सामग्री पर जाएँ

श्रुतप्रकाशिका/प्रथमः भागः

विकिस्रोतः तः
श्रुतप्रकाशिका
प्रथमः भागः
[[लेखकः :|]]
द्वितीयः भागः →

श्रुतप्रकाशिका

1.1.1

वरदं द्विरदाद्राशं श्रीनिधिं करुणानिधिम् । शरण्यं शरणं यामि प्रणतार्त्तिहरं हरिम् ।। 1 ।।

बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ।। 2 ।।

सम्यङ्न्यायकलापेन महता भारतेन च । उपबृंहितवेदाय नमो व्यासाय विष्णवे ।। 3 ।।

तस्मै रामानुजार्याय नमः परमयोगिने । यः श्रुतिस्मृतिसूत्राणा-मन्तर्ज्वरमशीशमत् ।। 4 ।।

वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ।। 5 ।।

प्रपद्ये प्रणवाकारं भाष्यं रङ्गमिवापरम् । परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमीक्ष्यते ।। 6 ।।

श्रुत्यन्तेषु श्रुतं भाष्ये मतं ध्यातं हृदम्बुजे । लक्ष्मीपतिं प्रपद्येऽहं दृष्टं श्रीरङ्गधामनि ।। 7 ।।

प्रमाणं च प्रमेयं च प्रमातारश्च सात्त्विकाः । जयन्तु क्षपितारिष्टं सह सर्वत्र सर्वदा ।। 8 ।।

अविस्तृताः सुगम्भीरा रामानुजमुवेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ।। 9 ।।

श्रीरङ्गेशाज्ञया लब्ध-व्याससञ्ज्ञं सुदर्शनम् । वाचाविज्जीयनः पुत्रं भाष्यभक्तिरचूचुदत् ।। 10 ।।

गुरुभ्योऽर्थः श्रुतःशब्दैस्तत्प्रयुक्तश्च योजितः । सौकर्याय बभुत्सूनां सङ्कलय्य प्रकाश्यते ।। 11 ।।

कः कृत्स्नं वेत्ति भाष्यार्थं श्रुतांशस्थितये कृतिः । आढ्यैः काकणिकेवैषा नोपेक्ष्या भाष्यवित्तमैः ।। 12 ।।

भाष्यं चेद्वयवृणोत्स्वयं यतिपतिर्व्याख्यानवाचां तथा । गाम्भीर्यादनवस्थितिर्मितमतिर्दूरे जनस्तद्गिराम् ।।

प्रष्टव्यः कथमीश्वरः स हि न नः प्रत्यक्षरूपो दृशां ।

तद्भाष्यं स च भाष्यकृत्स च हरिः सम्यक् प्रसीदन्तु नः ।। 13 ।।

सर्वेषां पुरुषाणां प्रमाणाधीनप्रमेयनिश्चयानामुपादित्सितजिहासितेष्टानिष्ट तत्साधनानामलौकिकपुरुषार्थत-त्साधनरूपे वस्तुनि शब्दैकसमाधिगम्ये, तत्राप्यपुरुषशेमुषीदोषमषीमालिन्यस्य वेदाख्याक्षरराशेरेव प्रधानतः प्रमा-णतया आश्रयणीयत्वे सिद्धे, तत्र च पशुपुत्रवृष्टयन्नस्वर्गाद्यौहिकामुष्मिकार्वाचीनफलतत्साधनपरेऽवगते पूर्वभागे, परमपुरुषार्तावबोधके च तदुपरिभागे पूर्वाचार्याभिमतमुक्तिघण्टापथकण्टकायमानविविधकुदृष्टिजनदुर्वचनशतोपप्लुते तदुपदर्शितकुपथप्रवृर्त्तिनि जगति च मोमुह्यमाने तदुज्जिजीवयिषया सदसद्विवेचनचतुरपूर्वाचार्यपरिचितं प्राचीनमेव समीचीनमध्रवानं निष्कण्टकीकृत्य परमपुरुषार्थाभ्यर्थिजनसार्थं कृतार्थयितुं भवभयाभितप्तजनभागधेयवैभवभाविता-वतरणेन परमकारुणिकेन भगवता भाष्यकारेण शारीरकशास्त्रं व्याचिख्यासितम् । परमर्षिप्रणीतानि व्याख्येयानि, तेषां च महिर्षिप्रणीतानि व्याख्यानानि च सन्ति चेतान्येवानुरोद्धव्यानि । नह्यनृषेः सूक्ष्मदर्शित्वम् , ऋषेरभिप्राय-मृषिरेव स्वतो वेदितुमर्हति न तु जडमतिरितरो जनः । ऋषिवचसामेवाभिन्नवक्तृकाणां मिथो विरोधे पूर्वपक्षाभिप्रा-यवैभववादादिभिरविरोधो नेयः । भिन्नवक्तृकाणां तु विरोधे दुष्परिहरे युक्तियुक्तं ग्राह्यमिति न दोषः । ये पुनः सन्त्यपि तान्यनादृत्य व्याख्येयान्तराणि व्याख्यानान्तराणि च तद्विरुद्धानि रुचयन्ति तेषामाग्रहगृहीतहृदयत्वे पण्डितमानित्वे पाण्डित्यख्यापनपरत्वे च तत्प्रवृत्तिरेव प्रमाणम् । इतरेषां च व्याख्यातॄणामार्षव्याख्यानातिलङ्घित्वम् "उपासात्रैवि-ध्यात् " "सर्वत्र प्रसिद्धोपदेशात्" "भूमासम्प्रसादादध्युपदेशात्" "दहर उत्तरेभ्यः" इत्यादिषु स्पष्टतरम् , इह तु वृत्त्ननु-सारः प्रतिज्ञातः । न च तत्प्रतिज्ञानमहृदयमिति शङ्कनीयम्; दुष्परिहरबाधकानुपलम्भात् । यद्यपि कर्ममीमांसायां च क्वचित्क्वचिदर्वाचीनव्याख्यातृभिराकुलत्वमापादितम् , तथापि तत्र प्रयोगमार्गे स्खलनाभावादनुष्ठानमात्राधीनायाः स्वर्गादिफलसिद्धेर्देवतास्वरूपतद्याथात्म्यसत्कार्यवादादिज्ञाननैरपेक्ष्यम् , परमपुरुषार्थस्य ज्ञानैकसाध्यतया ज्ञानमार्ग-स्खलनस्याऽऽत्महानिफलकत्वेन तद्विपरीतज्ञानानामवश्यपरिहर्त्तव्यत्वम् । उत्तरभागे च तत्तदर्थौपयिकतया प्रसक्तनां पूर्वभागार्थानां प्रदर्शितयैव दिशानुक्तनामपि शिक्षणीयार्थान्तराणां सुकरनिर्वाहत्वं चाभिप्रेत्य ब्रह्मसूत्राण्येव भगवान्

भाष्यकारः प्रारभते विवरीतुम् ।।

एवं प्रारिप्सितस्य प्रबन्धस्याविध्नपरिसमाप्तिप्रचयगमनार्थं स्मृत्याचारसिद्धमिष्टदेवतोपासनरूपं मङ्गलं श्रौ-तमाचरति - अखिलेत्यादिना श्लोकेन ।

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ।।

इति हि स्मर्यते ।

आचार्यते च तत्तत्प्रबन्द्धृभिः, श्रोतृबुद्धिमनस्समाधानार्थं शास्त्रार्थसङ्क्षेपश्चार्थतः क्रियते । यथा चोदनासूत्रेण धमर्स्वरूपं

प्रमाणञ्च श्रुत्यर्थाभ्यां निरूपितम् । प्रसिद्धं हि श्रोतुः प्रतिपत्तिसौकर्याय वक्तुरर्थप्रतिपादनस्य सङ्क्षेपपूर्वक-त्वम् । "इष्टं हि विदुषां लोके समासव्यासधारण"मिति शास्त्राथर्सङ्क्षेपेण वस्तुनिर्देशो भवत्वित्याशीर्वादश्च कृतौ भवतः । "विनतेति" "भक्तिरूपे"ति च ब्रह्मणि प्रह्वीभावावगमात् प्रणतिरपि फलिता । णमु प्रह्वत्वे इति हि धातुः । एवं त्रिविधं मङ्गलमाचरितं भवति । श्लोकस्य प्रथमपादेन पूर्वस्याध्यायद्विकस्यार्थः सङ्क्षिप्तः । द्वितीयेन तूत्तरद्विकस्य । कर्ममीमांसायां प्रतिपाद्यभेदेन षट्कभेदवदत्रापि विषयविषयिरूपप्रतिपाद्यभेदेन द्विकभेदः । शास्त्रप्रतिपाद्यमुपायोपेया-त्मकम् तिद्धोपाय उपेयञ्च ब्रह्म । साध्योवायो भक्तिः । तत्र सप्तम्यन्तैः पदैः सिद्धोपायरूपमुपेयञ्च ब्रह्मोच्यते । भवतीति भुवनं कार्यवर्मः । रूढिशक्तया तत्कारणस्य कुलालादितो व्यावृत्तिः । भुवनशब्दो हि विपुलतरकार्यविशेषे रूढः । अखिलशब्देन सर्वदेशसर्वकालवर्तीन्यण्डजातानि विवक्षितानि तेन ब्रह्मादिव्यावृत्तिः । खिलं नास्तीत्यखिलं कार्येषु ब्रह्मणः सृष्टयादिव्यापाराविषयभूतं न किञ्चिदित्यर्थः । अनया व्यतिरेकोक्तया प्रायिकत्त्वानिवृत्तिः । "अज्ञातं नास्ति ते किञ्चिदि"ति वत् । अतः सकलमित्यन्वयमुखेनानुक्तिः । अकारोपक्रमत्वसिद्धये निखिलेत्यनुक्तिः । "अ" इति भगवतो नारायणस्य प्रथमाभिधानं भगवतो वाचकम् , "अकारं प्रयुञ्जानेन किन्नाम मङ्गलं न कृत"मिति चाभियुक्तैरभ्यधायि । अत्र भगवद्वाचित्वाविवक्षायामपि भगवद्वाचकत्वशक्तियोगादकारो माङ्गलिकः । "अइउण्" इत्यत्राकारवत् । नञो निषेधवाचित्वेऽपि निषेध्यवशाच्छुभत्वाशुभत्वे अतो "निष्प्रत्यूहमुपास्मह" इत्यादिनिर्देशस्येव शुभतरत्वं, वैकल्य-निषेधेन पौप्कल्यपरत्वात् । अखिलशब्देन चिदचिद्भेदोऽप्यभिप्रेतः । "जन्म" नित्यनैमित्तिकप्राकृतरूपं, 1"स्थेमा" स्थितिः । सा चान्तर्यामि-विष्ण्ववतार-लोकपाल-मन्वादि-नृप-मातापित्रादिमुखेन क्रियमाणा बहुविधाविवक्षिता । "भङ्गः" । नित्यनैमित्तिकप्राकृतरूपः । मोक्षस्य लयान्तर्भवेऽपि शास्त्रस्य परमप्रयोजनत्वादत्र स नान्तर्भावितः । अत एवादिशब्देऽपि नान्तर्भाव्यः । तस्य साधारणतया स्फुटप्रतिपत्तिहेतुत्वाभावात् । पृथगेव हि पूवर्श्च स्पष्टतरं निर्दिष्टो मोक्षः । "जगदुद्भवस्थितिप्रणाशसंसारविमोचनादयः" इति । "जगज्जन्मस्थितिध्वंसमहानन्दैकहेतव" इति च भगवान् भाष्यकारश्च तथा निर्दिशति । यथा वेदाथर्सङ्ग्रहे "उद्भवस्थितिप्रलयसंसारनिवर्त्तनैकहेतुभूत" इति , भाष्ये च "नि-खिलगजदुदयविभवलयमहानन्दैककारण"मिति "विनते" त्यादिपदेन स्थेमान्तर्भूतस्वर्गादिसंसारिकफलप्रदत्वस्य पृथगुक्तिरनपेक्षिता । शास्त्रासाधारणस्य परमप्रयोजनस्य मोक्षस्यैव हि पृथगुक्तयपेक्षा । आदिशब्देन सृष्टयाद्यौपथिक-न्मतः प्रवेशनियमनादि गृह्यते । तथा च भाष्ये स्वयमेव वक्ष्यति "जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलील" मिति जन्मस्थेमभङ्गोक्तयैवान्तः प्रवेशनियमनादेरर्थसिद्धत्वाश्रयणमयुक्तम् । अध्यासपरिणामपक्षयोस्तस्यार्थत्वाभावेन तद्य्वावृत्त्यर्थं स्वमते पृथग्वक्तव्यत्वाच्छाब्दत्वे सम्भवत्यार्थत्वकल्पनाऽयोगाद्विस्तरेणोक्तस्यार्थस्य संक्षेपोक्तौ विवक्षि-तत्वोपपत्तेश्च "लीला" शब्देन भगवतः परिपूर्णत्वानन्यप्रेयर्त्वस्वच्छन्दचेष्टितत्वादिकमभिप्रेतम् । यथोक्तं महाभारते "अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । मोदते भगवान् भूतैर्बालः क्रीडनकै रिवे"ति । अप्रमेयत्वं परिपूर्णत्वम् । अनियोज्यत्वमनितरचेतनप्रेर्यत्वं । यत्र कामगम इत्यनेन वायूदकादिप्रेरणाधीनाऽबुद्धिपूर्वपरिस्पन्दादिचेष्टाव्यावृत्तिः ।

स्वेच्छाकृतप्रवृत्तिविधातव्युदासो वा स्वाधीनलीलोपकरणत्वं वशिशब्दार्तः । विश्वं वशे यस्य स वशी । इन्द्रियव्या-पाराधीनचेष्टाव्यावृत्त्यर्थो वशि-शब्दः, बालक्रीडनकदृष्टान्तेन लीलायाः प्रयोजनान्तरनैरपेक्ष्यमभिप्रेतम् । अनेन राज्ञां पणबन्धपूर्वकद्यूतादिव्यावृत्तिः । कार्यवर्गापेक्षया भगवन्महिम्नो विपुलतरत्वं "क्रीडनकै"रित्यनेन फलितम् ।

ननु प्रयोजकव्यापारो हि लीला, अतो भङ्गस्य लीलात्वे युक्तेऽपि कथं प्रयोज्यव्यापारमूर्तयोर्जन्मस्थित्यो-र्लीलात्वम् । उच्यते - "बहु स्यां प्रजायेये"ति हि श्रुतिः । अतः प्रयोजकव्यापारवत् प्रयोज्यव्यापारस्य च लीलात्वकथनेनोपादा-नत्वं फलितम् । लीलाशब्देन निमित्तत्वं च । "भङ्गादी"त्यन्तेन प्रथमाध्यायार्थः संक्षिप्तः । अवाप्तसमस्तकामस्य व्यापारानुपपतिं्त परिहरिता लीलाशब्देन विरोधपरिहारपरद्वितीयलक्षणार्थः सूचितः । एवं पूर्वाद्विकोक्तं कारणत्वरूपं परत्वं संक्षिप्तम् । तस्यैव परस्य ब्रह्मणः समाश्रयणीयताप्रतिपत्त्यर्थमुत्तरद्विकोक्त-मभिगम्यत्वमोक्षप्रदत्वलक्षणं सौलम्यं सङ्क्षिप्यते । "विनते"त्यादिपदेन केवलं परत्वं केवलं सौलभ्यं च कनकाचललो-ष्टशकलयोरिव न समाश्रणीयत्वाय कल्पत इति तदुभयव्यावृत्त्यथर्मिदं पदद्वयम् । विशेषेण नताः प्रह्वीभूता विनताः न्यासोपासनात्मकाशेषविद्याविशेषनिष्ठाः सर्वे विवक्षिताः । वैविध्यं च "तदुपर्यमपि वा वरायण सम्भवात्" "ऊर्ध्वरेतः सु चे" त्यादिना वक्ष्यमाणदेवत्वमनुष्यत्ववर्णाश्रमादिभेदेन जन्मवृत्तगुणैश्चाभिप्रेतं भगवनज्ञानेन लब्धसत्ताकत्वं भूत-शब्दार्थः । "अस्ति ब्रह्मेति चेद्वेद सन्तमेनन्ततो विदु"रिति हि श्रुतिः । लब्धस्वरूपाणाञ्च "तेषामेवानुकम्पार्थमहम-ज्ञानजं तमः । नाशयाम्यात्मभावस्थः" । "ददामि बुद्धियोगन्तम्" । "अहं

स्मरामि मद्भक्तमि"त्याद्युक्तप्रकारेण साक्षा-त्कारविरोधि-निवर्त्तनादिकं हि भगवत एव भर इति । न स्वरूपप्रच्युति सम्भवः । भूतसम्बन्धी व्रातो भूतव्रातः । संश्रितसम्बन्धिनोऽपि तत एव कारणादमगक्ता रक्ष्या इत्यभिप्रायः । यथा "आस्फोटयन्ति पितरः प्रनृत्यन्ति पिता-महाः । वैष्णवो नः कुले जातः स नः सन्तारयिष्यती "ति । "पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रया-स्यन्ति तद्विष्णोः परमं पदमि"ति च ।

ननु षष्ठयन्तनिर्दिष्टानतिरिक्तविषयः समुदायशब्दः । यथा "ब्राह्मणसमाज" इति । नैवम् । राजपरिषदित्या-दिष्वतिरिक्तस्यापि दर्शनात् , समासान्तर्गतायाः षष्ठयाः सम्बन्धमात्रविषयत्वात् षष्ठयन्तनिर्दिष्टानतिरिक्तत्वनियम-स्यानुशासनाभावाच्च समुदायशब्दे श्रुते समुदायादिनः के? इत्यपेक्षायां संनिहितशब्दवाच्यनिष्ठः समुदायः शीघ्रं प्रतीयत इति ब्राह्मणसमूह इत्यादिष्वनतिरेकप्रतीतिः । राजपरिषदित्यादिष्वतिरिक्तस्यापि दर्शनात् तत्तत्समुदायग्रा-हकप्रमाणानुरोधेनार्थवर्णनं युक्तमिति यथोक्त एवार्थः । एवं च सति ब्रात-शब्दप्रयोगस्यार्थवत्त्वं स्यात् इष्टप्रापणपर्य-न्तानिष्टनिवारणलक्षणा रक्षा तस्यामेकदीक्षः प्रधानदीक्षः "दीक्षा" सङ्कल्पः स्वसत्ताया अपि संश्रितरक्षासङ्कल्पनिर्वर्त्त-नस्यात्यन्ताभिमतत्वं प्राधान्यम् । "अप्यहं जीवितं जह्या"मिति हयुक्तम् । "काममात्मानं भार्यां पुत्रं वापरुन्ध्यान्नत्वेव दासकर्मकरमि"ति चापस्तम्बः । ईदृशीयं स्मुतिर्यस्याज्ञा तस्यापि तथानुष्ठानस्याभिमततरत्वम् "अप्यहं जीवितं जह्या" मित्यनेनावगम्यते । दीक्षायाः प्राधान्येन रक्षाप्राधान्यं फलितम् । दीक्षाशब्देनाश्रितसंरक्षणस्य स्वप्रयोजनत्वं दर्शितम् । व्रतभ्रंशसमाप्त्योरनर्थाभ्युदयफलत्वं हि व्रतिन एव, संश्रितरक्षणं च तद्व्रतम् । यथा "ददाम्येतद्व्रतं ममे"ति । विनत-रक्षा-शब्दायां तृतीयचतुर्थाध्यायार्थो संक्षिप्तौ । एवं जगत्कारणत्वमोक्षप्रदत्वे कथिते, एतद्वे हि राज्ञः छत्रचामरवद् ब्रह्मणोऽसाधारणं चिह्नं । परत्वसौलभ्ये च संश्रयणीयतानिमित्ततयावगते यथा "य एनं विदुरमृतास्ते भवन्ती "त्युप-क्रम्य "संबाहुभ्यां नमति सम्पतत्रैद्यावाभूमी जनयन् देव एक" इति, सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छती "ति च । प्रमेयशरीरं साधीयः यदि प्रमाणमुपलभामहे इत्यपेक्षायां द्विकद्वयशेषभूतचतुः सूत्र्यर्थं वदन् प्रमेयानुरूपं प्रमाणं दर्शयति । श्रुतिभिरसि विदीप्त इति । श्रुतिः, अनेनापौरुषेयत्वान्निर्दोषत्वं विवक्षितम् । अत एव

पूर्वमीमांसान्यायानां प्रामाण्याद्युपयोगिनामत्रोपजीव्यत्वं सूचितम् , शिरः शब्देनानन्यपरत्वं विवक्षितम् । परतत्त्व-प्रधाना मन्त्रब्राह्मणभागा ह्युपनिषदः "विदीप्ते" पूर्वभागेऽपि अग्नीन्द्रादिरूपतया ब्रह्मण एव प्रतिपाद्यत्वं "तदेवाग्निस्त-दादित्यस्तद्वायु,रित्यादिनोपनिषद्वाक्येनैव ज्ञायत इति । विशेषेण दीप्तं विदीप्तं यद्वा क्षुद्रसुखसाधनभूतदुः स्वात्मक-प्रवृत्तिनिवृत्तिरूपं प्रयोजनं पूर्वभागे दीप्तं ब्रह्म तु स्वयं निरतिशयानन्दरूपतया परमपुरुषार्थभूतमुपरितनभागे विशेषेण दीप्तमिति भावः । अनेन समन्वयाधिकरणार्थः सूचितः । तत्पूर्वाधिकरणत्रयार्थश्चात्र द्योतितो भवति व्युत्पत्तिलक्षण-सौष्ठवाभावे श्रुतिशिरोवेद्यत्त्वायोगात् , श्रुतिशिरः शब्दस्य प्रमाणान्तरव्यावर्त्तकत्वाच्च । "ब्रह्मणी "ति सामान्यपदमौ-पनिषदानां सद्ब्रह्मात्मादिसामान्यशब्दानां प्रदर्शनार्थम् । "श्रीनिवास" इति विशेषपदं नारायणादिविशेषशब्दानां प्रद-र्शनार्थम् । "पशुना यजेत" "छागस्य वपाया मेदस" इत्यत्र "छागो वा मन्त्रवर्णा "दिति सूत्रोक्तन्यायेन पशुशब्दस्य छागशब्दपर्यवसायित्वनिर्णयात् । सामान्यवाचिपदानां विशेषपदे सति तात्पर्यावसायित्वात् सद्ब्रह्मादिसामान्यपदानां नारायण एव विशेषे पर्यवसानं सूचितम् । श्रीनिवास शब्दस्यावयवशक्तया नित्यविभूतिमत्त्वं सूचितं, रूढिशक्तया त्रिमूत्तिर्साम्यं तदैक्यं ब्रह्मणस्तदुत्तीर्णत्वं च निषिद्धम् । ईश्वर एव ब्रह्म स त्रिमूत्र्त्यतिरिक्तः सदाशिवः ब्रह्मादयस्त्रयोऽ-प्यनरश्वरा इति पदश्च व्युदस्तः "परस्मिन्निति" "परमतः सेतून्माने"त्यधिकरणार्थः सूचितः । तेनैवोपेयान्तरव्यरवृत्तिः "ब्रह्मविदाप्नोति पर"मित्यत्र प्राप्यस्य पर शब्देनाभिधानात् । यद्वा कारणत्वशाङ्कतदोषव्युदासाय "न स्थानतोऽपि परस्ये"त्यधिकरणसिद्धं शोधकवाक्योक्तमुभयलिङ्गतया वैलक्षण्यं सूचितम् । अथोपात्तस्वरूपं वदति "शेमुर्षाति" अयं सामान्यशब्दः "भक्तिरूपे"ति विशेषशब्दः । अत्रापि "छागो वा मन्त्रवर्णादिति" न्यायोऽभिप्रेतः । शेमुषीशब्दोपादा-नेन ज्ञानकर्मसमुच्चयमतव्यावृत्तिः । भक्तिरूपेति वाक्यार्तज्ञानव्यावृत्तिः । "शुद्धभावङ्गतो भक्तया शास्त्राद्वोड्#िम जनार्द-नम्" । "भक्तया-त्वनन्यया" "ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं"चेत्युक्तप्रकारेण ज्ञानदशर्नप्राप्तिसाधनभूता भक्तिरप्यत्र विव-क्षिता । अविशेषेण "भक्तिरूपे"त्युक्तत्वात् "अहमस्म्यपराधानामालय" इत्याद्युक्तप्रकारेण । स्वात्मानमनुसन्धायाह "ममेति" "भवत्वि"ति भक्तेरेव स्वादुतमतया प्रार्थनीयता सूचिता; यद्वा न हि भक्तिः सर्वेभ्योपि स्वदतइत्यत्राह "ममेति" मम प्रतिबन्धकपापरहितस्य; शान्तपित्तस्य हि क्षीरे स्वादुतमताबुद्धिरिति भावः । रक्षैकदीक्षे परस्मिन्नित्य-न्तैः सप्तम्यन्तैः पदैरुपेयभूत एव सिद्धोपाय उक्तः"भक्तिरूपे"ति

सिद्धोपायः । अत्र श्लोके शास्त्रप्रतिपाद्यैकदेशभूतः परपक्षप्रतिक्षेपश्चार्थतः सूचितो भवति । जन्मस्थेमभङ्गादिशब्देन युगपत्सर्गादिकमनभ्युपगच्छन्तो भाट्टप्राभाकरा व्यावर्त्तिताः लीलाशब्देन साक्षिमात्रेश्वरवादिहैरण्यगर्भव्युदासः विनतेत्यादिपदेन जीवानांपरस्परं ब्रह्मणा च भेदमनु-भ्यपयन्तोब्रह्माज्ञानवादिनोऽपास्ताः, श्रुतिशिरसीत्यनेन वेदबाह्यचार्वाकवुद्धार्हन्मतनिरासः, तेनैव पदेनानुमानिके-श्वरवादिनो व्युदस्ताः, ब्रह्मणीत्यनेनाब्रह्मात्मकप्रधानपरमाणुकारणवादिसाङ्खयवैशेषिकादिव्युदासः । श्रीनिवास शब्देन पाशुपतादिव्युदासः । अनेनैवेश्वरोत्तीर्णब्रह्मवादिनो भेदाभेदवादिनो व्युदस्ताः, शेमुषी शब्देन ज्ञानकर्मसमु-च्चयोपायवादिव्युदास भक्तिरूपेतिवाक्यार्थज्ञानमात्रोपायवादिव्युदास इत्येवमनुसन्धेयम् ।।

श्रुतेरेवोपायोपेयावगतौ सत्यां किं भवतोवक्तव्यमित्यत्राह "पराशर्येति" प्रथमश्लोकेन स्वप्रबन्धस्य परमप्रयो-जनतया सिद्धरूपः परमविशेषयोदर्शितः साध्यरूपं प्रयोजनं च रक्षापदेनातिसङ्क्षिप्तम् । अथ द्वितीयेन श्लोकेन स्वप्र-बन्धस्यावान्तरविषयः, परम्परया ब्रह्मविषयत्वं, स्वप्रबन्धं प्रति सम्यग्ज्ञानस्याव्यवहितावान्तरप्रयोजनत्वं, परम्परया मुक्तेः परमप्रयोजनत्वं, स्वव्याख्येयस्य प्रमाणमूलताकथनेन व्याख्येयान्तराणामप्रमाणमूलता, स्वव्याख्येयविषयभा-ष्यान्तरव्यावृत्त्यर्थं स्वोक्तार्थस्य साम्प्रदायिकत्वमित्यादिश्रौतमुच्यते, स्तुत्यात्मकगुरूपासनरूपमङ्गलाचारश्चायर्तः क्रियते "जायमानं हि पुरुषं यं पश्येन्मधुसूदनः" । "तद्विद्धि प्रणिपातेन" "ददामि बुद्धियोगन्त"मित्यादिभिराचार्योप-

सत्तेरपि भगवत्कटाक्षहेतुकत्वावगमात् परदेवतोपासनानन्तरभावित्वं गुरूपासनस्य युक्तम् । तथा च श्रुतिः "यस्य देवे परा भक्तिर्यथा देवे तथा गुरा"विति । पूर्वैरपि तथा चरितम् । यथा भगवतो वैशम्पायनेन "नमस्कृत्य हृषीकेशम्" नमो भगवते तस्मै व्यासाये"ति । यथा च द्रमिडाचार्यैः । "नमः प्रवरगुणैकास्पदाय स्थिरत्रसकुलबीजकुम्भभूताय भुवनको-शस्य गोप्त्रे ब्रह्मणे नमो जैमिनये वेदरहस्यसम्पुटनिकूढविस्फारयित्रे न्यायप्रज्वलितचेतसे नमोस्त्वाचार्येभ्य" इति । पाश्चात्त्यैश्च "विशुद्धज्ञानदेहाय" "अभिवन्द्य गुरूनादा"विति "प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वत" इति । पाराशर्य शब्देन जन्मोत्कर्षः "सहोवाच व्यासः पाराशर्यः" इति श्रुतिसिद्धः । तस्यैव वादरायणसंज्ञत्वं च विवक्षितम् , यथोक्तम् महर्षिणैव "द्वीपे बदरिकामिश्रे बादरायणमच्युतम् । पराशरात्सत्यवती पुत्रं लेभे परन्तप"मिति, यद्यपि ऋष्यन्तरेऽपि बादनारायणशब्दप्रयोगः, तथापि सूत्रकृद्विषयो बादनारायणशब्दः पाराचर्यगोचर एव, तथा च स्कान्दे व्यक्तमुक्तम् ।

नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किंचित्तदन्यथा भूतं त्रेतायां द्वापरे खिलम् ।।

गौतमस्य ऋषेः शापात् ज्ञाने त्वज्ञानतां गते । सङ्क्षीर्णबुद्धयो देवा ब्रह्मरुद्रपुरः सराः ।।

शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान्पु#ु#ाषोत्तमः ।।

अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान्भगवान्वेदाज्जहार हरिस्स्वयम् ।।

चतुर्द्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ।।

कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ।।

अल्पाक्षरमन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदोविदुः ।।

निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । सविशेषाणि सूत्राणि ह्यपराणि विदो विदुः ।।

मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।।

एवंविधानि सूत्राणि कृत्वा व्यासो महयशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।।

ज्ञानं संस्थाप्य भगवान् क्रीडते परमेश्वरः ।। इत्यादिना ।।

वचस्सुधां वचशब्दस्यार्थे तात्पर्ये यथा "वेदविच्छास्त्रवित्" इत्यादौ वेदादिशब्दानां अर्थाभिधायकं हि वाक्यम् । वचसः सुधामिति केचिदाचार्याः रूपकप्रकरणात्, सुधाशब्दलक्षणाभयाच्च; सुधेव वच इति "उपमितं व्याघ्रादिभि"रित्यादिसमासमपर आचार्या आद्रियन्ते । सुधाशब्देन भोग्यत्वमभिप्रेतम् । एवं मतान्तरविषय उक्तः । तर्हि कथं ब्रह्मणो सवषयत्वमिति शङ्कायां सद्वारकं ब्रह्मविषयत्वमित्याह - उपनिषदिति । ब्रह्मण्युपनिषण्णेत्युपनिषत् "उपनिषण्णत्वाद्वोपनिषदि"ति हि वाक्यम् । "गहने हीयं विद्या सन्निविष्टे"ति तद्विषयं द्रमिडभाष्यम् । "गहने ब्रह्मण्-युपनिषण्णे"ति भाष्यविषया वामनटीका, अद्वारकभगवत्प्रतिपादकत्वं उपनिषण्णत्वम् । दुग्ध - शब्देन पूर्वभागाद-प्युपनिषदः सारत्वं विवक्षितं यथा "आण्यकं च वेदेभ्यः औषधीभ्यो यथाऽमृतमिति - अब्धि - शब्देन आलोचिता-नामुपनिषदामानन्त्यादि सूचितम् । मध्य - शब्देन

सर्ववाक्यानां मुख्यार्थापरित्यागोऽभिप्रेतः, मध्यस्य सर्वपर्यन्तदे-शापेक्षया तुल्या ह्यासत्तिः -उद्धृत - शब्देनाऽतिनिम्नदेशनिमग्नोद्धरणमप्यभिदधतां निश्शेषाथर्ग्रहणं सूच्यते । स्वप्र-बन्धस्यावान्तरविषयः पाराशर्यसूत्रं तस्यावान्तरविषय-उपनिषत् । तद्विषयभूतं ब्रह्मेति परम्परया ब्रह्मणः प्रतिपाद्यत्वं बादरायणसूत्राणामुपनिषन्मूलकत्वकथनेन सांख्यादिग्रन्थानामप्रमाणमूलत्वात्तदनादरेणैतद्य्वाख्यानमिति सूचितम् । प्रणाड्या शास्त्रजन्यं परमप्रयोजनमाह - संसारेति ।

संसाराग्निशब्देन संसारस्य कार्त्स्न्#ेन तापत्रयरूपता विवक्षिता, यथा "स्वर्गेपि पातभीतस्य क्षयिप्णोर्नास्ति निवृत्ति"रिति । दीपन - शब्देनाऽसङ्कोचात् सदाभिज्वलनवाचिना विद्यालब्धेः पूर्वं कदाचिदप्यनिवार्यत्वमभिप्रेतं

वैविध्यमाध्यात्मिकादिरूपेण, तेषु त्रिष्वेकैकस्यापि शारीरमानसादिरूपषण च । आत्मनां प्राण परमात्मा । "सर्वाणि ह वा इमानि भूतानि प्राणमेवाऽभिसंविशन्ति" "कोह्येवान्यात्कः प्राण्यादि"ति श्रुतेः गत शब्देन तदलाभः, उपसर्गाभ्यां तस्याऽनादित्वं विविधत्वं च विवक्षितं, ज्ञानदर्शनप्राप्तिष्वन्यतमस्याप्यभावादलाभस्य वैविध्यम् । सञ्जी-विनी मिति जीवनमुज्जीवनम् संसारोन्मूलनम् । स मिति कैवल्यव्यावृत्तिः ।

अथ सांप्रदायिकत्वमाह - पूर्वेति । पूर्वशब्देन शङ्कराद्यर्वाचीनव्यावृत्तिः सुरक्षितां नोपदेशमात्रेण ग्रन्थरूपेण चेति भावः । पूर्वाचार्यग्रन्थैरर्थस्वरूपं प्रतिपन्नं चेत् किंभवतः कृत्य?मित्यत्राह - बहुमतीति । बह्वयो मतयो बहूनां मतयो वा तासां परस्परव्याघातेन, ताभिः समीचीनार्थव्याघातेन च अर्वाचीनजनैर्दुरवगमत्वमाह - दूरस्थिता । इति न यथावदप्रतीतिमात्रम् , अन्यथा च प्रतिपत्तिरासीदिति भावः । सूत्राद्यवान्तरविषयस्य विषयी स्वग्रन्थ इति पर्वे न कण्ठोक्तं तदाह - आनीताम् । इति सुधापक्षे निजाक्षरैर्गायत्र्यवयभूतैरमृताक्षरैरिति यावत् , अतो ममाक्षरैरित्यनुक्तिः सुमनसः - सारासारविवेकज्ञा इत्युक्ताः अनेनासदपरिग्रहो न दोषायेत्युक्तं भवति, देवादीनां वृत्तिकारग्रन्थैः सुग-मत्वात् - भौमा इत्युक्तम् । पिबन्त्वन्वहमिति । रस्यतातिशयान्नतृप्तिकरीति भावः । फलान्तराद् भगवत्प्राप्त्युपाय एव हि स्वादुत्तमः । यथोक्तम् "क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तम"मिति । यद्वा गम्भीरत्वादन्वहं शीलनीयेति भावः ।

तर्हि पुरातनग्रन्था एव वाचयितव्याः किमपूर्वग्रन्थनिर्माण-तत्प्रवर्तनयत्नगौरवेणेति शङ्कायामाह - भगव-दिति । भगवच्छब्देन शङ्करादिवदनाप्तत्वन्नास्तीत्यभिप्रेतम् । बोधायन शब्देन पूर्वाचार्यशब्दोऽप्यर्थाद्विवृतः विस्-तीर्णां सञ्चिक्षिपुः इत्यनेनवृत्त्यादीनामत्रत्येप्वद्यतजनेष्वकार्यकरत्वं सूचितम् । बोधायनेन ह्यतिविस्तीर्णी#ा वृत्तिः कृता; द्रमिडभाष्यकारादयो हि परपक्षप्रतिक्षेपाद्यनादरेणाऽतिसंक्षिप्तानूग्रन्थानरचयन् , अतिविम्तीर्णातिसंकुचि-तग्रन्थानां साफल्यमायुष्मद्बुद्धिमज्जनप्रचुरेषु देशकालान्तरेषु एव भवति नहीदानीन्तनपुरुषाणां सर्वेषां शतायुष्ट्वं यावज्जीयं ग्रन्थपरिश्रमः सहजधीविशेषाश्च सन्ति । तस्मात्परमतनिरासाद्यर्थमनतिविस्तरतया सुग्रहत्वार्थं च सूत्रं व्याख्यातव्यमिति यावत् । तन्मतानुसारेण - न तु स्वोत्प्रेक्षितमतान्तरेण सूत्राक्षराणि । सूत्रपदानां प्रकृतिप्रत्यय-विभागानुगुणं वदामः न तु स्वोत्प्रेक्षितार्थेषु सूत्राणि यथाकथञ्चिद्योजयितव्यानीति भावः । व्याख्यास्यन्ते व्याङ्-भ्यामुपसर्गाभ्यामपेक्षितविस्तरसंक्षेपौद्योतितौ ।

ननु "मूह्यर्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः । स्वपानि च वर्ण्यन्ते भाष्यं भाष्यविदोविदुः" इति हि भाष्यलक्षणम् । अतः सूत्रव्याख्यानरूपत्वाभावादखिलेत्यादिकं न भाष्यान्तर्भावीति चेन्न । सूत्रतात्पर्यार्थपरत्वाद् भाष्यान्तर्भाव्येव । सूत्रतात्पर्यार्थपरत्वं च श्लोकव्याख्याने स्पष्टम् । किञ्च गङ्गलाचरणं प्रारिप्सितग्रन्थाविप्तपरिस-माप्त्याद्यर्थतया तदुपयोगीति तदन्तर्भाव्येव । शावरशाङ्करादिभाष्येषु नमसककारादणर्नादत्र नमस्कारकथनमयुक्तमिति चेन्न; "नमःपबरगुणैकात्पदा" इति द्रमिडभाष्ये देवतागुरुनमसकारश्रवणात् । शाब्रशाङ्करयोस्तु ईश्वरानभ्युप-गमात् जीवब्रह्मभेदानभ्युपगमाच्च नमस्यानादरः । अत्र तु सिद्धान्तानुरूप्यात् नमस्या अत्यन्तोपपन्ना । शाङ्करग्रन्थोप-क्रमे च व्याख्यातृभिर्नमस्काराद्यभावात् कुग्रन्थत्वमाशङ्कय, युष्मदित्यादिग्रन्थेन प्रत्यगर्थानुसन्धानेनार्थान्मङ्गलाचारः कृतः इति पहिहृतम् ।

अथातो ब्रह्मविज्ञासा । पूर्वं पदानि व्याचिख्यासुः प्रथममथशब्दं व्याचष्टे- अत्रायमथशब्द आनन्तर्ये भवति इति । "पदच्छेदः पदार्थोक्तिविर्ग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षण"मिति हि व्याख्याप्रकारः ।

ननु नैतावथातः शब्दौ व्याख्येयौ प्रयोजनाभावात्, अजाय संशय विपर्ययनिवृत्त्यर्थं हि व्याख्यानम्, न तावदत्राज्ञानं आनन्तर्ये प्रकृतस्य हेतुभावे च, तयो प्रसिद्धत्वात् । नापि संशयः, अर्थान्तरेषु सत्स्वपि तयोरुक्ता-र्थपरत्वेन प्रसिद्धिप्राचुर्यात् , न हि मोशब्दं #ृण्वतः सास्त्रादिमति संशयो जायते, अत एव विपर्ययोऽपि दूरोत्सा- रित इति । अत्र ब्रूमः । आनन्तर्य वृत्तहेतुभावपरत्वनिर्णयस्य पूवर्वृत्तविशेषावगमसापेक्षत्वात् तदप्रतिपव्या प्रसिद्धिप्राचुर्यस्य सापवादत्वात् ।

अथशब्दस्याधिकारादिषु, एतच्छब्दस्य च "एतदुक्तं भवती "त्यादिषु वक्ष्यमाणेऽर्थे, तसेश्च सर्वविभक्तयर्थवाचिनः "इत" इत्यादिषु पञ्चम्यर्थव्यतिरिक्तेऽर्थे च प्रयोगदर्शनात् संशयविपर्ययौ स्यातामिति तन्निरासायाथातःशब्दव्याख्यानं युक्तम् (मिति) । अतस्तौ व्याख्यायेते ।

अत्र तावदथ शब्दस्याधिकारार्थत्वमयुक्तम् । अधिकारो हि प्रस्तावः ब्रह्मजिज्ञासा प्रस्तूयत इति वचो मन्दप्रयोजनम्, प्रायम्यत इत्युक्तिविनापि प्रारम्भादेव प्रारभ्यमाणतवावगमात् , उच्यमानं हि वचनं ब्रवीमीत्युक्तिमन्तरेणापि सन्निहितपुरुषेणोच्यत इत्येवावगम्यते न तु

नोच्यत इति, प्रस्तोतव्यत्वमुच्यत इति चेत् । तदानीमपि न्यायप्रतिपादकस्य सूत्रस्योपदेशज्ञापनपरत्वाभावाद्युक्तितः प्रारम्भयोग्येत्यर्थः स्यात् योग्यत्वमशाब्दम् । नन्वध्याहारणे योजना स्यात्, आनन्तर्यमक्षेऽपि कर्तव्येति ह्यध्याह-र्त्तव्यमिति चेन्न, अधिकारार्थत्वपक्षेऽध्याहृतस्यापि पदस्यान्वयदौर्षठ्यात् । यथा च योग्येत्युक्ते समुच्चेतुं योग्येत्यर्थो न शक्याभिधानः, एवमथ योग्येत्युक्तेष्यधिकर्तुं योग्येत्यभिधानं हि न शक्यम् । अत एव हि महाभाष्ये "शब्दानु-शासनं शास्त्रमधिकृतं वेदितव्य"मित्युक्तम्, न त्वधिकर्तुं योग्यमिति । अधिकृतमित्यपि फलितार्थकथनम् । न तु वाचनिकोक्तिः, चादीनां द्योतकत्वात् । अत्र त्वधिकृतमित्यर्थपरत्वे वैयथ्यर्मित्युक्तम् । शब्दानुशासनोपक्रमे त्वधिकार्थत्वमगत्याश्रितम् । न ह्युपनीतेन वेदमधीयानेनाध्येतव्यस्य तदङ्गभूतस्य व्याकरणस्यासाधारणो वृत्ति- विशेषः सम्भवति । इह तु प्रयोजनवदर्थान्तरसम्भवादधिकारार्थत्वाश्रयणमयुक्तम् । आनन्तर्यपरत्वे प्रयोजनवत्त्वं च वक्ष्यते । मङ्गलं तु नाऽथशब्दवाच्यम् । अपि तु शङ्खस्वनादिवच्छÜयमाणोऽथशब्दो मङ्गलावह इत्योङ्कारस्येवा-र्थान्तरपरत्वेऽपि मङ्गलं सिध्द्यति । ओङ्कारतुल्यो ह्यथशब्दः स्मर्यते । "ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभा"विति । मङ्गलवाचित्वाभ्युपगमेऽपि मङ्गलरूपा ब्रह्मजिज्ञासेति ब्रह्मजिज्ञासा स्तुता स्यात्, ततश्च सूत्रास्यार्थवादतास्यात्, न तु न्यायनिबन्धनत्वं, जिज्ञासाविशेषणत्वाभावे मङ्गलं भवतीतिवाक्यभेदः स्यात् । प्रकृतादर्थादर्थान्तरपरत्वं चायुक्तम् । तद्धि प्रकृतमपेक्ष्य वक्ष्यमाणस्यार्थान्तर-त्वज्ञापनम् । तच्च कल्पान्तरोपन्यासविवक्षायामेव दृष्टं, अत्र तु कल्पान्तरोपन्यासाभावात्तदनुपपन्नम् । प्रश्नपर-त्वमप्ययुक्तम् । वचनव्यक्तेः, प्रश्नप्रतिवचनरूपत्वाभावात् , तथा हि किं ब्रह्मजिज्ञासा कर्त्तव्येत्युक्तं स्यात् सा कर्त्तव्येति वाक्यान्तरेण प्रतिवचनं स्यात् ।

न च प्रतिवचनरूपं वाकयान्तरभुपलभ्यते । अथ-शब्दस्य कात्स्न्यर्परत्वे कार्त्स्न्#ेन सा कर्त्तव्येत्यर्थः स्यात् । सोऽनुपपन्न एकदेशकर्त्तव्यतायाः शङ्कितत्वाभावात्, कर्त्तव्यतामात्रं हि संशयपदं तन्निरासार्थं च सूत्रम् । किञ्च, अधिकाराद्यर्थान्तरपरत्वमतश्शब्दान्वयोऽपि निवारयति । अतश्शब्दो हि प्रकृतमर्थं हेतुतया परामृशन्नथशब्दोपस्-थापितं ब्रह्मजिज्ञासापदसामर्थ्याक्षिप्तम् परामृशति । तत्र यद्यथशब्दोपस्थापितमधिकृतत्वं हेतुतया परामृशेत् । तदा अधिकृतत्वादधिकर्त्तव्येति, हेतोः साध्याविशिष्टता स्यात् । मङ्गलस्यानभिधेयतया न पदान्तरपरामर्शयोग्ता वाच्यत्वाभ्युपगमेऽपि तस्य च प्रकृतापेक्षत्वस्य कार्त्स्न्यस्य च पूर्वपक्षयुक्तिप्रत्यनीकत्वाभान्न तानि हेतुतया परा-मर्शनीयानि, न ह्यमङ्गलत्वप्रकृतानपेक्षत्वाकार्त्स्न्#ै#ः पूर्वपक्षोत्थानं, न्यायसूत्राणि च विरुद्धार्थव्युदासपराणि, प्रश्नवाक्यगतप्रश्नस्तु तस्मिन्नेव वाक्ये हेतुतया परामर्शानर्ह एव-किंब्रह्मजिज्ञासा कर्त्तव्येति वाक्येऽपरिसमाप्ते कथं किंशब्दार्थो हेतुतया परामृश्येत, अतोऽतश्शब्दपरामर्शयोग्यार्थश्चेदथशब्दोऽभ्युपगम्यते तदाऽधिकाराद्यर्थत्वं न घटते; यदि ब्रह्मजिज्ञासापदसामर्थ्याक्षिप्तस्य पूर्ववृत्तत्वेन तत्तद्य्वाख्यात्रभिमतस्य वस्तुनोऽतश्शब्देन परामर्श इष्येत, तदानीं जिज्ञासानुपयोगिनस्तदाक्षेप्तव्यत्वायोगात् उपयोग्यर्थएव तदाक्षेप्य इति तत्परामर्शिनाऽतश्शब्देन जिज्ञासोपयोगितया पूर्वभाव्यर्थविशेषोपस्थापनादथशब्दस्य स्वारसिकानन्तर्यपरत्वे सम्भवत्यस्वरसविफलार्थान्तर-स्वीकारोन घटते, ततश्चातश्शब्दवत् ब्रह्मजिज्ञासापदसामर्थ्यमप्यधिकाराद्यर्थपरत्वनिवारकं स्यात् । एवमर्थान्त-राणामनुपपन्नतामर्थतो दर्शयन् आनन्तर्यार्थत्वमप्यथशब्दस्योपपादयति । अत्रायमथ-शब्द आनन्तर्ये भवतीति "अथ-शब्द आनन्तर्य इति प्रतिज्ञा, तदुपपादकमत्राऽयं भवतीति पदत्रयं, तत्र भवतीति पदेन आनन्तर्ये स्वारस्यं सूच्यते । स्वारस्यापवादिकां पूर्ववृत्ताप्रतिपतिं्त परिहरति "अत्रायमि"ति । अत्र वेदस्योत्तरभागविचाररूपब्रह्ममी-मांसारम्भसूत्र इत्यर्थः । ब्रह्मजिज्ञासापदसामर्थ्यात् पूर्वभागविचाररूपवृत्तविशेष आक्षिप्त इतिभावः । हेत्वन्तरम-

भिप्रयन्नाह "अय"मिति । अयमथ-शब्दः "अथशब्दानुशासनम्" "अथ योगानुशासन"मित्यादिसूत्रान्तर्गताथशब्द-व्यावृत्तइत्यर्थः, अतश्शब्दशिरस्क इत्युक्तं भवति । वेदान्तसारे ह्ययमर्थः कण्ठोक्तः,

प्रकृतपरमर्शिनैतच्छब्देन पूर्व-वृत्तसामान्यमभिहितमित्यभिप्रायः । एवं समभिव्याहृतोभयपदस्वारस्यात् सामान्यतोऽभिहितं विशेषत आक्षिप्तं च पूर्ववृत्तसिद्धमितिवृत्तविशेषाप्रतिपत्तिरूपस्य स्वारस्यापवादकस्याभावादथशब्द आनन्तर्यार्थ एवेति वाक्यार्थः । एवमथशब्दस्योत्तरभागविचारारम्भसूत्रगतत्वम् । अतश्शब्दशिरस्कत्वमानन्तर्यस्वारस्यं च दर्शयद्भिः आनन्तर्यो-पपादकैरत्राऽयं भवतीति पदैरेवास्मिन् सूत्रे अर्थान्तराणां गत्यभावस्वीकार्याणामनादरणीयत्वं फलितम् ।

अतश्शब्दं व्याचष्टे "अतश्शब्दो वृत्तस्य हेतुभाव" इति वृत्तस्येति प्रकृत्यर्थ उक्तः हेतुभावइति प्रत्ययार्थ, इयं प्रतिज्ञा अत्राऽयं भवतीत्यनुषक्तं पदत्रयमुपपादकं, प्रकृतिप्रत्यवयोरुक्तार्थपरत्वेन प्रदिद्धिप्राचुर्यं भवतिना दर्शितम् । अत्रेत्यस्य पूर्ववदर्थः । अनेन वृत्तविशेषस्तस्य हेतुभावार्हत्त्वं चाक्षिप्तं, तदर्हत्वं च अनन्तरमेव व्यक्तं भविष्यति, अयम् आनन्तर्यस्वरसाथशब्दपूर्वकः, अनेन वृत्तसामान्यमाक्षिप्तं, नन्वथ-शब्दार्थनिर्णयोऽतश्शब्दार्थनिर्णयसापेक्षः, अतः शब्दार्थनिर्णयश्चाथ-शब्दार्थनिर्णयसापेक्ष इत्यन्योन्याश्रयः । नैवम् । अथ-शब्दस्यानन्तर्यस्वारस्यं हि नातः शब्दार्थनिर्णयसापेक्षम् । अतः शब्दस्य वृत्तहेतुभावपरत्वस्वारस्यं च नाथ-शब्दार्थनिर्णयसापेक्षम् । अथ-शब्द आनन्तर्यपरः स्वस्वारस्यात् , समभिव्याहृतपदान्तरस्वारस्याच्च, अतः-शब्दोपि वृत्तस्य हेतुभावपरः स्वस्वारस्यात्, समभिव्याहृतपदान्तरस्वारस्याच्चेति "भवत्ययं-शब्दाभ्यां" दर्शितं भवति । इमे चाऽभ्युच्चययुक्ती, अत्र पदाभिप्रेत-ब्रह्मजिज्ञासापदसामर्थ्यादेव पदद्वयस्योक्तार्थपरत्वसिद्धेः, अतः स्वपरपदस्वारस्यात् ब्रह्मजिज्ञासापदसामर्थ्याच्चा-ऽथातः-शब्दौ यथोक्तार्थपराविति न दोषः ।

ननु अथातः-शब्दयोरन्यतरेणालऽमिति चेत्, न । अथ-शब्दस्यानन्तरकालमुपस्थापयतो वर्त्तिष्यमाण-ब्रह्मजिज्ञासाविशेषणतया, अतः शब्दस्य वृत्तहेतुभावपरतया चाऽपर्यायत्वात्, प्रतिज्ञाहेतुरूपेण पदयोर्भिन्नप्रयो-जनत्वाच्च । ब्रह्मजिज्ञासा कर्त्तव्येति हि प्रतिज्ञेति चेत् न । "ब्रह्मजिज्ञासे"ति धर्मिनिर्देशः । "अथेति" साध्यधर्मोक्तिः, न कर्त्तव्यतामात्रं साध्यधर्मः, अपित्वानन्तर्यविशिष्टं कर्त्तव्यत्वम् । एवमथातः पदयोः प्रतिज्ञाहेत्वर्थत्वेन विभागो "अथातो धर्मजिज्ञासे"त्यत्रापि समानः । एवमर्थभेदस्याविवक्षितत्वेन हि "अथ योगानुसासनम्" "अथ शब्दानु- शासन"मित्यादिष्वतः शब्दाप्रयोगः ।

