादातृयाजकानां द्वादशरात्रं सक्तुप्रा- |
यत्तु यमः--
"कृच्छ्रौ द्वयोः पारिवेद्ये कन्यायाः कृच्छ्र एव च । |
इति तदज्ञानतः क्षत्त्रियविषयम् । द्वयोः परिवेत्तृपरिवित्त्योः प्रत्येकं द्वौ कृच्छ्रौ ।
अग्रेदिधिषूस्वरूपं देवलेनोक्तम्--
"ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । |
एतत्प्रायश्चित्तमाह वसिष्ठः--
- "अग्रेदिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेद्दि-
- धिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा तस्मै दत्त्वा पुनर्निविशेत्" इति ।
अग्रेदिधिषूपतिः प्राजापत्यं चरित्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्वहेत् । दिधिषूपतिस्तु कृच्छ्रातिकृच्छ्रौ च[४६९]रित्वा स्वोढां ज्येष्ठां कनीयस्याः पूर्वविवोढ्रे दत्त्वाऽन्यामुद्वहेदिति मिताक्षरायां कल्पतरौ च ।
व्याख्यान्तरमपि स्मृत्यसारे--
- "कनिष्ठापतिर्द्वादशरात्रं कृत्वा तां स्वोढामेव ज्येष्ठोद्वाहे जात उद्वहेत् ।
- ज्येष्ठापतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढां कनिष्ठापतये ब्रह्मचार्यात्दृत-
- भैक्षवन्निवेद्य तदनुज्ञातां तां ज्येष्ठामेवोद्वहेत्" इति । अपरार्के तु--अग्रेदिधिषूपतिस्थाने दिधिषूपतिरिति पठितम् । दिधिषूपतिस्थाने त्वग्रेदिधिषूपतिरिति । तथा च प्रायश्चित्तविकल्पः ।
इति परिवित्त्यादिस्वरूपं तत्प्रायश्चित्तं च ।
अथ कूटानि ।
तत्र मत्कृताः श्लोकाः--
कूटान्विचार्यैव कृतो विवाहः शुभदो भवेत् । वधूभाद्वरभं गण्यं वरभात्कन्यकर्क्षकम् ॥ ८ ॥ अश्वेभमेषसर्पाहिश्वौत्वजाखुभुगुन्दुराः । |
क्रमादिभद्विसंख्याका वैरभावोऽधुनोच्यते । |
शेषेऽप्यस्ति विशेषः सोऽधुना सर्व उदीर्यते । |
यदा रक्षोगणा स्त्री स्यात्पुमान्नरगणस्त[४७१]दा । |
वैपरीत्ये पञ्च गुणा गणसाम्ये तु षड्गुणाः । |
इति कूटानि ।
अथ जन्मराशिनामराश्योर्निर्णयः ।
ज्योतिर्निबन्धे--
"विवाहे सर्वमाङ्गल्ये यात्रादौ ग्रहगोचरे । |
यदि वधूवरयोर्मध्य एकस्य जन्मर्क्षं ज्ञातमेकस्य न ज्ञातं तदा शुद्धिमेलनादिकं कथमवलोकनीयमित्याकाङ्क्षायां शार्ङ्गधरीये--
"विवाहघटनं चैव लग्नजं ग्रहजं बलम् । |
अथ मण्डपादि ।
तत्र वसिष्ठः--
"षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् । |
द्विषट्करो द्वादशकरः ।
अन्यत्रापि--
"मङ्गलेषु च सर्वेषु मण्डपो गृहमानतः । |
गृहमानत इत्यस्य महति गृहे महान्मण्डपः । अल्पे न्यून इत्यर्थः । दशावधिरिति न्यूनताया अवधिः । अतो वसिष्ठोक्तोऽष्टहस्तो मण्डपोऽत्यन्तापद्विषयः । दशहस्तं तु रचयेदित्यपि कुत्रचित्पाठः । अस्मिन्पाठे संनिहितवचनविरोधाभावः स्पष्ट एव । स्तम्भैश्चतुर्भिरित्यत्र युक्तेति शेषः । इदं च वेदिविशेषणम् । इयं च वेदिर्देवकस्थापनार्था ।
पारिजाते नारदः--
"हस्तोच्छ्रितां चतुर्हस्तैश्चतुरश्रां समन्ततः । |
- अत्र प्रमाणं संस्कार्यायाः कन्यायाः ।
"कन्याहस्तैः पञ्चभिः सप्तभिर्वा कार्या वेदिः कूर्मपृष्ठोन्नता सा । |
आशिषैरिति च्छान्दसम् । एतेन वरप्रमाणस्यात्र कैश्चिद्ग्राह्यतोक्ता सा निरस्ता द्रष्टव्या । प्रागुदक्प्रवणा प्रागुदङ्निम्ना । सर्वेषां तृतीयान्तानां पदानां समलंकृतामित्यनेनान्वयः । धातुमयैः काष्ठमयैर्मार्तिकैर्वा हस्तिशुकादिभिः समः न्तात्स्थापितैरलंकृतामित्यर्थः । विचित्रेण वर्णेनाङ्किताश्चिह्निताः कुम्भास्तैरलंकृतामित्यर्थः । शृङ्गारसंपादकानि मालतीप्रभृतिसुगन्धिपुष्पाणि तेषां निकराः समूहास्तैः शोभिताम् । वर्णकैर्नानावर्णैः शोभिताम् । पुण्यैर्विप्राशीर्वचनैरित्यनेन दंपत्योर्वेद्यारोहणकाले विप्रैराशिषो देया इति द्योत्यते । त्रिभिर्दीपैर्वेद्याः पुरोभागे स्थापितैर्मनोरमाम् । वादित्रगीतनृत्याद्यैर्हृदयानन्द[४७५]दायिनीमित्यनेन दंपत्योर्वेद्यारोहणकाले वादित्रगीतनृत्यादिकं कारणीयमिति सूच्यते । साग्निवेदिकामित्यनेन दंपत्योर्वेद्यारोहणात्पूर्वं होमोपयोगिनामग्न्यादीनामुपकल्पनं वेद्यां कार्यमिति सूच्यते । एतच्च साग्नीत्यस्य वेदिकाया विशेषणत्वपक्षे । मिथुनस्य साग्नीति विशेषणं भिन्नं पदं वेदिकापदात् । एतस्मिन्पक्ष आरोहणसमयेऽग्नेर्वेदिकायामुपकल्पनं ज्ञेयम् । एवंविधामुक्तविशेषणविशिष्टां वेदिं मिथुनमारुरुक्षेत् । वध्वा सहैव वर आरोहणं कुर्यादित्यर्थः ।
केशवार्कोऽपि--
"वेदिकां विरचयेद्यथा तथा स्यादियं प्रविशतः प्रदक्षिणा । |
यवोप्तिरङ्कुरारोपणाख्यं कर्म । जनाश्रयो मण्डपः । 'मण्डपोऽस्त्री जनाश्रयः' इत्यमरः ।
मण्डपादिनिर्माणे दिनान्याह नारदः--
"नवत्रिषष्ठो नववारकः शुभो न वर्णकेनापि विवाहमण्डपः" इति । |
नवमे तृतीये षष्ठे च दिवसे नववारको न शुभः । नववारकोऽङ्कुरारोपणम् । वर्णकेनानुकल्पतया विवाहमण्डपनिर्माणमपि नवमादिदिनेषु न शुभम् । मुख्यकल्पेन तन्निर्माणे त्वेतेषु दिनेषु सुतरां न कार्यमित्याशयः । विवाहार्थो मण्डपो वर्णकेनैव क्रियमाणो न शुभोऽन्यार्थस्तु वर्णकेनैव क्रियमाणोऽपि शुभ इति केचित् ।
दैवज्ञमनोहरः--
"चित्रा विशाखा शततारकाऽश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम् । |
शिवभमार्द्रानक्षत्रं तदारभ्याऽऽश्लेषान्तं नक्षत्रचतुष्टयं हित्वेत्यर्थः । हेमाद्रौ व्यासः--
"कण्डनदलनयवारकमण्डपमृद्वेदिवर्णकान्यखिलम् । |
यवारकं भाषया 'चिकसा' इति ।
ज्योतिर्निबन्धे नारदः--
"कर्तव्यं म |
मृत्सिकता मृत्पांसवः ।
मृन्मयेष्वथ पात्रेषु वैणवेष्वथ वा क्षिपेत् । |
ज्योतिर्निबन्धे विशेषः--
"यस्याङ्गं यददोऽङ्गिनो गदितभे कुर्यादिहेन्दोर्बलं नाऽऽलोक्यं |
अस्यार्थः--यस्य कर्मणो यदङ्गम्, अद इदमङ्गिनो मुख्यस्य गदितभ उक्तनक्षत्रे कुर्यात् । इहास्मिन्नङ्गभूते कर्मणि, इन्दोश्चन्द्रस्य बलं नाऽऽलोक्यं न विचारणीयम् । तत्र विवाहे विशेषः । विवाहतो विवाहदिनात्प्राक्त्र्यरिनवाह्नि तृतीयषष्ठनवमेऽह्नि, इदमङ्गं विवाहाङ्गं न कुर्यात् ।
तत्र विवाहाङ्गं नवविधम् । तदुक्तं ज्योतिर्निबन्धे--
"दलनं कण्डनं चैव व्यञ्जनं मोदकानि च । |
शार्ङ्गधरीये--
"दलनकण्डनमण्डनवेदिकागृहसंमार्जनवारकमण्डपाः । |
विवाहकृत्यं निखिलं विवाहभे विलोकयेन्नात्र बलं हिमद्युतेः । |
दलनं गोधूमादेः पिष्टकरणम् । कण्डनं तण्डुलादेर्मुशलाघातादिना शोधनम् । व्यञ्जनं पर्पटादि । मोदकानि घृतपाचितान्नानि । यवारो(रं) यवारकः(कं) 'चिकसा' इति । वारक इत्यपि पाठः । वारको मङ्गलकलशः । मण्डपो जनाश्रयः । वेदिर्वधूवरयोरुपवेशनार्थं चत्वरम् । कुङ्कुमं गन्धादि । वर्णकं चूर्णगैरिकचित्रलेखनादि । अनेन मार्जनोपलेपनादिकमपि संग्राह्यम् । निखिलमनन्तरोक्तम् ।
अथ कन्याया जन्मकालिकग्रहादिसूचितवैधव्यपरिहारोपायः कर्मविपाके--
"ब्राह्मणं साधुमामन्त्र्य संपूज्य विविधार्हणैः । |
सुवर्णशब्दोऽत्र जातिवाची । परिमाणं तु पलतदर्धतदर्धान्यतमं शक्त्या ज्ञेयम् ।
अथ प्रयोगः ।
कन्या स्नानाचमने कृत्वा देशकालौ संकीर्त्य वैधव्यहरं महाविष्णुमूर्तिदानं करिष्य इति संकल्प्य गणेशं संपूज्य साधुं विनीतमध्ययनसंपन्नं ब्राह्मणमाहूय तमाचार्यत्वेन वृत्वा विविधैरुपचारैर्यथाविभवं संपूज्य तद्धस्तेनाग्न्यु त्तारणं प्राणप्रतिष्ठां षोडशोपचारैः पूजनं च कारयेत् । वस्त्रार्पणकाले पीते वाससी दापनीये । पुष्पार्पणकाले कुमुदोत्पलमालाऽपि दापनीया ।
पूजान्ते देवं प्रणम्य--
"यन्मया प्राचि जनुषि घ्नन्त्या(त्या) पतिसमागमम् । |
इति पठित्वा तां ब्राह्मणाय दद्यात् ।
ततः सुवर्णं दक्षिणां दत्त्वाऽनघाऽद्याहमस्मीति त्रिर्वदेत् । एवमस्त्वित्याचार्यस्त्रिवारं प्रतिब्रूयात् ।
ततो यथाशक्ति ब्राह्मणान्भोजयित्वा कर्मेश्वरायार्पयेत् । एवं कृते विवाहयोग्या भवति ।
इति वैधव्यहरप्रतिमादानविधिः ।
अथ कुम्भविवाहः ।
अथवा वैधव्यपरिहाराय कुम्भविवाहः कार्यः । स चोक्तस्तत्रैव--
"विवाहात्पूर्वदिवसे चन्द्रताराबलान्विते । |
आ समन्ताच्चन्दनपुष्पादिभिरलंकृतं कुम्भं कन्यादेहं च वेष्टयेदित्यन्वयः । तयोस्तदुभयसंबन्धिनि मन्दिरे ।
अथ प्रयोगः ।
कन्याविवाहकर्ताऽऽचम्य प्राणानायम्य देशकालौ सकीर्त्य ममास्याः कन्याया वैधव्यहरं कुम्भविवाहं करिष्य इति संकल्प्य गणेशपूजनादिनान्दी श्राद्धान्तं कृत्वा वरुणविष्णुप्रतिमयोरग्न्युत्तार[४७७]णं कृत्वा मही द्यौरित्यादिविधिना कुम्भस्थापनम् । तस्मिन्कुम्भे वरुणप्रतिमायां कृतप्राणप्रतिष्ठायां वरुणपूजनं च विधाय कृतप्राणप्रतिष्ठायां कलशे स्थापितायां विष्णुप्रतिमायां विष्णुं संपूज्य प्रार्थयेत्--
"वरुणाङ्गस्वरूपाय जीवनानां समाश्रय । |
ततो विष्णुरूपिणे कुम्भायेमां कन्यां श्रीरूपिणीं समर्पयामीति समर्प्य परि त्वेत्यादिभिर्वक्ष्यमाणैर्वेष्टनमन्त्रैरधस्तादुपरिष्टाच्च मन्त्रावृत्त्या कुम्भं कन्यां च परिवेष्ट्य कुम्भं निःसार्य सलिलाशये प्रभञ्जयित्वा(ञ्ज्य) पञ्चपल्लवैः शुद्धजलेन समुद्रज्येष्ठा इत्यादिमन्त्रैः कन्यामभिषिच्य ब्राह्मणान्भोजयेत् ।
इति कुम्भविवाहविधिः ।
अथ वाग्दानविधिः ।
कश्यपसंहितायाम्--
"अथातः संप्रवक्ष्यामि कन्यावरणमुत्तमम् । |
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम् । |
नक्षत्राण्युक्तानि ज्योतिर्निबन्धे--
"विश्वपूर्वात्रयकर्णयुग्माश्विन्यग्निमैत्रैश्च विवाहभैर्वा । |
विश्वर्क्षमुत्तराषा[४७८]ढाः । पूर्वात्रयं पूर्वा(र्व)फल्गुनीपूर्वाषाढापूर्वा(र्व)प्रोष्ठपदाः । कर्णयुग्मं श्रवणं धनिष्ठाश्च । अग्निः कृ[४७९]त्तिकाः मैत्रम[४८०]नुरा[४८१]धाः ।
स्मृत्यन्तरे--
"कुर्याद्वैवाहिके मासि वाग्दानं द्विजसत्तमः । |
धिष्ण्यं नक्षत्रम् ।
वरस्यापि वरणमाह चण्डेश्वरः--
"उपवीतं फलं पुष्पं वासांसि विविधानि च । |
अथ तत्प्रयोगः ।
ज्योतिर्विदादिष्टे शुभे मुहूर्ते वरपित्रादिरिष्टबन्धुवृद्धमान्यजनपुरन्ध्रीभिर्माङ्गलिकतूर्यघोषैश्च सहितः शकुनदर्शनपूर्वकं कन्यागृहमेत्य प्राङ्गण उपविशेत् ।
ततो वृद्धः कश्चित्कन्यापितरं प्रति ब्रूयात् । अस्य पुत्रो वरोऽस्ति तदर्थं भवत्कन्यां याचितुं सुहृद्भिः सहायमागतः । भवद्भिः स्वीयैः सह विचार्य कन्यापूजनार्थमेतेभ्योऽनुज्ञा देयेति ।
ततः कन्यापिता मान्यजनेष्टबन्ध्वाद्यनुज्ञां गृहीत्वा दत्ता मया पूजनार्थमनुज्ञेति तेभ्योऽनुज्ञां दद्यात् ।
ततः कन्यायाः पुरोहितादिश्चतुष्पादे शु[४८२]भ्रवस्त्राच्छादिते पीठे "ॐ अनृक्षरा ऋज० स्तु देवाः" "ॐ देवीं वाचमज० सुष्टुतैतु" इतिमन्त्राभ्यां प्राङ्मुखीं शुक्लवस्त्रां सालंकारां सुवेषां कन्यामुपवेशयेत् । ततो वरपिता कन्यायाः पुरोभागे प्रत्यङ्मुख उपविश्य कन्यापित्रादिसमीपे गणपत्यादिस्मरणपूर्वकममुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे वराय, अमुकप्रवरान्वितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकपुत्रीममुकनाम्नीं कन्यां भार्यात्वाय वृणीमह इति कन्यापितरं प्रति वदेत् ।
दाता भार्येष्टबन्ध्वाद्यनुमतिं गृहीत्वा पूर्वोक्तमनूद्याननूद्य वा वृणीध्वमिति वदेत् । एवं पुनर्द्विः । ततः प्रदास्यामीति दातोच्चैस्त्रिर्वदेत् ।
ततो वरपिता कन्याञ्जलिं कुङ्कुमगन्धेनानुलिप्येष्टबन्ध्वादिभ्यः प्रार्थयेत् । ते च महालक्ष्मीरियमिति ब्रूयुः ।
ततो वरपिता कन्याभालं चन्दनेनानुलिप्य स्वपक्षीयसुवासिनीभिर्नीराजनं कारयेत् ।
ततस्तण्डुलाक्षतांस्तस्या भाले संयोज्य युवं वस्त्राणीति वस्त्राणि दत्त्वाऽग्ने रेतश्चन्द्र हिरण्यमिति भूषणानि दद्यात् ।
ततो याः फलिनीरिति फलैः संपूज्य तस्या हस्ते फलताम्बूलादि दत्त्वा सुमुखश्चेत्यादिदेशकालसंकीर्तनान्ते कन्यापूजनं करिष्य इति संकल्पं कुर्यादिति शिष्टाः । नैव संकल्प इति तु युक्तम् ।
कन्यापितुस्तु कन्याया वाग्दानमहं करिष्य इति संकल्पः । नायमपि संकल्प इति तु युक्तम् ।
तत उभौ गणपतिपूजनं यथाचारं कलशे वरुणपूजनं च कुर्यातां विसर्जनं च । अत्राऽऽचारश्चेत्स्वस्तिवाचनमपि ।
ततो वरपिता कन्याया दक्षिणत उदङ्मुखो वामतः प्राङ्मुखो वोपविश्य कन्यां गन्धाक्षतपुष्पवस्त्रादिभिः पूजयेत् ।
ततः कन्यादाता वरपितरं प्राङ्मुखमुपवेश्य स्वयं तस्य पुरतः प्रत्यङ्मुख उपविश्य तं गन्धताम्बूलादिभिः पूजयेत् । स च दातारम् ।
ततो दाताऽऽचाराद्धरिद्राख[४८३]ण्डं गन्धाक्षतयुतानि पञ्च दृढानि पूगीफलानि च गृहीत्वाऽमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे वराय,अमुकप्रवरान्वितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकस्य मम पुत्रीममुकनाम्नीं कन्यां ज्योतिर्विदादिष्टे मुहूर्ते दास्य इति वाचा संप्रदद इत्युक्त्वा,--
"अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते । |
इति वरपित्रादिवस्त्रप्रान्ते निक्षिप्य नर्य प्रजामिति प्रतिष्ठापनमन्त्रेण वस्त्रप्रान्ते बद्ध्वा ग्रन्थिं चन्दनेन चर्चयेदित्याचारप्राप्तम् । पितामहकर्तृके वाग्दाने पौत्रीमित्यतः पूर्वमेव ममेति वदेत् । एवं सकुल्यत्वेन प्रपितामहकर्तृके प्रपौत्रीमित्यतः पूर्वं ममेति । भ्रात्रादिकर्तृके तु ममेति नैव कुत्रापि ।
ततो हरिद्राखण्डं गन्धाक्षतयुतानि पञ्च दृढपूगीफलानि च तथैव वरपित्रादिर्गृहीत्वाऽमुकप्रवरान्वितामुकगोत्रोत्पन्नामुकशर्मवरविषये भवन्तो नि[४८४]श्चिता भवन्तु, इति कन्यापित्रादिवस्त्रप्रान्ते पूर्ववत्प्रक्षिप्य ग्रन्थिं चन्दनेन चर्चयेत् । ततो दाता--
"वाचा दत्ता मया कन्या पुत्रार्थं स्वीकृता त्वया । कन्यावलोकनविधौ निश्चि[४८५]तस्त्वं सुखी भव" । |
इति वरपितरं प्रति वदेत् ।
"वाचा दत्ता त्वया कन्या पुत्रार्थं स्वीकृता मया । |
इति वरपिता कन्यापितरं प्रति वदेत् । पौत्रादिविवाहे पौत्रार्थं भ्रात्रर्थं मित्रार्थं सकुल्यार्थमित्युभयत्र यथायथमूहः । अथवा वरार्थं स्वीकृतेत्येव सर्वत्र ।
ततो ब्राह्मणाः शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । एतद्वः सत्यमस्त्विति वदेयुः ।
ततो दाता विवाहसौभाग्याद्यभिवृद्ध्यर्थं शचीपूजनं कारयेत् । संकल्पमप्यत्रेच्छन्ति केचित् ।
"सुवर्णां पद्मपत्राक्षीं दिव्यस्रग्वस्त्रशोभिताम् । |
इतीन्द्राणीं ध्यात्वा सिततण्डुलपुञ्ज आवाहनाद्युपचारैः पूजनं वध्वा कारयेत् ।
ततः--
"देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि । |
इति वाग्दानप्रयोगः ।
अथ वरस्य वधूगृहं प्रति गमनम् ।
तद्विधिः शौनकेनोक्तः--
"पुण्ये मुहूर्ते कुर्वीत विवाहं विधिवद्द्विजः । |
तस्य वधूगृहस्य ।
गृहीतपूर्णकुम्भादिपाणिभिर्वनिताजनैः । |
आभ्युदयिकं श्राद्धं कुर्यात् । स्वस्ति वाचयेदित्यत्रान्तर्भावितो णिज्ज्ञेयः । अन्यथा नान्दीश्राद्धं पिता कुर्यादित्यनेन विरोधापत्तेः ।
नान्दीश्राद्धं पिता कुर्यादित्यत्र नान्दीश्राद्धग्रहणं स्वस्तिवाचनादेरुपलक्षणम् । तथैव शिष्टसमाचारात् । नान्दीश्राद्धमात्रं पितृकर्तृकं स्वस्तिवाचनं तु वरकर्तृकमेवेत्यस्मिन्मत आभ्युदयिकं श्राद्धं कुर्यादित्येकत्रैव णिज्ज्ञेयः । कृतपुण्याहवाचन इतिवचनाद्वधूगृहगमनकाले वरेण पञ्चवाक्यैः पुण्याहवाचनं कार्यमिति केचित् । अनुवादोऽयमित्यन्ये ।
इति वरस्य वधूगृहं प्रति गमनम् ।
अथ गौरीहरपूजनविधिः ।
संग्रहे--
"लग्नाहे मातृकाः पूज्याः पूज्या गौरी हरान्विता । |
तत्र--
पलद्वयेन रौप्येण कुर्यान्नन्दिनमग्रतः । |
पूजामन्त्रस्तत्रैव--
"गौरीहरौ महेशानौ सर्वमङ्गलदायकौ । |
तथा--
"कन्यादेहप्रमाणेन सप्तविंशतितन्तुभिः । |
विवाहे वधूवरयोः सह भोजनमाह संग्रहकारः--
"मात्रा सहोपनीतस्य विवाहे भार्यया सह। |
हेमाद्रौ प्रायश्चित्तकाण्डे गालवोऽपि--
"एकयानसमारोह एकपात्रे च भोजनम् । |
"परिरक्षन्ब्रह्मचर्यं सह शय्यासनाशनैः । |
संग्रहे--
"एकासनं चैकशय्या एकपात्रे च भोजनम् । |
विप्रग्रहणं क्षत्रियवैश्ययोरुपलक्षणम् ।
अत्राहतवस्त्रे विशेषमाह कश्यपः--
"अहतं यन्त्रनिर्मुक्तं वासः प्रोक्तं स्वयंभुवा । |
अथ लग्नघटीस्थापनम् ।
"प्रागुदक्प्रवणे देशे गोमयेनोपलेपिते । |
घटिकालक्षणमाह वामनः--
"दशपलसिद्धकमले सुसूक्ष्मान्ते पडङ्गुलोच्छ्राये । |
सुसूक्ष्मोऽन्तो यस्य तत् । षोडशमाषपरिमितं सुवर्णं तस्य पादश्चतुर्थांशो माषचतुष्टयपरिमितः ।
नारदोऽपि--
"षडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम् । |
"ताम्रपात्रे वारिपूर्णे मृत्पात्रेऽप्यथवा शुभे । |
इति घटिकापात्रनिक्षेपणमन्त्रः ।
इति घटिकास्थापनम् ।
अथ घटीयन्त्रभ्रमणफलम् ।
ज्योतिर्निबन्धे--
"यद्रूपं प्रथमं करोति घटिका पूर्वादिदिक्षु क्रमा- |
ग्रन्थान्तरे--
"प्रार्थिता सा घटी तोये यां दिशं प्रति गच्छति । |
प्रार्थिता मुख्यं त्वमसि यन्त्राणामिति मन्त्रेण प्रार्थिता ।
अन्यच्च--
"उत्तरेशानपूर्वासु घटी पूर्णा शुभप्रदा । |
सप्तर्षिमते विवाहपटले--
प्रपूजयेद्दैवविदं स्वशक्त्या गन्धादिपुष्पाम्बरदक्षिणाभिः । |
दैवविल्लग्नप्रदाता ।
तल्लक्षणं व्यतिरेकेणाऽऽह संवर्तः--
"अन्धः श्वित्री च कुनखी हीनाङ्गः पङ्गुरेव च । |
यत्र लग्नप्रदाने । तल्लग्नप्रदानम् ।
लग्नकाललक्षणमुक्तं नारदेन--
"स्वस्थे नरे सुखासीने यावत्स्पन्दति लोचनम् । |
तत्पराच्छतमो भागस्त्रुटिरित्यभिधीयते । |
बृहस्पतिस्तु--
"शुभग्रहोदयर्क्षा वा शुभषड्वर्ग एव वा । |
वेदविज्ञानवाक्यं चेत्येतद्द्वेधा व्याख्यातं पारिजाते--वेदस्य विज्ञानं येषां ते वेदविज्ञानाः, वेदवेदाङ्गतत्त्वज्ञानास्तेषां वाक्यम् । अथवा विजानन्तीति विज्ञानाः । 'कृत्यल्युटो बहुलम्' इति निमित्तकर्तरि ल्युट् । वेदस्य विज्ञाना वेदविज्ञाना इति स एवार्थः । तेषां वाक्यं तु सुमुहूर्तमस्त्वित्येवंरूपमित्यर्थः । अपि च--वेदैर्विज्ञायत इति वेदविज्ञानो वेदवेद्यो लक्ष्मीपतिः । बहुलग्रहणात्कर्मणि ल्युट् । तस्य लक्ष्मीपतेश्चरणस्मरणरूपं वाक्यं तदेव लग्नमित्यादि । एतदुक्तं भवति ।
मुहूर्तकाले सुमुहूर्तमस्तु ।
"तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । |
इति चोक्त्वा मुहूर्तं दद्यादिति । गन्धादीत्यत्राऽऽदिशब्देनालंकारग्रहणम् ।
संकटे गोधूलिकलग्नप्रवृत्तिरुक्ता ज्योतिर्निबन्धे--
"घटीलग्नं यदा नास्ति तदा गोधूलिकं शुभम् । |
प्रथमविवाहे नान्दीश्राद्धं पितृकर्तृकमेव--
"नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः । |
पित्रभावे पितामहाद्यन्यतमः । सर्वेषामभावे स्वयमेवेति निबन्धकृतः ।
रेणु[४८७]कारिकासु विशेषः--
