श्रुतबोधः (परीक्षोपकारिणीटीकासहितः)
श्रुतबोधः (परीक्षोपकारिणीटीकासहितः) कालिदासः |
श्री:
श्रीमन्महाकवि कालीदासपणीतः
श्रुतबोधः
खिस्ते इत्युपाख्य मुकुन्दशास्त्रि कृत
'परीक्षोपकारीणी' टीका तथा
भाषानुवाद सहितः
*स एव*
श्रीकाशीप्रसाद भार्गवेण
* स्वकीये *
भार्गवभूषण यन्त्रालये मुद्रयित्वा
प्रकाशितः ।
CC-O Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
श्रीगणेशाय नमः
श्रुतबोधः
परीक्षोपकारिणी टीका-
तथा
भाषाऽनुवादसहितः ।
ग्रन्थप्रतिज्ञा ।
छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ।
तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥ १ ॥}}
अन्वयः-अहं अविस्तरं तं श्रुतबोधं सम्प्रवक्ष्यामि, येन श्रुतमात्रेण छन्दसां लक्षणं बुध्यते ।
अर्थ:-अहं-कालिदासः, न विद्यते विस्तर:-विस्तृतिः निष्प्रयोजनप्रतिपादनंमिति यावत् यस्मिन् तमविस्तरमुपयुक्तगर्भमिति भावः । तं-महाकविकृतत्वेन प्रसिद्धम्, श्रुतबोध-तदाख्यं छन्दो ग्रन्थं, सम्प्रवक्ष्यामि-निरूपयिष्यामि। येन-ग्रन्थेन, श्रुतमात्रेण, श्रुतमाकर्णितमेव श्रुतमात्र तेन- } कर्णगोचरेणैव, छन्दसां-आर्यानुष्टुबादीनां, लक्षणं-वर्ण- मात्राणां स्वरूपं, बुद्ध्यते-अवगम्यते ॥१॥
भाषा-जिस श्रुतबोध के सुनने मात्र से छंदों का लक्षण जाना जाताहै उस श्रुतबोधनामक ग्रन्थ को संक्षेपसे मैं (कालि दास) कहता हूं ॥१॥
परिभाषा
संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥२॥
अन्वयः-सयुक्ताद्यं, दीर्घं, सानुस्वारं, विसर्गसंमिश्रं, अक्षरं गुरु, विज्ञेयम्, पादान्तस्थं (अक्षरम् ) विकल्पेन ( गुरु विज्ञेयम् )।
अर्थ:-संयुक्तस्य-संयोगीभूतस्याद्यं-आदिभवं, दीर्घद्विमात्रकम्, सानुस्बारं-अनुस्वारेण सह वर्तमानम्, विसर्गसंमिश्रं-विसर्गेण सह वर्तमानम्,अक्षरं-वर्णः,गुरु-अलघु, विज्ञेयम्-बोध्यम्, पादान्तस्थं-चरणान्तस्थितं, विकल्पेनभावाभावेन, गुरुलघु बोध्यम्। पादान्ते गुरुरपि लघुःस्यात् कुत्रचिल्लघुरपि गुरुः स्यात् । तथा चोक्तं ग्रन्थान्तरे-वा पादान्ते त्वसौ वक्रो ज्ञेयोऽन्यो मात्रको लघुः ।। २ ।। भाषा-संयुक्त अक्षर से पूर्व का अक्षर दीर्घ होता है और अनुस्वार तथा विसर्ग संयुक्त अक्षर भी गुरु जानना चाहिये। तथा चरण के अंत में भी लघु अक्षर को विकल्प करके गुरु जानना चाहिये ॥२॥
एकमात्रो भवेद्ह्रस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रश्च प्लुतो ज्ञेयो ब्यजनं चार्द्धमात्रकम् ।।
गणलक्षणम् ।
आदिमध्यावसानेषु भजसा यान्ति गौरवम् ।
यरता लाघवं यान्ति मनौ तु गुरुलाघवम् ॥३॥
अन्वयः-भजसा,आदिमध्यावसानेषु गौरवं यान्ति, यरताः (आदिमध्यावसानेषु ) लाघवं यान्ति, मनौ तु ( श्रादिमध्यावसानेषु ) गुरु लाघवं यातः ॥३॥
अर्थ:-भजसा:-भगण जगण सगणाः, आदिमध्यावसानेषु, आदिश्च मध्यं च अवसानं च तानि तेषु-प्रथम मध्यम समाप्तिषु, गौरवं-गुरुता यान्ति-गच्छन्ति । तथा हि-आदिगुरुर्भगणः (s॥) मध्य गुरुर्जगणः (।ऽ।)अन्त्यगुरुः सगणः (IIऽ) यरता:-यगणरगणतगणाः ( आदिमध्या वसानेषु ) लाघवं-लघुतां यान्ति, तथाहि-आदिलघुर्यगण
(।ऽऽ)मध्यलघूरगणः (ऽ।ऽ) अन्त्यलघुस्तगण: (ऽऽ।) तु-पुनः मनौ-भगणनगणौ ( आदिमध्यावसानेषु ) गुरु लाघवं-गुरुतां लघुतां च यातः, तथा च सर्वगुरुर्मगण: (ऽऽऽ) सर्वलघुर्नगणः [।।।] भवतीति ॥ ३ ॥
भाषा-श्रादि मध्य और अंतमें भगण जगण और सगण दीर्घ होते हैं, और यगण रगण तगण ये आदि मध्य और अन्तमे ह्रस्व होते हैं, तथा मगण और नगण यथा क्रम से गुरू और लघु होते हैं।
आर्या छन्दः।
यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥४॥
अन्वयः-यस्याः प्रथमे तथा तृतीये अपि पादे द्वादश,द्वितीये अष्टादश चतुर्थके पञ्चदश मात्राः ( स्युः )सा आर्या (भवति)
अर्थ:-यस्यां-वृत्तेः,प्रथमे पादे-प्रथम चरणे,द्वादश मात्रा: स्युः, तथात - नैव प्रकारेण तृतीयेऽपि तत्संख्यक चरणेऽपि द्वादश मात्रा स्युः, द्वितीये पादे-द्वितीये चरणे अष्टादश - मात्राः, चतुर्थके-तुर्ये,पञ्चदश मात्रा स्युः, सा-वृतिः,आर्या नाम | आर्याचरणेषु क्रमान्मात्रा १२-१८-१२-१५ ॥४॥
भाषा-जिस श्लोक के प्रथम तथा तृतीय चरणमें १२ मात्रा हों, द्वितीय में १८ और चतुर्थ में १५ मात्रा हों । उसको आर्या छन्द कहते हैं ॥४॥
गीतिः (आर्या)
आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते ।
छन्दोविदस्तदानीं गीतिं ताममृतवाणि भाषन्ते। ॥५॥}}
अन्वयः-हे हंसगते, यत्र द्वितीयमपि आर्यापूर्वार्धसमं भवति, हे अमृतवाणि, छन्दोविदः तदानीं तां गीति भाषन्ते ॥५॥
अर्थ:-हे हंसगते! हंसस्येव गतिर्गमनं यस्यास्तत्सम्बुद्धौ,यत्र-वृतौ, आर्याया पूर्वार्धेन समं,-तुल्यं, द्वितीयमपि-उत्तरार्धमपि, भवति-जायते, अमृतमिव-पीयूषमिव वाणी-वाक्यस्यास्तत्सम्बुद्धौ हे अमृतवाणि, छन्दोविदः-छन्दःशास्त्रज्ञाः, तदानीं-तदा, तां गीतिं-तन्नामकं छन्दः, भाषन्ते-कथयन्ति । गीतिचरणेषु क्रमान्मात्राः १२-१८-१२-१८ ॥५॥ भाषा-हे हंसके सदृश चालवाली ! जिस श्लोकका पूर्वार्द्ध तथा उत्तरार्द्ध श्रार्या के पूर्वार्द्ध के समान होता है हे अमृतभाषिणि ! छन्दः शास्त्र के जाननेवाले उसे गीति छन्द कहते हैं अर्थात् जिस श्लोक के प्रथम तृतीय चरण में बारह व द्वितीय चतुर्थ चरण में अठारह मात्रा हो उसे गीति छन्द जानना ॥५॥
उपगीति (आर्या)
आर्योत्तरार्धतुल्यं प्रथमार्द्धमपि प्रयुक्तं चेत् ।
कामिनि तामुपगीतिं प्रकाशयन्ते महाकवयः॥६॥
अन्वयः हे कामिनि, चेत् प्रथमार्धम् अपि,आर्योत्तरार्धतुल्यं प्रयुक्तम्, महाकवयः ताम्, उपगीतिं प्रकाशयन्ते, ॥६॥}}
अर्थ:-हे कामिनि-कामुके, चेत्-यदि, प्रथमार्धमपि, प्रथमद्वितीयपादावपि, आर्यायाः उत्तरार्धेन-द्वितीयचतुर्थपादेन तुल्यं-सदृशं, प्रयुक्त-श्लोके उच्चरितं(भवति ) ( तर्हि ) महाकवयः-कवीश्वराः तामुपगीतिं-तन्नाम्ना प्रकाशयन्ते-प्रकटयन्ति । उपगीतिचरणेषु क्रमान्मात्रा:- १२-१५.१२-१५॥६॥
भाषा-हे कामिनि ! जिस श्लोक का पूर्वार्ध भी आर्या छन्द के उतरार्ध के समान हो, उसे बड़े २ कवीश्वर लोग उप- गीति छंद कहते हैं अर्थात् जिसके प्रथम तृतीय चरण में बारह व द्वितीय चतुर्थ में पन्द्रह मात्रा हो उसे उपगीति छंद कहते हैं॥
अक्षरपङ्क्तिछन्दः।
आद्यचतुर्थं पञ्चमकं चेत् ।
यत्र गुरु स्यात्साक्षरपङ्क्तिः ॥ ७ ॥
अन्वयः-चेत् यत्र आद्यचतुर्थ पञ्चमकं ( अक्षरम् ) गुरुः स्यात् सा अक्षरपङ्क्तिः (ज्ञेया)
अर्थः-चेत् यदा यत्र वृत्तौ, आद्य-प्रथमं, चतुर्थं -तुर्यं पञ्चमकं (अक्षर) गुरुः-दीर्घं स्यात्-भवेत्, सा- अक्षरपङक्ति,-अक्षरेति पादपूरणार्थं पङ्क्तिरिति नामकं छन्दो बोध्यम् । अक्षरपङक्ति चरणाक्षराणि ५ग०भ,गु,गु,ऽ।।, ऽ, ऽ,
भाषा-जिस छंद में पहिला चौथा और पांचवां अक्षर गुरु ( दीर्घ) हो उसको अक्षरपंक्ति छन्द कहते हैं ॥ ७ ॥
शशिवदनाछन्दः।
अगुरु चतुष्कं भवति गुरू द्वौ।