ननु ब्रह्मजिज्ञासासामर्थ्याक्षिप्ततया बुद्धिस्थस्य कर्मविचारस्य हेतुभावोऽतः शब्दावगन्तव्य इति किमथ शब्देन । मैवम् । आनन्तर्योक्तिमुखेन तस्य हेतोः शास्त्रान्तरश्रवणव्यवधाननैरपेक्ष्यद्योतनार्थत्वादथ शब्दस्य, ततश्च वेदान्तश्रवणात् पूर्वं शाखान्तरश्रवणेन विना संपादयितुमशक्यत्वात्, शास्त्रान्तराणामनवसरग्रस्तत्वाच्च शास्त्रान्तर-सापेक्षाणां नित्यानित्यविवेकादीनां पूर्ववृत्तत्वव्युदासः फलितः स्यात् ।

ननु न यत् किञ्चिदतीतं पूर्ववृत्तत्वेन वक्तव्यम् अतिप्रसङ्गात् । अतो वर्त्तिष्यमाणोपयुक्तमेव पूर्ववृत्तमथ- शब्दोपस्थापितमिति तस्य हेतुत्वमपि शास्त्रान्तरश्रवणनैरपेक्ष्यवत्तेनैव वस्तुसामर्थ्येन सिद्धमिति किमतः शब्देन? नैवम् । अथ शब्दाक्षिप्तहेत्वसिद्धिशङ्कापरिहारार्थत्वादतः-शब्दस्य हेतुश्च विशिष्टः, तस्य विशेषणांशविशेष्यांश-योरसिद्धिशङ्कातत्परिहारप्रकारौ सूत्रकाराभिप्रेतौ परस्ताद्दर्शयिष्येते, सति प्रयोजनवत्तरं पदद्वयम् ।

अत्रेति-पदसूचितब्रह्मजिज्ञासापदसामर्थ्यसिद्धं वृत्तं वर्त्तिष्यमाणं तयोर्हेतुमद्भावं च विवृण्यन् उक्तमानन्तर्य-मुपपादयति - अधीतेति । कर्मज्ञान-शब्देन वृत्तमुक्तं, ब्रह्मजिज्ञासा-पदेन वर्त्तिष्यमाणमुक्तम् । अल्पास्थिरफला-नन्तस्थिरफल-शब्दाभ्यां हेतुहेतुमद्भावो दर्शितः । केवल-शब्देन ब्रह्मज्ञानपूर्वककर्मव्यावृत्तिः । कर्मज्ञानस्यैव पूर्व-

वृत्तत्वं कथम् ? अनन्तस्थिरफलापातप्रतीतिश्च कथम्? इति शङ्काया "मधीतेत्यादिपदेन तदुपादानम् । सशिर-स्कवेद-शब्देन कृत्स्नाध्ययनस्य विहितत्वं, व्याख्यानपौर्वापर्यहेतुभूतव्याख्येयपौर्वापर्यनियमो भागद्वयस्यैकप्रबन्धत्वं

च सूच्यते । साङ्ग-शब्देनानन्तस्थिरफलापातप्रतीतिजनकत्वहेतुर्दशितः । "कृष्णपक्षे तथाङ्गानि" "उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पंसरहस्यं च तमाचार्ये प्रचक्षत" इत्यादिवचनान्यधीतसाङ्गसशिरस्कवेदस्येत्यत्राभिप्रेतानि एवमधीतेत्यादिषष्ठयन्तविणशेषणद्वयेण ब्रह्मजिज्ञासापदसामर्थ्यानुगृहीताथातः शब्दोपस्थापितोऽधिकारिविशेषः प्रदर्शितो भवति । समधिगतकर्मा सांसारिकफलनिर्विण्णोऽनन्तस्थिरफलाकाङ्क्षी हि शास्त्रमधिकरोति ।

अनन्तस्थिरफलब्रह्मजिज्ञासेति । अनन्तस्थिरफलरूपस्य ब्रह्मणो जिज्ञासेत्यर्थः । अनन्तस्थिरफलत्वस्य ब्रह्मजिज्ञासाविशेषणत्वे जिज्ञासायास्तथात्वमागमोत्थविवेकादिजन्यज्ञानद्वारेणेति दृष्टव्यम् । अनन्तरभाविनीति - पदेनाथातश्शब्दफलितं हेतोः शास्त्रान्तरनैरपेक्ष्यं विवक्षितम् । कर्मविचारानन्तरं ब्रह्मविचारस्य कर्तव्यत्वे

कर्मणा-मल्पास्थिरफलापातप्रतीतिरित्ययं विशिष्टो हेतुः । अतः-शब्देन वृत्तस्य कर्मविचारस्य हेतुतयोक्तत्वात् कर्मविचारस्य साङ्गाध्ययनजन्यानन्तस्थिरफलापातप्रतीतिपूर्वकत्वादावृत्तिविधानादिभिः कर्मणामल्पास्थिरफलत्वावगमहेतुत्वाच्च । अयं विशिष्टो हेतु "रधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सञ्जातमोक्षाभिलाषस्ये" त्यनेनोक्तः । अत्रा "धिगते"ति पदेन कर्मणः फलद्वाराहानाय ज्ञातव्यत्वं कण्ठोक्तं, स्वरूपेणोपादानाय ज्ञातव्यत्वमपि कर्मविचारपूर्ववृत्तत्वे हेतुः । अपेक्षितकर्मस्वरूपज्ञानं केवलकर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसाऽवसेयमिति हि वक्ष्यते, तत्र स्वरूपे-णोपादेयताप्रतीतिरनन्तस्थिरफलापातप्रतीत्यन्तर्भूता उपायतदितिकर्तव्यताविशेषैः सहैव ह्यनन्नतस्थिरफलापात-प्रतीतिरिति विशिष्टहेत्वन्तर्भावं उपरितनग्रन्थाविरोधश्च ।

ननु कर्मविचारो ब्रह्मविचारस्य निरपेक्षहेतुश्चेत् कृतकमर्विचारैः सर्वैरपि ब्रह्मविचार्येतेति स्वगार्थकर्मा-नुष्ठानाभावप्रसङ्गः । मैवम् । अश्रुतमीमांसत्वेऽप्युपाध्यायादिवचनाद् येऽनुतिष्ठन्ति तेषां स्वर्गार्थानुष्ठानाविरोधात् । श्रुत्वापि ये स्वर्गार्थिनः, तेषामदृष्टवैगुण्यात् असमीचीनव्याख्यानश्रवणमूलस्यामुमुक्षत्वस्य संभवाच्च । साङ्गाध्ययनं कर्मविचारस्य पूर्ववृत्तं चेदधीतसाङ्गवेदैः सर्वैरपि कर्म विचार्येत ।

न च तथा क्रियते, वेदेऽधीतेऽप्यश्रुतकर्ममीमांसा हि बहवो दृश्यन्ते । तेषां कर्मविचारानधिगतिरदृष्टदेश-कालादिवैगुण्यात् न तु साङ्गाध्ययनस्य पुर्ववृत्तत्वाभावादिति चेत् तदिहापि तुल्यं, तथा साधनचतुष्टयादिलाभेप्य-नधिगतब्रह्मविचारानेकपुरुषदर्शनात् साधनचतुष्टयादेर्ब्रह्मविचारं प्रति नियमेन हेतुत्वं कथमिति परिचोदिते तत्पूर्व-वृत्तत्ववादिभिरप्यदृष्टादिवैगुण्याददोष इति परिहर्त्तव्यं, तदिहापि तुल्यं, दुष्परिहरदूषणान्तरसद्भावस्तेषां वैषम्यम् । तस्माद् घटनिष्पत्तेः कुलालादिवद् ब्रह्मविचारस्य कर्मविचारः पूर्वभावित्वेन नियतः, दृष्टादृष्टप्रतिबन्धकविरहितस्य समीचीनः कर्मविचारो ब्रह्मविचारसामग्रीति न कश्चिद्दोषः । एवमथातश्शब्दार्थो निरूपितः ।

अथ ब्रह्मजिज्ञासापदार्थे विवक्षुस्तदैकपद्यस्य समासनिबन्धनत्वात् प्रथमं समासार्थं निरूपयति "ब्रह्मण" इत्यादिना, कमर्त्वकरणत्वादिसम्बन्धविशेषेषु इतरा विभक्तयः "कर्मणि द्वितीये"त्यादिभिः सूत्रैर्विहिताः । "षष्ठी शेष" इति सूत्रेण संबन्दसामान्ये षष्ठी विहिता, अत्रतस्याः सामान्यविषयतामाशङ्कय कर्मविषयत्वं निश्चीयते । तत्र सामान्येन समासस्यानेकविभक्तिसाधारणत्वाद्विभक्तयन्तरशङ्काव्यावृत्त्यर्थमिह तेषामनुपपत्तिमभिप्रयन् पदं विगृ#ृह्णाति "ब्रह्मणो जिज्ञासे"ति । चतुर्थीपरिग्रहे प्रयोजनत्वसिद्धावपि प्रकृतिविकारभावाभावे चतुर्थीसमासायोगात्तदपरिग्रहः । "सप्तमी "ति योगविभागाद् ब्रह्मणि जिज्ञासेति समासेऽपि ब्रह्मणो विषयत्वमात्रं स्यात्, न तु प्रयोजनत्वमिति सप्तम्यपरिग्रहः । शङ्कुलया खण्ड इतिवत् तृतीयासमासे विषयत्वप्रयोजनत्वे न सिध्द्येते इत्यभिप्रायः । ब्रह्मण इति

शब्दरूपस्य षष्ठीपञ्चमीसाधारण्यात् षष्ठयाश्चऽनेकार्थत्वात्तन्निर्णयार्थमाह - ब्रह्मण इतीति । कुत इत्यत्राह "कर्तृकर्म-णो"रिति । षष्ठयाः कर्तृकर्मसाधारण्येपि जिज्ञासाकर्तृत्वं तापत्रयातुरस्यैव, ब्रह्मणस्तु कर्मत्वमित्यभिप्रायेण ब्रह्मण-इति कर्मणि षष्ठी त्युक्तम्, कर्मणि षष्ठीस्वीकारे ब्रह्मणो विषयत्वप्रयोजनत्वे सिद्धयेतामिति भावः ।

ननु तर्हि कथं "यद्यपी "त्यादेः सम्बन्धसामान्यपरिग्रहशङ्काविषयस्य भाष्यस्योत्थानंयुज्यते । उच्यते । सम्बन्धसामान्यस्वीकारेपि जिज्ञासापदसामर्थ्याद् ब्रह्मणः कर्मत्वसिद्धेः, परम्परया सम्बन्धिनामुपायोपासकप्रतिब-न्धादीनामपि जिज्ञास्यत्वसिद्धेः, प्रतिपदविहितषष्ठयाः समासनिषेधाच्च । तत्र सामर्थ्यात् षष्ठयाः कर्मार्थत्वसिदिं्ध ब्रह्मानुबन्धिनामपि जिज्ञास्यत्वस्य सिदिं्ध च शङ्कते - यद्यपीति ।

"सम्बन्धसामान्यपरिग्रह" इत्यत्र परिणा ब्रह्मानुबन्धिनामपि जिज्ञास्यत्वसिद्धिः सूच्यते । परितो ग्रहणेन हि परितः स्थितानामपि ग्राह्यत्वं लभ्यते । अत एव त्वुत्तरत्र "गृह्यत" इत्युक्तं न तु परिगृह्यत इति । तदुभयं परिहरति - तथापीति । अत्राऽयमर्थः प्रधानस्य ब्रह्मणोऽप्रधानानामन्येषां च कर्मत्वस्याक्षेपसिद्धत्वादपि प्रधानकर्मत्वस्याभिधा-निकत्वमितरेषां प्रधानसम्बन्धादाकाङ्क्षावशाच्च कर्मत्वस्य सामर्थ्यसिद्धत्वं च स्वीकर्त्तुं युक्तमिति, अतः प्रतिपदविहिता षष्ठी ग्राह्या "विलम्बितधीहेतोः शीघ्रधीहेतुर्बलीयानि"तिन्यायात् #ेषष्ठयाः सम्बन्धसामान्यविवक्षायां हि कर्मत्वधी-र्विलम्बिता स्यात् कृद्योगषष्ठीविवक्षायान्तु शीघ्रभाविनी ।

ननु कर्त्तृकर्मणोरुभयोरप्यर्थयोः सूत्रप्रतिपन्नत्वाद् विलम्बिता कर्मधीरिति चेन्न । कर्त्तृजिज्ञासोरधिगतकर्मणः प्रतिपन्नत्वात् कर्मार्थत्वमेव हि प्रथमतरं धियमधिरोहेत् । समासनिषेधमाशङ्कय परिहरति - नचेति । चः शङ्कासमु- च्चये । प्रतिप्रसवोऽपवादापवादः, सर्पिषो ज्ञानमित्यादिप्रयोगेषु "ज्ञोविदर्थस्य करण" इत्यादिसूत्रविहितायां षष्ठयां समासनिषेधस्य

सावकाशत्वं, सर्पिषा प्रवृत्तिरिति हि तस्य वाक्यस्यार्थः । यद्यपि ज्ञानपदं कृदन्तं तथापि सर्पिष इति षष्ठी न कृद्योगविहिता । सर्पिषा जानीत इति तिङन्तपदान्वयार्हत्वात्, धातोर्विभक्तेश्च प्रवृत्तितत्कारणार्थत्वाच्च न च तत्सर्वेकृद्योगविहितत्वे सिद्धयति, अतो नाऽत्र प्रतिप्रसवप्राप्तिरिति समासनिषेधस्य सावकाशत्वम् ।

ननु नेयं षष्ठी व्याख्येया अप्रयुक्तत्वात् । सूत्रे प्रयुक्त एव हि शब्दोऽर्थबोधकः नत्वप्रयुक्तः, बोधकशब्द एव हि व्याख्येयः, अप्रयुक्तापि स्मृता विभक्तिर्बोधकेति सा व्याख्येयेति चेन्न । तत्स्मरणेन विनाप्यर्थप्रतिपत्तेः । अर्थ-प्रतिपत्तिश्च प्रातिपदिकेन लक्षणया, लक्षणा च योग्यतादिना, अतोऽनुशासनेन तद्य्वाख्यानमयुक्तम् । उच्यते । अप्रयुक्तविभक्तयर्थस्य प्रातिपदिकेन लक्षणा हि समासः, अत्र लक्ष्यार्थोपलक्षणतया विभक्तिरनुप्रविष्टा, अतो लक्ष्या-र्थविशेषनिर्णयाय विग्रहवाक्यस्था षष्ठी व्याख्येया । तर्हि नानुशासनेन सा व्याख्येया, लाक्षणिकार्थो हि योग्यता-दिनावसीयते, न हि गङ्गायां घोष इत्यत्रानुशासनवशात्कूलं लक्ष्यते अपि तु योग्यतादिनैवेति । मैवं, सर्वासु लक्षणासु योगयतादिनैवार्थनिर्णय इति नियमाभावात् । सतु नियमः प्रातिपदिकेन प्रातिपदिकान्तरार्थलक्षणायाम् । प्रातिपदिकेन विभक्तयर्थलक्षणायां त्वेतद्विभक्तयर्थोलक्ष्यः, न विभक्तयन्तरार्थ इति हि नियमो भवति, स च शब्दानुशासनाधीनइति तदनुरोधेन तन्निरूपणं युक्तम् । तत्र सम्बन्धसामान्यं लक्षयित्वा तेन कर्मत्वस्याक्षेपादपि प्रथमतएव कर्मत्वस्यैव लक्षणा शब्दानुशासनानुमता युक्ता, अतः समस्तपदलक्ष्यार्थविशेषनिर्णयाया ऽनुशासनानुरोधेन लक्ष्यार्थोपलक्षणभूता विग्रहवाक्यस्था षष्ठी व्याख्येयेति । यद्वा लुप्तविभक्तिकशब्देन विभक्तयर्थबोधनं मुख्यं स्यात् । संबन्धिनो हि लक्षणा दृष्टा न संबन्धमात्रस्य । विभक्तयर्थस्य स्वयं संबन्धरूपः ।

न च सम्बन्धस्य सम्बन्धान्तरानपेक्षत्वेन स्वस्मिन् सम्बन्धिकार्यकरत्वाल्लक्षणा सम्भवतीति वाच्यम् । सम्बन्धस्य स्वपरनिर्वाहकत्वानभिज्ञानामपि विभक्तयर्थप्रतीतेः । न हि सम्बन्धस्स्वसत्तया लक्षणाहेतुः किन्तु

ज्ञायमानतयैव । न चेदतिप्रसङ्गात् । एवं लक्षणानुपपत्त्या प्रयोगस्यानन्यथासिद्धत्वात् समस्तशब्देन विभक्तयर्थबोधनं मुख्यम् । अमुख्यत्वेपि वा का नः क्षतिः ।

ननु विग्रहवाक्येपि कथं कर्मत्वमाभिधानिकं ? प्रयुज्यमानापि ह्युपपदविभक्तिर्निरर्थिका तद्विधानं दाराः कलत्रमितिवत्प्रयोगसाधुत्वाय, अर्थस्त्वर्थसामार्थ्याक्षिप्तः, अतएव हि कारकविभक्तेरुपपदविभक्तेर्दौबल्यं, समासे त्वप्रयुक्ताया उपपदविभक्तेः कथन्तरां कर्माभिधायकत्ममितिचेदुच्यते । आभिधानिकत्ववत् कृदन्तपदप्रयोगेन शीघ्र-धीविषयत्वसाम्यादाभिधानिकत्वोक्तिः । पदान्तरश्रवणापेक्षामात्रान्नाक्षेपादिवद्विलम्बाधिक्यम् । सामान्यषष्ठीपक्षे सम्बन्धसामान्यं प्रतिपाद्य जिज्ञासाशब्दार्थगतसकर्मकत्वस्वभावालोचनयाऽर्थविशेषावगमादपि कृदन्तश्रवणमात्रभुवः कर्मत्वधियः शीघ्रत्वादिति कश्चित्परिहारः । "कर्मणि द्वितीये"तिवत् "कर्त्तृकर्मणोः कृती "ति सप्तम्यन्तनिर्दिष्टयोः कर्तृकर्मणोरभिधेयत्वमनुशासनस्वारस्यानुगुणमितिभाष्यकाराभिप्रेतः परिहार इति सम्प्रदायः, कारकविभक्तेरुप-पदविभक्तिवैषम्यं पदान्तरयोगविहितत्वरूपमस्त्येव ।

न च पदान्तरयोगावगम्यत्वमाभिधानिकत्वविरोधी, तस्य क्वचिन्मुख्यार्थव्यवस्थापकत्वदृष्टेः, यथा "आदि-त्यस्य गावः प्रकाशयन्ती "त्यादिषु । न हि तत्रादित्यादिपदान्तरयोगेन गोशब्दस्य किरणपरत्वं लाक्षणिकं पदा-न्तरपरामर्शसापेक्षत्वेन विलम्बितधीहेतुरुपपदविभक्तिः, कारकविभक्तिस्तु तन्निरपेक्षत्वाच्छीर्घधीहेतुरिति प्राबल्य-दौर्बल्यविभागएव, न तु सार्थकत्वनिरर्थकत्वाभ्यां वैषम्यं विभक्तयश्रवणादमुख्यत्वन्तु परिहृतम् ।

एवं समासान्तर्गतविभक्तयर्थे निरूपिते समस्तयोः पदयोः प्रथमं ब्रह्मशब्दं व्याचष्टे - ब्रह्मशब्देन चेति । ब्रह्मशब्दस्य प्रधानाद्यर्वाचीनार्थान्तरेषु प्रयोगदर्शनादि तरव्याख्यातृभिरीश्वरातिरिक्तवस्तुपरत्वेन व्याख्यातव्या, द्देवतान्तरपरत्वस्य कैश्चिदभ्युपगमाच्च तद्य्वावृत्त्यर्थं "ब्रह्मशब्देन पुरुषोतमोऽभिधीयत" इतिप्रतिज्ञानीते । पुरुषो-त्तमशब्दस्य रूढ्या ब्रह्मशब्दस्य देवान्तपरत्वव्युदासः । अवयतः शक्तया बद्धमुक्तावस्थचेतनवैलक्षण्यमुक्तम् । स्वे-तरवैलक्षण्यमात्रं तृणादेरप्यस्तीति तदव्यावृत्त्यर्थं "स्वभावत" इत्यादिना विशेषणद्वयेन तद्वैलक्षण्यं विशिनष्टि । इदं विशेषणद्वयं शब्दशक्तेरर्थसामर्थ्याच्च ब्रह्मशब्दस्य पुरुषोत्तमपरत्वप्रतिपादनोपयोगितयोक्तम् । न तु प्रवृत्तिनिमित्ततया गुणतोऽपि बृहत्त्वे सति शब्दशक्तयसंकोचसिद्धेर्मुमुक्षोरशेषदोषनिवृत्तिनिरतिशयानन्दप्राप्तिहेतुत्वाच्च । वाद्यन्तरोक्त-स्याऽविद्यादिदोषान्वयस्य निर्गुणत्वस्य च व्यावृत्त्यर्थमुपाध्युपहितब्रह्मस्वरूपस्यैव कर्मवश्यत्वदुः स्वित्वादिव्यावृत्त्यर्थं ज्ञानादिशक्तियोग एवाऽस्य स्वाभाविकः सार्वज्ञ्यनिरतिशयानन्दादियोगस्तु कादाचित्कइति मतस्य च व्यावृत्त्यर्थमिदं विशेषणद्वयमुक्तम् ।

निरस्तकतिपयदोषत्वं निरस्तनिखिलदोषत्वं च केषांचिद् बद्धानां, नित्यानां, मुक्तानामप्यस्तीति तद्य्वावृत्त्यर्थं - स्वभावतो निरस्तनिखिलदोष - इत्युक्तम् । नित्यसिद्धानामपि भगवन्नित्यसङ्कल्पादीनां हि नित्य-निर्दोषत्वं, स्वभावत इत्युत्तरत्रानुषङ्गः, तेन गुणानामप्यविद्याकल्पितत्त्वपक्षव्यावृत्तिः "ते ये शत" मित्यत्र पूर्वपूर्व-गुणेभ्य उत्तरोत्तरगुणानामतिशयः सावधिरिति तद्य्वावृत्त्यर्थमनवधिकातिशय शब्दः, तत्र हि ब्रह्मगुणातिशयस्य वाङ्मनसागोचरतया ऽनवधिकत्वमुक्तं, सत्यसङ्कल्पत्वान्तर्भुता वशित्वादिगुणा इति हि वक्ष्यते, अतः कस्मिंश्चिद्गुणे तद्विधाभेदरूपतया गुणानां बहूनामन्तर्भावाभिप्रायो गण-शब्दः । नन्वनवधिकातिशयशब्दस्य गुणविशेषणत्वे गण-शब्दसामानाधिकरण्याभावाद् बहुब्रीहिर्न स्यात् । गणविशेषणत्वमप्ययुक्तं, गुणस्वरूपस्य अनवधिकातिशयत्वं, न तु गणस्वरूपस्य नैवम् । गण एव विशेष्यइति बहुव्रीहिसिद्धिः, तथाप्यर्थवशाद् गणान्तर्भूतैकैकगुणव्यक्तेरनवधिका-तिशयत्वं फलितं स्यात् "यथैषा परिषदभिजनवती श्रुतशीलशालिनी "त्यत्र श्रुतशीलादीनां परिषद्विशेषणत्वे प्रतीतेऽपि तदन्तर्भूतानामेव श्रुताद्यन्वयः नतु समूहस्य ततो निर्गतानां श्रुताद्यभावप्रसङ्गात् । असंख्येयत्वमपि गण-

विशेषणं युक्तं, गणासंख्येयत्वे गुणासङ्ख्येयत्वं कैमुत्यसिद्धम् । अनवधिकातिशय शब्देन नित्यसिद्धव्यावृत्तिश्च । तद्गुणानां जगद्य्वापाराननुगुणत्वेन भगवद्गुणापेक्षया सातिशयत्वात्, तेषामीश्वरतद्गुणविभूतिसाक्षात्कारस्यात्यन्ता-नुकूलस्य निरवधिकातिशयत्वेऽपि तादृशासंख्येयगुणाभावात्तद्य्वावृत्तिः । अनुषक्तेन स्वभावत इतिपदेन वा नित्य-सिद्धव्यावृत्तिः । तेषां तादृशगुणकत्वं हि भगवन्नित्येच्छाधीनं, स्वरूपेणाऽनवधिकातिशयत्वाभावाच्च नित्यसिद्ध-व्यावृत्तिः, ते अणुस्वरूपाः, अत्र स्वरूपस्याऽनवधिकातिशयत्वं गर्भितम् । विभुत्वस्यापि गुणान्तर्भावित्वात् , बृहत्वं च स्वरूपेण गुणैश्चेत्युपपादकग्रन्थोक्तः । अभिधीयते - मुख्यया वृत्त्या बोध्यते । अस्मिन् ग्रन्थे "येनाक्षरं पुरुषं वेद सत्य"मिति श्रुतिश्चेतत्सूत्रानुवादिन्यनुसंहिता भवति, तत्र हि "प्रवोच तां तत्त्वतो ब्रह्मविद्या"मिति पुरुषपर्यायतया ब्रह्मशब्दः प्रयुक्तः ।

एवं प्रतिज्ञातार्थं शब्दसामर्थ्यात् प्रथममुपपादयति - सर्वत्रे त्यादिना । तत्राऽर्थान्तरेषु ब्रह्मशब्दप्रयोगस्या-न्यथासिदिं्ध विवक्षुस्तदुपयुक्तं गुणयोगं दर्शयति सर्वत्रेति सर्वत्र ब्रह्मशब्दप्रयोगविषयेषु सर्वेषु बृहत्त्वगुणयोगोस्ती-त्यर्थः । पुरुषोत्तमे गौणत्वमन्यत्र मुख्यत्वं च किन्न स्यादित्यत्राह बृहत्त्वञ्चेति बृहत्त्वगुणमात्रयोगिषु सर्वेषु ब्रह्म-शब्दाप्रयोगात् स्वरूपतो गुणतश्चानवधिकातिशयबृहत्त्वं प्रवृत्तिनिमित्तमित्यर्थः ।

ननु "बृहति बृंहयति तस्मादुच्यते परं ब्रह्म" "बृहत्वाद् बृहंणत्वाच्च तद्ब्रह्मेत्यभिधीयत" इति श्रुतिस्मृतिभ्यां बृहत्त्वबृंहणत्वे च प्रवृत्तिनिमित्तयावगते कथमिह बृहत्त्वमात्रं निमित्तमुच्यते गुणतो बृहत्त्वे बृंहणत्वस्यान्तर्गतत्वादिति ब्रूमः "सचानन्त्याय कल्पत" इत्यादिश्रुतिप्रसिद्धसकलसङ्कोचनिवृत्तिपूर्वकनिरवधिकज्ञानविकासरूपानन्त्यावहत्वं हि बृहणत्वं, तद्धि सकलहेयप्रत्यनीकत्वक्षान्तिकारुण्यादिमोक्षप्रदत्वोपयिकगुणगणवत्त्वं, अत एव हि स्वभावतो निर-स्तनिखिलदोष इत्यादिकं प्रतिज्ञावाक्येऽभिहितम् ।

ननु स्वरूपतो बृहत्त्वमेव निमिक्षमस्तु किङ्गौरवेणेति चेत् । न । ब्रह्मगुणादेरपि स्वरूपेण बृहत्त्वाद् ब्रह्म-शब्दवाच्यत्वप्रसङ्गात् । तर्हि गुणतो बृहत्त्वमेवास्तु निमित्तमिति चेन्न । शब्दशक्तेरसङ्कोचस्य स्वतः प्राप्तत्वात् स्वरूपेण च बृहत्त्वसम्भवात् "सत्यं ज्ञानमनन्तं ब्रह्मे"ति हि श्रुतिः ।

गुणतो बृहत्त्वन्नाम सद्वारकबृहत्त्वं गुणाद्वारा हि तत्, स्वरूपेण गुणैश्च निरतिशयबृहत्त्ववद्वस्तु पुरुषो-त्तमादन्यदपि स्यादन्यदेव वा स्यादित्यत्राह स चेति चः शङ्कानिवृत्तौ सर्वेश्वरशब्देनैवकारेण च "तमीश्वराणां परमं महेश्वरं" "न तत्समश्चाभ्यधिकश्च दृश्यत" इति वाक्ययुगलार्थो विवक्षितः । ततः किमित्वत्राह अतः इति अतः अनवधिकातिशयबृहति ब्रह्मशब्दस्य मुख्यत्वत्, सर्वेश्वरस्यैतादृशबृहत्त्वगुणयोगित्वाच्चेत्यर्थः । कथं तत्रैव मुख्यवृत्तः अन्यत्रापि हि ब्रह्मशब्दः प्रयुज्यतइत्यत्राह - तस्मादिति - तस्मात्-ब्रह्मणः । सर्वत्र मुख्यः कुतो न स्यादित्यत्राह - अनेकार्थेति । परस्माद् ब्रह्मणोऽन्यत्र प्रयोगस्यान्यन्यथासिद्धत्वान्न तत्र शक्तिकल्पनम् । "अनन्यथासिद्धः प्रयोगः शकिं्त कल्पयती "ति न्यायादित्यर्थः । अनेकशक्तिकल्पनं गौणत्वं वा न स्याद् बृहत्त्वगुणयोगिसवर्व्यक्तिष्वेकयैव शक्तया मुख्यत्वसम्भवादित्यत्राह - भगच्छब्दवदिति - तथा च श्रीमति वैष्णवे पुराणे भगच्छब्दं प्रकृत्योक्तं "तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोयं नोपचारेण अन्यत्र ह्युपचारत" इति, अनेन प्रस्तुतचोद्यस्य कः परिहार उक्तो भवति? उच्यते बृहतिधातोर्मनिनूप्रत्ययान्तत्वेन निष्पन्नस्य ब्रह्मशब्दस्य प्रधानादिषु दृश्यमानः प्रयोगो नावयवशक्तिनिबन्धनः, तथा हि सति बृहन्महच्छब्दादिवदापेक्षिकबृहत्त्वयोगिषु सर्ववस्तुषु प्रयोगः स्यान्न च तथा प्रयुज्यते, त्रसरेणुमपि हि

ततोणिष्ठतयाऽभिमतद्रव्यान्तरापेक्षया बहिमगुणशालीति वदन्ति । न च त्र्यणुकादिषु ब्रह्मशब्दप्रयोगः । एवं सर्वत्र प्रयोगदर्शनात् पङ्कजशब्दव्यवस्थापककुमुदादिव्यावृत्ततामरसानुवृत्तपद्मत्वजातिवद्

ब्रह्मशब्दप्रयोगविषये पञ्चषव्यक्तयनुवृत्तान्यव्यावृत्ताकारादर्शनादनेकशक्तिकल्पने प्राप्ते, अनन्यथासिद्धस्य प्रयोगस्य शक्तिकल्पकत्वाद् ब्रह्मशब्दप्रयोगविषयेष्वन्येषु च बृहत्त्वगुणलेशयोगेन प्रयोगस्यान्यथासिद्धत्वाच्च नानेकशक्तिकल्पनं युक्तम् । तस्मात्पुरुषोत्तम एव प्रवृत्तिनिमित्तपौष्कल्यवति मुख्यत्वम् । अन्यत्रौपचारिकत्वं च । "औपचारिकस्तु प्रयोगः सङ्कोचसह इष्टः न तु सार्वत्रिक" इतितमिमं न्यायमभिप्रेत्य भगवच्छब्दस्य पुरुषोत्तम एव मुख्यत्वमन्यत्रा-मुख्यत्वं च भगवता पराशरेणोक्तम् । तथाहि ज्ञानादिमात्रं वा निरङ्कुशज्ञानादिकं वा, भगवच्छब्दप्रवृत्तिनिमित्तं, आद्ये पिपीलिकादावपि भगवच्छब्दः प्रयुज्येत, द्वितीये तु सर्वत्र निरवधिकज्ञानाद्यभावात् प्रवृत्तिनिमित्तासिद्धे-र्नैकशक्तया सर्वत्र मुख्यत्वम् । अनेकशक्तिकल्पनं चाऽयुक्तं प्रयोगान्यथासिद्धेरिति भगवत्पराशराभिप्रायः ।

ननु "उत्पतिं्त प्रलयं चैव भूतानामगतिं गतिम् । वेत्तिविद्यामविद्यां च स वाच्यो भगवानि"ति ग्रन्थोक्तेष्वौ-पचारिकभगवच्छब्दप्रयोगयोग्येषुयदलौकिकार्थसाक्षात्कारित्मस्ति तदेव प्रवृत्तिनिमित्तीकृत्य भगवच्छब्दः सर्वत्राऽयं मुख्यः स्यात् । नैवम् । अलौकिकार्थसाक्षात्करणमात्रस्य प्रयोगाविषयव्यावृत्तत्वाभावान्न हि समाधिपर्यन्तयोग-काष्ठानिष्ठेषु केशिध्वजखाण्डिक्य-प्रह्लादादिषु भगवच्छब्दः प्रयुज्यते । किञ्च प्रत्यक्षमूलव्युत्पत्त्या गवादिशब्दाना-मिवाऽऽगममूलव्युत्पत्त्या समग्रषाङ्गुण्यादिमत्येव तस्य मुख्यत्वावगमात् ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्य शेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभि"रिति निर्दोषत्वपर्यन्तानां ज्ञानादीनां प्रवृत्तिनिमित्ततया वाच्यत्वमुच्यते, निर्दोषत्वञ्च निमित्ततया वाच्येत्वेनोच्यते, अन्यथा तदुक्तिवैयर्थ्यात्, न ह्यवाच्यं सर्वे निषेद्धव्यमनुक्तवैव ह्यवाच्यत्वं सिद्धयति ।

न च ज्ञानशक्तयादिष्वेकैकस्य प्रवृत्तिनिमित्तत्वं, किन्तु ज्ञानादिसमुदायस्यैव अन्यथा अशेषत इतिपद-वैयर्थ्यादैश्वर्यस्य समग्रस्येत्युक्तत्वात् गवादिष्वतिप्रसङ्गभयाच्च प्रकर्षविशेषवतां ज्ञानादीनां समुदायस्यैव प्रवृत्ति-निमित्तत्वमुक्तमित्यभ्युपेयम् । एवं न्यायसिद्धार्थस्याऽऽगमसिद्धार्थो भाष्ये दृष्टान्तीकृत "भगवच्छब्दव"दिति तथा भगवता पाराशर्येण "परं जैमिनिर्मुख्यत्वात्" "स्याच्चैकस्यब्रह्मशब्दव"दित्यादिसूत्रेषु ब्रह्मशब्दस्य भगवत्येव मुख्यत्वमुत्तरत्रोक्तम् । अतो यथोक्त एवार्थः । तथा च स्पष्टीकृतं श्रीमति गारुण्डे पुराणे, "वेदे भूरिप्रयोगाच्च गुण-योगाच्च शाÐङ्गणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने" इत्यारभ्य "यस्मिन् प्रयुज्यमाने तु गुणयोगः सुपुष्कलः। तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः" इत्येवं शब्दसामर्थ्यमुपपादितम् । अथ ब्रह्मशब्दस्याऽनेकार्थमुख्यवृत्तत्वेष्ये-तत्सूत्रस्थस्य तस्यार्थस्वाभाव्यात् पुरुषोत्तमपरत्वमुच्यते । तापत्रयातुरैरिति - स एवामृतत्त्वायेति पदै "स्तमेवं विद्वानमृत इह भवति नान्यः पन्था" इत्यादिश्रुत्यर्थो विवक्षितः । अत एव हि "पुरुषोत्तमोऽभिधीयते" इत्युक्तं श्रुतेरपि पूर्वोक्तहेयप्रत्यनीकत्वकल्याणकुणाकरत्वविशिष्टि एव तापत्रया तुरैरुपास्यः, न तु तेष्वन्यतमइति न हि कारागार-निगडित एव तन्मोचानाथिर्भिरभ्यर्थनीयः, तथा च वैष्णवे पुराणे निर्दोषकल्याणगुणाकरस्यैव मुमुक्षूपास्यत्वमुक्तं "स सर्वभूतप्रकृतिं विकारान् समस्तकल्याणगुणात्मकोसा" वित्यादिना तूजज्ञानमज्ञानमतोन्यदुक्तमित्यन्तेन, ब्रह्मशब्द-व्याख्यानं निगमयति, अतो-निर्दोषमङ्गलगुणाकरस्य सर्वेश्वरस्यैव तापत्रयातुरैर्जिज्ञास्यात्वादत्र तापत्रयातुरजिज्ञा-स्यतयोक्तं ब्रह्म सर्वेश्वर एवेत्यर्थः । यद्वा "अतः" उक्तशब्दसामर्थ्यादर्थसामर्थ्याच्चेत्यर्थः ।

ननु ब्रह्मशब्दो व्युत्पन्नोऽव्युत्पन्नो वा भगवति मुख्यः? अव्युत्पन्नत्वे बोधकत्वविरहिणस्तस्य न क्वचिन्मु-ख्यत्वम् । नापि व्युत्पन्नः स मुख्यः अलौकिकेर्थे व्युत्पत्त्यसंभवात् कथमप्रतीते व्यवहाराविषये बुद्धिपूर्विका यादृ-च्छिकी च व्युत्पत्तिः सम्भवति । उच्यते । यथा कामिनीचन्दनभवनादिषु प्रयोगेण सुखविषयतया व्युत्पन्नस्य "यस्मिन्नोष्ण"मित्याद्यर्थवादपदसमभिव्याहारेण लौकिकसुखविषयतया व्युत्पत्तिः । यथा लोके क्वचिदप्यव्युत्प -

न्नत्वेपि यूपाहवनीय स्फ्य-कपाल-चपाल-चषाल-चात्वालादिशब्दानां वाक्यान्तरपदान्तरसमभिव्याहारात्तत्तद-र्शविषयतया व्युत्पत्तिः । एवं ब्रह्मात्मेश्वरादिशब्दानां लोके केषुचिदर्थेषु प्रयोगाद् व्युत्पत्तौ सत्यामसत्यामपि । "यतोवा इमानि भूतानि जायन्ते" "सत्यं ज्ञानमनन्तं ब्रह्मे"त्यादिप्रसिद्धार्थवाक्यान्तरपदान्तरसमभिव्याहारात् अलौकिक-परमात्मविषयत्वव्युत्पत्तिरुपपद्यते । अतो ब्रह्मशब्दस्योक्तरीत्या भगवत्येव मुख्यत्वं युक्तम् ।

अथ जिज्ञासाशब्दस्य व्याख्येयत्वस्फोरणाय प्रकृतिप्रत्ययविभागं दर्शयति । "ज्ञातुमिच्छा जिज्ञासे"ति विषयवैलक्षण्याधीनाया इच्छायाः कथं विधेयत्वमित्यत्राह । "इच्छाया" इति । ज्ञानस्य विधानार्हतामाह "इष्यमा-णप्रधानत्वादि"ति सन्वाच्याया धात्वर्थः कर्म, कर्मणश्च क्रिया शेषभूता तत्सिद्धयर्थत्वात्तस्याः, यथा वागीयब्रीह्यादेः प्रोक्षणादिः । कर्त्तुः क्रियया आप्तमिष्टतमत्वं हि कर्मत्वम् । अतः प्रकृत्यर्थभूतज्ञानकमिर्केच्छा तत्सिद्धयर्था अत इच्छाया इष्यमाणज्ञानप्रधानत्वात् इष्यमाणं ज्ञानं विधेयमित्यर्थः । जिज्ञासायाः कर्त्तव्यत्वे प्रतीयमाने ज्ञानस्य कथं विधेयत्वम्? उच्यते । यथा स्नात्वा भुञ्जीत प्राङ्मुखोभुञ्जीतेत्यत्र भुजिधातोर्विधिप्रत्ययान्तत्वाद् भोजनस्य कर्त्तव्यत्वे प्रतीतेपि स्नानप्राङ्मुखत्वनियमयोरेव विधेस्तात्पर्यमित्यर्थस्वाभावातभ्युपगम्यते, तयोरप्राप्तत्वात् "अप्राप्ते हि शास्त्रमर्थवत्" तत्र भोजनं चान्यतः प्राप्तमनुद्यते, एवमिच्छाया विधेयत्वासम्भवात् तद्विषयभूतं विचारात्मकं ज्ञानमेव तात्पर्यतो विधीयते । "इष्यमाणं ज्ञानमिहाभिप्रेत"मिति हि सारेऽभिहितं । सनन्तनिर्देशश्च "निदिध्यासितव्यः" "विजिज्ञासितव्यः" "तद्विजिज्ञासत्त्वे" त्यादिश्रुत्यनुसारेणक्रियते । श्रुतिश्च उपायदशाममृति भगवज्ज्ञानस्य प्रीति-रूपत्वेन इच्छाविषयत्वात्तथा निर्दिशति । यद्वा "ब्रह्मजिज्ञासे"ति सनन्तनिर्देशो विचारस्य रागप्राप्तत्वज्ञापनार्थः । एवमेव धर्मजिज्ञासेत्यत्रापि । अत्र तर्करूपं ज्ञानं विधेयं तर्कानुगृहीतवाक्यजन्यप्रमितिरूपज्ञानं तु फलत्वान्न विधेयं, प्रमितिरूपं विधेयं तर्करूपं ज्ञानमार्थमित्यपि परैरुक्तम् । अन्तर्णीतं विचारमाक्षिपतीति ततोपि प्रागुक्तपक्षः साधीयान् वेदान्तार्थविचारात्मकन्यायनिबन्धनरूपं हि शास्त्रं ब्रह्ममीमांसेति प्रसिद्धिः, प्रमितिश्च फलम् । अत एव हि ब्रह्मविचारः कर्तव्य इति भाष्ये वक्ष्यते । सनन्तस्याऽस्य ज्ञा-धातोर्ज्ञानसामान्यवाचिनो विशेषाकाङ्क्षायां समुचित-विशेषपर्यवसानं हि न्याय्यं, ब्रह्मणो जिज्ञासा कर्तव्या न तु कपिलसुगताद्यभिमतानां प्रधानादितत्त्वानामिति ज्ञातव्यविशेषनिर्णयपरं सूत्रं व्याख्यातं यादवप्रकाशाचार्यैः, तद्वावृत्त्यर्थइह-शब्दः, इह-अस्मिन्नुपक्रमसूत्र इत्यर्थः । ब्रह्मणो जिज्ञास्यत्वमात्रे सिद्धे हि तस्यैव जिज्ञास्यत्वसिद्धिः, न चोभयं सूत्रप्रतिपाद्यं ब्रह्म जिज्ञास्यमेव ब्रह्मैव जिज्ञा-स्यमिति वाक्यभेदप्रसङ्गात् ।

ननु ब्रह्मणो मुमुक्षुभिर्नियमेन जिज्ञास्यत्वं तन्त्रान्तरसिद्धानां प्रधानादीनां अजिज्ञास्यत्वेन विना न सिद्धयतीति ब्रह्मजिज्ञास्यत्वसमर्थने प्रधानादेरजिज्ञास्यत्वसमर्थनमर्थादापततीति न वाक्यभेदप्रसङ्ग इति चेत् न । अधीतक्रमेण वेदार्थे निरूप्यमाणे पूर्वभागविचारानन्तरमुत्तरभागविचारस्य प्रधानादिनिरासनिरपेक्षत्वात् , न ह्येकस्य प्रबन्धस्यैकदेशे निरूपिते तदेकदेशान्तरनिरूपणस्य प्रबन्धान्तरप्रमेयनिराससापेक्षता भवति, न हि पूर्वषट्केनिरूपिते उत्तरषट्कनिरूपणं, कपिलसुगतादिमतव्युदासेन विना न सम्भवति, यदि वेदान्तार्थस्य श्रद्धार्दढिम्ने तदितरपक्षनिर-सनमपेक्षितमिह क्रियतइति मतं, तदनुपपन्नं कृतकरत्वप्रसङ्गात् । एतदुक्तं भवति इहप्रधानादीनामजिज्ञास्यत्वं किं वेदान्तनामतत्परत्वोपपादनेन समर्थ्यते ? उत कपिलसुगताद्यायमाप्रामाण्य तत्प्रमेयदौस्थ्यप्रतिपादनेन समर्थ्यते ? न प्रथमः ईक्षत्यधिकरणादिभिर्वेदान्तानामत्परत्वस्य वक्ष्यमाणतयाऽत्र वक्तव्यत्वाभावात्; न द्वितीयः वेदविरुद्धस्मृ-तीनामप्रामाण्यस्य पूर्वमीमांसायामेव समर्थितत्वात्; सांख्यसौकताद्यभिमतप्रमेयदौस्स्थ्यस्य तर्कपादे प्रतिपाद-यिष्यमाणत्वात् । "विप्रतिषेधाच्चासमज्जसम्" "इतरेषां चानुपलब्धेः" "एतेन योगः प्रत्युक्तः" "उदासीनानामपि चैवं

सिद्धिः" "अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष" इत्यादिभिः सूत्रैस्तदुक्तमोक्षतदुपायनिरासस्यापि करिष्यमाणतया चात्र वक्तव्यत्वाभावात् । किञ्च "एतेन सर्वे व्याख्याता व्याख्याता" इत्यत्र । "अनावृत्तिः शब्दादनावृत्तिःशब्दा"दिति शास्त्रान्ते च सूत्राभ्यासफलमनुक्तांशज्ञापनम् । अनुक्तांशश्च सांख्ययोगावगमयतइति वदतां मोक्षस्य सांख्ययोस-मुच्चयसापेक्षत्वं च प्रतिपादयतां सौगतादिवत् सांख्यादिनिरासेन शारीरकस्यैवारम्भणीयत्वप्रतिज्ञानमिति च व्याहतं सांख्ययोगयोर्विरुद्धांशाभिप्रायमनादरणीयत्वकथनमिति चेन्न । विरुद्धांशानाद्ररणीयत्वस्यविरोधाधिकरणन्याय-सिद्धत्वादेव, अतो यादवप्रकाशकृतं सूत्रतात्पर्यवर्णनमनुपपन्नमितीह-शब्दाभिप्रायः । विधीयत इति अज्ञातज्ञापनं विधिरिह विवक्षितम्, न त्वप्रवृत्तप्रवर्त्तनं रागतः प्रवृत्तेर्वक्ष्यमाणत्वात् । रागतः प्रवृत्तस्यापि पूर्वपक्षयुक्तयाऽनारम्भ-णीयताबुद्धौ सत्यामारम्भणीयत्वमापनम् हि अज्ञातज्ञापनम् अतो विधीयत-इत्यस्य स्वयमेव प्रवर्त्ततइति वक्ष्यमा-णग्रन्थेनाविरोधः । इत्थं पदार्था व्याख्याताः ।

अथ सूत्रस्य वाक्यार्थमाह - मीमांसेति । अत्र पूर्ववृत्तात्कमर्ज्ञानाद् अनन्तरं तत एव हेतोरित्यथातः - शब्दार्थ उक्तः । ब्रह्म ज्ञातव्यमिति ब्रह्मजिज्ञासापदार्थः - ज्ञातव्यम् - विचारयोगग्यम् । तत एव त्येवकारेण शा-स्त्रान्तराधिगमनैरपैक्ष्यमथ-शब्दफलितमभिप्रेतम् । उक्तं भवतीति शब्दतोऽर्थतश्चेति भावः । कथमस्य सूत्रस्यायमर्थ इति शङ्कायां? तदुपपादयति - मीमांसे त्वादिना । अथातइत्यादिपदानां यथोक्त एवार्थः कर्मब्रह्ममीमांसयोरैक-शास्त्र्#ात्, ऐकशास्त्र्यं च नियतपौर्वापर्यभागद्वयात्मकवेदाख्यैकप्रबन्धव्याख्यानरूपत्वादित्यर्थः । अत्र व्याख्येयस्य पूर्वापरभावेनावस्थितभागद्वयरूपत्त्वं तद्धेतुकं व्याख्यानस्य पौर्वापर्यविशेषविशिष्टभागद्वयरूपत्त्वं, चोभयं पदयो-जनायां वाक्ययोजनायां च वक्तव्यं, तथापि ग्रन्थलाघवार्थं पदयोजनायाम "धीतसाङ्गसशिरस्कवेदस्ये"ति व्याख्-येयस्य नियतपौर्वापर्यभागवद्वयरूपत्वमुक्तम् । अत्र तु वाक्ययोनायां व्याख्यानस्य नियतपौर्वापर्यभागद्वयरूपत-यैकशास्त्र्यमुक्तम् । उभयत्रोभयमनुसन्धेयम् । माग-शब्दाभ्यां मीमांसाद्वयस्य एकावयवित्वं सूचितम् । पूर्वोपरितन-शब्दाभ्यां क्रमनियम उक्तः । कर्मब्रह्म-शब्दाभ्यां वृत्तवर्त्तिष्यमाणकथनम् । अल्पास्थिरफलत्वानन्तस्थिरफलत्वाभ्यां तयोर्हेतुहेतुमद्भावोपपादनम् । मुक्तयुपायोपयोगितया कर्मणां स्वरूपेणोपादेयताप्रतीतिरनन्तस्थिरफलापातप्रती-त्यन्तर्भूता अतः पृथगनुक्तिः । एवं क्रमविशेषविशिष्टैकव्याख्येयव्याख्यानरूपतया कर्मब्रह्मविचारयोरैकशास्त्र्यत्वात् सूत्रस्य यथोक्त एवार्थः ।

पूर्वप्रतिज्ञातं वृत्तिकारमतानुसारं वृत्तिग्रन्थेन सम्वादयति - तदाहेति -कर्माधिगमस्यैव पूर्ववृत्तत्वं केवलं कण्ठोक्तम् ऐकशास्त्र्#ोक्तयाक्षिप्तंचेत्यभिप्रयन्नाह - वक्ष्यतिचेति ।

वृत्तादित्यादिः संहितमित्यादिश्च वृत्तिर्गन्थौ - शारीरकं - ब्रह्ममीमांसा जगच्छरीरः परमात्मा-शारीरः "तस्यैष एव शारीर आत्मे"ति श्रुतेः, तद्विषयं शास्त्रं शारीरकमित्युच्यते "षोडशलक्षणेन" षोडशाध्यायेन - संहितमि ति नियतपौर्वापर्यैकव्याख्येयव्याख्यानरूपतया संहितमिति भावः "अर्थैकत्वादेकं वाक्य"मिति न्यायेन प्रधानप्रति-पाद्यैक्याद्य्वाख्येयस्य वेदस्यैकप्रबन्धत्वं भवेत्, तच्चोपपद्यते पुरुषार्थपरत्वाद्वेदस्य ब्रह्मपरत्वाद्वा "सर्वे वेदा यत्पदमा-मनन्ति" वेदैश्च सर्वैरहमेव वेद्य" इति हि श्रुतिस्मृती वेदार्थविचारस्यानुगतत्वान्मीमांसाया एकप्रबन्धत्वं अनेनैक-शास्त्र्#ेण कर्माधिगमस्य पूर्ववृत्तत्वमाक्षिप्तम् ।

ननु यद्यैकशास्त्र्यं कर्मब्रह्मविचारयोस्तर्हि उपक्रमे साधारणोर्थः प्रतिज्ञायेत "अथातो वेदार्थजिज्ञासे"ति नचैवं प्रतिज्ञातं, किन्तु पूर्वभागासाधारण एव प्रतिज्ञातः-"अथातो धर्मजिज्ञासे"ति । अत्र ब्रूमः ब्रह्मजिज्ञासेत्ये-वोभयभ्रामसाधारणार्थप्रतिज्ञा, कर्मविचारस्तु ब्रह्ममीमांसातृतीयलक्षणचतुर्थपादेन सङ्गतः, ब्रह्मविचारान्तर्भावेपि