"उक्ते काले विवाहाङ्गं कुर्यान्नान्दीमुखं पिता । |
अथ विवाहप्रयोगः ।
कन्यादाता सुमुहूर्ते गृहाङ्गण उक्तलक्षणं तोरणादियुक्तं मण्डपं कृत्वा तत्र वधूहस्तचतुष्टयपरिमाणां हस्तसप्तकहस्तपञ्चकान्यतरपरिमाणां वा समचतुरश्रां हस्तमात्रोच्छ्रायां सोपानयुतां सुश्लक्ष्णामुक्तलक्षणां वेदिं कुर्यात् । वरपित्रा तु स्वगृह उक्तलक्षणो मण्डप एव कार्यो न वेदिः ।
ततो यथाकालं वैवाहिके ज्योतिर्विदादिष्टे शुभे मुहूर्ते कन्यापक्षीयपुरन्ध्र्यो वधूं सुगन्धितैलयवारकहरिद्रादिमङ्गलद्रव्यैरुद्वर्तनपूर्वकमुष्णोदकेन यथाचारं संस्नाप्य तच्छिष्टद्रव्यैरुद्वर्तनपूर्वकं तथैव वरं संस्नापयेयुरित्याचारः ।
ततः कन्यादाता विवाहदिने तत्पूर्वदिने वा पूर्वाह्णे कृतमाङ्गलिकस्नानो धृतमाङ्गलिकवेष उपलिप्ते रङ्गवल्लिकायुक्ते प्राङ्गणे शुभ्रवस्त्राच्छादिते पीठासने प्राङ्मुख उपविश्य स्वस्य दक्षिणतः कृतमाङ्गलिकस्नानां धृतमाङ्गलिकवेषां पत्नीं तस्या दक्षिणतः कृतमाङ्गलिकस्नानां धृतमाङ्गलिकवेषां कन्यां चोपवेश्याऽऽचम्य प्राणानायम्येष्टदेवतागुर्वादीन्नमस्कृत्य देशकालौ संकीर्त्य ममास्या अमुकनाम्न्याः कन्याया ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इति संकल्पं कुर्यात् । ममास्याः कन्याया भर्त्रा सह धर्मप्रजोत्पादनद्रव्यपरिग्रहेष्वधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इत्येवं वा संकल्पः । पितामहस्तु ममास्या अमुकनाम्न्याः पौत्र्या इत्येवं वदेत् । प्रपितामहस्तु प्रपौत्र्या इति । भ्रातृपितृव्यादयस्तु भगिन्या भ्रातृकन्याया इत्यादि संबन्धानुसारेण वदेत् । अथवा--अमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्याप्रतिपादनकल्पोक्तफलावाप्तये मया परिकल्पितेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वादशावरान्द्वादश परान्पुरुषान्पवित्रीकर्तुमात्मनश्च लक्ष्मीनारायणप्रीत्यर्थममुकनाम्न्या अस्याः कन्यायाः प्रतिपादनरूपं विवाहं करिष्य इत्येवं संकल्पः । अस्मिन्पक्षे कन्याप्रतिपादने संकल्पो न कार्यः । वरपिता तु--अस्यामुकशर्मणः पुत्रस्य विवाहसंस्कारं करिष्य इत्येवं संकल्पं कुर्यात् । अस्यामुकशर्मणः पुत्रस्य दैवपित्र्यर्णापाकरणसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विवाहसंस्कारं करिष्य इत्येवं संकल्पः । पितामहस्तु पौत्रस्येति वदेत् । प्रपितामहस्तु प्रपौत्रस्येति । भ्रातृपितृव्यादिस्तु भ्रातुर्भ्रातृपुत्रस्येत्यादिसंबन्धानुसारेण । वस्तुतस्तु स्वस्य विवाहसंस्कारं करिष्य इत्येवं वरकर्तृक एव संकल्प इति युक्तम् । न च पितुः स्वस्तिवाचनाद्यङ्गकर्तृत्वात्संकल्पोऽपि तत्कर्तृक एवेति वाच्यम् । प्रधानानुष्ठातुर्वरस्यैव प्रधानसंकल्पकर्तृकताया उचितत्वात् । पाणिग्रहणं हि प्रधानम् । तच्च वरकर्तृकम् । अतो वरकर्तृक एवायम् ।
"नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः" । |
इतिवचनान्नान्दीश्राद्धमात्रं पितृकर्तृकम् । नान्दीश्राद्धशब्देन 'स्वस्तिवाचनमप्युपलक्ष्यत इति केचित् । स्वस्तिवाचनादीनां बहिर्भूतत्वपक्षे प्रधानसंकल्पो वाग्दानात्पूर्वं कन्यादानात्पूर्वं वा कन्यादात्रा कर्तव्यः । वरेण वधूगृहगमनात्पूर्वं कर्तव्यः । स्वस्तिवाचनादीनां बहिर्भूतत्वपक्षे कन्याविवाहं कर्तुमादौ पुण्याहवाचनमित्यादिसंकल्पः कन्यादात्रा कर्तव्यः । वरपित्रा तु मत्पुत्रविवाहार्थं पुण्याहवाचनमित्यादिसंकल्पः कार्यः । कन्याविवाहस्य वरपक्षसंपाद्यवैवाहिकसामग्रीदानसहितक्रियायां वरपक्षसंपाद्यवैवाहिकसामग्रीदानसहितं विवाहसंस्कारं करिष्य इति संकल्पे विशेषः ।
ततो गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धमङ्कुरारोपणं ग्रहमखं मण्डपदेवताप्रतिष्ठापनं च कुर्यात् । वरपिताऽपि गणपतिपूजनादि कुर्यात् । अत्राग्निः प्रीयतामिति विशेषः । अथवाऽङ्कुरारोपणग्रहमखौ पूर्वं पृथगेव यथावकाशं कार्यौ । न तु नान्दीश्राद्धोत्तरकर्तव्यतानियमः ।
तत उभावपि मण्डपदेवताप्रतिष्ठापनानन्तरं विवाहाङ्गदेवताकुलदेवताप्रीत्यर्थं यथाचारं द्विजसुवासिनीकुमारादीन्यथाकालं यथोपपन्नेनान्नेन भोजयेताम् । एवमन्येऽपि वृद्धपारम्पर्यागता उच्चावचा देशधर्मा ग्रामधर्माः कुलधर्माश्चात्र कर्तव्याः । एतच्च सूत्रकृता ज्ञापितमस्ति--'अत्र बीजान्यधिश्रयन्ति' इत्यनेन सूत्रेण । आश्वलायनेन तु स्पष्टमेवोक्तम्-– 'अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात्' इति । आपस्तम्बेनापि--'आवृतश्चाऽऽस्त्रीभ्यः प्रतीयेरन्' । इति[४८८] । आवृतः क्रिया वैवाहिक्यः । अविशेषात्समन्त्रका अमन्त्रकाश्च । ताः सर्वा आस्त्रीभ्यः सवर्णाभ्यः सकाशादवगम्य प्रतीयेरन्कुर्वीरन्विवोढारः । समन्त्रका ग्रहपूजादयः । अमन्त्रका इन्द्राणीपूजनादयः । ताश्च यथाजनपदं यथावर्णं यथाग्रामं यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव न सर्वाः समुच्चिता इति सुदर्शनेन व्याख्यातम् । शाङ्खायनः--
"स्नातं कृतमङ्गलं वरमविधवाः सुभगा युवत्यः कुमार्यै वेश्म |
अविधवा इत्युपलक्षणम् । शिष्टद्विजा अपि ब्रह्मघोषपूर्वकं कन्यागृहे वरमानयन्ति । तासां स्त्रीणामप्रतिकूलोऽनुकूलो वरः स्यात्ता यद्यत्कारयन्ति कुलाचारमर्था[४८९]दविरुद्धं तत्तु कुर्यात् । सर्वमेवोक्तं कुर्यादिति न, अभक्ष्यपातकेभ्योऽन्यत्र, अभक्ष्यभक्षणं येन च पातकं भवति तन्न कुर्यात् । काश्चन स्त्रियोऽस्मिन्नवसरे कार्मणादिकं कुर्वन्ति तद्व्यतिरिक्तं यद्यत्कारयन्ति तद्विधेयमिति तद्भाष्यम् ।
अन्यच्चाहाऽऽपस्तम्बः--"तथा मङ्गलानि" इति ।
शङ्खदुन्दुभिवीणावादित्रसंप्रवादनानि कुलस्त्रीगीतानि केशश्मश्र्वादिकल्पनाहतचित्रवासोधारणगन्धानुलेपनस्रग्धारणापदातिगमनचित्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाह उपसंहर्तव्यानीति सुदर्शनः ।
ततः कन्यादाताऽश्वादियानयुतः समङ्गलवादित्रघोषः स्वलंकृतः स्वेष्टबन्धुवृद्धमान्यजनपुरन्ध्र्यादिसहितः सपत्नीको वरगृहमागत्य प्राङ्मुखं वरमुपवेश्योदङ्मुखस्तस्य दक्षिणत उपविश्य पत्नीं स्वदक्षिणभागे तथैवोपवेशयित्वाऽऽचम्य प्राणानायम्योक्तरीत्या गणपतिं संपूज्य यथाचारं कलशं संस्थाप्य तत्र वरुणं संपूज्य द्वयोर्विसर्जनं कुर्यात् । कन्याविवाहाङ्गभूतं वरपूजनमहं करिष्ये, तदङ्गं गणपतिपूजनं वरुणपूजनं [च] करिष्य इति संकल्पं कुर्वन्ति तद्दूषितमेवोपनयनप्रकरणे ।
अथ वरवरणम् ।
तत्र कन्यापितोदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान्ब्राह्मणान्वरान्वरनिश्चयार्थं प्रहिणोति--
"ॐ प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वरा अभि षु प्रसीदतः । |
ततो गच्छतस्ताननुमन्त्रयते--"ॐ अनृक्षरा ऋजवः सन्तु पन्था येभिः सखा० ममस्तु देवाः" इति । वरनिश्चयं कृत्वा तेष्वागतेषु यस्मिन्कस्मिंश्चिच्छुभे मुहूर्ते कन्यावरणात्पूर्वमनन्तरं वा यः कश्चिद्वृद्धः कन्यापक्षीयो वरपितरं प्रति ब्रूयात् । एतस्य कन्या वधूरस्ति तस्याः कन्यायास्त्वत्पुत्रं भर्तृत्वेन स्वीकर्तुं त्वत्समीपे सुहृद्भिः सहायमागतो भवद्भिः स्वीयैः सह विचार्य वरपूजनार्थमनुज्ञैतेभ्यो देयेति ।
ततो वरपिता[४९०] पित्राद्यनुमत्या दत्ता मयाऽनुज्ञेति । ततः पुरोहितादिश्चतुष्पादे शुभ्रवस्त्राच्छादिते पीठासने--"ॐ अनृक्षरा० ॐ स्वस्ति न इन्द्रो०" इति मन्त्राभ्यां प्राङ्मुखं शुक्लवस्त्रं सालंकारं सुवेषं वरमुपवेशयेत् ।
ततस्तमुपवीतफलपुष्पादिभूषणगन्धवासोभिर्यथाविभवं संपूजयेत् ।
ततः कन्यापिता वरस्य पुरोभागे प्रत्यङ्मुख उपविश्य वरपित्रादिसमीपे गणपत्यादिस्मरणपूर्वकम्, अमुकप्रवरान्वितामुकगोत्रोत्पन्नाया अमुकप्रपौत्र्या अमुकपौत्र्या अमुकपुत्र्या अमुकनाम्न्यै कन्याया अमुकप्रवरान्वितामुकगोत्रोत्पन्नममुकप्रपौत्रममुकपौत्रममुकपुत्रममुकशर्माणं भर्तृत्वाय वृणीमह इत्युपवीतादिभिर्वृणुयात् ।
वरपिता सर्वेषामनुमतिं गृहीत्वा पूर्वोक्तमनूद्याननूद्य वा वृणीध्वमिति वदेत् । एवं पुनर्द्विः । बाढमिति सर्वानुमतिपूर्वकं वरपिताऽङ्गी कुर्यात् । वरणीयेयं कन्येति पित्रादिभिरनुज्ञायां दत्तायां स्वी करोमीति वरो ब्रूयात् । इदानीं सीमान्ते वरपूजनं यत्कुर्वन्ति तदेवेदम् । तत्रैवानया रीत्या वरवरणं कर्तव्यम् ।
ततो वरस्य पादौ प्रक्षाल्य गन्धपुष्पाक्षतनीराजनवस्त्रादिभिर्यथाविभवं संपूज्य यथाचारं दुग्धादिप्राशनं तेन कारयित्वा नारिकेलफलं हस्ते दद्यादित्याचारप्राप्तम् ।
ततो वरः कृतनित्यक्रियः स्वलंकृतः स्रग्वी दातदत्तवस्त्रादिभूषित इष्टदेवताकुलदेवतागुर्वादीन्नमस्कृत्य मम वधूगृहगमनकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिभिः पुण्याहवाचनं कृत्वाऽकृत्वा वा यथाविभवमश्वाद्यन्यतमयानमारुह्यसितच्छत्रः स्वर्चितैः सुभूषितैर्ज्ञातिबान्धवैरियमेव सा येत्यादिमन्त्रपाठपरैर्ब्राह्मणैः पुरन्ध्रीभिर्जलकुम्भदर्पणकन्यापुष्पाक्षतदीपमालाध्वजलाजमङ्गलवादित्रघोषैर्नृत्यद्भिर्नर्तकादिभिश्च युतो वधूगृहं गत्वा द्वारदेशे प्राङ्मुखः स्थित्वा नीराजनपूर्णकुम्भहस्ताभिः पुरन्ध्रीभिः प्रत्युद्याताभिर्नीराजितोऽन्तर्गृहं प्रविश्य मण्डपमध्ये हरितेषु दर्भेषु संस्थापिते सोत्तरच्छदे चतुष्पादभद्रपीठे प्राङ्मुख उपविशेत् । अत्र शिष्टाः कन्यावरणं कन्यापूजनं वाग्दानं च कुर्वन्ति ।अथ मधुपर्कः ।
स च वरशाखया कर्तव्य इत्युक्तं गृह्यपरिशिष्टे--
"वरस्य या भवेच्छाखा तच्छाखागृह्यचोदितः । |
अत्र वर इत्यर्च्यस्योपलक्षणम् । जयन्तेन तु यजमानशाखयैव मधुपर्क उक्तः । वस्तुतस्तु सत्याषाढसूत्रानुसारिभिः सूत्रोक्त एव मधुपर्कः कार्य इति युक्तं प्रतिभाति । मधुपर्कप्रयोगस्तु समावर्तन उक्तः । आगतं कन्यार्थिनमिमं वरं मधुपर्केणार्हयिष्य इति संकल्पवाक्ये विशेषः । यदि तु गृह्यपरिशिष्टमेव शिष्टैराचारानुरोधात्स्वी क्रियते तदाऽऽश्वलायने वरे तच्छाखीयमधुपर्कविधेरपेक्षितत्वात्तत्प्रयोग उच्यते । तत्रायं क्रमः । पाद्यार्थमर्घ्यार्थं मन्त्रवत्त्रिराचमनजलार्थं शुद्ध्यर्थाचमनीयार्थं च पात्रचतुष्टयं मधुयुक्तदध्याख्यमधुपर्कसहितं कांस्यपात्रं पञ्चविंशतिदर्भैरधोमुखाग्रैर्वामावर्तेन यथा वेणी भवति तथाऽग्रे गुम्फितैरग्रे ग्रन्थियुतैर्विष्टरं च संपाद्याऽऽगतं कन्यार्थिनं स्नातकं वरं मधुपर्केणार्हयिष्य इति संकल्प्योपकल्पितं विष्टरं--विष्टरो विष्टरो विष्टर इति त्रिर्निवेद्य प्रतिगृह्यतामित्यासनार्थं वरहस्ते दद्यात् । वरः प्रतिगृह्णामीति प्रतिगृह्य,
अहं वर्ष्मेत्यस्य वामदेवो विष्टरोऽनुष्टुप् । विष्टरोपवेशने विनियोगः । 'ॐ अहं वर्ष्म सजातानां० भिदासति' इत्युदगग्रे विष्टर उपविशेत् । विष्टरं मन्त्रेण पद्भ्यामाक्रम्य तूष्णीमुपविशेद्वा ।
ततोऽर्चकेन--पाद्यं पाद्यं पाद्यमिति त्रिर्निवेदितं पाद्यं वरः प्रतिगृह्णीयात् । सर्वत्र निवेदनानन्तरमर्चकः प्रतिगृह्यतामिति वदेत् । मधुपर्कप्रतिग्रहव्यतिरिक्तस्थले प्रतिगृह्णामीत्यर्च्यः ।
ततोऽर्चकस्तेनोदकेन वरस्य दक्षिणसव्यौ पादौ क्रमेण प्रक्षालयेत् । ततो वरो लौकिकजलेनाऽऽचम्य गन्धमाल्यफलादिसंयुक्तमर्घ्यमर्घ्यमर्घ्यमिति त्रिर्निवेदितमर्घ्यमञ्जलिना प्रतिगृह्य तूष्णीं निनयेत् ।
तत आचमनीयमाचमनीयमाचमनीयमित्यर्चकेन त्रिर्निवेदितमाचमनीयं प्रतिगृह्य तस्यैकदेशं गृहीत्वा, अमृतोपस्तरणमसीत्यस्य वामदेवो जलं यजुः । जलपाने विनियोगः । 'ॐ अमृतोपस्तरणमसि' इति पीत्वा लौकिकजलेनाऽऽचामेत् । मधुपर्को मधुपर्को मधुपर्क इत्यर्चको मधुपर्कं निवेद्य प्रतिगृह्यतामिति वदेत् ।
ततोऽर्च्यः--मित्रस्य त्वेत्यस्य वामदेवो मधुपर्को विराड्यजुर्वा । मधुपर्कावेक्षणे विनियोगः । 'ॐ मित्रस्य त्वा चक्षुषा प्रतीक्षे' इत्यानीयमानं मधुपर्क मवेक्ष्य, देवस्य त्वेत्यस्य वामदेवः सविता यजुः । मधुपर्कप्रतिग्रहे विनियोगः । 'ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि' इत्यर्चकेन निवेदितं मधुपर्कमञ्जलिना प्रतिगृह्णीयात् ।
ततः--मधु वाता इति तृचस्य राहुगणो गौतमो विश्वे देवा गायत्री । मधुपर्कावेक्षणे विनियोगः । 'ॐ मधु वाता ऋतायते० भवन्तु नः ३' इत्यञ्जलिगतमधुपर्कपात्रस्थं मधुपर्कमवेक्षेत ।
ततस्तत्पात्रं सव्यहस्ते धृत्वाऽङ्गुष्ठानामिकाभ्यां मधुपर्कं त्रिः प्रदक्षिणमालोड्य, वसवस्त्वेत्यादीनां वामदेव ऋषिः । वसवो रुद्रा आदित्या विश्वे देवाश्च क्रमेण देवता यजूंषि । निमार्जने विनियोगः । 'ॐ वसवस्त्वा गायत्रेण च्छन्दसा भक्षयन्तु ' [इति पुरस्तान्निमार्ष्टि । 'ॐ रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा भक्षयन्तु' [इति] दक्षिणतः । अत्रोदकस्पर्शे विकल्पः । 'ॐ आदित्यास्त्वा जागतेन च्छन्दसा भक्षयन्तु ' [इति] पश्चात् । ॐ विश्वे त्वा देवा आनुष्टुभेन च्छन्दसा भक्षयन्तु' [इति] उत्तरतः । ततः-- भूतेभ्यस्त्वेत्यस्य वामदेवो मधुपर्को यजुः । मधुपर्कग्रहणे विनियोगः । 'ॐ भूतेभ्यस्त्वा' [इति] मध्यात्किंचित्किंचिद्गृहीत्वा तूष्णीं त्रिरूर्ध्वं क्षिपेत् । प्रतिग्रहणं मन्त्रावृत्तिः । तूष्णीं ग्रहणं समन्त्रं क्षेपणमिति वा । अस्मिन्पक्षे क्षेपणे विनियोग इति विनियोगवाक्ये विशेषः ।
ततो मधुपर्कपात्रं भूमौ निधाय मधुपर्कैकदेशं गृहीत्वा, विराजो दोहोऽसीत्यादिमन्त्रत्रयस्य वामदेवो मधुपर्को यजुः । मधुपर्कप्राशने विनियोगः । 'ॐ विराजो दोहोऽसि' [इति] प्रथमं प्राश्य लौकिकजलेनाऽऽचम्य पुनस्तथैव गृहीत्वा 'ॐ विराजो दोहमशीय' [इति] द्वितीयं प्राश्य लौकिकजलेनाऽऽचम्य पुनस्तथैव गृहीत्वा 'ॐ मयि दोहः पद्यायै विराजः' [इति] तृतीयं प्राश्य लौकिकजलेनाऽऽचम्य मधुपर्कशेषमुदङ्मुखो ब्राह्मणाय प्रयच्छेत् । लोकविद्विष्टत्वादिदानीमप्स्वेव क्षिपेत् । ततः--अमृतापिधानमसीत्यस्य वामदेवो जलं यजुः । जलपाने विनियोगः । 'ॐ अमृतापिधानमसि' इति पूर्वाचमनशिष्टा अपः किंचित्पीत्वा लौकिकजलेनाऽऽचम्याऽऽचमनीयशेषं सर्वं गृहीत्वा, सत्यं यश इत्यस्य वामदेवो जलं यजुः । जलपाने विनियोगः । 'ॐ सत्यं यशः श्रीर्मयि श्रीः श्रयताम्' इति सर्वं पीत्वा लौकिकजलेन द्विवारमाचमनं कुर्यात् ।
ततोऽर्चको गौर्गौर्गौरिति गां त्रिर्निवेदयेत् । ततः पूज्यः--माता रुद्राणामित्यस्य भार्गवो जमदग्निर्गौस्त्रिष्टुप् । गोरुत्सर्जनाङ्गभूते जपे विनियोगः । 'ॐ माता रुद्राणां दुहिता० प्र नु वोचं० धिष्ट' इति जपित्वा 'ओमुत्सृजत' इत्युक्त्वा विसृजेत् । ततो दाता गन्धमाल्यवस्त्रयुग्मोपवीतयुग्माभरणादिभिर्यथाविभवं पूजयित्वा माषविकारभूतव्यञ्जनसहितान्नेन तं भोजयेत् ।
विष्टरलक्षणं परिशिष्टे--
"पञ्चाशता भवेद्ब्रह्मा तदर्धेन तु विष्टरः । |
पञ्चाशदर्धं पञ्चविंशतिः । तावत्संख्यैर्दर्भैर्विष्टरो भवतीत्यर्थः । केशा अग्राणि निर्माणकाल ऊर्ध्वानि यस्य । लम्बानि लम्बमानान्यधोमुखानि निर्माणकालेऽग्राणि यस्येति । मधुपर्के दध्यलाभे क्षीरम् । मध्वलाभे सर्पिर्गुडो वा । सर्वाभाव उदकमिति ज्ञेयम् ।
इत्याश्वलायनीयो मधुपर्कः ।
अथ गौरीहरयोः पूजनम् ।
अथ कन्या स्नाता परिहिताहतवस्त्रा गृहान्तः पूजिते स्था[४९१]ने विदिक्षु मृन्मयैस्त्रिभिस्त्रिभिः कलशैः पिधानोत्तरैः श्रेणीः कृत्वा समन्तात्सूत्रेणाऽऽवेष्ट्य तन्मध्ये सूत्रवेष्टितोपला(ल)सहितां दृषदं निधाय तदुपरि श्वेततण्डुलाक्षतपुञ्जे पङ्कजं कृत्वा तत्र पलाद्यन्यतममितां ब्राह्मणकृताग्न्युत्तारणसंस्कारप्राणप्रतिष्ठां हैमीं गौरीहरप्रतिमां स्थापयित्वा तदग्रे पलद्वयतदर्धतदर्धान्यतमपरिमितरजतनिर्मितं ब्राह्मणकृताग्न्युत्तारणसंस्कारप्राणप्रतिष्ठं नन्दिनं संस्थाप्य कुङ्कुमादिना भित्त्यादौ गौरीहरौ लेखयित्वा--
"सिंहासनस्थां देवेशीं सर्वालंकारसंयुताम् । |
इति मन्त्रेणाऽऽवाहनादिषोडशोपचारैः सौभाग्यादिकामनया पूजयित्वा नन्दिनं पूजयेत् । विसर्जनं तु विवाहान्त आचारात् । ततो देवेन्द्राणीं तत्रैव प्रतिमायामक्षतपुञ्जे वा पूजयित्वा,
"देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि । |
इति संप्रार्थ्य सौभाग्यादि प्रार्थयमाना तत्रैव तिष्ठेत् ।
ततः कन्यापिता कन्यया दीपं प्र[४९२]ज्वलयित्वा(य्य) ब्राह्मणान्सुवासिनीश्च पूजयेत् । तेभ्यो दक्षिणां च दद्यात् ।
इति गौरीहरयोः पूजनम् ।
ततो ब्राह्मणाः स्वलंकृते मण्डपे वेश्मनि वा यथाचारं समङ्गलगीतनृत्यवादित्रादिघोषे क्रियमाणे पूर्वापरभागयोर्हस्तान्तरालं स्थलं विहाय प्रस्थपरिमितसिततण्डुलैर्द्वौ राशी कृत्वा मध्ये ज्योतिर्वित्कृतकुङ्कुमस्वस्तिकाङ्कितमन्तः--पटं राश्योर्मध्य उत्तरदशं धारयेयुः ।
ततो बन्धुजनः पूर्वराशावश्मनि तण्डुलजीरकयुताञ्जलिकां प्रत्यङ्मुखीं वधूं पश्चिमराशौ पीठे तण्डुलजीरकयुताञ्जलिकं प्राङ्मुखं वरं चावस्थापयेत् ।
आश्वलायनो वरश्चेत्प्राङ्मुखी वधूः प्रत्यङ्मुखो वरः । इत आरभ्य यावदन्तः--पटनिःसारणं द्विजा मन्त्रपाठं पुरन्ध्र्यो मङ्गलगीतानि कुर्युः ।
प्रस्थपरिमितत्वं तण्डुलानां यमेनोक्तम्--
"आरुह्य तण्डुलप्रस्थमीक्षेत्प्रत्यमुखां(खीं) वधूम्" इति । |
ततो वधूवरौ मनसेष्टदेवतां ध्यायन्तौ समाहितौ तिष्ठेताम् । अस्मिन्नवसरेऽवकाशानुरोधेन ज्योतिर्विदो मङ्गलश्लोकान्पठेयुः ।
तत्र मत्कृताः षट्श्लोकाः--
देवो विघ्नविनाशनो गणपतिर्ध्यातश्च चिन्तापहृ- |
विघ्नेशो विबुधर्षिभिर्गणपतिर्दैतेयजोपद्रवा- |
श्रीमान्काश्यपगोत्रजोऽरुणरुचिर्यः सिंहराशीश्वरः |
कन्यायुग्मपतिर्दशाष्टगचतुःषण्नेत्रगः शोभनो |
एवमन्यानपि मङ्गलश्लोकानवकाशानुरोधेन पठेयुः ।
ततः--
"तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । |
इति ज्योतिर्विदा पठिते विप्राः सद्योऽन्तःपटमुदगपसार्य वधूवराभ्यां परस्परं सुमुहूर्ते निरीक्षणं कारयेयुः ।
ततो वधूवराभ्यां परस्परमञ्जलिस्थतण्डुलजीरकावकिरणं कन्यापूर्वकं कारयेयुराचारात् ।
ततो द्विजा ऋक्च वेत्यादीनि खण्डानि प्रजापतिः सोम राजानमसृजते त्यनुवाकं सि हे व्याघ्र इत्यनुवाकमस्मे देवास इति चतुरो मन्त्रांश्च पठेयुः । तत्तदन्तेऽक्षतारोपणं चाऽऽचारात् ।
अथ कन्यादानम् ।
अत्र रात्रावपि स्नानमाह वृद्धयाज्ञवल्क्यः--
"ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु वै । |
व्यासः--
"महानिशा तु विज्ञेया मध्ययामद्वयं निशि । |
मध्ययामयोस्तु विशेषमाहात्रिः--
"रात्रौ स्नानं यदि भवेत्पश्यन्नग्निं समाचरेत् । |