घनकुचयुग्मे शशिवदनासौ ॥८॥
अन्वयः-हे घनकुचयुग्मे (यत्र)चतुष्कं अगुरु भवति, द्वौ गुरू (भवतः) असौ शशिवदना (ज्ञेया)॥
अथ:-हे घनकुचयुग्मे । घनं-कठिनं कुचयुग्मं-स्तनयुग्मं यस्यास्तत्सम्बुद्धौ (यस्यां वृत्तौ) चतुष्कं-चतुःपादेषु आदितो वर्णचतुष्टय अगुरु-लघु, भवति-जायते-द्वौ पञ्चमषष्ठौ, गुरु-अलघू ( भवतः ) (तदा) असौ-सा, शशिवदना बोध्या॥८। चरणाक्ष० र्द ग०न-य- ॥।ऽऽ॥ भाषा-हे कठिन कुचयुग्म वाली ! जिस छन्द में पहले चार अक्षर लघु और बाद के दो अर्थात् पांचवां और छठवां अक्षर गुरु हों उसको शशिवदना छंद कहते हैं ॥ ८॥
मदलेखाछन्
तुर्यं पञ्चमकं चेद्यत्र स्याल्लघु बाले।
विद्धद्भिर्मृगनेत्रे प्रोक्ता सा मदलेखा॥९॥
अन्वयः- हे बाले चेत् यत्र तुर्यम् पञ्चमकम् (अक्षरम् ) लघु स्यात् । हे मृगनेत्रे विद्वद्भिः सा मदलेखा प्रोक्ता ॥९॥
अर्थ:-हे बाले-नवयौवने ! चेत्-यदि,यत्र-यस्यां वृत्तौ तुर्यम्-चतुर्थमकं, पञ्चमकं- पञ्चम(अक्षरं)लघु-ह्रस्वं,स्यात्-भवेत् (तदा) हे मृगनेत्रे-चञ्चलाक्षि! विद्वद्भिः-पण्डितैः सा-असौ मदलेखा-तन्नामकं छन्दः, पोक्ता-कथिता। मदलेखा चरणाक्षम् ७ ग० म, स, गु, sss, ss||, || ॥९॥ भाषा-हे बाले जिस श्लोक में चौथा पांचवां अक्षर लघु हो,हे मृगनेत्रे पण्डित लोग उसको मदलेखा छन्द कहते हैं ॥ ॥९॥
अष्टाक्षरजाति ( अनुष्टुवादि)छन्दः।
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् ।
द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः।। १०॥
अन्वयः-श्लोके सर्वत्र षष्ठं गुरु, पञ्चमं लघु, दिचतुष्पादयोः सप्तमम्, ह्रश्वम्, अन्ययोः (सप्तमम् ) दीर्घम् ज्ञेयम् ॥ १० ॥
अर्थः-श्लोके-पद्ये (अनुष्टुबि) सर्वत्र-चतुर्ष्वपि पादेषु, षष्ठम्-तदक्षरं, गुरु-दीर्घ, ज्ञेयम्-बोध्यम् पञ्चममक्षरं, लघु--एकमात्रिकं, तथा द्विचतुष्पादयोः-द्वितीयचतुर्थचरणयोः, सप्तमम्-सप्तममक्षरम्, ह्रस्वम्-लघुज्ञेयम्,अन्ययोः-प्रथमतृतीयपादयोः सप्तममक्षरं दीर्घं-द्विमात्रिकं ज्ञेयम्| भाषा-जिस श्लोक के चारों चरणों में छटवां अक्षर गुरू तथा पांचवां अक्षर लघु हो, तथा द्वितीय और चतुर्थ चरण में सातवांअक्षर ह्रस्व हो परन्तु प्रथम और तृतीय चरणमें सातवां अक्षर दीर्घ हो तो उसको अनुष्टप् छंद कहते हैं ॥१०॥
पद्यछन्दो लक्षणम् ।
पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
षष्ठं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥११॥
अन्वयः-सर्वत्र पञ्चमम, लघु, द्विचतुर्थयोः(पादयोः) सप्तमम् (लघु) षष्ठं गुरु विजानीयात्, एतत् पद्यस्य लक्षणमस्ति ॥ ११॥
अर्थः-( यत्र वृत्तौ ) सर्वत्र-चतुर्षु पादेषु, पञ्चममक्षरं लघु-अगुरु (तथा ) द्विचतुर्थयो:-द्वितीयचतुर्थपादयोः सप्तममक्षर, लघु-अगुरु भवति, सर्वत्र षष्ठं-तत्सङ्ख्याकं गुरु-दीर्घं विजानीयात्-बोद्धव्यम्, एतत्-इदं-पद्यस्य-तदाख्यछ्न्दसः लक्षणं-स्वरूपमस्ति । पद्यं,चरणाक्ष० ८ गणनियमो नास्ति ॥ ११ ॥
भाषा-जिस श्लोक के चारो चरणों में पाञ्चवां अक्षर लघु हो तथा द्वितीय और चतुर्थ चरण में सातवां अक्षर लघु हो और चारो चरणों में छठवां अक्षर गुरु हो तो उसको पद्यछंद कहते हैं ॥ ११॥
माणवकं छन्दः।
आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतम् ।
स्याद्गुरु चेत्सङ्कथितं माणवकाक्रीडमिदम्॥१२॥
अन्वयः-चेत्, आदिगतं तुर्यगतं पञ्चमकं अन्त्यगतं च (अक्षरम् ) गुरुः स्यात्, इदम् माणवकाक्रीडं सङ्कथितम् ॥ १२ ॥
अर्थः-चेत-यदि आदिगतं -प्रथमाक्षरं, तुर्यगतं-चतुर्थम्,
पञ्चमकम्-पञ्चमम्, अन्त्यगतं-अन्त्ये वतर्मानं च
(अष्टमम् )गुरु:--दीर्घं,स्यात्-भवेत्। इदं-एतत्,माणवकाक्रीडम्--एतन्नामकं छन्दः, ( कविभिः ) सङ्कथितम्-प्रोक्तम् ॥ १२॥
माणवकं चरणा ८ ग०भ, त,ल,गु, S||, ss|, I, S,
भाषा-जिस छन्द में पहिला चौथा पांचवां और अन्त्य (अष्टम ) का अक्षर गुरु हो उसको माणवकाकाड़ छंद कहते हैं ॥ १२ ॥
प्रमाणिका नगस्वरूपिणी।
द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा ।
तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम्॥१३॥
अन्वयः-- यदा, द्वितुर्यषष्ठम्, अष्टमम्,(अक्षरम्) प्रयोजितं गुरुः(स्यात् ) तदा, बुधाः ताम्, नगस्वरूपणी निवेदयन्ति ॥ १३ ॥
अर्थः--यदा-चेत्, द्वितुर्यषष्ठम्-द्वितीयं चतुर्थषष्ठमष्टमं च (अक्षरम्) प्रयोजितं--प्रयोगीकृतं गुरु:-दीर्घं(स्यात् ) तदा, बुधाः--पण्डिताः तां नगस्वरुपिणीं--तन्नामधेयं वृत्तं, निवेदयन्ति--प्रतिपादयन्ति ॥ १३ ॥
च. अ.८ग. ज, र, ल, गु ।s|, SIS, I,S,
भाषा--जिस छन्द में दूसरे, चौथे, छठवे और आठवे अक्षर का दीर्घ प्रयोग किया जाता है इसको पण्डित लोग नगस्वरुपिणी छन्द कहते हैं ॥ १३॥
विद्युन्माला छन्दः ।
सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः ।
विद्वद्वृन्दैर्वीणावाणि व्याख्याता सा विद्युन्माला ॥१४॥
अन्वयः हे वीणावाणि ! यस्यां सर्वे वर्णाः दीर्घाः (स्युः)। वेदैर्वेदैः(वर्णैः) विश्रामः।
स्यात्, विद्वद्वृन्दै सो विद्युन्माला व्याख्याता॥१४॥
अर्थ:-वीणेव वाणी यस्यास्तत्सम्बुद्धौ हे वीणावाणि । यस्यां-वृत्तौ, सर्वे वर्णाः-निखिलान्यक्षराणि,दीर्घा:-द्विमात्रिकाः भवेयुः । ( तथा ) वेदैर्वेदः-चतुर्भिश्चतुर्भिः(अक्षरैः)विश्रामः-यतिः, स्यात्-भवेत् , विद्वद्वृन्दैः-पण्डितसमूहैः, सा-असौ, विद्युन्माला-तन्नामकं वृत्तं, व्याख्याना-कथिता ॥१४॥ च० अ० ८, ग० म, म, गु,गु, यतिः ४,४,sss, sss, s,s,
भाषा-हे वीणा के समान मधुर भाषण करनेवाली !जिस छन्द में सम्पूर्ण वर्ण दीर्घ हो और चार २ अक्षरों पर विराम अर्थात् ठहराव हो ऐसे श्लोक को पण्डित जन विद्युन्माला छन्द कहते हैं ॥ १४॥
चम्पकमाला छन्दः।
तन्वि गुरु स्योदाद्यचतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यम् ॥
इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला॥ १५॥}}
अन्वयः-हे तन्वि, यत्र आद्यचतुर्थम्,पञ्चमषष्ठम्. अन्त्यम्, उपान्त्यं च (अक्षरम् ) गुरुः स्यात् । इन्द्रियबाणैः ( यत्र ) विराम: (स्यात्)सा चम्पकमाला कथनीया ॥१५॥ श्रुतबोधः-
अर्थ:-हे तन्वि-कोमलाङ्गि, यत्र-यस्मिन् पद्ये,आद्यं-आदिभवं चतुर्थं-तुर्यं, पञ्चम, षष्ठं-तत्संख्याकं, अन्त्यं-दशमं, उपान्त्यं-अन्त्यसमीपं नवमं च (अक्षरम्)गुरुः-दीर्घं स्यात्-भवेत्। तथा इन्द्रियबाणे:-पञ्चभिः २ अक्षरैः विरामः-विश्रामः भवेत्, सा-असौवृत्तिः, चम्पकमाला-तदाख्यायिका, वृस्तिकथनीया-वक्तव्या,॥ चम्पकमाला च० अ० १० ग० भ म, स, गु, यतिः, ५, ५, s।।, sss, IIs, s, ॥१५॥
भाषा -हे कृशाङ्गि! जिस छन्द में पहिला, चौथा, पांचवां छठवां अन्त्य का अर्थात् दशवां और अन्त्य के पास का अर्थात् नौवां अक्षर गुरु हो तथा पांच पांच वणों पर जिसमें विराम हो उसको चम्पकमाला छंद कहना चाहिये ॥ १५ ॥
मणिबन्ध छन्दः।
चम्पकमाला यत्र भवेदन्त्यविहीना प्रेमनिधे ।