पृथक्कररमुपपद्यते यथा निग्रहान्तर्भूतच्छलजात्योराहिकभेदेन पृथगुक्तिः, यथा च निग्रहान्तर्भूतहेत्वाभासानाम-ध्यायभेदेन पृथगुक्तिः, पृथक्करणं च बहुग्रन्थप्रतिपाद्यत्वात् तत्र च पूर्वभावित्वमुपजीव्योपजीवकभावादिवक्ष्यमा-णहेतुनिबन्धनम् । एतदुक्तं भवति, अर्थक्रमाद् ब्रह्ममीमांसातृतीयलक्षणचतुर्थपादेन कर्मविचारः सङ्गतः । प्रतिप-त्तिसौकयर्लक्षणक्रमात्तु कम्रविचारस्य पूर्वभाव इति एवं वा साधम्यर्वैधर्म्यसमयोर्जात्योः कथनेन यथा प्रतिधर्मस-मोभयानुयायिन्यर्थसिद्धा । एवं भागद्वयासाधारणार्थप्रतिज्ञाद्वये कृते साधारणार्थप्रतिज्ञानमार्थ स्यात् साधारणार्थे प्रतिज्ञातेऽप्यसाधारणार्थस्तु पृथगेव प्रतिज्ञातव्यः, धर्मजिज्ञासायां प्रतिज्ञातायामप्य "थातः शेषलक्षणम्" "अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासे" त्यादौ ह्यसाधारणार्थप्रतिज्ञा कृता, अतो भागद्वयासाधारणार्थप्रतिज्ञानेन तदनुगतसा-धारणार्थप्रतिज्ञानमार्थं स्यादिति प्रथम "मथातोधर्मजिज्ञासेति" प्रतिज्ञानं न तु वेदार्थजिज्ञासेति । अथवा, अथा-तोधमर्जिज्ञासेत्येव साधारणप्रतिज्ञा, अलौकिकं श्रेयः साधनं हि धर्मः, तदनुयायिप्रतिपाद्यं, धर्मश्च साध्यसिद्धभेदेन द्विविधः, सिद्धरूपे वस्तुनि धर्मशब्दप्रयोगो महाभारते दृष्टः, यथा-"ये च वेदविदो विप्राये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मे सनातन"मिति, तथाभियुक्तैश्च लौकिकत्वे सति श्रेयः साधनत्वं धर्मशब्दप्रवृत्तिनिमित्तं मन्यमानैः सिद्धरूपेर्थे धर्मशब्दः प्रयुक्तः, द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेपि न ताद्रू-प्येण धर्मतेत्यादौ, तत्र द्रव्यादिसद्भावेपि क्रियाप्राधान्यात् साध्यधर्मपरः पूर्वभागः । उपासनतदङ्गसद्भावेपि ब्रह्मप्र-धानत्वात् सिद्धधर्मपर ऊर्ध्वभागः । अत उभयभागविचारणी प्रथमप्रतिज्ञा तत्र धर्मशब्दस्य साध्यधर्मविषयतया प्रसिद्धिप्राचुर्येण बुद्धिस्थत्वात् पूर्वभागप्रतिपन्नत्वेन प्राथम्याद्धर्मजिज्ञासापदेनैव तन्त्रेण वा अर्थतोवा प्रतिज्ञातत्वो-पपत्तेश्च, तल्लक्षणमुक्तं चोदनासूत्रे । सिद्धरूपधर्मविशेषस्य च साधारणप्रतिज्ञयैवार्थतः प्रतिज्ञातत्वेपि तस्य बहुग्र-न्थव्यवधानाच्छब्दाबोध्यत्वशङ्कापरिजिहीर्षया च पुनः प्रतिज्ञा कृता, तस्य लक्षणमुक्तं जन्मादिसूत्रइति युक्तमैक-शास्त्र्यम् ।

ननु पूर्वभागस्य साध्यधर्मप्रधानतोक्तिरुदाहृतवचनेन विरुध्यते तत्र पूर्वभागेपि सिद्धरूपस्य परस्य कर्मा-राध्यतया प्रधानप्रतिपाद्यत्वावगमात् तस्मिन्वचने वेदविच्छब्दो हि पूर्वभावभिज्ञपरः, गोबलीवर्दन्यायात् "विष्णुनामा स वेदेषु वेदान्तेषु च गीयत" इत्यनेनैकार्थ्याच्च ।

न च गुणभावेन कर्मणां प्रतिपाद्यत्वमित्यविरोधः, प्राधान्येन प्रतिपाद्यत्वस्य नैमिनेरभिमतत्वात् भवद्भिरपि तथोक्तत्वाच्च, सत्यम् । वस्तुतः प्राधान्यं परमात्मन एव यथा राज्ञस्तात्पर्यगोचरतालक्षणं, शब्दप्राधान्यन्तु कर्मण एव यथा राजपुरुषस्य, तच्चातिरस्कृतं तत्र तस्य परमात्माराधनरूपत्वानवगमात् ।

न च तदवगमोऽवश्यं सम्पाद्यः, अन्तवत्स्वर्गादिफलप्रदत्वे कर्मणां परदेवताज्ञाननैरपेक्ष्यं हि श्रुतिस्मृति-भ्यामवगम्यते "यो ह वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति" इति "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च, न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते" इति च अत-स्तन्नैरपेक्ष्यलक्षणमपि प्राधान्यमस्ति कर्मणः, अतः पूर्वभागे कर्मणः प्रागवगतं प्राधान्यं पश्चादवगन्तव्यं परमात्मा-राधनरूपत्वं वाविरुद्धम् , अतः प्रतिज्ञोपपत्तेः शास्त्रैक्यं युक्तं, यद्यपि कर्मब्रह्ममीमांसयोरैकशास्त्र्यमविवक्षितं जैमिनिना, तथापि तदङ्गीकृत्य तदेकशास्त्रतया बादरायणेन ब्रह्मसूत्रप्रणयनं युक्तं, अतः, अतदर्थतया क्लृप्तमपि योग्यमपेक्षितं तादथ्यर्मर्हति, ग्रामे कल्प्येपूर्वतडागवद् विवक्षितत्वसम्भवश्च दर्शितः । अतः शास्त्रैक्यं युक्तम् । नन्वि-दमयुक्तमैकशास्त्र्यं शारीरकशब्दसूचितात् प्रधानप्रतिपाद्यभेदाज जैमिनीयशब्दसूचितात् कर्तृभेदात् तदुभयफलितात् प्रयोजनभेदादर्थविरोधाच्चेत्याशङ्कां परिहरति - अतः प्रतिपिपादयिषितेति । अतः-वृत्तिकारोक्तादेकव्याख्येयव्या-

ख्यानरूपत्वसम्बन्धादित्यर्थः । षट्कभेदः-पूर्वमीमांसायामध्यायभेदस्तत्रोत्तरत्र च निदर्शनार्थमुक्तौ, अर्थभेदाभावे ह्येकं षट्कमेकोध्यायो वा स्यात्, अत एकावयवित्वे सिद्धे सत्यवान्तरार्थभेदो न महावाक्यैकत्वविरोधी, यथा पदार्थभेदो वाक्यार्थैकत्वाविरोधीति भावः । अनेन प्रतिपाद्यभेदः परिहृतः । प्रयोजनभेदश्चाऽर्थात्परिहृतः । षट्क-द्वयचिन्तितप्रकृतिविकृतिप्रयोजनभेदस्य शास्त्रभेदकत्वाभावात्, अनेन वृत्तिग्रन्थगतषोडशलक्षणशब्दतात्पर्यं च दर्शितं । पूर्वोत्तरमीमांसाशब्देन जैमिनीयशारीरकशब्दौ च विवृतौ । प्रतिपिपादयिषितशब्देनार्थविरोधः परिहृतः प्रतिपादयितुमिष्टं हि प्रतिपिपादयिषितं स च तात्पर्यविषयोऽर्थः, विरुद्धतया प्रतीयमानेषु देवतानिरासादिषु न तात्पर्यमित्यभिप्रायः । नन्वेवं कथमभिधीयते ? "आम्नायस्य क्रियार्थत्वादिति" सिद्धपरवाक्यानां तच्छेषत्वं हि सूत्रकारेण कण्ठोक्तं तच्च विरुध्द्यत एव, अतः शास्त्रभेद इति । नैवं "पदे जुहोति" "आहवनीय जुहोति" "न हिंस्यात् सर्वाभूतानि" "पशुमालभेते"ति वत् । शास्त्रान्तरे "कर्मण्यण्" "आतोऽनुपसर्गे क" इति वच्च उत्सर्गापवादन्यायेन शास्त्रैक्याविरोधात्, सामान्येन सिद्धपरवाक्यानां क्रियाशेषत्वेऽभिहिते सिद्धपरवाक्यविशेषस्य किं विधिशेषित्वं नवेति विचार्य स्वयं पुरुषार्थविरहिणामेव सिद्धपराणां क्रियाशेषत्वं स्वयंपुरुषार्थपर्यवसायिनां तु सिद्धपरवाक्यानां न तच्छेषत्वमिति हि निर्णेतुं युक्तं, यथा होमस्य सामान्येनाहवनीये प्राप्तत्वेपि होमविशेषस्य पदे कर्त्तव्यत्सनिश्चयः यथा च सामान्यतो हिंसानिषेधेपि हिंसाविशेषस्य कर्त्तव्यतोक्तिः, तथा च सामान्येन कमर्ण्युपपदे घातोरणि प्राप्तेऽप्याकारान्ताद्धातोः कप्रत्ययविधिः ।

नच तत्र शास्त्रभेदः, तद्वद् देवतानिराकरणे च न तात्पर्यम् । अश्रुतवेदान्तानां कर्मण्यश्रद्धानिराकरणाय कर्मप्राधान्यपरत्वात्तस्य "नहि निन्दा निद्यं निन्दितुं प्रवर्त्तते, अपि तु निन्दितादितरवत् प्रशंसितुमिति" हि नीति-विदः, यद्वा वेदप्रामाण्य कर्मावश्यकर्तव्यतातात्पर्यातिशयात् तत्प्रतिपक्षनिराचिकीर्षयाऽन्वारुह्यवादो देवतानि-रासोक्तिः स्यात्, अभिमततरार्थानादरेणापि हि विपक्षव्युदासो दृश्यते यथा "अभीष्टाथर्व्ययेनापि जयति क्षेत्रहा-रिणम् । लब्धक्षेत्रैर्न दुष्प्रापः स्यादर्थ इति निश्चयात्" एवमभिमततरेश्वरानादरेणापि वेदप्रामाण्यादिसमर्थने पश्चादभिमतसिद्धिरयत्नलभ्येति जैमिनेरभिप्रायः, तत्सिद्धिप्रकारश्च तदुक्तरात्रिसत्रन्यायाद्यधीन इत्युत्तरत्र व्य-क्तीभविष्यति ।

नच तत्सिद्धिमभ्युपगच्छतस्तदनादरवादव्याघातः तस्यान्वारुह्यकृतत्वात् कथमन्वारुह्यवादत्वनिश्चयः ? उच्यते "सम्पत्तेरिति जैमिनिः" "अन्यार्थं तु जैमिनिः" "परं जैमिनिर्मुख्यत्वात्" । ब्राह्मेण जैमिनि"रित्यादिब्रह्मसूत्रैरेव जैनिनेर्ब्रह्मस्वरूपतद्गुणतदुपासनतत्फलाद्यभ्युपगमस्य प्रतिपन्नत्वात् । महाभारते च हयशिरउपख्यानादिषु भगव-द्य्वासोपदेशलब्धपरमात्मतत्त्वज्ञानत्वावगमाच्चेति । अतो विरुद्धेऽर्थे तात्पर्याभावान्नाथर्विरोधः । नन्वर्थविरोधो दुष्परिहरः, तथा हि विशेषातिदेशनिरूपणपरे अष्टमाध्याये विकृतिषु प्रकृतिधर्मातिदेशे कत्रव्ये सति कस्मिन् कर्माणि कस्य कर्मणो धर्मातिदेशः प्राप्त इत्यपेक्षायां यस्य कर्मणो येन कर्मणा द्रव्यसाम्यं देवतासाम्यं वा भवति तस्मिंस्त-द्धर्मोत्तिदेष्टव्य सति स्थितं, तत्र यस्य केनचिद् द्रव्यसाम्यं केनचिद्देवतासाम्यं च भवति तस्मिन् द्रव्यसाम्यवत एव कर्मणो धर्मातिदेशः कृतः, न तु देवतासाम्यवत इति द्रव्यप्राधान्यमुक्तं जैमिनिना "द्रव्यदेवतासाम्ये द्रव्यं बलीय" इति ।

न च द्रव्यप्राधान्योक्तेरतिवादत्त्वमनुष्ठानविरोधात् द्रव्यप्राधान्येनह्यनुष्ठानन्दृश्यते, अतो द्रव्यप्राधान्यं वदतो जैमिनेर्देवतानिरासे तात्पर्यमस्तीति । अत्रोच्यते । नाऽत्र द्रव्यदेवतयोः सद्भावासद्भावाभ्यां प्राधान्याप्राधान्ये विवक्षिते, अपि तु विलम्बिताविलम्बितप्रवृत्तिप्रमाणविषयत्वाधीने, द्रव्यं ह्यविलम्बितप्रत्ययगम्यं देवता तु विलम्बित-शास्त्रगम्या विलम्बाविलम्बावेव हि श्रुतिलिङ्गादिषु प्रत्यक्षादिषु च पूर्वोत्तरप्राबल्यदौर्बल्यहेतू ।

ननु हविष्ट्वं शास्त्रैकगम्यमिति न द्रव्यस्यापि प्राधान्यमितिचेत् नैवं चरुपुरोडाशादिकं द्रव्यं हि प्रत्यक्षं हवि-ष्ट्वाक्यधर्ममात्रमेव तत्र शास्त्रगम्यं देवतायास्तु स्वरूपं, श्रेयः साधनत्वादिधर्मश्चोभयमपि शास्त्रगम्यम् । अतः स्वरूपतो धर्मश्च विलम्बितमानगम्यत्वाद् देवताया अप्राधान्यं धर्ममात्रस्य शास्त्रगम्यत्वेपि धर्म्यंशेनाविलम्बित-मानगम्यत्यवाद्धविषयः प्राधान्यमतः प्राधान्याप्राधान्ययोः प्रमाणद्वारकत्वेन स्वरूपासद्भावे तात्पर्यं नास्तीति देवता-निरासोक्तिरन्यपरा । एवमर्थान्तराण्यप्यविरोधेन नेतुं शक्यानिति नाथर्विरोधः ।

ननु ब्रह्मसूत्रेरैव जैमिनिपक्षमनूद्य प्रतिक्षेपादर्थविरोधो दुष्परिहरः, तथाहि "फलमत उपपत्ते"रित्यत्रेश्वरस्य फलप्रदत्वोक्तया "धर्मं जैमिनि"रिति धर्मस्य फलप्रदत्वमनूद्य प्रतिक्षिप्तं न श्रुतत्वोपपत्तिभ्यां कालान्तरभाविफलसा-धनमात्रे जैमिन्यभिहिते ताभ्यामेवात्र फलसाधनविशेषसिद्धेरुक्तत्वात् ।

ननु शेषत्वात् पुरुषार्थवादो यथा "अन्येष्विति जैमिनि"रित्यत्र वेदान्तोदितात्मज्ञानस्य कर्मशेषतयाऽऽत्मनां कमर्शेषत्वोक्तिरधिकोपदेशादिति सिद्धान्तेन विरुध्द्यते ।

न च विकल्पेन निर्वाहः सम्भवति, वस्तुनि विकल्पायोगात् ।

न च जैमिनिना परमतमुपन्यस्तमिति वाच्यं जैमिनिमतत्त्वेन सिद्धान्तिना प्रतिक्षेपायोगात् । नैवम् । विप-क्षनिरासार्थस्य जैमिनेरन्वारुह्यवादस्य तथोपन्यासप्रतिक्षेपोपपत्तेः । अन्यथा "परं जैमिनि"रित्यादिसूत्राणां मिथो-विरोधः, भारतोक्तिविरोधश्च, जैमिनेरन्यवारुह्यवादमजानतान्तदुक्ते तत्त्वबुद्धिः स्यादिति तन्निवारणाय ब्रह्मसूत्रे तदुपन्यासनिरासौ कृतौ । अतएव "परामर्शे जैमिनि"रित्यत्र नैष्ठिकाद्याश्रमप्रतिक्षेपोपि परिहृतः, तद्भूतस्येत्यत्र नैष्ठि-काद्याश्रमभ्रंशस्य जैमिन्यनभिमतत्वाभिधानात् , न ह्याश्रमानभिमतौ तद्भ्रंशानभिमतिसम्भवः । अतो वीतरागव्य-तिरिक्तानामग्निहोत्रादिष्वश्रद्धानिवारणार्थ आश्रमान्तरप्रतिक्षेपः पूर्ववदन्वारुह्यवादः, स च पूर्वमीमांसायामसूत्रित-स्तथाऽप्यौडुलोम्यादिमतवदनूद्य निरस्तः ।

न च मधुविद्यायां वस्वाद्यनधिकारोक्तिरधिकारोक्तया विरुध्यतइति वाच्यम् । अनतिकारोक्तेर्मध्वादिदेवता-भ्युपगमचिह्नत्त्वेन शास्त्रैक्याविरुद्धतया तदुद्धाटनवैयर्थ्याद् "भावं जैमिनि"रित्यादिसूत्रोक्तपक्षाश्च शास्त्रैक्यविरुद्धाः कर्मविचारे तेषामसमर्थनादिति न तत्पर्यनुयोगावकाशः, तस्मान्नार्थविरोधः, कर्तृभेदपरिहारस्तु प्रसिद्धत्वान्नकण्ठोक्तः अतएव चशब्दसूचितो वा धूर्त्तस्वामिकपर्दिकर्तृकस्याऽऽपस्तम्बसूत्रव्याख्यानस्य व्याख्येयैक्यादेकप्रबन्धकत्वं हि दृष्टम् पाणिनीयसूत्रपूर्वोत्तरवृत्त्योश्च वामनजयादित्यकर्तृकयोर्व्याख्येयैक्यादेकव्याख्यानत्वं दृष्टं तस्मादुपपन्नमैकशा-स्त्र्यम् ।

अस्त्वैकशास्त्र्यं कथं पौर्वापर्यनियम? इति शङ्कां परिहरन् वृत्तिग्रन्थस्थं "संहित"मिति पदं विवृणोति ।

मीमांसेति - क्रमविशेषान्वितमैकशास्त्र्यं संहितमित्यभिप्रेतम् आरभ्यैवमन्तमिति पौर्वापर्यानियम उक्तः - सङ्गतिविशेषेणेति - अत्रामी सङ्गतिविशेषा अभिप्रेताः पाठक्रमचेतनानां त्रिवर्गे प्रथमप्रावण्यसम्भवरूपोऽर्थस्वभाव औपनिदेष्वङ्गाङ्गिभावप्रतिपादकवाक्येषु यज्ञादिकर्मणः पदाथर्त्वेन सम्बन्धः कासुचिद्विद्यासु यज्ञतदुपकरणादीनां दृष्टिविशेषणत्वोक्तया कर्मब्रह्मविद्ययोर्दृष्टान्तदार्ष्टान्तिकभावो विद्याकर्मणोरुत्पाद्योत्पादकभावात् तच्छेषभूतविचार-योस्तु तत्क्रमभाक्तवोपपत्तिर्व्याख्यानभूतमीमांसायां च उत्तरभागस्य पूर्वभागोक्तन्यायसापेक्षत्वं चेति, एवं पौर्वा-पर्यनियामकसङ्गतिविशेषेण विशिष्टक्रमं क्रमविशेषवदित्यर्थः ।

ननु भवतु वेदप्रामाण्यसिद्धये प्रथमाध्यायस्य पूर्वभावित्त्वं द्वितीयाध्यायात् पूर्वं ब्रह्मविचारः किं न स्यादिति तत्र तत्रोक्तैः सङ्गतिविशेषैः षोडशलक्षणानुपूर्वीसिद्धेस्तदनन्तरप्राप्तत्वात् ब्रह्मविचारस्येत्यभिप्रेत्य सङ्गतिविशेषेण

विशिष्टक्रम मित्युक्तम् । एवमत्रैकशास्त्र्यं पौर्वापर्यनियमः शास्त्रस्यारम्भणीयत्वं च त्रयं प्रतिज्ञातं । पूर्वोक्तस्य साङ्ग-सशिरस्काध्ययनस्य प्रमाणं दर्शयन् साधनचतुष्टयसम्पादनस्यानवसरग्रस्ततां च दर्शयन् प्रतिज्ञातार्थत्रयमुपपाद-यितुमाह - तथाहीति ।

प्रतिज्ञातार्थत्रयोपपादनार्थमव्ययनविधिं निरूपयति - प्रथममिति ।

ननु वेदप्रामाण्यसमर्थनमिव कर्मविचारसिद्धमध्ययनविधिनिरूपणं किन्नोपजीव्यते इति चेत्-न; अर्वाचीनव्याख्यातृभिरर्थज्ञानपर्यन्ततायास्तत्रोक्तत्वात् । अक्षरराशिग्रहणपयर्न्तत्वं हि भगवद्बादरायणाभिमतम् "अध्ययनमात्रवतः" इति हि वक्ष्यते । अतस्तत्र वक्ष्यमाणोऽर्थः शास्त्रारम्भणीयत्वायात्र प्रतिपाद्यते । अध्ययनविधेरक्षरराशिग्रहणमात्रपर्यन्तत्वे निरूपिते शास्त्रस्यारम्भणीयत्वसिद्धिः; कृत्स्नविषयत्वनिरूपणेन ऐकशास्त्र्यपौर्वापर्यनियमसिद्धिः ।।

कथमक्षरग्रहणमात्रपरत्वे आरम्भणीयत्वम् ? इत्थम् । अध्ययनविधेरर्थज्ञानपयर्न्तत्वे सति, अर्थज्ञानस्य "अधीत्य स्नायात्", "आचार्यकुलाद्वेदमधीत्याभिसमावृत्य" इति यज्ञाद्यनुष्ठानशेषत्वेन विनियोगादुपनिषत्सिद्धस्य ब्रह्मज्ञानस्यापि कर्मशेषत्वापत्तेस्तस्य च ज्ञानस्य "आत्मा वा इदं" "ब्रह्म वा इदम्" "अयमात्मा ब्रह्मे"ति त्रय्यन्तथब्रह्मशब्दस्यात्मपर्यापर्यत्वेनात्मविषयत्वादात्मज्ञानस्य व्रीह्या-दिद्वारा प्रोक्षणादेरिवात्मद्वारा कर्मशेषत्वे सति द्वारभूतव्रीह्यादेरिव द्वारभूतात्मनश्च कर्मशेषत्वं स्यात् ।

न च समुद्रध्यानवदात्मज्ञानस्य दृष्टद्वारा कर्मशेषत्वात् समुद्रवदात्मा न कर्मशेष इति वाच्यम् । कर्मशेषत-याऽवक्लृप्तस्वाऽऽत्मनो द्वारभावे सम्भवत्यदृष्टकल्पनायोगात्, समुद्रस्य तु कतूपकारकत्वासम्भवेन ह्यदृष्टकल्पनम् । नन्वात्मनः फलप्रदतया शेषत्वमस्त्विति चेत् । न । सम्प्रतिपन्नेनात्मनात्मज्ञानस्य कर्मशेषत्वे निरूढेप्यसम्प्रतिपन्ना-त्मककल्पनायोगात् । न हि जीवविलक्षण आत्मा सम्प्रतिपन्नः, अतोऽनुष्ठानशेषभूत आत्मा कर्मसु कर्तृभूतो जीव एवेति वेदान्तानां जीवपरत्वेन, तदतिरिक्तेश्वरे प्रमाणाभावादप्रामाणिकेश्वरविचाररूपं शास्त्रमनारम्भणीयं स्यादिति प्राप्नुयात् , अक्षरराशिग्रहणमात्रपर्यन्तत्वे त्वर्थज्ञानस्यानुष्ठानशेषत्वाभावेन कर्मसु कर्तृभूतजीवातिरिक्तात्मप्रतिपा-दनसम्भवात् प्रामाणिकपरमात्मविचाररूपं शास्त्रमारम्भणीयं स्यादित्यतोऽध्ययनविधिर्निरूप्यते । तत्राऽध्ययनस्य सक्तुहोमवत् प्रधानकर्मत्वं स्वरूपेण विधेयत्वमध्यापनविधिप्रयुक्तत्वमुपनयनस्याऽध्यापनाङ्गत्वं च प्राभाकराभि-मतमनादृत्याऽध्ययनस्यावघातवत् गुणकर्मत्वं नियमस्य विधेयत्वमध्ययनस्य स्वविधिप्रयुक्तत्वमुपनयनस्याध्ययना-ङ्गत्वं चेति कौमारिलाभिमतमर्थचतुष्टयमुभयानभिमतमक्षरराशिग्रहणमात्रपर्यन्तत्वं च सङ्ग्रहेण प्रतिजानीते - प्रथ-ममिति । प्रथमं तावत्-प्रथमत एव "यावत्तावच्च साकल्ये ऽवघौमाने ऽवधारण" इति नैघण्टुकाः । प्राथम्यं शास्त्रा-न्तरश्रवणयोग्यावस्थापेक्षया पूर्वभावित्वम् । गर्भाष्टमोपनीतस्य ह्यध्ययनं ततः पूर्वं शास्त्रान्तरपरिश्रमानर्हत्वादध्य-यनविधिपरतन्त्रस्य साङ्गाध्ययनानन्तरं कर्मविचारावश्यंभावस्यस्वरससिद्धत्वाच्च, साधनचतुष्टयादिपूर्ववृत्तान्तर-निष्पादनस्यानवसरग्रस्तत्वं प्रथमंतावदित्यनेन फलितम् । लौकिकाक्षरग्रहणव्यावृत्त्यर्थोवेदाख्य-शब्दः वेदाख्य-शब्देन कृत्स्नाध्ययनं च सूचितम् । न हि वेदान्तभागमात्रं स्वाध्यायशब्दवाच्यम् । "अध्ययनेने"ति निर्देशेन गुणक-र्मत्वं सूचितं भावार्थस्यान्यनिष्ठत्वप्रतीतेः । यदि प्रधानकर्मत्वमविवक्षिप्यत् तदा हि स्वाध्यायेनाध्यनं संपाद्यमिति वचनव्यक्तिरभाविष्यत् । एवकारेण नियमविधित्वं द्योतितं, न तु पुस्तकनिरीक्षणादिनेत्यर्थः । "स्वाध्यायोऽध्येतव्य" इति अध्ययनविधिवाक्योपादानेन स्वविधिप्रयुक्तत्वं सूचितम् । न ह्यध्यापयेदिति वाक्यमुपात्तं, प्राथम्यवचनादध्य-नस्योपनयनाङ्गत्वं न फलितं, शास्त्रान्तरपरिश्रमायोग्यगर्भाष्टमवर्षाभिप्रायेण हि प्राथम्यमुक्तम् । अध्ययनस्य च प्रा-थम्यम"ष्टवर्पंब्राह्मणमुपनयीते" त्युपनयनविषयतयोक्तस्य कालस्य उपनयनद्वाराध्ययनशेषत्वे सत्येव ह्युपपद्यते । एवमर्थपञ्चकं संक्षेपेण प्रतिज्ञातं भवति अस्मिन्नध्ययनविधिवाक्येऽध्ययनस्य प्राथम्यं साङ्गत्वमुपनयनाङ्गत्वं च न प्रतीतम् "उपनयीत तमध्यापयेदि"ति वाक्यान्तरेणाध्ययनस्याध्यापनविधिप्रयुक्तत्वमध्यापनस्योपनयनाङ्गत्वं च प्रतीयतइति शङ्कायामाह ।

तच्चेति । चः-शङ्कानिवृत्तौ । तत्-"स्वाध्यायोऽध्येतव्य" इति वाक्यप्रतिपादितमित्यर्थः "आद्ये त्वध्ययनेनैव कदाचिदस्ति फलश्रुतिः, धारणे जपयज्ञे च या साप्येवं निवारिते"ति जपादेरप्यध्ययनशब्दवाच्यत्वात्तेषु प्रस्तुताध्य-यनस्याध्ययनत्त्वनिश्चयायाह - किंरूपमिति । किं सकृदुच्चारणरूपमाहोस्विदसकृदुच्चारणरूपं किं वा स्वतन्त्रो-

च्चारणरूपमुतपरतन्त्रोच्चारणरूपमित्यर्थः । परतन्त्रासकृदुच्चारणरूपत्वे ह्याद्याध्ययनत्वसिद्धिः । कथं - किमङ्गक-मित्यर्थः । इत्यपेक्षायाम - पेक्षितानि विधीयन्ते - इत्यन्वयः । प्राथम्यं तन्त्रोच्चारणरूपत्वमुपनयनाङ्गत्वञ्च दर्श-यितुमाह - अष्टवर्षमिति । अष्टवर्षमित्यनेनप्राथम्यं सिद्धम् उपनयनद्वाराऽध्ययनशेषत्वात् कालस्य "ब्राह्मणमुप-नयीते"ति द्वितीयाश्रुत्या माणवकशेषत्वावगमादुपनयनस्य तद्गताध्ययनाङ्गत्वसिद्धिः, उपनयनस्याकर्त्रभिप्रायसू-त्रविहित्वाच्च नाध्यापनाङ्गत्वसिद्धिः । "अध्यापयेदि"त्यनेन परतन्त्रोच्चारणरूपत्वसिद्धिः ।

"द्वादशाहेन प्रजाकामं याजयेत्" "अन्नाद्यकामं याजयेत्" "निषादस्थपतिं याजयेदि"ति प्रतिपन्नस्य याज-यस्येवार्थार्जनाद्यर्थतया रागप्राप्तस्याध्यापनस्याविधेयत्वादध्यापने ऽधिकातिविशेषाश्रवणाच्चाध्ययननस्याध्यापयितृ-पूर्वकत्वमुच्यते, इत्ययमध्यनाङ्गविधिरिति भावः । उपाकर्मादिव्रतनियमाङ्गत्वं साङ्गत्वं च दर्शयितुमाह - आवणया-मिति । "अर्द्धपञ्चमान्मासानित्यादी "त्यत्रादिशब्दोपात्तैः "अत उर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेदित्यादिवचनैरङ्गाध्ययनस्य कालो दर्शितः । व्रत मुपाकमर्काण्डव्रतादि - नियमः - "पद्युह वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाऽध्येतव्यमि"त्याद्युक्तदेशकालभक्ष्यादिव्यवस्थारूपः । अध्यापयेदित्यनेन व्रतनियमविशेषोपदेशैश्चे"ति पृथङ्निर्देशः श्रुतित्वस्मृतित्वविभागाद्विप्रतिपन्नत्वसम्प्रतिपन्नत्वविभागाच्च कृतः । उपा-कर्मादिव्रतनियमवदुपनयनमप्यध्ययनाङ्गमिति भावः; किं रूपं? कथं च कर्त्तव्यम् ? इत्यपेक्षायामेभिरङ्गविधायक-वाक्यैरपेक्षितानि विधीयन्ते इत्यर्थः । ननु "अष्टवर्षं ब्राह्मणमि"त्यत्रोपनयनस्याध्ययनाङ्गत्वमवगम्यते इत्युक्तं, तद-युक्तं, तस्योपनेयासत्तिद्वाराऽध्येतृसाकाङ्क्षाध्यापनाङ्गत्वं ह्यवगम्यते "उपनीय तु यः शिष्यमि"त्यादिस्मृतिवचनाच्च तदवगम्यते । उच्यते । "ब्राह्मणमुपनीयते"त्यत्र द्वितीयाश्रुत्या उपनयनस्यमाणवकशेषत्वमवगम्यते माणवकशेष-मुपनयनम् अध्ययनं च तद्गतं तत्रान्तरङ्गबहिरङ्गन्यायादुपनयनमध्ययनाङ्गमेव । ननु "उपनीय तु यः शिष्यं वेदमध् -यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते" इति वचने वक्तवाश्रुत्योपनयनस्याऽध्यापनाङ्गत्वं युक्तम् । अन्तरङ्गत्वं हि वस्तुसामर्थ्यरूपं लिङ्गं ततः वत्त्वाश्रुतिर्बलीयसीति चेत् न । अन्तरङ्गत्वं हि प्रत्यक्षश्रुतिसिद्धं, क्त्#ा-श्रुतिस्तु स्मृतिगतानुवादरूपवचनस्था च, अतोऽस्याः स्मृतिवचनस्थत्वान्मूलश्रुतिसापेक्षत्वं, अनुवादरूपवचन-गतत्वाद्विध्यन्तरसापेक्षत्वमिति विलम्बद्वयमस्ति, श्रुतिलिङ्गादिषु विलम्बितधीहेतुत्वं हि परदौर्बल्यहेतुः, अतो विलम्बद्वयोपहताक्तवाश्रुतिर्न बलीयसी । किञ्च श्रोत्रियोपाध्यायगुर्वादिनामविधानवत् तत्प्रकरणस्थमिदं वचनमुप-नीयाध्यापयितुराचार्यनामविधानपरमिति क्तवाश्रुतिरुपनयनस्याध्यापनाङ्गत्त्वे प्रमाणं भवितुमर्हति । किञ्च "स्वरित-ञ्चितः कर्त्रभिप्राये क्रियाफल" इत्यात्मनेपदे प्राप्तेपि "संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय" इति पुनर्विधानस्याकर्त्रभिप्रायार्थत्त्वादुपनयनस्य नाध्यापनाङ्गत्वं युक्तम् । "अकर्त्रभिप्रायार्थोयमारम्भ" इति हि तद्वृत्ति-कारः ।

ननु कर्त्रभिप्रायत्वं कर्त्तर्येव फलस्याभिप्रेतत्वं, तदवधारणनिषेधार्थं पुनर्विधानम् , अतः फलमुभयान्वयि, अतो माणवकद्वारेणाचार्योन्वय्युपनयनफलमित्यध्यापनाङ्गत्वं युक्तमिति चेत् । न । "अग्नीनादधीते"त्यत्र कर्त्रभि-प्रायसूत्रविहितेष्यात्मनेपदे फलस्योभयान्वयितया पुनर्विधानस्य नियमनिषेधार्थत्वाभावेन कर्त्रभिप्रायत्वमात्रस्य निर्षधार्थत्वात् । अतो नाध्यापनाङ्गत्वम् । कर्त्रभिप्रायशब्देन कर्तृव्यतिरिक्तचेतने फलानन्वयोविवक्षितः अतो न "अग्नीनादधीते"ति व्यभिचारः, पुनर्विधानस्य तन्निवारणार्थत्वे फलस्याचार्येऽप्यन्वयोपपत्तेरध्यापनाङ्गत्वमिति चेत् । न । ऋ#ृत्विजो वृणीत इत्यत्र स्वतिरेत्यादिसूत्रविहितेऽप्यात्मनेपदे फलस्य कर्तृव्यतिरिक्तचेतनान्वयदर्शनेन पुनर्विधानस्य नियमनिषेधार्थत्वाभावात् अतः कर्त्रभिप्रायमात्र निषेधार्थं पुनर्विधानमिति नाध्यापनाङ्गमुपनयनम् ।

अत अचायकस्योपनयनक्रियानन्तरभावित्त्वाभावादव्यहितफलस्य कर्तृगतत्त्वाभावाच्चात्मनेपदस्याप्राप्तौ अव्यव-हितफलस्याकत्रर्भिप्रायत्वेऽप्यात्मनेपदं "सम्माननेत्या"दिसूत्रेण विधीयते । अतोऽकर्त्रभिप्रायार्थत्वेपि व्यवहिता-चार्यकनिष्पत्त्यर्थतयाऽध्यापनाङ्गत्वमुपनयनस्याविरुद्धमिति । चेत् । नैवम् । "अग्नीनादधीते"त्यत्र स्वारितेतिसूत्र-विहितेष्यात्मनेपदे अग्निसंस्कारव्यवहिताग्नित्वापत्तिरूपफलस्य कर्त्रन्वयित्वदशर्नादतोऽकर्त्रभिप्रायार्थं सम्मान-देत्यादिसूत्रं फलमात्रस्य कर्त्रन्वयनिवारणार्थं संस्कारविशिष्टोग्निः फलमित्याधानकत्तर्रि न व्यवहितफलोन्वय इति चेत् तर्ह्युपनयनसंस्कारविशिष्टमाणवकसिद्धिरेवाव्यवहितं फलमिति, कर्त्रभिप्रायसूत्रेणैवात्मनेपदसिद्धेरकर्त्रभिप्रा-यसूत्रवैयर्थ्यं स्यात् ।

यद्येवं व्यवहितमव्यवहितं वा फलमात्रकर्त्रभिप्रायसूत्रेण निवार्यते तर्ह्युपनेतुः प्रवृत्तिर्नोपपद्यते यतः "प्रयो-जनमनुद्दिश्य न मन्दोपि प्रवर्त्तते" इति । नैवम् । उपनयनफलस्य माणवकान्वयित्वेऽप्याचार्याय वरो देय इति विध्यन्तरप्राप्तदक्षिणाफललिप्सया प्रवृत्त्युपपत्तेः ।

न चैतेनाकर्त्रभिप्रायत्वविरोधः, असाधारणफलानन्वयविषरत्वादकर्त्रभिप्रायसूत्रस्य । अव्यवहितक्रिया-फलस्य कर्त्तुरभिमतत्त्वं कर्त्रभिप्रायत्वं, तदनभिमतत्वमकर्त्रभिप्रायत्वमित्यप्ययुक्तं, क्रियाफलस्य कर्त्रनभिमतत्व-व्याघातात् । आचार्यकनिष्पत्त्युपयोगिनो माणवकसंस्कारस्याचार्यानभिमतत्त्वानुपपत्तेः । अत उपनयनमध्येष्यमा-णमाणवकासत्तिमुखेन नाध्यापनाङ्गम् , अपि त्वध्ययनाङ्गमेव । अध्ययनं च नाध्यापनविधिः प्रयुङ्क्त्#े, "अध्यापयेदि"ति तु "द्वादशोहेन प्रजाकामं याजये"दित्यादिवदित्युक्तम् । यद्यपि प्रजाकाममन्नाद्यकाममितिवत् तत्प्रयोज्यव्यापार-स्याध्ययनस्याधिकारिविशेषणं फलं न श्रूयते तथापि स्वाध्यायसिद्धिरधिकारिविशेषणं स्यात् , "स्वाध्यायोऽध्येतव्य" इति स्वाध्यायस्याध्ययनसाध्यत्वावगमात् । यथा "अग्नीनादधीते"त्यत्राग्नीनामाघानसाध्यत्वावगमादग्निसिद्धिरधि-कारिविशेषणं, तद्वत् ।

न च स्वविधिप्रयुक्तत्वेऽध्ययनविधेरनुष्ठात्रभावः । सन्ति हि प्रबुद्धाध्येतारः । तथाह भगवानापस्तम्बः "तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कारर्त्तारमीप्सेदि"ति तेषु परविधिप्रयुक्तत्वे सत्यध्ययनं नोपपद्यते । अप्र-बुद्धविषये तु स्वतन्त्रस्याध्ययनविधेर्माणवकविषयत्वं ज्ञात्वा हितैषिणो माणवकमध्ययनादि कारयन्ति । अतः प्रबुद्धेष्वप्रबुद्धेषु च स्वविधिप्रयुक्तत्वमध्ययनस्य युक्तम् । परविधिप्रयुक्तत्वे नित्यस्याध्ययनस्य काम्यविधिप्रयुक्तत्वं स्यात् , ततश्चानुष्ठाननियमो न स्यात् । आचार्यककामो ह्यध्यापकः, तस्याचार्यककामनाया अभावेऽध्ययनासिद्धेः । अध्यापकबाहुलनयात्तत्सिद्धिरिति चेत् , न अध्यापकेभ्योष्यध्येतृबाहुल्यदर्शनात् । आधानस्योत्तरक्रतुविधिप्रयुक्त-त्वेऽपि न काम्यविधिमात्रप्रयुक्तत्वं "वसन्ते वसन्ते ज्योतिषा यजेत" "यावज्जीवमग्निहोत्रं जुहोती "ति नित्यविधि-सद्भावादित्येवमाद्यनुसन्धेयम् । अतो यथोक्त एवार्थः । अङ्गविद्युपेतेन प्रधानविधिनाऽङ्गस्वरूपमङ्गिस्वरूपं च कथं प्रतिपन्नमित्यत्राह ।

एवमिति । एवमङ्गविधिभिः सह प्रधानविधौ निरूपिते इत्यर्थः । सत्सन्तानेत्यादिना "तस्मिन्नभिजनविद्ये" त्यापस्तम्बवचनार्थोऽनुसंहितः । आत्मगुणा अक्रोधादयः। अनेन समाहित-शब्दार्थ उक्तः । वेदविच्छब्देन विद्या-समुदित शब्दार्त उक्तः । वेदविदाचार्योपनीतस्येति आचार्यविशेषणमुपनयनद्वारा माणवकार्थं, यथा उपनयनस्या-ध्यापनाङ्गत्वे माणवकविशेषणमाचार्यार्थं तद्वदिति भावः । व्रतनियमविशेषयुक्तस्य व्रतनियमविशेषवदाचार्यविशेष-णमपि माणवकार्थमिति भावः । आचार्योच्चारणानूच्चारणमिति परतन्त्रोच्चारणरूपता दर्शिता । अक्षरराशिग्रहण-फलमितिपदमसकृदावृत्तिरूपत्वस्याक्षेपकं दर्शयति, यथा "व्रीहीनवहन्ती "त्यत्र दृष्टफललवस्याप्यपरित्याज्यत्वे-

नाऽवहननस्य वैतुष्यपर्यन्तत्वाद् अश्रुताप्यावृत्तिः सिद्धा, तद्वदि#ापि सामर्थ्यादावृत्तिः सिद्धा । दृष्टप्रयोजनापरि-त्यागेनैव नियमस्य विधेयत्वात् । आचार्योच्चारणानूच्चारणमित्यनेन, वेदविदाचार्योपनीनीतस्येत्यनेन, चाध्ययन-स्याध्यापयितृसापेक्षत्वेन परतन्त्रोच्चारणरूपत्वं, स्वविधिप्रयुक्तत्त्वमुपनयनाङ्गकत्वं चोक्तम् । अचार्योच्चारणानू-च्चारणमक्षरराशिग्रहणफलमित्यनेन "किंरूप"मित्याकाङ्क्षा शमिता, वेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्त-स्येत्यनेन कथं च कर्त्तव्यमितियपेक्षा पूरिता, अक्षरराशिग्रहणफलमित्यनेन स्वाध्यायग्रहणकामत्वमध्ययनाधिका-रिविशेषणमित्यपि सूचितम् । "सक्तून्जुहोती "त्यत्र पुरुषस्य सक्तुहोमजन्यादृष्टभाक्त्वात् सक्तुहोमो यथा पुरुष-संस्कारः तद्वदध्ययनस्य पुरुषसंस्कारत्वेऽस्याक्षरराशिग्रहणफलत्वन्नस्यात् , अपूर्वसिध्यर्थतया स्वाध्यायसिध्द्य-र्थत्वाभावात् ततश्चाक्षरराशिग्रहणफलत्वाभावेनावृत्यसिद्धः सकृदुच्चारणरूपमेवाध्ययनंस्यादित्याशंक्याह - अध्-ययनं चे त्युपनयनाङ्गत्ववत् स्वविधिप्रयुक्तत्ववदिदंचोपपादनीयमिति चार्थः । स्वाध्यायसंस्कारः । न तु सक्तुहो-मवदपूर्वविषयतया पुरुषसंस्कार इत्यर्थः, कुत इत्यत्राह - स्वाध्याय इति तव्यप्रत्ययात् कर्मत्वागमः स्वाध्यायस्य हि कर्मत्वावगमः, न पुरुषस्यकर्त्तुः क्रिययाप्तुमिष्टतमत्वं हि कर्मत्वम् अतोऽध्ययनं स्वाध्यायसंस्कारो न तु पुरुषस्येत्यर्थः निर्वर्त्यादेरपि साधारणकर्मत्वं कथं संस्कारत्वे हेतुतयोच्यत इत्यत्र निर्वर्त्यविकार्यत्वानुपपत्तिमभिप्रेत्य स्वाध्याय-स्येतिपुनः कीर्तनम् । वस्तुसामर्थ्यसचिवकर्मत्वावगमः संस्कार्यत्वे हेतुरितिभावः । फलन्तरेसंभवति प्राप्यत्वमात्र-पर्यवसानंचायुक्तं । ननु व कर्मत्ववागममात्रात्संस्कार्यत्वं "सक्तून्जुहोति" सुवर्णं भार्य"मित्यत्र सक्तुसुवर्णयोः संस्कार्यत्वाभावादिति शङ्कायां संस्कारस्वरूपंशोधयति - संस्कारोहीति । हिनामाभ्यां प्रसिद्धिः प्रतियोग्यभ्यु-पगमश्च सूच्यते । अपिचेतिवदनेकाव्ययतुल्यरूप एकशब्दो वा । यद्यपि सत उत्कर्षार्थानं संस्कारइति भूतभाव्यु-पयोगिसंस्कारानुगतलक्षणं, तथापि स्वाद्यायस्य भूतोपयोगित्वासंभवात् भाव्युपयोगिसंस्कारलक्षणमत्रोक्तं, संस्कारलक्षणानुपपत्त्या "सक्तून् जुहेती "त्यादिषु प्रत्ययस्वारस्यावगतमपि कर्मत्वं भग्नमिति भावः । अत्र तु न तथानुपपन्नमित्याह - संस्कार्यत्वं चेति । चः शङ्कानिवृत्तौ । कुत इत्यत्राह । धर्मार्थेति । पुरुषाथर्चतुष्टयतत्साध-नेत्यनेन पूर्वोक्तव्याख्येयैकत्वाय प्रयोजनवदर्थावबोधनमनुगतमिति दर्शितं भवति, पुरुषाथर्परत्वं चानुगतं, धर्मादिषु हि पुरुषार्थत्वमनुगतं, इष्टतत्साधनयोरुभयोरपि पुरुषार्थत्वात् । यद्यप्यर्थकामतदुपायेषु केचिल्लोकसिद्धाः, तथापि धनेशसुरेशादिविभूतिरूपातिशयितार्थकामतत्साधनानां, लोकसिद्धस्य पशुपुत्रान्नादेश्चित्रादिसाध्यस्य च लौकिक-प्रमाणागोचरत्त्वात् । पुरुषार्थचतुष्टयस्य वेदवेद्यत्वोक्तिर्युक्ता । अवबोधित्वात् , अनुष्ठानौपयिकबोधजनकत्वादिति भावः । अर्थावबोधकत्त्वस्य हुमादावव्याप्तत्वादाह - जपादिनेति । स्वरूपेणापि - अर्थज्ञानानुष्ठानाभ्यामृते जप्यमानेनाऽक्षरमात्रेणापीत्यर्थः । आदिशब्दादध्यापनग्रहणम् । अनुष्ठानानुगुणं ज्ञानं, जपादि, चाध्ययनसंस्कृतेन स्वाध्यायेनैवैत्युक्तं भवति । यद्वा पुरुषाथर्तत्साधनावबोधित्वेन सह तत्सानत्वं च-शब्देन समुच्चीयते । तत्साधनत्वं द्विधा-जपादिना, ध्रियमाणेन स्वरूपेण, चेति । अतोऽवान्तरसमुच्चेतव्यसमुच्चयपरोऽपि-शब्दः ।

एवं नियमविधित्वं चोपपादितं भवति । अर्थज्ञानपर्यन्तत्त्वं किंशब्दस्वारस्यादभ्युपगम्यते उतार्थानुपपत्त्या? इतिविकल्पमभिप्रेत्य तत्र शब्दस्वारस्यं प्रतिवदन्नध्ययनविधिनिरूपणमुपसंहरति- एवमिति । मन्त्रवदिति । पृथङ्निर्देशो व्रतान्तर्भावेन वाध्ययनोपकारकमन्त्राभिप्रायः । अस्ति हि शन्नोमित्रादिमन्त्राणां व्रताननुप्रवेशेनापि जपमात्रेणोपकारकत्वं, नियमाः पूर्वोक्ताः । यद्वा यथा बालस्य उपनयनकाले सन्ध्योपासनादिकाले च विधीयमा-नमुच्चारणं नियमवदक्षरपठनमेव नार्थधीसंपादनम् । नहि बालानां मन्त्रार्थावबोधसम्भवः, उद्वदिति । अक्षरराशि-ग्रहणेति । सनियमकोच्चारणमध्ययनशब्दस्य मुख्योर्थः, वेदानां किं चिदधीत्य ब्राह्मणः, एकांशाखामधीत्य श्रोत्रियः,

अङ्गाध्याय्यनूचानः, कल्पाध्यायी ऋषिः, कल्पसूत्रप्रवचनाध्यायी भ्रूण इत्यादिप्रयोगात् । नहि नहि स्वस्शास्त्रै-कदेशाध्यायिनोऽर्थज्ञानसंभवः, अङ्गाध्ययनस्य पृथगुपादानेन तद्विरहे अर्थज्ञानप्रसङ्गाभावात् । स्वाध्यायशब्दश्च नार्थज्ञानवाची, अपि तु स्वशाखामात्रवाचीति तत्कर्मत्वं स्वाध्यायस्यैव युक्तं, न त्वर्तज्ञानस्य । अध्ययनस्य प्रयोजनताकाङ्क्षायां दृष्टे संभवत्यदृष्टकल्पनायोगात् । अक्षरग्रहणस्याऽऽसन्नत्वाद्धर्मादिष्वनुगतत्वाच्च तत्स्वीकारो युक्तः । व्यवहितत्त्वादसार्वत्रिकत्त्वाच्च नार्थज्ञानमित्यभिप्रायः । सकृदुच्चारणावधिकत्त्वव्यावृत्त्यर्थमत्ररग्रहणे पर्यव-सानमुक्तम् । मात्रचा विधिव्यापारस्यार्थज्ञानपर्यन्तत्वव्युदासः पर्यवस्यतीति । यथा "अग्नीनादधीते"ति वाक्यमा-धानमात्रपरं न तूत्तरक्रतुविनियोगपरं, यथा च कारीर्या वृष्टिकामो यजेत" इतिवाक्यं वृष्टिसिद्धिपर्यन्तकर्मविशेषपरं न तु वृष्टयुपरितनोपयोगपरं, तथेति भावः । एवं शब्दस्वारस्यादर्थज्ञानपर्यन्तत्वं निरसतम् । अथाऽर्थानुपपतिं्त परिहरति- त्रिधा चाऽनुपपत्तिशङ्का विधेरक्षरणग्रहणमात्रपरत्वे ग्रहणशेषतया विनियुक्तस्य स्वाध्यायस्यार्थपरत्वे प्रमाणाभा-वादविवक्षितार्थत्वं स्यात् मीमांसायाः प्रवर्त्तकाभावादनारम्भणीयत्वं स्यात्, अक्षरराशिग्रहणमात्रस्य दुःस्वरूपतया विधेः प्रयोजनपर्यवसानं न स्यादिति । एतच्छङ्कात्रयनिराकरणमुखेनाध्ययनविधेरर्थज्ञानपर्यन्ततां, तन्निमित्तां ब्रह्मविचारानारम्भशङ्कां च व्युदस्यन् वेदाख्यैकप्रबन्धव्याख्यानरूपतया धर्मब्रह्मविचारयोरैकशाख्यमपि दर्शयति ।

अध्ययनगृहीतस्येति । इह साङ्गाध्ययनं विवक्षितम् अधीतसाङ्गसशिरस्कवेदस्य । ननु च साङ्गवेदा-ध्ययनादिति पुर्वापरानुगुण्यात् तेन हि प्रयोजनवदर्थोपातप्रतीतसिद्धिः । अर्थाः- यज्ञोपासनादयः, ते स्वर्गमोक्षा-दिप्रयोजनवन्तः, प्रयोजनवदर्थ शब्देन काकदन्तवत्परीक्ष्यत्वशङ्काव्युदासः । प्रयोजनवदर्थावबोधित्वदर्शना दित्यनेन विदेः परम्परया पुरुषाथर्पर्यवसायित्वमुक्तं भवति । अध्ययनस्य साक्षात्प्रयोजनमक्षरराशिग्रहणमित्युक्तं अध्ययन-गृहीतस्येति पदेन । अयमर्थः । किं साक्षात्पुरुषार्थपर्यवसायित्वं विधेर्विवक्षितम् ? उत परम्परया ? साक्षात्प्रयोजन-पर्यवसायित्त्वं विधेरर्थज्ञानपर्यन्तत्त्वेपि नोपपद्यते, अनुष्ठानापुर्वद्वारा स्वर्गस्यैव प्रयोजनत्वात्, अध्ययनविधेः स्वर्ग-पर्यन्तत्वानभ्युपगमाच्चापरम्परया चेद् अस्मत्पक्षेऽपि सम्भवति स्वभावत इति , शब्दस्य बोधकत्वशक्तिस्वाभाव्या-दित्यर्थः । व्युत्पन्नपदपदार्थं प्रति शब्दस्यार्थावबोधकत्वं स्वाभाविकमिति लोकसिद्धम् । एवकारो विधिनैरपेक्ष्यपरः, अन्यत्र विनियोगस्तु न स्वाभाविकं शब्दस्यार्तपरत्वं निरुणद्धि जपविधिवत् "याजयित्वा प्रतिगृह्य वाऽनश्नन् त्रिस्वाध्यायं वेदमधीयीत त्रिरात्रंवा सावित्री " वेदमेव जनेन्नित्यमि"त्यादिविधानं हि न वेदस्यार्थपरत्वं निवारयति । स्वाध्यायः स्वतोऽर्थबोधकश्चेत् किं मीमांसयेत्यत्राह ।