प्रयोगदर्पणे स्मृत्यन्तरे--
"कन्यादानं निशीथे चेद्दिवा भोजनमिष्यते । |
विवाहे प्रधानद्वयं कन्यादानं पाणिग्रहणं च । आद्यं कन्यापितरं प्रति । कन्यादानस्य प्राधान्यं तु--
"ब्राह्मे विवाहे शक्तिविषयेणालंकृत्य दद्यात्" इति धर्मसूत्रात् |
इत्याश्वलायनसूत्राच्च दानविवाहशब्दयोः सामानाधिकरण्यप्रतीतेः ।
पाणिग्रहणस्य तु--
"पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते" इति सूत्रात् |
इति धर्मसूत्राच्च प्राधान्यं ज्ञेयम् । चौलकर्मोपनयनगोदानविवाहकालानभिधाय तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादित्येतदाश्वलायनसूत्रमप्यत्र मानम् । अन्यथा तच्छब्देन परामृष्टाद्विवाहात्पूर्वमुक्तस्य होमस्यासंगत्यापतेः । न हि कन्यादानात्पुरस्तादेव ता आहुतयः सन्ति । स्मृत्यर्थसारे वृद्धवसिष्ठः--
"नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । |
नान्दीमुखे प्रपितामहपूर्वकत्वं यच्छाखायां विहितं भवति तद्विषयं नास्मत्सूत्रविषयम् । अस्मत्सूत्रे तस्य विधानाभावाद्यज्ञतन्त्रचौण्डपाचार्यरामाण्डारादिभिरानुलोम्यस्यैवोक्तत्वाच्च ।
केचित्तु नान्दीमुख इति विवाहविशेषणम् । पित्रादिप्रयोजकत्वेन हर्षसंपादक इति तदर्थः । चस्त्वर्थ इत्याहुः ।
अनया रीत्या नान्दीमुखे प्रपितामहपूर्वकत्वस्याप्राप्तिरेव । अस्मिन्मते राक्षसादिविवाहस्य हर्षसंपादकत्वाभावान्न तत्र प्रपितामहपूर्वकत्वम् ।
व्यासः--
"भुक्त्वा समुद्वहेत्कन्यां सावित्रीग्रहणं तथा । |
भुक्त्वेति मधुपर्काङ्गभोजनपरम् ।
मदनरत्न ऋष्यशृङ्गः--
"वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् । |
सर्वत्र पितृपूर्वकत्वस्यैव दृष्टत्वात्प्रपितामहपूर्वकत्वविधानम् । एवमेवेत्यनेन गोत्रोच्चारादिकं कन्यायामप्यतिदिश्यते । प्राङ्मुखो दाता, उदङ्मुखः प्रतिग्रहीतेतिदानपरिभाषाप्राप्तस्य बाधनार्थं तिष्ठेत्पूर्वमुख इत्यादिकम् । गृह्येत्यत्र समासाभावेऽपि क्त्वो ल्यबादेशश्छान्दसः । दापयेदित्यत्र स्वार्थे णिच् । मङ्गलं मङ्गलसूत्रम् । करकाणि मृन्मयपात्राणि । चकारात्सौभाग्यद्रव्याणि सुवासिनीभ्यो देयानीत्यर्थः ।
प्रयोगदर्पणे स्मृत्यन्तरे--
"स्वार्षगोत्रे समुत्कीर्त्य वरस्यापि तथैव च । |
स्मृत्यन्तरे तु--
"तिष्ठेदुदङ्मुखो दाता प्राङ्मुखस्तु वरो भवेत्" इत्युक्तम् । |
नात्र प्रतिग्रहमन्त्रः । अयज्ञसंबन्धित्वात् । तन्त्रसंबन्धिदक्षिणानामेव प्रतिग्रहः समन्त्रको नान्यासामिति दर्शितं चास्ति सूत्रकृता--
"तान्त्रीणां दक्षिणानां दर्शयति" इत्यनेन । तन्त्रं यागः । |
मनवे तल्पमिति प्रतिग्रहमन्त्रस्तु वाजपेये दासीप्रतिग्रह उपयुज्यते । तन्त्रसंबन्धित्वात् । न तु दैवे विवाहेऽप्युपयुज्यतेऽतन्त्रसंबन्धित्वात् । अत्रापि प्रतिपादयेदितिवचनसत्त्वे यन्मातृदत्तेन दैवे दक्षिणाभिः सह दत्तायां मनवे तल्पमिति प्रतिग्रह इत्युक्तम्, तदुत्तरग्रन्थविरुद्धमिति प्रतिभाति । न ममेत्यपि न भवति । धर्मसूत्रे प्रतिपादयेदिति वचनात् । एवं च--ॐ स्वस्तीति ॐ तथेति वेत्युक्त्वा प्रतिगृह्णीयात् ।
अथ प्रयोगः ।
कन्यादाता वरदत्तवस्त्राभरणादिरहितां स्वदेयवस्त्राभरणाद्यलंकृतां कृतपीतवस्त्रपरिधानां कन्यां वराय दद्यात् । अश्मानं नि[४९३]ष्काश्य पीठे कन्यामुपवेश्य वधूवरयोर्मध्यप्रदेशस्य दक्षिणत उदङ्मुख उपविश्य दक्षिणतः पत्नीमुपवेश्याऽऽचम्य पवित्रपाणिः प्राणानायम्य देशकालौ संकीर्त्यामुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्याप्रतिपादनकल्पोक्तफलावाप्तयेऽनेन वरेणास्यां कन्यायामुत्पादयि ष्यमाणसंतत्या द्वादशावरान्द्वादश परान्पुरुषान्पवित्रीकर्तुमात्मनश्च[४९४] लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना कन्याप्रतिपादनं करिष्य इति संकल्पं कुर्यात् । यद्ययं संकल्पो विवाहारम्भे कृतस्तदा नात्र कार्यः ।
ततः सपत्नीक उत्थायोदङ्मुख एव तिष्ठन्तीं प्रत्यङ्मुखीं कन्यां दक्षिणहस्ते धृत्वा--
"कन्यां कनकसंपन्नां कनकाभरणैर्युताम् । |
इति पठित्वा[४९५] कांस्याद्यन्यतमे तैजसे पात्रे[४९६] प्राङ्मुखेन तिष्ठता वरेण[४९७] गृहीते तिष्ठन्त्याः प्र[४९८]त्यङ्मुख्याः कन्याया दक्षिणे हस्ते हस्तद्वये वा सत्यवाक्षततुलसीपत्रकुशसहितमुदकं क्षिपंस्त्रयोदश वाक्यानि पठेत् । आश्वलायनो वरो दाता याजुषो विपरीतं वा तदा वध्वा हस्तोऽध उपरि वरहस्त इत्येवमाश्वलायनरीत्या वरहस्तोऽधो वधूहस्त उपरीत्येवं याजुषरीत्या वोपर्यधोभावो द्रष्टव्यः ।
ततः कन्या तारयतु, पुण्यं वर्धतां, शिवा आपः सन्तु, सौमनस्यमस्तु, अक्षतं चारिष्टं चास्तु, दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु, तिथिकरणमुहूर्तनक्षत्रसंपदस्तु, यच्छ्रेयस्तदस्तु, यत्पापं तत्प्रतिहतमस्तु, पुण्याहं भवन्तो ब्रुवन्तु, स्व[४९९]स्ति भवन्तो ब्रुवन्तु, ऋद्धिं भवन्तो ब्रुवन्तु, श्रीरस्त्विति भवन्तो ब्रुवन्तु, इति ।
ततोऽमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणामित्यादि प्रीतय इत्यन्तं पूर्ववदुक्त्वाऽमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे कन्यार्थिने श्रीधररूपिणे वराय, अमुकप्रवरान्वितामुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकस्य मम पुत्रीममुकनाम्नीं कन्यां वरार्थिनीं श्रीरूपिणीं यथाशक्त्यलंकृतां प्रजापतिदैवत्यां प्रजासहत्वकर्मभ्यस्तुभ्यमहं प्रतिपादय इत्युक्त्वा सयवाक्षततुलसीपत्रकुशयुतं जलं वरहस्ते क्षिपेत् । गान्धर्वराक्षसपैशाचेषु नैवं प्रतिपादनं तेषां दातृव्यापारनिरपेक्षत्वात् ।
ततो वर ॐ स्वस्तीति ॐ तथेति वा प्रतिगृह्णीयात् । अत्र दातुर्न ममेति न भवति । एवं वरस्य प्रतिग्रहमन्त्रश्च न । एवं कन्या तारयत्वित्याद्यों स्वस्ती त्यन्तं वारद्वयं पुनः कार्यम् । पितामहस्तु दानं कुर्वन्पौत्रीमित्यतः पूर्वं ममेति वदेत् । सकुल्यत्वेन प्रपितामहः कुर्वन्प्रपौत्रीमित्यतः पूर्वं ममेति वदेत् । भ्रात्रादिर्दानं कुर्वन्पुरुषत्रयसंकीर्तनमेव कुर्यात् । ममेति न क्वापि वदेत् । जननी चेद्दानं कुर्यात्तदा[ऽमुक]गोत्राऽमुकनाम्न्यहमिति विकारः । भर्तृगोत्रमेवेत्थं सा वदेन्न गोत्रोत्पन्नेति । पितृगोत्रं नैव वदेत् । मातामहमातुलादिः संबन्ध्यन्यो वा यः कश्चिद्ब्राह्मणो गोत्रान्तरीयः कन्यादानं कुर्वन्स्वगोत्रं स्वविशेषणत्वेन संकीर्त्यामुकशर्मणः कन्यापितुः समस्तपितॄणां निरतिशयेत्यादि वदेत् । आत्मनश्चेत्यत्र कन्यापितुश्चेति । जननी चेद्दानकर्त्री तदा मद्भर्तुः समस्तपितॄणां निरतिशयेत्यादि वदेत् । आत्मनश्चेत्यत्र मद्भर्तुश्चेति । आत्मनश्चेति द्वितीयाबहुवचनान्तमिति कल्पे कन्यापितॄंश्चेति कन्यापितरं चेति वा । अत्र कन्याविशेषणत्वेन कन्यापितृगोत्रसंकीर्तनमेव कार्यम् । अमुकस्य प्रपौत्रीमित्यादिषु कन्यापित्रादिनामान्युच्चारणीयानि । मम वंशकुले जातेति वक्ष्यमाणे श्लोकेऽपि ममेत्येतस्य स्थाने कन्यापितृनामैव षष्ठ्यन्तं वदेच्च ।
यदि दत्तकः कन्याया दानं कुर्यात्तदा प्रतिगृहीतो येन तद्गोत्रमेव स्वस्य कन्यायाश्च विशेषणत्वेन वदेत् । प्रतिग्रहीतृपितृतत्पितृपितामहानां नामानि कीर्तयेत् । दत्तकन्यादानेऽपि स्वगोत्रस्यैव कन्याविशेषणत्वेन संकीर्तनम् । श्लोके जातेत्यत्र दत्तेति वदेत् । एवं दत्तकवराय कन्यादानेऽपि येन प्रतिगृहीतस्तदीयमेव गोत्रादि ।
ततः--
"गौरीं कन्यामिमां विप्र यथाशक्ति विभूषिताम् । |
न्यूनवार्षिक्यां तु गौरीमित्यस्य पदस्य लोपः । मया कन्यामिमां विप्र यथाशक्तिविभूषितामित्येव वा प्रयोगः । पालिता वर्षसप्तकं पालितेयं षडब्दकमित्यूहश्च यथायथम् । नववार्षिक्यां तु गौरीमितिपदे रोहिणीमित्यूहेत्, रोहिणीं कन्यामिमां विप्रेति पालिता नववर्षकमिति च । दशवार्षिक्यां तु गौरीरोहिणीपदस्थाने कन्यामित्यूहेत्, कन्यां कन्यामिमां विप्रेति पालिता दशवर्षकमिति च । गौरीपदलोपः पूर्ववदत्रापि । अत्र वर्षं जन्म[५००] त एव । ततो धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयमिति श्रावयेत् । ततो वरो वाक्यार्थमङ्गी कुर्यान्नातिचरामीति ।
ततो दाता कृतस्य कन्यादानकर्मणः साङ्गतासिद्ध्यर्थं यथाविभवकल्पितमिदमग्निदैवत्यं हिरण्यं दक्षिणात्वेन तुभ्यमहं संप्रदद इति वरहस्ते दत्त्वा न ममेति वदेत् । वरस्तु सप्तदशकृत्वोऽपान्य,
देवस्य त्वेत्यस्य प्रजापतिः सविता यजुः । हिरण्यप्रतिग्रहे विनियोगः ।'ॐ देवस्य त्वा सवितुः० णेऽग्नये हिरण्यं ते० तु' इति प्रतिगृह्णीयात् । यज्ञियदक्षिणाप्रतिग्रह एव सावित्रमन्त्रो नान्यत्रेत्येतत्कल्पे तु न सप्तदशकृत्वोऽपाननं तत्र प्रतिगृह्णामीत्येव प्रतिग्रहः ।
ततो दाता जलपात्रभोजनपात्रगोमहिष्यश्वगजदासीदासभूशय्यालंकारादि यथाविभवं संकल्पपूर्वकं वराय दद्यात् ।
तत्र दानमन्त्राः--
"परापवादपैशून्यादभक्ष्यस्य च भक्षणात् । |
इति ताम्रपात्रस्य जलपानार्थस्य ।
"यानि कानि च पापानि कामोत्थानि कृतानि तु । |
इति कांस्यपात्रस्य भोजनाद्यर्थस्य ।
"अगम्यागमनं चैव परदाराभिमर्शनम् । |
इति रौप्यपात्रस्य जलपानार्थस्य भोजनार्थस्य च ।
"जन्मान्तरसहस्रेषु यत्कृतं पातकं मया । |
"महार्णवसमुत्पन्न उच्चैःश्रवस पुत्रक । |
इति खलीनाद्युपस्करसहिताश्वस्य ।
"सुप्रतीक गजेन्द्र त्वं सरस्वत्याऽभिषेचितम् । |
इति सोपस्करायाः शय्यायाः ।
"सौवर्णं हस्तवलयं रूपकान्तिसुखप्रदम् । |
इति वलयादिभूषणानाम् ।
"हिरण्यगर्भसंभूतं सौवर्णं चाङ्गुलीयकम् । |
अथैतेषां प्रतिग्रहमन्त्राः ।
'ॐ देवस्य त्वा स० णे रुद्राय गां तया०' इति गोः । तृणं प्रदाय प्रतिग्रहः । 'ॐ देवस्य त्वा० णे प्रजापतये महिषीं तया०' इति महिष्याः । यमाय महिषीमिति वा । ॐ देवस्य त्वा णे वरुणायाश्वण् तेना० णे वरुणायाश्वं तेना०' इत्यश्वस्य । तृणं प्रदाय प्रतिग्रहः । 'ॐ देवस्य त्वा० णे हिमवतो हस्तिनं तेना०' इति गजस्य । 'ॐ प्रजापतये दासीं तया०' इति दास्याः । 'ॐ प्रजापतये दासं तेना०' इति दासस्य । 'ॐ मनवे तल्पं तेना०' इति शय्यायाः । '०क्षिणेऽप्सरोभ्योऽलंकरणं तेना०' इत्यलंकरणानाम् । प्रत्यलंकरणं मन्त्रावृत्तिः । '०णेऽग्नये हिरण्यं तेना०' इति हिरण्यस्य । सर्वत्र सावित्रान्वाधी[५०१](?) । सर्वेषां प्रजापतिर्ऋषिः सविता देवता यजुश्छन्दः । प्रतिग्रहणे विनियोग इत्यृष्यादि । महिषीदासीदासप्रतिग्रहणमन्त्राणां तु वामदेव ऋषिर्ज्ञेयः । उत्तानस्त्वेत्यवशिष्टानामप्राणिद्रव्याणां प्रतिग्रहणम् । अत्रापि सावित्रान्वाधीस्त इति केचित् । एतस्य प्रजापतिर्ऋषिः । आ[५०२]ङ्गीरसो देवता । यजुश्छन्दः । प्रतिग्रहे विनियोग इत्यृष्यादि द्रष्टव्यम् । प्रतिद्रव्यप्रतिग्रहं सप्तदशकृत्वोऽपाननम् । प्रतिगृह्णामीत्येव वा सर्वेषां प्रतिग्रहः । अस्मिन्पक्षे नापाननतृणप्रदाने । अत्रापि भवत इति केचित् ।
ततः कन्यादाता कन्यादानकर्मणः साङ्गतासिद्ध्यर्थं यथाविभवं ब्राह्मणान्सुवासिनीश्च यथोपपन्नेनान्नेन भोजयित्वा भूयसीं ब्राह्मणेभ्यो गन्धादिपूजनपूर्वकं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
इति कन्यादानप्रयोगः ।
अतः परं कर्तव्यमुक्तं स्मृतिसंग्रहे--
"अब्लिङ्गाभिर्ऋग्भिरपो युतं हेम्नाऽभिमन्त्र्य तत् |
नीललोहितमन्त्रेण रक्षणार्थमिदं स्मृतम् । |
कृतवस्त्रपरीधानां संस्मरन्निष्टदेवताम् । |
अथाभिषेकादिप्रयोगः ।
पुरोधाः--आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । अबभिमन्त्रणे विनियोगः । "ॐ आपो हि ष्ठा मयोभुवः० चनः" इति स्वर्चितकलशस्थाः सुवर्णयुता अपोऽभिमन्त्र्य ताभिः सहिरण्यकुशदूर्वापल्लवाभिरभिषिञ्चेत् ।
आ नः प्रजामितिचतसृणां सूर्यासावित्री सूर्यासावित्री । आद्ये द्वे जगत्यौ । अन्त्ये द्वे अनुष्टुभौ । समुद्रज्येष्ठा इति चतसृणां वसिष्ठ आपस्त्रिष्टुष् । आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । सर्वेषां वरवध्वोरभिषेके विनियोगः । "ॐ आ नः प्रजां जनयतु० वृषु" । "ॐ समुद्रज्येष्ठाः" "ॐ आपो हि ष्ठा०" इत्यभिषेकं कुर्यात् । वर एवाभिषेकं कुर्यादिति कश्चित् ।
ततः पुरोधा दुग्धाक्तेन द्विगुणेन श्वेतसूत्रेण वधूवरयोः कण्ठदेश ऐशानीमारभ्य पञ्चवारं चतुर्वारं वा प्रदक्षिणं संवेष्ट्य वधूवरयोः कटिदेशे तथैव वेष्टयेत् ।
तत्रैते शिष्टस्वीकृता मन्त्राः--"ॐ परि त्वा गिर्वणो गिर इ० ध्वमध्वरम्" इति । "ॐ महीनां पयोऽसि वि० यै दुग्धम्" इति याजुषो मन्त्रोऽपि पठनीयः ।
ततः कण्ठदेशस्थं सूत्रमधो निष्काश्य कुङ्कुमाक्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा तद्वधूवामप्रकोष्ठे वरो बध्नीयात्, नीललोहितमित्यस्य सूर्यासावित्री सूर्यासावित्र्यनुष्टुप् । हस्ते कङ्कणबन्धने विनियोगः । "ॐ नीललोहितं भ० बध्यते" इत्यनेन मन्त्रेण ।
ततः कटिदेशस्थं सूत्रमुपरि निष्काश्य कुङ्कुमाक्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा वरस्य दक्षिणप्रकोष्ठे वधूर्बध्नीयात्तेनैव मन्त्रेण तूष्णीं वा ।
अथ वधूवरौ परस्परमायुर्वर्धनकरमक्षतारोपणं कुर्याताम् । तद्यथा--तैजसे पात्र आनीते गव्ये क्षीरे किंचिद्घृतमासिच्य पात्रान्तर आर्द्राक्षतशुक्लशालितण्डुलानोप्य वरः क्षालिताञ्जलिः क्षालितवध्वञ्जलौ तेन घृतयुतक्षीरेण स्वहस्तद्वयाङ्गुलिभिर्द्विरुपस्तीर्य द्विवारं तथैव तण्डुलानोप्य तथैव क्षीरेण द्विरभिघारयेत् ।
ततो वराञ्जलावप्येवं दाताऽन्यो वा कुर्यात् । ततो दातैव तदञ्जल्योः सुवर्णं निधाय वराञ्जलिवध्वञ्जली संयुतौ कृत्वा कन्या तारयतु[५०३] , पुण्यं वर्धतां, शान्तिः पुष्टिस्तुष्टिश्चास्तु, तिथिकरणमुहूर्तनक्षत्रसंपदस्तु, इति वाक्यानि पठेत् ।
ततो वधूः-- 'ॐ भगो मे कामः समृध्यताम्' इत्यञ्जलिस्थानक्षतान्वरमूर्धन्यारोपयेत् । 'ॐ यज्ञो मे कामः समृध्यताम्' इति वरः स्वाञ्जलिस्थानक्षतान्वधूमूर्धनि । एवं द्वितीयं तृतीयं च । तत्र द्वितीये 'ॐ श्रियो मे कामः समृध्यताम्' इति वध्वा मन्त्रः । 'ॐ धर्मो मे कामः समृध्यताम्' इति वरस्य । तृतीये तु 'ॐ प्रजा मे कामः समृध्यताम्' इति वध्वा मन्त्रः । 'ॐ यशो मे कामः समृध्यताम्' इति वरस्येति विशेषः ।
ततो वधूर्वराञ्जलिं द्विरुपस्तीर्य द्विस्तण्डुलैरापूर्य द्विरभिघारयेत् ।
ततो दाताऽन्यो वा पूर्ववद्वध्वञ्जलिमापूरयेत् । ततो दातैव पूर्ववद्धिरण्यं निधाय वध्वञ्जलिं वराञ्जलौ निधाय पूर्ववद्वाक्यानि पठेत् ।
ततो वरः-- 'ॐ यज्ञो मे कामः समृध्यताम्' इति वधूमूर्धन्यञ्जलिस्थानक्षतानारोपयेत् ।
ततो वधूः-- 'ॐ भगो मे कामः समृध्यताम्' इति वरमूर्धन्यञ्जलिस्थानक्षतानारोपयेत् । एवं द्वितीयं तृतीयं च । तत्र द्वितीये धर्मो म इति वरस्य मन्त्रः । श्रियो म इति वध्वाः । तृतीये तु यशो म इति वरस्य । प्रजा म इति वध्वा इति विशेषः ।
अथ वरो वध्वञ्जलिं पूर्ववदापूर्य दात्राऽन्येन वा स्वाञ्जलावापूरिते वधूमूर्धन्यञ्जलिस्थानक्षतांस्तूष्णीमारोपयेत् । तूष्णीं वरमूर्धनि वधूः । एवं सप्तवारमक्षतारोपणं कार्यं चतुर्वारं वा । केचिद्भगो म इत्यादीन्मन्त्रान्नेच्छन्ति । अस्मिन्पक्षे तूष्णीमेव सप्तवारं चतुर्वारं वाऽक्षतारोपणं भवति । ततो वरः स्वशिरःस्थं पुष्पमादाय घृतयुतक्षीर आप्लाव्य तेन वध्वा ललाटे तिलकं कुर्यात् । एवं वधूरपि स्वशिरःस्थेन पुष्पेण वरललाटे तिलकम् ।
ततो वधूः स्वकण्ठस्थां पुष्पमालां वरकण्ठे क्षिपेत् । वरः स्वकण्ठस्थां वधूकण्ठे ।
ततो वरपक्षीयसुवासिन्यो वधूवरौ प्राङ्मुखावुपवेश्य नीराजनपूर्वकमाचारप्राप्तमष्टपुत्रीसंज्ञकं वस्त्रद्वयं सकञ्चुकं मङ्गलसूत्रं च वध्वै समर्प्य तयोरेकं परिधापयित्वाऽ(प्या)परमुत्तरीयं कारयेयुः । ततः कञ्चकीं परिधापयेयुः ।
ततो वरः--
"माङ्गल्यतन्तुनाऽनेन भर्तृजीवनहेतुना । |
इतिमन्त्रेणेष्टदेवतां संस्मरंस्तत्सूत्रं वधूकण्ठे बध्नीयात् । आयुष्यं वर्चस्यमित्यादिमन्त्रैस्तां भूषयेच्च ।
ततो हरिद्राखण्डयुतानि पञ्च पञ्च पूगीफलानि दृढान्याचाराल्लड्डुकयुतानि पात्रे निधाय वधूवरावावाहनादिदक्षिणान्तैरुपचारैर्गणानां त्वाऽऽ तू न इन्द्रेति मन्त्राभ्यां विवाहव्रतरक्षणार्थं गणपतेः पूजां कुर्याताम् । अत्र ब्राह्मणेभ्यो गणपतिप्रीतये यथाविभवं दक्षिणा देया ।
ततः पुरोधा विवाहव्रतरक्षकं गणपतिमनुस्मृत्य हरिद्राखण्डयुतौ साक्षतौ लड्डुको तयोर्वस्त्रप्रान्ते पृथक्पृथग्बध्नीयात् । वधूवरौ विवाहव्रतसमाप्त्यन्तं तद्ग्रन्थिद्वयं न विसृजेताम् ।
ततः पुरोधाः--'ॐ नीललोहितं भवति कृत्यासक्तिर्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते' । बृहत्सामेति मन्त्रेण च तयोरुत्तरीयान्तौ मिथो बध्नीयात् ।
ततः सभार्यो दाता वृद्धाः पुरन्ध्र्यो ज्ञातयो बान्धवाश्च क्रमाद्यथाचारमाशीर्भिरार्द्राक्षतारोपणं कुर्युः ।
ततो वधूः पात्रस्थसिततण्डुलपुञ्जत्रय उदक्संस्थं नाममन्त्रैर्महालक्ष्मीं पार्वतीं शचीं च क्रमेणाऽऽवाह्य दक्षिणान्तैरुपचारैः पूजयेत् । वरेणापि पूजनं कार्यमिति केचित् ।
ततो वधूः सौभाग्याद्यभिवृद्धये महालक्ष्मीपार्वतीशचीप्रीत्यर्थं हरिद्राजीरकसौभाग्यद्रव्यपूरितवंशपात्रवायनदानानि सुवासिनीः संपूज्य ताभ्यो दद्यात् ।
तत्र मन्त्राः--
"लक्ष्मीप्रिया च लक्ष्मीदा लक्ष्मीव सुजनप्रिया । |
इति हरिद्रादानमन्त्रः ।
"जरा नो जायते यस्मान्मण्डनं शुभकर्मसु । |
इति सौभाग्यद्रव्ययुतशूर्पवायनदानमन्त्रः । एतानि सदक्षिणानि देयानि । ततो द्विजैराशिषो देयाः । 'ॐ नवो नवो भवति०' 'ॐ यथा ह तद्व०' 'मा नो अरातिर०' 'ॐ भद्रं कर्णेभिः० ४' ([५०४]ॐ अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पत इन्द्रापुत्रघ्नीं लक्ष्म्यन्तामस्यै सवितुः सवे' इति वरो वधूं समीक्षते । 'ॐ अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे' इति वध्वेक्षमाणो वरो जपति । 'ॐ इदमहं या त्वयि पतिघ्न्यलक्ष्मीस्तां निर्दिशामि' इति वधूं मूखे दर्भेण संमाष्टि । दर्भ निरस्याप उपस्पृश्य 'ॐ मित्रोऽसि' इति वधूं दक्षिणहस्ते गृह्णाति । 'ॐ एकमिषे विष्णुस्त्वाऽन्वेतु द्वे उर्जे० होत्राभ्यो विष्णुस्त्वाऽन्वेतु' इति वधूं वेदिरूपदेवयजनमुदानयति । 'ॐ सखाऽसि सप्तपदा अभूम सख्यं ते गमेय सख्यान्मे मा योष सख्यान्मे मा योष्ठाः' इति सप्तमं पदमुपसंगृह्य जपति ।