छन्दसि दक्षा ये कवयस्तन्मणिबन्धं ते ब्रुवते ॥१६॥
अन्वयः--हे प्रेमनिधे ! यत्र चम्पकमाला अन्त्यविहीना भवेत्, ये कवयः छन्दसि दक्षाः ( सन्ति ) ते तत् मणिबन्धं ब्रुवते,॥
अर्थ:-प्रेम्णोऽनुरागस्य निधिरिव निधिस्तत्सम्बुद्धौ हे प्रेम निधे, यत्र-वृत्तौ चम्पकमाला-तदाख्यं छन्दः, अन्त्य
विहीना (सर्वाङ्ग सम्पन्नापि ) अन्त्येन-दशमाक्षरेण विहीना-रहिता, भवेत् -स्यात्, ये कवयः-ये काव्यज्ञाः छन्दसि-छन्दोविषये, दक्षा:-चतुराः ( सन्ति ) ते-अमी, तत् मणिबन्धं-तन्नामकं छन्दः, ब्रुवते-कथयन्ति ॥
मणिबन्धम्, च० अ० ९, ग० भ,म स० यतिः ५,४s||,sss, ||s, ॥१६॥
भाषा-हे प्रेमनिधे ! जिस छन्द में अन्त्य अक्षर से रहित चम्पक माला का लक्षण पाया जाता हो उसको छन्दशास्त्र में दक्ष कवि लोग मणिबंध छन्द कहते हैं ॥ १६ ॥
शालिनी छन्दः।
ह्रास्वो वर्णो जायते यत्र षष्ठः
कम्बुग्रीवे तद्वदेवाष्टमान्त्यः ।
विश्रामः स्यात्तन्वि वेदैस्तुरङ्गै
स्तां भाषन्ते शालिनी छान्दसीया ॥१७॥
अन्वयः-हे कम्बुग्रीवे, यत्र षष्ठः,तद्वदेव,अष्टमान्त्यः वर्णः ह्रस्वः जायते । हे तन्वि (यत्र) वेदैः तुरङ्गः विश्रामः स्यात्, छान्दसीयाः तां शालिनी भाषन्ते ॥ १७॥
अर्थ:-हे कम्बुग्रीवे। कम्बो:-शङ्खस्य ग्रीवेव ग्रीवा यस्यास्त आत्मम्बुद्धौ हे कम्बुग्रीवे-कम्बुकण्ठि । यत्र-यस्मिन्, पद्ये,पष्ठः वर्ण:-षष्ठमक्षरम्, तदेव-इत्थमेव,अष्टमान्त्यः-नवमः,हस्वः- लघुर्जायते-भवति, हे तन्वि-हे कृशाङ्गि। ( तथा) वेदैश्चतुर्भिः तुरङ्गैः:-सप्तभिश्च विश्रामः-यतिः स्यात्-भवेत्, छान्दसीया:-छन्दःशास्त्रज्ञाः तां -अमुम्, शालिनी-तन्नामकं छन्दः भाषन्ते-ब्रुवते । शालिनी च० अ० १ १ ग० म, त त, गु, गु, यतिः ४,७,sss, ssI,ssI,s, s, ॥१७॥
भाषा-हे शंख के समान ग्रीवावाली ! हे सूक्ष्माङ्गि! जिस
छन्द में छठवां और अष्टमांत्य अर्थात् नवम अक्षर लघु हो तथा
चौथे और सांतवे अक्षर पर विराम होतो छन्द के ज्ञाता उसको
शालिनी छन्द कहते हैं ॥ १७ ॥
मन्दाक्रान्ता छन्दः।
चत्वारःप्राक् सुतनु गुरवो द्वादशैकादशौचे-
न्मुग्धे वर्णौ तदनु कुमुदामोदिनि द्वादशान्त्यौ।।
तद्वच्चान्त्यौ युगरसहयैर्यत्र कान्ते विरामो
मन्दाक्रान्तां प्रवरकवयस्तन्वि तां सङ्गिरन्ते ॥१८॥
अन्वयः-हे सुतनु प्राक चत्वारः (वर्णाः) द्वादशैकादशौ वर्णों च गुरवः (स्यु:) हे मुग्धे, हे कुमुदामोदिनि, तदनु दादशान्त्यौ, तच्च, अन्त्यौ वर्णौ ( गुरू स्याताम् ) हे कान्ते यत्र युगरसहयैः विरामः ( भवति )। हेतन्वि प्रवरकवयः तां मन्दा-क्रान्तां सङ्गिरन्ते ॥ १८॥
अर्थ:-हे सुतनु-सुगात्रि, प्राक-प्रथमम्, चत्वारः-चतुसंख्याकाः वर्णाः-अक्षराणि, गुरवः-दीर्घाः, स्युः-भवेयुः, तथा, द्वादशैकादशौ- इमौ वर्णौ (गुरू स्याताम्) हे मुग्धे- हे सुन्दरि! कुमुदवत् आमोदः- सौरभं यस्या सा तत्सम्बुद्धौ तदनु ततः द्वादशान्त्यौ-त्रयोदशचतुर्दशौ वर्णौ (गुरू भवतः) तद्वत् एवमन्त्यौ-पोडशसप्तदशौ च (गुरू भवतः) हे-कान्ते! यत्र-वृत्तौ युगरसहयैः-चतुः-षट्-सप्तभिः ( क्रमेण ) विराम:-विश्रामः (भवति)हे तन्वि-कृशाङ्गि प्रवरकवयः-कविवरा, तां-वृत्तिं मन्दाक्रान्तां-तन्नामिकां सङ्गिरन्ते-प्रतिपादयन्ति । मन्दाक्रान्ता. च० अ० १७, ग० म, भ, न, त,त, गु, गु, यतिः ४, ६, ७,sss, s।।,।।।, ss।,ss।, s,s
भाषा-हे सुतनु जिसमे पहिले चार अक्षर गुरुहों, और हेमुग्धे ब्यारह बारहवां तेरहवां और चौदहवां अन्त्यके दोंअक्षर गुरुहो और चौथे छठवे और सातवों अक्षर परविरामहो उसको मन्दाक्रान्ताकहते हैं ॥१८॥
हंसी छन्दः।
मन्दाक्रान्तान्त्ययतिरहिता सालङ्कारे भवति यदि सा । तद् विद्वद्भिध्रुर्वमभिहिता ज्ञेया हंसी कमल- बदने ॥ १९ ॥
अन्वयः :-हे सालङ्कारे यदि मन्दाक्रान्ता अन्त्ययति रहिता भवति । हे कमलवदने तद्धिद्वद्भिः ध्रुवं अभिहिता सा हंसी ज्ञेया ॥ १६ ।।
अर्थः-हे सालङ्कारे-भूषणभूषिते, यदि-चेत्, मन्दाक्रान्ता-तन्नामकं छन्दः, अन्त्ययतिरहिता-सप्ताक्षरविश्रामरहिता, अर्थात् दशाक्षरपादरचिता,भवति-जायते, हे. कमलबदने,कमलवत्-सौन्दर्यसौरभादिगुणैः कमल सदृशं वदनं - मुखं यस्या स्तत्सबुद्धौ, विद्वद्भिः-पण्डितैः ध्रुवं-निश्चयेन अभिहिता-प्रतिपादिता सा-हंसी- तदाख्यं छन्दः-ज्ञेया-बोध्या ॥ हंसी. च. अ. १०
ग० म, भ, न, गु, यतिः ४, ६,sss,sII,III, sII ॥१९॥
भाषा-हे अलङ्कार धारण करनेवाली ! हे कमलसदृश मुखवाली । जब मंदाक्रान्ता अन्त्ययति (विश्राम) रहित हो तो पण्डित जनों से कहा हुआ निश्चयसे उसको हंसीछन्दजानना, अर्थात् मदाक्रान्ता कांता में १७ अक्षर होते हैं तथा चौथे छठवे और सातवे अक्षरों पर विराम होता है । परन्तु हंसीछन्द में १० अक्षर होते हैं जिनमें आदि के ४ अक्षर दीर्घ पांचवे से नौवे तक लघु और दसवां दीर्घ अक्षर और ४ तथा ६ अक्षरों पर विराम होता है ॥ १९ ॥
दोधक वृत्तम् ।
आद्यचतुर्थमहीननितम्बे सप्तमकं दशमं च तथान्त्यम् । यत्र गुरु प्रकटस्मरसारे ! तत्कथितं ननु दोधकवृत्तम् ॥ २० ॥
अन्वयः-हे अहीननितम्बे, आद्यचतुर्थं सप्तमकं दशमं तथा अन्त्यं च यत्र गुरुः ( स्यात् ) हे प्रकटस्मरसारे ननु तत् दोधकवृत्तं कथितम् ॥ २०॥
अर्थ:-हे अहीननितम्बे=अहीनौ स्थूलो नितम्बौ कटिपश्चाद्भागौ यस्याः सा तत्सम्बुद्धौ हे पृथुश्रोणे । आद्यचतुर्थ - प्रथमतुर्यं, सप्तमकं - सप्तम, दशमं - तत्संख्याकं, तथा-एवं, अन्त्यं -एकादशं च यत्र, गुरुः - दीर्घ स्यात् ।हे प्रकट
स्मरसारे ! प्रकट:- प्रकाशः स्मरसारः- कामबलं यस्यास्तत्सम्बुद्धौ, ननु-निश्चयेन तद्- छन्दः दोधकवृत्तं -तदाख्य ( कविभिः ) कथितम् – प्रतिपादितम्। दोधक० च. अ.११, ग, भ, भ, भ, गु, गु, s||,s|| ,s||,S,S,,२०
भाषा -हे पुष्टनितम्बवाली ! हे कामदेव के बलको प्रकटकरनेवाली ! जिसमें पहिला, चौथा, सातवां, दशवां और अन्त्य का (ग्यारहवां) अक्षर गुरु हो उसको दोधकवृत्त कहते हैं ॥२०॥
इन्द्रवज्रा छन्दः।
यस्यां त्रिषट्सप्तममक्षरं स्याद्ध्रस्वं सुजङ्घे ! नवमं च तद्वत् । गत्या विलञ्जीकृतहंसकान्ते तामिन्द्रवज्रां ब्रुवते कवीन्द्राः ॥२१॥
अन्वयः-हे सुजङ्घे, यस्यां त्रिषट् सप्तमं,तद्वत् नवमं च अक्षरं ह्रस्वं स्यात्, हे गत्या विलञ्जीकृतहंसकान्ते । कवीन्द्राः तां इन्द्रवज्रां ब्रुवते ॥ २१॥
अर्थ:-हे सुजङ्घे सुष्ठु-शोभने जंघे यस्यास्तत्सम्बुद्धौ, यस्यां-वृत्तौ, त्रि-षट्-सप्तमं अक्षरं-वर्णः,तद्वत्-एवमेव नव तत्संख्याकमक्षरं ह्रस्वं-लघु, स्यात्-भवेत्, हे गत्या-गमनेन, विलञ्जीकृता-तिरस्कृता, हंसस्य कान्ता-हंसी येन तत्सम्बुद्धौ, कवीन्द्रा:-कविश्रेष्ठाः, तामिन्द्रवज्रां-एतन्नामकं छन्दः,ब्रुवते-कथयन्ति- इ. च. अ.११ ग. त, त, ज, गु,गु, यति. ५.६,s's, isi, iss, iss
भाषा-हे सुन्दरजंघावाली ! हे गति से हंसी कोलज्जित करनेवाली ! जिस छन्द में तीसरा, छठवां, सातवां और नौवां अक्षर ह्रस्व हो उसको कवीश्वर इन्द्रवज्रा छन्द कहते हैं ॥२१॥