गृहीतादिति । गृहीतात् गृहीतमात्रात्, अध्ययनगृहीतस्येत्युक्तेः, तेन मीमांसाख्येतिकर्तव्यताराहित्यं विवक्षितम् , आपातप्रतीतेः संशयविपर्ययसहत्वातन्निराकरणाय मीमांसेति भावः । अध्ययनगृहीतस्येत्यादिना वेदस्य बोधकत्वस्वभावत्वमुक्तं, तत्र प्रयोजनवदर्थशब्दः परम्परया पुरुषार्थपर्यवसानज्ञापनाय, उपरि तन्निमित्तापातप्र-तीतिजनकतायाः सहकारिवैकल्यनिबन्धनत्वम् । नहि वेदस्यापातप्रतीतिजनकत्वं स्वभावः, प्रमितिजनकत्वस्व-भावत्वात् मीमांसाख्यपरिकरशून्यस्य तदभावो न श्रुतेः प्रमितिजनकत्वस्वभावविरोधी । यथा आलोकादिसह-कारिविरहे रूपाद्यनुपलम्भश्चक्षुरादीनां रूपादिसाक्षात्कारजनकत्वस्य स्वाभाविकत्वं न विहन्ति तद्वद्, आपात-प्रतीतावपि प्रयोजनवत्त्वेन प्रतीतिरस्तीति दर्शयितुं पुनः प्रयोजनवदर्थ-शब्दः, प्रयोजनवदर्थापातप्रतीतिर्हि तन्निर्णयरामं जनयति । नहि निष्प्रयोजनकाकदन्ताद्यापातप्रतीतिस्तन्निर्णयरागं जनयति । आपाततोऽवगम्यमानान् दृष्ट्वेत्यर्थः । स्वात्मनो बुद्ध्युत्पतिं्त दृष्ट्वेतिवत् प्रयोजनवदर्थापातप्रतीतेः स्वानुभवसिद्धत्त्वान्न तदपह्नवः शक्य इति भावः व्याकरणादिफलस्वरूपविलक्षणे मीमांसाफलस्वरूपे दर्शयति ।

तत्स्वरूपेति । स्वरूपविशेषाः-आङ्गिनः, प्रकारविशेषाः-अङ्गानि, पूर्वपक्षोक्तस्वरूपप्रकारतः सिद्धा-न्तितत्स्वरूपप्रकरयोर्वैषम्यं विशेष शब्देन विवक्षितम् । प्रयोजनवदर्थ-स्वाध्याय-वेदमीमांसा-शब्दाः पूर्वोत्तर-भागसाधारणाः स्वयमेव न तु विधिना तदुपपादकमधीतवेदः पुरुष इति पदद्वयम् । अधीतवेद इत्यध्ययनवि-धिव्यापारस्यानुष्ठितांशे पर्यवसितत्वान्मीमांसायां तस्याप्रवत्तर्कत्त्वं द्योतितं, चेतनत्वात् फलवदर्थापातप्रतीत्या स्वयं प्रवर्त्तत इति पुरुषशब्दस्याभिप्रायः । नन्वक्षरराशिग्रहणपर्यन्तत्वेपक्षे रागतः प्रवृत्तिर्नोपपद्यते "वेदाङ्गानि समस्तानि कृष्णपक्षेषु सम्पठेत्" "निष्कारणः षडङ्गो वेदोऽध्येयः" "वेदमध्यापयेद्द्विजः" "सकल्पं सरहस्यं चे"त्यादिविहि-ताङ्गाध्ययनत्याप्यक्षरग्रहणपर्यन्ततया व्याकरणादेरर्थावबोधाभावात् प्रकृतिप्रत्ययादिज्ञानाभावेनापातप्रतीत्यभावात् । मैवम् । व्याकरणादीनां वेदाङ्गत्वादकिंचित्करस्याङ्गत्वायोगात् । दृष्टकिंचित्कारे सम्भवति तत्प्रहाणेन चादृष्टपरि-कल्पनायोगात् पदाद्यवबोधरूपदृष्टिकिंचित्कार एव स्वीकार्य इत्यङ्गत्वान्यथानुपपत्त्यैव व्याकरणाद्यर्थावगमसिद्धेः, प्रयोजनवदर्थापातप्रतीतिसिध्द्या मीमांसारम्भोपपत्तेः । "अधीतवेदः पुरुषः स्वयमेव प्रवर्त्तत" इत्यनेन "अथातो धर्मजिज्ञासे"ति सूत्रमप्यर्थाद् व्याख्यातं भवति । विदेरक्षरराशिग्रहणपर्यन्तत्वे प्रवर्त्तकाभावात्, स्वाध्यायस्यार्थपरत्वे प्रमाणाभावाच्च, मीमांसा नारम्भणीयेति पूर्वः पक्षः । साङ्गाध्ययनानन्तरं शब्दस्य स्वतोऽर्थावबोधित्वदर्शनात् प्रवर्त्तकान्तराभावेपि रागात्प्रवृत्त्युपपत्ते, रारम्भणीयेति सिद्धान्त इति ।

ननु कर्मविचारस्य रागप्राप्तत्वे "ऽधीत्य स्नायादि"ति समावर्तनस्मृतिर्बाधिका स्यात्, वैधत्वे स्मृतेरपि श्रुते-र्बलीयस्त्वात् स्मृतिरवकाशप्रदा स्यात् । नैवम् अध्ययनविधेरक्षरराशिग्रहणपर्यन्तत्वार्थज्ञानपर्यन्तत्वयोः किमभि-प्रेत्येतदुक्तं यद्यर्थज्ञानपर्यन्तत्वं तर्ह्यधीत्य स्नायादिति स्मृतिगताध्ययनशब्दस्य तत्तुल्यार्थत्वान्न विरोधः । यद्यक्षर-राशिग्रहणपर्यन्तत्वं ततोऽपि तुल्यार्थत्वान्न विरोधः । किंच, विरोधे सत्यपि प्रत्यक्षश्रुतिरप्यस्ति यथा छान्दोग्ये "आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोःकर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे" इत्यादिः, ततश्च स्मृतिवचनोपेता स्नानश्रुतिर्बलीयसी तस्माद् श्रुतिस्मृतिवचनयोः प्राबल्यदौर्बल्यकथनं निरर्थकम् । नन्वेवं श्रुत्यापि रागतः प्रवृत्तिर्बाध्यत इति चेत् । न । समावृत्तस्यापि रागतः श्रवणोपपत्तेः । नन्वध्ययनानन्तरभावित्वे समावर्त्तनस्य तत्पूर्वकगृहस्थकर्मानुष्ठानानवरुद्धश्रवणावसरालाभान्मीमांसाऽनारम्भः प्रसज्यते । नैवम् । समावृत्तस्यापि श्रोतुः श्रावयितुरिवावसरसम्भवात् । आचार्यस्य ह्यध्यापनं विहितं न तु गृहस्थस्य श्रवणमिति चेन्न, अध्यापनस्य याजन-प्रतिग्रहवद्रागप्राप्तत्वात्, रागप्राप्तमपि "प्रतिग्रहादिना धनमर्जयेदि"त्यादिशास्त्रानुमतमध्यापनमिति चेत् श्रवणमपि शास्त्रानुमतम् अनिषिद्धत्वाद्यज्ञानुष्ठानोपयुक्तत्वाच्च ।

ननु "सम्वत्सरे सम्वत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेत् भूयः श्रुतिमिच्छन्नि"ति श्वेतकेतुरि-त्यारभ्य "तच्छास्त्रैविर्प्रतिषिद्धं निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते" "अग्निहोत्रमतितय" इत्यादिना श्रवणं गृहस्थस्य निषिद्धमितिचेन्न साकल्येन मासद्वयं गुरुकुलवासस्यानुष्ठानोपरोधित्वेन तस्यैव निषिद्धत्वात् । "निवेशे हि वृत्ते नैयमिकानि श्रुयन्ते" "अग्निहोत्रमतिथम" इति ह्युच्यते आचार्यस्याप्यनुष्ठानानुपरोधेन श्रावणस्य हि शास्त्रानुमतत्वं अतोऽनुष्ठानानुपरोधोपरोधप्रयुक्तानुमत्यननुमतिविषयत्वं श्रावणस्य, श्रवणस्य, च तुल्यम् अत एव हि युधिष्ठि-रादीनां गार्हस्थ्यनिष्ठानामपि भीष्मादिभ्यः श्रवणं भारत्रादिषु प्रतिपाद्यते । यद्यपि श्रावणकाल एव श्रवणकालः, तथापि श्रोतुरुदकाहरणकाष्ठसम्पादनादिभिरनुष्ठानोपरोध इति चेन्न । अध्ययनविधिप्रयुक्तस्योदकौरणादेस्तन्निवृत्त्या निवृत्तत्वात् । वित्तख्यात्यादिप्रयोजनान्तरस्पृहया, शिष्यस्त्रेहेन, च गुरोः श्रावणमुपपद्यते श्रावयितुर्ज्ञातार्थत्वाद-नुष्ठानमुपपद्यते । श्रोतुरज्ञातार्थत्वान्नेति चेन्न । उपनयनप्रभृत्यनुष्ठानवद्धितैषिवचनादनुष्ठानोपपत्तेः । तर्हि हितैषि-

वाक्यमेव स्यात्-किमर्थं मीमांसाश्रवणमिति चेत् हितैषिवचनस्य प्रमाणमूलत्वनिश्चयार्थं, प्रष्टॄणामपरेषां स्वय-मुपपादनार्थं च, हितैषिवचनादनूष्ठानसम्भवे शूद्रादीनामप्यनुष्ठानप्रसङ्गः इति चेन्न । "न शूद्राय मतिं दद्यात्" "न चास्योपदिशेद्धर्मन्नचास्य व्रतमादिशेदि"त्यादिनिषेधवचनसद्भावात् नहि यज्ञादिकं ब्राह्मणश्शूद्रयोपदिशन्ति न च शुश्रूषादिरहितशूद्रविशेषविषयत्वेनेदृशनिषेधवचनानां सङ्कोचः कार्यः-सङ्कोचकाभावात्-नाई शूद्रस्य यज्ञाद्यर्हत्वविषयं वचनान्तरं दृश्यते । किंच यजमानेन कृत्स्नवेदस्य,मन्त्रविशेषाणां, च जप्यतावचनात्तेषामध्ययनलभ्यत्वा, दध्ययन-स्योपनयनसापेक्षत्वादुपनयनस्य त्रैवर्णिकाऽधिकारत्वान्न, शूद्राद्यधिकारप्रसङ्गः । ननूपनयनविधिस्त्रैवर्णिकाध्ययन-विषयतया नेतुं शक्यते अतः शूद्रस्याध्ययनमुपनयननिरपेक्षमिति तस्य यजमानाद्युच्चारणसम्भव इति चेत् न । "तस्माच्छूद्रसमीपे नाध्येतव्यमि"ति "अथ हास्य वेदमुपृण्वतस्म्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरेण जिह्वाच्छेदो धारणे शरीरभेद" इत्यादिना शूद्रस्य वेदश्रवणादेर्निषिद्धत्वाद्, अध्ययनं चेदुपनयनाङ्गकं तत् त्रैवर्णिकाधिकारमेवेति न तत्र शूद्रद्यधिकार इति मन्त्रविशेषोच्चारणमुपपत्तेः । न हितैषिवचनाच्छूद्रादेः क्रत्वनुष्ठानप्रसङ्ग इति नापशूद्रा-धिकरणविरोधः । किंच यथा "यावज्जीवमग्निहोत्रं जुहोती "त्यादिविधिः "न स्वाङ्गं स्वव्यवधायकमि"ति न्यायात् स्वोपयोग्निनोऽप्यर्थार्जनादेरागप्राप्तस्याप्यवसरप्रदः स्यात् क्तवाप्रत्ययस्य च समानकर्त्तृकत्वपूर्वकालीनत्वमात्रमर्थः, न त्वानन्तर्यम् । नन्वानन्तर्यमेव विधेयन्न चेद्विधिवैयर्थ्यं दुःस्वात्मकगुरुकुलवासनिवृत्तेः स्वतः प्राप्तत्वादिति चेत् । न । आनन्तर्यपरत्वेपि विधिवैयर्थ्यात् तच्च गुरुगुलवासस्य दुःस्वात्मकत्वादेव । अतः सनियमसंस्कारविशेष एव स्नानमिति तद्विधेयं नत्वानन्तर्यं तस्मादधीत्येति क्तवाश्रुतेर्न विरोधः तस्मात्स्वयमेव प्रवर्त्तते ।

ननु "यो ह वा अविदितार्षेयच्छन्दोदैवतेन मन्त्रेण यजति याजयति वाऽध्यापयति वा स्थाणुं वर्च्छति गर्तं वाऽऽपद्यते प्रवामीयते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति । अथ यो मन्त्रे मन्त्रे वेद स सर्वमायुरेति । श्रेयांश्च भवति अयातयामान्यस्य छन्दासि मवन्ति तस्मादेतानि मन्त्रे मन्त्रे विद्यादि"ति श्रुत्या "अविदित्वां ऋषिं छन्दो दैवतं योगमेव च योऽध्यापयेज्जपेद्वापि पापीयान् जायते तु स" इति स्मृत्युपबृंहितयार्थज्ञानविधानं फलितम् । मन्त्रे प्रतिपाद्यदेवताज्ञानस्यात्र विहितत्त्वात्तुल्यन्यायतया दैवतंशब्दस्य मन्त्रप्रकाश्यानुष्ठेयार्थप्रकाशनार्थतयाच विध्-यादिभागार्थज्ञानस्यापि विधेयत्वापत्तेः । योगो मन्त्राणां विनियोगः तज्ज्ञानस्य ब्राह्मणभागार्थज्ञानसापेक्षत्वाच्चेति चेत् । न प्रतिग्रहर्तुसम्वेशनादेरिव रागप्राप्तत्वनिवृत्तेः । नहि "ब्राह्मणः प्रतिग्रहादिना धनमर्जयेत्, ऋ#ृतावुपेयादि"ति वचनं रागतः प्राप्तिंप्रतिग्रहादेर्निरुणद्धि ।

किंचानेनैव वाक्येनार्थज्ञानं विहितमित्यध्ययनविधेरथर्ज्ञानपर्यन्तत्वं नाश्रयणीयं, यथा क्रतूनां विध्यन्त-रसिद्धत्वादाघानविधेरुत्तरक्रतुविधिपर्यन्तत्वं नाऽऽश्रीयते तद्वत् । न चेदं वेदवाक्यमध्ययनस्यार्थधीपर्यन्तत्त्वमव-गमयति, नच स्वयमर्थज्ञानं विधत्ते, अर्थज्ञानस्याऽन्यतः सिद्धत्वात् । अत्र मन्त्रमात्रस्य ऋ#ृण्यादिविज्ञानविधान-प्रतीतेश्च । ततश्च वेदस्य साङ्गतयाऽध्येतव्यत्वं सिध्येत् न त्त्वर्थज्ञानं, छन्दोदैवतादिज्ञानस्य छन्दःकल्पव्याक-रणनिरुक्तादिसापेक्षत्वान्मीमांसानपेक्षत्वाच्च । विनियोगविषयसन्देहे सति मीमांसापेक्षा स्यादिति चेत् तर्हि सन्देहापाकरणाय रागतः प्रवृत्तिः स्यात् "यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्जवलति कहिंचित्" इतीदमपि वचनं नार्थज्ञानपर्यन्तत्वमध्ययनविधेरवगमयति । "अधीतमविज्ञात"त्यित्रैवाध्ययनार्थज्ञानयोः पृथङ्निर्देशात् रागप्राप्तस्य विधातुमशक्यत्वाच्च । "वेदानां किंचिदधीत्य ब्राह्मणः, एकां शाखामधीत्य श्रोत्रियः, अङ्गाध्याय्यनूचान" इत्यादयः कल्पसूत्रप्रयोगाश्च अध्ययनादर्थज्ञानं पृथग्भूतमवगमयन्ति । अतः श्रवणस्य दुःख-रूपत्वेन तन्द्रालुतया वा, अर्थार्जनाद्यन्यपरतया वा, यो न #ृणोति तत्प्ररोचनार्थमिदं "यदधीतमि"त्यादिवचनम् ।

यथा अक्षैर्मादीव्यः, कृषिमुत्कृषस्व, वित्ते रमस्व, बहु मन्यमान" इति वाक्यं तन्द्रालुप्ररोचनार्थं, प्ररोचनया हि प्रवृत्तिरुत्कटा स्यात् नह्येतावता कृषेरर्थाजनस्य च रागप्राप्तत्वभङ्गेन सर्वत्र वैधत्यमेव स्यात्तद्वदिदमपि वचनं श्रवणस्य रागप्राप्तत्वं न विहन्ति । तस्माद्रागत एव प्रवर्त्तते । एवमन्यतः प्रवृत्तौ सम्भवन्त्यां शब्दशक्तयुल्लङ्घनेन मीमांसाश्रवणस्य विधेयत्वकल्पनमयुक्तम्, ऐकशास्त्र्यं रागतः पृवृत्तिश्चास्तु कथं पौर्वापर्यनियमस्तत्राह - तत्रेति ।

तत्र-वेदे कर्मविधिस्रूपे निरूपित इति कर्मभागस्य वेदोपक्रमत्वादधीतक्रमेणैव निरूपणं प्राप्तमिति कर्मविचारस्य पूर्वमावित्वमितिभावः ।

ननु नहि कर्मणामल्पास्थिरफलत्वमनन्तस्थिरफलत्वञ्च पूर्वपक्षसिद्धान्तरूपेण क्वचिन्निरूपितंतत्कथमल्प-स्थिरफलत्वावगतिरित्यत्राह - स्वरूपे निरूपिते इति । केवलं कर्मविधिस्वरूपमेव निरूपितम् अल्पास्थिरफ-लत्वज्ञानमावृत्तिविधानादिना फलितमिति भावः । यद्वा कर्मविधिस्वरूपन्निरूपितं न त्वाराध्यपरदेवतेति भावः । तदाराधनत्वेन कृते ह्यनन्तस्थिरफलत्वसिद्धिः ।

अध्ययनगृहीतस्वाध्यायेति । अध्ययनस्य कृत्स्नस्वाध्यायविषयत्वादुपनिषदश्च स्वाध्यायशब्दान्तर्गत-त्वादितिभावः । एकदेश-शब्देनैकप्रबन्धांशत्वं सूचितम् साधारणवेदशब्दनिर्दिष्टशब्दराशावनन्यपरं प्रदेशं पृथङ्-निर्दिशत्युपनिषच्छब्देन, वेदान्त-शब्देन विचारपौर्वापर्यनियमहेतुर्दर्शितः । मीमांसा-शब्दोक्ते व्याख्याने प्रदेशभेदं विशिनष्टि शारीरकशब्देन "अन्नवानन्नदो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवचर्सेने"त्याद्युक्तानुषङ्गिकाल्पा-स्थिरफलव्यावृत्त्यर्थममृतत्त्वरूप-शब्दाः, आनुषङ्गिकाणामल्पास्थिरत्वेपि प्रधानफलस्यानन्तस्थिरफलत्वेनापा-तप्रतीतिरस्तीत्यर्थः । कर्ममीमांसासंस्कृतमनस्कत्वादत्राप्यानुषङ्गिकं प्रधानफलं च संभवतीति श्रोतुः प्रतीयत एव ।

ननु फलत्वादिदमप्यनित्यमिति बुद्धिः स्यात् नैवं विपक्षे बाधकाभावात्, यथा भौमसुखात् स्वर्गादि-सुखविलक्षणं प्रतिपन्नं तत्रापि परस्परवैलक्षण्यं देशकालस्वरूपभेदात् प्रतिपन्नं तथैव तस्मादपि विलक्षणं सुखं सम्भवतीत्यतीव रागजननायाऽस्यापि प्रतीतिःस्यात् - अधिकरोति - अधिकारी भवति, एवं कर्मविचारकृदेवा-धिकारी भवति नतु साधनचतुष्टयवानित्यभिप्रायः । एवमैकशास्त्र्य-क्रम-नियमारम्भणीयत्वान्युपपादितानि । कैर्वेदान्तवाक्यैरारम्भणीयत्वौपयिकापातप्रतीतिरित्यत्राह - तथाचेति - यथासूत्रं व्याख्यातं तथेत्यर्थः, चश्श-ङ्कानिवृत्तौ प्रसिद्धौ वा केवल-शब्देन ज्ञानाङ्गकर्मव्यावृत्तिः ।

ननु कर्मविचारेण निर्णीतेऽपि कर्मफलक्षयिष्णुत्वे पुनश्चाल्पास्थिरफलत्वप्रतीतिजनकवाक्यानि किमर्थ-मुदाह्रियन्ते अनन्तस्थिरफलापातप्रतीतिजनकान्येव वाक्यान्युदाहर्तव्यानि । उच्यते । अधिगतकर्मणः पुरुषस्य हि निर्णीतार्थसंवादिवाक्यदर्शनात् कर्मफलास्थिरत्ववद् ब्रह्मज्ञानफलाक्षयित्वस्य प्रामाणिकत्वं सम्भवतीति श्रद्धा-स्थिरीकरणार्थं - तद्यथेति । लोक्यतइति-लोकः फलम् । "अन्तवदेवास्य तद्भवतीत्य"नेन ज्ञानविधुरकर्मणोऽनेक-कालानुष्ठितस्य बहुविधस्यापि क्षयित्वमुक्तं भवति "यो ह वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तप-स्तप्यते बहूनि वर्षसहस्राणी "त्येतद्वाक्यपूर्वकत्वात्तस्य वाक्यस्य अन्तवदिव्युक्ते क्रियास्वरूपस्यान्तवत्त्वं लोक-सिद्धतयाऽनुपदेश्यमिति फलस्यैवान्तवत्त्वमर्थसिद्धं स्फुटीकर्तुं पूर्वं तद्यथेति वाक्योपादानं, सांसारिकफलस्या- ऽध्रुवत्वं स्यात् कर्मभिरेव ध्रुवं फलं संपाद्यतामिति शङ्काव्युदासाय उपादत्ते - न ह्यध्रुवैः प्राप्यते इति, श्रुवं तदिति वाक्यखण्डः । तदुपपादकत्वेन प्रतीयमानं वाक्यान्तरमुदाहरति - प्लवा ह्येते अदृडा यज्ञरूपा"इति । संसारपारं तारयितुन्नालं मध्ये भंगुरत्वादित्यर्थः । सूत्रयोजनानुगुणतरं कर्मणामल्पास्थिरफलत्वं, ब्रह्मोपासनस्यानन्ताक्षय-फलत्वं, च दर्शयद्वाक्यमुपादत्ते - परीक्ष्य लोकानिति । अस्मिन्वाक्ये न्यायसिद्धार्थानुवादेन गुरूपसत्तिर्विधीयते ।

कम्रचितान् कर्मसञ्चितान् कर्मसंपाद्यान् परीक्ष्य मीमांसान्यायैर्निरूप्य । ब्राह्मणः अधीतसाङ्गसशिरस्कवेदः, य इत्यध्याहार्थं, स इत्युत्तरत्र श्रवणात् । अकृतः-नित्यः । अत्र पुरुषो विशेष्यः, लिङ्गवशाद् अक्षरं पुरुषमित्यनन्त-रोक्तेश्च । कृतेन-कर्मणा नास्ति- न सिध्यति इतिकरणं द्रष्टव्यम् इति यो निर्वेदमयात् सः तद्विज्ञानार्थे गुरुमेवा-भिगच्छेत् । एवकारेण नियमविधित्वं गम्यते । समित्पाणिः-नरिक्तपाणिः "रिक्तपाणिस्तु नोपेयाद्राजानं दैवतं गुरूमि"ति हि स्मर्यते । श्रोत्रियं-श्रुतवेदान्तं, ब्रह्मनिष्ठं,-ब्रह्मसाक्षात्कारवन्तं, श्रुतवेदान्तोऽपि रुचिभेदादब्रह्मनिष्ठो नोपगन्तव्य इति भावः । अभिगच्छेदित्यन्वयः शमः बाह्येन्द्रियनियमनरूपः प्रशान्ताचित्तायेत्यन्तः करणनियम-नस्योक्ततया पारिशेष्यात् । एतेन श्रवणोपयुक्तमवधानं विवक्षितं न तूपासनोपयुक्तात्यन्तेन्द्रियजयादिः । तस्मै स विद्वान् प्रोवाचेत्यन्वयः । "येने"ति निर्देशो विज्ञानाभिप्रायः । तद्विज्ञानार्थमिति हि प्रकृतं सामान्यतः कारणाभिप्रायो वा लिङ्गव्यत्ययो वा; अक्षरं स्वरूपेणाविकारं, सत्यं-गुणतोऽप्यविकारम्" आभ्यामचिज्जीवव्यावृत्तिः । तां ब्रह्मविद्यां प्रोवाच प्रब्रूयादित्यर्थः इति वेदान्तसारे व्याख्यातम् । "छन्दसि लुङ्लङ्लिट" इति लिट् ।

ननु "प्रशान्तचित्ताय शमान्विताये"ति शमादेः पूर्ववृत्तत्वं प्रतीयते । न श्रवणोपयोग्यवधानमात्रस्य विव-क्षितत्वात् । नात्रोपासनाङ्गभूतात्यन्तविषयवैतृप्ण्यं विवक्षितं, तद्धि "शमदमाद्युपेतः स्यादि"ति निरूपयिष्यते । अतो निरूप्यसंपाद्यैस्तैर्निरूपणात् प्रागेव विशिष्टत्वमनुपपन्नं, श्रुतिश्च शास्त्रजन्यज्ञानवतः पुरुषस्य तदुत्तरभाविशमा-द्यङ्गकमुपासनं दर्शयति । "तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येदि"ति अत्र ह्येवं विदिति शास्त्रजन्यज्ञानवत्त्वमुक्तं, भूत्वा पश्येदित्युपासनस्य शमाद्यङ्गकत्वं स्थापितम् । केवलान्तस्थि-रफलपरवाक्यान्युदाहरति - ब्रह्मविदिति ।

अत्रानुवाके "यतो वाचो निवर्त्तन्त" इति श्रवणादनन्तस्थिरफलत्वसिद्धिः । प्राप्यस्य ब्रह्मणोऽनन्तस्थि-रत्वेऽपि प्राप्तेः कादाचित्कत्वशङ्काव्यावृत्त्यर्थमपुनर्निवृत्तिमाह - न पुनरिति । यद्वा विद्ययानन्तस्थिरफलरूप-ब्रह्मप्राप्तिमाह "ब्रह्मविदि"ति । विद्यया ब्रह्मप्राप्तेः प्रतिबन्धनिवृत्तिपूर्वकत्वमाह "न पुनरि"ति । मृत्युः-प्रमादः, मोहो वा मोहो मृत्युः संमतो यः कवीनां, प्रमादं वै मृत्युमहं ब्रवीमी "त्युभयत्र मृत्युशब्दव्यपदेशात् । प्रमादो यथाऽवस्थि-तात्मस्वरूपस्याज्ञानं, मोहः-भ्रान्तिज्ञानं, दिङ्मोहं इत्यादिव्यपदेशात् । न मृत्युनिवृत्तिमात्रमेव, तत्कार्यमपि निवर्तत इत्याह - न पश्यो मृत्युं पश्यतीति । अस्य वाक्यस्योपरि " न रोगं नोत दुःखतामि"ति हि श्रूयते । न पुनरित्यादि-वाक्यं ब्रह्मणि दृष्टे मृत्युप्रमुखनिवृत्तिरिति ज्ञापनार्थम् न पश्यो मृत्युमित्यत्रापि पश्यशब्दस्य ब्रह्मदर्शीत्यर्थः । तदेकं पश्यतीत्यनन्तरोदाहृतवाक्ये विषयस्य दर्शितत्वात् "सस्वराड् भवती "ति कर्मवश्यो न भवतीत्यर्थः । "स्वराट् स्वतन्त्रो विज्ञेय" इति नैघण्टुकाः । तमेवंविद्वानिति वाक्येन निर्विशेषचिन्मात्रज्ञानदेवतान्तरोपासनाद्युपायान्तर-व्यावृत्तिसिद्धिः । पुरुषोत्तमोपासनस्यैवोपायतयोक्तत्वात् तदुपासनरूपज्ञानं च नात्मैक्यविषयम् अपि तु पृथक्-त्वविषयमिति दर्शयति - पृथगात्मानमिति । मत्वा-ज्ञात्वा,ततः-पृथक्त्वज्ञानात् तेन जुष्टः-प्रीतिविषयीकृतः अनुगृहीतो ऽमृतत्वमेतीत्यर्थः । इत्यादीनि वेदान्तवाक्यानीति पूर्वेणान्वयः । उदाहृतस्पष्टार्थवाक्यमात्रतृप्तः कश्चिच्चोदयति - ननुचेति । पूवर्त्र चोद्यान्तराणां कण्ठोक्तयभावेपि परिहारकण्ठोक्तया तान्यभिप्रेतानि, अतश्-चशब्देन तैरर्थसिद्धैः सह समुच्चयो युक्तः । साङ्गेति - कर्मज्ञानपूर्ववृत्तत्ववादिनापि साङ्गाध्ययनस्यापेक्षितत्वं स्वी-कृतमिति तदधिकव्युदासार्थ एवकारः । अध्ययनस्य साङ्गत्वादङ्गानां चार्थज्ञानहेतुत्वान्मीमांसानिरपेक्षं स्वर्गादेरेव केवलकर्मफलत्वं, स्वर्गादेश्च क्षयित्वं, ब्रह्मोपासनस्याक्षयफलत्वं च ज्ञायत इत्यर्थः । ब्रह्मोपासनस्येत्यादिग्रन्थो दृष्टान्ताभिप्रायः । ज्ञायत एवेत्येवकारो ज्ञातृत्वसंप्रतिपत्तिसुचकः । ज्ञानसामग्री हि सिद्धेति भावः । ततः किं मित्यत्राह

अनन्तरमिति । कर्मणोऽल्पास्थिरफलत्वज्ञानेन मुमुक्षासिद्धियर्थं हि कर्मविचारः, तन्निरपेक्षमेवाल्पास्थिरफ-लत्वज्ञानान्मुमुक्षासिद्धेः ब्रह्मजिज्ञासैव कर्त्तव्या, धर्मविचारे प्रयोजनाभावादित्यर्थः । परिहरति - एवमिति - एवं तर्हि उदाहृतवाक्यमात्रतृप्तोसि चेत् । कृत्स्नस्येति - ब्रह्मणोपीति भावः । वेदान्तवाक्यान्यपि स्फुटार्थानि ह्यस्मा-भिरुदाहृतानि, तेषामर्थोऽपि मीमांसानपेक्षं ज्ञायते अतोऽनन्तस्तिरफलज्ञानायनब्रह्मविचारः कर्त्तव्य इत्यर्थः । सत्यमित्यर्द्धाङ्गीकारे आपातप्रतीतावभ्युपगमः, ब्रह्मविचारनैरपेक्ष्येऽनभ्युपगमः - आपातेति । अपातप्रतीतिः अज्ञाननिवृत्तिमात्रेण संशयविपर्ययसहज्ञानम् । संशयविपर्ययौ च कारणवाक्यगतसद्ब्रह्मात्माकाशप्राणवैश्वान-रादिशब्दैरर्थतत्त्वस्य दुर्निश्चयत्वात् "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति" "असद्वा इदमग्र आसीदि"त्यादिभिरात्मानित्यत्वादेः प्रतीतेः "अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेने" त्यादिनाऽल्पास्थिरफलत्वावगमाच्च स्याताम्; अतः साङ्गाध्ययनमात्रेण तयोरनतिवृत्तेस्तद्वयुदासस्य न्यायानु-गृहीतवाक्यफलत्वाच्च ब्रह्मविचारः कर्त्तव्य इति चेदित्यर्थः । भवान्-अनुदाहृतवाक्यान्तरपर्यालोचनायामपि प्रवृ-त्तस्त्वमिति भावः । तथैव - एतया दृष्टया अत्रापि संशयविपर्ययनिरासस्यापेक्षितत्वं जानन्ननुदाहृतवाक्यानि पश्येदित्यर्थः । "अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" "पूर्णाहुत्या सर्वान् कामानवाप्नोति, सर्वान् लोकान् पशुबन्धयाज्यभिजयति" "अपाम सोमममृता अभूम, अनन्तं ह वा अपारमक्षय्यं लोकं जयति योऽग्निं नाचिकेतं चिनुते नास्येष्टापूर्ते क्षीयेते । योऽग्निन्नाचिकेतं चिनुते" इत्यादीनि हि "अमृतत्वं भजन्ते, सोऽश्नुते सर्वान् कामान्, इमान् लोकान् कामान्नी कामरूप्यनुसंचरन्नि" त्यादि ब्रह्मवेदनफलवाक्यैरनुतुल्यानि वाक्यानि दृश्यन्ते । अत औपनिषदवाक्येष्विवानुदाहृतवाक्येषु संशयविपर्ययबाहुल्यात्तन्निरासाय कमर्विचारः कर्त्तव्य इत्यर्थः । एवं फलद्वारा हानाय कर्मज्ञानापेक्षा दर्शिता ।

अथ स्वरूपेणोपादानाय च नियमेन कर्मज्ञानापेक्षाऽस्तीति दर्शयितुं मुमुक्षोः कर्मणोनियमेनापेक्षितत्वलक्षणं परपक्षमुपक्षिपति "ननु चे"ति । नियमेनापेक्षितत्वस्य विवक्षितेतरगामित्वव्युदासार्थः प्रथम एवकारः, द्वितीयस्तु नियमेनानपेक्षितस्य पूर्ववृत्तत्वनिवृत्त्यर्थः, ततः किमित्यत्राह "न धर्मे "ति । कुत इत्यत्राह "अधीते"ति । ये ब्रह्म-विद्याधिकारिणस्तेषां सर्वेषामवश्यापेक्षितं हि नियमेनापेक्षितं, वेदान्तमात्राध्यायिनस्तु तत्रैवापातप्रतीतिर्बुभुत्सा च स्यात्; तस्य कर्मविषयापातप्रतीत्याभावात्, न कर्मविचारस्य नियमेनापेक्षेत्यर्थः । यद्वा अधीतकृत्स्नवेदस्यापि जन्मान्तरसुकृतवशाद्वेदान्तवाक्य एव बुत्भुसा जायते चेत्तस्य न कर्मविचारापेक्षेति, तदा "अधीतवेदान्तस्ये"ति पदमयोगव्यवच्छेदपरं, नान्ययोगव्यवच्छेदपरं, कृत्स्नवेदाध्ययनादपेक्षितवेदान्तभागोप्यधीत एवेत्यर्थः । एवं हाना-र्थमपि कमर्णो ज्ञातव्यत्वं निषिद्धम् उपादानार्थमपि न ज्ञातव्यमित्युपपादयितुं वेदान्तमात्रबुभुत्सादेरपि कर्मवि-चारापेक्षां शङ्कते "कर्माङ्गेति" । एकस्य साम्नः पञ्च भागाः सन्ति, ते प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्याः । एते भागाभक्ति शब्दाभिधेयाः । तासु पञ्चसु भक्तिषु प्रस्तावो हिङ्कारपूर्वङ्गीयते, उद्गीथः प्रणवपूर्वङ्गीयते, तत्र पञ्च-विधसामोपासनं क्वचिद्विधीयते "लोकेषु पञ्चविदं सामोपासीते"ति, क्वचित्सामावयवेषु पञ्जस्वेकैकावयवापासनं विधीयते, तत्रोद्गीथावयवभूतप्रणवोपासनं विधीयते "ओमित्येतदक्षरमुद्गीथमुपासीते"ति कर्माङ्गश्रयाणि-कर्माङ्ग-भूतोद्गीथादिविषयाणि, अनधिगतकर्मण उद्गीथाद्युपासनचिन्तनं न शक्यं कर्तुमिति प्रतिज्ञा । कर्माङ्गश्रयाणीति हेतुगर्भविशेषणम् । कर्माङ्गोद्गीथाद्याश्रयाण्युपासनानीत्युक्ते सति हेतावुद्गीथशब्दस्य वैयर्थ्यं स्यात्, उपासनमात्रस्य च पक्षीकारः प्रतीयते, अतो यथोक्तैव वचनव्यक्तिर्युक्ता । अनधिगते कर्मण्युद्गीथादिविषयोपासनचिन्ताया अशक्यत्वात् कर्मविचारोपेक्षितइतिचेदित्यर्थः । सोपालम्भं परिहरति । अनभिज्ञ इति । शास्त्रे प्रधानतया प्रतिपाद्यं ज्ञानमित्यत्राह -

अस्मिन्निति । भेदः-ज्ञातृज्ञेयज्ञानरूपः, वैविध्वम् तदवान्तरभिदा बाहुल्यम्, एवं विविधभेददर्शनस्य हेतुरविद्या । तस्याः को हेतुरित्यनवस्थापरिहारार्थमनादिशब्दः । एवमविद्याकृतभेददर्शननिमित्तकं जन्मजरामरणादिकमेव सांसारिकदुःखम् आदिशब्देन नरकगर्भवासादिग्रहणम् । संसारः प्रकृतिसम्बन्धः तत्प्रभवं सांसारिकम्, तन्निर-सनीयत्वाय दुःस्वरूपत्वोक्तिः । सागरशब्दस्तदानन्त्यपरः । "निमग्नस्येति" । दुःखनिवृत्त्युपायापेक्षाहेतुतयोक्त-मधिकारिस्वरूपमुक्तम् । प्रयोजनमाह - निखलेति । मिथ्याज्ञानं-भ्रान्तिज्ञानम्, "दुःखजन्मप्रवृत्तिदोषमिथ्या-ज्ञानानामुत्तरोत्तरापाये तदनन्तरापाया"दिति प्रयोगात्, भ्रान्तिज्ञानं च भेददशर्नम् । यद्वा मिथ्याभूतमज्ञानं मिथ्या-ज्ञानम्, ज्ञाननिवत्यर्त्वाय मिथ्याशब्दः तस्य निबर्हणाय, तन्निबर्हणमेव मोक्ष इत्यभिप्रायः । तत्साधनं किंमित्यत्राह आत्मैकत्वविज्ञानमिति । सप्रभ्रमस्य रज्जुयाथात्म्यज्ञानं हि निवर्त्तकम् न #ु कमर्विशेषः, एवं भेददर्शनस्याविद्या-कृतत्वादैक्यज्ञानमेव तन्निवर्त्तकमिति तत्रेव तात्पर्यं वेदान्तवाक्यानामित्यर्थः । ततः किमित्यत्राह - अस्य हीति । क्वोपयुज्यते न कुत्रचित्, ज्ञानस्य स्वरूपोपत्तौ तत्फलोत्पत्तौ ज्ञानोत्पत्तिसाधनानुग्रहे वा नोपयुज्यत इत्यर्थः । न केवलमुपयोगाभावः, प्रतिकूलफलत्वमप्याह - प्रत्युतेति । द्वैतवासनाजनकत्वादित्यभिप्रायः । तथाप्युपनिषत्स्व-धीतत्वाद् ब्रह्ममीमांसायां निरूप्यमाणत्वाच्चोद्गीथाद्युपासनं ब्रह्मविद्यापेक्षितमित्युद्गीथादिविचारः साक्षात्सङ्गत इत्यत्राह - उद्गीथादाति । तर्हि कथमुपनिषत्स्वध्ययनं ब्रह्मविचारे तद्विचारश्चेत्यत्राह- ज्ञानरूपात्वाविशेषादिति । ज्ञानस्वरूपत्वसाम्यात् बुद्धिस्थतया कृतः, न तु प्रधानर्थोपयोगित्वादित्यर्थः । ततः किमित्यत्राह "स त्विति" । तुशब्दद्वयं शङ्काद्वयव्यावर्त्तकम् । प्रधानप्रतिपाद्योपयुक्तस्यैव पूर्ववृत्तत्वं निगमयति । अत इति । किमपि कर्मवि-चारादन्यदिति भावः । प्रधानार्थोपयोगित्वेन सङ्गतिः साक्षात्सङ्गतिः । येन केनाप्याकारेण साम्याद्बुद्धिस्थत्वं प्रसङ्गात्सङ्गतिः । अतः प्रासङ्गिकोद्गीथाद्युपासनचिन्तापेक्षितस्य प्रधानार्थसिरुद्धस्य कर्मविचारस्य न पूर्ववृत्तता युक्ता, अपि तु प्रधानप्रतिपाद्यात्मैकत्वविज्ञानापेक्षितमेव किमपि पूर्ववृत्तं वक्तुं युक्तमित्युक्तं भवति ।

अत्र भास्करीयाः प्रत्यवतिष्ठन्ते बाढमिति । बाढमित्यर्द्धाङ्गीकारे । यत्प्रधानं शास्त्रं, तदपेक्षितमेव पूर्व-वृत्तमित्येतावन्मात्रविषयोऽङ्गीकारः तदपेक्षितं चेति प्रतिज्ञा, त्वयायदनपेक्षितमित्युक्तं तदेवापेक्षितमित्येवकारा-भिप्रायः । कुत इत्यत्राह - कर्मसमुच्चितादिति - समुच्चितशब्दः साहित्यमात्रपरः, न समुच्चयपरः । "अस्मद्विद्या आत्मविद्या चे"ति समुच्चित्योपदेशादित्यत्र समुच्चितशब्दवत् कर्मज्ञानाभ्यामिति न निर्दिष्ठम् , अपि तु कर्मसमु-च्चिताज्ज्ञानादिति विशेषणविशेष्यभावेन निर्दिष्ठम्, अतो ज्ञानप्राधान्यमवगम्यते, कर्माङ्गकाज्ज्ञानादित्यर्थः । श्रुतिश्च "यज्ञेन दानेन" इत्यादिर्विवक्षिता । कर्मणोविद्याङ्गत्वे सूत्रकाराभिमतिं दर्शयति - वक्ष्यति चेति चः प्रति-पादकसमुच्चये, अङ्गतया कर्मणोनुष्ठानमपेक्षितमस्तु, तज्ज्ञानस्य कथं पूर्वभावित्वम् कर्मज्ञानं ब्रह्मविचारपाश्चात्यं किं न स्यात् ? इत्यत्राह - अपेक्षितेचेति - प्रयाजादिवन्निष्पन्नस्य करणस्य फलोत्पत्तिदशायामनुग्राहकत्वेना-ङ्गतयापेक्षा विवक्षिता । तृतीयस्य चतुर्थपादे समावृत्ताकृतदारमृतदारादीनामाश्रमविशेषवर्त्तिनां च ब्रह्मविद्यानिष्ठानां कर्मस्वनुष्ठेयाननुष्ठेयविभागस्य निरूपयिष्यमाणत्वमभिप्रेत्योक्तं केन समुच्चयः केन नेतीति । यद्वा नित्यनैमित्तिकयोः समुच्चयः न तु काम्यनिष्ठयोरिति विभागो न ज्ञायत इत्यर्थः । अयमर्थः-पदार्थज्ञानपूर्वकं हि वाक्याथर्ज्ञानम् "यज्ञेन दानेन" इत्यादियवाक्ये यज्ञादिकर्मणां पदार्थभूतत्वाद्वाक्यार्थज्ञानस्य च पदार्थज्ञानपूर्वकत्वाद्यज्ञादिकमर्विचारस्य पूर्वभावित्वम् नहि "व्रीहीनवहन्ती " त्यादिवाक्यार्थज्ञानं व्रीह्यादिपदार्थज्ञानेन विनोपपद्यते, पदार्थसंसगर्रूपत्वा-द्वाक्यार्तस्य । ननु, गामानयेत्यादिवाक्याद्वयुत्पत्तौ गवानयनादिरूपं वाक्यार्थं पूर्वं प्रतिपद्यावापोद्वापमुखेन पश्चा-त्पदार्थप्रतिपत्तेर्न पदार्थवीपूर्वकत्वनियमो वाक्यार्थज्ञानस्य । उच्यते- व्युत्पन्नाच्छब्दादर्थप्रतिपत्तौ सर्वत्र पदार्थज्ञान-

पूर्वकमेव वाक्यार्थज्ञानं, व्युत्पत्तिदशायां तु प्रमाणान्तरेण शब्दान्तरेण वा वाक्यार्थावगमः पूर्वं स्यात्, न तु तस्मादेव शब्दात्, तस्यागृहीतसम्बन्धत्वेन बोधकत्वायोगात्, व्युत्पत्तावपि न वाक्यार्थधियः पूर्वभावनियमः । अम्बातात-मातुलादिपदानां पदान्तरासंसृष्टानामेव प्रथमव्युत्पत्तिदर्शनात्, अस्य शब्दस्यायमर्थ इति व्युत्पत्तौ वाक्यार्थज्ञानस्य पूर्वभावाभावाच्च । न चास्मिन्नेव वाक्ये यज्ञादिशब्दव्युत्पत्तिसंभवः, विविदिषानिष्पत्तिरूपवाक्यार्थस्याप्रत्यक्षत्वेन गवानयनादाविव व्युत्पत्त्यनुपपत्तेः, अतः पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमित्युक्तम् बाढमित्यादिकं सिद्धान्तिन-श्चोद्यपरमिति च व्याख्यातृभिर्व्याख्यातम्, तदानीमपि पदार्थवाक्यार्थभावः क्रमविशेषहेतुतया विवक्षितः । किञ्च अपेक्षिते चेत्यङ्गतयापेक्षितत्वस्य विवक्षितत्वात् कर्मणां च ज्ञानोत्पादकतया तदङ्गत्वादुत्पादकोत्पाद्ययोः पौर्वापर्य-नियमाद्विचारविषययोः कर्मज्ञानयोः पूर्वापरभावेन तच्छेषभूतयोर्विचारयोरपि तत्क्रमभाक्त्वं न्याय्यमिति चाभिप्रायः। शेषभूतस्य शेषिक्रमानुरोधित्वं हि न्यायसिद्धम्, यथा "सारस्वतौ होमौ भवत" इति युगपदुत्पन्नयोरपि सारस्वत-होमयोर्याज्यापुरोनुवाक्यामन्त्रानुसारेण सरस्वतीयागस्य पूर्वभावे सरस्वद्यागस्य च पश्चाद्भावे च प्राप्ते तदङ्गानामपि तेनैव क्रमेणानुष्ठानं निर्णीतम् । दृष्टान्ते दार्ष्टान्तिके च, शेषिणोः क्रमनिश्चायकहेतुवैषम्यमेव, तयोः क्रमे निश्चिते शेषस्य शेषिक्रमानुरोधित्वं तत्र चात्र च तुल्यम् । एवञ्चोपासनस्यैव विचारं प्रति शेषित्वात् तृतीयलक्षणे कृतस्यो-पासनचिन्तनस्यैव कमर्विचारापेक्षया पश्चाद्भाव इति न वाच्यम्-विद्याविषयतत्फलचिन्तनस्यापि तदपेक्षितत्वेन कृत्स्नाया अपि ब्रह्ममीमांसायाः कर्मविचारपश्चाद्भावप्राप्तेः । निगमयति अत इति - बाढमित्यादेः सिद्धान्तिचो-द्यपरत्वादपि भास्करमतपरत्वमुचितम् । "कर्मसमुच्चिताज्ज्ञानादपवर्गश्रुते" रित्यस्य ग्रन्थस्य भास्करीयभाष्ये श्रूयमाणत्वात्, अङ्गभावस्य तदभ्युतगतत्वेन तद्विषयसूत्रोपादानाविरोधाच्च शब्दतोऽर्थतश्च प्रत्यभिज्ञानात्, सि-द्धान्तिचोद्यस्यापि तदन्तर्भावाच्च भास्करपक्षं यादवप्रकाशपक्षं चोपजीव्य "बाढ"मित्यादिना पार्श्वस्थश्चोदयतीति च निर्वाहः साम्प्रदायिकः । तत्रैवं योजना; कर्मसमुच्चितादिति समसमुच्चयो विवक्षितः, कर्मसमुच्चिताज्ज्ञानादिति विशेषणविशेष्यभावेन निर्देशो ज्ञानस्य मोक्षोपायत्वप्रसिद्धिप्राचुर्यनिबन्धनः, श्रुतिश्च "विद्यांचाविद्यांचे "त्यादिः । अस्मिन्वाक्ये मृत्युशब्दः उपेयप्राप्तिविरोधिकर्मवाची, प्रतिबन्धनिवृत्तिर्ब्रह्मप्राप्तिश्चेति साध्यद्वयं, क्रमेण कर्म ज्ञानं चेति साधनद्वयमपि हि यादवप्रकाशैरभ्युपगतम्; अतो "विद्यां चाविद्यां चे"ति वाक्ये पूर्वखण्डः साधनद्वित्वपरः, उत्तरखण्डस्तु साध्यद्वित्वपर इति तेषां निर्वाहः "वक्ष्यति चेति" चशब्दः प्रतिपाद्यसमुच्चये अङ्गभावं च वक्ष्यतीत्यर्थः । ज्ञानोत्पत्तेः पश्चात्कर्मणो ब्रह्मप्राप्तिप्रतिबन्धनिवर्त्तकत्वं, ज्ञानोत्पत्तेः पूर्वं कर्मणो ज्ञानोत्पादकतया तदङ्गत्वमपि हि तदभ्युपगतम् । अङ्गभावपरसूत्रमुपादत्ते "सर्वापेक्षेति" सर्वापेक्षेतिसूत्रमङ्गाङ्गिभावपरम्, "सहकारित्वेन चेति" सूत्रं समसमुच्चयप्रतिपादकमिति हि तेषां प्रक्रिया; अङ्गभावे समुच्चये च श्रुतिवाक्ये सूत्रे चोदाहर्त्तव्येपि ग्रन्थलाघवार्थं समुच्चये श्रुतिरङ्गभावे सूत्रं चोदाहृतम्, अङ्गभावप्रतिपादकवाक्यविषयसूत्रोपादानेन भास्करमतं चावलम्बितं भवति, एवमुभयथा क्वर्मणोपेक्षा दर्शिता । ततः किं इत्यि#ाह - "अपेक्षितेचेति" समप्रधानतया अङ्गतया चापेक्षित इत्यर्थः । अन्यत्सर्वं पूर्ववत् । यद्यपि यादवप्रकाशमते कर्मविचारस्य पूर्ववृत्तत्व मनभिमतम्, तथापि समुच्चयेनाङ्गतया च कर्मणोपेक्षितत्वस्य तदुपपादितत्वात्तावन्मात्रमुपजीव्य पार्श्वस्थेन मतद्वयावलम्बिचोदयित्रा पूर्ववृत्तत्वापादानमुखेन चोदितमिति न निगमनग्रन्थविरोधः । समुच्चयशब्दस्य प्रधानतयान्वये स्वारस्यादङ्गत्वपरसूत्रोपादानात्तदनन्तरं साध्यद्वित्वस्य साधनद्वित्वस्य च निराकरिष्यमाणत्वाच्च मतद्वयावलम्बनेन चोदितमिति पूर्वाचार्यैर्निर्वाहः कृतः ।

अत्र प्रतिवदति नैतद्युक्तमिति - हानार्थं कर्मणां ज्ञातव्यत्वं प्रागेव प्रतिक्षिप्तम्, वेदान्तमात्राध्यायिनः कर्मविषयापातप्रतीत्यभावेन कर्मनैरपेक्ष्यवचनात्, सुकृतवशाद्वेदान्तमात्रबुभुत्सावतः कर्मज्ञानानपेक्षावचनाच्च ।