([५०५] ततः सतूर्यघोषो वरो वध्वा सह वेद्यां प्राङ्मुख उपविशेत् । वधूस्ततो गौरीहरसमीपं गत्वोपविशेत् । ) निरीक्षणप्रभृति वायनदानान्तं शिष्टाः क्वचिद्देशे मध्यगृहे कुर्वन्ति । क्वचिन्मण्डपे । 'सूर्यभौमबृहस्पतिशनैश्चरवारेषु मध्यगृहे दंपत्योः परस्परं निरीक्षणं न भवति । सोमबुधशुक्रवारेषु मण्डपे न भवति । कालस्य तत्र निवासात्' इति ज्योतिर्निबन्धोक्तमिदानीं शिष्टा न स्वी कुर्वन्तीत्यत्र हेतुं न विद्मः ।
अस्तु देशविशेषेण[५०६] वारविशेषेण वा निरीक्षणे विशेषः । तथाऽपि कन्यादानं तु मण्डप एव कर्तव्यं, प्रधानस्य कन्यादानस्य मण्डप एव करणस्य युक्तत्वात् । अन्यथा तन्निर्मितेः स्वकर्तृकप्रधानकर्मण्यसंबन्ध एव स्यादिति युक्तं चेद्ग्राह्यम् ।)अथ विवाहहोमः ।
वर आचम्य प्राणानायम्य देशकालौ संकीर्त्य मत्प्रतिगृहीतवधूद्देश्यकभार्यात्वसिद्धिपूर्वकाग्नावौपासनत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विवाहहोमं करिष्य इति संकल्पं कृत्वा स्थण्डिलोल्लेखनादि कृत्वा तत्र योजकनामानमग्निं प्रतिष्ठापयामीति मथितं वधूवरयोर्वेद्यारोहणात्पूर्वमेव सुवासिन्या श्रोत्रियागारादाहृत्य वेद्या उत्तरतोऽधोभागे स्थापितं लौकिकाग्निं वा प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा विवाहहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-- अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं गार्हपत्यमेकयाऽऽज्याहुत्या यक्ष्ये । अग्निमेकयाऽऽज्याहुत्या यक्ष्ये । दिवं वायुमश्विनौ सवितारं बृहस्पतिं विश्वान्देवांश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये[५०७] । अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये[५०८] । अग्निमयसमेकयाऽऽज्याहुत्या यक्ष्ये । प्रजापतिमेकयाऽऽज्याहुत्या यक्ष्ये । लाजहोमे--अग्निं तिसृभिर्लाजाहुतिभिर्यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषाज्याहुत्या यक्ष्य इति वदेत् । यत्र यत्र सूत्रकृदथ सौविष्टकृतीं जुहोतीत्यथशब्दप्रयोगं करोति तत्र त[५०९]द्द्रव्येण स्विष्टकृत् । अन्यत्र त्वाज्येनेति । न ह्यत्राथशब्दः सूत्रकृता प्रयुक्तोऽस्ति । अतोऽत्राऽऽज्येनैव स्विष्टकृद्धोमः ।
ततो जयोपहोमे चित्तं चित्तिमित्यादि कामं गन्धर्वमाधी[५१०]नप्सरसः, भुवनस्य पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वा, प्रायश्चित्तहोमे--अग्निं त्रिभिरित्यादि । पात्रासादने प्रादेशमात्रमश्मानं व्रीह्यादिबीजानि सपल्लवमुदकपूर्णं सुभूषितं कलशं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं लाजांश्च युगपदेवाऽऽसादयेत् ।
ततो ब्रह्मोपवेशनादि । पात्रसंमार्गकाले वध्वञ्जलिसंमार्गार्थं कांश्चित्संमार्गदर्भानवशेषयेत् । आज्यपर्यग्निकरणकाले लाजानामपि तेन सह पर्यग्निकरणम् । परिधिपरिधानान्ते लाजान्दर्व्याऽभिघार्याऽऽज्याग्न्योर्मध्येनाऽऽनीयाऽऽज्यस्योत्तरतो बर्हिष्यासादयेत् ।
ततः "ॐ सुमङ्गलीरियं वधूरिमा समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतन" इति वधूमीशानदेशतो बान्धवैः समानीयमानां सुमुहूर्ते समीक्षते[५११] । इत आरभ्य पाणिग्रहणान्तं कर्म सुमुहूर्त एव कर्तव्यं प्रधानत्वात् ।
ततो वधूरग्नेरीशानदेश उपविश्य कर्माङ्गमाचमनं कृत्वाऽग्रेणाग्निं दक्षिणतो गत्वा पत्युर्दक्षिणतः प्राङ्मुख्युपविश्य दक्षिणेनैव हस्तेन पतिमन्वारभते । अपरेणाग्निं दक्षिणतो गमनमिति केचित् ।
अथ वरस्तदन्वारब्धः परिषेकादिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । 'ॐ अग्निरैतु प्रथमो देवताना सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदय राजा वरुणोऽनुमन्यतां यथेय स्त्री पौत्रमघं नरोऽदात्स्वाहा' अग्नये वरुणाय चेदं न मम । 'ॐ इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामिय स्वाहा' अग्नये गार्हपत्यायेदं न मम । 'ॐ मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वम्बिके शूर आवधिष्ठा जीव पत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमानाय स्वाहा' अग्नय इदं न मम । 'ॐ द्यौस्ते पृष्ठ रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताऽभिरक्षतु । आवाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात्स्वाहा' दिवे वायवेऽश्विभ्यां सवित्रे बृहस्पतये विश्वेभ्यो देवेभ्यश्चेदं न मम । 'ॐ अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाऽधम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाप स्वाहा' अग्नय इदं न मम । 'ॐ देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यूनधरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्राः स्वाहा' अग्नय इदं न मम । इति षट्प्रधानाहुतीर्वारुणीजिह्वायां ज्वालामध्य एव वा हुत्वा, इमं मे वरुणेत्यादि षडाहुतीर्हुत्वोत्तरपरिधिसंधिमग्रेणाऽऽसादितमश्मानं निधाय, 'ॐ आतिष्ठेममश्मानमश्मेव त्व स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः' [ इति ] तत्र दक्षिणपादोपक्रमेण वधूं प्राङ्मुखीमास्थापयति । ततोऽश्मानं निष्काशयेत् ।अथ पाणिग्रहणम् ।
वरो ज्योतिर्विदादिष्टे सुमुहूर्तेऽपरेणाग्निं दर्भराशिद्वयं पूर्वापरमुदगग्रमास्तीर्य 'ॐ सरस्वति प्रेदमिव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः । गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसत् । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वाऽदुर्गार्हपत्याय देवाः' इति द्वाभ्यां पूर्वदर्भराशाववस्थितः प्रत्यङ्मुखो वरोऽपरदर्भराशाववस्थितायाः प्राङ्मुख्या भार्याया हस्तं गृह्णीयात् । अथवा पूर्वदर्भराशाववस्थितायाः प्रत्यङ्मुख्या भार्याया अपरदर्भराशाववस्थितः प्राङ्मुखो वरो हस्तं गृह्णीयात् ।
अथ काम्यास्त्रयः पक्षाः ।
यदि कामयेत पुमांसं जनयेयमित्यङ्गुष्ठसहितमेव हस्तं गृह्णीयात् । न त्वितराङ्गुलिग्रहणम् । यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलिसहितमेव हस्तं गृह्णीयात् । न त्वङ्गुष्ठग्रहणम् । यदि कामयेतोभयं जनयेयमिति, अभीव लोमान्यङ्गुष्ठं सहाङ्गुलीभिर्गृह्णीयात् । इति काम्यास्त्रयः पक्षाः । तृतीयः पक्षो नित्योऽपि ।
ततस्तस्या भार्याया आत्मानमग्रेण स्थिताया दक्षिणमंसं धृत्वा प्रसव्यं स्वस्य दक्षिणतः प्रत्यङ्मुखी यथा स्यात्तथा प्रतिनिवर्त्य,
"ॐ अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । जीवसूर्वीरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे । तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्या मुशन्तः प्रहरेम शेषम् । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजाः । सोमोऽददाद्गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशू श्च मह्यं पुत्रा श्चाग्निर्ददात्यथो त्वाम् । अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । सामाहमृक्त्वं तावेहि संभवाव सह रेतो दधावहै । पु से पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेमां त्वमिन्द्र मीढ्वः सुपुत्रा सुभगां कुरु । दशास्यां पुत्राना धेहि पतिमेकादशं कुरु" ।
इति षड्भिर्मन्त्रैस्तामभिमन्त्रयते । अथवा तामुत्तरेण गत्वा प्रसव्यमावृत्य तस्या दक्षिणोंऽसः स्वस्य समीपे यथा भवति तथा तस्याः पश्चाद्भागे प्राङ्मुखः स्थित्वा स्वस्य दक्षिणतः प्रत्यङ्मुखी यथा स्यात्तथा प्रतिनिवर्त्य, अघोरचक्षुरित्यादिभिः षड्भिर्मन्त्रैरभिमन्त्रयेत् । प्रत्यङ्मुखी चेत्प्राङ्मुखी कार्या । अस्मिन्पक्ष उत्तरेण पश्चाद्भागे गमनं नास्ति ।
ततो भार्यां यथास्थानमुपवेश्य तदञ्जलिं प्रक्षाल्यावशेषितान्संमार्गदर्भान्गृहीत्वा वध्वञ्जलिं तैर्दर्भैरग्नौ निष्टप्य दर्वीवत्तैर्दर्भैर्वध्वञ्जलिं संमृज्य पुनर्निष्टप्य दर्भेष्वञ्जलिं निधाप्य संमार्गदर्भान्प्रोक्ष्याग्नौ प्रहृत्य संमृष्टं वध्वञ्जलिं सव्यहस्तेन धृत्वा दक्षिणहस्तेन तस्मिन्नञ्जलौ दर्व्याऽऽज्येनोपस्तीर्य "ॐ इमाल्लाँजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निरनुमन्यतामयम्" इति मन्त्रावृत्त्या द्विवारं वर एव लाजानावपति । त्रिः पञ्चावत्तिनः ।
ततस्तूष्णीमभिघार्य शूर्पस्थान्प्रत्यज्य--"ॐ इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा" [ इति ] आसीनायास्तस्या आसीन एव दर्वीस्थानीयाञ्जलिना कायतीर्थेनाग्नौ जुहोति । अग्नय इदं न मम । "निर्वपणसंस्रवणलाजहोमनित्यहोमान्कायतीर्थेन कुर्यात्" इति बौधायनोक्तेः कायतीर्थेन होमः । कनिष्ठयोर्मूलप्रदेशः कायं तीर्थं, "स्वल्पाङ्गुल्योर्मूले कायम्" इति कोशात् ।
मैत्रायणीयपरिशिष्टेऽपि--
"अङ्गुल्यग्रैर्न होतव्यं तथैवाञ्जलिभेदतः । |
इदं च वरकर्तृकत्वम्,--"अथग्रहणं परिभाषार्थम् । आधारवति तन्त्रे सर्वत्रैवमवदानधर्मो भवति" इत्येतद्व्याख्यानुसारेण ।
"अथग्रहणमावपनेऽन्यकर्तृकत्वख्यापनार्थं, स च भ्राता भ्रातृस्थानीयो वा"
इत्येतद्व्याख्यानुसारेण तु अत्र भ्रात्रादिः कर्ता ज्ञेयः । मन्त्रस्तु लिङ्गविरोधाद्वरस्येव न भ्रात्रादेः ।
न चाऽऽवपामीत्येतद्विरुध्यत इति वाच्यम् । अन्तर्भावितण्यर्थस्य तत्र विवक्षितत्वेन विरोधाभावात् ।
ततः "ॐ उदायुषा स्वायुषोदोषधीना रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृता अनु' इति भार्यामुत्थाप्य "ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः" इति स्वयमेव मन्त्रमुक्त्वा भार्यासहितः पात्रसहितमग्निं प्रदक्षिणं परिक्रामति । मन्त्रलिङ्गाद्वरस्य मन्त्रपठनम् । ततः पुनरुपस्तरणलाजावपनादि परिक्रमणान्तं द्वितीयं तृतीयं च । तृतीये शूर्पस्थानां प्रत्यञ्जनं नास्तीति विशेषः ।
तत आज्येनैव स्विष्टकृतं हुत्वा जयादीञ्जुहुयात् । यथापुरस्तादितिवचनं जयहोमे राष्ट्रभृद्धोमे च मन्त्रविषये पक्षान्तरस्यापि सत्त्वादुपनयने यः परिगृहीतः पक्षः स एवात्रेतिज्ञापनार्थम् । उपनयने जयहोममन्त्रविषये यथापुरस्तात्पक्षद्वये पूर्व एव यथा प्रकार उक्तस्तथैवात्र कार्य इत्येतदर्थमेव वाऽत्र न तु पुरस्तात्स्विष्टकृत इत्यस्यापि प्राप्तिः । तृतीयं परिक्रम्येत्यनेन ल्यप्प्रत्ययेन स्विष्टकृति तृतीयपरिक्रमणाव्यवधानस्योक्तत्वेन स्विष्टकृत्पूर्वकालत्वस्य बाधितत्वात् । अत्रेतिवचनं विप्रस्यानिन्दितेषु विवाहेष्वेव यथा स्यादित्येतदर्थम् । एतेन तृतीयं परिक्रम्य जयादीन्हुत्वा स्विष्टकृद्धोम इति कारिकाकृदुक्तः क्रमः परास्तः ।
ततः शुल्बप्रहरणादि संस्थाजपान्तं कर्म समापयेत् । नात्र त्रिवृदन्नहोमः ।
ततोऽपरेणाग्निमाचारात्सप्ताक्षतपुञ्जान्प्राक्संस्थानुदक्संस्थान्वा कृत्वा दक्षिणं पादं प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिक्रामीः, इति भार्यां संशास्य तस्या दक्षिणं पादं प्रगृह्याप्रगृह्य वा सप्तस्वक्षतपुञ्जेषु यथाक्रमं भार्यया विष्णुक्रमान्क्रामयति स्वयमपि क्रामतीत्येके । मन्त्रवक्ता वर एव लिङ्गात् । 'ॐ एकमिषे विष्णुस्त्वाऽन्वेतु' इति प्रथमं विष्णुक्रमं कामयति । 'ॐ द्वे ऊर्जे विष्णुस्त्वाऽन्वेतु' इति द्वितीयम् । 'ॐ त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु' इति तृतीयम् । 'ॐ चत्वारि मायोभवाय विष्णुस्त्वाऽन्वेतु ' इति चतुर्थम् । 'ॐ पञ्च पशुभ्यो 'विष्णुस्त्वाऽन्वेतु' इति पञ्चमम् । 'ॐ षड्रायस्पोपाय विष्णुस्त्वाऽन्वेतु' इति षष्ठम् । 'ॐ सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेतु' इति सप्तमम् ।
ततः 'ॐ सखायौ सप्तपदा बभूव सख्यं ते गमेय सख्यात्ते मा योष सख्यान्मे मा योष्ठाः' इति तथैवावस्थापितपादायां भार्यायां वरो जपति ।
ततोऽस्या दक्षिणं पादं स्वदक्षिणेन पादेनाऽऽक्रम्य दक्षिणेन हस्तेनास्या दक्षिणमंसमुपर्युपर्यन्ववमृश्य 'ॐ मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेहि मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुस रभस्व मयि चित्तानि सन्तु ते मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतात्' इति तस्या हृदयदेशमभिमृशति । ॐ प्राणानां ग्रन्थिरसि समाविस्रसः' इति तथैव नाभिदेशमभिमृशति । ततस्तामपरेणाग्निं प्राङ्मुखीमुपवेश्य तस्याः पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नापो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकस्य प्रजापतिर्ऋषिः । पवमानसुवर्जनादयो लिङ्गोक्ता देवताः । गायत्र्यादीनि च्छन्दांसि । सर्वेषां मार्जने विनियोगः । 'ॐ आपो हि ष्ठा० ३ हिरण्यवर्णाः० ४ पवमानः सुवर्ज० त्या पुनातु' इति सकुशपल्लवेनाऽऽसादितकलशोदकेन सर्वान्ते तत्तन्मन्त्रसमुदायान्ते वा भार्यां मार्जयति । प्रतिमन्त्रमिति केचित् ।
ततो वृद्धब्राह्मणा ज्ञातिबान्धवाः सुवासिन्यश्चाऽऽशीःपूर्वकं वधूमूर्धन्यासादितानि ब्रीह्यादिबीजानि 'ॐ या जाता ओषधयः' इत्यादिभिर्मन्त्रैर्यथाचारमारोपयन्ति ।
ततोऽग्नेः पश्चादुपविश्य विभूतिं धृत्वाऽग्निं संपूज्य कृतस्य विवाहहोमकर्मणः साङ्गतासिद्ध्यर्थमाचार्यादिभ्यः पूजनपूर्वकं दक्षिणां दत्त्वा यथाविभवं ब्राह्मणान्सुवासिनीश्च भोजयेत् ।
ततोऽस्मे देवास इत्याद्या आशिषो द्विजा दद्युः । ततो वरः कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
इति विवाहहोमः ।
ततो वधूवराविक्षुविकाराल्लँवणं चानश्नन्तौ वस्त्राभरणादिभिर्यथाविभवमात्मानमलंकुर्वाणौ वर्जितमैथुनावधःशायिनौ सह वसतः । एतच्च व्रतं पाणिग्रहणदिनमारभ्य ज्ञेयम् ।
अथ वधूप्रवेशः ।
तत्र नारदः--
"आरभ्योद्वाहदिवसात्षष्ठे वाऽप्यथवाऽष्टमे । |
वृद्धवसिष्ठोऽपि--
"षष्ठेऽष्टमे वा दशमे दिने वा विवाहमारभ्य वधूप्रवेशः । |
स्मृत्यन्तरे तु--
"वधूप्रवेशः प्रथमे तृतीये शुभप्रदः पञ्चमकेऽथवाऽह्नि । |
"वधूप्रवेशो न दिवा प्रशस्तो नवप्रवेशो न निशि प्रशस्तः । |
रात्रौ दिवा स्यादिति विशीर्णसज्जीकृतगृहप्रवेशविषयम् । रात्रौ दिवा स्यात्तु गृहप्रवेश इत्यनन्तरं कर्तव्य इति शेषः ।
स्पष्टमेतदुक्तं ज्योतिर्निबन्धे--
"वधूप्रवेशस्तु निशि प्रशस्तो नवप्रवेशस्तु दिवा प्रशस्तः । |
रत्नमालायाम्--
"हस्तेन्दुमैत्रश्रवणाश्वितिष्यपौष्णश्रविष्ठाश्च पुनर्वसू च । |
इन्दुर्मृगशिरः । धिष्ण्यानि नक्षत्राणि ।
मुहूर्तसंग्रहे--
"रेवतीहस्तमित्राश्विरोहिणीचान्द्रवास[५१३]वाः । |
व्यवहारतत्त्वे--
"पौष्णात्कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरासु । |
कभं रोहिणीनक्षत्रम् । व्यर्ककुजे रविभौमवारव्यतिरिक्तवारेष्वित्यर्थः ।
स्मृत्यन्तरे--"दिनक्षयादिदोषेषु वध्वा वेशो गृहे न सत्(न्) " इति ।
वेशः प्रवेशः । दिनक्षयादिलक्षणमुक्तं श्रीपतिना--
युग्मदिने प्रवेशस्तु षोडशदिनमध्य एव ।
तदुक्तं तत्रैव--
"विवाहमारभ्य वधूप्रवेशो युग्मे तिथौ षोडशवासरान्तात् । |
तत्रापि विशेषमाह नारदः--
"समे वर्षे समे मासि यदि नारी गृहं व्रजेत् । |
अत्रापि वर्ज्यमासा उक्ता बृहस्पतिना--
"कुलीरकन्यकाकुम्भे दिनेशे न विशेद्गृहम् । |
ज्योतिष्प्रकाशे--
"पृष्ठस्थं दक्षिणस्थं वा भृगुं कृत्वा विशेत्सदा । |
नवमदिननवममासनिषेधस्य देशव्यवस्थोक्ता कालपदीपे--
"गव्यूतिहीने त्वथ नैव निर्गमान्मासे दिने वा नवमे पुनर्विशेत्" इति । |
गव्यूतिः क्रोशद्वयम् ।
प्रतिशुक्रापवादमाह लल्लः--
"स्वभु(भ)वनपुरप्रदेशे देशानां विप्लवे तथोद्वाहे । |
तदुक्तं भीमपराक्रमे--
"स्वामिना नीयमानायाः प्रतिशुक्रो न विद्यते" इति । |
मत्स्यपुराणे--
"चतुःशालं चतुर्द्वारमलिन्दैः सर्वतोयुतम् । |
ज्योतिःसागरे--
"पौष्णादिवह्निपादेषु यावत्तिष्ठति चन्द्रमाः । |
तत्रैव वचनान्तरम्--
"रेवत्यादिमृगान्तेषु यावत्तिष्ठति चन्द्रमाः । |
अत्र भृगुगुर्वस्तापवाद उक्तो माण्डव्येन--
"नित्ययाने गृहे जीर्णे प्राशनान्तेषु सप्तसु । |
भृगुः शुक्रः । जीवो गुरुः । आचारः परं[५१८] नास्ति ।
ज्योतिष्प्रकाशे--
"वामे शुक्रे नवोढायाः सुखं हानिश्च दक्षिणे । |
तथा भाद्रपदमारभ्य पूर्वादिदिक्षु प्रतिदिशं मासत्रयं कपाटं ज्ञेयम् । चैत्रमारभ्य पूर्वाद्यष्टदिक्षु मुख्यदिशि मासद्वयं विदिक्ष्वेकं मासं क्रमेण कण्टकं जानीयात् । एतद्द्वयं ग्रामान्तरे नववधूगमने वर्ज्यम् । ज्योतिर्निबन्धे--
"कविज्ञवारे स्वगृहाद्ध्रुवर्क्षे कान्ताप्रयाणं न कदाचिदेव । |
[५१९]अन्यश्च--
"विवाहात्प्रथमे पौषे आषाढे वाऽधिमासके । |
ज्योतिर्निबन्धे--
"उद्वाहात्प्रथमे शुचौ यदि वसेद्भर्तृर्गृहे कन्यका |
जयन्तः--
"मार्गशीर्षे तथा माघे माधवे ज्येष्ठसंज्ञके । |
अथ द्विरागमनम् ।
ऋक्षोच्चये--
"माघफाल्गुनवैशाखे शुक्लपक्षे शुभे दिने । |
बादरायणः--
[५२०]"नीहारांशुदिनोत्तरादितिगुरुब्रह्मानुराधाश्विनी- |
देवेज्यो गुरुः । इनः सूर्यः । विद्बुधः ।
अथ गृहप्रवेशप्रयोगः ।
विवाहहोमानन्तरं वधूबान्धवाः पितृगृहाज्ज्योतिर्विदादिष्टे सुमुहूर्ते तां भार्यां वरं च रथादियानेन वरगृहं ग्रामं वा नयेयुः । यदि ग्रामं प्रति गच्छतोर्दंपत्योर्मार्गे होमपात्रं शकटं वा भिद्येत तदाऽन्वारब्धायां वध्वामापूर्विकतन्त्रेणाऽऽघारतन्त्रेण वा 'ॐ यदृते चिदभिश्रिषः, इडामग्ने पु० इमं मे वरुण, तत्त्वा यामि, त्वं नो अग्ने, स त्वं नो अग्ने, त्वमग्ने अयासि' इति सप्ताहुतीर्जुहुयात् । आद्यस्येन्द्रो मघ वान्देवता । द्वितीयस्याग्निः । इतरेषां प्रसिद्धा देवताः । ततस्तस्य संधानं कृत्वा रज्ज्वादेर्ग्रन्थिं बद्ध्वा स्वस्तिपदवतो मन्त्राञ्जपेत् । 'ॐ अभिव्ययस्व खदिरस्य सारम्' इति संधाने मन्त्र उक्तः शाङ्खायनेन । 'ॐ त्यञ्चिदश्वं न वाजिनम्' इति ग्रन्थिबन्धने । स्वस्ति नो मिमीतामिति पञ्चर्चसूक्तजपोऽपि तेनोक्तः । विवाहाग्निं सर्वमेकस्मिन्पात्रे भस्मना सह निक्षिप्य जायापत्योः पृष्ठतो हरन्ति । अयं चाग्निर्विवाहहोममारभ्य यावज्जीवं धार्यः । सूत्रे नित्यग्रहणेनैव यावज्जीवं धारणे सिद्धे धार्य इति वचनं प्रयाणव्यतिरिक्तस्थले स्थलान्तरे केनचिन्निमित्तेनाग्नेर्नयनं चेत्प्रत्यक्षमेव नयनं न तु समारोप इत्येतदर्थम् । आपस्तम्बानामप्येवम् । प्रयाणे तु यदि प्रयाया[५२१]दव्याख्यातमात्मन्नरण्योर्वा समिधि वा समारोपणमितिसूत्रात्समारोप एव न तु प्रत्यक्षनयनम् । खण्डस्य क्षेपकत्वकल्पे शकटादिना प्रत्यक्षनयनमेव कार्यं समारोपोऽपि वा । समित्समारोपोऽत्र परं नास्त्येव । धारणं तु यज्ञियैः काष्ठैर्गोमयपिण्डैर्वा कार्यं न तु तुषैः ।