उपेन्द्रवज्रा।
यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुवर्णे ।
अमन्दमाद्यन्मदने तदानीमुपेन्दवज्रा कथिता कवीन्द्रै:॥२२॥
अन्वयः-हे सुवर्णे, यदि इन्द्रवज्राचरणेषु पूर्वे वर्णाः लघवः भवन्ति । हे अमन्दमाद्यन्मदने,तदानीं कवीन्द्रैः उपेन्द्रवज्रा कथिता ॥ २२ ॥
अर्थः हे सुवर्णे-शोभनवणे, यदि - चेत्, इन्द्रवज्राचरणेषु-तन्नामकछन्दसः चतुर्षु चरणेषु पूर्वे - प्रथमे,
वर्णाः-अक्षराणि, लघवः - ह्रस्वाः भवन्ति - जायन्ते । हे अमन्दमाद्यन्मन्दने ! अमन्दः- अधिकः माद्यन् - हर्षं कुर्वन्, मदन:- कामः यस्यां सा तत्सम्बुद्धौ, तदानीं - तर्हि, कवीन्द्र - कविवरैः उपेन्द्रवज्रा-एतन्नामकं छन्दः, कथिता-प्रोक्ता । उपेन्द्र- वज्रा-- ०च० अ० ११, ग० ज, त, ज, गु, गु, यतिः ५,६,isi, ssi, isi,s s, ॥२२॥
भाषा-हे सुन्दर वर्णवाली । यदि इन्द्रवज्रा के चारो चरणों में शुरू के अक्षर हस्व हो तो हे अधिक कामवाली ! कवीश्वर लोग उसको उपेन्द्रवज्रा छन्द कहते हैं ॥२२॥
उपजातिः।
यत्र द्वयोरप्यनयोस्तु पादाः
भवन्ति सीमन्तिनि चन्द्रकान्ते ।।
विद्वद्भिराद्यैः परिकीर्तिता सा
प्रयुज्यतामित्युपजातिरेषा ॥ २३ ॥
अन्वयः-हे सीमन्तिनि, हे चन्द्रकान्ते, यत्र तु अनयोः द्वयोः अपि पादाः भवन्ति। आद्यै,विद्वद्भिः परिकीर्तिता सा एषा उपजातिः इति प्रयुज्यताम् ॥ २३ ॥
अर्थः -हेसीमन्तिनी !सीमन्तः-केशवेशःविद्यते यस्या स्तत्सम्बुद्धौ हे चन्द्रकान्ते ! चन्द्रवत्कान्तिर्यस्यास्तत्सम्बुद्धौ, यत्र - वृत्तौ, अनयोः - इन्द्रवज्रोपेन्द्रयोः द्वयोरपि - उभयो रेव पादा:-चरणाः भवन्ति-जायन्ते, यथा-इन्द्रवज्रालक्षणं प्रथमतृतीयपादे द्वितीयचतुर्थपादे तूपेन्द्रवज्रालक्षणं भवति, आद्यैः-पुरातनैः विद्विद्भि-:विचक्षणैः,परिकीर्तिता-प्रोक्ता मा-असो, एषा- इयं, उपजातिः - तदाख्यं छन्दः इति प्रयुज्यताम्-प्रयोगविषयी क्रियताम्. त्वयेति शेषः । उपजातिः च० अ० ११॥ ॥२३॥
भाषा-हे सुन्दर केशवाली ! हे चन्द्रकांते ! जिस छन्द में इन्द्रवज्रा और उपेन्द्रवज्रा दोनों के चरण हों अर्थात् प्रथम और तृतीय चरण इन्द्रवज्रा के तथा द्वितीय और चतुर्थचरण उपेन्द्रवज्रा के हो उसको प्राचीन कवि उपजाति छन्द कहते हैं ॥२३॥
आख्यानकी छन्दः।
अख्यनकी स्यात् प्रकटीकृतार्थे
यदीन्द्रवज्राचरणः पुरस्तात् ।
उपेन्द्रवज्राचरणास्त्रयोऽन्ये
मनीषिणोक्ता विपरीतपूर्वा ॥ २४ ॥
अन्वयः--हे प्रकटीकृतार्थे यदि पुरस्तात् इन्द्र वज्राचरणः ( भवेत् ) अन्ये त्रयः उपेन्द्रवज्राचरणाः ( स्युः) सा मनीषिणा उक्ता विपरीतपूर्वा आख्यानकी स्यात् ॥ २४ ॥
अर्थ:-हे प्रकटीकृतार्थे ! प्रकटीकृतः-प्रकाशितः अर्थः- स्वाभिप्रायो यया सा तत्सम्बुद्धौ, यदि-चेत्. पुरस्तात्- प्रथमः, इन्द्रवज्रावत् चरण:-पाद (भवेत्) अन्ये शेषा त्रयः- द्वीतीय तृतीय चतुर्था उपेन्द्र वज्रावत् चरणाः-पादाः(स्युः ) सा-असौ मनीषिणा-पण्डितेन, उक्ता-कथिता, विपरीत पूर्वाख्यानकी-विपरीताख्यानकी स्यात्-भवेत् । आख्यानकी च० अ० ११,प्रथम चरणः इन्द्रवज्रावत् अन्ये उपेन्द्रवज्राबत् २४
भाषा-हे प्रयोजन को प्रगट करनेवाली यदि पहिला चरण इन्द्रवज्रा का हो और शेष के तीन चरण उपेन्द्रवज्रा छन्द के हो तो पण्डितों ने उसको विपरीताख्यानकी छन्द कहा है ॥२४॥
रथोद्धता छन्दः
आद्यमक्षरमतस्तृतीयकं
सप्तमं च नवमं तथान्तिमम्
दीर्घमिन्दुमुखि यत्र जायते
तां वदन्ति कवयो रथोद्धताम् ॥२५॥
अन्वयः-यत्र आद्य, अतः तृतीयकं सप्तमं नवमं च तथा अन्तिमं अक्षरं दीर्घं जायते, हे इन्दुमुखि कवयः तां रथोद्धतां वदन्ति ॥ २५ ॥
अर्थः-यत्र-यस्यां वृत्तौ, आद्यं - चरणानां, मादिमम्, अतः - अनन्तरम्, तृतीयकं - तृतीयं, सप्तमं नवमं च तथा- एवमेव अन्तिमम् - एकादशं,अक्षरं - वर्णः दीर्घम् - अलघु, जायते - भवति । इन्दुवन्मुखं यस्यास्तत्सम्बुद्धौ,हे इन्दुमुखि ! कवयः - काव्यकर्तारः तां-अमुम् रथोद्धताम् - तन्नामकं छन्दः,वदन्ति – कथयन्ति । रथोद्धता
च० अ० ११, ग.र,न,र,ल,गु, यति' ७, ४,s।s,|||,sis,I,s,
भाषा-हे चन्द्रमुखी ? जिस छन्द में पहिला, तीसरा,सातवां, नववां, और अन्त्य का (ग्यारहवां ) अक्षर दीर्घ हो,कवीश्वर उसको रथोद्धता छन्द कहते हैं ॥ २५ ॥
स्वागता छन्दः।
अक्षरंच नवमं दशमं चेद्व्यत्ययाद्भवति यत्र विनीते ॥ प्रोक्तमेणसुनयने यदि सैव स्वागतेति कविभिः कथिताऽसौ ॥२६॥
अन्वयः-हे विनीते यत्र नवमं दशमं च अक्षरं व्यत्ययात् भवति, चेत् प्रोक्तम्,हे एणानयने सा एव असौ कविभिः स्वागतेति कथिता ॥ २६ ॥
अर्थः -- हे विनीते - नम्र, यत्र वृत्तौ, नवमं दशमं, चाक्षरं -वर्ण, व्यत्ययात् - वैपरीत्यात् (अर्थात् स्योद्धताया वैपरीत्येन नवममक्षरं लघु तथा दशममक्षरं गुरु)भवति जायते, चेत् यदिप्रोक्तम् – कथितम् । हे एणनयने,एणस्य-हरिणस्य नयने इव नयने यस्यास्तत्सम्बुद्धौ, सैवासौ-एषैवेयं, कविभिः –पण्डितैः स्वागता- एतन्नामकं छन्दः कथिता-प्रोक्त। । स्वागता, च० अ० ११ ग० र, न, भ,गु, गु, यतिः ७, ४,SIS, III,sII,s,s,॥२६॥
भाषा-हे विनयवाली ! हे सुनयने ! जिस ( रथोद्धता )छंद में नौवां और दशवां अक्षर विपर्यय रूप से हो अर्थात् नववां दशवें अक्षर के स्थान में और दशवां अक्षर नववे के स्थान में हो कवियोंने उसको स्वागता छन्द कहा है । रथोद्धाता में नववां दीर्घ और दशवां ह्रस्व है परन्तु इसमें दशवां दीर्घ और नववां ह्रस्व है ॥ २६॥
वैश्वदेवी छन्दः।
ह्रस्त्रो वर्णःस्यात्सप्तमो यत्र बाले ।
-
तद्वद्बिम्बोष्ठि न्यस्त एकादशाद्यः ॥
बाणैर्विश्रामस्तत्र चेद्वा तुरङ्गै-
र्नाम्ना निर्दिष्टा सुभ्रु सा वैश्वदेवी ॥२७॥
अन्वयः-हे बाले यत्र सप्तमः तद्वत् हे बिम्बोष्ठि एकादशाद्यः वर्णः ह्रस्व न्यस्तः चेद्वा तत्र बाणैः तुरङ्गैः ( वर्णैः ) विश्रामः ( स्यात् )हे सुभ्रु सा नाम्ना वैश्वदेवी निर्दिष्टा ॥ २७ ॥
अर्थ:-हे बाले-षोडशवार्षिके,यत्र - यस्मिन्, छन्दसि सप्तमो वर्ण:- सप्तमाक्षरम्, तद्वत् - तथैव, हे बिम्बोष्ठि! बिम्बफलवदोष्ठौ यस्याः तत्सम्बुद्धौ, एकादशोद्य:-दशमोवर्णः,अक्षरं ह्रस्वः - लघु, न्यस्त:-निवेशितः । चेत्-यदि, तत्र-तस्मिन्, पद्ये,बाणैः -पञ्चभिः। तुरङ्गैः-सप्तभिश्चक्षारैः, विश्रामः-यतिस्स्यात्तर्हि हे सुभ्रु, सुष्ठु-शोभनौ भ्रुवौ यस्याः तत्सम्बुद्धौ, सा-वृत्तिः नाम्ना- अभिधानेन वैश्वदेवी-तन्नामकं छन्दः निर्दिष्टा-कथिता । वैश्वदेवी ।च. अ०१२ ग० म,म.य,य,यतिः ५,७,sss,sss,ऽऽ,।ऽऽ ॥२७॥
भाषा-हे बाले, हे बिम्बाफल के सदृश ओष्ठवाली,जिस छन्द में सातवां और दशवां अक्षर न्हस्व हों, और हे सुन्दर ़ - भ्रू वाली जिस में पांचवें और सातवें अक्षर पर विराम हो उसको वैश्वदेवी छन्द कहते हैं ॥ २७ ॥
तोटकवृत्तम् ।
सतृतीयकषष्ठमनन्तरते नवमं विरतिप्रभवं गुरु चेत् । घनपीनपयोधरभारनते ननु तोटकवृत्तमिदं कथितम् ॥ २८॥