अत्रोपादानार्थं कर्मणो ज्ञातव्यत्वं निराचिकीर्षुः समसमुच्चयेनाङ्गभावेन च द्विविधेप्युपादाने समसमुच्चयार्थमुपादानं प्रथमं निराकर्तुं साधनद्वित्वं साध्यद्वित्वं च वाक्यद्वयेन प्रतिक्षिपति- सकलविशेषे त्यादिना । यथा बाढमित्यादि-ग्रन्थो भास्करमतेन सिद्धान्तमतेन वा चोद्यपरः, तदानीं पूर्वपक्षे सम्भावितसमस्तप्रकारेण कर्मणोऽपेक्षां प्रतिक्षेप्तुकामः किं त्वया समसमुच्चयो विवक्षितः, उताङ्गभावः इति विकल्पमभिप्रेत्य प्रथमं समुच्चयपक्षं प्रतिक्षिपतीति निर्वाह्यम् । सकलविशेषाः-सजातीयविजातीयस्वगतव्यावृत्त्यन्वयरूपविशेषाः, तेषां प्रत्यनीकं सर्पाद्याकाराणां रज्जुत्वमिव तेषां निवर्तकमिति भावः । चिन्मात्रमिति - मात्रचा ज्ञातृत्वज्ञेयत्वव्यावृत्तिः । यद्वा, सकलविशेषप्रत्यनीकशब्देन विजातीयसजातीयभेदप्रत्यनीकत्वं, चिन्मात्रमिति मात्रचा स्वगतभेदशून्यत्वं च विवक्षितम्, प्रत्यनीकशब्देन नित्यानर्हत्वं विवक्षितम् । न हि शुक्तिशकलं कदाचिद्रजतत्वसम्बन्धार्हं, नित्यानर्हत्वादेव हि शुक्तिज्ञानस्य रज-तत्वनिवर्त्तकत्वम् - ब्रह्मविज्ञानादेवाविद्यानिवृत्तेरिति । रज्जुत्वज्ञानादेव हि सर्पत्वनिवृत्तिः, न तु कर्मणेति भावः । एवं साधनद्वित्वं निरस्तम् । कथं साधनद्वित्वव्युदासः साध्यद्वित्वं हि विद्यत इति शङ्कायां साध्यद्वित्वं व्युदस्यति अविद्यानिवृत्तित्वे हि मोक्ष इति । ब्रह्मणो नित्यप्राप्तत्वात् प्रतिबन्धनिवृत्तिरेव साध्या न तत्प्राप्तिः । हिशब्दस्या-यमभिप्रायः, या प्रतिबन्धनिवृत्तिः कर्मसाध्यत्वेन त्वयोक्ता सैव ज्ञानसाध्या श्रुतिस्मृतिसूत्रैरभिज्ञाता "तमेव विदित्वातिमृत्युमेति" "ज्ञात्वा देवं मुच्यते सर्वपापैः" । पाशैरिति पाठान्तरम् । "निचाय्य तं मृत्युमुखान् प्रमुच्यते क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" "एवमेवंविदि पापं कर्म न श्लिष्यते" "ज्ञानाग्निः सर्वकर्माणि भस्म-सात्कुरुते तथा" "तदधिगम उत्तरपूर्वाधयो"रित्यादिभिः, तस्माद्वाक्यद्वयेन न साध्यसाधनद्वित्वमस्तीत्युक्तं भवति । अविद्यानिवृत्तिरेव मोक्षोऽस्तु, ततः किं कर्मनैरपेक्ष्यस्य? इत्यत्राह - वर्णाश्रमेति । अनेन पदेन पूर्वोक्तं कर्मणो भेदावलम्बित्वं विवृतं भवति । आदिशब्देन निषिद्धानि, प्रायश्चित्तकर्माणि च विवक्ष्यन्ते । अनन्तशब्देन वर्णादीनां बाहुल्यम् । विकल्पो भेदः । सकलभेददशर्ननिवृत्तिरूपाज्ञाननिवृत्तेरिति - मूलाज्ञाननिवृत्तेः फलं हि भेददर्शन-निवृत्तिः, अतो भेददर्शननिवृत्तिरज्ञाननिवृत्त्यन्तर्गतेत्यर्थः । कथमिव साधनं - न कथञ्चिदपीति यावत् । " न हि वचनविरोधे न्यायः प्रभवतीति" नियमात् । श्रुतिसिद्धं कर्मणोपेक्षितत्वं न बाध्यमिति शङ्कायामुक्तोपपत्तेः श्रुत्या-नुकूल्यं दर्शयति - श्रुतयश्चेति - न केवलोपपत्तिः तदनुग्राह्यमप्यवस्तीति चशब्दस्य भावः । पूर्वं भेदावलम्बितया विरोध उक्तः, अत्र तु फलानित्यतया विरोधश्च युक्तयन्तरत्वेन दर्शितः । अनित्यफलत्वेनेति - नित्यफलस्य मोक्षस्य कथमनित्यफलदं कर्म साधनमित्यर्थः । श्रुतय इत्येकस्मादनेकवाक्यानां प्राबल्यं विवक्षितम् । दर्शयन्तीत्यनेना-स्फुटार्थात् स्फुटार्थानां "अन्तवदेवस्ये"ति कर्मसाध्यत्वे मोक्षस्यानित्यत्वं नित्यत्वे कर्मणस्तत्साधनत्वं वा न स्यात् कमर्णोन्तवत्फलत्वनियमादिति भावः । अनेन वाक्येन कर्मणामनित्यत्वमुक्तम् । तद्यथे त्यनेन कर्मक्षयस्य फल-द्वारकत्वमुक्तम् । पूर्ववाक्यमनेककालानुष्ठितसकलकर्मणामन्तवत्त्वज्ञापनार्थम् " अस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनिर्षसहस्राणि "अन्तवदेवास्य तद्भवति" इति हि श्रूयते, तत एव कर्मनैरपेक्ष्यवादे अस्य वाक्यस्य प्रथमत उपादानम् ब्रह्मविदाप्नोतीति ज्ञानस्य मोक्षसाधनत्वमुक्तम् । प्राप्यप्राप्तृभेदनिषेधार्थं "ब्रह्म वेद ब्रह्मैव भवती " त्युपात्तम् । "तमेवे"ति प्रतिबन्धनिवृत्तेर्ज्ञानफलत्वं ज्ञापितम् । ज्ञानव्यतिरिक्तस्य कर्मादेरुपायत्वनिषेधश्चानेन सिद्धः "नान्यः पन्था" इति ह्यनन्तरवाक्यम्; एवं ज्ञानस्यैव मोक्षोपायत्वपरतर्कानुगृहीतस्पष्टार्थानेकवाक्योपादानेन "विद्यां चाविद्यां चे"तिसमसमुच्चयपरत्वेन परोक्ता श्रुतिश्चातदर्थेत्युक्तं भवति । तस्या एकत्वादस्फुटार्थत्वादतकोपेतत्वाच्च श्रुत्यन्तरविरोधेन वर्णनीयत्वात्, एवं ज्ञानस्यैव मोक्षोपायत्वे प्रमाणतया श्रुतय उपपत्तयश्च दर्शिताः ।

अथ यज्ञादिश्रुतेः कर्मापेक्षितत्वपरतां व्युदस्यति - यदपिचे त्यादिना । सिद्धान्ति-भास्कर-यादवप्रकाशानां

त्रयाणामपि कर्माभिमतमितीदृशं प्राधान्यं सूचयत्यपिशब्दः, समुच्चयपरवाक्यस्य श्रुत्यन्तरानुगुण्येन निर्वाहे सति यज्ञादिश्रुतिश्च निर्वाह्येति समुच्चयाभिप्रायश्चशब्दः, अपिचेत्यखण्डोयंशब्दो वा, तदानीमप्युक्तप्रकारेण समुच्चयपरः। यदुक्तं "यज्ञादिकर्मापेक्षा विद्या " इति, अनया वचनव्यक्तया समुच्चयेन विद्यापेक्षितं यत्कर्मोक्तमित्यर्थः । वस्तुविरोधः द्वैतवासनाजनकत्वमनित्यफलवत्त्वं श्रुत्यक्षरपर्यालोचना सन्प्रत्यार्थनिरूपणम् । चः समुच्चये । विविदिषोत्पत्तावुप-योगप्रकारमाह - अन्तः करणेति । न फलोत्पत्तौ न मोक्षोत्पत्तौ । "यज्ञेन दानेन तपसानाशकेन ब्राह्मणा विविदि-यन्ति" इति हि श्रुतिः, न तु मुच्यन्त इति भावः । अक्षरपर्यालोचना कथमित्यत्राह - विविदिषन्तीति श्रवणादिति । एवं च यज्ञादिश्रुतिपर्यालोचनया च ज्ञानकर्मणोः समुच्चयः प्रत्युक्तः, न फलोत्पत्ताविति फलशब्दस्य मोक्षे स्वार-स्यादेवं योजना कृता । यद्वा, यज्ञादिकर्मापेक्षाविधेति वचोभङ्गयाङ्गतयोपेक्षितं यत्कर्मोक्तमित्यर्थः । न फलोत्पत्तौ- न वेदंनोत्पत्तावित्यर्थः । विविदिषापेक्षया हि फलं वेदनम्, अन्यत्सर्वं पूर्ववत् । अस्यां योजनायां यज्ञादिकर्मापे-क्षाविद्येति निर्देशस्वारस्यमस्ति, अङ्गाङ्गिभावसूत्रस्मारकत्वादस्य निर्देशस्य । अथवा,यज्ञादीति प्रयाजादिवन्नि-ष्पन्नस्य करणस्य फलोत्पत्तिदशायामनुग्राहकतयाङ्गं यत्कर्मोक्तं तन्नोपयुक्तमित्यर्थः । न फलोत्पत्तौ न मोक्षोत्पत्तौ । करणभूतविद्यानुग्राहकत्वेन नोपयुक्तमित्यर्थः । अस्यां योजनायामङ्गाङ्गिभावसूत्रस्मारकनिर्देशस्य फलोत्पत्ताविति निर्देशस्य च स्वारस्यमस्ति विविदिषन्तीत्युक्तिरसिना जिषांसतीति बदिति यज्ञादेर्वेदनोपयोगित्वं स्यादिति शङ्कायां वेदनोत्पत्तौ हेतुत्त्वं कर्मण इतिकत्तर्व्यतात्वं करणत्वं चानुपपन्नमित्याह - विविदिषाया मित्यादिना वाक्यद्वयेन । तत्र शमादिभिः सह समुच्चयेन विकल्पेन चेतिकर्त्तव्यतात्वं प्रथमं व्युदस्यति विविदिषायामित्यादिवाक्येन । एवकारद्वयेन कर्मणः समुच्चयो विकल्पश्च व्युदस्यते, शमादीनामिन्द्रियव्यापारोपरतिरूपत्वेन यज्ञादिकर्मणस्तत्प्रवृत्तिरूपत्वे-नान्योन्यविरोधित्वान्न समुच्चय उपपद्यत इत्यभिप्रायेण शमादीनामेवेत्युक्तम् । तुल्यबलयोर्हि विकल्पः भूत्वात्मानं पश्येदिति - शमादीनामात्मदर्शनं प्रति साक्षात्साधनत्वस्य न्यायनैरपेक्ष्येण शीघ्रं प्रतिपन्नतया बलीयस्त्वात् । विविदिषन्तीति यज्ञादेरिच्छासाधनत्वेन स्वरसतः प्रतिपन्नत्वेपि स्वारस्यभङ्गेनासिना जिघांसतीत्यादिदृष्टान्तपर्या-लोचनरूपन्यायसापेक्षतया कर्मणो विद्यासाधनत्वस्य विलम्बेन प्रतिपन्नतया दर्बलत्वाच्च न विकल्प इत्यभिप्रायेणाह श्रुतिरेवाहेति । तथापि विविदिषापेक्षितत्वात् कर्म च ज्ञानोपयोगि, तत्कथमेतत्त्यज्येत, शमादिरूपादीयते? इति शङ्कायां कर्मणः शमादिवैषम्यमाह - अन्तरङ्गोपायतामिति । "भूत्वा पश्येत्" इत्यन्तरङ्गत्वं स्पष्टम् । विविदिषायाः पूर्वे हि कर्मोपयोगः, शमादि तु पश्चादप्युपयुज्यत इत्यभिप्रेत्य "जाताया"मित्युक्तम् ।

ज्ञानं प्रति कर्मणः करणत्वमपि नास्तीत्याह - तदेवमिति - करणत्वं सम्भवतीत्याशङ्कय निरस्यते, न त्वभ्युपगतत्वात् विशुद्धं मनो हि करणं "मनसा तु विशुद्धेन" इति श्रुतेः । तत्- उक्तेभ्यो हेतुभयः । एवं-समुच्चयेन विकल्पेन चेतिकर्त्तव्यतात्वेऽनुपपन्ने स्वर्गादिसाधनस्य कर्मणो विविदिषासाधनत्वानुपपत्तिपरिहारायानभिसंहित-फलशब्दः । विविदिषाया अपि तत्साध्यत्वेन फलत्वात्तस्या अनभिसंहितत्वव्यावृत्त्यर्थं - फलविशेषे त्युक्तम् । विविदिषासिद्धयर्थमिदानीमप्यनुष्ठानाय कर्मज्ञानापेक्षाशङ्काव्यावृत्त्यर्थं जन्मान्तर शब्दः । "अनेकजन्मसंसिद्ध" इति वचनादिदानीमप्यनुष्ठेयमित्याशङ्कापरिहारार्थः - शत शब्दः । कार्यकल्प्यं हि कारणम्, इदानीं विविदिषो-त्पत्त्यदर्शनेन जन्मान्तरशतानुष्ठानं कल्पनीयमितिभावः । तेन कर्मणा मृदितकषायस्य नष्टपापस्य । "कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः" कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते" इति हि स्मृतिः । एवं विविदिषोत्पत्तौ सत्यां ज्ञानोत्पत्तिकरणमाह - सदेवेति - सदेवेत्यादिकारणवाक्यम् "सत्यं ज्ञान"मिति शोधकवाक्यम्, सत्यज्ञानादि-वाक्यफलितव्यावृत्तिविशदीकरणाय - निष्कल मित्यादि वाक्यमुपात्तम् - अयमात्मा ब्रह्म - इत्यैक्यवाक्यम् ।

उपक्रमादिषङ्विधतात्पर्यलिङ्गोपेतमैक्यवाक्यं दर्शयति - तत्त्वमसीति । अस्मिन् वाक्ये ब्रह्मणा जीवविशेषस्यैक्यं श्रुतम्,"श्रुतमैक्यं सर्वात्मना"मिति ज्ञापनार्थमयमात्मा ब्रह्मेति वाक्यम् । इत्यादिवाक्यं ज्ञानोत्पत्तौ करणं,न कर्मेत्यर्थः। वाक्यजन्यज्ञानमविद्यानिवर्त्तकंचेत् श्रवणादिपूर्वकध्यानविधिवैयर्थ्यमित्याशङ्कयाह - वाक्यार्थेति । चः शङ्काव्या-वर्त्तकः । तेषां स्वरूपमाह - श्रवणं नामेति - प्रतिपादकानि-निष्पादनक्षमाणि । वाक्यजन्यज्ञानादिति ह्युक्तम् । एतद्विरोधि-आत्मैकत्वविद्याविरोधि । श्रवणादीन्येवंरूपाणि यानि स्युः, कथमेषां वाक्यार्थज्ञानोपयोगः? इत्यत आह- श्रवणादिभिरिति । वाक्यार्थज्ञानोत्पत्तिविरोधिनिरसनमुपयोग इत्यर्थः । इति-उक्तहेतोः, ज्ञानकर्मसमुच्च-याङ्गाङ्गिभावानुपपत्तिहेतुभ्य इत्यर्थः । एवंरूपस्य बन्धनिवृत्तौ कर्मनिरपेक्षवाक्यार्थज्ञानोपक्रमभूतस्य, न तु प्रासङ्गि-कार्थस्य । अवश्यापेक्षितम्-नियमेनापेक्षितम् । अपेक्षितं च किमित्यत आह- तच्चेति - कुत एतदपेक्षितमित्यत्राह-अनेन विनेति । जिज्ञासानुपपत्तेः-विचारानुपपत्तेः । अनुपपत्तिमुपपादयति - अर्थस्वभावादिति - कथमथर्स्वभावः? इत्थम्-नित्यानित्यवस्तुविवेकादनित्यसांसारिकफलभोगविरागो नित्यपुरुषार्थेच्छा च स्यात्ततः श्रवणादौ प्रवृत्तिः, मनोवधानहेतुतया तदुपयोगिनी शमादिसम्पत्तिरिति अर्थस्वभावादेव-पूर्वप्रकृतादेवेत्येवकाराभिप्रायः । ज्ञानस्यैवो-पायत्वं कर्मणोऽनपेक्षितत्वं चार्थस्वभावाद्धि पूवर्मुक्तम् । यद्वा "अनेन विना जिज्ञासानुपपत्ते"रिति शमाद्यथर्स्वभा-वादित्यर्थः । शमादि, पूर्ववृत्तमस्तु, कर्म च पूवर्वृत्तं स्यादित्यत आह - अर्थस्वभावादेवेति । येनार्थस्वभावेन शमादेः पूर्ववृत्तत्वं, तेनैवार्थस्वभावेनान्यस्य पूवर्वृत्तत्वनिषेध इति प्रथमस्यैवकारस्य भावः । पूर्ववृत्तान्तरस्य व्यावृत्त्यर्थं द्वितीय एवकारः । अत्रार्थस्वभावशब्देन शमाद्यर्थस्वभाव उक्तः, ज्ञानार्थस्वभावः कर्मार्थस्वभावश्चाभिप्रेतः, ज्ञानस्य कर्म-निरपेक्षोपायत्वस्वभावात् कर्मणो भेदावलम्बित्वेन विरुद्धस्वभावत्वाच्च शमादेर्निवृत्तिरूपत्वेन प्रवृत्तिरूपकर्माविरो-धिस्वभावत्वाच्च साधनचतुष्टयमेव पूर्ववृत्तम्; न त्वन्यदित्युक्तं भवति । इदमेव पूर्ववृत्तमिति ज्ञायते इति - इदमेव-शब्दावयोगान्ययोगव्यवच्छेदपरौ । इदंशब्दो हि साधन वतुष्टयपूर्ववृत्तत्वपरः, एवकारः कमर्व्युदासपरः, शमाद्यर्थ-स्वभावात्तदयोगव्यवच्छेदः । तस्माज्ज्ञानकर्मणोरर्थस्वभावाच्चान्ययोगव्यवच्छेदः ।

सकलविशेषप्रत्यनीकं ब्रह्म चेत् कथं संसारप्रवृत्तिः? कथं वाक्यार्थज्ञानादेवाविद्यानिवृत्तिः? अन्तःकरणस्य केन वा मालिन्यम्? कथं कर्मणा नैर्मल्यम्? तेचायोगान्ययोगव्यवच्छेदहेतुभूता अर्थस्वभावाः कथमिति शङ्काया-मुक्तार्थं सङ्कलय्य दर्शयन् शङ्काश्च परिहरति - एतदुक्तमिति - ब्रह्मस्वरूपाच्छादिकाशब्देन सकलविशेषप्रत्यनी-कत्वपि स्वरूपतिरोधानाद्भेददशर्नं सम्भवतीत्युक्तम् । भेदः ज्ञातृज्ञेयादिः । अपारमार्थिकं भेददर्शनमेव बन्धमूलं, न कर्मेत्यर्थः । कर्मोपि भ्रान्तिमूलकमिति भावः । यद्वा, अपारमार्थिकं भेददर्शनमेव, न सत्यभूतं किंचिदपीति भावः । तथा सति हि कर्मपेक्षा, बन्धःजन्मजरामरणादिः । बन्धश्चापारमार्थिक इति - अविद्यामूलापारमार्थिकभेददर्श-नकार्यत्वादिति भावः । ततः किं कमर्नैरपेक्ष्यस्येत्यत्राह - स चेति । अपारमार्थिकत्वादेवेति - पूर्वोक्तादेवापार-मार्थ्यात् कर्मनैरपेक्ष्यसिद्धिरित्येवकाराभिप्रायः । ज्ञानेनैव - न कर्मणेत्यर्थः । नह्मपरमार्थसर्पनिवृत्तेरज्जुज्ञानेन विना वैनतेयोपासनकर्मापेक्षा । एवं समसमुच्चयः प्रत्युक्तः ज्ञानं प्रत्यपि कर्मणो न साधनत्वमित्याह - निवर्त्तकं चेति । निवर्त्तकबोधः प्रमाणजन्य इति यावत् । प्रमाणजन्यशुक्तिज्ञानं हि रजतनिवर्त्तकम् । अत्र शमादेरितिकर्त्तव्यतात्वेन कर्मण इतिकर्त्तव्यतात्वमपि विरोधान्नेत्यभिप्रेतम् । ततः किमित्यत्राह - तस्येति । तस्य-कर्मनिरपेक्षस्य । एतस्य-अद्वैतविषयस्य । तदेतच्छब्दयोः प्रस्तुतवाचित्वाविशेषेपि दूरस्थान्तिकस्थविशेषणविशिष्टपरामर्शित्वं ह्युचितम् । अद्वैतविषयत्वे हेतुमाह - वाक्यजन्यस्येति । तत्त्वमस्यादिवाक्यजन्यत्वादद्वैतविषयत्वमित्यर्थः । कार्ये-मोक्षे । तर्हि कुत्रोपयोगः? इत्यत्राह- विविदिषायामिति । तुशब्देन करणेतिकर्त्तव्यतात्वव्युदासः । उपयोगः कथम् ? इत्यत्राह -

स चेति । पापमूलेत्यादिना अन्तःकरणनैर्मल्यद्वारेणेति पूर्वोक्तं विवृतं भवति । रजस्तमोनिबर्हणादिकं नास्मिन् वाक्ये श्रुतमित्यत्राह - इतीममिति । अभिप्रेत्यशब्देन शङ्कापरिहारः, इति#ेर्हेतौ । वस्तुविरोधादितिकर्त्तव्यतात्वकरणत्वा-द्यनुपपत्तिहेतुभ्य इत्यर्थः । इमम् उपयोगम्, रजस्तमोनिर्बहणसत्त्वविवर्द्धनरूपं परम्परयोपयोगमित्यर्थः । विविदिष-न्तीत्युक्तमित्येतदुक्तं भवतीत्यन्वयः । प्रकृतमुपसंहरति - अतः कर्मज्ञानस्येति । अतः हानार्थमुपादानार्थं च कर्म-ज्ञानस्यानपेक्षितत्वादित्यर्थः । अत्र व्याख्यातृभिरुक्तौ सङ्ग्रहश्लोकौ -

विरोधादप्रमाणत्वाच्चित्तशुद्धयुपयोजनात् । ज्ञानमात्रस्य हेतुत्वश्रुतेः सामर्थ्यतोऽपि च ।।

शमाद्यङ्गकताम्नानान्न धीकर्मसमुच्चयः । श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका ।। इति ।।

विरोधादिति कर्मणामनित्यफलतया भेदवासनाजनकतया च विरोधो विवक्षित सामर्थ्यत इति ज्ञानस्य मिर्थ्यार्थानिवर्त्तकत्वे कर्मनिरमेक्षत्वरूपं वस्तुसामर्थ्यं विवक्षितम् ।

राद्धान्तमारभते - अत्रोच्यत इति । अस्मिन् पूर्वपक्षे सिद्धान्त उच्यत इत्यर्थः । पूर्वपक्षोक्तेष्वर्थेष्वविरु-द्धांशमभ्युपगमेन प्रतिवदति - यदुक्तमिति - अविद्यानिवृत्तिः-प्रतिबन्धनिवृत्तिः, साध्यसाधनद्वित्वनिरासोऽभिमत इत्यर्थः । यः प्रतिबन्धनिरासः कर्मसाध्य उक्तः तस्य "तमेव विदित्वातिमृत्युमेती "त्यादिषु ज्ञानसाध्यत्वमुक्तम्, ब्रह्मप्राप्तिस्तु स्वतःसिद्धा । एवकाराभ्यां साध्यान्तरं साधनान्तरं च व्यावत्र्त्यते । यद्यप्यनिष्टनिवृत्तिरिष्टप्राप्तिश्च द्वयमस्ति, तथापीष्ठतम ब्रह्मप्राप्तेः स्वतःसिद्धायाः पृथमुपायसाध्यत्वाभावात् प्रतिबन्धनिवृत्तिरेव साध्या, स्वत एव सर्वसाक्षात्कारक्षमं ज्ञानं प्रतिबन्धके निवृत्ते सति ब्रह्मस्वरूपरूपगुणविभवादिकं सर्वं साक्षात्करोति । यथा,-सेतौ भग्ने जलं स्वयमेव गच्छति न केन चिन्नेतव्यं तद्वत्, यथाश्मानयने मार्गसमीकरणतत्प्रापणे उभे अपि पृथग्यत्नसाध्ये न तथेत्यर्थः । यद्वा, भावान्तरस्यैवाभावात्वादविद्यानिवृत्तिरेव ब्रह्मप्राप्तिरित्यर्थः । साध्यसाधनद्वित्वनिरासोभ्युपेतश्चेत् विप्रतिपत्तिविषयः क इत्यत्राह- अविद्येति - साधनस्वरूपविशेषे विप्रतिपत्तरित्यर्थः । किंरूपम् - किं कर्माङ्गत्वानर्हं भवदुक्तं ज्ञानम् उत कर्माङ्गत्वार्हमस्मदुक्तं ज्ञानमित्यर्थः । किंरूपमित्यभिप्रेतं विवृणोति - किमिति - किं वाक्या-दित्यादिना परमतं स्वमतं च वदति, न तु परमतविकल्पः । प्रथमं परपक्षप्रतिक्षेपः क्रियते, स्वपक्षस्थापनं तु पश्चा-दित्यभिप्रेत्याह - न तावदिति । न तु दूष्यशिरसोरन्यतरदूषणं क्रियते, कुत इत्यत्राह - तस्येति । विधानमन्त-रेणापीति - प्रमाणज्ञानं वस्तुतन्त्रं न पुरुषतन्त्रं कर्त्तुमकर्तुमन्यथाकर्तुं चाशक्यत्वात्, अतः पुरुषतन्त्रत्वाभावान्न तद्विधेयमिति तैरेवोक्तमिति भावः । वाक्यादेव-ब्रह्मस्रूपपरवाक्यादेवं । व्युत्पत्तिमन्तं पुरुषं प्रति न्यायानुगृहीतस्य वाक्यस्याथर्बोधकत्वं स्वतःसिद्धं, न तु विध्यधीनं तचछ्रवणे पुरुषस्य प्रवृत्तिश्च रागादेवेत्युपपादितम् । यद्यपि न रागात्, तथाप्यध्ययनविधिरेवाधीतकृत्स्नवेदवाक्यविचारे प्रवतर्क इति "प्रज्ञां कुर्वीते"त्यादिविधिर्निरर्थक एव । न च प्रमाणज्ञानस्य श्रेयः साधनत्वमलौकिकमिति ताद्रूप्येण तस्य विधेयत्व शुक्तिरूप्यादिभ्रमनिवर्त्तकज्ञानस्येव बन्ध-निवत्तर्कज्ञानस्य दृष्टार्थत्वाभ्युपगमात्; अतो विधिवैयर्थ्यम् । तेनासकृदावृत्तसाक्षात्कारभक्तिरूपत्वयावज्जीवा-नुष्ठेयत्वपराणां "यावन्न विमोक्ष्ये अथ संपत्स्ये" इत्यादीनां मुक्तेः शरीरपातानन्तरभावित्वपराणां नाडीविशेष-निष्क्रमणवादिनीनां मार्गपराणां चानेकश्रुतीनां नैरर्थक्यं प्रसज्येतेति एवमनेकश्रुतिविरोधस्य प्रदर्शनार्थं तस्य विधा-नमन्तरेणापीत्युक्तम् । अथ प्रत्यक्षविरोदं दर्शयति - तावन्मात्रेणेति - तावदंशस्ततोधिकेप्यस्तीति तद्य्वावृत्त्यर्थं तावन्मात्रेणेत्युक्तम् । बहुशास्त्रविरोधप्रत्यक्षविरोधरूपमिदं दूषणद्वयं वदता भगवताचापस्तम्बेनापि वाक्यार्थज्ञान-मात्रस्य मोक्षसाधनत्वं निरस्तम् "यथा बुद्धे क्षेमप्रापणं तच्छास्त्रेर्विप्रतिषिद्धं बुद्धेचेत् क्षेयप्रापणमिहैव न दुःखमु- पलभेत एतेन परं व्याख्यात"मिति । शास्त्रेरिति बहुवचनेन पर्वोदाहृतानेकश्रुतिविरोधोऽभिप्रेतः । विप्रतिषेधोधिकबलेन

प्रतिषेधः, न तु प्रकरणसमवत् तुल्यबलेन प्रतिषेधः, बहुशास्त्रविरोधः प्रबलतरः "भूयसां स्यात् बलीयस्त्वमि"ति-न्यायाभिप्रायेण विप्रतिषिद्धमित्युक्तम् । यत्तु परैरस्य दूषणस्य प्रतिवचनं द्वेधा कृतं तदनुभाष्य दूषयति - न च वाच्यमिति - वाक्यं ज्ञानोत्पत्तिमिदानीं न जनयतीति कश्चिन्निर्वाहः तमाह- भेदेति । इदानीं ज्ञानोत्पत्तिर्दृश्यत इति चेत् तत्परिहारायाह - अविद्यानिवर्त्तकमिति । पश्चादपि वाक्यादेवाविद्यानिवर्त्तकविशदज्ञानोत्पत्तिश्चे-दिदानीमेव जनयत्वित्यत्राह - भेदवासनायामिति प्रतिबन्धकाभावश्च सामग्रयन्तर्भूतः, अतः सामग्रीवैकल्यात् ज्ञानमनुत्पन्नम्, ध्यानादिविधय प्रतिबन्धकनिरासौपयिका इति भावः। अनेन शास्त्रप्रत्यक्षविरोधौ परिहृतौ भवतः, सनकादीनां ज्ञानाधिकत्वेन श्रुतिस्मृतिप्रसिद्धानामपि ज्ञानामुदयोऽनुपपन्न इति शङ्कायां निर्वाहान्तरमाह - जातेपीति अविद्याया एकत्वात्, प्रपञ्चप्रतिभासस्यैकस्य ब्रह्मणः स्वप्नरूपत्वाच्च - सर्वस्ये त्युक्तम् । न दोषाय अनिवर्त्तकत्वं दोषाय न भवति । ज्ञानोदयेपि भ्रमानिवृत्तौ दृष्टान्तं दर्शयति - चन्दैकत्वे इति अनिवृत्तं चेद् भेददर्शनं बन्धकं स्यात् इत्यत आह - अनिवृत्तमपीति । छिन्नमूलत्वेन - छिन्नाविद्याख्यमूलत्वेन अकार्यकरम् । यथा, दग्धः पटः पूर्वसं-निवेशेन प्रतीयमानोप्याच्छादनादिकार्यायोग्यः क्रमेण विनश्येत्, यथा कुलालभ्रमितं चक्रं भ्रामयितृव्यापारापरमेपि पूर्ववेगवशात् क्वचित्कालं स्वयमेव भ्रमत् क्रमेणोपरमते तद्वदिति भावः । अत्रेति करणस्य न वाच्यमित्यनेनान्वयः । प्रथमं ज्ञानामुत्पतिं्त दूषयति - सत्यामिति न्यायानुगृहीतवाक्यमेव सामग्री प्रतिबन्धिकाभेदवासनास्तीति चेत्तत्राह-सत्यामपीति - निवतर्या वासना निवर्क्षकोत्पत्तिप्रतिबन्धिका न भवतीत्यर्थः । आदिशब्दादिन्द्रियं गृह्यते, यथा चिरतरतिमिरवासितगुहायां प्रतीपो न नोत्पद्यते तस्मिन् दीपिते सद्य एव तमो विनश्येत्, यथा क्वचिद्देशे सर्प इति वाक्याच्चिरं भ्रमितोपि पुरुषो न तत्र सर्प इत्याप्तोपदेशाज्जानाति, यथा च वनं न दग्धमिति श्रुत्वा चिरं भ्रान्तस्य पश्चात्तत्र गत्वाङ्गारादिलिङ्गदर्शनेन दग्धमिति ज्ञानं जायते, यथा चिरं सर्पत्वेन वासिते वस्तुनि समीपगमना-नन्तरमिन्द्रियव्यापारेण रज्जुज्ञानं सहसैव जायते तद्वदित्यभिप्रायेणाप्तोपदेशलिङ्गादिभिर्बाधकज्ञानोत्पत्तिदर्शना-दित्युक्तम् । वेदान्तवाक्यं हि दार्ष्ठान्तिकम्, अत आप्तोपदेशस्य प्रथमोपादानम् अथ द्वितीयनिर्वाहकमनूद्य निरस्यति सत्यपीति । मात्रया - अल्पमित्यर्थः । भवता ब्रह्मव्यतिरिक्तकृत्स्नमिथ्यात्ववादिनेति भावः । भवतेति सूचितमर्थं विवृणोति - भेदेति । वासनाया अपि मिथ्यात्वाविशेषात्तस्या अपि ज्ञानेन निवृत्तत्वमवश्याश्रयणीयमिति भावः । किं ज्ञानोत्पत्तावपि वासना न निवृत्तेत्युच्यते, उत तन्निवृत्तावपि निर्हेतुकं भेददर्शनं भवति? इति शङ्काद्वयं हृदि निधाय प्रथमां परिहरति - ज्ञानोत्पत्तावपीति - ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्यात्वाद्वासनापि ज्ञानैकनिवृत्र्त्या, नोचेत्निवत्तर्कान्तरमपि ज्ञानत्वाविशेषान्न निवर्त्तयेदित्यर्थः । स्वयमेव वासना नश्यतीति चेत् तदयुक्तम् । स्वयमेवेति बाधकज्ञाननैरपेक्ष्यस्य विवक्षितत्वे वासनाया नश्वन्त्या अपि सत्यत्वप्रसङ्गात् स्वयमेव नश्यतीति स्वेनैव स्ववि-नाशकरणं विवक्षितं चेद्वधापातः । फलोपान्त्यकारणनाशादिनाश्यत्वेपि सत्यत्वप्रसङ्गोऽवर्ननीय एव कर्मशब्दादिषु तथैव वैशेषिकैर्वणितत्वात् तेषां च पारमार्थ्यदर्शनात् । किंच स्वप्रार्योत्पत्त्यादिवद् वासनाया मिथ्यात्वे तदुत्पत्तिस्थिती अपि मिथ्याभूते इति तद्विनाशोपि मिथ्याभूतः, अतो विनाशविषयभ्रमः पुनस्तिष्ठतीति निश्शेषभ्रमनिवृत्तिर्न स्यात् । अथ द्वितीयायां शङ्कां परिहरति - वासनेति - छिन्नमूलम्- छिन्नवासनाख्यमूलम् । बालिशभाषितमिति - अका-रणकार्योत्पत्तिप्रसङ्ग इत्यर्थः । यद्यकारणं भेददर्शनं भवति तर्हि मुक्तिरपि ज्ञाननिरपेक्षा स्यात्, श्रवणादिभिर्विना वाक्यार्थज्ञानं स्यात् अविद्यया विना जगद्भ्रमश्च स्यात्, अधिष्ठानेन विना अविद्यापि कार्यकरीस्यादिति भावः । ननु तर्हि कथं सत्यपि बाधकज्ञाने चन्द्रद्वित्वानिवृत्तिरित्याह - द्विचन्द्रेति । तुशब्दो विवक्षितार्थवैषम्यपरः । बाधक सन्निधावपि- तजज्ञान सन्निधावपि । तिमिरादिदोषस्य पारमार्थ्यात् ज्ञानाबाध्यत्वादितिभावः । तत्पारमार्थ्यं

व्यावहारिकतयापि परेणाभ्युपगन्तव्यम्, अन्यथा आप्तोपदेशानन्तरं रज्जुसर्पव्यवहारोच्छेदनद्दोषो मिथ्येति वचना-नन्तरं दोषनिवृत्त्या चन्द्रद्वित्वादिव्यवहारोच्छेदप्रसङ्गात् अतो दोषस्य विद्यमानत्वात्भेदभ्रमस्य सभूलत्वम्; अनेन बाधकसन्निधौ बाध्यसद्भावः कारणकार्योत्पत्तिश्चेति दूषणद्वयं दृष्टान्ते परिहृतं भवति । परमते तु दूषणद्वयं तिष्ठत्येव, तर्ह्यासोपदेशादिवैयर्थ्यमित्यत्राह - प्रबलेति । रजनुसर्पभ्रान्तिमत्पुरुषापेक्षया भयादिकार्यनिवृत्ति फलत्वेनोक्ता । आदिशब्दात् प्रसायनादि गृह्यते, द्विचन्द्रज्ञाने च स्वस्यादुष्टकरणत्वधीनिवृत्तिरौषधादिप्रवृत्तिश्च फलम्; ऐन्द्रजा-लिकभ्रमादिषु भ्रमहेतोः प्राबल्याद्वस्तुतो भ्रमत्वेप्यसत्यविषयत्वनिश्चयप्रतिबन्धः स्यादिति तद्य्वावृत्त्यर्थः प्रबलप्रमा-णशब्दः - निवर्त्तत इति - प्रतिभासे विद्यमानेपि विषयसत्यत्वाभावनिश्चयद्वारा भयादिनिवृत्तिहेतुराप्तोपदेश इत्यर्थः। यद्वा, यथावदर्थस्वरूपापरोक्ष्यप्रवृत्तिद्वारा भयादिनिवृत्तिहेतुरित्यर्थः । तुशब्दः शङ्काव्यावर्त्तकः । ज्ञानानुत्पत्तिपक्षस्य बह्वभिमतत्वात् सिंहावलोकितकेन तं दूषयति - अपिचेति - नायं सर्पो रज्जुरितिवद्दृष्टद्वारा हि भेदनिरासः, अदृ-ष्टमुखेन चेद् भेदसत्यत्वप्रसङ्गात्; अतो भूयस्या भेदवासनाया अलपीयस्या अद्वैतवासनया निरासोऽनुपपन्न इत्यर्थः । नन्वदृष्टद्वारा निवर्त्यत्वे निवर्त्यस्य सत्यत्वं नानिष्टम् । ध्याननिवृत्त्यसर्पवद्य्ववहारदशायां वासनायाः सत्यत्वाभ्युप-गमात्; उत्पन्ने तु ज्ञाने तदुत्पत्तिस्थितिविनाशाश्च बाधिताः स्युरिति । नैवम्; ध्याननिवत्र्त्यसर्पस्यानित्यत्वमेव, न कदाचिदपि बाध्यत्वं सिद्धमिति, तद्वदेवादृष्टनिवत्र्त्यवासनाया अपि वास्तवसत्यत्वप्रसङ्गात् । नन्वैक्यभावनारूपं निदिध्यासनं प्रतिबन्धनिवर्त्तकं चेदुक्तदोषः स्यात्, तत्तु न प्रतिबन्धनिवृत्त्यै किन्तु वाक्यार्थज्ञानोदयसहकारीति । नैवम्-स्मृतिरूपस्य निदिध्यासनस्यानुभवसापेक्षतया तस्य वाक्यार्थज्ञानजननसहकारित्वायोगात् । ननु यद्यपि परोक्षानुभवस्य ध्यानमनुपकारकं, तथापि निदिध्यासनसहकृतं वाक्यमपरोक्षधीहेतुः स्यात् । नैवम्, निदित्या-सनसहकृतत्वेपि शाब्दत्वादेवापरोक्षधीहेतुत्वायोगात् ज्योतिष्टोमवाक्यवत् एवं शास्त्रप्रत्यक्षविरोधात्तदविरोधनि-र्वाहानुपपत्त्या च वाक्यार्थज्ञानमात्रस्य निवर्त्तकत्वासंभवात् पारिशेष्याद् वाक्यार्थज्ञानादन्यदेव मुक्तयुपायज्ञानं विधित्सितमित्याह - अत इति - न केवलं पारिशेष्यम् । तदनुग्राह्याः श्रुतयश्च सन्तीत्याह । तथा चेति । विज्ञा-येत्यादिवाक्यद्वये ज्ञानसामान्यशब्दः वाक्यद्वयोपादानं च उपसर्गभेदेपि विधिप्रत्ययान्तत्वतद्राहित्ययोश्चार्थभेदो नास्तीति ज्ञापनार्थम् । ध्यायथेति - विशेषशब्दः । निचाय्येति - ध्यानस्य प्रत्यक्षसमानाकारता दर्शिता । "चायृ दर्शने" इति हि धातुः । उपासीत - इत्यनेन ज्ञानस्योपासन शब्दवाच्यत्वं सिद्धम् । अन्वेष्टव्य - इति मननशिरस्क-श्रवणोक्तिः । निदिध्यासितव्यः- विजिज्ञासितव्य इत्वुपादानेन सनन्तत्वेपीष्यमाणज्ञानपरं वाक्यमिति दर्शितम् । सनन्तपदद्वयस्योपादानं सामान्यविशेषशब्दत्वात् । इत्येवमाद्या इति - इतिशब्द उपात्तश्रुतिवाक्यस्वरूपमात्रपरः, एवंशब्दः सनन्तत्वविधिप्रत्ययन्तत्वतद्राहित्योपसर्गभेदादिप्रकारपरः ।

उदाहृतवाक्येषु ज्ञानसामान्यवाचिपदानां विशेषाकाङ्क्षायां वाक्यार्थज्ञानस्वरूपो विशेषः पर्यवसानभूमिः स्यादिति शङ्कानिवृत्त्यर्थमाह - अत्रेति । अत्र उपात्तेषु वाक्येषु । इत्येवमादिभिर्ध्यानं विधीयत इत्यन्वयः । निदि-ध्यासितव्य इत्यादिचेति - आदिशब्देन सनूरहितज्ञानविशेषवाचिवाक्यान्तरं विवक्षितम् ऐकार्थ्यं च सर्वशाखा-प्रत्ययन्यायात्, सह्यनुक्ताकांक्षितस्वीकारफलः, तत्र "छागोवा मन्त्रवर्णादिति" न्यायात् सामान्यवाचिशब्दानां विशेषपर्यवसानम् । "अनुविद्य विजानाति" "विज्ञाय प्रज्ञां कुर्वीते" त्यत्र केन पदेन वाक्यार्थज्ञानमनूद्यते? केन वा ध्यानं विधीयते? इत्यपेक्षायामाह - अनुविद्य विज्ञायेत्यनूद्येति । अनुवादः किमर्थः? इत्यत्राह - ध्यानोपकार-कत्वादिति । प्रज्ञां कुर्वीत विजानातीति वाक्यद्वयोपादानस्य पूर्वोक्तमेव फलम् । एवं स्मृतिष्वपि सामान्यशब्दः सति विशेषोपस्थापके तत्पर्यवसितो दृष्टः ।

निषिद्धभक्षणं जैह्वयमुत्कर्षेण वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ।।

इत्यत्र निषिद्धसामान्यस्य भक्षणसामान्यं पातित्यहेतुरवगतम् ।

छत्राकं विङ्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जगध्वा पतेद्द्विजः ।।

इत्यत्र निषिद्धविशेषस्य भक्षणविशेषः पातित्यहेतुर्दृष्टः । अत्र पूर्वग्रन्थश्चरमग्रन्थार्थे पर्यवस्यति । भवतु सामान्यशब्दो विशेषपर्यवसायी, अत्र तु ज्ञानसामान्यवाचिशब्दः श्रोतव्य इति श्रवणरूपज्ञानविशेषे पर्यवस्यत्वि-त्यत्राह । श्रोतव्य इति चेति - चः शङ्कानिवृत्तौ समुच्चये वा, विज्ञायानुविद्येतिवदयं चानुवाद इत्यर्थः । तत्सङ्क्षेपे-णोपपादयति - स्वाध्यायस्येति - आपातप्रतीत्या स्वतः प्राप्तिः श्रवणस्य स्यात्, मननस्य तादृशहेतुत्वाभावात्तत्र पय्रवसानमस्त्वित्यत्राह - श्रवणप्रतिष्ठार्थत्वादिति - चः पूर्ववत् - तस्माद्य्वानमेवेति - न तु वाक्यार्थज्ञानमित्यर्थः। ननु श्रोतव्य इति पुस्तकनिरीक्षणादिव्यावृत्त्यर्थो विधिः किं न स्यात्? नैवम् वेदान्तवाक्यानामपि पुस्तकनिरीक्षणा-दिव्युदासस्याध्ययनविधिसिद्धत्वात्, ब्रह्ममीमांसाया विलेखनपठनादेरप्रतिषिद्धत्वात्, गुरूपसत्तौ श्रवणशब्दस्य मुख्यार्थत्वाभावात्तस्याश्चात्राविहितत्वेपि "गुरुमेवाभिगच्छेदि"तिवाकयान्तरसिद्धत्वाच्च । ननु, न्यायोपेतवाक्य-मात्रानवगम्यकेवलोपदेशगम्यार्थविशेषश्रवणं श्रोतव्य इति विधेयमिति चेन्न, मननपूर्वभावितयाऽस्य श्रवणस्य न्यायानुगृहीतवाक्यजन्यज्ञानरूपत्वावगमात् शब्दस्वारस्याच्च । न च मन्तव्य इत्यालम्बनसंशीलनरूपमननविधिरिति वाच्यम्;-श्रवणशब्दस्य न्यायोपेतवाक्यज्यज्ञान इव मन्तव्यशब्दस्य तत्प्रतिष्ठापने प्रसिद्धिप्राचुर्यात्तस्य चापवादा-भावात्, उभयोरप्राप्तार्थद्वयविदायित्वे वाकयभेदप्रसङ्गात्, सति गत्यन्तरे विशिष्टविधानाश्रयणस्यान्याय्यत्वाच्च, विधिर्हि पदावगतेष्वर्थेष्वेकत्रोपक्षीणशक्तिर्लाघवाय तदितरेषु स्वतोऽनुवादमपेक्षमाणः प्रापकाभावाद्विशिष्टे तात्पर्यं भजते, अत्र त्वनुवादसम्भवान्न विशिष्टविषत्वकल्पनं युक्तम्, तस्मादनुवादः, अनेन श्रवणशब्दस्य उपायोपेयदशा-साधारणत्वादुपरि नियामकस्फुटार्थवाक्यान्तरेण सह व्याख्यास्यते । ननु न साधारणत्वं द्रष्टव्य इति तव्यतादर्शनस्य विधेयत्वप्रतीतेः, फलस्य चाविधेयत्वात् । उच्यते, निदिध्यासनवद्दर्शनस्य, च विधाने वाक्यभेदप्रसङ्गात्, निश्चि-तानुवादश्रवणमननसाहचर्याच्च विधित्वनिश्चयप्रतिबन्धादुपास्यदर्शनरूपत्वविषयप्रमाणादर्शने विशिष्टविधित्वाश्र-यणायोगात् "मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके परात्परं पुरिशयं पुरुषमीक्षते" इत्यादिभिः फलदशायां दर्शनस्य प्रामाणिकत्वाच्च श्रोतव्य इतिवत्तव्यदर्थमनादृत्य फलसमर्पकत्वं द्रष्टव्यशब्दस्य शङ्कितुं युक्तमिति अत उप-रिष्टाद्य्वाख्येयत्वम् । अथोपासनस्य विधित्सितत्वद्रडिम्ने सूत्रकोरोकिं्त दर्शयति - वक्ष्यति चेति - तादृ#ासूत्रासम्भ-वव्युदासाय सूत्रमुपादत्ते - आवृत्तिरिति - उपासनशब्दाश्रवणात् सूत्रस्य तत्परत्वमस्फुटमिति तस्यार्थमाह - तदि-तमिति । आवृत्तिद्वयत्रयव्यावृत्त्यर्थमसकृदिति सौत्रं पदम् । कस्यावृत्तिः? इत्यपेक्षायामाह - तदिदं वेदनमिति । तदिदं तृतीयाध्यायावसाने एवं मुक्तिफलानियमस्तदवस्थानधृतेरिति प्रस्तुतं मोक्षफलं ज्ञानमित्यर्थः । यद्वा,प्रज्ञां कुर्वीतेत्यादिसामान्यशब्दोक्तं वेदनप्रसकृदावृत्तिरूपमुपासनमित्यर्तः । अवगम्यत - इत्यन्तेनावृत्तिरसकृदिति सूत्रांशो व्याख्यातः, उपदेशादिति पदं व्याचष्टे - विद्युपास्योरिति - स्थलत्रयमुदाहरति - मन इति - मनो ब्रह्मेति वाक्यं "रात्रीरुपेया"दितिवत् "प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्ती "त्यत्र य एता रात्रीरिति सत्रानुवादवत् य एवं वेदेति पूर्वविहितोपासनस्य फलार्थमनुवादः । वितरणविक्रमादिहेतुभेदात् कीर्त्तियशसोर्भेदः । मनो ब्रह्मेत्युपासी-तेत्यादिप्रकरणे यस्तद्वेदेत्यादिप्रकरणे च वेदनोपासनवाचिशब्दयोर्विप्रकर्षात् प्रकरणैकत्वज्ञापनायात्रेत्युक्तम् - अनु म इति यां देवतामुपास्से एतां देवतामनुशाधि, अनुपूर्वः शासिर्विविच्य ज्ञापनार्थः, विविच्य ज्ञापयेत्यर्थः । "व्यवहिता-श्चे"ति सूत्रेण छन्दस्युपसर्गाणां व्यवहितप्रयोगः । न स वेदेत्यत्र सन्निकर्षादत्रशब्दाप्रयोगः । न स वेदेत्यस्य "अथ

योऽन्यां देवतामुपास्त" इत्येतद्वाक्यपूर्वकत्वादुपक्रमोपसंहारयोरुपासनशब्दः, मध्ये वेदनशब्दः, इदं च पूर्वस्मिन्वाक्ये उपक्रमोपसंहारदर्शनादित्येतेनाभिप्रेतम् । यस्तद्वेद तस्य ब्रह्मणो वेदिता यो रैक्वः, यत्स वेद तस्य रैकस्य वेद्यं यद्ब्रह्म, स वेदिता रैक एतद्वेद्यं च उभयं तव प्रयोक्तमित्यर्थः । सामान्यविशेषन्यायेन प्रकरणान्तरोक्तज्ञानसामान्यवाचिश-ब्दानां प्रकरणान्तरोक्तविशेषे पर्यवसायित्वं पूर्वमेव स्वयमेव हि भाष्यकारेण दर्शितम् । सूत्रव्याख्याने त्वेकैकप्रकरणे व्यतिकरेणोपक्रमोपसंहारदर्शनमुपदेशादिति पदस्यार्थत्वेनोक्तम् । उभयत्रोभयं हेतुत्वेन वाच्यम्, तथाप्यविस्तरा-र्थमेकैकमुक्तम्; अत एव हि चतुर्थाध्याये उभयमपि हेतुत्वेन वक्ष्यते । तदिदमित्यादिकं सूत्रव्याख्यानम् । अन्यथा तदितमपवर्गोपायतया विधित्सितं वेदनमिति नोच्येत, किन्तु ध्यानमुपासनमित्येवोच्येत, इतरथा #ृङ्खलितोक्ति-प्रकरणानौचित्यात्; पश्चादपि ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपमिति पूर्वप्रकृतध्यानशब्देन निर्देशात् पूर्वग्रन्थे ध्यानस्योपासनरूपत्वं विवक्षितं चेत् पश्चादुपासनमविच्छिन्नस्मृतिसन्तानरूपमित्युपासनशब्देनोच्येत । एवं प्रकृतसूत्रार्थे ऽवधृते पूर्वप्रकृतस्य ध्रुवानुस्मृतित्वमुपपादयति - ध्यानं चेति - वेनस्यासकृदावृतिं्त वदतः सूत्र-कारस्यायं भावः; यथा ज्ञानसामान्यवाचिनां शब्दानां विशेषपर्यवसायित्वेनासकृदावृत्तिरूपज्ञानपरत्वं सिद्धम्, एवं विशेषान्तरोपस्थापकेषु सत्सु तद्विशेषपर्यवसायित्वं न्याय्यमिति । तस्मात्सूत्रकारेण कण्ठोक्तं ज्ञानस्यासकृदावृत्ति-रूपतामुपपाद्य तेनाभिप्रेतं श्रुत्यन्तरोपस्थापितं विशेषान्तरमाह - ध्यानं चेति । अनेन ग्रन्थेनासकृदावृत्तेर्व्यवहि-तत्वशङ्कानिरासार्थं विजातीयप्रत्ययान्तराव्यवहितत्वमुक्तम् । अत्र विच्छिन्नाविच्छिन्नस्मृतिसन्ततिसाधारणो ध्यान-शब्दश्चेत्, ध्यानं चेत्यादिना विशेषान्तरे पर्यवसानमुक्तं भवति, ध्यानशब्दस्याविच्छिन्नस्मृतिसन्तत्यसाधारणत्वे ध्यानशब्दो व्याख्यातो भवति । अविच्छिन्नस्मृतिसन्ततित्वे वचनमाह - ध्रुवेति । स्मृतेर्ध्रुवत्वं नाम विजातीयप्रत्य-यान्तराव्यवहितसन्ततित्वम्, स्मृतिव्यक्तीनां क्षणिकत्वात् । अपवर्गोपायत्वश्रवणादिति - तत्रापवर्गोपायभूत-वेदनस्यासकृदावृत्तिरुक्ता । अत्रापि तदुपायत्वप्रत्यभिज्ञानात्तस्यैवाविच्छिन्नसन्ततिरूपत्वं विवक्षितमिति भावः । तस्याः दर्शनरूपत्वमुच्यते - सा चेति - न केवलं विषयैक्यतः साम्यम्, अपित्वापरोक्ष्येणापीत्याकारशब्दस्य भावः। हृदयस्य-मनसः ग्रन्थयो-रागादयः । यद्वा, मञ्चाः क्रोशन्तीति वद्धृदयशब्दस्तत्स्थजीवपरः, हृत्स्थानमयतीति व्युत्पत्तेर्वा, तस्य ग्रन्थिः-प्रकृतिसंबन्धः, हृदयशब्दोपलक्षितं वा शरीरं ग्रन्थिः । संशयशब्दो विपर्ययस्यापि प्रदर्श-नार्थः। देहात्माभिमानादिरूपाऽविद्येत्यर्थः । कर्माणि-पुण्यपापरूपाणि । अविद्यासञ्चितकर्मकृतप्रकृतिसम्बन्ध-निवृत्तिदर्शनसमानाकारोपासनेनेत्यर्थः । एवं च सतीति - उपायदशायां ज्ञानस्य दर्शनरूपत्वे स्फुटार्थवाक्यान्तर-सिद्धे सतीत्यर्थः । चशब्दो द्रष्टव्यशब्दस्य फलदशाभिप्रायत्वशङ्कानिवृत्त्यर्थः । दशर्नशब्दस्य ज्ञानसामान्यपरत्व-सम्भवेपि "द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वे विदितम्" इति । श्रवणादीनां पृथगुक्तत्वाद्द्रष्टव्य इतिपदं साक्षात्काररूपत्वपरम्, दृष्टशब्दश्च तत्तुल्यार्थः, स चोपायद-शाभिप्रायः, तस्मिन् दृष्टे हृदयग्रन्थिर्भिद्यते इत्युक्तत्वात् । "येनाहं नामृता स्याम्" "अमृतत्वस्य तु नाशास्ति वित्तेन" "एतावदेव खल्वरेऽमृतत्व"मिति पूर्वापरवाक्येषु फलस्य निर्दिष्टत्वात् प्रकरणान्तरोक्तस्य साक्षात्कारत्वस्येहापि वक्तुमपेक्षितत्वादपेक्षितविधेरनपेक्षितविधानदौर्बल्याच्च । ननु ध्रुवानुस्मृतेरेव दर्शनरूपत्वविधिरयुक्तः, ध्रुवानुस्मृति-दर्शनयोर्भिन्नप्रकरणाम्नातयोर्दहरशाण्डिल्यादिवेदनानामिव परस्परनिरपेक्षोपायत्वं हि प्रतीयते । नैवम्, द्रष्टव्यो निदिध्यासितव्यः इत्येकवाक्यविहितत्वात् । न च तत्रापि विद्याद्वयविधानं शक्यम्, रूपभेदाभावात्, तत एव वाक्यैकत्वे संभवति वाक्यभेदाश्रयणायोगात्, विद्यान्तराणामिव तयोर्विकल्पप्रसङ्गाच्च । तयोर्निरपेक्षोपायत्ववादिनो विकल्प इष्ट इति चेन्न, तस्याष्टदोषदुष्टस्य सति गत्यन्तरेभ्युपगन्तुमयुक्तत्वात् । दृश्यते हि व्रीहियवशास्त्रयोस्तस्या-