तदुक्तं संग्रहे--
"धार्योऽग्निमयैः पिण्डैः काष्ठैर्वा यज्ञियर्दृढैः । |
पारिजाते--"न तुषैर्धारयेदग्निम्" इति ।
स चेदनुगतस्तदा तदनन्तरमेव मथितव्यः । श्रोत्रियागाराद्वाऽऽहरणीयः । यदि पूर्वं मथितो भवति तदाऽवक्षाणेभ्योऽधिमथितव्यः । अवक्षाणं तदग्निस्थं किंचिद्दग्धं काष्ठम् । यद्यसमर्थान्यवक्षाणानि स्युस्तदा तद्भस्मनाऽरणी संस्पृश्य मथितव्यः । यद्याहृतस्तदाऽऽहरणीयः । प्रायश्चित्तसूत्रेऽवक्षाणानीति बहुवचनं यद्येकस्मादवक्षाणादग्निर्नोत्पद्यते तदाऽन्यस्मान्मथितव्यः । ततोऽप्यनागमने परस्मादिति न तु यावन्त्यवक्षाणानि तेभ्यो मथितव्य इति । सर्वेभ्योऽवक्षाणेभ्योऽनुत्पत्तावेवारणीमन्थनं न त्वेकावक्षाणमन्थनादनुत्पत्तावनन्तरमरणीमन्थनमिति । यद्यपि गृह्यसूत्र इदं नोक्तं तथाऽप्यविरुद्धत्वाद्ग्राह्यम् । अविरोधिनामपेक्षितश्रौतविधीनां प्राप्तिस्तु श्रौतसूत्रमध्ये गृह्याम्नानवलाल्लभ्यते ।
"अनुगतो मन्थ्यः श्रोत्रियागाराद्वाऽऽहार्य उपवासश्चानुगते भार्यायाः पत्युर्वा" |
इत्यनुगमनप्रायश्चित्तसूत्रम् । चशब्दो मन्थनाहरणाभ्यामुपवाससमुच्चयार्थः । अनुगताधिकारे पुनरनुगतवचनं प्रागूर्ध्वं च विवाहपरिसमाप्तरेतत्प्रायश्चित्तं भवेदित्येतदर्थम् । तस्मात्सर्वत्रानुगते मन्थनेनाऽऽहरणेन वोत्पाद्योपव स्तव्यमिति । नैतदस्ति । नित्यग्रहणादेव सिद्धत्वात् । इदं तर्हि प्रयोजनमनुगत इदमेव प्रायश्चित्तं स्यान्नान्यदिति । तेनास्त्यन्यदप्यन्यत्र प्रायश्चित्तमिति गम्यते । किं तत्, अपि वोत्तरया जुहुयान्नोपवसेदित्यापस्तम्बेनोक्तम् । उत्तराऽयाश्चाग्न इत्येषा । तत्रानभिशस्तीश्चेत्येतावान्वि[५२२]कार इति मातृदत्तो व्याख्यातवान् । एतद्भाष्यस्वरसान्नष्टापहारादिनाऽग्निविच्छेद उपवासाहुत्यात्मकमेव प्रायश्चित्तं न केवलमुपवास आहुतिर्वेति । अत्र भाष्ये-– अनुगमनव्यतिरिक्तस्थल उपवासाहुत्यात्मकप्रायश्चित्तप्रदर्शनेनान्यस्याष्टादशाहुत्याद्यात्मकप्रायश्चित्तस्य क्षेपकत्वं प्रदर्शितमन्यथेदमपि प्रदर्शितं भवेत् । सर्वस्य प्रायश्चित्तातिरिक्तभागस्य क्षेपकत्वं नेति तु तस्मिन्गृह्याणि कर्माणि क्रियन्त इत्येतस्य पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षत इत्येतत्खण्डस्य प्रतीकमदर्शनाज्ज्ञायते । तस्यौपासनेनाऽऽहिताग्नित्वं पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति कश्चिदाचार्यो वक्ष्यतीति वैजयन्तीकृदुक्तिस्वरसात्तु सर्वस्य खण्डस्य क्षेपकता ज्ञायते । एवं च पुनःसंधानविधिरेव क्षेपकोऽन्यो न क्षेपक इति भाष्यकृद्ग्रन्थात् । वैजयतीकृद्ग्रन्थात्तु सर्वमपि खण्डं क्षेपकमिति । उभयग्रन्थतः पुनःसंधानविधेरेव क्षेपकत्वम् । एतत्सूरिभिर्निपुणतरं विभाव्य यद्युक्तं तद्ग्राह्यम् ।
ततोऽन्यतरमग्निं गोमयोपलिप्ते संस्कृतायतने स्थापयित्वा पतिरुपवसेत्, भार्या वा । प्रोषिते पत्यौ भार्याया उपवासः । अहन्यनुगत आसायमुपवासः । रात्रावनुगत आप्रातरुपवासः । उपवासासामर्थ्यादावुपनयनप्रकरणोक्तमयाश्चेत्याहुत्यात्मकं प्रायश्चित्तं सर्वप्रायश्चित्तहोमश्च कर्तव्यः । दिवोपवासे सायमेव लुप्तहोमः कार्यः । रात्रावुपवासे प्रातरेव । उपवासमात्रमेव वा न तु होमः । आहुतिपक्षे तु प्रायश्चित्तहोमानन्तरमेव । यदि पतिः प्रोषितः स्वस्याश्चोपवासासामर्थ्यं तदा होमार्थमृत्विजं वृत्वा तेनायाश्चाग्न इत्याहुतिं हावयेत् । ऋत्विगभावे स्वयमेव जुहुयात् ।
अथ वरः स्वगृहद्वारं प्राप्य दक्षिणं पादमग्रेऽतिहर देहलिं माऽधिष्ठा इति भार्यां संशास्ति । सा दक्षिणं पादमग्रे कृत्वा देहलीमनधिष्ठायैव गच्छति ।
ततो गृहं प्रविश्य तत्पूर्वार्ध्यशालायामग्न्यायतनं परिकल्प्य तत्पश्चात्सभार्यः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम विवा हाग्नेर्गृह्यत्वोत्पादनद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृहप्रवेशाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । न वा संकल्पः ।
ततो गणेशं संपूज्योद्धननादिसंस्कृत आयतने विवाहाग्निं तूष्णीं प्रतिष्ठाप्य प्रज्वलितं कुर्यात् ।
ततोऽपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य
"ॐ इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । |
इति तस्मिञ्जायापती प्राङ्मुखावुदङ्मुखौ वोपविशतः । प्राङ्मुखत्वपक्षे पत्युर्दक्षिणतो भार्या । उदङ्मुखत्वपक्षे तस्य पृष्ठतो वामभागे वा । उभयोर्मन्त्रः। अत आरभ्य नक्षत्रोदयपर्यन्तं वाग्यतावासाते । आनडुहचर्माभावे तार्णतल्पो ग्राह्यः ।
तथा चाऽऽश्वलायनस्मृतिः--
"गृहप्रवेशेऽनडुहश्चर्मास्तरणमिष्यते । |
तल्पोऽत्राऽऽसनम् । उदितेषु नक्षत्रेषु वध्वा सह प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य तया सहैव प्राङ्मुख उदङ्मुखो वा, देवीः पडुर्वीरित्यस्यार्धस्याग्निर्दिशस्त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ देवीः षडुर्वीरुरुणः कृणुत विश्वे देवास इह वीरयध्वम्' इति दिश उपतिष्ठते । बहुवचनलिङ्गात्सकृन्मन्त्रः ।
मा हास्म हीत्यस्य पादस्याग्निर्नक्षत्राणि त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ मा हास्म हि प्रजया मा तनूभिः' इति नक्षत्रााणि सकृन्मन्त्रमुक्त्वैवोपतिष्ठते । सर्वेषां नक्षत्राणामुपस्थानासंभवाद्यावन्ति दृष्टिगोचराणि भवन्ति तेषामुपस्थानम् । अशक्यत्वात्सकृन्मन्त्रः ।
मारधामेत्यस्य पादात्मकस्य मन्त्रस्याग्निश्चन्द्रमास्त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ मारधाम द्विषते सोमराजन्' इति चन्द्रमसम् ।
"ॐ सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवता ह निन्युः । |
इति सप्तर्षीनरुन्धतीसहितानुपतिष्ठते । बहुवचनलिङ्गात्सकृन्मन्त्रः ।
"ॐ ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवमसि ध्रुवतस्थितं |
नक्षत्रादीनामभ्रादिप्रतिबन्धेनादर्शनेऽपि तस्यां तस्यां दिशि तं तमुपस्थेयपदार्थमनुलक्षीकृत्योपस्थानं कार्यम् ।
तत उपस्थानदेश एव मनस आह्लादकेन वचसा भार्यां संभाष्य पुनः शालां प्रविश्याऽऽस्तृतमानडुहं चर्माभ्युक्ष्य निरस्याप उपस्पृश्य भार्यया सहापरेणाग्निं प्राङ्मुख उपविशति ।
अथ गृहप्रवेशस्थालीपाकः ।
वरः सभार्य आचम्य प्राणानायम्याग्निं प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा गृहप्रवेशाङ्गभूताग्नेयस्थालीपाकयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अग्निमेकया चर्वाहुत्या यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषचर्वाहुत्या यक्ष्ये । एते देवते सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरग्नौ समिधोऽभ्याधायाग्निं परिस्तीर्योत्तरेणाग्निं दर्भानास्तीर्य तेषु शूर्पं कृष्णाजिनमुलूखलं मुसलं चरुस्थालीं मेक्षणं तण्डुलप्रस्कन्दनार्थं पात्रं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रं हविरासादनार्थं दर्भानुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसादयेत्[५२३] ।
व्रीहीणां तत्प्रतिनिधित्वेन विहितानां सतुषाणामोषधीनां च सर्वथाऽभावेन सिद्धतण्डुलग्रह[५२४]णे पत्नी, अवहननकाले तण्डुलान्स्पृष्ट्वा कृष्णाजिनास्तरणादि त्रिष्फलीकरणान्तं कर्म मनसा क्रमेण विभावयेदङ्गत्वनिर्वाहाय । अथवा सर्वा बाह्याश्चेष्टा अपि कर्तव्याः । पूर्वकल्पे कृष्णाजिनालूखलमुसलानां नाऽऽसादनं, द्वितीयकल्पे त्वस्त्येव कृष्णाजिनाद्यासादनम् ।
ततः पवित्रे कृत्वाऽपरेणाग्निं शूर्पं निधाय तस्मिन्पवित्रे निधाय तृष्णीं चतुरो मुष्टीन्निरू(रु)प्यैकब्राह्मणभोजनपर्याप्तान्व्रीहीनन्वोप्योत्तरेणाग्निं नि[५२५]रुप्तव्रीहिमच्छूर्पं निधाय प्रोक्षणीः संस्कृत्य शूर्पस्थान्व्रीहीन्प्रोक्ष्य पात्राण्युत्तानानि कृत्वा प्रोक्षति ।
([५२६]ऋषभं च मूल्यदाने मूल्यम् । ) ततः प[५२७]त्न्यग्नेरुत्तरतः कृष्णाजिनं बहि [५२८]र्विशसनं त्रिरवधूय प्रत्यग्ग्रीवमुपरिष्टाल्लोम तदास्तीर्य तस्य भस[५२९]त्प्रदेशमुपसमस्य तत्रोलूखलं संस्थाप्य तस्मिन्व्रीहीनोप्याऽऽसीनेन मुसलेनावहत्योलूखलस्य पुरस्ताच्छूर्पं निधायोलूखलस्थांस्तण्डुलाञ्शूर्पे निक्षिप्य कृष्णाजिनस्योत्तरतस्त्रिर्निष्पूय तुषान्प्रध्वंसयित्वा(स्य) तांस्तुपान्दक्षिणहस्तेन कृष्णाजिनस्याधस्तादुपवपत्यनिरीक्षन्(माणा)।
ततो दक्षिणहस्तेनैव निक्षिप्तांस्तुपान्निष्पीड्याप उपस्पृश्य [५३०]विविच्य प्रस्कन्दनार्थ आसादिते पात्रे प्रस्कन्दयित्वा(न्द्य) तानादायोलृखले प्रक्षिप्य त्रिष्फलीकृत्य त्रिष्फलीकरणानि कृष्णाजिनस्योत्तरतो निक्षिप्य तण्डुलान्प्रक्षाल्याग्नेः पश्चान्निवपति । ततो वरः प्रक्षालितांस्तण्डुलांश्चरुस्थाल्यामोप्य मेक्षणेनाऽऽलोड्याग्नौ श्रपयित्वा दर्वीं मेक्षणं च संमृज्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् ।
तत्राऽऽज्येन सह चरोरपि पर्यग्निकरणं, चरुस्थाल्यां तण्डुलनिक्षेपात्पूर्वमेव वा दर्वीसंमार्गादिपवित्राभ्याधानान्तम् । अग्नेः पश्चाद्दर्भास्तरणपक्षे तदन्तं कृत्वा दर्भेष्वाज्यं निदध्यात् ।
यजिधातोः प्रयोगो यक्ष्य इत्येवंरूपा[५३१]गूरणमात्रप्राप्त्यर्थं इत्येतस्मिन्कल्पे होमब्राह्मणपरिवेषणपर्याप्तान्व्रीहीन्गृहीत्वा पत्न्याऽवघातेन निष्पादितान्व्रीहितण्डुलान्सोदकायां स्थाल्यां निक्षिप्याग्नौ श्रपयति । नात्र निर्वापप्रोक्षणकृष्णाजिनावधूननादिश्रौतधर्माः । कृष्णाजिनासादनं कृताकृतम्[५३२] । आस्तरणाभावे पात्रेष्वासादनमपि न । पर्याग्निकरणं तु कर्तव्यमेव । तत आसादितान्दर्भानग्नेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चादास्तृते बर्हिष्याज्यस्योत्तरत आसाद्याग्निं परिषिच्य तूष्णीं सादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीप्तेऽग्नौ जुहोति । 'ॐ अग्नये स्वाहा' इति भार्यान्वारब्धो जुहोति । अग्नय इदं न मम ।
पुनर्भूय उपहत्य 'ॐ अग्नये स्विष्टकृते स्वाहा' इति भार्यान्वारब्धोऽसंसक्तां पूर्वाहुत्योत्तरार्धपूर्वार्धे जुहोति । अग्नये स्विष्टकृत इदं न मम । अत्र यद्यप्यथशब्दो नास्ति तथाऽपि क्त्वाप्रत्ययाच्चरुणा स्विष्टकृद्धोमो भवति ।
ततो मेक्षणमग्नौ प्र[५३३]क्षिपेत् । न वा मेक्षणप्रक्षेपः ।
ततः परिस्तरणानि विसृज्य व्यस्तसमस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्हुत्वोत्तरं परिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूतिं धृत्वा हविःशेषेण ब्राह्मणं विद्यावन्तं भोजयेत् । हविःशेषनाशे ब्राह्मणभोजनाभावः ।
ततः कृतस्य कर्मणः साङ्गतासिद्धय आचार्यायाऽऽसादितमृषभं तन्मूल्यं वा दत्त्वाऽन्येभ्यो भूयसीं च दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
पत्न्येव कर्त्री मुख्येतिकल्पे पत्नी वराद्दानार्थमृषभं तन्मूल्यं वा संपाद्य त्वमाग्नेयस्थालीपाकेन मां याजयेति तं प्रार्थयेत् ।
ततो वरोऽन्वाधानादिपात्रप्रोक्षणान्तं कुर्यात् । ततः कृष्णाजिनावधूननादितण्डुलक्षालनान्तं पत्नी ।
ततः श्रपणादित्यागदानव[५३४]र्जं समाप्त्यन्तं कर्म वरः कुर्यात् । त्यागदाने पत्नी कुर्यात् ।
इति पत्न्या मुख्यकर्तृत्वपक्षे प्रयोगः ।
अथवा पात्रासादनान्ते कृष्णाजिनमास्ती[५३५]र्यानास्तीर्य वा पत्न्यवहननं कृत्वा त्रिष्फलीकृत्य फलीकरणान्युत्तरतो निरस्येत् ।
ततो वरो दर्वीसंमार्गादिपवित्राभ्याधानान्तं दर्भास्तरणपक्षे तदन्तं कृत्वा शृतं चरुं दर्व्याऽऽज्येनाभिघार्योदगुद्वास्याग्नेः पश्चाद्दर्भेषु दर्भास्तरणाभावपक्षे भूमावेव निधाय परिषेकादि समानम् ।
ततः पतिपुत्रवतीभिः सुवासिनीभिः कृतनीराजनौ दंपती द्विजेभ्य आशिषो गृहीत्वा मुदितौ तिष्ठेताम् ।
ततो महालक्ष्मीपूजनादिकमाचारप्राप्तं यद्यदस्ति तत्सर्वं पुरन्ध्रीभिः कारणीयम् ।
इति गृहप्रवेशस्थालीपाकप्रयोगः ।
अथैतद्विषयकं सूत्रं व्याख्यायते ।
तत्र सूत्रमित्थम्--
"अथैनामाग्नेयेन स्थालीपाकेन याजयति पत्न्यवहन्ति श्रपयि- |
अथेति प्रवेशानन्तरं पूर्वरात्रावेव क्रिया स्यादर्धरात्रोत्तरं मा भूदित्येतदर्थम्, यत्र दिगाद्युपस्थानानन्तरमाग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति नान्येषु स्थालीपाकेष्वित्येतदर्थं च । याजयतीत्येतदनन्तरं वर इति शेषः ।
अथवैनां याजयतीति वचनादेवं ज्ञायते पत्न्येव यष्ट्री वरस्तु ऋत्विग्भूत इति । तेन त्यागदाने स्त्रीकर्तृके एव । अत एवास्येतीदमः प्रयोगः संगच्छते । न च तस्या भर्तृधनदानेऽधिकाराभावात्कथमेतदिति वाच्यम् । अनुज्ञया दानेऽप्यधिकारस्य सर्वतन्त्रसिद्धत्वात् । नन्वेनां याजयतीत्येव वक्तव्यं यत उत्तरत्राग्नये हुत्वेति विधानादाग्नेयत्वं सिद्धं, स्थालीपाकेनेति त्ववहन्ति श्रपयित्वेति विधानात्सिद्धमतः किमर्थमिदमधिकमारभ्यत आग्नेयेन स्थालीपाकेनेति । उच्यते--आग्नेय एवात्र प्रधानदेवता नाग्निः स्विष्टकृदितिख्यापनार्थम् । तेन प्रथमदेवताहोमानन्तरं हविर्दोषे स्विष्टकृद्रूपद्वितीयदेवतार्थं न हविरुत्पत्तिः किं त्वाज्येनैव होम इति सिध्यति । उत्तरार्धपूर्वार्धेऽसंसक्तामितराभिराहुतिभिर्जुहोति प्रधानावदानतो ज्यायोऽवदानमित्येते धर्माश्च सिद्धा भवन्ति ।
स्थालीपाकेनेति वचनं सूत्रान्तरेऽग्निदेवतोद्देशेनास्मिन्स्थालीपा[५३६]कयागकर्मण्याज्येनापि होम उक्तः स मा भूदित्येतदर्थम् ।
अथवा स्थालीपाकेनेत्येव विधायकं श्रपयित्वेति तु श्रपणाभिधारणयोरव्यवधानायानुवादः । तेन सुशृतावस्थातः पूर्वमेव पवित्रप्रहरणान्तं कर्मेति सिध्यति ।
चरुणेत्येतावतैव सिद्धे स्थालीपाकेनेति वचनं यत्र स्थालीपाकशब्देन विधानं तत्रैवाऽऽपूर्विकतन्त्रविधिरितिज्ञापनार्थम् । तेनान्यत्रार्थादाघारवत्तन्त्रं सिध्यति । प्रायश्चित्तेष्टिस्थानीयचरुहोमे त्वापूर्विकतन्त्रमेव । तत्रापि य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेः स्थालीपाका इति शास्त्रान्तरेऽपि स्थालीपाकशब्देन विधानात् ।
अथवा स्थालीपाकेनैव यत्र होमो न द्रव्यान्तरेणापि तत्रैवाऽऽपूर्विकतन्त्रविधिरितिज्ञापनार्थम् । तेन चरुशब्देन विहिते केवलचरुहोमेऽप्यापूर्विकं तन्त्रमेव भवति ।
हुधातुं परित्यज्य यजिधातोः प्रयोगो यावदुपयुक्तश्रौतधर्मप्राप्त्यर्थः । तेन निर्वापादीनां कृष्णाजिनावधूननादीनामवहननधर्माणां प्राप्तिः सिद्धा भवति ।
अथवा यजिधातोः प्रयोगो यक्ष्य इत्येवंरूपागूरणमात्रप्राप्त्यर्थः ।
पत्न्यवहन्ति स्थालीपाकार्थान्व्रीहीन् । साऽवहन्तीति वक्तव्ये पत्न्यवहन्तीति वचनं पत्न्येव कृष्णाजिनावधूननादितण्डुलप्रक्षालननिनयनान्तं करोति न तु श्रौतवत्त्रिष्फलीकरणमात्रावघातमित्येतदर्थम् । श्रपणादिकं तु वरकर्तृकमेव न तु पत्नीकर्तृकम् । एतदर्थमेव पत्न्यवहत्येति ल्यप्प्रत्ययं परित्यज्य पत्न्यवहन्तीति प्रयोगः कृतः। अथवा पत्न्यवहन्तीतिवचनमनन्तरोक्तेन ध्रुवाद्युपस्थानान्तेन विधिना या स्वीकृता सैव पत्नी, अन्यथा नेत्येतदर्थम् । तेनाऽऽसुरादिविवाहोढाया न यज्ञयुक्तत्वमिति सिद्धं भवति ।
अस्ति चात्र स्मृतिः--
"क्रयक्रीता तु या नारी न सा पत्न्यभिधीयते । |
अधर्म्योढाऽधर्म्येण विवाहेनोढा । स्विष्टकृतं जुहोतीति परित्यज्याग्नये स्विष्टकृते जुहोतीत्येवं वचनान्नाम्नैवात्र होमो न यदस्येत्यनेन । तेन स्थालीपाकशेषेण, ब्राह्मणं विद्यावन्तं श्रुताध्ययनसंपन्नं परिवेवेष्टि भोजयतीत्यर्थः । ब्राह्मणग्रहणं क्षत्त्रियवैश्यनिवृत्त्यर्थम् । परिवेवेष्टीतिवचनबलाद्धोमब्राह्मणभोजनपर्याप्तश्चरुः कार्यः ।
अथवैनां याजयतीति वचनमन्वारम्भसिद्ध्यर्थम् । अस्मिन्पक्षे वर एव त्यागदानकर्ता । योऽस्यापचितो भवति तस्मा ऋषभं ददातीति सूत्रमस्मिन्कल्प इत्थं व्याख्येयम् । योऽस्य स्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागस्य कर्ता, ऋषभं ददाति न तु स्थालीपाकयागान्तराणां कर्ता ।
अथवाऽस्येतिषष्ठ्या अयमिति विपरिणामः । योऽयं लोके विद्याभिजनसंपत्त्याऽपचितस्तस्मा अयमेतत्स्थालीपाककर्ता, ऋषभं ददातीति ।
केचित्तु तेन ब्राह्मणमित्यादि योऽस्यापचितो भवति तस्मा ऋषभं ददातीत्येतदन्तं सूत्रमेकं कुर्वन्ति, तेषां मतेऽपचित एव भोजयितव्यः । तस्मा एव ऋषभो दातव्य इति ।
यदा त्वतिसंकटे शास्त्रान्तरवशेन रात्रौ विवाहस्तत्राप्यर्धरात्रात्प्राक्चेत्तदाऽऽनडुहे चर्मण्युपविश्यानन्तरमेव दिगाद्युपस्थानादिस्थालीपाकान्तं सर्वं कर्म कार्यम् । यद्यर्धरात्रोत्तरं तदोपवेशनपूर्वकं दिगाद्युपस्थानादि कृत्वा श्वोभूत एव स्थालीपाकः कार्य इति द्रष्टव्यम् ।
तदाहाऽऽश्वलायनः--
"अर्धरात्रे व्यतीते तु परेद्युः प्रातरेव हि । |
गृहप्रवेशस्थालीपाकोत्तरं प्रथमदर्शपूर्णमासस्थालीपाकानुष्ठानात्प्राक्समारोपो न कार्यः ।
चरुस्वरूपं सारसंग्रहे--
"अग्निर्गतोष्मा सुस्विन्नो ह्यदग्धोऽकठिनश्चरुः । |
अयमेव सर्व[५३७]स्थालीपाकानां प्रकृतिः । दर्शपूर्णमासस्थालीपाकौ त्वेतद्विकृतिभूतावेव ।
इति गृहप्रवेशविधिः ।
अथैरिणीपूजनं दानं च ।
मण्डपप्रतिष्ठादिनात्पाणिग्रहणदिनाद्वा चतुर्थे दिवसे रात्रौ तत्र भद्रादिसंभवे दिने[५३८] वा शिष्टाचारप्राप्तं वरमात्रेऽभावे तत्समायै वा कन्यादात्रैरिण्याख्यवंशपात्रदानं कार्यम् ।
"सवस्त्रफलताम्बूलं दंपत्योर्वंशवर्धनम् । |
रुद्रसंख्यैरेकादशसंख्यैः ।
एवं संपाद्य सभार्य आचम्य प्राणानायम्य विवाहसंपूर्णफलावाप्तये वरस्य तत्पितृमात्रादीनां तत्पक्षीयाणां च यथाविभवं गन्धपुष्पवस्त्रादिभिः पूजनं कुर्यात् । अत्रापि संकल्पं कुर्वन्ति । गणेशं संपूज्य वरतत्पितृमातृपक्षीयेभ्यो यथाविभवं गन्धपुष्पसमर्पणपूर्वकं पट्टपट्टीदुकूलवस्त्रादि दत्त्वा कृतकन्यादानसंपूर्णफलावाप्तिवंशाभिवृद्धिद्वारोमामहेश्वरप्रीत्यर्थमैरिणीपूजनं वरमात्रे तत्समायै वैरिण्याख्यवंशपात्रदानं च कुर्यात् । तद्यथा--
"ऐ[५३९]रिणि त्वमुमा देवी महेशो गिरिजापतिः । |
इत्युक्त्वा तस्मिन्वंशपात्र उमामहेश्वरौ संपूज्य तद्वंशपात्रं वरमात्रे तत्समायै वा दद्यात् ।
तत्र मन्त्राः--
"वंशो वंशकरः श्रेष्ठो वंशो वंशसमुद्भवः । |
ततः सदीपं वंशपात्रं वर[५४०]तत्पितृमात्रादीनां शिरसि स्वयं धारयेत्, स्वस्ति नो मिमीतां स्वस्ति न इन्द्र इति द्वाभ्यां प्रतिमन्त्रम् ।
ततो दातैव कन्यां गृहीत्वा वरपित्राद्युत्सङ्गे पृथक्पृथगुपवेश्य प्रार्थयेत्--
"सप्तवर्षा त्वियं कन्या पुत्रवत्पालिता मया । |