अन्वयः-हे अनन्तरते,चेत् सतृतीयकषष्ठं, नवमं विरतिप्रभवं ( अन्त्याक्षरम् ) गुरु ( स्यात् ) हेघनपीनपयोधरभारनते ननु इदं तोटकवृत्तं कथितम् ॥ २८॥
अर्थः- हे अनन्तरते! अनन्ता- अपरिमिता रतिर्यस्याःसा तत्सम्बुद्धौ,चेत्-यदिसतृतीयकषष्ठं - तृतीयषष्ठाक्षरसहितं नवमं तत्संख्याकमक्षरं, विरतिमभवं- पादानामन्त्यस्थित च गुरु-दीर्घं स्यात्, हे धनपीनपयोधरभारनते ! घनौ -कठिनौ पीनौ- स्थूलौ च पयोधरौ- स्तनौ तयोः भारेण-गौरवेण नता-नम्रीमता तत्सम्बुद्धौ, (तदा) ननु-निश्चयेन, इदं-छन्दः तोटकवृत्तं-एतन्नामकं कतिथं= तं-आख्यातम् । तोटकम् । च० अ० १२, ग. स, स, स स, यतिः ६, ६, ॥s, ॥s,॥s, ॥s, ॥ २८॥
भाषा-हे अपरिमित रतिवाली! हे सघन और पुष्ट स्तनों के भार से नम्र हुई ! जिस छन्दमें तीसरा छटवां, नववां और अन्त्य का अक्षर गुरु हो, उसको तोटकवृत्तं कहते हैं ॥ २८ ॥
भुजङ्गप्रयातं छन्दः।
यदाद्यं चतुर्थं तथा सप्तमं स्यात्तथैवाक्षरंह्रस्वमेकादशाद्यम् । शरच्चन्द्रविद्वेषिवक्त्रारविन्दे तदुक्तं कवीन्दैर्भुजङ्गप्रयातम् ॥ २१ ॥
अन्वयः-हे शरच्चन्द्रविद्वेषिवकारविन्दे,यदा आद्यं चतुर्थं सप्तमं तथा एकादशाद्य अक्षरं ह्रस्वं चेत् (तदा) कवीन्द्रैः तत् भुजङ्गप्रयातं उक्तम् ॥२९॥
अर्थः-- -शरदः-ऋतोः चन्द्रस्य विद्वेषि-शत्रु भूतं वक्त्रमेवारविन्दं - कमलं यस्याः तत्सम्बुद्धौ,यदा-यस्मिन् पद्ये, आद्यं -प्रथमम्, चतुर्थम् -तुर्यम्,सप्तमम्, तथा-इत्थं एकादशाद्यं दशममक्षरं-वर्णः- ह्रस्वं चेत् । लघुः स्यात् ( तदा ) कवीन्द्रः कविप्रवरैः तत्-अदः, भुजङ्गप्रयातम् - तन्नामकं, उक्तम् ~ कथितम् । भुजङ्गप्रयातम् । च० अ० १२ ग. य, य, य, य, यतिः ६, ६,॥ Iss,Iss,Iss;[ss, ॥२६॥
भाषा- हे शरच्चन्द्रको अपने मुख कमल से लज्जित करनेवाली, जिस छन्दमे पहिला, चौथा,सातवां, और दशवां अक्षरह्रस्व हो उसको कवीश्वरों ने भुजङ्गप्रयात छंद कहा है ॥२६॥
द्रुतविलम्बितं छन्दः।
अयि कृशोदरि यत्र चतुर्थकं
गुरु च सप्तमकं दशमं तथा ।
विरतिजं च तथैव विचक्षणै-
द्रुतविलम्बितमित्युपदिश्यते ॥ ३० ॥
अन्वयः-अयि कृशोदरि, यत्र चतुर्थक सप्तमकं तथा दशम,ं तथैव, विरतिजं च ( अक्षरम् )गुरु ( स्यात् ) विचक्षणैः द्रुतविलम्बितमिति उपदिश्यते ॥ ३१ ॥ अर्थः - अयीति कोमलालापे, हे कृशोदरि,
़
कृशं - तनु, उदरं-मध्यभागो यस्यास्तत्सम्बुद्धौ, यत्र-यस्मिन् पद्ये,
चतुर्थकम्- तुर्यम्,सप्तमकम्-सप्तमम्, तथा-तेनैव प्रकारेण,दशमम्-तत्संख्याक, तथैव - तेनैव रीत्या, विरतिजं-अन्त्यं द्वादशं चाक्षरं, गुरु-दीर्घं स्यात्तदा
विचक्षणैः-पण्डितैः, द्रुतविलम्बितमिति - तन्नामधेयेन उपदिश्यते-कथ्यते ।
द्रुतविलम्बितम् । च. अ. १२, ग. न, भ, भ. र ।il,SiI,SII,sis, ॥३०॥
भाषा-हे कृशोदरि ? जिस छंद में चौथा, सातवां, दशवां, और अन्त्य का ( बारहवां ) अक्षर गुरु (दीर्घ)हो, पंडित लोग उसको द्रुतविलम्बित छंद कहते हैं॥ ३० ॥
प्रमिताक्षरा छन्दः॥
यदि तोटकस्य गुरु पञ्चमकं
विहितं विलासिनि तदक्षरकम् ।
रससंख्यकं गुरु न चेदबले
प्रमिताक्षरेति कविभिः कथिता ॥ ३१॥
अन्वयः यदि तोटकस्य पञ्चमकं अक्षरकं गुरु विहितम् । हे लासिनि, हे अबले। रससंख्यकं चेत् गुरु न ( स्यात् ) (सा) कविभिः प्रमिताक्षरा इति कथिता ॥ ३१ ॥
अर्थः-यदि-चेत्, तोटकस्य - तदाख्यत्तस्य, पञ्चमकं-- पञ्चमम्, अक्षरकं-अक्षरम्, गुरु-दीर्घं, विहितम् - प्रयुक्तं भवेत् । हे विलासिनि, विलासो-विभ्रमोऽस्ति अस्यास्तत्सम्बुद्धो, हे अबले- नायिके, रससंख्य, कं - षष्ठं चेत् - यदि, गुरु-दीर्घं, न - नहि स्यात्, (सा) कविभिः - पण्डितैः, प्रमिताक्षरा-तन्नामकं छन्दः, इति - इत्थम् - कथिता--प्रोक्ता । प्रमिताक्षरा । च० अ १२, ग०, स, ज, स, स ||S,|s|,||s, ||s, ॥३१॥
भाषा-हे विलास करनेवाली ! हे अबले । यदि तोटक छंद का पांचवां अक्षर गुरु हो और छटवां अक्षर लघु हो तो कवियों ने उसको प्रमिताक्षरा छंद कहा है ॥ ३१ ॥
हरिणीप्लुता छन्दः।
प्रथमोक्षरमाद्यतृतीययो-
र्द्रुतविलम्बितकस्य च पादयोः
यदि चेन्न तदा कमलेक्षणे
भवति सुन्दरि सा हरिणीप्लुता ॥३२॥
अन्वयः-हे कमलेक्षणे,यदि, द्रुतविलम्बितकस्य च, आद्यतृतीययोः पादयोः प्रथमाक्षरं न चेत्, हे सुन्दरि तदा सा हरिणीप्लुताभवति॥ ॥३२॥
अर्थ:-हे कमलेक्षणे । कमलवत् - पद्मवत् ईक्षणे- नेत्रे- यस्यास्तत्सम्बुद्धौ, यदि - चेत्, द्रुतविलम्बित कस्य-तदाख्यछन्दसः, च-पादपूरणे, आद्यतृतीययोः- प्रथमतृतीययोः पादयोः - चरणयोः, प्रथमाक्षर - आद्यम- क्षरं, न चेत् - नो स्यात् । हे सुन्दरि - शुभांगे,तदा-तस्मिन् काले सा- असौ, हरिणीप्लुता - तदाख्यं छन्दः भवति जायते । हरिणोप्लुता। च० १, ३, अ० ११, ग. स, स स, ल, गु, IIS, IIS, IIS, s,i,s, २, ४, अ० १२, ग. न, भ,भ,र Ill,S11, SIl, SIS ॥।३२॥ . भाषा-हे कमलनयने ! हे सुंदरि! यही द्रुतविलम्बितछंद के पहिले और तीसरे पाद को आदि का अक्षर न हो तो वह हरिणीप्लुता छंद हो जाता है ॥ ३२ ॥
वंशस्थं वृत्तम् ।
उपेन्द्रवज्राचरणेषु सन्ति चे-
दुपान्त्यवर्णा लघवः कृता यदा।
मदोल्लसद्भ्रू्जितकामकार्मुके ।
वदन्ति वंशस्थमिदं बुधास्तदा ॥ ३३ ॥
अन्वयः-हे मदोल्लसद्भ्रूजितकामकार्मुंके! चेत् उपेन्द्रवज्राचरणेषु उपान्त्यवर्णाः यदा लघवः कृताः ( स्युः) तदा बुधाः इदं वंशस्थं वदन्ति ३३
अर्थ:-हे मदोल्लसद्भ्रूजितकामकार्मुके ! मदेन उल्लसद्भ्यां भ्रूभ्यां जितं कामस्य कामुर्कं- धनुर्यया सा तत्सम्बुद्धौ । चेत् – यदि, उपेन्द्रवज्राचरणेषु - एतच्छन्दस:, चतुर्षु चरणेषु, उपान्त्यवर्णाः-अन्त्यप्तमीपस्थितान्यक्षराणि, यदा- यस्मिन् पद्ये, लघवः-ह्रस्वाः, कृता:-निहिताः, ( स्युः) तदा - तस्मिन् पद्ये, बुधाः -पण्डिताः इदं - एतच्छन्दः, वंशस्थं - एतन्नामकं, वदन्ति - कथयन्ति ।
वंशस्थम् । च. अ. १२ ग०, ज, त, ज, र, यतिः ५, ७, ISI,SSI ।SI,SIS, ॥३३॥
भाषा-हे मद से शोभायमान भृकुटी के विलास से काम देव के धनुष को जीतनेवाली ! यदि उपेंद्रवज्रा के चारो चरणों में उपांत्य वर्ण अर्थात् बारहवें अक्षर के पहिले का ग्यारहवां अक्षर ह्रस्व हो, और बारहवां अक्षर गुरु हो तो पंडित लोग उसको वंशस्थ छंद कहते हैं ॥ ३३ ॥ {{c|इन्द्रवंशा छन्दः
यस्यामशोकाङ्कुरपाणिपल्लवे
वंशस्थपादा गुरुपूर्ववर्णकाः।
तारुण्यहेलारतिरङ्गलालसे ।
तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३४ ॥
अन्वयः-हे अशोकाङ्कुरेपाणि पल्लवे ! यस्यां वंशस्थपादाः गुरुपूर्ववर्णकाः (स्युः) हे तारुण्यहेलारतिरङ्गलालसे ! कवयः तां इन्द्रवंशां प्रचक्षते ॥ ३४॥
अर्थः- हे अशोकाङ्कुरपाणिपल्लवे ! अशोकस्य-वृक्षविशेषस्य अङ्कुरवत् - कलिकावत् पाणिपल्लवौ-करौ यस्यास्तत्सम्बुद्धौ ! यस्यां-वृत्तौ, वशस्थपादाः-वंशस्थछन्दसश्चत्वारश्चरणाः, गुरुपूर्ववर्णकाः--आद्यवर्णाः गुरवः स्युः ! हे तारुण्य हेलारतिरङ्गलालसे । तारुण्यस्य-यौवनस्य हेंलाभिः- -क्रीडाभिः रतिरङ्गे-सुरतसंग्रामे लालसाऽभिलाषा यस्यास्तत्सम्बुद्धौ । कवयः - काव्यज्ञाः ताममुम् इन्द्रवंशां- एतदाख्यं छन्दः प्रचक्षते - कथ यन्ति । इन्द्रवंशा। च. अ. १२, ग. त, त, ज, र, यतिः ५,७, ssI,ssI,isi,sis, ॥ ३४ ॥