ष्टदोषदुष्टत्वम् । व्रीह्यनुष्टाने यवशास्त्रस्य प्रामाण्यत्यागः, अविद्यामानाप्रामाण्यकल्पनं, यवानुष्टाने तस्य त्यक्तप्रा-माण्यस्वीकारः स्वीकृताप्रामाण्यत्यागश्चेति यवशास्त्रे चत्वारो दोषाः, यवानुष्ठानवेलायामेव प्रथमप्रयोगे स्वीकृत-व्रीहिशास्त्रप्रामाण्यत्यागः, तदप्रामाण्यकल्पनं च तृतीयप्रयोगे व्रीहिषुपादीयमानेषु द्वितीयप्रयोगे स्वीकृतव्रीहि-शास्त्राप्रामाण्यत्यागस्त्यक्तप्रामाण्यस्वीकारश्चेति व्रीहिशास्त्रे चत्वारो दोषाः, इहापि यथासम्भवं दोषप्राप्तिः । यद्वा प्रतिपत्तिबाधो ऽनुष्ठानबादो ऽपूर्वबाधः फलबाधश्चेति एकैकशिरसि दोषचतुष्टयादष्टदोषदुष्टत्वम् । अतो गत्यन्तरे सति विकल्पायोगाच्च न ध्रुवानुस्मृतिदर्शनयोः पृथगुपायत्वम्, नापि समुच्चयः चशब्दाश्रवणात् दर्शपूर्णमासयोरिव द्वन्द्वनिर्देशाभावाच्च, परमात्मनोऽतीन्द्रियत्वात्तत्साक्षात्कारस्य चक्षुषा शब्दग्रहणस्येव प्रकान्तयोगं प्रत्यशक्यवि-धानत्वाच्च, शब्दविषययोः स्मरणचाक्षुषज्ञानयोरिव समुच्चयोनुपपन्नः । ननु परमात्मनो योगपरिशुद्धमनोग्राहत्वान्न तद्दर्शनस्य चक्षुषा शब्दज्ञानतुल्यतेति दर्शनोपायभूतस्य व्यापारस्य विधेयत्वोपपत्तेस्समुच्चयस्सम्भवतीति । सत्यम्; कस्तद्दर्शनोपायः? "ततस्तु तं पश्यते निष्कलं ध्यायमान" इति श्रुतेर्ध्यानमेवेति चेत्-तर्हि द्रष्टव्यनिदिध्यासितव्य-पदयोः पुनरुक्तिः स्यात्, उभयोरपि दर्शनोपायध्यानविधिपरत्वाविशेषात् । द्रष्टव्य इति दर्शनोपाये विहिते, क उपायः? इत्यपेक्षायां निदिध्यासनं विधीयते; द्रष्टव्यपदाभावे निदिध्यासनस्य तदुपायत्वं न ज्ञायत इति तज्ज्ञापनार्थत्वान्न पुनरुक्तिरिति चेन्न, द्रष्टव्यपदश्रवणेपि दर्शनस्य ध्यानसाध्यत्वाप्रतीतेः, न हि दशर्नकामनेति श्रूयते, तथा सति हि स्वर्गयागयोरिव दर्शनं प्रतिध्यानस्य दृष्टकिञ्चित्कारः, अतो न मानातरेण तयोस्साध्यसाधनभावावगम इति वैयर्थ्यम् । किंच ध्यानसाध्यं दर्शनं चेत् ध्यानदर्शनयोः समुच्चयश्च न सम्भवति, दर्शनंप्रति समुच्चये दर्शनस्य दर्शनं साधनमि-त्यात्माश्रयप्रसङ्गात् । न च मोक्षं प्रति समुच्चयसंभवः, ध्यानस्य स्वसाध्यदशर्नव्यवहितस्य मोक्षं प्रति दर्शनेन सहा-व्यवहितकिंचित्कारायोगात्, न हि यागनिष्पत्त्यर्थानां प्रोक्षणावघातादीनामपूर्वनिष्पत्तौ योगेन सह समुच्चयः, यदि साक्षात्कारं प्रति ध्यायेन सहाव्यवहितकिंचित्कारोपपत्तये दर्शनसमानाकारं ज्ञानान्तरं विधेयमित्युच्यते तदयुक्तम् स्वर्गं प्रति ज्योतिष्टोमव्रतस्येव निदिध्यानस्य साध्यं प्रति निरपेक्षोपायताप्रतीतिस्वारस्यभङ्गप्रसङ्गात् न हि "ज्योतिष्टोमेन स्वर्गकामो यजेते"तिवाक्यप्रतिपन्नज्योतिष्टोमस्य स्वर्गसाधनत्वं कर्मान्तरसापेक्षमवगम्यते । नचात्र चशब्दो द्वन्द्व-समासो वा, अतो दर्शनसमानाकारतारूपविशेषणस्य किं विशेष्यमित्याकाङ्क्षायां विशेष्यान्तरं च न दृश्यते, निदि-ध्यासनं च सन्निहितम् अतस्तदेव दर्शनसमानाकारतया विधित्सितमिति युक्तमभ्युपगन्तुम्, ततश्च वाक्यभेदोपि न स्यात्, निदिध्यासनस्य निरपेक्षोपायताप्रतीतिस्वारस्यं च न बाध्येत । ननु विशिष्टविध्याश्रयणं चेदुपदेशैकगम्यार्थ-श्रवणशुभाश्रयमननदर्शनरूपाविशिष्टनिदिध्यासनविधिः किं न स्यात्? नैवम्-चतुर्ष्वेशेषु तात्पर्यकल्पनादपि द्वयो-स्तत्कलपनस्य लघुत्वात् । लघुपक्षसम्भवे गुरुपक्षाश्रयणायोगाच्च, नचास्मिन्वाक्ये विधानाभावादौपदेशिकार्था-धिगमालम्बनसंशीलनयोरसिद्धिः शङ्कनीया, "तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्यबाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनि"रित्यन्यथासिद्धवाक्यान्तरसिद्धत्वात्; तद्धि निरूपयिष्यते "सहकार्यन्तरविधि"रिति-सूत्रेण, तस्माद्दर्शनसमानाकारत्वगुणविशिष्टनिदिध्यासनविधिः । नन्वेवमपि सर्वोपासनानां न दर्शनसमानाकार-निदिध्यासनरूपतासिद्धिः । "दृष्टव्यो निदिध्यासतव्य" इति वाक्यस्य मैत्रेयीब्राह्मणे सत्वात्, अतस्तत्र प्रतिपाद्य-स्यैवोपासनविशेषस्य तादृग्रूपता प्रतिपाद्या स्यात् । नैवम् "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदि-तमिति"तत्रत्येनैव वाक्येन जगत्कारणविषयसर्वोपासनानां दर्शनसमानाकारनिदिध्यासनरूपतावगमात्, नहीदं वाक्यं विद्याविशेषविदायकम्, कारणज्ञानेन सर्वज्ञातताप्रतिज्ञापरत्वात्, कारणमेव हि सर्वविद्योपास्यम्, "कश्च ध्येयः" इत्युपक्रम्य "कारणं तु ध्येय" इति कारणस्यैव ध्येयत्वविधानात् कारणविषयंचोपासनमत्र दर्शनसमानाकारनिदिध्या-

सनरूपमवगम्यते । अस्मिन्वाक्ये विज्ञातशब्दो हि निदिध्यासनपरः "द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" "दृष्टे श्रुते मते विज्ञाते" इति स्थानप्रमाणात् । अतोऽस्य वाक्यस्य सर्वविद्यासाधारणकारणमात्रविषयत्वात् जग-त्कारणोपासनं चेद्दर्शनसमानाकारनिदिध्यासनरूपमवगम्यते । किञ्च नानाविद्यानां विकल्पस्य वक्ष्यमाणत्वात्, गुरुपक्षविषयशास्त्रवैयर्थ्यप्रसङ्गेन गुरुलघुयत्नविकल्पायोगाद्वस्तुसामथंर्यस्य प्रकरणाद् बलीयस्तया च ध्रुवानुस्मृति-रूपत्वं, दर्शनरूपत्वं, वक्ष्वमाणभक्तिरूपत्वं, च सर्वविद्यासाधारणाकारा भवितुमर्हन्ति । नन्विन्द्रियजन्मनोऽनु-भवस्य ह्यपरोक्षत्वं तत्कथं स्मृतेः संभवतीत्यत्राह - भवति चेति । भावना-वासना दर्शनरूपता-दर्शनसमानाकारता "वृक्षे वृक्षे च पश्यामी "त्यादिष्वपि दर्शनसमानाकारत्वं स्मृतेश्च दृष्टमिति भावः, तच्च विशदतरावभासरूपत्वं, नचैतदनुभवासाधारणं स्मृतेरपि तत्सद्भावस्य प्रामाणिकत्त्वात् । ननु दर्शनसमानाकारत्वविधानमयुक्तं, दर्शन-वाचिशब्देन तत्समानाकारोपस्थापनस्यामुख्यत्वात् "न विधौ परः शब्दार्थ" इति न्यायविद इति चेन्न-तैरेव "दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेते"त्यत्र दर्शपूर्णमासशब्दयोर्लक्षणया, श्येनादिवाक्ये श्येनादिशब्दानां गौण्या वृत्त्या, कर्मनामधेयत्वाभ्युपगमात् "अर्द्धमन्तर्वेदि मिनुयादर्द्धे बहिर्वेदी "त्यत्रापि मध्यदेशलक्षणाया अङ्गीकृतत्वाच्च, विश-दतरत्वस्य फलरूपत्वादपुरुषतन्त्रस्य कथं विधान?मिति चेन्न आज्यावेक्षणस्येव विधानोपपत्तेः । तत्राज्यसाक्षा-त्कारहेतुभूतव्यापारविषयो विधिरिति चेन्न-इहापि विशदतरत्वावहस्मृतिसंततिविषयमनोव्यापारविधिरित्युपपन्नम् । अथ सूत्रकाराभिप्राययिदां वचनं दर्शयति - वाक्यकारेणेति । एतत्सर्वमिति - सूत्रकारेण कण्ठोक्तमभिप्रेतं चेत्यर्थः प्रपञ्चितमिति - पूर्वपक्षसिद्धान्तरूपेणोक्तमित्यर्थः । प्रपञ्चं न वेदनमुपासनं स्यादित्यादिवाक्यचतुष्टयेन वाक्यमेकैकं व्याचष्टे - सर्वासूपनिषत्स्विति - न कैवलं छान्दोग्यं इत्यर्थः । मोक्षसाधनतया विहितं वेदनमिति घटादिज्ञानव्या-वृत्तिः । विहितमित्यनूदितश्रवणादिव्यावृत्तिः । अस्यार्थस्य पूर्वपक्षसिद्धान्तरूपेण स्फुटीकरणार्थं सकृत्प्रत्ययं कुर्या-दिति वाक्यश्रवणेन वेदनमुपासनं स्यादिति वाक्यस्य पूर्वपक्षपरत्वशङ्काव्यावृत्त्यर्थं च सकृदित्यादिकं व्याचष्टे -सकृदिति - सकृदित्यादिवाक्यमेव पूर्वपक्षपरं न तु वेदनमुपासनं स्यादितिवाक्यम् अनन्तरमेवोपासनरूपत्वस्य सिद्धान्तितत्वादिति भावः । तथा सिद्धान्तितत्वं दर्शयति - सिद्धं त्विति - सिद्धन्तु सिद्धान्तस्त्वित्यर्थः । यद्वा वेदमुपासनं सिद्धमित्यर्थः । उपासनशब्दादित्येतद्य्वाचष्टे - वेदनमसकृदावृत्तमिति - अस्याविच्छिन्नस्मृतिसन्ता-नरूपत्वं सूत्रकाराभिप्रेतं वाक्यकारकण्ठोक्तं दर्शयति - उपासनं स्यादिति - दर्शनात् लोके दर्शनात् । निर्वचनात्-श्रुतिवाक्यात् -तस्यैवेति - मोक्षसाधनतया विहितस्येत्यर्थः । उपासनरूपस्येति हेतुगर्भम् उपासनरूपत्वात्, उपा-सनशब्दवाच्यत्वादसकृदावृत्तस्येत्यर्थः । असकृदावृत्तं ज्ञानं ह्युपासनम् एवमविच्छिन्नस्मृतिसन्ततिरूपत्वमुपपादितम् ।

सूत्रकारकण्ठोक्तमसकृदावृत्तिरूपत्वं तदभिप्रेतं ध्रुवानुस्मृतित्वं च वदतो वाक्यकारस्यायं भावः,-एतत्तुल्य-न्यायतया विशेषान्रोपस्थापकवाक्ये सति वेदनादिशब्दास्तत्पय्रन्ताः स्युरिति, तस्मात् पूर्वोक्तं दर्शनसमानाकार-त्वमपि वाक्यकाराभिप्रेतमित्यभिप्रयन्नाह - सेयमिति । सेयम्-असकृदावृत्तिरूपा, ध्रुवानुस्मृतिरूपा चेत्यर्थः । दर्शनशब्दस्यार्थदर्शी तत्त्वदर्शीत्यादिप्रयोगात् परोक्षापरोक्षसाधारण्यमाशङ्कयाह - दर्शनरूपता च प्रत्यक्षता-पत्तिरिति । प्रत्यक्षसमानाकारतापत्तिरित्यर्थः । "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्" "आत्मा वाऽअरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति श्रवणादिपरोक्षज्ञानपूर्वसूत्रेष्वपि पृथङ्निर्देशादिति भावः । सूत्रकारवाक्यकारयोः कतिपयविशेषं वदतोः सति विशेषान्तरोपस्थापके तत्पर्यवसायित्वस्याभिप्रेतत्वाच्छØत्यन्त-रसिद्धं विशेषान्तरमस्तीत्याह - एवमिति । अनेन श्रवणादीनां मुक्तयुपायत्वनिषेधान्नोपासनस्य मोक्षोपायत्वमिति शङकाव्युदासश्च भवति । एवम्-उक्तेन प्रकारेण सामान्यविशेषन्यायेन प्रत्यक्षतापन्नामित्यर्थः ।अपवर्गसाधन -

भूतामिति - प्रतीकोपासनव्यवच्छेदः । नायमात्मेति - प्रवचनशब्दे मननं लक्षयति, मननफलत्वात् प्रवचनस्य, मननस्याचार्यप्रवचनफलत्वाद्वा, प्रोच्यतेनेतेति करणव्युत्पत्त्या वा प्रवचनं मननं, मेघा निदिध्यासनं, परिशेषात्, अस्मिन्वाक्ये श्रवणादीनामनुपायत्वं प्रतीतं ध्रुवानुस्मृतिविशेषणत्वेन न किंचित्प्रतिपन्नम् । अतस्तद्य्वाचष्टे - अनेनेति केवलश्रवणमनननिदिध्यासनानां वक्ष्यमाणविशेषविरहितानामित्यर्थः । यथा "न पृथिव्यामग्निश्चेतव्य" इत्यत्र हिरण्योपधानरहितपृथिव्यां चयनं निषिध्यते, न तु पृथिवीमात्रे-तद्वदिति भावः । विवक्षितं विशेषं वाक्यतात्पर्य-निरूपणेन दर्शयिप्यन्वाक्यस्यार्थान्वयं दर्शयति, यमेवैष आत्मा वृणते तेनैव लभ्य इत्युक्तमिति । वरणीयेन लम्योऽस्तु, ततः कथं ध्रुवानुम्मृतेर्विशेषितत्व?मिति शङ्कायां तद्दशर्यितुं लोकसिद्धप्रतीतिमाह-प्रियमत एव हीति । प्रीतिविषयमात्रस्य न वरणीयत्वं, किन्तु स्वयमुपस्थितस्य स्वीकार एव, अतस्तद्य्वावृत्त्यर्थं प्रियमत इत्युक्तम् । ततः किमित्यत्राह - यस्येति । यम्योपासकस्यायं परमात्मा निरतिशयप्रीतिविषयः स एवास्य परमात्मनो निरति-शयप्रीतिविषयो भवति, चेतनत्वे सति भगवता वरणीयत्वं भगवति निरतिशयप्रीतिमत एव । यद्वा स्वतः प्रियत्वं वरणीयत्वं च स्वस्मिन् प्रीतिमत एव, पुण्यक्षेत्रादिषु भगवतः प्रीतिः स्वस्मिन् प्रीतिमत्पुरुषवरणार्था, पत्नपुष्प-फलादिषु तत्सम्बन्धनिबन्धना । स एवेत्येवकारेण केवलश्रवणादिमद्य्वावृत्तिः । भगवति प्रीतिमत एव भगवत्प्री-तिविषयत्वमिति कथमवगम्यते? इत्यपेक्षायामत्र प्रमाणतया स्मृतिवचनमर्थोपन्यासपूर्वकं दर्शयन्वरणप्रकारमपि विवृणोति - यथेति - अयम्-भगवति निरतिशयप्रीतिमान् । प्रियमतः- निरशियभगवत्प्रीतिविषयो भवन्नित्यर्थः । ददामि बुद्धियोगं तमित्यस्यार्थविवक्षया स्वयमेव भगवान् प्रयतत इत्युक्तम्, अनेन वरणप्रकारो दर्शितः । भगवतै-वोक्तमित्येवकारेण भगवदाप्यतिशयः सूचितः । सततयुक्तानां-सततयोगं काङ्क्षमाणानाम "आशंसायं भूतवञ्चे"ति कर्तरिक्तः, प्रीतिपूर्वकं ददामीत्यन्वयः । अनेन परस्परविषयप्रीतिरुपास्योपासकयोर्दशिर्ता । सततयुक्तशब्दार्थस्फु-टाकरणायाह - प्रियो हीति । अत्यर्थम्-अतिक्रान्ताभिधेयं, प्रियत्वं वाचामगोचरमित्यर्थः । ध्रुवानुस्मृतिं विशि-नष्टीति हि पूर्वमुक्तम् । अत्र यो भगवति प्रीतिमान् भवतितस्मिन्नुपासके भगवतः प्रीतिमत्त्वमुक्तम्, तत्कथं ध्रुवा-नुस्मृतेर्विशेषित्वम् ? इत्यत आह-अत इति । अतः -उक्तार्थस्य लोकस्मृतिभ्यां सिद्धत्वादित्यर्थः । यद्वा, ध्रुवा-नुस्मृतिवचनाद्वरणीयत्ववचनाद्वरणीयस्य च भगवति निरतिशयप्रीतिमत्त्ववचनाच्चेत्यर्थः । साक्षात्काररूपा स्मृति रित्यनेन पूर्वोक्ताकारविशिष्टाया एव विशेषान्तरमिति दर्शितम् । स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रियेति । अर्थेनैव विशेषो हि निराकारतया धियामिति भावः । स्वयमप्यर्थप्रिया-अनुभूयमानोऽनुभव इतिवदयं निर्देश औप-चारिकः, अत्यर्थप्रीतिरूपेत्यर्थः । यद्वा, अत्यर्थप्रिया- अत्यर्थानुकूलरूपा, स्मर्यमाणस्य भगवद्विषयस्य निरवधिक-निरूपाधिकानुकूलत्वेन तद्विषयानुस्मृतिरपि हि निरतिशयानुकूला भवति । यद्वा ध्रुवानुस्मृतिः स्वयमत्यन्तानुकूल-त्वादयुक्तावस्थायामपि प्रीतिरूपज्ञानेन प्रतिसन्धीयत इति प्रिया, अत एव हि "या प्रीतिरविवेकाना"मित्यादिना सा प्रार्थ्यते, प्रीतिरूपध्रुवानुस्मृतेरपवर्गोपायत्वमुक्तम्, अन्यत्र भक्तेरुपायत्वं दृश्यते, कथमनयोरैकाथ्यर्मित्यत्राह - एवंरूपेति । यद्वा "शेमुषी भक्तिरूपे"ति भक्तिरूपज्ञानस्योपायत्वं प्रागुक्तम्, कथमिदानीं प्रीतिरूपध्रुवानुस्मृतेरु-पायत्वं प्रतिपाद्यते ? इत्यत्राह -एवंरूपेति । एवंरूपा-साक्षात्कारत्वप्रीतिरूपत्वपर्यन्ता ध्रुवानुस्मृतिरेव भक्ति-शब्दवाच्येत्यर्थः । कुत इत्यत्राह - उपासनपर्यायत्वादिति । उपासनादिशब्दानां भक्तिशब्दस्य चैकार्थवृत्तित्वं विवक्षितम्, न तु घटकुम्भयोरिव पर्यायत्वम् । एकार्थवृत्तित्वं च "सेवा भक्तिरूपास्ति"रिति नैघण्टुकोक्तेरेव गम्यते, "स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते । भज इत्येष धातुर्वे सेवायां परिकीर्त्तितः । तस्मात्सेवा बुवैः प्रोक्ता भक्तिशब्देन भूयसी " इत्यादि चानुसन्धेयम् । यद्यपि साक्षात्काररूपत्वभक्तिरूपत्वादिपराणां वाक्यानां विद्याविशेषविषय -

प्रकरणपरिगृहीतत्वेपि सर्वोपासनसाधारणत्वं लघुगुरुयत्नविकल्पानुपपत्तेः प्राप्तं, तथापि प्रपदने तु लघुगुरुयत्नवि-कल्पानुपपत्तिरूपन्यायो वचनबलप्रतिक्षिप्तः । न हि वचनविरोधे न्यायः प्रभवति, वचनविरोधाभावादुपासनेषु तस्य प्रवृत्तिः, वेदान्तेषुपासनपराणां वाक्यानामैकार्थ्यसिध्द्यर्थं भक्तिदशापन्नस्योपासनस्यैवापवर्गोपायवेदनत्वमुक्तम्, स्मृतिवचनप्रदर्शनं च श्रुत्यर्थवैशद्याय कृतम् । इदानीं तु श्रुतिस्मृत्योरैकार्थ्येन मुक्तयुपायवेदनस्य भक्तिरूपोपास-नत्वमुपपाद्यते - अत एवेति । अतएव-अपवर्गोपायवेदनस्य भक्तिरूपोपासनत्वादेवेत्यर्थः । "तमेव विदित्वे"ति वाक्यं श्वेताश्वेतरोपनिषदि श्रूयते, तत्र "तस्मात्सर्वगतः शिव" इति शिवशब्दग्रहणाच्छिवस्य परमात्मत्वविषय-त्वभ्रमः कस्यचिन्मन्दधियः स्यादिति तन्निवृत्त्यर्थं "वेदाहमेतं पुरुषं महान्तम्" "महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवत्तर्क" इत्युपक्रमोपसंहारवगतपरमपुरुषपरैव सोपनिषदिति पुरुषसूक्तैकार्थ्यं दर्शयितुं तमेवं विद्वानिति वाक्यमुपात्तम्, तमेवं विद्वानिति वाक्येन नान्यःपन्था इति परमपुरुषवेदनव्यतिरिक्तोपायनिषेधः कृतः, नाहं वेदैरित्यादिना तद्भक्ति-व्यतिरिक्तोपायनिषेध उक्तः, उभयोरप्युपबृंहणोपबृंहणीयवचनयोः प्रमाणतमत्वेन सर्वाविगीतयोरैकार्थ्यं वेदना-दिशब्दानां भक्तिपर्यन्तत्वे सिध्द्यतीति भावः । उपायान्तरनिषेधकण्ठोक्तया ज्ञानदर्शनप्राप्तीनां भक्तिसाध्यत्वकण्-ठोक्तया च नाहं वेदैरिति वचनमुपात्तम् । ननु "भक्तया मामभिजानाति" "ततो मां तत्त्वतो ज्ञात्वा विशते तदन-न्तर"मिति भक्तिजन्यज्ञानस्यैवाव्यवहितोपायत्वमवगम्यते, न तु भक्तेरिति शङ्का च नाहं वेदैरित्यनेन परिहि#ृता भवति । अत्र ज्ञानदशर्नयोरिव प्राप्तेरपि भक्तिसाध्यत्वावगमात् भक्तया प्रवेष्टुं च शक्य इति ह्यन्वयः । भक्तया मामिति वचनेपि ततो मां विशत इति तच्छब्दपरामृष्टाया भक्तरेव प्राप्त्युपायत्वमवगम्यते तत इति भक्तिपरामर्शाभासे तद-नन्तरमित्यनेन पौनरुक्तयप्रसङ्गात्, अतश्च भक्तिरेवाव्यवहितोपायः "पुरुषः स परः पार्थे" त्यत्र च भक्तया लभ्यइति भक्तेः प्राप्तिसाधनत्वं स्वरसतोवगम्यते । अनेन पुरुषशब्दप्रत्यभिज्ञापितपुरुषसूक्तप्रतिपाद्यवस्त्वैक्यवत् तत्प्रतिप-न्नोपायैक्यं न्याय्यमिति सूचितम् ।

अस्त्वेवं वेदनस्य भक्तिरूपोपासनत्वसिद्धिः, ततः प्रकृतस्य कर्मापेक्षितत्वस्य किमायात ? मित्यत्राह-एवमिति । एवंरूपायाः-आपरोक्ष्यप्रीतिरूपत्वविशेषणविशिष्टायाः । वाक्यकारसूत्रकाराभ्यामभिप्रेताः कण्ठोक्ताश्च मोक्षोपायज्ञानावस्थाविशेषाः कर्मसाध्या इति भावः । ध्रुवानुस्मृतेः साधनानीति - यथा कासिना जिघांसतीत्यत्रा-सेर्हननसाधनत्वं न त्विच्छासाधनत्वं, तथा यज्ञेन विविदिषन्तीत्यत्रापि विद्यास्मधनत्वमेवोक्तं न तदिच्छासाधनत्वम्, यज्ञादेर्वेदनेच्छासाधनत्वेन विनियोगायोगादितिभावः । तथा हि सर्वेषां पुरुषाणामवान्तरसाध्योपायो प्रवृत्तिः परम-साध्येच्छया विना नोपपद्यते, यथा यायाद्युपायभूतद्रव्यार्जनादौ प्रवृत्तिः, यायादिसाध्यापूर्वादिविषयेच्छया विना नोपपद्यते; तथा इच्छासिध्द्यर्थमनुष्ठानमिच्छासम्पाद्यवेदनेच्छया विना नोपपद्यते; अतो वेदनेच्छायां जातायां वेदनो-पायभूतेच्छासिध्द्यर्थानुष्ठानं, तस्यां जातायां च तदर्तमनुष्ठानमनपेक्षितमिति तदनुष्ठानविधिवैयर्थ्यं स्यात् । किंच, स्वसिद्धिस्मपेक्षा त्वसिद्धिरित्यात्माश्रयः, वेदनेच्छया इच्छासिध्द्यर्थकर्मानुष्ठानम् इच्छासिध्द्यर्थकर्मानुष्ठानाद्वेदने-च्छासिद्धिरित्यन्योन्याश्रयणं वा, अतो विविदिषासाधनत्वं कर्मणां न युक्तम् । नन्विच्छासिध्द्यर्थकर्मानुष्ठानस्या-त्मानयादिग्रस्तत्वे क्वचिदपीच्छा न सम्भवेत् इच्छाहेतुभूतकर्मानुष्ठानायोगात् । न चेच्छाया विषयवैलक्षण्यज्ञान-मात्राधीनत्वं वेलक्षण्यज्ञानेपि कस्वचिदिच्छानुत्पत्तिदर्शनात्; अतः कस्यचिदिच्छोत्पत्तेः कमर्हेतुकत्वमाश्रयणीयं तच्च तवानुपपन्नम्, नैवम्-भोगादृष्टोद्बोधितपूर्ववासनासचिवाद्विषयवैलक्षण्यज्ञानादिच्छोत्पत्त्युपपत्तेः, न चाज्ञात-सुकृतवशाद्धर्मरुचिवद्यज्ञादिना वेदनेच्छासिद्धिरिति वाच्यम्; बह्वर्थव्ययायाससाध्यानां यज्ञादीनामज्ञातसुकृतरू-पत्वासंभवात्, यज्ञेन विविदिषन्तीति वाक्यस्य ह्यर्थश्चिन्त्यते, अतो बुद्धिपूर्वकमेव यज्ञाद्यनुष्ठानं तत्र मोक्षोपायवे-

दनेच्छाया अभावे बह्वर्थयत्नसाध्यकर्मणां फलान्तराभिसंधिपूर्वकत्वनियमान्न विविदिषां साधयति फलान्तराभि-संधिविधुरं तु यज्ञादिकं वेदनेच्छाया विना नोपपद्यते, प्रयोजनानुद्देशेन प्रेक्षावतः प्रवृत्त्ययोगात् प्रकृष्टप्रयोजनत-दुपायेच्छाविरहे क्षुद्रप्रयोजनपरित्यागायोगाच्च, अतोऽवान्तरसाध्येच्छासिध्द्यर्थमनुष्ठानं परमसाध्यवेदनेच्छया विना नोपपद्यत इति स्वसिध्द्यर्थकर्मानुष्ठानस्य स्वसिद्धिसापेक्षत्वादात्माश्रयादिदोषः स्यादेव - अभि धास्यत इति - तत्रोपपादयिष्याम इत्यर्थः । विविदिषासाधनत्वे यज्ञादेरात्माश्रयादिदोषाभावमभ्युपगम्याह - यद्यपीति । तस्यैव इच्छाविषयभूतस्य । ध्यानरूपस्येति वाक्यार्थज्ञानव्युदासः । ध्यानस्याप्येकदिनानुष्ठेयत्वव्युदासार्थमाह - अहरह-रिति । अहरहरनुष्ठानफलमाह - अभ्यासेति । अहरहरनुष्ठानेपि मासर्तुसंवत्सराद्यवधित्वव्यावृत्त्यर्थमाह - आप्र-याणादिति । आप्रयाणादनुवर्त्तमानत्वेपि एकद्वित्रिदिनान्तरितव्यावृत्त्यथर्महरहरनुष्ठीयमानस्येत्युक्तम्, तत्रापि स्मृतिविच्छेदव्युदासार्थं ध्यानरूपस्येत्युक्तम् । तदुत्पत्तये विविदिषोत्पत्तये । वेदनस्याव्यवहितप्रकृतत्वेप्यर्थवशा-त्तच्छब्दो विविदिषापरः, विविदिषासाधनत्वं ह्यभ्युपगम्योच्यते । आप्रयाणादहरहरुपासनानुवृत्तौ यावज्जीवं कर्मणोपेक्षितत्वे च किं प्रमाणमित्यत्राह - वक्ष्यति चेति । चः शङ्कानिवृत्तौ । सूत्रसन्दर्शने तद्विषयभूतश्रुतिवाक्यमपि दर्शितं भवतीत्यभिप्रायेणोपासनानुवृत्तिपरं सूत्रं दर्शितम् - आप्रयाणादिति - "स खल्वेवं वर्त्तयन् यावदायुष"मिति श्रुतिः । यावच्छब्दस्य साकल्यार्थत्वात् अहरहरनुष्ठानसिद्धिः, तावत्कर्मापेक्षायामाह - अग्निहोत्रेति । आश्रमधर्मा-णामाश्रमशेषत्वेपि । विद्याङ्गत्वमप्यस्तीत्याह - सहकारित्वेन चेति । इत्यादिषु सूत्रेषु इममर्थं वक्ष्यतीत्यर्थः । उक्तं कर्मणो विद्याङ्गत्वमुपासनस्य शमाद्यङ्गत्वविरोधान्नोपपद्यत इत्याशङ्कय विरोधं परिजिहीषुस्तद्विषयश्रुतिवाक्य प्रदर्शनेनोप्रमाणतां च निरीचिकीषुमाह - वाक्येति । सूत्रकाराभिप्रायज्ञैरप्येवमुक्तमिति भावः । ध्रुवानुस्मृतिशब्देन तल्लब्धिरित्यत्र तच्छब्दो व्याख्यातः । विवेकादिभ्य एव न तु केवलकर्मणा केवलशमादिना वेत्यर्थः । वाक्यकारग्रन्थ उपादीयते - तल्लब्धिरिति । उपासनं स्याद् ध्रुवानुस्मृतिरिति हि प्रकृतम्, अतो ध्रुवानुस्मृति लब्धिरित्यर्थः । विवे-कविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्य इति द्वन्द्व समासः, स चेतरेतरयोगार्थे एप्यन्यतमेन तल्लब्धेर्दुष्क-रत्वात् समुच्चये चात्र सम्भवात् , एवं विवेकादिविधायिनां वाक्यानां समुच्चये तात्पर्यमिति दर्शयितुमितरेतरयोग-द्वन्द्वेन वाक्यकारनिर्देशः । ननु समुच्चयादर्थान्तरमितरेतरयोगः, तत्कथमितरेतरयोगद्वन्द्वेन समुच्चयलाभः । उच्यते; अन्वाचयसहपठितात् समुच्चयाद्विकल्पप्रति सम्बन्धिसमुच्चयोर्थान्तरम्, एकस्मिन्नेव कार्ये मिथो निरपेक्षसाध-कानामन्वयोन्वाचयसहपठितः । विकल्पसमभिव्याहृतसमुच्चयस्त्वेकस्मिन् कार्ये मिथः सापेक्षाणामन्वयः, स एव इतरेतरयोग इत्यविरोध इति । निवृत्तिरूपशमादेः प्रवृत्तिरूपयज्ञादेश्च विरोधान्न समुच्चय इति चेन्न, भिन्नविषयत्वेन विरोधाभावात् । अविहिताप्रतिषिद्धकाम्यविषया हि शमादयः । सम्भवात् उपपन्नत्वात् । निर्वचनाच्च श्रुतिवचनाच्च, प्रमाणोपपत्तिभ्यामित्यर्थः । विवेकादयः किं रूपाः, कथं वा शमादेः कर्मणश्चाविरोधः? इत्यत्राह - विवेकादीनां स्वरूपं चाहेति । न केवलं परिषणनामात्रं तत्स्वरूपं च वाक्यकार एवाहेत्यर्थः । प्रथमं विवेकस्वरूपविषयवाक्य-मुदाहरति - जात्याश्रयेति । आहारविषयविवेचनं विवेकशब्देन विवक्षितं भवति, दुष्टाहारात् सात्त्विकाहाराणां विवेचनं विवेकः, जातिदुष्टाः कलञ्जगञ्जनादयः । आश्रयः-द्रव्यस्वामिपुरुषः, अभिशस्तपतितचण्डालादिद्रव्य-माश्रयदुष्टम् । उच्छिष्टकेशाद्युपहतं निमित्तदुष्टम् । एतत्रिविधदोषरहिताहारविवेचनफलभूतकायशुद्धौ विवेकशब्द उपचरितः । यद्वा विविक्ताहारसेवया राजसतामसाहाराप्यायितदेहात् स्वदेहस्य विवेचनं विवेकः । अशुद्धेभ्यो विवेचनं हि शुद्धिः, इतिशब्दो भाष्यकारीयः । अत्र निर्वचमिति च भाष्यग्रन्थः । निर्वचनम्-निष्कृष्टवचनम् । अप्रमाणेभ्यो निष्कृष्टं प्रमाणभूतं वचनमित्यर्थः । आहारशुद्धावित्यादि निर्वचनं, विमोकः कामानभिष्वङ्गः-विषयमभुक्तवा स्थातुं न

शक्नोति येन स विकारोऽभिष्वङ्गः "कामात् क्रोधोऽभिजायते" इत्यादिवचनात् क्रोधाद्यभावश्चात्र फलितः । "शान्त उपासीते"ति निर्वचने शान्तशब्देन रागद्वेषाद्यभावो विविक्षितः । आरम्भणम्-आलम्बनं-शुभाश्रयः, तस्य संशीलनं, कथमेतत्साधनं साध्यं हीदम् न "शुचौ देशे प्रतिष्ठाप्ये"त्याद्युक्तदेशकालविशेषाभ्यसनीययोगशब्दवाच्या ध्रुवानु-स्मृतिर्हि साध्या, इदं तु योगकालकर्त्तव्यध्यानानुग्राहकं सदा संशीलनं "सदा तद्भावभावित" इति हि वक्ष्यति, सदा भगवत्संशीलनाभावे योगकालेषु कालान्तरसंशीलितं विषयान्तरं बुद्धिस्थं स्यात्, अतो न साध्याविशिष्टत्वम् आरम्भणसंशीलनस्य, निर्वचनं च स्मार्त्तमुदाहृतं भाष्यकारेणेत्यनेन पूर्वोपात्तनिर्वचनान्यपि द्रमिडभाष्योक्तानीति ज्ञायते । "अथ मुनि"रिति श्रौतं निर्वचनम्, तस्य न्यायोपन्याससापेक्षत्वेन "सहकायर्न्तरविधि"रित्यधिकरणे व्या-ख्येयत्वात् स्मार्त्तनिर्वचनस्य स्पष्टार्थत्वाच्च स्मार्त्तनिर्वचनमुदाहृतम् "तस्मात्सर्वेषु कालेषु मामनुस्मरे"त्येवमन्तं वचनजातमिहाभिप्रेतम् । पञ्चमहायज्ञेति - शक्तितः-न हि शास्त्रमशक्यं विदधाति । क्रियावानेष इति - सनू-रहितवाक्यम् । ब्रह्मविदां वरिष्ठः-ब्रह्मविदां मध्ये वरिष्ठः, न हि ब्रह्मविविदिषूणामित्युक्तम् । क्रियाशब्दार्थविश-दीकरणायाह - तमेतमिति - सत्यम्-भूतहितम् । आर्जवम्-मनोवाक्कायानामैकरूप्यम् । दयास्वार्थनिरपेक्षपर-दुःखासहिष्णुत्वम् । अहिंसा-करणत्रयेणापि परपीडानिवृत्तिः, दानम्-लोभराहित्यम् । अभिध्या-परकीये स्वत्वबुद्धिः, यद्वा निष्फलचिन्ता, अथवा परकृतापवारचिन्ता, तद्रहित्यमनभिध्या । सत्येनेतीतियादिशब्देन आर्जवादिप्रतिपादकवाक्यजातं क्रोडीकृतम् - देशेत्यादि - अनवसादानुद्धर्षयोरवसादोद्धषर्विपर्ययरूपत्वादवसा-दोद्धर्षलक्षणमात्रमुक्तं वाक्यकारेण, तद्विकर्ययरूपो नञर्थोऽर्थात्सिध्यतीति वाक्यकाराभिप्रायः । शोकवस्तु-शोकनिमित्तं वस्तु, अतीतपुत्रमरणादि । आदिशब्देन भयनिमित्तमागामि विवक्षितम् । अतीतविषयो हि शोक्तः, आगामिविषयं च भयम् । अभास्वरत्वमिति दैन्यशब्दविवरणम्, अभीष्टकार्यप्रवृत्त्यक्षमत्वरूपं दैन्यमित्युक्तं भवति । भास्वरत्वविरोधीति वा दैन्यविशेषणं, चशब्दो भिन्नक्रमः, तज्जं च दैन्यजदैन्यं चेत्यर्थः । बन्धुजनदैन्ये दृष्टेपि हि दैन्यं स्यात् देशकालवैगुण्यशोकवस्त्वाद्यनुस्मृतिहेतुकं मनसो भास्वरत्वाभावरूपं भास्वरत्वविरोधि वा दैन्यं, दैन्यजदैन्यं च मनसोऽवसाद इत्यर्थः । यद्वा, भिन्नवाक्यतया योजनीयं, देशकालवैगुण्यशोकवस्त्वाद्यनुस्मृतिजनितं मनसोऽभास्वरत्वमवसादः । किमुक्तं भवतीत्यत्राह - तज्जं दैन्यमिति । तच्चाभास्वरत्वं, तज्जम्-उक्तहेतुजं दैन्यमिति व्याख्येयव्याख्वानरूपं वाक्यद्वयमिति तद्विपर्यय इत्यादिर्भाष्यग्रन्थः । बलहीनेन मनोबलहीनेन । तद्विपर्ययजा-देशकालसाद्गुण्यपि#्रयवस्त्वाद्यनुस्मृतिजा । तुष्टिरुद्धर्ष इत्येतावदेव वाक्यं, तद्विपर्ययोऽनुद्धर्ष इत्यर्थसिद्धम् । कथं "स्वाध्यायशौचसंतोषतपांसि नियतात्मवान्" इत्यपेक्षितस्य त्याज्यत्व?मित्यत्राह अतिसंतोषश्च विरोधीत्यर्थ इति । न केवलमसंतोष एव विरोधी अतिसन्तोषश्च विरोधीति चार्थः, यथान्यविषयेष्वेव प्रवृत्तिः स्यात्तथा सन्तोषो-ऽतिसंतोषः, स त्याज्य इत्युक्तं भवति । निर्वचनमपीत्यपिशब्दः सर्वनिर्वचनसमुच्चये एवं पदार्था व्याख्याताः । तल्लब्धिरित्यादेर्वाक्यकारग्रन्थस्य वाक्यार्थमाह - एवमिति । एवं नियमयुक्तस्याश्रमविहितकर्मानुष्ठानेनेति पृथङ्-निर्देशेन प्रवृत्तिनिवृत्तिरूपकोटिद्वयविभागो दर्शितः । एतेन पदद्वयेन केवलशमादि केवलकर्म च व्यावर्तितम् । शमादि कर्म च समुच्चित्याङ्गमित्यर्थः । यद्विविदिषासाधनमिति त्वयोक्तं तेनैव विद्यानिष्पत्तिरित्येवकाराभिप्रायः । इत्युक्तं भवति - इति वाक्यार्थो भवतीत्यर्थः । "विद्यां चाविद्यां चे"ति श्रुतेः शङ्करयादवप्रकाशाभिमतयोजनाव्यु-दासार्थं तां व्याचिख्यासुरुपादत्ते - तथा चेति । अनेन कर्मणोऽपेक्षितत्वे सन्रहितश्रुत्यन्तरं च दर्शितं भवति । तथा च श्रुत्यन्तरं यदन्यथा भवद्भिर्व्याख्यातम्, तच्चास्मदुक्तार्थानुगुणमिति तथाशब्दमन्तरशब्दं च प्रयुञ्जानस्य भावः । सत्रहिततया यज्ञादिवाक्यवैलक्षण्यञ्चान्तरशब्दाभिप्रेतम् । अस्मिन्वाक्ये न कर्मवाचिशब्दः श्रूयत इत्यत्राह- अत्रेति ।

अत्र -श्रुतिवाक्ये । "न त्वनात्मन्यात्मबुद्धिर्या" इत्यादिषु,अविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्मास्तु, ततः किमुक्तं भवतीत्याशङ्कायां पदान्तराण्यपि विवृण्वन् वाक्यार्थमाह - अविद्ययेति । अविद्या-कर्मणा । विद्यया-ज्ञानेनेत्यत्र च कर्मज्ञानशब्दाभ्यां "कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते" इति स्मृतिः स्वोपजीव्यार्था स्मारिता भवति । कर्माणि कषायपक्तिः- कषायपक्तिनिमित्तानि । कषाय- शब्दः पापपरः "धर्मेण पापमपनुदती "त्यनेनैकार्थ्यात् कषायशब्दस्य रागादिपरत्वेपि तत्पक्तिहेतुत्वं पापनिर्हरणद्वारा, ज्ञानं परमा गतिः-परमगत्युपायः, उभयत्र कारणे कार्योपचारः कषाये पक्ते ततो ज्ञानं प्रवर्त्तते - प्रसरतीत्यर्थः । अत्रोपायविरोधिनिरासकत्वं कर्मणः स्पष्टम्, न हि विविदिषा प्रवर्त्तते मोक्षः प्रवर्त्तत इति चोक्तम्, अपितु ज्ञानं प्रवर्त्तत इत्येवोक्तम् । अस्य वाक्यस्यार्थमुपजीव्याह - मृत्युं-ज्ञानोत्पत्तिविरोधीति । न तु ब्रह्मप्राप्तिविरोधि, न च विविदिषाविरोधीत्यर्थः । उपेयविरोधिकर्मणो ज्ञानविवर्त्यत्वं श्रुतिस्मृतिशतसिद्धम् । यथा "तमेव विदित्वाऽति-मृत्युमेति नान्यः पन्थाः" एवमेवंविदि-पापं-कर्म न श्लिष्यते" "क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" "निचाय्य तं मृत्युमुखात् प्रमुच्यते" "ज्ञात्वा देवं मुच्यते सर्वपापैः" "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा" इति । एवमु-पेयविरोधिनो ज्ञाननिवर्त्यत्वश्रवणेन परिशेषान्नान्यः पन्था इत्युपेयविरोधिनिरासे उपायान्तरनिषेधस्वारस्यात् समसमुच्चय पक्षे कर्मणोप्युपायतया वेदव्यतिरिक्तकृत्स्नगोचरान्यशब्दस्य सङ्कोचप्रसङ्गात् यज्ञेन विविदिषन्तीति कमर्ण उपायहेतुत्वस्य कण्ठोक्तया "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तत" इति स्मृत्यानुगुण्याच्च सामान्येन मृत्युशब्देन प्रतिपन्नमपि निरसनीयमुपायविरोधिकर्मरूपे विशेषे पर्यवस्यति; तथा विविदिषासाधनत्वस्य प्रागुक्तान्योन्याश्र-यणादिनिरस्तत्वेन परिशेषाद्विविदिषन्तीत्यत्र च प्रकृतिप्रत्ययार्थयोर्वेदनतदिच्छयोरविशेषेण यज्ञादीनां साधनत्वे प्रतीतेपि "ततो ज्ञानं प्रवर्त्तत" इति स्मृत्याद्यानुगुण्यादिष्यमाणप्रकृत्यर्थप्राधान्यस्य नीतिविद्भिर्निर्णीतत्वाच्च प्रकृत्यर्थभूतवेदनसाधनत्वं सिद्धम् । तस्मादुपायविरोधि कर्मैवात्र मृत्युशब्दवाच्यमविद्यानिवर्त्यमित्यभिप्रायः । उपासनरूपं-न्यासरूपं चोपेयविरोधिनिरासकं ज्ञानम् उत्तरपूर्वाधयोरुभयोरपि निरासकं स्यादिति तद्य्वावृत्त्यर्थं प्राचीनमित्युक्तम् । उपायविरोधिनिरासककर्म प्राचीनमेव पापं शमयति, न तूत्तराघमित्यर्थः । तीर्त्वेति पदं व्याचष्टे । अपोह्येति - "न त्वेनं सेतुं तीर्त्वे "तिवत् प्राप्तिवचन इत्यर्थः । अविद्यया तीर्त्वेति पदद्वयव्याख्यानेन शङ्करमतयो-जनाव्यावृत्तिः, अज्ञानेन संसारं प्राप्य स्थित इति हि तद्योजना, तन्मते अविद्यायाः ज्ञातव्यत्वं च हेयत्वेन, अवि-द्याशब्दो विविदिषाविरोधिनिवर्तकर्मवाचीति वा शङ्कराभिमतयोजना स्यात् अविद्याशब्द उपेयविरोधिनिवर्त्तक-कर्मवाचीति यादवप्रकाशाभिमतयोजना, ज्ञानोत्पत्तिविरोधीति मृत्युशब्दव्याख्यानेन तदुभयव्युदासः । अयमविद्या-शब्दः संसारहेतुभूताज्ञानपरः किं न स्यात्, कथं च तस्य कर्मवाचित्व?मित्यत्राह - मृत्युतरणेति । तरतेरुत्तरण-वाचित्वं स्वरससिद्धम्,प्राप्तिवाचित्वे तु स्वारस्यभङ्ग इत्यभिप्रेतम् । अविद्याशब्दस्य कर्मवाचित्वं दर्शयति - विद्ये-तरदिति - तदन्यार्थे नञिति भावः, विहितं कर्मैवेत्मेवकारेणाज्ञानमविहितं कर्म च व्यावर्त्यते, अत्र "विद्यां चाविद्यां चे"ति चशब्दावनुक्त समुच्चयपरौ । कर्मानुबन्धि जयदनुक्त तत्समुच्चेतव्यं, विद्यानुबन्धि शमदवादिकं, कर्मानुबन्धि फलाभिसन्धिकर्तृत्वाभिमानराहित्यादिकं तदुभयं चशब्दसमुच्चेतव्यम् । यद्वा, "धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ" इत्यत्र च शब्दवदत्राप्युक्तार्थविरोधिसमुच्चयपरौ चशब्दौ स्याताम् । विद्याविरोधि कर्मविरोधि च चश-ब्दाभ्यां हानार्थं ज्ञातव्यतया समुच्चिते भवतः, विद्या-ब्रह्मविद्या, तद्विरोधि-तदितरविषयज्ञानतद्विषयरागाद्वेषा- दिकम् । अविद्या-विद्याङ्गं कर्म, तद्विरोधि-संसरण हेतुभूतं फलाभिसन्ध्यादिसहितं कर्म पापञ्च तदुभयं हानार्थं ज्ञातव्यमिति चशब्दयोरभिप्रायः । यद्वा, प्रतिपदद्योतकौ चशब्दौ स्याताम् यथा "धर्मे चार्थे च कामे चे"ति प्रतिपदं