षड्वार्षिक्यां तु षड्वत्सरा त्वियं कन्येत्यूहः । अष्टवार्षिक्यादिषु तु--अष्टवर्षा त्वियं कन्या नववर्षा त्वियं कन्या दशवर्षा त्वियं कन्येत्येवं यथायथम् ।
एवं पुत्रायेत्यत्रापि पौत्राय भ्रात्रे बान्धवाय मित्रायेति ।
वरमात्राद्युत्सङ्गे वधूमाता कन्यां तथैवोपवेश्य प्रार्थयेत् ।
ततो वरमात्रा वधूमात्रादितत्पक्षीयसुवासिनीभ्यः सकञ्चुकक्षुद्रवंशशूर्पवायनानि वध्वा दापनीयान्याचारात् । एवमन्यदपि यथाऽऽचारप्राप्तमस्ति तथा कार्यम् । ततो दाता कर्मसाद्गुण्याय विष्णुं संस्मरेत् । एतच्च सर्वं सपत्नीकेनाभुक्त्वैव कार्यम् ।
एतदकरणे दोष इत्येतदर्थे वचनं पठन्ति--
"वंशदानं विना यस्तु मण्डपोद्वासनं यदि । |
वस्तुतस्तु महानिबन्धेष्वदर्शनादनाकरमिदम् ।
अन्यच्च शाकलकारिकासु--
"दंपत्योर्वाससी दत्त्वा पूजयेदैरिणीं ततः । |
चतुर्थेऽहन्येव पातवैधृती स्यातां चेदपि तदा कार्यमेव नान्यत्रेत्येतत्तात्पर्यार्थः ।
वस्तुतस्तु प्राचीननवीनग्रन्थेष्वेतस्यादर्शनादनादरणीयम् ।
इत्यैरिणीपूजनं दानं च ।
अथ चतुर्थीकर्म ।
तत्रेदं गृह्यम्--"चतुर्थ्यामपररात्रेऽग्निमुपसमाधाय प्रायश्चित्तिपर्यन्तं कृत्वा
- नव प्रायश्चित्तीर्जुहोतीत्यादि प्रायश्चित्तिपर्यन्तं कृत्वा स त्वं नो अग्ने,
- इत्येतदन्तं कृत्वाऽग्ने प्रायश्चित्त इत्येता नव प्रायश्चित्तीर्जुहोति" इति ।
मातृदत्तः-–प्रायश्चित्तिपर्यन्तं कृत्वेति वचनं समस्तव्याहृतीनामनादिष्टप्रायश्चित्तित्वबोधनार्थम् । तेनानुक्ते प्रायश्चित्ते समस्तव्याहृतिभिर्होम इति सिध्यति । अत एव सर्वप्रायश्चित्तमिति संज्ञा । तेन समस्तव्याहृतिपर्यन्तमेव कृत्वा नव प्रायश्चित्तीः प्रधानीभूता आहुतीर्जुहुयात् । अत्र प्रायश्चित्तित्वबोधनं चतुर्थीकर्मणः प्रायश्चित्तकर्मत्वेन प्रायश्चित्तकर्ममध्य एव प्रायश्चित्तिसंज्ञाज्ञापनस्य युक्तत्वात्कृतम् । चतुर्थीकर्मणः प्रायश्चित्तकर्मत्वं तु--अग्ने प्रायश्चित्त इत्यादिमन्त्रलिङ्गाज्ज्ञेयम् । पूर्वव्याख्याने प्रसिद्धव्याहृतिहोमानन्तर्य परित्यागः, इमं म इत्यादीनां चतुर्णामेव प्रायश्चित्तसंज्ञेत्यत्र विनिगमकाभावः, अङ्गहोमस्य मध्ये प्रधानानुष्ठानस्याश्रुतस्य कल्पनं चेति दोषाः । अस्मदीयव्याख्याने तु नैते दोषाः । प्रत्युत शास्त्रान्तरप्रसिद्धाया याज्ञिकप्रसिद्धायाश्च स्वशास्त्रे समस्तव्याहृतिहोमस्य [५४१]सर्वप्रायश्चित्तित्वसंज्ञासिद्धिरधिकेति द्रष्टव्यमिति युक्तं प्रतिभाति ।
अथ प्रयोगः ।
पाणिग्रहणदिनमारभ्य या चतुर्थी रात्रिस्तस्यां त्रिभागावशिष्टायां वरः सपत्नीकः स्नात्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्या भार्यायाः सोमगन्धर्वाग्न्युपभुक्तत्वदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं चतुर्थीहोमं करिष्य इति संकल्पं कुर्यात् । अयं च संकल्पो न चतुर्थीकर्मान्तो विवाह इत्येतस्मिन्कल्पे ।
ततो गणेशं संपूज्य शिखिनामाऽयमग्निरित्यभिध्यायन्नग्निं प्रज्वाल्य चत्वारीति ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा चतुर्थीहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वाऽग्निं प्रायश्चित्तिं वायुं प्रायश्चित्तिमादित्यं प्रायश्चित्तिमादित्यं प्रायश्चित्तिं वायुं प्रायश्चित्तिमग्निं प्रायश्चित्तिमग्निं प्रायश्चित्तिं वायुं प्रायश्चित्तिमादित्यं प्रायश्चित्तिं चैकैकयाऽऽज्याहुत्या यक्ष्ये ।
अङ्गहोमे वरुणं द्वाभ्यामित्यादि, अग्निं स्विष्टकृतमित्यादि वा समिदभ्याधानान्तं कुर्यात् ।
मूर्ध्नि संस्रावहोमे--अग्निं वायुं सूर्यं प्रजापतिं च संस्रावाज्येनेति वदेदिति केचित् ।
एतच्च स्विष्टकृतः पूर्वमङ्गहोमकरणपक्षे तत्पूर्वं वा द्रष्टव्यम् । पात्रासादने संपातावनयनार्थं पात्रमुदकुम्भं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं चेत्यासाद्य ब्रह्मवरणादिव्याहृतिहोमान्तं कृत्वा नव प्रधानाहुतीर्जुहुयात् ।
"ॐ अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै घोरा तनस्तामितो नाशय स्वाहा" अग्नये प्रायश्चित्तय इदं न मम ।' "ॐ वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उप धावामि याऽस्यै निन्दिता तनूस्तामितो नाशय स्वाहा" वायवे प्राय'श्चित्तय इदं० ।
"ॐ आदित्य प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम
उपधावामि याऽस्यै पतिघ्नी तनूस्तामितो नाशय स्वाहा" आदि-
त्यायप्रायश्चित्तय इदं ।
एता एव पुनर्युत्क्रमेण--
"ॐ आदित्य प्रा० वायो० अग्ने प्रा०" । |
पुनः पूर्वानुक्रमेण--
"ॐ अग्ने प्रा० वायो प्रा० आदित्य प्रा०" । |
नवप्रधानाहुतीनां होमा[५४२]न्त आज्यबिन्दून्पूर्वासादिते संपातावनयार्थे पात्रे प्रक्षिपेत् । नवाहुतिहोमानन्तरं तत्संपाताज्यं दर्व्या भार्यया मूर्ध्नि जुहोति--
"ॐ भूर्भगं त्वयि जुहोमि स्वाहा" अग्नय इदं० । "ॐ भुवो यशस्त्वयि जुहोमि स्वाहा" वायव इदं० । "ॐ सुवः श्रियं त्वयि जुहोमि स्वाहा" सूर्यायेदं० । "ॐ भूर्भुवः सुवस्त्विषिं त्वयि जुहोमि स्वाहा" प्रजापतय इदं० ।
इत्याहुतिचतुष्टयं मूर्ध्नि हुत्वेमं म इत्यादि स्विष्टकृदादि वा संस्थाजपान्तं समानम् । नात्र त्रिवृदन्नहोमः ।
तत आसादितं जलपूर्णं कुम्भमग्नेः समीपे निधायोदकुम्भसहितं तं प्रदक्षिणीकृत्यापरेणाग्निं शयनस्थानं कल्पयित्वा परिश्रित्य तत्र प्राक्शिरस्कामुदक्शिरस्कां वा भार्यां शाययेत् । अत्र वाचनिकमुदक्शिरस्कं शयनम् ।
ततः--
"ॐ अभि त्वा पञ्चशाखेन शिवेनाभिद्विषावता । सहस्रेण यशस्विना । |
[ इति ] तस्या योनिं दक्षिणेन हस्तेनाभिमृशति ।
"ॐ सं नाम्नः स हृदयानि सं नाभिः सं त्वचः सं त्वा कामस्य |
[ इति ] तां पर्यालिङ्गति ।
"मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी । |
इति द्वाभ्यां तस्या मुखेन मुखं जुषति(ते) । इदमुपगमनमावश्यकं स्त्रीसंस्कारत्वात् ।
ततः कर्मणः साङ्गतासिद्ध्यर्थमाचार्याय दक्षिणां दत्त्वाऽन्येभ्यो भूयसीं दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
प्राचीनरीत्या प्रयोगे तु--अन्वाधाने व्याहृत्यनन्तरमङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये, अग्निं वरुणं चैक[५४३]याऽऽज्याहुत्या यक्ष्ये, अग्निं वरुणं चै[५४४]कयाऽऽज्याहुत्या यक्ष्ये, इत्युक्त्वा प्रधानदेवतोल्लेखः । अनन्तरमयासमग्निमित्यादि । एतदनुसारेण होमः, इत्येतावान्विशेषो द्रष्टव्यः । अन्यत्समानम् ।
इति चतुर्थीकर्म ।
अथ देवकमण्डपोदासनम् ।
तत्र देवकोत्थापनस्य कालः--
"समे च दिवसे कुर्याद्देवकोत्थापनं बुधः । |
समेषु षष्ठं विषमेषु पञ्चमसप्तमातिरिक्तं दिनं नात्रेष्टमित्यर्थः ।
दिवससंख्या ज्योतिर्निबन्धे--
"प्रतिष्ठादिनमारभ्य यावत्षोडश वासराः । |
उद्वाहे षोडशदिनानि, मौञ्जीबन्धे दश दिनानि काल इत्यर्थः । एतेषु दिवसेषु पञ्चमसप्तमातिरिक्तं विषमं दिनं समेषु षष्ठं दिनं च वर्जयित्वाऽवशिष्टेऽन्यतमदिवसे स्थापितदेवतानामुद्वासनं पुण्या[५४५]हादिवाचनं चोपनयनवत्कुर्यात् ।
मण्डपविसर्जनं तु विवाहदिनमारभ्य यानि नवत्रिषष्ठदिनानि तानि वर्ज यित्वेतरदिने कार्यम् । पुण्याहवाचनाभिषेकान्ते पुरोधास्तच्छाखादिकं वंशपात्रे निधाय तदुपरि प्रक्षिप्ताभिषेकजलं सकुटुम्बस्य कर्तुः शिरसि किंचित्किंचित्स्रावयेत् ।
"ॐ प्रेति चेति चे० रागच्छति" इति स्रावणकाले पठेत् । एवं पुनर्द्विः । एतच्चाऽऽचारात् ।
ततः कर्ता शिरसि बद्धाञ्जलिः, अस्मद्गोत्रे षटसु षट्सु मासेसु शोभनानि सन्त्विति भवन्तो ब्रुवन्त्विति द्विजान्वदेत् । ते च त्वद्गोत्रे षट्सु षट्सु मासेषु शोभनानि सन्त्विति प्रतिब्रूयुः ।
ततो द्विजान्गन्धपुष्पफलताम्बूलदक्षिणाभिः संपूज्य तदाशिषो गृह्णीयात् । एवं वरपित्राऽपि देवकोत्थापनं कार्यम् ।
यत्तु मुहूर्तमार्तण्डटीकायां विवाहदिनमारभ्य नवत्रिषष्ठदिवसेषूद्वासनमपि[५४६] न कार्यमित्युक्तं तन्मण्डपस्य नतु देवकादेरिति द्रष्टव्यम् ।
इति मण्डपोद्वासनम् ।
अथ विवाहनिमित्तेन वर्ज्यानि ।
तत्र मातृकास्थापनमारभ्य मातृकोद्वासनपर्यन्तं कानिचिद्वर्ज्यानि कानिचित्तदुत्तरमपि[५४७] वर्ज्यानि ।
तत्राऽऽद्यानि वृद्धमनुः--
"अपसव्यं स्वधा यात्रा शीताद्भिः स्नानमेव च । |
अत्रापसव्यस्वधाशब्दाभ्यां तद्वत्कार्यं ल[५४८]क्ष्यते । अपसव्यमित्यनेनैव सिद्धे स्वधाशब्दोपादानं स्वधा पितृभ्यः स्वाहेति पितृयज्ञसहचरितवैश्वदेवनिषेधार्थम् । आचारसंवादलाभात् ।
"प्रेतदाहो दधिस्नानं स्ना[५४९]नं शीतेन वारिणा । |
इति धर्मप्रदीपवचनाच्च । यद्यपि स्वधा पितृभ्य ऊर्ग्भवेतिस्वधाशब्दवत्पितृकर्मेष्ट्यादावपि वर्तते तथाऽपि तत्र निषेधो न प्रवर्तते श्रौतस्य प्राबल्यात् । एवमाहिताग्निकर्तृकपिण्डपितृयज्ञेऽपि ।
यद्यपि देवकोत्थापनावधिककर्मण्यमान्तर्भावस्यैव निषेधेन देवकोत्थापनस्यामादिवसात्प्रागेव जायमानत्वेन निषेधावसरो नास्ति तथाऽपि केनचित्प्रतिबन्धेन देवकोत्थापनमात्रं न जायते तदैतद्द्रष्टव्यम् ।
संग्रहे--
"नित्यश्राद्धं चाध्ययनं स्नानं शीतेन वारिणा । |
नित्यश्राद्धं प्रात्यहिकं श्राद्धम् ।
गार्ग्यः--
"नान्दीश्राद्धे कृते पश्चाद्यावन्मातृविसर्जनम् । |
([५५०] संस्कारदर्पणे स्मृत्यन्तरे--
"मृत्पुण्ड्रं भस्मपुण्ड्रं च स्नानं शीतोदकेन च । |
वेदान्तश्रवणगीतापाठादिकमपि शिष्टा वर्जयन्ति । )
स्मृत्यन्तरे--
"विवाहे मेखलाबन्धे वर्षमर्धं तदर्धकम् । |
नात्र यथासंख्यमिति केचित् ।
बृहस्पतिः--
"तीर्थे विवाहे यात्रायां सङ्ग्रामे देशविप्लवे । |
([५५१]संग्रहे--
"विवाहादिकमाङ्गल्ये प्रतिष्ठायां महोत्सवे । |
अथ तदुत्तरं वर्ज्यानि ।
योगयाज्ञवल्क्यः--
"न स्नायादुत्सवेऽतीते माङ्गल्यं विनिवर्त्य च । |
कार्ष्णाजिनिः--
"विवाहव्रतचूडासु वर्षमर्धं तदर्धकम् । |
व्रतमुपनयनम् ।
हेमाद्रौ ज्योतिष्पराशरः--
"विवाहे विहितान्मासांस्त्यजेयुर्द्वादशैव हि । |
क्वचित्प्रतिप्रसवमाह स एव--
"महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । |
गयाश्राद्धपदं सर्वतीर्थश्राद्धोपलक्षणम् । क्षयाहग्रहणं नित्यानामष्टकादिश्राद्धानामुपलक्षणम् । नन्वेवं महालयेऽपि पिण्डनि[५५३]र्वपणसिद्धौ महालयग्रहणस्य व्यर्थत्वापत्तिः । अतः क्षयाहग्रहणमुपलक्षणमिति वक्तुमशक्यमिति चेन्न । महालये पिण्डदाननिषेधेन कालान्तरसद्भावात्कालान्तरे महालयानुष्ठानं स्यात्तन्माभूत्किं तु स्वकाल एव सपिण्डको महालयः कर्तव्य इत्येवं तस्य सार्थक्यसंभवात् । सपिण्डीकरणग्रहणं नवश्रा[५५४]द्धषोडशश्राद्धोपलक्षणम् । मातापित्रोरिति क्षयाहविशेषणं हविरुभयत्ववदविवक्षितं तेन भ्रातृपितृव्यादिवार्षिकेऽपि पिण्डदानं कार्यमेव ।
बौधायनोऽपि--
"विवाहे चोपनयने चौले चैव यथाक्रमम् । |
एतत्प्रतिप्रसवस्तु तर्पणप्रकरणे वक्ष्यते ।
मदनरत्ने स्मृत्यन्त[५५५]रे--
"पिण्डान्सपिण्डा नो दद्युः प्रेतपिण्डं विनाऽत्र तु । |
सत्यव्रतः--
"पित्रोरेव मृताहे तु गयायां च महालये । |
ज्योतिर्निबन्धे--
"अभ्यङ्गे सूतके चैव विवाहे पुत्रजन्मनि । |
एतच्च मासपर्यन्तम्,--
"विवाहादौ मासमेकं न धार्यं गोपिचन्दनम्" । |
इति ज्योतिर्निबन्धवचनात् ।
स्मृत्यन्तरे--
"कृत्वा विवाहं व्रतबन्धनं च वर्षं तदर्धं न च तीर्थयात्राम् । |
ज्योतिष्प्रदीपे--
"स्नानं सचैलं तिलमिश्रकर्म प्रेतानुयानं कलशप्रदानम् । |
पुत्रग्रहणेनात्र पुत्र्यपि गृह्यते । मुण्डनं क्षौरम् ।
कर्तनं तु भवत्येव,
"मुण्डनस्य निषेधे तु कर्तनं वै विधीयते" । |
इति स्मृत्यन्तरवचनात् ।
([५५८]स्मृतिरत्नाकरे संग्रहे--
"विवाहोपनयोर्ध्वं तु वर्षं वर्षार्धमेव च । |
विवाहाब्दे पुत्रस्य पुत्र्या वा विवाहकर्तुः[५६३] पित्रादेर्भार्या गर्भिणी चेत्तदा दोष उक्तः स्मृत्यन्तरे-
"उद्वाहाब्दे गर्भिणी चेत्स्वभार्या हानिर्मृत्युर्गर्भनाशो भ्रमश्च । |
पूज्येत्यत्र समासाभावेऽपि क्त्वो ल्यबादेशश्छान्दसः । दद्यादित्यत्र ब्राह्मणायेति शेषः ।)
इति वर्ज्यानि ।
अथ प्रसङ्गात्पुनर्विवाहः ।
तत्र विवाहे कृते पश्चाल्लग्नं पञ्चाङ्गशुद्धिराहित्यादिना दुष्टमिति ज्ञातं चेत्तदा ज्योतिःशास्त्रोक्तकालविशेषे पुनर्विवाहं कुर्यात् ।
श्रीधरीये नृसिंहः--
"पुनर्विवाहं वक्ष्यामि दंपत्योः शुभवृद्धिदम् । |
अत्राऽऽशौचशब्दे[५६४]न ग्रहणं ग्राह्यं तत्राप्याशौचस्य सत्त्वात् । भ्रान्त्यैतत् । आदिशब्देनोत्पाता गृह्यन्ते । गुर्वाशौचविषयं वा ।
तस्य दोषस्य शान्त्यर्थं पुनर्वैवाह्यमिष्यते । |
तस्मिन्विवाहसमये शुमदांश्च तथैव तु ॥ |
इति पुनर्विवाहवि[५६६]षयः ।
[५६७]अथ द्वितीयादिविवाहनिमित्तानि ।
तत्रेदं धर्मसूत्रम्--
"धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतान्यतराभावे कार्या प्रागग्न्याधे- |
श्रौतेषु गार्ह्येषु स्मार्तेषु च कर्मसु श्रद्धा[५६८] शक्तिश्च धर्मसंपत्तिः प्रजासंपत्तिः पुत्रवत्त्वमेवंभूते दारे सति नान्यां कुर्वीत, अन्यां नोद्वहेत् । अन्यामिति स्त्रीलिङ्गनिर्देशानुसारेण भार्यामित्यनुषज्यते । धर्मप्रजयोरन्यतराभावे कार्योद्वाह्या । तत्रापि प्रागग्न्याधेयान्नोर्ध्वमाधानात् । एतदर्थमेवेदं वचनम् । उभयसंपत्तौ न कार्येत्युक्तेऽन्यतराभावे कार्येत्यस्यांशस्य प्राप्तत्वात् । यदा[५६९] चान्यतराभावे कार्या तदा का शङ्का । उभयाभावे कार्येत्यत्र प्रागग्न्याधेयादित्यत्र हेतुः । आधाने सतीत्यादिः । आधाने सती विद्यमाना कर्मभिः संबध्यतेऽधिक्रियते । कैर्येषामग्निहोत्रादीनामेतदाधानमङ्गमुपकारकं तैः । अत्र दारे सतीतिवचनान्मृते तस्मिन्प्रागूर्ध्वं चाऽऽधानात्सत्यामपि पुत्रसंपत्तौ धर्मसंपत्त्यर्थं दारपरिग्रहणं कर्तव्यमेव ।
तथा च मनुः--
"भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि । |
याज्ञवल्क्योऽपि--
"आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन्" इति । |
ननु प्रागग्न्याधानात्कर्मभिः संबध्यते गार्ह्यैः स्मार्तैश्च तत्किमुच्यत आधाने सती कर्मभिः संबध्यत इति । सत्यम् । अस्मादेव हेतुनिर्देशादनुमीयते प्राग ग्न्याधानात्सत्यामपि धर्मसंपत्तौ प्रजासंपत्तौ च रागान्धस्य कदाचिद्दारग्रहणे नातीव दोष इति । यद्याहिताग्नेर्भार्या कर्मसु श्रद्दधाना शक्ता वा न भवति पुत्राश्च मृता अनुत्पन्ना वा तदा कर्तव्य एव विवाह इति व्याख्यातमुज्ज्वलाकृता ।
रत्यर्थे विवाहान्तरे विशेषः--
"एकामुत्क्रम्य कामार्थमन्यां वोढुं य इच्छति । |
याज्ञवल्क्यः--
"आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । |
सधनो धनतृतीयांशम्, अधनोऽशनाच्छादनात्मकं भरणं दाप्य इत्यर्थः ।
या त्वेतावता भरणेनापरितुष्टा गृहान्निर्गच्छेत्तां प्रत्याह मनुः--
"अधिविन्ना तु या नारी निर्गच्छेद्रोषिता गृहात् । |
अधिवे[५७०]दनीयोक्ता याज्ञवल्क्येन--
"सुरापी व्याधिता धूर्ता वन्ध्याऽर्थघ्न्यप्रियंवदा । |
अधिवेदनं भार्यान्तरपरिग्रहः । सुरापी मद्यपी । सुरापानेऽधिवेदनमात्रं न किंतु त्यागोऽपि, "तथा महति पातके" इति त्यागहेतुत्वेन तस्य स्मृतावभिधानात् ।
"पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत्" इति वचनाच्च । |
अत एव मनुः--
"मद्यपाऽसत्यवृत्ता च प्रतिकूला च या भवेत् । |
व्याधिता दीर्घरोगिणी । असत्यवृत्तेति पदच्छेदः ।
ब्रह्मपुराणे--
"धर्मे विघ्नकरीं भार्यामसतीं चातिकोपनाम् । |
त्यजेदधिविन्देत् । न तु भोगं परित्यजेदिति माधवः । अधिवेदने प्रतीक्षाकालं मनुराह--
"वन्ध्याऽष्टमेऽधिवेद्याऽब्दे दशमे तु मृतप्रजा । |
संग्रहे तु--
"अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् । |
कात्यायनः--
"सदारोऽन्यान्पुनर्दारानुद्वोढुं कारणान्तरात् । |
मण्डनोऽपि--
"आद्यायां विद्यमानायां द्वितीयामुद्वहेद्यदि । |
सुदर्शनभाष्ये तु द्वितीयविवाहहोमो लौकिक इत्युक्तम् । एतच्चासंभवे, ग्रामान्तरे विवाहे गृह्याग्नेस्तत्राभावाल्लौकिकाग्नावेव विवाहहोमः ।
मृतपत्नीकस्य द्वितीयादिविवाहे कालविशेष उक्तो ज्योतिर्निबन्धे--
"प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च । |
चस्त्वर्थे । अपिरेवकारार्थकः ।
तृतीयमानुषीविवाहस्य निषेध उक्तः संग्रहे--
"तृतीयां मानुषीं चैव चतुर्थीं यः समुद्वहेत् । |
मात्स्ये--
"पुत्रपौत्रादिसंपन्नः कुटुम्बी साग्निको नरः । |
तृतीयमर्कविवाहं कृत्वैव चतुर्थादिषु मानुषीविवाहः कार्यः--
"चतुर्थादिविवाहार्थं तृतीयेऽर्कं समुद्वहेत्" इति ब्रह्मपुराणात् । |
([५७२]ब्राह्मे--"आदित्यदिवसे वाऽपि हस्तर्क्षे वा शनैश्चरे । शुभे दिने च पूर्वाह्णे कुर्यादर्कविवाहकम् ॥
ग्रामात्प्राच्यामुदीच्यां वा सुपुष्पफलसंयुतम् । |
स्वशाखोक्तेन दातृशाखोक्तेन ।
"मण्डपो मातृका देवास्त्रयः पितृगणास्तथा । |
इति स्मृतिदर्पण उक्ता अष्टवर्गाः ।)
अथ तस्य प्रयोगः ।
कर्ताऽऽदित्यवारे हस्तनक्षत्रे शनिवासरे वा यस्मिन्कस्मिंश्चिच्छुभदिने वा पूर्वाह्णे ग्रामात्प्राच्यामुदीच्यां वा दिशि विद्यमानं सुपुष्पफलशाखाढ्यं स[५७५]ल्लक्षणमेकमर्कं परीक्ष्य स्नात्वाऽलंकृतोऽहतवासा आरक्तगन्धादिभूषितोऽर्कसंनिधिमागत्य तं संस्नाप्य वास[५७६]सा संवेष्ट्याऽऽरक्तगन्धादिभिर्भूषयित्वाऽर्ककन्यादानार्थमेकं विप्रमाचार्यत्वेन परिकल्प्यार्कसमीप एव मधुपर्कपर्यन्तं स यथा दृष्टिगोचरो न भवेत्तथोपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम तृतीयमानुषीविवाहसूचितदोषनिरसनपूर्वकतृतीयमानुषीविवाहाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं स्वस्य तृतीयमर्कविवाहं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं[५७७] हिरण्येन नान्दीश्राद्धं च विधायार्कस्योत्तरतो होमार्थं स्थण्डिलमुपकल्पयेत् ।
ततो दाता वरेणोपकल्पितया मधुपर्कसामग्र्योष्णीषादिभिर्हस्तकर्णादिभिर्भूषणैश्चार्कप्रतिग्रहीतारं पूजयेत्[५७८] । प्रतिग्रहीतृशाखया मधुपर्कः स्वशाखया वा ।
ततः प्रतिग्रहीता--
"त्रिलोकवासिन्सप्ताश्व च्छायया सहितो रवे । |
"ॐ आ सत्येन रजसा० विपश्यन्" "ॐ आपो हि ष्ठा०" इति । |
सर्वान्तेऽभिषिच्याऽऽ सत्येनेत्येतेनैव मन्त्रेण वस्त्रोपवीतमाल्यगन्धपूष्पधूपदीपैः संपूज्य गुडौदनं निवेद्य ताम्बूलादि समर्पयेत् ।
"मम प्रीतिकरा येयं मया स्पृष्टा पुरातनी । |
इत्यर्कं प्रदक्षिणी कुर्वन्पठित्वा--
"नमस्ते मङ्गले देवि नमः सवितुरात्मने । |