भाषा-हे अशोक के पल्लव के समान अंगुली वाली ! हे तारुण्य के विलाससे रति क्रीड़ा में अभिलाषा करनेवाली ! जिस श्लोक में वंशस्थ छंद के चारों चरणों का प्रथम अक्षर दीर्घ हो उसको कवि लोग इन्द्रवंशा छन्द कहते हैं ॥ ३४ ॥
प्रभावती छन्द
यस्यां प्रिये प्रथमकमक्षरद्वयं-
तुर्य तथा गुरु नवमं दशान्तिकम् ।
सान्त्यं भवेद्यदि विरतिर्युगग्रहै:-
सा लक्षिता ह्यमृतलते प्रभावती ॥ ३५ ॥
अन्वयः-हे प्रिये यस्यां, प्रथमकं अक्षरद्वयंतुर्य नवमं तथा सान्त्यं दशान्तिकं गुरु भवेत् । यदि युगग्रहैः विरतिः ( भवेत् ) हे अमृतलते हि सा प्रभावती लक्षिता ॥ ३५ ॥
अर्थ:-हे प्रिये - हे वल्लभे! यस्यां - वृत्तौ, प्रथमकं- आद्यं अक्षरद्वयम् - वर्णयुगलम्, तुर्यम् – चतुर्थम्
नवमं-तत्संख्याकं, तथा-तेनैव प्रकारेण, सान्त्यम् - त्रयोदशाक्षरसहितं, दशान्तिकम् – एकादशं, गुरु -दीर्घं, भवेत् - स्यात्। यदि-चेत्, युगैः- चतुर्भिः ग्रहै:- नवभिरक्षरैः, विरतिः - विश्रामः ( भवेत् ) हे अमृतलते । अमृतस्य-पीयुषस्य लता इव स्थिते ! हि-निश्चयेन, सा-असौ, प्रभावती- तदाख्या वृत्तिः, लक्षिता - कथिता । प्रभावती- च. अ.१३ ।s1, SI|, IIs, 1s1,S ग०, ज, भ, स, ज, गु, यतिः ४,६, ॥३५॥
भाषा-हे अमृतलते ! जिसमें आदि के दो अक्षर अर्थात् पहिला और दूसरा चौथा नववां ग्यारहवां तथा अन्त्य का अक्षर दीर्घ हो और जहां चौथे और दसवेंअक्षर पर विराम हो, उसको प्रभावनी छन्द जानना ॥ ३५ ॥
प्रहर्षिणी् छन्दः।
आद्यं चेत् त्रितयमथाष्टमं नवान्त्यं-
द्वे चान्त्ये गुरुविरतौ सुभाषिते स्यात् ।
विश्रामो भवति महेशनेत्रदिग्भि-
र्विज्ञेया ननु सुभगे प्रहर्षिणी सा ॥३६॥
अन्वयः-हे सुभाषिते ! चेत् आद्यं त्रितयं अथ अष्टमं नवान्त्यं (गुरु) स्यात् द्वे च अन्त्ये गुरुविरतौ ( स्याताम् ) महेशनेत्रदिग्भिः विश्रामः भवति । हे सुभगे ननु सा प्रहर्षिणी विज्ञेया ॥३६॥
अथ:-हे सुभाषिते-सुवाणि ! चेन्-यदि, आद्यं-आदौ स्थितम्, त्रितयं-वर्णत्रयं, अथ-अनन्तरं, अष्टमं-तत्संख्याकं, नवान्त्यं - दशमं गुरु स्यात् – भवेत् । द्वे - युगलं च, अन्त्ये - अवसानस्थिते द्वादशत्रयोदशे च गुरुविरतौ-दीर्घान्वितौ स्याताम् । महेशनेत्रः - त्रिभिः दिग्भिः-दशभिः (वर्णैः ) विश्रामः – यतिः, स्यात्-भवेत् । हे सुभगे शोभनैश्वर्यशालिनि, ननु-निश्चयेन, सा-असौ, महर्षिणी-तन्नामिका वृत्तिः, विज्ञेया-बोध्या । प्रहर्षिणी । च. अ.१३,ग. म, न, ज,र,गु, यति:३,१०, sss,111,ISI,SIS,s, ॥३६॥
भाषा-हे मृदु भाषण करनेवाली ! हे सुभगे !जिसमें आदि के तीन तथा आठवां, दशवां, बारहवां, और तेरहवां अक्षर दीर्घ हो, तीसरे और दशवें अक्षर पर विराम हो उसको प्रहर्षिणी छन्द जानना ॥ ३६ ॥
वसन्त तिलका छन्दः
आद्यंद्वितीयमपि चेद्गुरु तच्चतुर्थ-
यत्राष्टमं च चदशमान्त्यमुपान्त्यमन्त्यम् ।
कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे ?
कान्ते वसन्ततिलका किल तां वदन्ति ॥३७॥
अन्वयः-हे कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रो यत्र चेत् आद्यं द्वितोयम्, तच्चतुर्थं अष्टमं दशमान्त्यं उपान्त्यं अन्त्यं(अक्षर)गुरु(स्यात्) हे कान्ते किल तां वसन्ततिलकां वदन्ति ॥ ३७॥
अर्थः-काम:-मदन, एवाङकुशस्तेनाङकुशिता:-वशीकृताःकामिनः-कामुका एव मतङ्गजेन्द्राः - दिग्गजा यथा तत्सम्बुद्धौ ! यत्र - यस्मिम् पद्ये, चेत् – यदि, आ्द्यं-प्रथमं द्वितीयं- द्वित्वसंख्याविशिष्टं, तत् - तथा चतुर्थं - तुर्यं, अष्टमं, दशमान्त्यं - एकादशम्, उपान्त्यं -त्रयोदशं, अन्त्यं - चतुर्दशञ्च(अक्षरं)गुरु- दीर्घं (स्यात्} । हे कान्ते- प्रिये, किल-निश्चयेन तां-अमुम्, वसन्ततिलकां-तदाख्यां वृत्तिं, वदन्ति - ब्रवन्ति । च. अ.१४, ग०,त, भ,ज,ज,गु, गु, ssl,sII,IsI,ISI,s,s, ॥ ३७॥
भाषा-हे कमिनि ! हे कांते ! जिस श्लोक में पहिला,दूसरा,चौथा, आठवां, ग्यारहवां, तेरहवां और चौदहवां अक्षर दीर्घ हो उसको पण्डित लोग वसंत तिलका छन्द कहते हैं॥३०॥
मालिनी छन्दः।
प्रथममगुरु षट्कं विद्यते यत्र कान्ते-
तदनु च दशमं चेदक्षरं द्वादशान्त्यम् ।
गिरिभिरथ तुरङ्गैर्यत्र कान्ते विरामः
सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा।। ३८॥
अन्वयः हे कान्ते, यत्र प्रथमम्, षट्कम,तदनु, दशमम्, द्वादशान्त्यम् च अक्षरम् अगुरु चेत् विद्यते । हे कान्ते गिरिभिः अथ तुरङ्गैः यत्र विरामः सा सुकविजनमनोज्ञा मालिनी प्रसिद्धा ॥ ३८॥
अर्थः - हे कान्ते - प्रिये, यत्र – यस्मिन् छन्दसि, प्रथमं षटकम् – पादेषु आदितः षडक्षरम्, तदनु -- तदनन्तरं दशमं - तत्संख्याकं द्वादशान्त्यं, - त्रयोदशञ्चाक्षरं - वर्णः चेत् यदि अगुरु-लघु, विद्यते - भवति । हे कान्ते -प्रिये, गिरिभिः - अष्टभिः अथ-अनन्तरं तुरङ्गैः, सप्तभिः, यत्र-यस्मिन पद्ये, विराम: -विश्रामः,सा-असौ, सुकविजनानां-शोभनविद्वज्जनानां मनोज्ञा-मनोहारिणी,
मालिनी-तदाख्या वृत्तिः, प्रसिद्धा-प्रथिता । च. अ.१५, ग. न, न, म, य, य, यतिः ८,७,111,111,sss,Iss,Iss, ॥३८॥
भाषा-हे कान्ते ! हे सुन्दरि ! जिस श्लोक में पहिले के छः अक्षर तथा दशवां और तेरहवां अक्षर हस्व हो और सात तथा आठ अक्षरों पर उत्तम कवियों को सुन्दर लगने वाले विराम हो, उसको मालिनी छन्द कहते हैं ॥ ३८ ॥
हरिणी छन्दः।
सुमुखि लघवः पञ्च प्राच्यास्ततो-दशमान्तिकंं
तदनु ललितालापे वर्णों यदि त्रिचतुर्दशौ
प्रभवति पुनर्यत्रोपान्त्यः स्फुरत्करकङ्कणे यतिरपि
रसैर्वेदरश्वैः स्मृता हरिणीति सा ॥३१॥
अन्वयः-हे सुमुखि ! यत्र प्राच्याः पञ्च ( बर्णाः ) लघवः (स्यु:) ततः दशमान्तिक, तदनु त्रिचतुर्दशौ वर्णौ (लघू ) स्याताम् । हे ललितालापे ! पुनः उपान्त्यः ( वर्णः लघुः स्यात्) हेस्फुत्करकङ्कणे, रसैः वेदैः अश्वैः यतिः अपि ( स्यात्) सा हरिणीति स्मृता ॥ ३१ ॥ अर्थः-सुष्ठु-शोभनं मुखमाननं यस्थातत्सम्बुद्धौ ! यत्र-वृत्तौ, प्राच्या:-प्रथम, पञ्च-पञ्च वर्णाः लघवा-ह्रस्वाः स्युः । ततः-तदनु, दशमान्तिक-एकादशं; तदनु-ततः, त्रिचतुर्दशौ-त्रयोदशचतुर्दशौ वर्णौ-अक्षरे ( लघुनी ) स्याताम् । ललित:-मनोहरः, आलापो-भाषणं यस्या- स्तत्सम्बुद्धौ ! पुनः - भूयः, उपान्त्यः-अन्त्यसमीपस्यः
[लघुःस्यात् । स्फुरन्ति - प्रकाशमानानि करयोः - हस्तयोः कङ्कणानि- यस्यास्तत्सम्बुद्धौ हेस्फुरत्करकङ्कणे रसै-षड्भिः वेदैश्चतुर्भिः, अश्वैः - सप्तभिः यतिः-विश्रामः स्यात् । सा-असौ हरिणी - एतदाख्या वृत्तिः इति - इत्थं, स्मृता-कथिता। च. अ. १७ ग०, न, स, म, र, स, ल, गु, यतिः ६, ४, ७, ॥।, ॥s, sss, SIS ||S, IS। ॥।३९॥