यदभिधेयं तस्य समुच्चयद्योतकत्वं प्रतिपदद्योतकत्वं, तदत्रापि स्यात्, अस्मिन्वाक्ये अविद्यातरणशब्दयोरुक्ताथर्-परत्वस्थापनायोपबृंहणवचनं च दर्शयति - यथोक्तमिति । ज्ञानव्यपाश्रयः-आगमोत्थज्ञानवात् । ब्रह्मविद्यामधिष्ठाय- उपासनात्मकज्ञानं साध्यत्वेनावलम्ब्येत्यर्थः । ज्ञानविद्याशब्दयोरर्थभेदबुभुत्सायामागमोत्थविवेकादिजन्यज्ञानयोः प्रकृतत्वात् तत्परत्वानयणं हि युक्तम् । तर्त्तुं मृत्युमित्यनेन तरतेः प्राप्तिवाचित्वशङ्का व्युदस्ता, न हि संसारं प्राप्तुं ब्रह्मविदा केशिध्वजेन नृपेण यज्ञादिकर्मानुष्ठीयते, मृत्युशब्दस्य विविदिषाविरोधिकर्मपरत्वमपि न शङ्कनीयम् ज्ञानव्यपाश्रय इत्यनेन शास्त्रजन्यज्ञानवत्ताया अभिहितत्वात् ब्रह्मविद्यामधिष्ठायेत्युक्तत्वाच्च न हि ब्रह्मविद्येच्छा-मधिष्ठायेत्युक्तम् । कथं ज्ञानोत्पत्तिविरोधि प्रचीनं कर्मेति पुण्यपापसाधारणकर्मशब्देन कर्ममात्रं निरसनीयमुक्तं, श्रुतिर्हि "धर्मेण पापमपनुदती "ति पापरूपकर्मविशेषस्य निरसनीयत्वमाहेति शङ्कायां तत्रापि पापशब्दस्य पुण्य-पापपरत्वं दर्शयितुं पुण्यपापयोरुभयोरपि पापशब्दवाच्यत्वोपपादनाय तयोर्ज्ञानोत्पत्तिविरोधित्वमाह - ज्ञानवि-रोधिचेति । च शङ्कानिवृत्तौ पुण्यपापे उभे अपि ज्ञानविरोधिनी चेत् कथं तयोरन्यतरस्य पापस्य निरसनीयत्वम-न्यतरस्य पुण्यस्य निरासकत्वं च श्रूयते? इत्यत्राह - उभयोरपीति । तयोर्द्वयोरपि निवर्त्यत्वं फलाभिसन्ध्यादि-रहितस्य धर्मान्तरस्यैव निवर्तकत्वं च विवक्षितमिति भावः । कथमुभयोः पापशब्दवाच्यत्वम् ? इत्यत्राह - ब्रह्म-ज्ञानोत्पत्तीति । अनिष्टफलतयेति - प्रवृत्तिनिमित्तसूचनम् । अलौकिकत्वे सत्यनिष्टफलासाधारणकारणत्वं पापत्वमिति भावः । अत एव शस्रादावीश्वरे च नातिव्याप्तिः "ऽवासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् । "एते वै निरयास्तात स्थानस्य परमात्मन" इत्यादिभिः पुण्यस्यापि मुमुक्षुं प्रत्यनिष्ट-फलप्रदत्वं सिद्धम् । श्रुतिश्च दुष्कृतेन सह पूर्वनिर्द्दिष्टं सुकृतमपि पाप्मशब्देन निर्द्दिशन्ती निगमयति "नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मनो ऽतो निवर्तन्ते" इति । न चानुक्तपापान्तरविषयः पापशब्दः, दुष्कृतशब्दस्य सम्प्रतिपन्नसमस्तपापसाधारणतयानुक्तपापान्तरासम्भवेन तद्विषयत्वायोगात् सम्भवेपि न तन्मात्रपापान्तरविषयः पाप्मशब्दः, उक्तसर्वहेयनिवृत्तिसंवादितयोपात्ते "अपहतपाप्माह्येष ब्रह्मलोक" इत्यनन्तरवाक्ये पाप्मशब्दस्य सर्वहेयविषयत्वदर्शनात् । न ह्यनुक्तकतिपयपापनिवृत्त्युक्तौ उक्तसर्वहेयनिवृत्तिसंवादसिद्धिः, शोकादिषु पाप्यशब्दस्यामुख्यत्वेपि सुकृतदुष्कृतयोः प्रवृत्तिनिवृत्तिसम्भवान्न मुख्यत्वं त्याज्यम्, क्वचिदमुख्यस्य सर्वत्रामुख्य-त्वनियमाभावात्, अतः सर्वे पाप्मन इत्यत्रागहल्लक्षणा-च्छत्रिन्यायात् "धर्मेण पाप"मित्यत्र तु मुख्यत्वमेव । कथं पापस्य ज्ञानविरोधित्वम् ? रजस्तमसोर्हि तदवगम्यत इति शङ्कायां द्वारद्वारिभावादविरोधमाह - अस्येति । पापस्य रजस्तमसोश्च ज्ञानविरोधित्वे प्रामाणिके सति द्वारद्वारिभावः कल्प्यत इत्यत्राह- पापस्य चेति । नन्वियं श्रुतिर्निरय-निनीषाविषया किं न स्यात् उन्नयनप्रत्यनीकत्वादधोनयनस्येति? ब्रूमः,- अत्र विवक्षितमुन्नयनहेतुत्वमुपासननि-ष्पादनरूपम् । न चोन्नयनमपि स्वर्गादिनयनमिति शङ्कनीयम् "यमेभ्यो लोकेभ्य उन्निषती "त्यवगतस्य समस्त-लोकेभ्य उन्नयनस्यापवर्गप्रापणरूपत्वात् तर्हि गर्भजन्मजरामरणादिसंसारप्रापणमघोनयनं स्यात् न तूपासनविरोध इति चेन्न, उन्नयनस्य ज्ञानोत्पादनद्वारकत्वावगमात् "यं त्वं मनुष्याय हिततमं मन्यस" इत्युपक्रमवाक्येन मामु-पास्स्वेति विधित्सितस्य उपासनस्य ह्यव्यवहितोपायत्वमवगतम् । "नान्यः पन्थाः" इत्यादीनि च श्रुत्यन्तराणि तथावगमयन्ति, तच्च कमर्णामपर्वे प्रत्यव्यहितोपायत्वे विरुध्द्येत, अत उपक्रमाद्यविरोधात् साधुकर्मणामपवर्गे प्रत्युपायत्वमुपासनद्वारकमवसीयते, अतः कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमघोनयन-मुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते । किञ्च यद्यप्युन्नयनाधोनयने स्वर्गनरकप्रापणरूपे, तथाप्यसाधुकर्मणां ज्ञानविरोधित्वं सिध्द्यति तथ हि उन्निनीषाधोनिनीषयोर्निर्हेतुकत्वे परमात्मनो वैषम्यनैघृण्यप्रसङ्गान्नेतव्यचेतनगोचरं

यद्वृत्तद्वयं गतिद्वयनिनीषानिमित्तभूतातिप्रभूतपुण्यपापकर्तृविषयं विज्ञायते । तत्र च गतिद्वयपर्याप्तोत्तरोत्तरसाध्व-साधुकर्मकारयितृत्वमीश्वरस्य, न भूतावेशादिवज्जीवबुध्द्यनपेक्षितं भवति । तथा सति ज्ञानचिकीर्षाद्यभावाद्वायू-दकादिनुन्नतृणादेरिव संसारिणां शास्त्रवश्यत्वाभावेन कर्मफलभोगानुपपत्तेः । एवं संसारिणां कर्मफलभोक्तृत्वान्य-थानुपपत्तिरूपन्यायानुकृहीतम् एष एवेत्यादिकं वाक्यद्वयं ज्ञानप्रदानद्वारककारयितृत्वविषयमवसीयते, तथा सति स्मृत्यनुग्रहश्च भवति । "न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं हि रक्षितुमिच्छन्ति बुध्द्या संयोजयन्ति तम् । यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुदिं्ध तस्यावकषÐन्त सोपनीतो विनश्यति" इति ह्युच्यते । तथा "पुण्यं प्रज्ञां वर्द्धयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः" इति च । तत्र बुद्धिमवकर्षन्ति प्रज्ञां नाशयतीति च सम्यग्ज्ञानहानिपूर्वक तद्विपरीतज्ञान निष्पत्तिरिह विवक्षिता, अन्यथा कर्मान्तरप्रारम्भानुपपत्तेः । यद्यपीदं वचनजातं सर्वदेवतासामान्यविषयं, तथापि भगवन्ज्ञानस्य सम्यग्ज्ञानसामान्याबहिर्भावादसाधुकर्मणस्तद्विरोधित्वसिद्धिः । तथा विशेषतश्वोच्यते "ददामि बुद्धियोगं तं येन मामुपयान्ति ते । आसुरीं योनिमापन्ना मुढा जन्मनि जन्मनि । माम-प्राप्यैव कौन्तेय ततो यान्त्यघमां गतिम्" इति । एवं न्यायस्मृत्युपबृंहितया ऽनया श्रुत्या सामान्येव ज्ञानविरोधित्व-मसाधुकर्मणां सिद्धम् । अस्मादपि निर्वाहात् पूर्वोक्त उपपन्नः प्रकरणानुगुण्यात्, षवं पापस्य ज्ञानविरोधित्वे प्रमाणं दर्शितम् । अथ रजस्तमस्मेर्ज्ञानविरोधित्वे, सत्त्वस्य ज्ञानहेतुत्वे च प्रमाणं दर्शयति । रजस्तमसोरिति - ततः किं प्रस्तुतस्य कर्मापेक्षितत्वस्येत्यत्राह - अतश्चेति । अतः-पापस्य ज्ञानविरोधित्ववचनात् । ततोऽपि किमित्यत्राह- तन्निरसनञ्चेति । पापशब्दाभिधेययोः पुण्यपापयोरुभयोरपि निरसनीयत्वेन पापनिरासककर्मासम्भवमाशङ्कयोक्तम् अनभिसंहितफलेनेति । अनेन स्वर्गादिफलप्रदकर्मव्यावृत्तिः । अनुष्ठितेन न तु ज्ञानमात्रेणेति भावः । तत्र किं प्रमाणं इत्यत्राह-तथा च श्रुतिरिति । इदानीं निरासकविशेषे प्रमाणतयोदाहृतस्य वाक्यस्यार्थनिर्णयोगितयैतद्वाक्यस्थ-निरसनीयवाचिपदस्यार्थः पूर्वमेव शिक्षितः, निरासकवाचिपदस्यार्थोऽनन्तरमुक्तः । नन्वयं धर्मशब्दः कृच्छ्रचान्द्राय-णादिप्रायश्चित्तरूपधर्ममात्रविषयः किं न स्यात् ? अनभिसंहितफलधर्मविषय इति कुतो निर्णीयते ? उच्यते- "यज्ञेन दानेन तपसाऽनाशकेन" शान्तो दान्त उपरतस्तितिक्षुः" "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्त्तते" "यज्ञो दानं तपः कर्म न त्याज्यं कार्यमेव तत्" "यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् । शमो दमस्तपःशौच"मित्यादिश्रुतिस्मृति-भिर्मुमुक्षोरपेक्षितत्वेनोक्तानां यज्ञदानतपः शमदीनामत्र श्रूयमाणत्वात् "विज्ञानादानन्दो बह्मयोनि"रित्यादिनास्य प्रकरणस्य ब्रह्मविद्याविषयत्वाच्चायं धर्मशब्दो मुमुक्ष्वपेक्षितानभिसंहितफलधर्मविषय इत्यवगम्यते । अत्र यज्ञदाना-दिपर्यायेषु "दानेन द्विषन्तो मित्रा भवन्ती "त्यादिना सांसारिकफलकीर्तनम् । "अन्नवान्नादो भवती "त्यादिवत् ब्रह्मवेदनानुगुणानुषङ्गिकफलविषयं मन्तव्यम्, "भूयो न मृत्युपयाहि विद्वान्" इति प्रधानफलश्रवणात् । किञ्च यद्यपीदं वाक्यं न मुमुक्षुमात्रविषयं तथाप्यमुमुक्षुमात्रविषयं च न भवेत्, प्रवृत्तिनिमित्तसाधारण्यात् न हि काम्यफलदत्वं धर्म-शब्दार्थः, अलौकिकेष्टासाधारणसाधनेनालौकिकानिष्टासाधारणकारणमपनुदेदिति ह्यर्थः स्यात्, ततश्च मुमुक्षं प्रति काम्यकर्मणोऽनिष्टफलत्वेन धर्मशब्दवाच्यत्वायोगात् पापशब्दवाच्यान्तर्भावाच्च पक्षधर्मताबलादनभिसंहितफलेन धर्मेण पुण्यपापयोरुभयोरपनोद्यत्वमुक्तं स्यात् । ज्ञानस्य कर्मसापेक्षत्वं निगमयति -तदेवमिति । तत्-श्रुतिस्मृति-तदनुग्राहकोपपत्तिसूत्रवाक्यकारवचनेभ्यः । एवम्-उपावप्रतिबन्धनिरासार्थं सर्वाश्रमिणां तत्तदाश्रमधर्माङ्गकोपास-नाधिकारस्य वक्ष्यमाणत्वं हृदि निघाय सर्वाश्रमकर्मापेक्षमित्युक्तम् । ततः किं कर्मविचारस्य ब्रह्मविचारपूर्ववृत्तत्व ? इत्यपेक्षायामुनुष्ठानस्य ज्ञानसापेक्षत्वात् ज्ञानस्य मीमांसाधीनत्वाञ्च तदधिकमः पूर्ववृत्त इत्याह-अत इति । अतः-ब्रह्मज्ञानस्य फलाभिसन्धिरहिताश्रमकर्मसापेक्षत्वात् ज्ञानं हि हानार्थमुपादानार्थं वा ? अत्र तूभयार्थमित्याह - अपे-

क्षितेति । फलद्वारकं हानम्, स्वरूपेणोपादानम् । मीमंसाशब्दस्य पूर्वोत्तरसाधारणत्वात् कर्ममीमांसावसेयमित्युक्तम् सैव या त्वया विरुद्धेति निरस्ता सैवेत्यर्थः । यदनपेक्षितं परेणोक्तं तदेवापेक्षितमित्युक्तम् । यत्तु परेणापेक्षितमित्युक्तं तस्यानपेक्षितत्वमुच्यते - अपि चेत्यादिना । नित्यानित्यवस्तुविवेकादयश्चेति - चस्त्वर्थः प्रत्युतेति यावत् मीमां-साश्रवणमन्तरेण - कर्मब्रह्ममीमांसाश्रवणमन्तरेणेत्यर्थः । न सम्पत्स्यन्त इत्यनेन पश्चाद्भावित्वमुक्तम् । कुत इत्यत्राह फलेति । फलविशेषः-भोगमोक्षरूपः । करणविशेषः-यज्ञोपासनादिः । इतिकत्तर्व्यताविशेषः-प्रयाजादिः साधनसप्तकं च । अधिकारिविशेषः-बुभुक्षुर्मुमुक्षुश्च । एषां निश्चयादृते, कर्मस्वरूपम्-साङ्गं यज्ञात्मकमुपासनात्मकञ्च । भाष्य-कारश्च यागात्मकमुपासनात्मकं च कर्मेति हि वक्ष्यति "प्रकाशश्च कर्मण्यभ्यासात्" इति च सूत्रम् "उपासनात्मके कर्मणि" इति च तस्य भाष्यम् । उपासनस्य कर्मत्वं स्मृतिसन्ततिरूपतया तस्य प्रयत्नसाध्यत्वात् "वाचिकैः पक्षि-मृगतां मानसैरन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नरः" । इत्यत्र मनुश्च "मानसैः कर्मदोषै"रित्यु-क्तवान्, फलं चोभयं भोगो मोक्षश्च - तत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनामिति । आदिशब्देन आत्मनां "निर्वा-णमय एवाय"मित्युक्तज्ञानानन्दस्वरूपत्वादिकं विवक्षितम् । अत्र साध्याविशिष्टत्वं हेतोः प्रतीयत इति चेत्, मैवम्-मीमांसायां फलकरणेतिकर्तव्यतादीनां प्रत्यधिकरणं तत्तन्न्यायैर्यो निर्णयः क्रियते स हेतुः, एवं तत्तधिकरणन्याया-नुगृहीतश्रुतिवाक्यसमुदायजन्या या प्रमितिरुपायोपेयविषया सा साध्या, तत्तदवान्तरवाक्यार्थनिश्चयैस्तत्समुदाय-रूपमहावाक्यार्थनिश्चयः साध्य इत्यर्थः । यथा-पदार्थनिश्चयैर्वाक्यार्थनिश्चय इत्युक्ते सति न साध्याविशिष्टया-तद्वत्; अत एव हि करणोतिकर्त्तव्यतादिशब्दैः पूर्वं पृथगुक्तया पश्चात्कर्मस्वरूपशब्देनोक्तम्, फलकरणेत्यादिभाष्यस्य कर्म-मीमांसामात्रविषयत्वे तत्फलस्थिरत्वास्थिरत्वात्मनित्यत्वादीनामिति वक्तुमयुक्तं, निरुपपदमीमांसाशब्दस्य मीमां-साशास्त्रमित्यादिभाष्ये भागद्वयविषयतया प्रयुक्तत्वाच्च यथोक्त एवार्थः, तस्मात्कर्मब्रह्मविचा रानन्तरभावी नित्या-नित्यवस्तुविवेकःतत इहामुत्रफलभोगविरागो मुमुक्षुत्वं च शमदमादिसाधनसम्पञ्च "शमदमाद्युपेतस्स्या "दिति ब्रह्-मीमांसायां हि शमदमादिस्वरूपं निरूप्यते; अस्मिन् चतुष्टये सिद्धे ब्रह्मविचारः, ब्रह्मविचारात् तत्सिद्धिरित्यन्यो-न्याश्रयः स्यात्, अतः पश्चाद्भाविनः पूर्ववृत्तत्वमनुपपन्नम् । साङ्गाध्ययनजापातप्रतीतिरेव नित्यानित्यविवेक इति चेत् ? तदयुक्तम्,-न ह्यापातप्रतीतिरिहामुत्र फलभोगविरागमुमुक्षत्वयोर्हेतुः, नित्यानित्यविपर्ययप्रतीतेः । किञ्च आपातप्रतीतिरुभयभागविचारसाधारणी, तत्र प्रथमं कर्मविचार एव प्रवृत्तिर्यक्ता, उभयत्र बुभुत्साया अवशिष्टत्वात् प्रथमातिक्रमे कारणाभावाच्च, शास्त्रान्तरेणापि नित्यानित्यविवेकादिर्नोपपद्यते; प्रथममेवाध्ययनविधिवश्यतया पुरुषस्य शास्त्रान्तरानवकाशात् । किञ्च-शास्त्रान्तरे परमाणुकारणत्वाब्रह्मात्मकप्रधानकारणत्वगगनादिनित्यत्व-निमित्तमात्रेश्वरत्वादयो वेदान्तविरुद्धा एवार्था बहव उपलभ्यन्ते; अतः शास्त्रान्तरजन्यो नित्यानित्यवस्तुविवेको वेदान्तविरुद्धत्वान्न तद्विचारं प्रति पूर्ववृत्तो भवितुमर्हति । किञ्च शास्त्रान्तरे षट्पदाथर्षोडशपदार्थज्ञानादीनां मोक्ष-साधनत्वप्रतिपादनेन वेदान्तश्रवणनैरपेक्ष्याच्च न तज्जन्यविवेकस्य पूर्ववृत्तत्वं युक्तम्, यतोऽभ्युदयनिश्श्रेयससिद्धिस्स धर्मः । "छलजातिनिग्रहस्थानां तत्त्वज्ञानान्निः श्रेयसाधिगमः" इति हि तत्र तत्रोच्यते । किञ्च "तस्मादेवंविच्छान्तो दान्त उपरप्तस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्ये"दिति श्रुतिरेवंविच्छब्देन शास्त्रजन्यज्ञानमनूद्य पश्येदिति प्रतिपन्नस्योपासनस्याङ्गतया शमादीनुपदिशति; अतः शमादीनां श्रवणपूर्ववृत्तत्वं श्रुतिविरुद्धम्, "प्रशान्तचित्ताये" त्यादिश्रुतिस्तु श्रवणौपयिकावधाननिष्पादनार्थेत्युक्तम् । इतिहासपुराणश्रवणान्नित्यानित्यविवेक इति चेत् ? तर्हि तत एव ब्रह्मस्वरूपावगमात् ब्रह्मविचारस्यानारम्भणीयत्वं स्यात् इतिहासपुराणयोरपि संशयविपर्ययबाहुल्यात् तन्निरासाय ब्रह्मविचारोऽपेक्षित इति चेत् ? संशयविपर्ययबाहुल्यादेव नित्यानित्यविवेकोपि तत्र दुस्सम्पाद्य इति न

साधनचतुष्टयस्य पूर्ववृत्तत्वं युक्तम् । यत्तु-नित्यानित्ययोर्वसन्तीति नित्यानित्यवस्तूनि तद्धर्मा इत्यारभ्य वाचस्प-तिनोक्तं नित्यस्य धर्मिणो नित्यत्वं सत्यत्वं तत एवोपादेयत्वम्; अनित्यस्य धर्मिणोऽनित्यत्वं असत्यत्वं तत एव हेयत्वमित्येवं नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेक इति । अत्र ब्रूमः- अनित्यस्य तावदसत्यत्वं वक्ष्यमाणप्रकारेण निरस्तं वेदितव्यम्, यन्नित्यं तदुपादेयं यदनित्यं तद्धेयमित्युभयमप्यनुपपन्नम्, सुख-दुःखनिवृत्तितत्साधनतदुपयोगिनामेवोपादेयत्वबुद्धिदर्शनात् तद्य्वतिरिक्तस्यैवानुपादेयताबुद्धिदर्शनाच्च नित्यमपि दुःखस्वरूपं दुःखनिमित्तं वा यदि स्यात् हेयमित्येव प्रतीयेत, अनुभयं चेदुपेक्ष्येत, अनित्यमपि सुखरूपं वा सुखनिमित्तं वा भवति चेत्तदुपादीयते, निरूपकस्य तु हेयमिति चेन्न,-प्रकृष्टसुखान्तरदर्शनात्यन्तदुःखसाध्यत्व-दुःखोदर्कत्वविरहे सति निरूपकस्यापि तत्रोपादेयताबुद्धिदशर्नात्, क्षीरौदनलाभात् कणस्त्यज्यते, विषमिश्रमन्नं मरणभयात्त्यज्यते, स्रकूचन्दनादि तु ततः प्रकृष्टसुखलाभादाद्यन्तयोस्तीव्रदु #ःखानुबन्धाभावाच्च परिमितमप्युपादीयते, तस्मादनित्यस्य हेयत्वं नानित्यत्वमात्रप्रयुक्तम् । यद्युच्येत नित्यस्य दुःखासम्भिन्नसुखरूपत्वादुपादेयत्वं तदसम्भ-वादनित्यस्य च हेयत्वमिति । उच्यते-नित्यस्य दुःखासंभिन्नसुखरूपत्वं किं व्याप्त्यावगम्यते, उत शास्त्रात् ? न प्रथमः, नित्यस्य कालादेः सुखरूपत्वादर्शनात् नित्यस्यात्मनो दुःखासम्भिन्नसुखरूपत्वादर्शनाच्च आत्मनो हि दुःखमुपलभ्यते अहं दुःखीति । शास्त्रतश्चेत्, यदि वेदात् वेदजन्यं च किमापातज्ञानम्, उत प्रमितिरूपम् ? प्रथमे कर्मब्रह्मभागसाधारण्यात् कर्मविचारातिक्रमेण ब्रह्मविचारं प्रति तस्य पूर्ववृत्तत्वानुपपत्तिः, निश्चयरूपं चेत् मीमांसाद्वयफलं स्यात् आगमान्तरमूलत्वे विरुद्धतयानुपयोगात् तस्यैतन्नैरपेक्ष्याञ्च पूर्ववृत्तत्वानुपपत्तिः । अत्रोच्यते यन्नित्यं तदुपादेयमिति । नैवं प्रतीतिः, किन्तु नित्यं सुखं सम्भवति चेत् तदुपादेयम्, सति तस्मिन् अनित्यमनु-पादेयमिति, तत्र तावन्नित्यसुखसम्भवज्ञानस्य ब्रह्मविचारोपयोगो नित्यफलोपादित्साद्वारेणेति वक्तव्यम्, शास्त्रा-न्तरेषु कर्मकाण्डे च नित्यफलसम्भावनाया निवारकाभावान्नित्यान्नित्यविवेकानन्तरं तेषामप्यारम्भणीयता स्यात् तेषु हि नित्यं फलं प्रतीयते, तदसदिति चेत्, तदसत्त्वमप्रामाण्यादन्यपरत्वाद्वा भवेत्, तदुभयं कमर्मीमांसया विना न सिध्द्यतीति तस्याः पूर्ववृत्तत्वमभ्युपेतव्यम् । आद्यसूत्रं तज्ज्ञापनपरमिति चेन्न, तस्य स्वशास्त्रारम्भौयिकविषय-प्रयोजनपरत्वेन शास्त्रान्तराप्रामाण्यादिप्रतिपादनपरत्वाभावात् । स्वार्थोपयोगित्वात् तदप्रामाण्यादिकमभिप्रेतमिति चेत्, तर्हि तस्य स्वोपजीव्यज्ञापनमपेक्षितमिति कर्मविचारस्य तर्कपादस्य च पूर्ववृत्तत्वमापद्येत शास्त्रान्तराप्रामाण्यं हि कर्ममीमांसाप्रथमपादावसेयम् अन्यपरत्वं वाक्यान्तरविरोधादिभिः, नित्यफलाविवक्षाध्यवसायश्च तत्रत्यन्या-याधीनः शास्त्रान्तरप्रमेयदौस्थ्यञ्च तर्कपादे दर्शयिष्यते । किञ्च आद्यसूत्रादेव शास्त्रान्तरगतनित्यफलासत्त्वावगमश्चेत् अन्योन्याश्रयः, ब्रह्मविचारे प्रवृत्तस्यान्यत्र नित्यफलासत्त्वावगमः तदवगमाद्ब्रह्मविचारे प्रवृत्तिरिति । न चैवं सति धर्मजिज्ञासासूत्रेप्यन्योन्याश्रयः शङ्कनीयः, पित्रादिप्रेरणया कृतसाङ्गाध्ययनस्य पुरुषस्य प्रयोजनवदर्थापातप्रतीत्यैव प्रवृत्त्युपपत्तेः, येषां धर्मविचारो वैधः तेषामेवान्योन्याश्रयः, वैधत्वज्ञानाद्विचारो विचाराद्वैधत्वज्ञानमिति । किञ्च अनित्यफलहेयताज्ञानस्य स्वर्गादिफलजिहासाद्वारेण ब्रह्मविचारोपयोगो वक्तव्यः, स्वर्गादिफलस्यानित्यत्वं दुःख-सम्भिन्नत्वं च कथमवगम्यते ? शास्त्रान्तरेण चेत्, तत्रैव नित्य्पुरुषार्थसिद्धेर्नैराकाङ्क्ष्#ेण ब्रह्मविचारप्रवृत्त्ययोगात् तत्पूर्ववृत्तत्वानुपपत्तिः । यत्सुखं तदनित्यमिति स्वोत्प्रेक्षिततर्कमात्रेण चेत्, तेनैव निरस्तनित्यपुरुषार्थसम्भावनतया ब्रह्मविचारः प्रतिबध्येत दुःखनिवृत्तेरन्तराहित्यात् स्वाभाविकसुखस्यानादिभावात्वादन्तविरहोपपत्तेश्च न नित्य-पुरुषार्थासम्भावनेति चेन्न, दुःखनिवृत्तिश्चेत् दुःखानुबन्धिनी दुःखनिवृत्तित्वात् सम्प्रतिपन्नवत्, सुखं चेत् सुख-त्वादेव कृतकमित्येवंरूपकुतर्कोत्प्रेक्षासम्भवेन केवलतर्कशरणानां नित्यपुरुषार्थसम्भावनाया दुरुपपादत्वात् ,

शास्त्रसिद्धनित्येतरविषयो व्याप्तिनिश्चय इति चेन्न, वेदान्तश्रवणपूर्वको व्याप्तिनिश्चयः, तत्पूर्वकं वेदान्तश्रवण-मित्यन्योन्याश्रयप्रसङ्गात्, अतो ब्रह्मविचारं प्रति नित्यानित्यगतधर्मविवेकोपयोगाय नित्यानित्यविभागे प्रत्यक्षा-प्रवृत्तेस्तर्कस्यातिप्रसक्तेः शास्त्रान्तराणां ब्रह्मविचारनैराकाङ्क्ष्यापादकत्वात् तद्विरोधेनानुपयोगाच्च वेद एव प्रमाणी-कत्तर्व्ये तत्रापातप्रतीतेरुभयभागसाधारण्यान्नित्यानित्यनिश्चयस्य मीमांसाद्वयफलत्वेनान्योन्याश्रयस्य दुस्तरत्वाच्च नित्यानित्यगतहेयोपादेयत्वज्ञानं नित्यानित्यवस्तुविवेक इत्ययुक्तम् । ननु शास्त्रान्तरेषु नित्यफलसम्भावनाया निवारकाभावान्नित्यानित्यविवेकादिमतस्तत्रापि प्रवृत्तिप्रसङ्ग इति यदुक्तं, तन्न-शास्त्रान्तरनिवारकत्वादाद्यसूत्रस्य ब्रह्मैव जिज्ञास्यं न प्रकृतिपुरुषाविति हि सूत्रार्थ इति । तदयुक्तम्; साधनचतुष्टयपूर्ववृत्तत्ववादिभिरस्यार्थस्यानङ्गी-कृतत्वात्, तापब्रमज्ञानपूर्ववृत्तत्ववादिभिरयमर्थ उक्तः, न चायमर्थ उपपन्नः । तथाहि, न तावदयमर्थः सूत्रकृतोप-दिश्यते, न वाज्ञाप्यते किन्तूपपाद्यत इति वक्तव्यम्, न्यायनिबन्धनत्वात् सूत्राणाम्, उपपत्तिश्च शास्त्रान्तरदौर्बल्यमेव वा, स्वशास्त्रप्राबल्यमेव वा, समुच्चितमुभयं वा ? स प्रथमः स्वशास्त्रस्य दौर्बल्ये ब्रह्मणोप्यगिज्ञास्यत्वात् । न द्वितीयः शास्त्रान्तरस्य प्राबल्ये ब्रह्मण एव जिज्ञास्यत्वासिद्धेः । तृतीये सूत्रवैयर्थ्यं पूर्वमीमांसायामेव चोदनासूत्रप्रभृतिभि-स्तदुभयसिद्धेः । तत एव तस्याः पूर्ववृत्तत्वापत्तिश्च अवश्यापेक्षितत्वात् वेदप्रामाण्यमात्रे सिद्धेपि ब्रह्मणि प्रामाण्यं न तावता सिध्द्यतीति चेत् तर्हि ये#ैर्हेतुभिर्ब्रह्मणि प्रामाण्यासम्भवशङ्कास्ते परिहर्त्तव्याः, ते च सिद्धे व्युत्पत्त्यनुपपत्त्यादय इति तत्परिहारेण ब्रह्मणि वेदान्तप्रामाण्यसमर्थनपरत्वेऽस्मि#ीय एव पक्षः परिगृहीतः स्यात्; अत एव दुःखत्रयाभि-घातज्ञानस्य पूर्ववृत्तत्वमपि निरस्तम् । तथाहि किमैहिकदुःखज्ञानं पूर्ववृत्तम् ? उत नारकदुःखज्ञानम् ? उत स्वर्गा-देरप्यल्पास्थिरतया तापत्रयान्तर्गतत्वज्ञानम् ? न प्रथमः आयुर्वेदादिभिस्तन्निरसनोपायावगमात् वेदान्तविचारनैर-पेक्ष्यात् । न द्वितीयः,-निरयदुः स्वहेतुभूतपापापनोदकरव्रतनियमविधायकशास्त्रबाहुल्याद्वेदान्तनैरपेक्ष्यात् । तृतीये तु कर्मविचारापेक्षा स्यादेव, प्रथमत एवाद्ययनविधिवश्यस्य शास्त्रान्तरावगमावसरविधुरत्वात्, सत्यप्यवसरे स्वर्गा-द्यल्पस्थिरत्वज्ञापकैस्तैरेव शास्त्रैर्मुक्तयुपायस्यावगतत्वेन वेदान्तनैरपेक्ष्यात् वेदान्तविरुद्धार्थाभिधायिनां तेषामवगमस्य वेदान्तज्ञानपूर्ववृत्तत्वायोगात् आपातप्रतीतेतरतिहासपुराणयोश्चाल्पास्थिरत्वानन्तस्थिरत्वविपर्ययप्रतीतिहेतुत्वाच्च पूर्वं व्याख्येयस्वभावात् क्रमनियम उक्तः । व्याख्यानस्वभावादपि तत्सिद्धिरिदानीमुच्यते -एषामिति - एषां शमादीनाम् । साधनत्वम्, चः समुच्चये - विनियोगावसेयम् । विनियोगः-अङ्गत्वज्ञापनम् । ततः किमित्यत्राह- विनियोगश्चेति । ततोपि किमित्यि#ाह - स च तार्तीय इति । तृतीयाध्यायोक्त इत्यर्थः । इदं प्रदर्शनार्थमुक्तं कर्मविचारोक्तकृत्स्नन्यायसापेक्षत्वाद्ब्रह्मविचारस्य एतानि हि कर्ममीमांसाध्यायानां प्रमेयाणि । प्रथमे अध्याये प्रमाणलक्षणं वृत्तम् । द्वितीयेऽध्याये शास्त्रभेदः, कर्मभेदो वा भेदहेतवश्च शब्दान्तराभ्याससङ्खयागुणप्रक्रियाना-मधेयानि । तृतीये ऽङ्गनिरूपणम्, अङ्गत्वज्ञापकानि प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि । चतुर्थे क्रत्वर्थपुरुषार्थभेदनिरूपणेन पुरुषार्थैः क्रत्वर्थानां प्रयुक्तिनिर्रूपिता । पञ्चमे क्रमः, क्रमप्रमाणानि श्रुत्यर्थपाठ-प्रवृत्तिमुख्यकाण्डानि । षष्ठेऽधिकारिनिरूपणम् । सप्तमे सामान्यातिदेशो निरूपितः । अष्ठमे विशेषातिदेशः । नवमे ऊहः । दशमे बाधः । एकादशद्वादशयोस्तन्त्रप्रसङ्गौ । यथोक्तं "धर्मधीमानभेदाङ्गप्रयुक्तिक्रमकर्ममिः । सातिदेश-विशेषोहबाधतन्त्रप्रसक्तिभिः" इति । एतन्न्यायसापेक्षत्वं सङ्कर्षसापेक्षत्वं च ब्रह्मविचारे तत्र तत्र द्रष्टव्यम्; तस्मात् स च तार्तीय इति प्रदर्शनार्तमुक्तम् । अथ कर्मविचारापेक्षत्वे अभ्युञ्चययुक्तिरुच्यते -उद्गीथादीति - परेण प्रसङ्गात् सङ्गतिरुक्ता, अत्र तु साक्षात्सङ्गतिरुपपाद्यते - कर्मसमृध्द्यर्थान्यपीति । कमर्समृध्द्यर्थत्वे तत्प्रयोजनं तन्निर्वचनादिति वाक्यकारवचनं स्मारितम् - ब्रह्मदृष्ठिरूपाणीति । अब्रह्मणि ब्रह्मत्वेन दृष्ठिबर्रह्मदृष्ठिः, ब्रह्मदृष्ठिरूपत्वात् ब्रह्मज्ञान -

सापेक्षाणीत्यर्थः । इतिर्हेतो - इहैव चिन्तनीयानि - न तु कर्मविचारे, तान्यपि कर्माणि - यत्समृध्द्यर्थान्युद्गीथा-द्युपासनानि तान्यपीत्यर्थः । अनिभिसंहितफलानि - अनभिसंहितफलत्वात् ब्रह्मविद्योत्पादकानीत्यर्थः । इतिर्हेतौ । तत्साद्गुण्यापादनादि-साद्गुण्यं, प्रबलप्रतिबन्धके सत्यपि शीघ्रफलप्रदत्वम्, तदापादनानि-ब्रह्मविद्यां शीघ्रं सम्पाद-यन्तीत्यर्थः । एतानि - उद्गीथाद्युपासनानि अत इहैव सुतरां सङ्गतानि, प्रधानानुपयोगित्वेन सादृश्यादिना धीस्थत्वं प्रसङ्गात् सङ्गतिः, अन्यतरापेक्षया उभयापेक्षया वा सङ्गतिः साक्षात्सङ्गतिः, अत्र तूभयोरपेक्षितत्वं प्रतिपादितं ब्रह्म-दृष्टिरूपाणीति उद्गीथाद्युपासनस्य ब्रह्मज्ञानापेक्षाभिहिता । ब्रह्मविद्योत्पादकानीति ब्रह्मज्ञानस्य उद्गीथाद्युपासना-पेक्षाभिहिता एतदभिप्रायेण सुतरामित्युक्तम् - इहैवेति । उभयापेक्षया अत्रैव विद्यमानत्वात् सुतरां सङ्गतिरिहैव, न तु कर्मविचार इत्यर्थः । ननु कथमुद्गीथादिविचारस्य ब्रह्मविचार एव सुतरां सङ्गतिः? कर्मविचारेपि सुतरां सङ्ग-तिरस्ति, उभयापेक्षया सङ्गतिर्हि सुतरां सङ्गतिः कर्माङ्गश्रयत्वादुद्गीथादिधियां तद्विचारस्य कर्मापेक्षास्ति, कर्मणामपि स्वसमृध्द्यर्थोद्गीथाद्युपासनापेक्षास्तीत्युभयापेक्षाया विद्यमानत्वात् । उच्यते-कर्मसमृध्द्यर्थोद्गीथाद्युपासनापेक्षा केवलकर्मणां विद्याङ्गकर्मणां च तुल्या, अतः कर्मसमृध्द्यर्थत्वहेतुः साधारणः, कर्माङ्गश्रयत्वं पूर्वभागविचारसङ्ग-तेरसाधारणहेतुः, ब्रह्मज्ञानसापेक्षत्वमुत्तरभागविचारसङ्गतेरसाधारणहेतुः । एवं साधारणासाधारणहेतुद्वयवत्ता-साम्येपि, ब्रह्मदृष्टिरूपोद्गीथाद्युपासनानां ब्रह्मज्ञानसापेक्षत्वात् तेन विना तच्चिन्तनमशक्यं पूर्वभागविचारे न हि कर्मविचारात् पूर्वं ब्रह्मविचार उपपद्यते, प्रागुक्तसङ्गतिविशेषविशिष्टत्वात्तयोः, उत्तरभागे तु ब्रह्मज्ञानस्य सुलभत्वात् निर्वृत्तकर्माविचारस्योद्गीथाद्युपासनचिन्तनं कर्तुं शक्यम्; अत एव शक्यत्वादुद्गीथाद्युपासनान्युपनिषद्भागे विहितानि, अत एव ब्रह्ममीमांसायां निरूपितानि च, एवं वेदान्तभागविहितत्वब्रह्ममीमांसाविचारितत्वशक्यत्वरूपवैषम्य-त्रयविशेषिताया उभयापेक्षाया उत्तरभाग एव विद्यमानत्वात्तन्निबन्धना सुतरां सङ्गतिस्तत्रैवेत्यभिप्रायेण "सुतरामिहैव सङ्गतानि"त्युक्तम् । अयं चाभ्युच्चयहेतुः, यदप्रधानस्यार्थस्यापि साक्षात्सङ्गतत्वात्तस्याप्यवश्यापेक्षितः कर्मविचार इति प्रधानप्रतिपाद्यस्य नियमेनापेक्षितत्वरूपः प्रधानहेतुः पूर्वमेवोक्तः, ततः किं प्रकृतानन्तर्यस्येत्यत्राह - तेषां वेति । तेषाम्-उद्गीथाद्युपासनानाम् - सर्वसम्मता - तत्साक्षात्सङ्गतत्वे हि विगानम् उद्गीथाद्युपासने चिन्त्ये सति तस्य कर्मज्ञानापेक्षा सर्वाविगीता । यत्त्वधीतवेदान्तस्य कर्माधिगमापेक्षा नास्तीत्युक्तम्; तदयुक्तम्-वेदान्तेष्वपि उपाय-परमुक्तिपरवाक्यमात्राध्यायिनः पुरुषस्य ब्रह्मविचारेपि तृतीयचतुर्थाध्यायमात्रश्रवणप्रसङ्गात् तृतीयचतुर्थयोः प्रथम-द्वितीयोक्तन्यायसापेक्षत्वमस्तीति चेत्, तर्हि कृत्स्नस्य ब्रह्मविचारस्य कर्मविचारन्यायसापेक्षत्वात्तस्यैव पूर्ववृत्तत्वम् जन्मान्तरसुकृतविशेषेण कस्यचिद् ब्रह्मविचारमात्रापेक्षेति चेत् तस्य सुकृतविशेषेण तृतीयचतुर्थमात्रापेक्षा किं न स्यात् ? अथवा सुकृतातिशयात् कृत्स्नब्रह्मविचारनिरपेक्षता किं नस्यात् ? किञ्च- वेदान्तेषूपायफलपरवाक्य-मात्राध्ययनमशास्त्रीयमिति त्वयापि वक्तव्यम्, तद्वेदान्तमात्राध्ययनस्यापि तुल्यं कृत्स्नस्वाध्यायाध्ययनस्य विहितत्वात् अतो विध्यतिलङ्घिनां यदपेक्षितं तदेव पूर्ववृत्तमित्यसङ्गतं, कृत्स्नाध्यायिनोपि सुकृतवशात् क्वाचित्कश्रवणापेक्षायां पूर्वमेव दत्तमुत्तरम् । विरोधादप्रमाणत्वादित्यादिग्रन्थसङ्गृहीतानि दूषणानि अत्रोच्यत इत्यादिना सिद्धान्तभाष्येण परिहृतानि । तथा हि, कमर्णामनित्यफलत्वेन विरोधोऽनभिसंहितफलत्वात् परिहृतः, भेदवासनाजनकत्वेनैक्य-ज्ञानविरोधस्तु पृथगात्मानमिति पृथक्त्वज्ञानस्य मोक्षोपायत्वश्रुत्या परिहृतः, अयं विरोधो वक्ष्यमाणवस्तुसा-मर्थ्यान्तर्भूतश्च, मोक्षस्य सकलमेददशर्ननिवृत्तिरूपतायाः प्रपञ्चमिथ्यात्वोपपादनसापेक्षत्वात् ऐक्यज्ञानस्योपायत्वेपि कर्मणामदृष्टद्वारेणोपयोगादविरोधः । अप्रमाणत्वं क्रियावानेष ब्रह्मविदां वरिष्ठ इत्यादिसूत्रहितविनियोजकप्रमाण-दर्शनात् परिहृतम् । विविदिषार्थचित्तशुध्द्युपयोगस्तु वेदनोत्पत्त्युपयुक्तमनोनैर्मल्यहेतुत्वोपपादनेन विविदिषार्थत्वेपि

तस्याहरहरुत्पत्त्यपेक्षोपपादनेन च प्रत्युक्तः, ज्ञानमात्रस्य हेतुत्वनवणं च साधनद्वित्वानभ्युपगमाद् दत्तोत्तरम् । सामर्थ्यं नाम मिथ्याभूतबन्धस्य ज्ञानैकनिवर्त्यत्वरूपं वस्तुसामर्थ्यं, तत्तु प्रपञ्चमिथ्यात्वदूषणेन प्रतिवक्ष्यते, शमाद्यङ्ग-कताम्नानकृतो विरोधश्च प्रवृत्तिरूपयज्ञादेर्निवृत्तिरूपशमादेश्च भिन्नविषयत्वेनाविरोधात् परिहृतः, शमादयो ह्यविहिताप्रतिषिद्धनिषिद्धकाम्यविषया इत्युक्तम् । वाक्यार्थज्ञानस्यैव मोक्षोपायत्वं प्रत्यक्षविरोध-शास्त्रविरोधाभ्यां निरस्तम् । तत्र निवर्त्यवासनाया निवर्त्तकोत्पत्तिप्रतिबन्धकत्वाभावेन श्रवणादेर्भेदवासनानिरासार्थमनपेक्षितत्वा-त्तद्वैयर्थ्यपरिहारस्यानुपपन्नत्वाच्छ्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिकेत्येतदपि परास्तम् । साधनचतुष्टयस्य पूर्ववृत्तत्वे वस्तुसामर्थ्यं नाम हेतुरुक्तः, स दुभयं पूर्वं न कृतम् ।। इति लघुसिद्धान्तः ।।

अथ तदुपपादनायोपक्रमते-पूर्वमुपायोपदेशपरवाक्यपर्यालोचनया वस्तुसामर्थ्यव्यतिरिक्तहेतव उपन्यस्ता निरस्ताश्च, विधित्सां ज्ञानमिति ह्युक्तं, वस्तुसामर्थ्यं तु सिद्धपरवाक्यसिद्धं, वस्तुस्वरूपोपदेशपरैरिति हि वक्ष्यते, अतः स्वरूपपरवाक्यपर्यालोचनामुखेन तदुपपादयितुमारभते - यद्प्याहुरिति । अपिना उपपादयिष्यमाणस्यार्थस्य प्राधान्यं सूच्यते, आहुरिति ग्रन्थकारबहुत्वम्, अनेन अस्य ग्रन्थस्य तत्तत्प्रबन्धोक्तसकलाथर्गर्भितत्वञ्च दर्शितम् । सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुस्तदनादरणीयमित्युपर्यन्वयः । प्रथमं ब्रह्मैकमेव सत्यमिति प्रतिजानीते - अशेषेति । अशेषविषयाः-वक्ष्यमाणज्ञात्रादयः, विजातीयसजातीयस्वगता वा स्वगतेष्वप्यन्वयिनो व्यावृत्तिरूपाश्च विशेषाः अशेषशब्देन विवक्षिता; तत्प्रत्यनीकम्-स्वज्ञानेन निवर्तकं, शुक्तिरिव रजस्तस्येत्यर्थः । निर्विशेषत्वे शून्यतास्यादित्यि#ाह - चिन्मात्रमिति । चिच्छब्देन तुच्छत्वव्यावृत्तिः, स्वयंप्रकाशत्वं हि चित्त्वं, मात्रचा ज्ञेयत्व-व्यावृत्तिः । यद्वा, प्रत्यनीकत्वरूपधर्मोपि मात्रचा व्यावर्त्यते । यद्वा, मात्रचा वस्तुतः समस्तविशेषविरहो विवक्षितः, ब्रह्मैवेत्येवकारेण सगुणब्रह्मव्यावृत्तिः । परमार्थः-तत्त्वावेदकप्रमाणविषयः, सगुणवाक्यानां न तत्परत्वं फलविशे-षार्थमुपासनेऽन्यपरत्वादिति भावः । कथं ब्रह्मण एव सत्यत्वम् ? अन्यदपि हि प्रतीयत इति शङ्कायां ब्रह्मण एव परमार्थत्वसिध्द्यये तद्य्वतिरिक्तस्य तज्ज्ञाननिवत्त्यर्त्वाय च विश्वस्य मिथ्यात्वं प्रतिजानीते - तदिति । "अथात आदेशो नेति नेती "त्यादौ "प्रकृतैतावत्त्व"मिति सूत्रविषये कृत्स्नस्य मिथ्यात्वेन ब्रह्मणोपि मिथ्यात्वं परैः पूर्व-पक्षीकृत्य निरस्तमिति तदभिप्रायेणोक्तम् - तदतिरेकीति - नेह नानास्तीत्यादिनिषेधवाक्यस्य ब्रह्मव्यतिरेकेपि निषेध्यनानात्वं सिध्द्यतीति दर्शितम् । नानाविधेति - तत्कृतज्ञानभेदः-ज्ञातृज्ञेयावच्छिन्नवृत्तिज्ञानभेदः, अनेन वृत्तिस्फुरितचैतन्यभेदस्य स्वरूपप्रयुक्तताव्यावृत्तिः । भेदशब्देनैकैककोटिषु अवान्तरभेदा विवक्षिताः, आदिशब्देन निरस्नीयदुःखरूपजन्मजरामरणान्युच्यन्ते । सर्वमिति - वक्ष्यमाणश्रुतिगतसर्वशब्दस्यायमर्थ इति भावः । तस्मिन्निति निरधिष्ठानभ्रमपक्षव्युदासः, एवकारेणाधिष्ठानबहुत्वनिषेधः, तथा सति हि प्रपञ्चस्य तज्ज्ञाननिवर्त्यत्वसिद्धिः । यद्वा, तस्मिन्नित्येकवचनेनेधिष्ठानैकत्वसिद्धिः, नानाध्यासा नानाधिष्ठानका दृष्ठाः, तत्कथमेकाधिष्ठानकत्ममिति विरोधं स्वयंप्रकाशवस्तुनोऽधिष्ठानत्वविरोधं च स्फोरयत्येवकारः । मिथ्याभूतम् - मिथ्याभाववत्-वक्ष्यमाणमिथ्यात्व-लक्षणवदित्यर्थः । ब्रह्मण एव सत्यत्वे व्यतिरिक्तमिथ्यात्वे च किं प्रमाणमित्यत्राह - सदेवेति । सदे वेति विजा-तीयभेदो व्यावर्त्यते, एकमेवेति सजातीयभेदः, अद्वितीयमिति स्वगतभावाभावरूपभेदः, षड्#िवधतात्पर्यलि#िङ्गो-पेतसद्विद्यागतत्वादिदं वाक्यं प्रथममुपात्तम् । अथैवकारफलितनिषेधकण्ठोक्तिमत्परविद्यावाक्यमुपादत्ते - अथेति । इदञ्च कारणत्वशङ्कितदोषव्युदासोपक्रमककारणवाक्यं, भूतयोनिमित्युक्तवा अनन्तरं तस्यैव प्रपञ्चनात्, अद्रेश्य-मग्राह्यम्-प्रत्यक्षगोचरोऽनुमानागोचरः, अथवा चक्षुरगोचर इन्द्रियान्तरागोचरः । अगोत्रम्-अनामकम् । अवर्णम्-अनैल्यादिकम् । अचक्षुःश्रोत्रमपाणिपादम्-ज्ञानकर्मेन्द्रियरहितम् । नित्यं विभुम् कालदेशाभ्यामपरिच्छिन्नम् ।