इति पुनः प्रदक्षिणां कुर्यात् ।
ततोऽर्ककन्यावरणम् । प्रतिग्रहीतृपक्षीया अमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रा[५८१]य काश्यपगोत्रामादित्यस्य प्रपौत्रीं सवितुः पौत्रीमर्कस्य पुत्रीमिमामर्ककन्यां वृणीमह इति वदेयुः । वृणीध्वमित्याचार्यः प्रतिवदेत् । एवं पुनर्द्विः ।
ततो वरः सुमुहूर्ते "ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः०" "ॐ अष्टौ देवा क्सवः सोम्यासः०" इति मन्त्रौ पठन्नर्कं निरीक्षेत्(त)।
तत आचार्यप्रमुखैराशीर्घोषवद्भिर्द्विजैर्युतोऽर्ककन्यादानार्थं कल्पितमाचार्यं स्वसमीप आहूयोपविश्य तस्मात्तां विधिवत्प्रतिगृह्णीयात् । स विधिर्यथा--
आचार्यः संकल्पपूर्वकं पूर्ववन्नामगोत्रादिकमुच्चार्येमामर्कनाम्नीं कन्यां तृतीयमानुषीविवाहसूचितदोषनिरसनपूर्वकतृतीयमानुषीविवाहाधिकारसिद्धये तुभ्यमहं संप्रदद इति दद्यात् ।
प्रतिग्रहीता प्रतिगृह्णामीति प्रतिगृह्णीयात् । एवं पुनर्द्विः ।
तत आचार्यः प्रतिग्रहीतारं प्रार्थयेत्--
"अर्ककन्यामिमां विप्र यथाशक्तिविभूषिताम् । |
ततः प्रतिग्रहीता तूष्णीमेव विवाहवत्कङ्कणबन्धनपूर्वकमञ्जल्यक्षतारोपणं कृत्वा यावत्पञ्चवृत्तं सूत्रं तावदासत्येनेतिमन्त्रेण गायत्र्या वाऽर्कं संवेष्टयेत् । एतस्यर्ष्यादिकं पूर्ववत् । संवेष्टने विनियोग इति विनियोगे विशेषः । गायत्र्या ऋष्यादिकं तु संध्याप्रकरण उक्तम् । संवेष्टने विनियोग इति विनियो[५८२]गवाक्यम् । तूष्णीमेव संवेष्ट्य जपेदिति वा । अस्मिन्कल्पे जपे विनियोग इति विनियोगवाक्ये विशेषः ।
ततस्तत्सूत्रं पुनः पञ्चधा कृत्वाऽर्कस्य वामस्कन्धे--बृहत्सामेत्यस्य मन्त्रस्य विश्वे देवा इन्द्रो जगती । अर्कस्कन्धे सूत्रबन्धने तदुपरि भस्मप्रक्षेपणे च विनियोग इति स्मृत्वा, 'ॐ बृहत्साम० रक्ष' इति बद्ध्वैतेनैव तस्मिन्सूत्रे भस्म प्रक्षिपेत् ।
ततस्तां नीराज्य(नीराजयित्वा) यथाविभवं भूषणैर्भूषयेत् ।
ततोऽर्कस्य प्रागादिदिक्षु क्रमेण मही द्यौरिति भूमिं स्पृष्ट्वा, ओषधय इति तण्डुलपुञ्जान्कृत्वा, आजिघ्रेति कलशान्संस्थाप्य, तथैवाऽऽग्नेयादिदिक्षु संस्थापयेत् ।
ततः स्थापितानष्टौ कलशान्प्रत्येकं वस्त्रसूत्राभ्यां वेष्टयित्वेमं मे गङ्ग इति हरिद्रागन्धयुक्तशीतलजलेनाऽऽपूर्य तेषु प्रत्येकं गन्धादिकं तत्तन्मन्त्रैर्निक्षिप्य पूर्णपात्रैरपिदधाति, सर्वत्र मन्त्रावृत्तिः ।
ततस्तेषु नाममन्त्रेणैव महाविष्णुमावाह्याऽऽसनाद्यैरुपचारैः पू[५८३]जयेत् ।
ततोऽर्कस्योत्तरत उपकल्पितस्य स्थण्डिलस्य पश्चादुपविश्यार्कं संस्पृशन्स्थण्डिलस्यो[५८४]द्धननोल्लेखनादिविधिना संस्कारं विधाय तत्र योजकनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्वात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणाया मान्तं कृत्वाऽर्कविवाहहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तं [५८५]प्रसाधनीदेव्यन्तं वोक्त्वा प्रधानहोमे बृहस्पतिम[५८६]ग्निमग्निं वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा । अङ्गहोमे वरुणं द्वाभ्यामित्यादि अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्यादि वा व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कुर्यात् ।
ततः प्रधानहोमः । सं गोभिरित्यस्याङ्गिरा बृहस्पतिस्त्रिष्टुप् । अर्कविवाहप्रधानाज्यहोमे विनियोगः--
"ॐ सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । |
बृहस्पतय इदं ।
यस्मै त्वेत्यस्य वामदेवोऽग्निस्त्रिष्टुप् । अर्कविवाहप्रधानाज्यहोमे विनियोगः--
"ॐ यस्मै त्वा काम कामाय वयं सम्राड्यजामहे । |
व्यस्तसमस्तव्याहृतीनां विश्वामित्रो जमदग्निर्भरद्वाजो भृगुरिति क्रमेण ऋषयः । अग्निर्वायुः सूर्यः प्रजापतिरिति क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहतीति क्रमेण च्छन्दांसि । अर्कविवाहप्रधानाज्यहोमे विनियोगः--
'ॐ भूः स्वाहा' अग्नय इदं० । 'ॐ भुवः स्वाहा' वायव इदं० । 'ॐ स्वः स्वाहा' । सूर्यायेदं । 'ॐ भूर्भुवः स्वः स्वाहा' । प्रजापतय इदं० ।
ततोऽन्वाधानोत्कीर्तितपक्षानुसारेणाङ्गहोमादि स्विष्टकृदादि वा सर्वं होमशेषं समापयेत् । नात्र त्रिवृदन्नहोमः ।
ततोऽर्कं प्रदक्षिणीकृत्य--
"मया कृतमिदं कर्म स्थावरेषु जरायुणा । |
इति तं संप्रार्थ्य, शं नो वात इति शान्तिं पठित्वा गोयुग्ममाचार्याय दत्त्वेतरेभ्योऽपि विप्रेभ्यो यथाशक्ति दक्षिणां दद्यात् ।
तत आचार्यः स्थापितकुम्भस्थाभिरद्भिः सार्कं प्रतिग्रहीतारमभिषिञ्चेत् ।
ततः प्रतिग्रहीता तानि वासांसि त्यक्त्वाऽन्यानि धारयेत् । त्यक्तानि वासांस्याचार्यस्य । ततः पञ्चमदिवसे पूर्ववदर्कं संपूज्य विसृज्याग्निं संपूज्य पुण्याहादि वाचयित्वा ब्राह्मणान्संभोज्य भूयसीं दत्त्वाऽर्कभूषणवस्त्रादि ब्राह्मणाय दत्त्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् ।
ततो मानुषीं विधिनोद्वहेत् । अयं च[५८७] बाह्वृचो होमविधिरिदानीं बौधायनोक्तहोमविधेरनुपलम्भादुक्तः ।
अयं चार्कविवाहः काश्यपगोत्रिणो न भवति गोत्रैक्यादिति केचित् । अत्र गोत्रैक्यं न दोषायेत्यन्ये । काश्यपगोत्रो वरः स्वगोत्राविरुद्धगोत्रिणमाचार्यं परिकल्प्य तस्मादर्कं प्रतिगृह्णीयात् । आचार्यस्तु सूर्येण दत्तां विभाव्य वरणादौ काश्यपगोत्रस्थाने स्वगोत्रं कन्याविशेषणत्वेन संकीर्त्याऽऽदित्यसवित्रर्कशब्दस्थाने स्वपितामहपित्रोः स्वस्य च क्रमेण नामानि संकीर्तयेत् । एवंरीत्यैव काश्यपगोत्रवरस्यार्कविवाहो नि[५८८]र्वाह्यो भवतीति युक्तं चेत्स्वीकार्यं सूरिभिः ।
इत्यर्कविवाहः ।
अथाग्निद्वयसंसर्गविधिः ।
तत्रेदं बौधायनसूत्रम्--
"अथ यदि गृहस्थः सदारो द्वितीयां भार्यां वि[५८९]न्देत कथं तत्र कुर्यादिति ज्येष्ठभार्याविवाहहोमो यदि दूरे लौकिकाग्नौ यस्मिन्काले विन्दतो [५९०]ऽग्नीततो द्वादशाहं त्रयोदशाहं वोभावपि परिचरेदपराग्निमुपसमाधाय संपरिस्तीर्याऽऽज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा द्वितीयायां भार्यायामन्वारब्धायां जुहोति नमस्त ऋषे गदा० एवाब्रह्मन्तवेदस्तु स्वाहेत्यथायं ते योनिर्ऋत्विय इति तं समिधि समारोपयेत् । पूर्वाग्निमुपसमाधायाऽऽजुह्वान उद्बुध्यस्वेति द्वाभ्यां तां समिधमाधाय संपरिस्तीर्य स्रुचिचतुर्गृहीतं गृहीत्वा द्वयोर्भार्ययोरन्वारब्धयोस्तदभिमृशति यो ब्रह्मा ब्रह्मण इत्येतेन सूक्तेन जुहोति चैतेन तत आऽग्निमुखात्कृत्वा पक्वाज्जुहोति समित संकल्पेथा[५९१]मिति पुरोनुवाक्यामनूच्याग्ने पुरीष्येति याज्यया जुहोत्यथाऽऽहुतीर्जुहोति पुरीष्यस्त्वमित्याऽन्तादनुवाकस्य स्विष्टकृत्प्रभृति सिद्धमा धेनुवरप्रदानादथाग्रेणाग्निं दर्भस्तम्बे हुतशेषं निदधाति ब्रह्म जज्ञानं पिता विराजामिति द्वाभ्यामेवमनुष्ठानतन्त्रता परिसिध्यतीत्याह भगवान्बौधायनः" इति ।
अथ प्रयोगः ।
कर्ता द्वितीयविवाहहोमकाले वेद्यां स्थण्डिलं कृत्वोल्लेखनादिसंस्कारान्विधाय तत्र पूर्वभार्याया गृह्याग्निं योजकनामानमग्निं प्रतिष्ठापयामीति प्रतिष्ठाप्य तत्र द्वितीयविवाहहोमः कार्यः । प्रतिगृहीतायां वध्वां भार्यात्वसिद्धिद्वारेत्येतावानेवोल्लेखः । गृह्याग्नेरसांनिध्याल्लौकिकाग्नौ क्रियायां तु [न] भवत्येतस्याप्युल्लेखः । यस्मिन्काले द्वावप्यग्नी संनिहितौ भवतस्तत आरभ्य द्वादशाहं त्रयोदशाहं वोभावप्यग्नी होमादिभिः पृथक्परिचरेत् ।
ततस्तदग्रिमे दिने प्रातर्होमद्वयानन्तरमग्निद्वयसंसर्गं कुर्यात् । इदं च परिचरणं द्वादशाहमध्ये त्रयोदशाहमध्ये वा स्थालीपाकस्याप्राप्तौ ज्ञेयम् । यदि त्वन्वारम्भणस्थालीपाकः कर्तव्यो भवति तदा तं कृत्वैव कार्यः ।
ततः प्राङ्मुखः पत्नीभ्यां सहोपविश्याऽऽचम्य प्राणानायंम्य देशकालौ संकीर्त्य मम गृह्याग्निसाध्यानां कर्मणां तन्त्रेणानुष्ठानसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृह्याग्निद्वयसंसर्गमहं करिष्य इति संकल्प्य तदङ्गं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च विदध्यात् । इन्द्रादयः प्रीयन्तामिति तत्र विशेषः ।
ततः स्थण्डिलद्वयमुदक्संस्थं कृत्वा स्वं स्वमग्निं पत्नीभ्यामानीतं स्थण्डिलयोरुत्तरतः पृथङ्निधाय दक्षिणस्थण्डिलस्योल्लेखनादिसंस्कारं विधाय तत्र द्वितीयविवाहाग्निं संस्थाप्य प्रज्वाल्य परिस्तीर्योत्तरतो दर्भान्संस्तीर्य स्रुवं दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं समिधं चाऽऽसाद्य पवित्रकरणाद्याज्यसंस्कारान्तं कृत्वाऽऽसादितां समिधमभ्याधाय स्रुवेण दर्व्यां चतुर्गृही[५९२]तं[५९३] गृहीत्वा द्वितीयभार्यान्वारब्धो नमस्त ऋषे गदेत्यस्य सोम इन्द्रो बृहती । होमे विनियोगः । 'ॐ नमस्त ऋषे०न्तवेदस्तु स्वाहा' इति जुहोति । इन्द्रायेदं० ।
ततः खादिर्या(रा)द्यन्यतमसमिधं शुद्धोदकेन प्रोक्ष्य तस्यां समिधि द्वितीयभार्यान्वारब्धः, अयं ते योनिरित्यस्याग्निरग्निरनुष्टुप् । समारो[५९४]पणे विनियोगः । 'ॐ अयं ते० रयिम्' इति तं समारोपयेत् ।
ततस्तां समिधं द्वितीयभार्याहस्ते दत्त्वोत्तरस्थण्डिलस्योद्धननादि कृत्वा तत्र प्रथमविवाहाग्निं संस्थाप्य प्र[५९५]ज्वलयित्वा(प्रज्वाल्य), आजुह्वान इत्यस्याग्निरग्निस्त्रिष्टुप् । उद्बुध्यस्वाग्न इत्यस्याग्निरग्निस्त्रिष्टुप् । समारूढाग्निकसमिदभ्याधाने विनियोगः--'ॐ आजुह्वानः सु प्र०सीदत' 'ॐ उद्बुध्यस्वा०तन्तुमेतम्' इति समारूढाग्निकां समिधमभ्याधाय परिस्तीर्य परिषिच्यालंकृत्य पूर्वसंस्कृतादाज्यादन्यमा(दा)ज्यं संस्कृतं तस्मात्पूर्वाज्याद्वा स्रुवेण दर्व्या चतुर्गृहीतं गृहीत्वा--यो ब्रह्मा ब्रह्मण इत्यष्टर्चेनाऽऽयुष्यकल्पपठितेन घृतसूक्तेन पत्नीभ्यामन्वारब्धस्तदाज्यमभिमृशति ।
"ॐ यो ब्रह्मा ब्रह्मण उज्जभार प्राणेश्वरः कृत्तिवासाः पिनाकी । |
इत्यभिमृश्यैतेनैव सूक्तेन प्रत्यृचं स्वाहान्ते तदाज्यं जुहोति । ब्रह्मण इदं० १ । देवायेदं० २ । ज्योतिष इदं० ३ । विद्याया इदं० ४ । दाक्षायणीभ्य इदं० ५ । दिव्येभ्यो गणेभ्य इदं० ६ । देवायेदं० ७ । वसुभ्यो रुद्रेभ्य आदित्येभ्यो मरुद्भ्यः साध्येभ्य ऋभुभ्यो यक्षेभ्यो गन्धर्वेभ्यः पितृभ्यो भृगुभ्यः सर्पेभ्योऽङ्गिरोभ्य इदमिति क्रमेण त्यागः ।
पूर्वत्र समन्त्रकपरिषेकेऽत्रोत्तरः परिषेकः कार्यः । ततश्चत्वारि शृङ्गेति ध्वात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा गृह्याग्निद्वयसंसर्गहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा, प्रधानहोमे--अग्निं पुरोनुवाक्यायाज्याभ्यामेकया चर्वाहुत्या यक्ष्ये । अग्निं जातवेदसौ पृथिव्यादीनग्निं वैश्वानरं चैकैकयाऽऽज्याहुत्या यक्ष्ये । निर्ऋतिं पञ्चभिराज्याहुतिभिर्यक्ष्ये । उदकस्पर्शः । इन्द्रमेकयाऽऽज्याहुत्या यक्ष्ये । भूमिकर्षकरूपाग्निं षड्भिराज्याहुतिभिर्यक्ष्ये । कामदुघं सीतां चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा, अन्वाधानोत्कीर्तितपक्षानुसारेणाङ्गहोमे वरुणं द्वाभ्यामित्यादि, अग्निं स्विष्टकृतं हुतशेषचर्वाहुत्या यक्ष्य इत्यादि वा, आत्मन्यग्निग्रहणान्तं कृत्वोत्तरेणाग्निं दर्भान्संस्तीर्य तत्र स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं चरुस्थालीं मे[५९६]क्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलमुपवेषं संमार्गदर्भानिध्मं बहिरवज्वलनदर्भानाज्यं चाऽऽसादयेत् ।
ततो ब्रह्मवरणादि । चरुकल्पेन चरुं श्रपयित्वा स्रुवदर्व्यौ संमृज्याऽऽज्यसंस्कारं कुर्यात् । तत्र पर्यग्निकरणकाले चरुणा सहाऽऽज्यं पर्यग्नि कुर्यात् ।
ततः परिधीन्परिधाय शृतं चरुमभिघार्योदगुद्वास्य बर्हिषि निधाय परिषेकादिव्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वाऽन्वाधानोत्की[५९७]र्तनानुसारेण कृत्वा प्रधानहोमं कुर्यात् । दर्व्यामुपस्तीर्य मेक्षणेन मध्यात्पूर्वार्धाच्च चरोरङ्गुलपर्वमात्रमवदाय, पञ्चावत्ती चेत्पश्चार्धात्तृतीयमवदाय, स्रुवेणावत्तमभिघार्य शेषं प्रत्यज्य पत्नीभ्यामन्वारब्धः,
समितमित्यनयोरग्निर्ऋषिः । अग्निर्देवता । गृह्याग्निद्वयसंसर्गप्रधानचरुहोमे विनियोगः । 'ॐ समित संकल्पे० न्याकरम्' । 'ॐ अग्ने पु० धेहि स्वाहा' इति पुरोनुवाक्यायाज्याभ्यां जुहोति । अग्नय इदं० ।
अथवैकश्रुत्येन प्रथमामृचमुक्त्वा त्रिमात्रं प्रणवं संयोज्य तेन सहैकश्रुत्येन द्वितीयामृचमुक्त्वाऽन्त्यं स्वरं प्लावयित्वा स्वाहाकारेण जुहुयात् ।
यथा-- 'ॐ समित संक० स्यमानौ । इषमूर्जमभिसं० त्तान्याकरो३मग्ने पुरी० त्वं नः । इषमूर्जं यजमानाय धेही३ स्वाहा" इति ।
पञ्चावत्तिनस्तु--
पुरीष्यस्त्वमित्यादीनामष्टादशानां मन्त्राणामग्निर्ऋषिः । प्रथमस्याग्निर्दे वता, द्वितीयस्य जातवेदसौ, तृतीयस्य पृथिव्यादयः, चतुर्थस्याग्निर्वैश्वानरः, पञ्चमादीनां पञ्चानां निर्ऋतिः, दशमस्येन्द्रः, एकादशादीनां षण्णां भूमिकर्षकरूपोऽग्निः, सप्तदशस्य कामधुक्, अष्टादशस्य सीता । प्रथमस्यानुष्टुप् । द्वितीयस्य पञ्चपदा पङ्क्तिः । तृतीयस्य त्रिष्टुप् । चतुर्थस्यानुष्टुप् । पञ्चमादीनां षण्णां त्रिष्टुप् । द्वादशत्रयोदशयोर्गायत्री । चतुर्दशस्य त्रिष्टुप् । पञ्चदशस्य पञ्चपदा पङ्क्तिः । षोडशस्य त्रिष्टुप् । सप्तदशस्य विराडनुष्टुप् । अष्टादशस्य त्रिष्टुप् । गृह्याग्निद्वयसंसर्गप्रधानाज्यहोमे विनियोगः--
"ॐ पुरीष्यस्त्व० सदः स्वाहा" अग्नय इदं० । |
पञ्चसूदकस्पर्शः ।
"ॐ निवेशनः संगमनो० पथीना स्वाहा" इन्द्रायेदं० । |
ततो दर्व्यामुपस्तीर्य मेक्षणेनैव चरोरुत्तरार्धादङ्गुष्ठपर्वतोऽधिकमवदाय, पञ्चावत्ती चेद्द्विरवदाय द्विरभिघार्य न हविः प्रत्यभिघारयति--"ॐ यदस्य कर्मणोऽत्यरीरिच० समर्धयित्रे स्वाहा" इत्यैशान्यां जुहोति । अग्नये स्विष्टकृत इदं न मम । ततो मेक्षणमनुप्रहृत्य संस्रावेणाभिजुहोति । न वा मेक्षणप्रहरणम् । अयं चावदानधर्मो भाष्यकृदभिमतः । अन्येषां मते तु न । अवदानधर्माभावे सुवासादनं नास्ति ।
ततः शुल्बप्रहरणादि समानम् । अत्र दक्षिणा धेनुः । दक्षिणादानोत्तरमग्रेणाग्निं दर्भस्तम्बं निधाय, ब्रह्म जज्ञानं पिता विराजामित्यनयोर्मन्त्रयोर्विश्वे देवा ब्रह्म त्रिष्टुप् । हुतशेषस्थापने विनियोगः--'ॐ ब्रह्म जज्ञानं प्रथमं० विवः' 'ॐ पिता विराजा० वर्धयन्तः' इति द्वाभ्यां तत्र हुतशेषं संस्थापयेत् ।
ततोऽग्निं संपूज्य भस्म धृत्वा भूयसीं दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
अत्र केचित्पृथगौपासनाग्निधारणहोमादिष्वशक्तस्यायं विधिः, शक्तस्य तु पृथगेव धारणादीति वदन्ति तन्न । अदृष्टकार्येषु शास्त्रं विनेच्छया पक्षान्तरस्वीकारस्यायुक्तत्वात् । तदा पृथग्धारणपुरःसरहोमादिबोधकशास्त्रस्याभावात् । शास्त्राभावेऽपीच्छया शास्त्रविरुद्धपक्षाश्रयणे दोषदर्शनात् ।
तथा च संग्रहे--
"बौधायनादिभिः प्रोक्तं विधानं धर्मनिर्णये । |
तथा च व्रतं समाप्य द्वादशाहं त्रयोदशाहं वा पृथगग्निधारणं तत्र होमं[६०१] च कुर्यात् । अन्यतरस्या मरणदशायां तु, औपासनाग्निं विभज्यैकं भागं तदीय एवायमग्निरिति विभाव्य तेन भागेन तां संस्कुर्यात् । विद्यमानभार्याग्निभाग एवौपासनादि चरेत् । आत्मार्थमौपासनाग्न्येकदेशधारणमिति पक्षे तत्राप्येवमेवौपासनहोमादि ।
इति संस्काररत्नमालायामर्कविवाहाग्निद्वयसंसर्गप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां द्वादशं प्रकरणम् ॥ १२ ॥
- ↑ ग. वान्जा ।
- ↑ क. णं दैव ।
- ↑ ग. एवं ।
- ↑ क. न शास्त्रेण सं ।
- ↑ क. स्कृतम् ।
- ↑ क. न । य ।
- ↑ क. त्वसामान्येन दृ ।
- ↑ ग. घ. रेण सामान्येन दृ ।
- ↑ क. पि स ।
- ↑ दृ. वर्णार्था भ ।
- ↑ ङ. पुस्तक इत आरभ्य वाक्यत्रये तत्पुरुषशब्दस्थाने तत्पुत्रशब्दो वर्तते ।
- ↑ ग. घ. ञ्चमोऽपि वा ।
- ↑ घ. ङ. त् । गा ।
- ↑ ख. ङ. त्रादिवि ।
- ↑ ख. ग. ड. बन्धवि ।
- ↑ ख.ङ. ब्दभेदकः । मि ।
- ↑ ग. घ. दकः । मि ।
- ↑ अत्र क. पुस्तकटिप्पण्यां वेतसेति पाठः ।
- ↑ ग. दतसे ।
- ↑ ङ वैर्न मनु ।
- ↑ क. ग. घ.व्यत्वे कि ।
- ↑ ग. पृथुव ।
- ↑ ड. स्तुत्थाग्नि ।
- ↑ ग. सीर्द्वन्द्व' ।
- ↑ क. ख. घ. तुत्त्थ आ ।
- ↑ क. ङ. त्तरतः प्र ।
- ↑ ड. त्रदैवश्रवसदैवतरसेति देवतरसवद्देवश्रवोवद्विश्वामित्रवदित्यथाजामा ।
- ↑ ग. घ. रेभ्यव ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके--"एवं च विवाहे क्षत्त्रियाणां वैश्यानां च पौरोहित्यप्रवरैक्यप्रयुक्त एव निषेधो न तु स्वप्रवरैक्यप्रयुक्त इति सिद्धम् । कर्मणि वरणादौ भवतु विकल्पः । उक्तसूत्रस्य कर्माधिकारे प्रवृत्तेः । सोऽपि व्यवस्थितः । एषां कुले यादृशं वरणमागतं तथैव कर्तुमुचितमिति विप्रेष्वपि व्यवस्थादर्शनात्" इति प्रन्थो वर्तते ।
- ↑ क. कृता ।
- ↑ क. ख. ग. घ. प्रति ।
- ↑ ङ. स्य प्रवरस्य प्र ।
- ↑ क. च्यते । मा ।
- ↑ ख. घ. लेस्वना । ग. लेश्वना ।
- ↑ ड. प्रत्तायनाः ।
- ↑ ख. ग. दाध्वष । ड. दाध्रेष ।
- ↑ ख. ग. बाध्रा ।
- ↑ क. वाल्मिकिः ।
- ↑ ग. ङ. शौर्द्धक ।
- ↑ दृ. पार्काय ।
- ↑ ड. वायन ।
- ↑ ड. नोधेया ।
- ↑ ख. यज्ञिया ।
- ↑ ड. लिर्बहु ।
- ↑ ड. वा व ।
- ↑ ड. वत्स्यायनाः ।
- ↑ ड. नलायना ।
- ↑ ड. पार्षित ।
- ↑ ड. अजिहीता ।
- ↑ ङ. गालवः ।
- ↑ ग. ड. भ्रास्त्रेयाः ।
- ↑ ख. सौष्णिक । ग. सैष्यक । ड. सौष्पिक ।
- ↑ ड. तयो जैक ।
- ↑ ग. निष्ठयो ।
- ↑ ड. ञ्चाश्चैक्षाः ।
- ↑ क. वात्यात्के । ग. बाध्यात्केयाः ।
- ↑ ड. स्योपाः ।
- ↑ ड. मघोदाः ।
- ↑ ड. नारा ।
- ↑ क. रब्ध्वजि । ख. रब्धजि । ग. रवध्व ।
- ↑ ड. पर्णसौसधिः ।
- ↑ ग. ड. कृद्बिल ।
- ↑ ङ. स्वातुम ।
- ↑ ड. कोबहु ।
- ↑ ग. शाखपौ ।
- ↑ ड. पौणेयो ।
- ↑ ड. नो माद्ग ।
- ↑ ख. वरवचः । ग. वरववचः ।
- ↑ ड. नषाग ।
- ↑ क. र्नैकृट्यि. ।
- ↑ ड. त्र जा ।
- ↑ क. दग्न्यबि ।
- ↑ ड. भ्राजः ।
- ↑ क. ख. ग श्यैता ।
- ↑ ख. यस्काः ।
- ↑ मार्ध्यमे ।
- ↑ ङ. क्रौविल्याः ।
- ↑ ङ. गौरिक्षिताः ।
- ↑ ड. ता दीर्घ ।
- ↑ ख. ग. पौष्यव । ङ. पौष्णाव ।
- ↑ ड. श्यपिवलिपिः ।
- ↑ ङ. र्भागत ।
- ↑ ङ. पः स्वानुस्वपो ।
- ↑ ग. भिर्बाहेयो । ङ. भिर्बह्वेयो ।
- ↑ ङ. दीर्घचित्तः ।
- ↑ ग. यास्कः ।
- ↑ ख. ग. र्ऋषयो ।
- ↑ ड. वार्ष्टि ।
- ↑ ख. ङ. सह पा ।
- ↑ ख. ङ. धसयोः प ।
- ↑ क. नमाथि ।
- ↑ क. रेष्ट्याना. ।