भाषा-हे सुन्दर मुखवाली ! हे मधुर भाषण करने वाली हे चमकते हुए सुवर्ण के कङ्कण वाली ! जिस श्लोक में आदिके पांच अक्षर, ग्यारहवां,तेरहवां,चौदहवां, और सोलहवां ये अक्षर ह्स्व हो और ६, ४, ७, अक्षरों पर विराम हो उसे हरिणी छन्द कहते हैं ॥ ३९ ॥
यदा पूर्वो ह्रस्वः कमलनयने षष्ठकपरा-
स्ततो वर्णाः पञ्च प्रकृतिसुकुमाराङ्गि लघवः ।
त्रयोन्ये चोपान्त्या सुतनु जघनाभोगसुभगे-
रसैरुदैर्यस्यां भवति विरतिः सा शिखरिणी ॥४०॥
अर्थः-हे कमलनयने ! यदा पूर्वः (वर्णः) ह्रस्वः ( स्यात् ) ततः षष्ठकपराः पञ्च वर्णाः लघवः ( स्युः) हे प्रकृतिसुकुमाराङ्गि ! अन्ये च उपान्त्याः त्रयः (वर्णाः लघवः स्युः) हे सुतनु । हे जघनाभोगसुभगे ! यस्यां रसैः रुद्रैः विरतिः भवति सा शिखरिणी ( स्यात् ) ॥ ४०॥
अर्थः-कमले-पद्म इव नयने नेत्रे यस्यास्तत्सम्बुद्धौ, यदा-यस्मिन् पद्य, पूर्व:-प्रथमः वर्णः, ह्रस्वः-लघुः स्यात्, तत:-पश्चात्, षष्ठकपराः-पष्ठाक्षरतोऽग्रे पञ्चवर्णाः-पञ्चाक्षराणि लघवः-ह्रस्वाः स्युः। प्रकृत्या-स्वभावेन सुकुमाराणि-कोमलानि अङ्गानि-शरीराणि यस्यास्तत्सम्बुद्धौ! अन्ये-इतरे च उपान्त्या-अन्त्यसमीपस्थाः त्रयः--चतुर्दश पञ्चदशषोडशाश्च वर्णाः लघवः स्युः हे सुतनु हेजघनाभोग सुभगे ! जघनयोः आभोगेन-पृथुत्वेन सुभगा-सुशोभना, सुष्ठु तनुर्यस्याः तत्सम्बुद्धौ ! यस्यां-वृत्तौ रसैः-पभिःरुद्रैः- एकादशभिः विरति:-यतिः भवति-जायते, सा-असौ शिख-
रिणी-तदाख्या वृत्तिः स्यात् । च. अ० १७ ग० य, मा न,स,भ,ल,गु, पतिः,६, ११, Iss,sss,॥।,॥s,s।।.s, ॥ ४६ ॥
भाषा-हे कमल के समान नेत्रवाली ! हे स्वभाव से कोमलांगि ! हे सुन्दर जंघावाली! हे सुन्दरि ! यदि आदि का अक्षर हस्व हो और उसके बाद के ५ अक्षर दीर्घ हो तथा छठवें से आगे के पांच अक्षर और चौदहवां पंद्रहवां और सोलहवां ये अक्षर लघु हों और जिसमें ६ और ११ अक्षर पर विराम हो उसको शिखरिणी छन्द कहते हैं ॥ ४० ॥
पृथ्वी छन्दः।
द्वितीयमलिकुन्तले यदि षडष्टमं द्वादशं-
चतुर्दशमथ प्रिये गुरु गभीरनाभिह्र्दे ॥
सपञ्चदशमन्तिकं तदनु यत्र कान्ते यति-
गिरीन्द्रफणिभृत्कुलर्भवति सुभ्रु पृथ्वी हिसा ॥४१॥
अन्वयः-हे अलिकुन्तले! यदि द्वितीयम् षडष्टमम् द्वादशम् अथ चतुर्दशम् तदनु सपञ्चदशम् अन्तिकं (अक्षरम् ) गुरु ( स्यात् ) हे प्रिये ! हे गभीरनाभिह्रदे ! हे कांते ! यत्र गिरोन्द्रमणिभृत्
कुलैःयतिः भवति । हे सुभ्रु हि सा पृथ्वो-(ज्ञेया) ॥४१॥
अर्थ:-अलिवत्-भ्रमरवच्छ्यामाः कुन्तल':-अलकाः- यस्यास्तत्सम्बुद्धौ! यदि-चे, द्वितीयम्-तत्संख्याकषडष्टमम्षष्ठमष्टमञ्च, द्वादशं-तत्संख्याकं अथ-अन्यत् चतुर्दशम्, तदनु-तत्पश्चात् सपञ्चदशं-पञ्चदशसहितं अन्तिकं-सप्त दशं (अक्षर') गुरु-दीर्घ स्यात् । हे प्रिये-वल्लभे! हे कान्ते नायिके! हे गभीरनाभिह्रदे। गभीर-गम्भीरं नाभिरेव -हदो यस्यास्तत्सम्बुद्धौ ! यत्र-यस्मिन् पद्ये गिरीन्द्रैः-अष्टभिः फणिभृत्कुलः-नवभिश्च यति:-विश्राम: भवति-जायते । हि-निश्चयेन,सा- असौ,पृथ्वी-तदाख्या वृत्तिः, ज्ञेया । च. अ. १७, ग, ज,स. ज, स, य, ल, यति ८,९, ISI, lls, isi, lls, |ss i,s ॥४१॥
भाषा-हे भ्रमरों के समान श्याम केशवाली ! हे गंभीर नाभिवाली । यदि श्लोक का दूसरा, छठवां, आठवां, बारहवां चौदहवां, पंद्रहवां, और सत्रहवां, ये अक्षर दीर्घ हो और हे कामिनि ! हे सुन्दर भृकुटीवाली ! आठवें और नौवे अक्षरों
पर विराम हो, उसे पृथ्वी छन्द कहते हैं ॥४१॥
नन्वेकादशतस्त्रयस्तदनु चेदष्टादशाद्यौततः ।
मार्तण्डैर्मुनिभिश्च यत्र विरतिः पूर्णेन्दुबिम्बानने
तद्वृत्तं प्रवदन्ति काव्यरसिका: शार्दूलविक्रीडितम् ४२)॥
अन्वयः-हे प्रियतमे ! चेत् आद्याः त्रयः (वर्णाः) गुरवः ( स्युः) षष्ठः तथा अष्टमः च ( गुरुः) ( स्यात् ) चेत्, तदनु एकादशतः त्रयः ततः अष्टादशाद्यौ (वर्णौ ) ( इत्येते वर्णाः गुरवः स्युः ) हे पूर्णेन्दुबिम्बानने यत्र मार्तण्डैः मुनिभिः च विरतिः (स्यात् ) काव्यरसिका: तद्वृत्तं शार्दूलविक्रीडितं प्रवदन्ति ॥ ४२ ॥
अर्थः- हे प्रियतमे--अतिशयेन प्रियो ! चेत् - यदि आद्याः- पूर्वे, त्रयः - प्रथमादित्रयः वर्णाः गुरवः - दीर्घाः स्युः । षष्ठः, तथा अष्टमश्च वर्णः गुरुः स्यात् । चेत् -यदि तदनु- तत्पश्चात् एकादशतस्त्रयः-द्वादरात्रयोदश चतुर्दशाः ततः - तदनन्तरं अष्टादशाद्यौ-षोडशसप्तदशौ वर्णौ गुरवः स्युः। हे पूर्णेन्दुबिम्बानने, पुर्णश्चासा विन्दुः पुर्णेन्दुस्तस्य बिम्बवदाननं - मुखं यस्यास्तत्सग्बुद्धौ । यत्र - यस्मिन् पद्ये, मार्तण्डैः- द्वादशभिः, मनि भि:-सप्तभिश्च विरति:-विरामः स्यात्तर्हि काव्यरसिका:-कविवराः, तद्वृत्तं-तत् छन्दः, शार्दूलविक्रीडितं- एतन्नामकं प्रवदन्ति- कथयन्ति । च; अ; १९ ग० म, स, ज, स, त, त, गु; यतिः १२, ७, sss, 11s, ISI, IIs,ssI,ssI,s ॥४२॥
भाषा-हे प्राणप्यारी! जिसमें आदि के तीन अक्षर तथा छठवां और आठवां तथा एकादश से ३ अर्थात् १२,१३,१४, वा तथा अठारह के आदि के २ अर्थात् १६, १७ वो और अन्त का १९ वां ये अक्षर गुरु हों और हे चंद्रमुखि ! जिसमें १२ और 7 अक्षरों पर विराम हो तो काव्य के रसिक उसको शार्दूलविक्रीडितछन्द कहते हैं ॥ ४२ ॥
स्रग्धरावृत्तम् ।
चत्वारो यत्र वर्णाः प्रथममलघवः
षष्ठकः सप्तमोऽपि ।
दौ तद्वत्षोडशाद्यौ मृगमदमुदिते
षोडशान्त्यौ तथान्त्यौ ।
रंभास्तम्भोरुकान्ते मुनिमुनिमुनिभि-
र्दृश्यते चेद्विरामो।
बाले वन्द्यैः कवीन्द्रैः सुतनु निगदिता
स्रग्धरा सा प्रसिद्धा ॥ ४३ ॥
अन्वयः हे मृगमदमुदिते । यत्र प्रथमं चत्वारः वर्णाः अलघवः षष्ठकः सप्तमः अपि ( अलघुः) तद्वत् हे रम्भास्तम्भोरुकान्ते! षोडशा द्यौ द्वौषोडशान्त्यौ तथा अन्त्यौ ( अलघू) चेत हे बाले मुनि मुनि मुनिभिः विरोमः दृश्यते,हे सुतनु, वन्द्यैः कवीन्द्रैः सा प्रसिद्वा स्रग्धरा निगदिता ॥ ४३ ॥
अर्थ:-मृगस्य मदेन - कस्तूर्या, मुदिते – सन्तुष्टे, यत्र-यस्यां, वृत्ती, प्रथमं - पूर्व, चत्वारो वर्णाः-वत्वार्यक्षराणि, अलघव:-गुरवः, (स्युः), षष्ठका-षष्ठः, सप्तमोऽपि (अलघुः) तद्वत् - तथैव, हे रम्भास्तम्भोरुकान्ते ! रम्भायाः - कदल्यास्तम्भवदुर्योः कान्तिर्यस्यास्तथाभूते । षोडशाद्यौ द्वौ चतुर्दशपञ्चदशौ, षोडशान्त्यौ - सप्त दशाष्ठादशौ वर्णौ, तथां - तेन प्रकारेण, अन्त्यौ-विशैकविंशौ गुरू स्याताम्। चेत्-यदि,हे बाले मुनि मुनि २ भि:- सप्तभि, सप्तभिः विराम: --विश्रामः, दृश्यते -ज्ञायते हे सुतनु-सुगात्रि । वन्द्यैः : पूजार्है :, कवीन्द्रैः-कविवरै: स्सा प्रसिद्धा-प्रथिता, सग्धरा - एतदाख्या वृत्तिः, निगता-कथिता । च० अ० २१,ग° म,र,भ,न,य, य,य,यतिः ७, ७,७,sss,sis,SII,III,Iss,Iss, Iss. ॥४३.॥।
भाषा-हे कस्तूरी से खुश होने वाली ! जिसमें आदि के ४ अक्षर गुरु हों तथा ६,७,१४,१५,१७,१८,२०,२१, ये अक्षर भी दीर्घ हो और हे केले के खंभ के समान सुन्दर जंघावाली ! जिस मे ७।७। वर्णों पर विराम होतो, हे बाले ! हे सुन्दरि !
उसको कवीश्वरों ने स्रग्धरा नामक छन्द कहा है ॥ ४३ ॥परिशिष्टम् ।
वाक्यं रसोत्मकं काव्यम्
गद्यपद्यभेदेन तद्विविधम् ।
छन्दो बद्ध पद्य तदेव वृत्तशब्देन व्यवहार्यते ; तदहितं तु गद्यम्, मिश्रं चम्पू भवति ।
अर्थः पद छन्द में होने से पद्य कहलाता है, और तद्रहित होने से गद्य होता है, जैसे रामयणादि, और कादम्बार्यादि, गद्य और पद्य एक में होने से चम्पू होता है जैसे भारत चम्पू आदि ।
समार्धसमविषमभेदेन वृत्तं त्रिविधम् ।
अर्थ:--समः अर्धसम और विषम इस भेदसे वृत्त तीन प्रकारका है।
समार्द्धसमविषमवृत्तानां लक्षणानि ॥
अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते॥ १ ॥प्रथमा्ङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् द्वितीयस्तुर्यवद्वृत्त तदर्द्धसममुच्यते ॥ २ ॥यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥३॥
- -
भाषा-जिसके चारों चरणों में समान लक्षण हो उसको छन्दः शास्त्र के ज्ञाता समवृत्त कहते हैं ॥ १ ॥ जिसका प्रथम चरण और तीसरा चरण तथा दूसरा और चतुर्थ चरण तुल्य हो उसे अर्ध सम कहते हैं ॥२॥ जिसके चारो चरण आपस में भिन्न २ लक्षण के हो उसे छन्दों के ज्ञाता लोग विषमवृत्त कहते हैं॥३॥
गणलक्षणम् ।
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरा-
दिलघुर्यः जो गुरुमध्यगतो रल मध्यः सोऽन्तगुरुः
कथितोऽन्तलघुस्तः||१|| गुरुरेको गकारस्तु लकारो
लघुरेककः । क्रमेण चैषां रेखाभिः संस्थानं दृश्यते
यथा॥ २॥
भाषा-मगण में ३ गुरु हैं जैसे ३ऽऽऽ, नगण में ३ लघु जैसे ||| , भगण के अदि में गुरु है जैसे ऽ॥, यगण के आदि में लघु है जैसे Iss, जगण के मध्य में गुरु हैं जैसे ।S।, रगण के मध्य में लघु है जैसे s1 s, सगण के अन्त्य में गुरु हैं जैसे ॥s, तगण के अन्त्य में लघु है जैसे ऽऽ। इस प्रकार छन्दशास्त्र में तीन २ वर्णो के आठ गण हैं, गकार का एक गुरु, वर्ण है जैसेऽ, लकार का एक लघु वर्ण है जैसे । ॥
प्रस्तारज्ञानम्।
पादे सर्वगुरावाद्याल्लघु न्यस्य गुरोरधः
यथोपरि तथा शेष भूयः कुर्यादमुंविधिम्
ऊने दद्यात् गुरूनेवं यावत्सर्वलघुर्भवेत्
प्रस्तारोऽयं समाख्यातश्छन्दोविच्छित्तिवेदिभिः
अर्थः-छन्द के जितने अक्षर हो उतने गुरु बनाकर प्रथम रक्खे, और पहिले गुरु के नीचे लघु रख कर बांकी ऊपर जैसाहो वैसे ही नीचे रखता जाय, और उन स्थान में गुरु रक्खे यही क्रिया बार बार करे, जब तक सब लघु न हो जावे, छन्दः शास्त्रज्ञ लोगों ने इस को प्रस्तार कहा है। (इसके करने से एक छन्द के अनेक भेद निकलते हैं)
अक्षर प्रस्तार का यह उदाहरण है
SSS मगणः
ISS यगणः
SIS रगणः
IIS सगणः
SSI तगणः
ISI जग्णः
SII भगण:
||| नगणः
गणनाम देवताफलानि ५
मो भूमिः श्रियमातनोति यजलं वद्धिंरं वन्हिर्मृतिम् । सो वायुः परदेशदूरगमनं तव्योम शून्यं फलम्। जः सूर्यो भयमाददाति विपुलं भेन्दुर्यशो निर्मलं नो नाकश्च सुखपदः फलमिदं प्राहुर्गणानां बुधाः।
भाषा मगण की देवता भूमि है, वह लक्ष्मी का विस्तार करती है यगण की देवता जल, वह वृद्धिकता है, रगण की देवता अग्नि है, वह मृत्यु देती है । सगण की देवना वायु है, वह परदेश गमन कराता है,तगण की देवता आकाश है, फल शुन्य है। जगण की देवता सूर्य है वह रोग देता है। भगण की देवता चन्द्रमा है, वह निर्मल भय देता है। नगण की देवता स्वर्ग है, वह सुख देता है इस प्रकार पंडितोंने गणों का फल वर्णन किया है जैसा निम्न लिखित चक्र से ज्ञात होगा। संख्या गणनाम देवता मगण भूमि लक्ष्मीलाभ यगण वरुण प्रारब्धोदय अग्नि मृत्यु वायु विदेशगमन आकाश निष्फलता वा राज्यलाभ फल SSS २ ISS w रगण SIS ४ Il s सगण SSI ६ तगण सूर्य जगण भय IS! भगण ८ कीर्तिलाम SII सुख तथा स्वर्गलाम। ॥ नगण स्वर्ग
अथ छंदोऽभ्यास विधिः।
कविशिक्षा शतं वीक्ष्य कवीन्द्रान् उपजीव्य च ।
कथ्यते केऽपि शब्दा यैश्छन्दो मन्दोऽपि विन्दति ॥१॥
भाषा-कवि लोगों के शिक्षाओं को देखकर ओर कवि लोगों की सेवा कर कुछ शब्दों को कहता हूँ जिस से मन्द मनुष्य छन्दों का अभ्यास सुगम रीति से कर सकते हैं।
श्रीलक्ष्मीः कमला पद्मालया च हरिवल्लभा ।
दुग्धाब्धिनन्दिनी क्षीरसागरापत्यमित्यपि ॥२॥
क्षीरपाथोधितनयेत्येवमेकाक्षरादिकम् ।
आदौ साध्यं पदं स्थाप्यं शेषं कुर्याद्विशेषणम् ॥३॥
भाषा-लक्ष्मी के एकाक्षर से, आठ अक्षर तक ये नाम हैं, छन्द का अभ्यास करने में पहिले जिसका वर्णन करना हो उसको रक वे पश्चात् उसको विशेषणों से युक्त करें-
विशेष्योऽर्थो वर्णकाराधाराधेयक्रियागुणैः ।
सादृश्यपरिवाराद्यैः क्रियते सविशेषणैः ॥ ४ ॥
भाषा-विशेष्य अर्थ वर्ण, आकार, आधार, आधेय, क्रिया,
गुण, सादृश्य इत्यादिक से युक्त करना चाहिये।
१ यथा सुधांशुधवलोऽतिवृत्तः
क्रान्तान्तरीक्षो हरिणं दधानः ।
महतमो घ्नन् जनतापहारो
मृगेन्द्रवद्राजति ऋक्षमध्ये ॥
कथानगरसर्वार्थ नित्य कृत्यादि वर्णनैः ।
लोकानां दृष्टचेष्टाभिश्छन्दोभ्यासक्रमो यथा।।
आसीत् दशरथो राजा चत्वारस्तस्य सूनवः ।
रामलक्ष्मणशत्रुघ्नभरता इति विश्रुताः ॥
ध्वस्तध्वान्तभरं रत्नवेश्मविस्मेररश्मिभि: ।
राजधानी दिनस्येव तत्पुर द्योतते सदा ॥
स्थाली भात्यन्नपुर्णेयमम्भोभिः शोभते घटः ।
पटः संलक्ष्यते सूक्ष्मः साक्षाल्लक्ष्मीरियं वधूः॥
१ इस जोक में 'सुधांशुको’ विशेष्य कर बाकी सब उसके विशेषण किये हैं॥
प्रातः कृतश्रमः स्नातोऽर्चितदेवो हुतानलः ।
भुक्तान्नः श्रुतसच्छास्त्रः सायं शय्यागृहं ययौ ।
पुष्पाणि पाणिदेशेऽसो कृत्वा क्रीडति कामुकः।
ताम्बुलिकोऽत्र ताम्बुलमस्य पश्यापयत्यसौ ॥-
इस प्रकार छन्दों का अभ्यास करने से मनुष्य शीघ्रही कवि कि हो सकता है,
-------------- ॐ --------------
:
श्रुतबोधे प्रश्राः
(१) पृथ्वीहरिण्योः कस्मिन्विषये भेदः; कस्मिश्चाभेद इति सलक्षणमुत्तरणीयम् । (२) लक्ष्यन्तामुदाहियन्तां चायोविन्यस्तछन्दांसि; शालिनी- मन्दक्रान्ता-शिखरिणी-स्रग्धरा-उपेन्द्रवज्रा-इन्द्रवंशेति । (३) यस्मिन्वृत्ते आद्यात्रयः अष्टमः दशमः द्वादशत्रयोदशी च गुरवः सन्ति तस्य किं नाम । (४) मणिबन्यस्यादावन्ते एकगुरुयोजने किं छन्दो भवति । (५) अधोलिखितानां पादाना यस्मिन्समावेशस्तस्य किं नाम। कनककुण्डलमण्डितगण्डया ॥१॥ द्वन्द्वो द्विगुरपि चाह मद्गेहे नित्यमव्ययीभावः ॥ २ ॥ कथमयमपि कालश्चारुचन्द्रावतंसः ॥३॥ सस्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो मृडः ॥४॥ ६) यस्मिन् प्रथमे पांच वर्णाः तथा एकादशत्रयोदशचतुर्दश षोडशाश्च वर्णाः लघवः सन्ति तत्किनामकं छन्दः । (७) गणानां नामानि कानि; कानि च तेषां फलानि । (८) श्रुतबोध इति नाम अन्वर्थमनन्वर्थम्वेति सयुक्तिकं लिख । (९) पादान्तस्थं विकल्पेनेत्यस्योदाहरणं लिख । (१०)अस्य ग्रन्थस्य का कः कथं तन्निर्णय इति लिख ।
इति