- ↑ ड. सापिण्डानाः ।
- ↑ क. साचार्या ।
- ↑ ङ रास्थाय ।
- ↑ ङ. आपिशलाः ।
- ↑ क. पुस्तकेऽत्र "आपिच्छला." इत्यपि बहिर्लिखितः पाठः ।
- ↑ ड. यणा सा ।
- ↑ ख. सासा ।
- ↑ ख. ङ. ति । वीतहव्यवैन्यगार्त्समदवाघ्र्यश्वानां ।
- ↑ ग ह । माण्ड ।
- ↑ ग. र्मिणाम्" इ।
- ↑ ड. त्रिधावि ।
- ↑ ङ. णिविधा।
- ↑ ख. ङ. त्यकट्यो ।
- ↑ ड. लपः का ।
- ↑ ग. कठोरयः । ङ. काटोरयः ।
- ↑ ख. रहग । ग. राहूगणाः ।
- ↑ ड. षण्या नै ।
- ↑ ख. पौष्पिण्डव । ग. पोष्पण्डयो । ड. पौष्पिण्डयो ।
- ↑ ग. भाबलाः । ड. भागलाः ।
- ↑ ग. स्तौक्षयो ।
- ↑ ङ. क्षमा ।
- ↑ ग. णवः क । ङ. णयः क ।
- ↑ ड. नयोऽरु ।
- ↑ ड. पमन्याः ।
- ↑ ख. ड. रेस्वय ।
- ↑ क. ति । अया ।
- ↑ ग. रः । भर ।
- ↑ ड. न्ना बाह्यो ।
- ↑ ख. ह्योगाः कसी ।
- ↑ ड. गा वसी ।
- ↑ ग. ङ.शौद्धय ।
- ↑ ख. रूढा रवार । ड. रूढा रवारिग्री ।
- ↑ ख ज्वकाषा ।
- ↑ ड. भद्राद ।
- ↑ ड. हरयो ।
- ↑ ड. यो बल ।
- ↑ ग. शालप्तयः । ड. शाललयः ।
- ↑ ग. ड. कौण्डाय ।
- ↑ छ. षायणाः का ।
- ↑ ग. ड. यनयो जै ।
- ↑ ड. यनः सा ।
- ↑ ख. लाम्भाय ।
- ↑ क. आयस्त ।
- ↑ ख. यो वाह्य ।
- ↑ ड. शादिक ।
- ↑ ख. ड. लोहराः ।
- ↑ ख. वाः सौभ ।
- ↑ ङ विकाराः ।
- ↑ ड. माधूक ।
- ↑ ख. ड. त्रया रवार ।
- ↑ ख. यो व ।
- ↑ ख. ङ. गोरवपि ।
- ↑ ग. म्बकायो । ड. म्बह्वयो ।
- ↑ ङ. श्वाः काम ।
- ↑ ग. यना मा । ड. यनयो मा ।
- ↑ क. ति । भर ।
- ↑ क. ख. यनः क ।
- ↑ क. कुशीददयः ।
- ↑ ड. दतर ।
- ↑ क. जढयः ।
- ↑ ड. रससा ।
- ↑ ड. रसपा ।
- ↑ ङ. रससा ।
- ↑ ङ. रबा ।
- ↑ क. क्रोष्ट्रक्रयः । ख. क्रोष्ट्रकयः ।
- ↑ ख. पश्चयो वा ।
- ↑ ड. या वत्पात ।
- ↑ ड. सांपारि ।
- ↑ ड. राचारा ।
- ↑ ख. तो वासा ।
- ↑ ख. विद्य औ ।
- ↑ ङ. मात्रव ।
- ↑ ड. राभु ।
- ↑ ड. भागा नै ।
- ↑ ड. मत्स्या ।
- ↑ ग. थो गावे ।
- ↑ ख. ड. दादंला । ग. दान्दला ।
- ↑ ग. ड. न्धा बीजि ।
- ↑ ड. श्रवसो भा ।
- ↑ ड. भरुडाः ।
- ↑ ड. रमणीः । ग. रमण्याः ।
- ↑ ङ. सणाः ।
- ↑ ड. गर्दभाः ।
- ↑ ख. यना रा ।
- ↑ ख. रिणा ना । ङ. रिणा आ ।
- ↑ ख. यना भै ।
- ↑ ख. क्षवीवा ।
- ↑ ड. इत्येते ।
- ↑ ख. ग. यो वाद ।
- ↑ ख. ड. वैहोठा ।
- ↑ ग. ड. होत्रिणाः ।
- ↑ ड. कालम्भा ।
- ↑ अत्र यकाररहितोऽपि पाठो बहिर्लिखितोऽस्ति क. पुस्तके ।
- ↑ ग. ला बिडा ।
- ↑ ड. दय आग्न्या ।
- ↑ क. ख. ग. ते चत्वा ।
- ↑ ड. श्छाङ्गेयाः ।
- ↑ ड. मालरूचो ।
- ↑ ख. वव्ययः ।
- ↑ ङ. व्यायनः का ।
- ↑ कामर्या ।
- ↑ ख. साक्षात्रेयाः ।
- ↑ ड. रजयो ।
- ↑ ख. त्राणाः । ग. त्रायिणाः ।
- ↑ ख. त्वाहमित्राः ।
- ↑ ङ. ञ्जयो भा ।
- ↑ ख. ड वलदा ।
- ↑ ख दा अ ।
- ↑ ड. भगपा ।
- ↑ ख. णा वाद ।
- ↑ ख. लेपोऽरु । ग. लेया अरु ।
- ↑ ख. त्तात्रैयाः ।
- ↑ ड याः शोधू ।
- ↑ ड. यो व्याघ्र्य ।
- ↑ ख. यः का ।
- ↑ ङ. प्लक्षयः ।
- ↑ क. ग. ण्याः । इ ।
- ↑ ड. अर्णवाः ।
- ↑ क. ति । केचि ।
- ↑ ख. लेयाः कौ ।
- ↑ ड. शेश्रियाः ।
- ↑ क. लपय ।
- ↑ ग. ह्वयोऽपष्यण्याः का ।
- ↑ ड. लोकाः ।
- ↑ ङ. राः सोम ।
- ↑ ग. मत्स्याश्चि ।
- ↑ ग. ड. बाभ्रवाः ।
- ↑ ड. लयो गा ।
- ↑ ख. ग. ड. वलश ।
- ↑ ड. पाजयः ।
- ↑ ड. मेषा आ ।
- ↑ ख. वमेति । ड. वमेति ।
- ↑ ड. नरेव ।
- ↑ ग. ना देव ।
- ↑ ख. स्तार्प्स्याय । ग. स्तार्क्ष्याय । ड. स्तार्प्त्स्याय ।
- ↑ ड. ना गङ्गा ।
- ↑ ड. गोदन ।
- ↑ ड. यो रात ।
- ↑ ड. यो नेतु ।
- ↑ ख. ड. वागुले ।
- ↑ क. फणुलाः ।
- ↑ ड. ओदलाः ।
- ↑ ङ णुवः । इ ।
- ↑ ड. णुव इ ।
- ↑ ख. ग. द्वौ, वैश्वा ।
- ↑ क. ख. ग. शायङ्का ।
- ↑ ख. हृद्यया ।
- ↑ डः भाः शाण्डि ।
- ↑ ङ. मण्डरा ।
- ↑ ङ. रा एति ।
- ↑ ख. यस्याश्छा ।
- ↑ ड. पिङ्गाक्ष ।
- ↑ ड. गौरि ।
- ↑ ड. दाक्षमाणया ।
- ↑ एतच्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके पुनरग्रे वसिष्ठान्तर्गतपराशरेषु प्रमादात्पतितोऽस्ति । तत्राप्येतत्स्पष्टी करिष्यते ।
- ↑ क. स्थूणो भा ।
- ↑ ग. ला अवि ।
- ↑ ङ. ता. मानृ ।
- ↑ क. वताश्चै ।
- ↑ ङ. शुक्रहयः ।
- ↑ ड. हर्करयः ।
- ↑ क. यो वा ।
- ↑ ड. वो वोजि ।
- ↑ ड. ना भौमनया गो ।
- ↑ ड. वाष्ठाय ।
- ↑ ङ. न्दयः प्र ।
- ↑ क. तिस्रवाः ।
- ↑ ख. वैणवा । ग वेणीवा ।
- ↑ ड. का वापि ।
- ↑ ड. सावच ।
- ↑ ङ. हयः कौश ।
- ↑ ग. यो माहो ।
- ↑ ड. यना गा ।
- ↑ ड. नैदेहा ।
- ↑ ड. खा अजार्वशा ।
- ↑ ड. लघवा ।
- ↑ ग. गैशिलाः ।
- ↑ ड. शिञ्जाः ।
- ↑ ग. कौदण्ड ।
- ↑ ग. हुपिण्डा ।
- ↑ ड. चटायना ।
- ↑ ड. कुहला ।
- ↑ ख. महन्ता ।
- ↑ ग. पार्यश्वा ।
- ↑ ग. द्वौ, देव ।
- ↑ ग. वत्सा आ ।
- ↑ ग. कपिष्टलाः ।
- ↑ ख. यना गा । ड. यनयो गा ।
- ↑ ड. नयो न ।
- ↑ ग. मथाः कौ ।
- ↑ ग. हरिताः । ङ. हारिताः ।
- ↑ ग. देवता ।
- ↑ ग. धोतवो ।
- ↑ ग. याक्तिस ।
- ↑ ख. आश्वाय । ग. आश्वलाय ।
- ↑ ड. भ्रालिसया ।
- ↑ ग. सिष्ठेन्द्र ।
- ↑ ड. श्वत्थो नै ।
- ↑ क. पेठका । ड. पटको ।
- ↑ ग. सौरस्थो ।
- ↑ ङ. त्रैशृङ्गा ।
- ↑ ग. वार्ण्याः पा ।
- ↑ ख. वाह्यकेयो ।
- ↑ ड. शैलालयः ।
- ↑ ख. ड. ब्रह्मचर्यः ।
- ↑ ड. क्रोधिनो ।
- ↑ ड. दन्तयः ।
- ↑ ड. कापुर ।
- ↑ ग. रपुर ।
- ↑ ड. मयो ।
- ↑ ग. नाहल ।
- ↑ ड. मुञ्चका ।
- ↑ ड.नाः स्कम्भा ।
- ↑ ड. रद्दक ।
- ↑ ड. सिष्ठेन्द्र ।
- ↑ ङ. द्वस्वि ।
- ↑ ग. प्रोगेहया ।
- ↑ ग. कल्याः ।
- ↑ एतदग्रे ख. पुस्तके कश्यपान्तर्गतनिध्रुवेषु धनुश्चिह्नान्तर्गतविद्यमानो ग्रन्थः पुनः प्रमादात्पतितोऽस्ति ।
- ↑ ड. पूरयः ।
- ↑ ग. पौष्णर ।
- ↑ ड. कार्ष्ण्याय ।
- ↑ क. वाष्ट्याय । ङ. वाठ्याय ।
- ↑ ङ. काविलपूययः ।
- ↑ ङ. यः शाल्वा ।
- ↑ ग. अगस्त्ययः ।
- ↑ ग. कर्णाटा ।
- ↑ ख. यहेद्राः ।
- ↑ ग. कः । अग
- ↑ ग. ङ. वा । अग ।
- ↑ ग. ति । अग ।
- ↑ ख. स्परालायना । ड.स्पालायना ।
- ↑ ग. मुडोद । ड. मुदोद ।
- ↑ ग. मौजिल ।
- ↑ क. ख मार्गीय ।
- ↑ ड. हृद्रोग ।
- ↑ ड. अपकूला ।
- ↑ ग. अम्बुदाः ।
- ↑ ग. सौम्यानयो ।
- ↑ ग. यथाः शा ।
- ↑ क. ख. स्फाण्ठायनाः ।
- ↑ कः यः । अग ।
- ↑ ग. दार्ज्येति ।
- ↑ ग. वाऽग ।
- ↑ ङ. विमलयः ।
- ↑ ङ. नानकाः ।
- ↑ ङ. निलयः ।
- ↑ ड. माषस्त ।
- ↑ ड. सैपवना ।
- ↑ क यो बिभी ।
- ↑ ड. या, शक्त्य ।
- ↑ ड. वा । शक्त्य ।
- ↑ ड. त् । आङ्गिरसप्रवराच्च ।
- ↑ ड. रोगणैरवि ।
- ↑ ङ. वाच्च । प्र ।
- ↑ ख. करुयाः ।
- ↑ ग. कयाः सौ ।
- ↑ ड. खियः ।
- ↑ ख. ग. सौरन्ध्रयः ।
- ↑ ख. सामुव ।
- ↑ ड. शद्व ।
- ↑ ग. त्रदेव ।
- ↑ ड. तादीनां ।
- ↑ ग त्रभर ।
- ↑ ड. विधाया ।
- ↑ ड. जादिगु ।
- ↑ ङ. वंशवि ।
- ↑ ङ. तथा ।
- ↑ मातृगोत्राया विवाह इति विग्रहः ।
- ↑ क. विषये । त ।
- ↑ आहेत्यधिकम् । अतिदिशतीत्यत्रातिदिशन्निति वा पाठ्यम् ।
- ↑ ग. ड. सङ्गेऽनि ।
- ↑ ग. ड. भवेद्द ।
- ↑ ख. दीनामनित्यानां दत्तकादीनां ।
- ↑ ग. य प्र ।
- ↑ ग. र्षणका ।
- ↑ ख. ग. वधे क ।
- ↑ ग. सुदैवा ।
- ↑ ड. स्य ज ।
- ↑ ड. हारित ।
- ↑ ड. हमित्य ।
- ↑ क. ख. ग. पुत्रास ।
- ↑ उक्तमित्यधिकम् ।
- ↑ ग. कुले प्रे ।
- ↑ ड. तथापि क ।
- ↑ रोहिणीशब्दोऽधिकः ।
- ↑ ख यदव्यढा ।
- ↑ स्वार्थष्यञन्तात्तल् ।
- ↑ ड. क्ता भार ।
- ↑ ड. वित्तप्र ।
- ↑ ख. ग. ड. त्तेः । द ।
- ↑ ड. था च स ।
- ↑ क. ख. मध्याह्नेऽप ।
- ↑ ख. न् । आप । ग. न् । बौधायनः । रोहिणी मृगशीर्षमुत्तराफल्गुनी स्वातीति विवाहस्य नक्षत्राणीति । चतु । ड. न् । बौधायनः । रोहिणी मृगशीर्षमुत्तराफल्गुनी स्वातीति विवाहस्य नक्षत्राणीति । आपस्तम्बो विवाह प्रकृत्याऽऽह । सर्वाणि पुण्योक्तानि नक्षत्राणीति । चतु ।
- ↑ ड. षि । यानि ।
- ↑ ड. णीति शु ।
- ↑ ड. ती । प्रा ।
- ↑ क. ख. स्तम्बः--यां ।
- ↑ क. ख. माहाऽऽपस्तम्बः--"इ ।
- ↑ ख. ड. ज्योतिर्निब ।
- ↑ ड. पाराशरः ।
- ↑ क. ग. पूर्वक ।
- ↑ क.ख. ग. था मा ।
- ↑ ग. ड. ज्योतिषे ।
- ↑ क.ख. यदि ।
- ↑ क्रियाविशेषणम् ।
- ↑ अत्र क. पुस्तके टिप्पण्याम् "बृहस्पतिस्तु–- यद्येकस्यापि मूढत्वे शुभकर्म न दोषकृत् । द्वयोर्मूढत्व एवोक्तं दोषद गुरुशुक्रयोः । द्विजन्मादिशुभे कार्ये शुक्रमौढ्य न दोषकृत् । त्रैवर्णिकानामेवोक्तं दोषद गुरुशुक्रयोः" इति ग्रन्थो वर्तते ।
- ↑ ड. हारितः ।
- ↑ ग. ड. योरगुः । पं ।
- ↑ ड. च ।
- ↑ धनश्चिह्नान्तर्गतग्रन्थस्थाने ग. ड. पुस्तकयोर्विद्यमानो ग्रन्थो यथा--"प्रकारान्तरेण पञ्चकं ज्योतिर्माधवीये--"तिथिवारं च नक्षत्रं लग्न ध्रुवकमिश्रितम् । नवभिस्तु हरेद्भागं शेषं पञ्चकपञ्चकम्" इति । तिथयोऽत्र पक्षद्वयेऽपि तत्तत्प्रतिपदादय एव ग्राह्याः । न तु शुक्लप्रतिपदादय इत्यभियुक्ता ज्योतिर्विदः । नक्षत्राण्यश्विन्यादीनि । मेषादि लग्नम् । ध्रुवा एव ध्रुवकाः । स्वार्थे कप्रत्ययः । तत्र ध्रुवा उक्तास्तत्रैव--" त्रीण्यग्निवेदषट्सप्तऋतुबाणाग्निलोचनाः । इन्द्रियाष्टर्षयो ज्ञेया मेषादीनां ध्रुवाः क्रमात् " इति । आग्निस्त्रयः । वेदाश्चत्वारः । ऋतवः षट् । बाणाः पञ्च । लोचने द्वौ । इन्द्रियाणि पञ्च । ऋषयः सप्त । ध्रुवकमिश्रितं ध्रुवकसंयोजितम् । इदं लग्नविशेषणम् । शेषमेकद्व्यादिशेषं मृत्युवह्न्यादिपञ्चकं भवेदित्यर्थः । अत्रापि संकटे प्रकारान्तरमुक्तं तत्रैव--"दश राज्ञि तस्करेऽष्टौ मृत्यौ चत्वार ईरिताः । रोगे पञ्चदश प्रोक्ता वह्नौ द्वादश कीर्तिताः । एतैर्योगे पुनश्चैकादिशेषे सर्वथा त्यजेत्" इति । राजपञ्चके पूर्वोक्तप्रकारेणाऽऽगतेऽपि दशाङ्का योजनीयाः । योजनायां सत्यामपि पुनरपि पञ्चकमागतं चेत्सर्वथा त्यजेदित्यर्थः । एवं तस्करेऽष्टावित्यादिषु ज्ञेयम् । एतस्याप्यसंभवेऽतिसंकटे दानमुक्त गालवसंहितायाम्--"अग्नौ चाऽऽज्यं चोरसंज्ञे सुवर्णं रोगे ताम्र पार्थिवे रौप्यदानम् । तैल देयं नैधने पञ्चके तु शुभ कुर्यात्कर्म चास्मिन्न दोषः" इति । लघुजातक एतदपवाद उक्तः" इति ।
- ↑ एतद्वाक्यमधिकं प्रतीकग्रहणं वा ।
- ↑ ग. ङ. शक्तिभे ।
- ↑ ङ.धः क्ष ।
- ↑ ड. हणका ।
- ↑ क. ड. त्कमौपयौगि ।
- ↑ ख. र्मौपयिक ।
- ↑ क. च्चौलोप ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तक एव ।
- ↑ क. ग. प्रजास ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके नास्ति ।
- ↑ क. त्तां वाप ।
- ↑ क. पीयांस्तत्रा ।
- ↑ क. ग. ड. रण्यर्थे ।
- ↑ ख. ग. ड. नामपि व ।
- ↑ ङ. यक्रिय ।
- ↑ ङ. वसिष्ठः ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः क. ख. पुस्तकयोर्नास्ति ।
- ↑ ङ. ले ता वरार्थे न ।
- ↑ ख. ग. ङ. दं सप ।
- ↑ ख. त् । श्राद्धकौमुद्यां तु द्वयोरपीत्युक्तम् । अ ।
- ↑ ग. ड. पीत्युक्तम् । अ ।
- ↑ ख. यः । ज्यो ।
- ↑ क. ग. प्रतीक्षते ।
- ↑ क. ग. शेषणो ।
- ↑ ख. स्य । वधू ।
- ↑ ग. षी कू ।
- ↑ ग. कानामप ।
- ↑ ग. णां च च ।
- ↑ क. पि कंचि ।
- ↑ ग. शमण्ड ।
- ↑ ग. ममुण्ड ।
- ↑ ग र्थ. । सगो ।
- ↑ क. ति । एतस्मि ।
- ↑ ख. ङ. तन्म ।
- ↑ ख. स्थानो वा ।
- ↑ क. ख. र्तृत्वं ।
- ↑ क. ख. लाँजाहो ।
- ↑ क. व्यमपि ।
- ↑ ख. नत ।
- ↑ क. न च ।
- ↑ क. ग. णमिति केचित् । बृ ।
- ↑ क. ख. ङ. लाजाहो ।
- ↑ क. ग. ङ. कूश्माण्डै ।
- ↑ ङ. मारभेत् ।
- ↑ ग. सर्वे ।
- ↑ ङ. पूर्वे सं ।
- ↑ क. ग. ङ. योः सं ।
- ↑ ग. ति । शिङ्गोभ ।
- ↑ क. ख. च- "नै ।
- ↑ ङ गृहारम्भः ।
- ↑ ख. ग. ङ. त्रर्तुश ।
- ↑ क. ग. मलयो ।
- ↑ क. ग. ङ. इत्याह । स । ख. इति शूलपाणिः । स ।
- ↑ ग. कन्या ।
- ↑ ड. ण्ड्यश्चोरदण्डव ।
- ↑ ख ड. र्थः । वर ।
- ↑ क. ख. स्तम्बः--ब ।
- ↑ क. ख. ग. रातां
- ↑ सर्वपुस्तकेषु रातामिति पाठः ।
- ↑ ङ. ब्राह्मणादि ।
- ↑ क. ख. त्याहाऽऽपस्तम्बः--य ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके नास्ति ।
- ↑ अयं वृद्धमनुः स्यादित्यनुमीयते, एतदर्थकमनुवचनस्य पूर्वं लिखितत्वात् ।
- ↑ ङ मप्र ।
- ↑ ग. ङ. म् । तथा च का ।
- ↑ ग. ङ. कृत्वा ।
- ↑ ग. ङ. भवतु ।
- ↑ ङ. स्तथा । शु ।
- ↑ ग. शुभं व ।
- ↑ ख. ग. ङ. णैः । एका ।
- ↑ ग. मैत्रे
- ↑ एतद्व्याख्यानानुरोधेन पूर्वं श्लोकेऽपि नन्दिनीं शुभामित्यत्र नन्ददायिनीमित्येव पाठो द्रष्टव्यः ।
- ↑ ङ. मण्डपेष्वा ।
- ↑ ङ. रणान्तं कृ ।
- ↑ ग. षाढा । पू ।
- ↑ ग. ङ. कृत्तिका ।
- ↑ ड. मनूरा ।
- ↑ ग. राधा । स्मृ ।
- ↑ क. शुभव ।
- ↑ ङ. खण्डग ।
- ↑ ख. निश्चिन्ता ।
- ↑ क. ख. ङ. श्चिन्तस्त्वं ।
- ↑ क. ख. ङ. श्चिन्तस्त्वं ।
- ↑ ग. णुकाका ।
- ↑ अत्र 'उक्तम्' इति शेषो ज्ञेयः ।
- ↑ क. ङ. र्थावि ।
- ↑ ग. ता पुत्रा ।
- ↑ क. देशे ।
- ↑ क. ख. ग. प्रज्वाल ।
- ↑ ग. निष्कास्य ।
- ↑ ख. ड. श्च श्रील ।
- ↑ क. त्वाऽन्येन येनकेनचित्कांस्या ।
- ↑ क. ग. त्रे धृते प्रा ।
- ↑ क. ण तस्मिन्पात्रे गृ ।
- ↑ ख. ङ. प्राङ्मुख्याः ।
- ↑ ग. ङ. स्वस्तिं ।
- ↑ ग. न्मतो गर्भतो वाऽपि । त । ङ. न्मतो गर्भतोऽपि वा । त ।
- ↑ क. धीस्त । स ।
- ↑ ग. ङ. आङ्गिर ।
- ↑ क. ग. तु, दक्षिणाः पान्तु, बहु देयं चास्तु, पु ।
- ↑ धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. पुस्तकयोः । 'ततः सतूर्यघोषो वरो वध्वा सह वेद्यां प्राङ्मुख उपविशेत् । वधूस्ततो गौरीहरसमीपं गत्वोपविशेत्' इति ग्रन्थो वर्तते । ग. पुस्तके तु अभ्रातृघ्नीमित्यादिरुपसंगृह्य जपतीत्यन्तो ग्रन्थो नास्ति ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो ग. पुस्तके युक्तं चेद्ग्राह्यमित्यनन्तरं वर्तते ।
- ↑ ग. ड. ण वा नि ।
- ↑ ख. ग. ङ. क्ष्ये ला ।
- ↑ च. क्ष्ये ला ।
- ↑ ड. तत्तद्र ।
- ↑ ख. ग. ङ. च. धीरप्स ।
- ↑ ग. ते । 'अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पत इन्द्रापुत्रघ्नीं लक्ष्म्यन्तामस्यै सवितुः सवे' इति वरोऽवेक्षते । 'अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे' इति वध्वेक्षमाणो वरो जपति । 'इदमहं या त्वयि पतिदृन्यलक्ष्मीस्तां निर्दिशामि' इति वधूं मुखे दर्भेण संमार्ष्टि । दर्भ निरस्याप उपस्पृश्य 'मित्रोऽसि' इति वधूं दक्षिणहस्ते गृह्णाति । 'एकमिषे विष्णुस्त्वाऽन्वेतु द्वे ऊर्जे० होत्राभ्यो विष्णुस्त्वाऽन्वेतु' इति वधूं वेदिरूपदेवयजनमुदानयति । 'सखाऽसि सप्तपदा अभूम सख्यं ते गमेय सख्यान्मे मा योष सख्यान्मे मा योष्ठाः' इति सप्तमं पदमुपसंगृह्य जपति । इ ।
- ↑ क. ख. ताराः इ ।
- ↑ ख. ग. ङ. च. सराः । त्री ।
- ↑ तिथित्रयमित्यर्थः ।
- ↑ ख. या ।
- ↑ स्पर्शी भवतीति क. पुस्तकशोधितपाठः ।
- ↑ ख. ग. ङ. च. थित्रये ।
- ↑ ग. ड. च. र तु ना ।
- ↑ ड. च. अन्यच्च ।
- ↑ निबन्धशिरोमणौ कालविधाने--"नीराहांशुवसूत्तरादितिगुरुस्रष्टानुराधाश्विनीशुक्राहस्करवायुवारुणहरित्वाष्टेषु शस्ते तिथौ । कुम्भाजालिगते रवौ शुभकरे प्राप्तोदये भार्गवे जीवार्कास्फुजितां दिने नववधूवेश्मप्रवेशः शुभः" एतादृशः पाठः ।
- ↑ क. च. याद्वयाख्या ।
- ↑ क. न्विचार ।
- ↑ अत्र क. पुस्तके टिप्पण्यामग्रे लिखितो ग्रन्थो वर्तते--"मेक्षणादिस्थालीपाकविशिष्टपात्राणां द्वंद्वासादनादिविशेषविचारस्त्वायुर्वर्धापनप्रयोगे द्रष्टव्यः" इति ।
- ↑ ख. च. हणे, अ ।
- ↑ ड. निरू(रु)प्य व्री ।
- ↑ धनश्चिह्नान्तर्गतमधिकं क. ख. पुस्तकस्थम् ।
- ↑ ड. च. वत्न्याऽग्ने ।
- ↑ क पुस्तकटिप्पण्याम्-- "अलोमप्रदेशः" इति ।
- ↑ क. पुस्तकटिप्पण्याम्--"भसत्प्रदेशं गुदस्थानं प्रत्यक्संस्थमधस्तान्मांसभागेन सह मांसभागस्य यथा सधानं भवति तथा द्विगुणं कुर्यात् ।" इति ।
- ↑ क. पुस्तकटिप्पण्याम्-- "शोधयित्वा" इति ।
- ↑ ड. पापुर ।
- ↑ ख. म् । प ।
- ↑ ड. क्षिपेत् ।
- ↑ क. ग. ङ. च. वर्ज्य स ।
- ↑ ख. ड. स्तीर्य नाऽऽस्ती । ग. च. स्तीर्य वा ।
- ↑ ग. च. पाके या ।
- ↑ च. र्वकामस्था ।
- ↑ ख. ग. ड. च. ने शि ।
- ↑ ख. ग. ङ. च. ऐरिणी ।
- ↑ क. रस्य त ।
- ↑ "सर्वप्रायश्चित्तिसंज्ञायाः सिद्धिः" इति पाठोऽत्र युक्ततरः ।
- ↑ क. मान्ते होमान्त ।
- ↑ ग. ङ. च. चैकैक ।
- ↑ ग. च. चैकैक ।
- ↑ च. ण्याहवा ।
- ↑ क. पि का ।
- ↑ क. पि । त ।
- ↑ ग. ङ. च. लभ्यते ।
- ↑ क. स्नातं ।
- ↑ धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति ।
- ↑ धनुश्चिह्नान्तर्गतं क. पुस्तके नास्ति ।
- ↑ ग. च. निर्वाप ।
- ↑ ग. निर्वाप ।
- ↑ ङ. श्राद्धे षो ।
- ↑ क. न्तरेऽपि--पि ।
- ↑ ग. निर्वाप ।
- ↑ इदमर्धं क. ख. पुस्तकयोर्नास्ति ।
- ↑ धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।
- ↑ ग. द्यात्कार ।
- ↑ ग. च. गेहं छाद ।
- ↑ ग. नं नैव ।
- ↑ ग. ति । वर्जये वि ।
- ↑ ग. र्तुः पुत्रा ।
- ↑ क.ख. ग. ब्देनात्र ग्र ।
- ↑ अत्र क. पुस्तकटिप्पण्याम्--"अयं च पुनर्विवाहः पूर्वोढयोर्वधूवरयोः । अत्र पुनर्विवाहे वाग्दानं नास्ति । अग्नेः सिद्धत्वाद्धोमोऽपि नास्ति । दानं पाणिग्रहणं चाऽऽवर्तत इति संस्कारद्योते" ।इति ग्रन्थो वर्तते ।
- ↑ ग. विशेषः । अ ।
- ↑ एतदुपरि क. पुस्तकटिप्पण्याम्--"अथ स्त्रीणां प्रथमपल्लवधारणम् । तदुक्तं ज्योतिषे-–हस्तादिपञ्चमृगपूषभदस्रभेषु विष्णुद्वये बुधदिने गुरुशुक्रवारे । स्त्रीणां शुभं प्रथमपल्लवधारणं स्यात्पाणिग्रहोक्तसमये खलु पीतवस्त्रैः" इति ग्रन्थो वर्तते ।
- ↑ च. द्धा सक्ति ।
- ↑ क. दा वाऽन्य ।
- ↑ क. ख. ङ. वेदिनी ।
- ↑ ग. च. युगले ।
- ↑ धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
- ↑ ग. वीतव ।
- ↑ ङ. च. क्षेत्रज्ञाः कु ।
- ↑ ड. सलक्ष ।
- ↑ क. ग. ससाऽऽवे ।
- ↑ ङ. च. नं ना ।
- ↑ ङ. च. त् । दातृशाखयैवात्र मधुपर्कः । त ।
- ↑ क. ख. य इ ।
- ↑ ग. हि कामाञ्श्रियं ।
- ↑ च. त्रायामुकशर्मणे वराय का ।
- ↑ क. योगे विशेषः । तू ।
- ↑ च. संपूजयेत् ।
- ↑ ग. ड. च. स्योल्ले ।
- ↑ अत्र क. पुस्तकटिप्पण्याम्--"आश्वलायनानां चक्षुष्यभावः" इति वर्तते ।
- ↑ च. मग्नि ।
- ↑ क. ग. ङ. च बह्वृ ।
- ↑ ग. निर्बाधो ।
- ↑ ग. विन्दते ।
- ↑ क. तोऽग्नीं त ।
- ↑ च. था संप्रियमि ।
- ↑ क. हीत्वा ।
- ↑ ग. तं चतुर्गृही ।
- ↑ क. ख. रोपे वि ।
- ↑ ग. प्रज्वालयित्वा ।
- ↑ ख. ग. ङ. च. प्रोक्षणं ।
- ↑ क. त्कीर्तितपक्षानु ।
- ↑ क. ख. ग. च. त्सविदा ।
- ↑ ग. ङ. र्गवच्याव ।
- ↑ च. वाच्याव ।
- ↑ च. मं कु ।