सर्वगतम् - सर्वेण जगताऽधिष्ठानतया गतम्-आश्रितं, वस्तुपरिच्छेदरहितमित्यर्थः । सुसूक्ष्मम्-अदृश्यत्वं न तुच्छत्वातिदूरत्वादिना, किन्तु सुसूक्ष्मत्वादित्यभिप्रायः, वाक्यभेदादनेकयत्तच्छब्दान्वयोपपत्तिः । अथ शोधक-वाक्यमुपादत्ते - सत्यमिति । अनृतजडपरिच्छिन्नव्यावृत्तनिर्विशेषवस्तुपरमिदं वाक्यं, कारणवाक्यकार्थ्यात् शोधकवाक्यान्तरैकार्थ्यात् सामानाधिकरण्यान्यथानुपपत्त्या चेति वक्ष्यते । निष्कलम्-कला अवयवाः, निरवय-वमित्यर्थः । तत्र लिङ्गं निष्क्रियत्वम् । शान्तम्-ऊर्मिषट्करहितम्; अशनायापिपासे शोकमोहौ जरामृत्यू चोर्मयः । निरवद्यं निरञ्जनम् कर्मसम्बन्धतत्फलरहितम्, अनेन सत्यज्ञानादिवाक्यगर्भि तव्यावृत्तिः स्फुटीकृता । अथ चिन्मा-त्रशब्दाभिप्रेतं ज्ञेयत्वव्यावृत्तिमाह - यस्येति । अमतमविज्ञातमिति श्रवणमननादिरूपज्ञानाविषयत्वोक्तिः । अथ ज्ञातृत्वनिषेधपरं वाक्यमाह - न दृष्टेरिति । अत्रापि पूर्वोक्तज्ञानावस्थाभेदो विवक्षितः, अस्य पुरुषार्थत्वायासुखा-द्य्वावृत्तिरुच्यते - आनन्दो ब्रह्मेति । आनन्दशब्दोऽसुखाद्य्वावृत्तिमात्रपरः । अत एव ह्यानन्दीत्युक्तिः, इत्थं ब्रह्मणो निर्विशेषचिन्मात्रत्वे श्रुतिवाक्यजातमुपन्यस्तम् । अथ व्यतिरिक्तमिथ्यात्वे प्रमाणमुपन्यस्यते, तत्र प्रथमं मिथ्या-भूतस्य जगतो ब्रह्मण्यधिष्ठानेऽध्यवस्तत्वं दर्शयति-इदं सर्वं यदयमात्मेति-सामानाधिकरण्येन । अधिष्ठानेनाध्यस्त सामानाधिकरण्यं हि बाधार्थं दृष्टम्, यथा-रज्जुसर्प इति । पूर्वं सर्वं तस्मिन्नेवेति प्रतिज्ञातं ब्रह्मणः सर्वाध्यासाधि-ष्ठानत्वञ्चानेन वाक्येन दर्शितम् । व्यतिरिक्तनिषेधकण्ठोकिं्त दर्शयति- नेह नानास्ति किञ्चनेति । नानापश्यन्नत्य-न्ताज्ञ इति दर्शयति - मृत्योरिति । अत्र मृत्युरविद्या "तमसो वा एष तमः प्रविशती "तिवत्, इवशब्देन नानात्व-स्यापारमार्थ्यं दर्शितम् । मिथ्याभूतं चेत् कदाचिन्निवृत्तिः स्यादित्यत्राह - यत्र हीति । यत्र-यदा । द्वैतमिव भवति-इवशब्दः पूर्ववत् । तत्-तदा । इतर इतरम्-इतरेण पश्यतीत्यर्थः । केनेति वक्ष्यमाणत्वादितरेणेत्यध्याहारः । यत्र त्विति । यत्र-यदा । अस्य सर्वमात्मैवाभूत् तत्-तदा । केन कं पश्येत् क इत्यध्याहार्यम् इतर इत्युक्तत्वात् पश्ये-द्विजानीयादिति ज्ञानपर्वभेदोक्तिः । इदं कृत्स्नमिथ्यात्वं दृष्टान्तेनोपपादयन्तीं श्रुतिमुदाहरति - वाचेति । विकारः-घटादिसंस्थानं नामधेयं च वाचारम्भणम् वागालम्बणं, व्यावहररिकमित्यर्थः । तस्मान्मृत्तिकेत्येव सत्यम् । ब्रह्मणि नानात्वं पश्यतः पूर्वोक्तमृत्युशब्दाभिहिताज्ञानकार्यं भयञ्च दर्शयति - यदा हीति । उदरम्-उ अवधारणे "तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीना"मितिवत् । दरम्-अल्पम् । यद्वा, उत् अरम् उदित्यस्य भवतीत्यनेनान्वयः "व्यवहिताश्चे"ति सूत्रात् । अरम्-शीघ्रम् यदा ह्येवेत्यादेः पश्चादुपादानं सिद्धान्ते परिहारसौकर्यार्थं, तञ्च पूर्वोक्त-वाकयानामेकन्यायपरिहार्यत्वात्, ब्रह्मणो निर्विशेषचिन्मात्रत्वे व्यतिरिक्तमिथ्यात्वे च श्रुतिदर्शिता, तत्र निर्विशेषत्वे सूत्रं प्रदर्शयते - न स्थानत इति । उभयलिङ्गं-साकारत्वं साकारनिराकारत्वञ्च, सर्वत्र स्थितस्यापि ब्रह्मणो नास्ति निराकारमित्यर्थः । अन्यमिथ्यात्वे सूत्रमाह - मायेति । स्वाप्नमर्थजातं कार्त्स्त्#ेन मायामात्रम् कुत इति चेत् ? अनभिव्यक्तस्वरूपत्वात्-दुर्न्निरूपत्वात्, बाधितत्वादित्यर्थः । स्वामार्थमिथ्यात्वं जगन्मिथ्यात्वदृष्टान्ततया दर्शितम् । अस्मिन्नर्थद्वये उपबृंहणवचनानि दर्शयति - प्रत्यस्तमितभेदमिति । प्रत्यस्तमितभेदम्-सजातीयविजातीयभेद-रहितम् । सत्तामात्रम्-स्वगतभेदरहितम्, अत एव वचसामगोचरम् । तर्हि तुच्छत्वं स्यात् न सर्त्तत्यत्राह - आत्म-संवेद्यमिति - स्वयंप्रकाशमित्यर्थः । ब्रह्मसंज्ञितमिति - ब्रह्मेति संज्ञामात्रमेव, न तु ब्रह्मत्वादिगुणयोग इति भावः। निर्विशेषं चेत् कथं जगदवभास इत्याकाङ्क्षायामुपादत्ते - ज्ञानस्वरूपमिति । प्रपञ्चमिथ्यात्वमनेन श्लोकेनोच्यते । अत्यन्तनिर्मलम्-सकलविशेषरहितम् । अर्थस्वरूपेण-जडस्वरूपेण । अर्थनानात्वस्य भ्रान्तिसिद्धत्वादेक एव परमार्थ इति दर्शयति - परमार्थस्त्वमिति । एतद्विवृणोति श्लोकद्वयेन - यदेतदित्यादिना - भ्रान्तिश्चेत् कस्वचिन्निवर्त्तेतेत्या-काङ्क्षायां केषाञ्चित्तन्निवृतिं्त दशर्यति - ये तु ज्ञानविद् इति - ज्ञानसत्यत्वं जडमिथ्यात्वञ्चोक्तम् । अथ ज्ञानाकार-

णात्मनामैक्योकिं्त दर्शयति - तस्येति । एकमयम्- एकम् । आत्मपरिनिर्देशकृतभेदशङ्कामपि व्युदस्यति - यद्य-न्योस्तीति । अत्र दृष्टान्तमाह - वेणुरन्ध्रेति । अस्योपपादितस्यार्थस्योपदेशं दर्शयति - सोऽहमिति । यथोप-दिष्टमकरोदित्याह - तत्याजेति । अथात्मनां ब्रह्मणैक्योकिं्त दर्शयति - विभेदजनक इति । अथ भगवद्गीतायां सर्वात्मनां परस्परं ब्रह्मणा च सहैक्योक्तिमुदाहरति - अहमात्मेति । सवर्भूतशब्देन शरीराण्युच्यन्ते, एतत् स्फुटयति क्षेत्रज्ञञ्चेति । सर्वक्षेत्रष्वित्यनेन भूतशब्दस्य शरीरपरत्वं स्फुटीकृतम् । तत्रैव व्यतिरिक्तमिथ्यात्वोकिं्त दर्शयति - न तदस्तीति । वस्तुस्वरूपोपदेशपरैः, न तूपायपरैः, अनन्यपरैरिति भावः । निर्विशेषचिन्मात्रमिति पूर्ववदर्थः । अभि-धानादित्यस्याशेषेत्यादिपूर्वप्रतिज्ञावाक्येन सहान्वयः । ननु किमन्यत्र सतोऽन्यत्र ख्यातत्वं मिथ्यात्वम् ? उता-त्यन्तासत्तत्वम् ? पूर्वस्मिन् कल्पे क्वचित् पारमार्थ्यमभ्युपगतं स्यात्, द्वितीये तु निवत्र्त्यमेव नास्तीति शास्त्रवैयर्थ्यम् । अत्यन्तासत्त्वं चानुपपन्नं, ख्यातेः । स्वयंप्रकाशस्य वस्तुनो भ्रमाधिष्ठानत्वं नोपपद्यते, स्वयाथात्म्याप्रकाशमूलो ह्यध्यासः पराधीनप्रकाशस्य जडस्यैव तत्सम्भवः । अतः प्राक् प्रतिज्ञातं प्रपञ्चमिथ्यात्वं ब्रह्मणो भ्रमाधिष्ठानत्वं चायु-क्तमित्यस्मिन् चोद्यद्वये प्रथमं परिहर्त्तुं मिथ्यात्वलक्षणमाह - मिथ्यात्वं नामेति । निवर्त्यत्वमित्युक्ते मुद्गरादिनि-वत्यर्घटादावतिव्याप्तिः, तत्परिहाराय ज्ञानशब्दः, तावतापि शक्तिमदीश्वरादिसङ्कल्परूपज्ञाननियर्त्ये वस्तुन्यति-व्याप्तिः, सापि यथावस्थितवस्तुज्ञानमात्रनिवर्त्यत्वस्य विवक्षितत्वात्परिहृता भवति प्रबलभ्रान्तिज्ञाननिवत्र्त्यसत्य-रजतादिष्वतिव्याप्तिपरिहाराय यथावस्थितशब्दः । यथावस्थितज्ञाननिवर्त्यत्वमित्युक्ते समानाधिकरणधीर्जायेत, तदा भ्रान्तिज्ञाननिवत्र्त्ये व्यभिचारस्तदवस्थः, तत्र ज्ञानस्वरूपं हि यथावस्थितं विषयस्यैव ह्ययथार्थत्वम्; अतो यथा-वस्थितं ज्ञानमिति सामानाधिकरण्यशङ्काव्यावृत्त्यर्थं यथावस्थितवस्तुज्ञाननिवत्र्त्यत्वमित्युक्तम् । ज्ञानप्रागभावे व्यभिचार इति तद्य्वुदासार्थं प्रतीयमानत्वपूर्वकपदम् ज्ञानप्रागभावोपि कदाचित् प्रतीयमानत्वपूर्वको निवर्त्यत इति चेन्न, नियमस्य विवक्षितत्वात् । यथा-"सिद्धे शब्दार्थसम्बन्ध" इत्यत्र सिद्ध एवेत्यवधारणस्य विवक्षितत्वान्नित्य-त्वसिद्धिः, यथा "अबूभक्षो वायुभक्ष" इत्यादौ अत एव भक्षयतीत्यवधारणसिद्धिः-तद्वत् भूदलनज्ञाननिवृत्तस्य रज्जुसर्पस्य यथावस्थितवस्तुज्ञाननिवर्त्यत्वाभावादव्याप्तिरिति चेत्-न, तस्यापि यथावस्थितवस्तुज्ञानेन निवतर्यितुं योग्यत्वात्; अत एव हि निवत्र्त्यत्वमित्युक्तं, न तु निवृत्तत्वमिति । न च सर्पभ्रमजनिते रज्जुधीनिवर्त्ये परमार्थभूते भयेऽतिव्याप्तिरिति वाच्यम्, भयस्य क्षणिकतया स्वयमेव निवृत्तस्य रज्जुज्ञाननिवर्त्यत्वाभावात् रज्जुज्ञानं ह्युत्तर-भयोत्पतिं्त प्रतिबध्नाति; अतः प्रतीयमानत्वनियमपूर्वक-यथावस्थितवस्तुगोचरज्ञानमात्रनिवर्तनीयत्वं मिथ्यात्व-मित्यर्थः । अनेन लक्षणेन सदसद्वैलक्षण्यं फलितं, तत्र प्रतीयमानत्वपूर्वकेत्यसद्य्वावृत्तिः, शेषेण सद्य्वावृत्तिः । अस्य मिथ्यात्वलक्षणस्य सम्प्रतिपन्नमिथ्याभूतेष्वनुकतत्वं दर्शयति - यथेति । अथोक्तलक्षणस्य पक्षेऽतिदेशे कर्तुमु-चितेऽपि स्वप्रकाशे वस्तुन्यध्यासानुपपत्तिरूपं द्वितीयं चोद्यं परिहर्त्तुमाह - दोषवशाद्धि तत्र तत्कल्पनमिति । अजडत्ववज्जडत्वमपि नाध्यासप्रयोजकं, जडेऽपि दोषाभावे सत्यध्यासादर्शनात्, अतो दोष एव हि सर्वत्र कलपकः, कल्पने दोषाधीने स्वतो वा परतो वा प्रकाशो भ्रमाधिष्ठानत्वोपयोगी । पुरोवर्त्तिनि भासमाने हि रजतभ्रम इति दाष्ठान्तिके परिहर्तुं दृष्टान्ते कल्पनस्य दोषाधीनत्वमुक्तम्, इत्थं प्रतीयमानत्वपूर्वकं यथावस्थितवस्तुज्ञाननिवर्त्यत्वं मिथ्यात्वं, मिथ्याभूतार्थकल्पनञ्च दोषवशादिति दृष्टान्ते शिक्षितमर्थद्वयं दार्ष्टान्तिकेऽतिदिशन् शङ्काद्वयञ्चार्थान्नि-राकरोति - एवमिति । अत्यन्तवैसादृश्यरहितकतिपयाध्यास एकाधिष्ठाने दृष्टः । यथा सर्पभूदलनाम्बुधाराद्यध्यासो रज्जुमात्रे । कथमेकस्मिन्नधिष्ठाने युगपन्मिथोऽत्यन्तविसदृशानन्तप्रपञ्चाध्यास इत्येका "यः सर्वज्ञ" इत्यादिषु सर्व-ज्ञतादिगुणकत्वेन प्रतीते ब्रह्मणि कथं वाध्यास इति द्वितीयाचिन्मात्रवपुषीत्यनेन पूर्वोक्तां स्वयंप्रकाशत्वकृतामध्या-

सानुपपतिं्त स्फोरयति । परे ब्रह्मणीति शङ्काद्वयं परिहृतं भवति, विलक्षणाधिष्ठानत्वात् कृत्स्नाध्यास उपपन्न इति वैलक्षण्यं च सर्वसाधारणसन्मात्ररूपत्वम् सर्वज्ञत्वादिगुणा अपरे ब्रह्मणि, परे ब्रह्मणि तु चिन्मात्रतया सर्वज्ञत्वा-दिगुणान्वयादध्यास उपपन्न इति चाभिप्रायः । इदमिति प्रतीयमानताकारपरामर्शिना पदेन, यथावस्थितब्रह्मस्व-रूपावबोधबाध्यमितिपदेन च पूर्वोक्तमिथ्यात्वलक्षणमनूदितं भवति । दोषपरिकल्पितामित्यनेन दोषवशादित्यादि-नोक्तमतिदिष्टम् । विविधकृत्स्नाध्यासं दर्शयति - देवेति । मिथ्यारूपम्-मिथ्यात्वलक्षणोपेतत्वाद्रज्जुसर्पवन्मिथ्येत्युक्तं भवति । दोषः कः ? किं परमार्थः ? उत अपरमार्थः ? परमार्थत्वे ज्ञाननिवर्त्यत्वं न स्यात् । अपरमार्थत्वे प्रपञ्चवत् कल्पकान्तरापेक्षयानवस्था स किं ब्रह्मण्यतिरोहिते कल्पयति ? उत तिरोहिते ? अतिरोहिते चेदनुपपन्नं, रज्जुत्वे प्रकाशमान इवाध्यासोदयविरोधात् । अविरोधे पश्चादप्यनिवृत्तिः । तिरोहिते चेत्, तिरोधानं किं स्वतः ? किं वा परतः ? यदि स्वतः अनिवर्त्यत्वं, निवृत्तौ स्वरूपोच्छेदो वा यदि परतः तत्परं वाच्यम् । किञ्च नानाध्यासानां नानादोषमूलत्वं दृष्टम् । अतोऽनेकदोषा अभ्युपगन्तव्या इतीमाः शङ्काः परिहर्तुमाह - दोषश्चेति । चः शङ्कानिवर्त्तकः। को दोष इत्यस्य प्रतिवचनम्-अविद्येति । तस्याः पारमार्थ्यापारमार्थ्यविकल्पे सदसदनिर्वचनीयेत्यपारमार्थ्याभ्युपगमः। अनवस्थापरिहारोऽनादीति तिरोहितातिरोहितविकल्पस्य प्रतिवचनं स्वरूपातिरोधानशब्देन, तञ्च किं स्वतः परत इत्यत्र परत इत्यङ्गीकृतं, तिरोधानस्य हेतुनिर्देशात्, नानाध्यासस्यैकदोषभूलत्वमुक्तं विविधेत्वादिना । विक्षेपः - अध्यासः । आच्छादिकाऽविद्या विक्षेपिकाऽविद्येत्यविद्याया एकस्या एवावस्थाद्वयं तदभिमतं तिरोधानविक्षेपहेतु-त्ववचनात् सूचितम् । एवम्भूतामविद्यां प्रतिज्ञाय, एतदनुगुणं प्रमाणमाह - अनृतनेत्यादिना । प्रत्यूढाः-प्रतीपं नीताः। प्रत्यूढशब्दवैशद्यार्थमुपादत्ते - तेषामिति । नात्र बहुवचने तात्पर्यम् "अदितिः पाशान् प्रमुमोक्तु" इतिवत्, अस्याः सदसदनिर्वचनीयत्वमुच्यते - नासदासीन्नो सदासीदिति । किमासीदित्यत्राह - तम इति । तमश्शब्देनाच्छादकत्वं विवक्षितम् तमो नाम "अक्षरं तमसिं लीयत" इति प्रकृतिरुच्यत इति शङ्कायामुदाहरति - मायान्तु प्रकृतिमिति । विविधाध्यासहेतुत्वं दर्शयति - इन्द्रो मायाभिरिति । अस्या ऐक्यज्ञानेन विना अनिवत्र्त्यत्वमाह - ममेति । अना-दित्वमाह - अनादीति । अत्रेशितव्यसापेक्षमहेश्वरत्वेन्द्रत्वबहुवचनश्रवणाद्विजातीयसजातीयस्वगतभेदसाहित्यं प्रतिपन्नमिति तदपनुत्तये व्याचष्टे - निर्विशेषेति । सगुणत्वे प्रतिपन्नेऽपि स्वरूपपरवाक्यानुगुण्याद्दोषप्रतिपादन-तत्पराणां वाक्यानां न प्रतिपन्नभेदे तात्पर्यमिति भावः । नह्येव इन्द्रादिशब्दप्रतिपन्नमपि स्वरूपपरवाक्योपदिष्टं ब्रह्मैवेति भावः । अनादित्वसदसदनिर्वचनीयत्वतिरोधायकत्वविविधाध्यासकरत्वान्युपात्ततत्तद्वाक्यप्रतिपन्नान्याह - अनाद्यविद्ययेत्यादिना । स्वगतशब्देनाधिष्ठानतया सम्बन्धो विवक्षितः । न तु सजातीयविजातीयसहपठितस्वगत-नानात्वम् । एवं दोषवाचिवाक्यगतमिन्द्रमहेश्वरादिपदजातमर्थस्वारस्येन स्वरूपपरवाक्यप्राबल्यान्निर्विशेषवस्तुपरं व्याख्यातम् । अथ दोषवाचिभिरेवोपबृंहणवाक्यैर्निर्विशेषस्य वस्तुन एव दोषसम्बन्धित्वमुक्तमिति दर्शयति - यथो-क्तमिति । चिन्मात्रब्रह्मणोऽज्ञानविजृम्भितत्वं जगतः प्रतिज्ञायते - ज्ञानस्वरूप इति । न तु वस्तुभूतः-वक्ष्यमाण-शैलाब्धिधरादिवस्तुभूतो न भवतीत्यर्थः । विज्ञानविजृम्भितानीति - विज्ञानशब्देन विविधं ज्ञायतेऽनेनेति करण-व्युत्पत्त्याऽविद्याऽभिधीयते, प्रतिज्ञातं प्रपञ्चस्याविद्याकल्पितत्वं व्यतिरेकमुखेनोपपादयति - यदेति । शुद्धम्-अवि-द्यारहितम् । निजरूपिभेददर्शनरहितं, तन्निमित्तकमर्क्षये अयास्तरागादिदोषम् । सकतात् कल्प्यतेऽनेनेति सङ्कल्पः अविद्या । वस्तुषु-धर्मिभूतपदार्थेषु । वस्तुभेदाः-आकारभेदाः । मध्ये "वस्त्वस्ति किं महीघटत्व"मिति श्लोकद्वयं जगदुपलब्धिप्रकारेण वस्तुभेदासत्यत्वोपपादकत्वेनोपपाद्य प्रमेयाधिक्याभावादत्रानुपात्तं, तञ्च सिद्धान्ते दर्शयिष्यते । विजातीयभेदाभावमुपसंहरति - तस्मादिति पूर्वार्द्धेन । अथात्मबहुत्वस्य काल्पनिकत्वमुच्यते-विज्ञानमित्यर्द्धेन ।

पूर्वोक्तमात्मैक्यमेकं सदैकमित्यत्र एकशब्देनानूद्य स्वगतनानात्वं निषिध्य परमपरेशादिशब्दानामपि वस्तुमात्रपरत्वं प्रतिपादयति- ज्ञानमिति । विशुद्धमित्यादिपदैरविद्याराहित्यं तत्कृतभेददर्शनवैधुर्यं तन्मूलशोकलोभादिविधुरता चोच्यते । सदैकम्-जन्मवृध्द्यादिरहितम्, यतोऽन्यन्नास्ति तद्यथोक्तस्वरूपमित्यर्थः । एतन्न परमतमित्याह - सद्भाव इति । एतद्भुवनाश्रितम्-भुवनेनाधिष्ठानतयाऽऽश्रितं ज्ञानं, संव्यवहारभूतम्-समन्ताद्य्वावहारविषयभूतं यद्वर्त्तते तत्रापि कारणमविद्येत्युक्तं, तञ्च न परमतं सद्भाव एवोच्यत सत्यर्थः । एवं सिद्धपरवाक्यपर्यालोचनया ब्रह्मण एव सत्यत्वं व्यतिरिक्तस्याविद्यापरिकल्पितत्वञ्च तत्त्वमित्युक्तम् । ततः किं प्रस्तुतस्य कर्माङ्गकत्वानर्हवाक्यार्थज्ञानमो-क्षोपायत्वस्येति शङ्कायामुपायपरवाक्यानामपि सिद्धपरवाक्यप्रतिपन्नार्थानुगुणोपायपरत्वमाह - अस्या इति । चः शङ्कानिवर्तकः । अस्या इत्यनेन सदसदनिर्वचनीयत्वादिविशेषणविशिष्टता विवक्षिता । तस्या निवृत्तौ प्रमाणं दर्शयति न पुनरिति - मृत्युरत्राविद्या, तन्निवृत्तिश्चैक्यज्ञानादित्याह - तदेकं पश्यतीति । मृत्युकार्यस्य रोगादेरपि निवृतिं्त ज्ञापयति - न पश्यो मृत्युमिति । न रोगं नोत दुःखतामिति तच्छेषः, निर्विशेषवस्तुज्ञानानन्तरमेवाभयप्राप्तिं दर्शयति-यदा हीति । अदृश्ये-प्रत्यक्षाद्यविषये । अनात्म्ये-आत्म्यं व्याप्यं शरीरम्, अशरीरे । अनिरुक्ते-अनिर्व-चनीये । अनिलयने-अनाधारे । अभयम्-अभयार्थम्, अव्ययीभावसमासः । प्रतिष्ठा-निष्ठा । वादिभिर्बन्धमूल-त्वेनाभ्युपगतस्य कर्मणोऽप्यविद्याकल्पितत्वात् तस्यापि ज्ञानेन निवृत्तिमाह - भिद्यत इति । हृदयग्रन्थिरविद्या । पूर्ववाक्येषु किञ्चिद्भेदः प्रतीयत इव भातीति तद्य्वावृत्तये ज्ञानस्य ऐक्यविषयत्वज्ञापनाय ऐक्यापतिं्त फलं दर्शयति- ब्रह्म वेदेति । यथोपासनं हि फलम् । अत ऐक्यज्ञानमेव बन्धनिवर्त्तकमिति भावः । उपायान्तरनिषेधार्थमुदाहरति-तमेवमिति । नात्राविद्यानिवृत्तिः प्रतीयते, तद्वाचिशब्दाश्रवणादित्यत्राह - अत्रेति । "मृत्युर्धावति पञ्चम" इत्यादौ मृत्युशब्दस्य यमादिषु प्रयोगदशर्नात्तद्य्वावृत्त्यर्थमुक्तम् । अत्रेति-बन्धनिवृत्तिपरवाक्येष्वित्यर्थः । तत्र प्रयोगं दर्शयति । यथेति - प्रमादं वै इति वचनात् पूर्वत्र मोहो मृत्युः सम्प्रतो यः कवीनामित्युक्तम् मोहो विपरीतज्ञानं तन्मृत्युरिति परमतं, सनत्सुजातस्य तु प्रमादो मृत्युर्मतः । प्रमादो यथावदप्रतिपत्तिः, स्वरूपाग्रहणे हि अन्यथाप्रतिपत्तिः, तस्मा-न्मोहस्यापि हेतुरात्मन्यनवधानरूपः प्रमाद इति तद्धेतुभूताविद्यैव प्रमादशब्देन विवक्षितेति सैव मृत्युरित्यभिप्रायः । उपात्तेषु वाक्येषु ज्ञानस्याविद्यानिवर्त्तकत्वं प्रतिपन्नं ब्रह्मणो निविर्शेषचिन्मात्रत्वं तेनात्मन एकत्वज्ञानं निवर्त्तकमिति च न प्रतिपन्नमित्यत्राह - सत्यं ज्ञानमिति । सत्यज्ञानादिवाक्यं सर्वतो व्यावृत्तत्वप्रदर्शनार्थमुपात्तं, पुरुषार्थत्वा-यासुखाद्य्वावृत्तिज्ञापनार्थमुपात्तं विज्ञानमानन्दमिति आदिशब्देनास्थूलमित्यादि गृह्यते, एवं ब्रह्मणो निर्विशेषत्वे शोधकवाक्यान्युदाहृतानि । अथ ब्रह्मात्मैक्यप्रतिपत्तौ श्रुतिमुपादत्ते-अथ य इति । अथ योऽन्यामित्यैक्योपास-नविर्धिभेदवासनानिरासार्थः, विहितोपासनस्यैक्यविषयतां ज्ञापयितुमैक्योपदेशं दर्शयति - तत्त्वमसीति - उप-देशानुगुणमुपासको देवतां प्रत्याह - त्वं वेति । उपदिष्टार्थमात्मन्यनुसन्धत्ते । तद्योऽहमिति । अस्यार्थस्य श्रुति-विवक्षितत्वसिद्धये सूत्रं दर्शयति - वक्ष्यति चेति - "आत्मेति तूपगच्छन्ति ग्राहयन्ति च" "आत्मेत्युपासीत" तथा ह्युपगच्छन्ति मुमुक्षव उपासत इत्यर्थः । ग्राह्यन्ति च-ज्ञापयन्ति च तथा शास्त्राणि, सूत्रकाराभिप्रायविदां वाक्यं दर्शयति-तथा चेति । तन्निष्पत्तेः-तत्र कल्पितत्वादित्यर्थः । न केवलं श्रुतिः, तदनुग्राहकतर्कोऽप्यस्तीत्याह - अनेन चेति । चः समुच्चये । कर्मनिरपेक्षज्ञाननिवर्त्यत्वायाह - मिथ्यारूपस्येति । हेतुत्वं गर्भितम् । सकारणस्य-अविद्याभेददर्शनसहितस्य । बन्दस्य निवृत्तिर्युक्ता न हि मिथ्यासर्पनिवृत्तौ नायं सर्पो रज्जुरेषेति ज्ञानादृते कर्मा- पेक्षेति भावः । अथानुमानागमयोर्व्याप्तिग्रहणलिङ्गदर्शनधर्मिप्रतिपत्त्यर्थं व्युत्पत्त्यर्थं च प्रत्यक्षसापेक्षत्वादनुष्णो-ऽयमग्निर्द्रव्यत्वात् "आदित्यो यूपः" "यजमानः प्रस्तरः" इत्यादिषु अनुमानागमौ प्रत्यक्षविरुद्धार्थप्रतिपादनाशक्तौ

दृष्टौ, तस्मान्न प्रत्यक्षविरुद्धार्थप्रतिपादनक्षमा श्रुतिरित्यभिप्रायेण भेदवादी चोदयति - ननु चेति - श्रुतिवाक्येप्य-वान्तरचोद्येषु परिहृतेष्वितमपि चोद्यमस्तीति चार्थः, स्वप्नादिषु सप्रभूतलनादिषु च कतिपयभेदनिवृत्तिर्दृष्टा, तद्य्वा-वृत्त्यर्थः सकलशब्दः । अत्र किं प्रत्यक्षत्वान्न बाध्यत्वम् ? उत परोक्षत्वान्मूलित्वाञ्च न बाधकत्वम् ? इति शङ्काद्वयं हृदि निधाय प्रथमं प्रत्यक्षत्वादबाध्यत्वमित्येतत्परिहरति । कथं चेति - स तु प्रत्यक्षाभास इति चेत् न; प्रतीतिदशा-यामाभासत्वानवगमात् पश्चात्प्रमाणबाधेन ज्ञायत इति चेत् तत् प्रपञ्चग्राहिप्रत्यक्षस्यापि तुल्यं, भेदस्य श्रुतिबाधा-दित्येतदत्राभिप्रेतम् मूलित्वात्परोक्षत्वाञ्च न बाधकं शास्त्रमिति शङ्कते - तत्रेति । इह त्विति - तुल्यत्वव्यावृत्तये तुशब्दः - प्रत्यक्षमूलस्येति - मूलित्वान्न शास्त्रं बाधकमिति भावः । शास्त्रस्येति - परोक्षत्वान्न बाधकमिति भावः । तुल्यत्वे प्रयोजके सति बाध्यबाधकभावो विपर्ययेणापि स्यादिति तदप्रयोजकम्, अतस्तत्र बाध्यबाधकभावे प्रयोज-कान्तरं त्वया वक्तव्यं, तदेवास्माकमपि प्रयोजकमित्यभिप्रायेणाह - तुल्ययोरिति । बाध्यबाधकभावानियमव्यावृत्तये भेदवाद्यभिमतत्वेन प्रयोजकान्तरं शङ्कते - पूर्वोत्तरयोरिति । पूर्वोत्तरयोः-बाध्यबाधकयोः । त्वदुक्तं प्रयोजकमत्रापि तुल्यमित्याह - शास्त्रेति । मूलमूलित्वादिसद्भावे मूलस्य प्रत्यक्षस्य च बाधकत्वम्, इतरस्य बाध्यत्वं च दृष्टम्, अतो मूलमूलित्वपरोक्षत्वादिवैषम्यराहित्ये सति दुष्टकारणजन्यत्वतदभावौ बाध्यबाधकभावे प्रयोजकाविति शङ्कायामाह-एतदुक्तमिति । तुल्यत्वे सति दुष्टकारणजन्यत्वतदभावौ न प्रयोजकावित्यभिप्रायेण तुल्यशब्दः प्रयुक्तः, विशिष्टस्य हेतुत्वे विशेषणांशस्यापि हेतुत्वात्तुल्यशब्देनैकदेशोपादानम्, दुष्टकारणजन्यत्वतदभावविशेषणीभूतं तुल्यत्वं विव-क्षितम् तुल्यत्वे सति विपरीतप्राबल्यदौर्बल्यकारणाभावे सति दुष्टकारणजन्यत्वतदभावौ न प्रयोजकावित्यर्थः । सापेक्षत्वं निरपेक्षत्वं मूलमूलिभावः । आदिशब्देन परोक्षापरोक्षभावविलम्बाविलम्बा विवक्षिताः, श्रुतिलिङ्गादिषु विलम्बाविलम्बाभ्यां हि प्राबल्यदौर्बल्ये । यद्वा अप्रयोजकत्वेनोक्तं तुल्यत्वं दृष्टान्ततयाऽनूदितम् वैषम्यान्तराभावे सति दुष्टकारणजन्यत्वतदभावावप्यादिशब्देन विवक्षितौ, एतेषामप्रयोजकत्वमेकेन दृष्टान्तेनोपपादयति - ज्वालेति अन्यथेत्यध्याहर्तव्यम् - प्रत्यक्षोपमर्दायोगादिति - अयोगप्रसङ्गादित्यर्थः । ज्वालाभेदानुमाने हि मूलामललिभा-वेऽस्ति विलम्बाविलम्बौ च, प्रत्यक्षसापेक्षत्वादनुमानस्य तुल्यत्वे सति दुष्टकारणजन्यत्वतदभावयोः प्रयोजकत्व-मप्यनेन व्युदस्तं भवति तद्रहित्येपि बाध्यबाधकभावदर्शनात् । तत्र किं विषयं प्रत्यक्षं बाध्यमित्यत्राह - तत्र हीति । ऐक्यग्राहिप्रत्यक्षं बाध्यमित्यर्थः । तर्हि किं प्रयोजकम् ? इत्यत्राह-एवञ्चेति । तुल्यत्वादीनां प्रयोजकत्वेऽनुपपन्ने सति द्वयोरिति - प्रत्यक्षयोरनुमानयोरागमयोः प्रत्यक्षानुमानयोरनुमानागमयोः प्रत्यक्षागमयोर्वेत्यर्थः । यत्सम्भाव्यमा-नान्यथासिद्धीरिति - सावकाशत्वादन्यथासिद्धमित्यर्थः । अनन्तरमनन्यथासिद्धमनवकाशमित्युक्ते, विषयान्तर-लाभोऽप्रमाणकोटिनिवेशो वा सावकाशत्वं, तेन स्वोपस्थापितार्थविषयप्रामाण्यं विनापि सम्भावितोदयत्वमन्य-थासिद्धत्वम् विरुद्धार्थप्रमाणाबाधेनापि सम्भवदुदयत्वमिति यावत् । अनन्यथासिद्धमनवकाशमिति - अनन्यथा-सिद्धत्वं नाम तदर्थप्रमाणतां विनाऽनुदयत्वं, विरुद्धार्थप्रमाणाबाधेनानुदयत्वमिति यावत्, तच्चानवकाशत्वात् । अनवकाशत्वं नाम-विषयान्तरालाभोऽप्रमाणकोटिनिवेशाभावो वा, अप्रमाणकोठ्यनन्तर्भावविषयान्तरालाभाभ्यां विरुद्धार्थोपस्थापकप्रमाणाबाधेनानुदयत्वमित्यर्थः । इति सर्वत्र - उक्तप्रकारेण सजातीययोर्विजातीययोर्वा प्रमाण-योर्विरोध इत्यर्थः । एवं बाध्यबाधकभावे प्रयोजकमस्तु, ततः किं प्रस्तुतशास्त्रप्राबल्यस्येत्यत्राह-तस्मादिति । तस्मात् अन्यथासिद्धत्वानन्यथासिद्धत्वयोरेव बाध्यबाधकभावे प्रयोजकत्वात् । अनादिनिधनाविच्छिन्नसम्प्रदायेति - अवि-च्छिन्नसम्प्रदायत्वादनादिनिधनम् सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वं ह्यपौरुषेयत्वसाधकम् । "अनाधिनि-धना ह्येषा वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतयः"। "अनादिनिधनं ब्रह्म" इत्यादिवचनानि

चानादिनिधनशब्देन स्मारितानि, अत एव असम्भाव्यमानदोषम् पौरुषेयत्वप्रयुक्तं हि भ्रमविप्रलिप्साप्रमादाश-क्तिरूपदोषचतुष्टयवत्त्वम् । अत एव अनवकाशम् । शास्त्रजन्यशब्दस्यावबोधशब्देनान्वयः । बाध्यबाधकभावा-ङ्गीकारस्य विरोधसापेक्षत्वाद्विरोधं दर्शयति - निर्विशेषेत्यादिना - नित्यम्-कालापरिच्छिन्नम् । शुद्धम्-अविद्यारहितम् तत एव मुक्तशब्दोऽविद्याकृतजन्मादिराहित्यपरः । बुद्धम्-भासमानम् । स्वप्रकाशशब्दः पूर्वं बुद्धशब्दोक्तभासमानत्वस्य पराधीनत्वव्युदासार्थः । स्वयमेव प्रकाशस्वभावत्वं स्वप्रकाशत्वं, तञ्च चिन्मात्र-शब्दवाजच्यत्वात्, स्वयंप्रकाशत्वं हि चित्त्वं, चित्स्वरूपत्वञ्च श्रुतिसिद्धम् मात्रशब्दो ज्ञेयत्वव्युदासपरः । ब्रह्मा-त्मभावावबोधेन-एवम्भूतस्य ब्रह्मणः स्वस्य चैक्यावबोधेनेत्यर्थः । सम्भाव्यमानेति - सम्भाव्यमानदोषत्वात्, सावकाशम्-अप्रमाणकोटौ लब्धनिवेशम् । अत एवान्यथासिद्धत्वमपि फलितम् । अन्यथासिद्धत्वं विपरीतप्र-माणमबाधित्वाप्युदयसम्भवः - प्रत्यक्षादीति - आदिशब्दादनुमानादिकमुच्यते - विविधेति । देवादिरूपेण स्वकार्यजन्मजरामरणादिरूपेण च विविधो ज्ञातृज्ञेयादिविकल्पः, स एव बन्धः, तन्निवृत्तिरित्यर्थः । सम्भाव्य-मानश्च दोषः कः ? इत्यत्राह - सम्भाव्ये चेति । भेदप्रपञ्चः-भेदसमुदायः, यद्वा भेदरूपः प्रपञ्चः । विविधवि-कल्पशब्दः प्रपञ्चविशेषणं भेदविशेषणं वा भेदः-ज्ञातृज्ञेयादिः, स च ब्राह्मणादिरूपेण विविधः देवमनुष्यादिरूपेण विकल्पवान् । अर्वाचीनाः केचित् काचतिमिरादिकं दोषमाचक्षते तदयुक्तं, तस्य क्वाचित्कत्वात् काचादिदुष्टप्रत्यक्षं सपक्षीकृत्य व्यतिरिक्तस्य काचादिदुष्टत्वमनुमीयत इति चेत्- न; अतिप्रसङ्गात् । अनादिनिधनत्वेन यच्छास्त्रमुक्तं तस्यापि शब्दत्वादित्यादिना दुष्टकत्र्तृकत्वानुमानं हि सुशकं, तत्र कर्त्तायोग्यानुपलम्भनिरस्त इति चेत्, तदत्रापि तुल्यमिति काचादेर्दोषत्वकल्पनानुपपत्त्या तद्य्वावृत्त्यर्थमाह - अनदीत्यादि । भेदवासनादिरूपा-आदिशब्देन भेदवासनाहेतुभूतं भेददर्शनं विवक्षितम् । अनयोर्हेतुहेतुमद्भावेऽन्योन्याश्रयपरिहाराय अनादिशब्दः, बीजाङ्कुर-न्यायादिति भावः । भेददर्शनं भेदवासना च हि कार्याविद्या, अत उक्तम् भेदवासनादिरूपाविद्येति । "आदित्यो यूपः" इत्यादिषु यूपादित्याद्यैक्याद्यप्रतिपादनं न प्रत्यक्षविरोधात्, किन्त्वन्यपरत्वात् "यत्परः शब्दः स शब्दार्थ" इति हि न्यायविदः, अन्यपरत्वञ्च तात्पर्यलिङ्गाभावादवगम्यते आदित्यो यूप इतिवाक्यं यूपाञ्जनविधिशेषत्वादन्यपरमिति परस्याभिप्रायः । यन्निर्दोषमुक्तं तत्रापि बाध्यबाधकभावनिमित्तभूतोऽर्थविरोधोस्ति, अतोऽवश्यमन्यतरस्य बाध्यत्वं स्यात् तत्र यद्बाध्यत्वे प्रयोजकं दुष्टकारणजन्यत्वं तत्तु नास्ति कथमत्र निर्वाह इत्याशयेन चोदयति - नन्विति । प्राबल्यदौर्बल्यहेतुर्नास्तीत्याह - अनादीति - अपिर्विरोधसूचकः । अर्थविरोधं दर्शयति - भेदावलम्बिन इति । सत्यमित्यर्द्धाङ्गीकारे भेदावलम्बिनो बाध्यत्वमङ्गीकृतं, दुष्टकारणजन्यत्वेऽनङ्गीकारः, अन्यथासिद्धत्वानन्यथासि-द्धत्वयोरेव बाध्यबाधकभावे प्रयोजकत्वम् पूर्वोक्तं दुष्टकारणजन्यत्वमपि हि अन्यथासिद्धत्वप्रकारविशेषः । अत्रापि मुखभेदेनान्यथासिद्धिमुपपादयति - पूर्वापरेत्यादिना - अपच्छेदन्यायाद्बाध्यत्वं प्रत्यक्षस्यापि तुल्यं, तत्र दोषमूलत्वं च बाध्यत्वेऽधिकहेतुः, अपच्छेदे पूर्वापरशास्त्रयोः पौर्वापर्यं प्रमित्युत्पत्तिक्रमात्, न पाठक्रमात् "पञ्चÐत्वजः समन्वारब्धाः प्रसर्पन्ति अध्वर्यं प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गाता उद्गातारं ब्रह्मा ब्रह्माणं यजमान" इति विहितस्यान्वारम्भणस्य विच्छेदे प्रायश्चित्तमुच्यते "बहिष्पवमानं प्रसर्पतां यद्युद्गाताऽपच्छिद्येत अदक्षिणः स यज्ञः संस्थाप्यस्तेन पुनर्यजेत तत्र तद्दद्यात् यत् पूर्वास्मिन् दास्यन् स्यात् अथ प्रतिर्हर्त्तापच्छिद्येत सर्ववेदसं दद्यात्" इति । तदिदं शास्त्रद्वयं विषयः, अत्रोद्गातृप्रतिहर्त्रोः प्रयोगभेदेनापच्छेदे स्वं स्वं प्रायश्चित्त शास्त्रं प्रवर्त्तते, एकस्मिन् प्रयोगे यौमपद्येनापच्छेदे सति उद्गातुः प्रायश्चित्तं प्रवर्त्तते तस्य कर्मप्रधानत्वात्, प्रधानापच्छेदस्यैव समादेयत्वात्, विकल्पे-नानुष्ठानं वा एकस्मिन्नेव पौर्वापर्येणापच्छेदे पूर्वस्य प्रायश्चित्तशास्त्रस्य दौर्बल्यं परस्य प्राबल्यं च कर्ममीमांसायामुक्तं

"पौर्वापर्ये पूर्वदौर्मल्यं प्रकृतिवत" इति । अत्रासञ्जातविरोधित्वेन पूर्वमुदयात्पूर्वस्य प्राबल्यं, परस्य सप्रतिपक्षतयै-वोदयाद्दौर्बल्यमिति पूर्वपक्षः । राद्धान्तस्तु- पूर्वस्योत्पत्तिकाले विरोध्यभावात्तदबोधनाप्युदयः सम्भवति, उत्तरस्य तु स्वोत्पत्तिकाले विरोधिसद्भावात्तदबाधेनोत्पत्त्यनुपपत्त्या पूर्वं बाधित्वेनोत्पन्नमित्यनन्यथासिद्धत्वादुत्तरस्य प्राब-ल्यमिति पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्द्यतीति हि न्यायविदः ननूत्तरशास्त्रमुदयेत चेत् पूर्वाबाधेनानुदयः स्यात् पूर्वशास्त्रमुत्तरोत्पत्तिप्रतिबन्धकं किं न स्यात् ? नैवम्;-निमित्तस्योत्पन्नत्वान्नैमित्तिकं शास्त्रमुदितमेवेति तत्रोत्तर-स्योद्यतः पूर्वाबाधेनोत्पत्त्यनुपपत्त्या पूर्वं बाधितमेव । किञ्च यथोदितदतक्षणाकत्वेन कर्मसमापनं हि शास्त्रेण पूर्वमेव स्वतः प्राप्तम्, तत्तु प्रायश्चित्तशास्त्रेणानान्यथाकृतम्, एवं पूर्वसिद्धार्थान्यथाकरणप्रकरणत्वदत्रापि पूवर्मेव बाध्यमिति कर्मविचारो निश्चितम् । एवमुत्तरशास्त्रस्येव मोक्षशास्त्रस्य निरवकाशत्वात् भेदावलम्बि शासिं पूर्वशास्त्रवद्बाध्यत इत्यर्थः । परत्वञ्च पाठक्रमादर्थक्रमाच्च त्रिवर्गफलत्वेन हि कर्मणि प्रथमप्रावण्यम् निरूपकस्य तत्त्वपरस्य हि मुमुक्षा, तादृशपौर्वापर्यरहितेषु विरोधगर्भेषु वेदान्तवाक्येषु सगुणोपासनपरेषु कथं निर्वाहः ? इत्यत्राह - वेदान्तवाक्ये-ष्वपीति । अपिस्समुच्चये पूर्वोत्तरभागयोर्विरोधः परिहृतः, उत्तरभागे च विरोधः परिह्रियत इत्यर्थः । कथमत्रापच्छे-दनायावतारः ? इत्यत्राह - निर्गुणत्वादिति । परशब्देनार्वाचीनसगुणब्रह्मव्यावृत्तिः । अपच्छेदन्यायावतरणफल-भूतनिर्गुणत्वबोधदर्शनापच्छेदनयोऽवतीर्ण इति बोद्धव्यमित्यर्थः । "जक्षन् क्रीडान् रममाणः" इत्यादिफलश्रुतेस्ता-त्त्विकत्वातात्त्विकत्वनिरूपणानादरेण प्रथमं सगुणोपासने प्रावण्यम्, निरूपको हि निगुणपरब्रह्मवेदनाधिकारीति पौर्वापर्यमिति भावः । उपासनपरसगुणनिर्गुणवाक्ययोः फलद्वारा पौर्वापर्यमुक्तम्, तत्तु स्वरूपपरसगुणनिर्गुण-वाक्ययोर्नास्तीति कथं तत्र बाध्यबाधकभावः ? इति चोदयति - ननु चेति । विधिनिषेधरूपं पौर्वापर्यं हृदि निधायाह निर्गुणेति । कानि निर्गुणवाक्यानि, कथं तेषां सामर्थ्यम् ? इत्यत्राह - एतदुक्तमिति । अस्थूलेत्यादिवाक्यं गुण-विशेषनिषेधपरं सत्यज्ञानादिवाक्ये व्यावृत्तिगÐर्भता, निर्गुणमित्यादिवाक्यं गुणसामान्यनिषेधपरम् आदिशब्देन यत्तदद्रेश्यमित्यादि गृह्यते । विरोधं स्फोरयति । निरस्तेति - कूटस्यशब्दो निर्विकारत्ववाची सर्वाधिष्ठानत्ववाची वा कूटवत्तिष्ठतीति हि कूटस्थः, नित्यचैतन्यमित्यन्तैः पदैरुद्राहृतनिर्गुणश्रुत्यर्थः सङ्क्षिप्तः । इतराणि यः सर्वज्ञः इत्यादीनि पूर्वोपात्तानि वाक्यानि चस्समुच्चये सगुणनिर्गुणपरत्वादुभयविधवाक्यविरोधः । तेनैव - पूर्वोत्तरभागविरोधे य उत्तरस्य प्राबल्यहेतुरुक्तस्तेनैवेत्यर्थः । निर्गुणवाक्यबलीयस्त्वं कुतः ? इत्यत्राह - गुणापेक्षत्वेन परत्वादिति । निषेध्यविषयो हि निषेध उदेति, न हि निर्विषयो निषेधः, प्रागेव प्रसक्तस्य विषयस्य प्रतिषेध्यत्वम् । अतो निषेध्यसापेक्षत्वेन निषेधस्य परत्वमित्यर्थः । सगुणवाक्यवैयर्थ्यमप्युपासनविषयत्वात् परिहृतमित्यभिप्रायेण न किञ्चिदपहीनमित्युक्तम् । यद्वा-यः सर्वज्ञ इत्यादिवाक्यानामप्युपासनशेषत्वाभिप्रायेणाह - वेदान्तवाक्येष्वपीत्यादि । उपासनपराणामिति । तान्यपि वाक्यानि फलविशेषाथर्मुपासनपराणि, न तु तत्त्वपराणीति भावः । अपच्छेदन्यायावतारमुपपादयति-निर्गु-णत्वादिति । पूर्ववदर्थः । निर्गुणत्वमसिद्धं-पूर्वापरभावाभावेनापच्छेदनयानवकाशात् गुणानां बाध्यत्वसिद्धेः । अत एव सगुणवाक्यानां वैयथ्यर्परिहारश्च न घटते स्वरूपपरतयैव प्रतिपन्नानामुपासनपरत्वकल्पनं हि बाध्द्यत्वसिध्द्यधी-नमिति चोदयति-ननु चेति । परिहरति निर्गुणेति । अन्यत्सर्वं पूर्ववदेव । निर्गुणवाक्यैः सहोपात्तस्य सत्यज्ञानादि-वाक्यस्य सगुणपरत्वबुध्द्या चोदयति ननु चेति -चश्चोद्यसमुच्चये सत्यमानादयो गुणाः प्रतीयन्त इत्यत्र सत्यज्ञान-शब्दौ सत्यत्वज्ञानत्वपरौ, यथा "ह्वेकयोर्द्विवचनैकवचने" इतिपाणिनिसूत्रस्थद्य्वेकशब्दौ द्वित्वैकत्वपरौ, अन्यथा द्य्वेकेष्विति वक्तव्यम् । तथा श्रीवत्साङ्कमिश्राः-"गुणाः सत्यमानप्रभृतय उत" इति । एतद्वाक्यवैशद्याय प्रथमं सामा-नाधिकरण्यं निरूप्यते, तद्धि विशदतरमुपन्यस्तं प्रमेयमालायामाचार्यपादैः । तथा हि भगवता प्रतञ्जलिना "लटः

शदृशानचावप्रथमासमानाधिकरणे""तत्पुरुषः समानादिकरणः कर्मधारय" इत्यादिसूत्रस्थसमानाधिकरणशब्दवि-वरणार्थं सामानाधिकरण्यलक्षणमुक्तम् "भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यं" इति । अस्यार्थः-प्रवृत्तेर्निमित्तं प्रवृत्तिनिमित्तं, प्रकृष्टा वृत्तिः प्रवृत्तिः, शब्दस्यार्थे वृत्तिर्नाम तद्बोधनं, तत्र विशेष्यभूतप्रधा-नार्थविषया-वृत्तिः प्रवृत्तिः, विशेष्यप्राधान्यं च गुणानां प्रतिपत्तिर्हि गुणिप्रतिपत्त्यर्थेत्यनेन सिद्धम्, तस्याः प्रवृत्ते-र्निमित्तं द्वारं "निमित्तमात्रं भव सव्यसाचिन्" इत्यादिप्रयोगात् तञ्च विशेषणीभूतजातिगुणादिकं, समानम्-एकम् अधिकरणं विशेषणानामाधारभूतं विशेष्यम् । एकस्मिन्नर्थे वृत्तिरित्येकशब्देन समानशब्दस्य सदृसाथर्परत्वं व्युदस्तम्, समानशब्दसामर्थ्यादेकशब्दः साधारणपरः, समानशब्दो हि साधारणे प्रयुज्यते "समान कर्त्तृकयोः पूर्वकाल" इति । अर्थशब्दश्च विशेष्यभूतप्रधानाभिधेयपरः, अनेनाधिकरणशब्दो विशेष्यपरत्वेन व्याख्यातः । एतदुक्तं भवति-त्रिविधाः शब्दाः, केचिद्विशेषणतो विशेष्यतश्चैकार्थाः, यथा-घटः कुम्भः नीलं कृष्णमित्यादयः । केचिच्चोभयतश्च भिन्नर्थाः, यथा-गौरश्वो महिषः नीलं शुक्लं पटमित्यादयः । केचिच्च विशेषणतो भिन्नार्थाः विशेष्यतश्चैकार्थाः, यथा-नीलमुत्पलं देवदत्तः श्यामो युवा लोहिताक्ष इत्यादयः । तत्र पूर्वकोटिद्वयव्यावृत्ततृतीयकोटिनिविष्टानां शब्दानां सामानाधिकरण्यं तत्र भिन्नप्रवृत्तिनिमित्तानामित्यनेन विशेषणतो विशेष्यतश्चैकार्थानां घटः कुम्भ इत्यादीनां न सामानाधिकरण्य-मित्युक्तम् । एकस्मिन्नर्थे वृत्तिरित्यनेनोभयतो भिन्नार्थानां गौरश्वो महिष इत्यादीनां न सामानाधिकरण्यमित्युक्तम्; तस्माद्विशेषणतो भिन्नार्थानां विशेष्यतश्चैकार्थानां नीलमुत्पलमित्यादीनामेव सामानाधिकरण्यमिति । तत्र प्रवृत्तिनिमित्तशब्दयोरेवं वार्थः-प्रवृत्तिरभिधानं, निमित्तमभिधेयम् अर्थशब्दश्चाभिधेयवचनः, भिन्नाभिधेयानां शब्दामेकस्मिन्नभिधेये वृत्तिः सामानाधिकरण्यमिति भिन्नविशेषणाभिधायिनां शब्दानामेकस्मिन् विशेष्ये वृत्तिः पर्यवसानं सामानाधिकरण्यमित्युक्तं भवति । भिन्नपदसामर्थ्येन निमित्तशब्दनिर्दिष्टं विशेषणभूतमभिधेयम् एक-शब्दसामर्थ्येन चार्थशब्दनिर्दिष्टं विशेष्यभूतमभिधेयमित्यवगम्यते; अत उभयथाप्यनेकविशेषणाभिधायिनां शब्दा-नामेकस्मिन् विशेष्ये पर्यवसानं सामानाधिकरण्यमिति भिन्नप्रवृत्तिनिमित्तानामित्यादिना सामानाधिकरण्यलक्षण-वाक्येनोक्तं भवति । उक्तादर्थादपि पूर्वोक्तस्साधीयान् समानाधिकरणपदेषु प्रातिपदिकं विशेषणान्वयपरं, तत्स-मानविभक्तिर्विशेष्यैक्यपरा समानविभक्तयैक्यबोधनं वृत्तिशब्देन विवक्षितम्, तेन राजा तस्य पुत्रश्च दर्शनीयावित्यत्र राजतच्छब्दयोः सामानाधिकरण्यनिवृत्तिः, तत्र हि प्रकृतपरामर्शितच्छब्दप्रातिपदिकादैक्यावगमः, न तु समान-विभक्तया । ननु नीलान्युत्पलानीत्यत्र नीलत्वानधिकरणेषूत्पलत्वं वर्तते; अतस्तत्र सामानाधिकरण्यमुपपन्नम् अत-स्सामानाधिकरण्यलक्षणग्रन्तस्य यथोक्त एवार्थ इति । अत्र मृषावादिन आहुः-सामानाधिकरण्यवाक्यमखण्डार्थं, तथा हि, सामानाधिकरण्यस्य तावदेकार्थपरत्वमविगीतं, तत्र समानाधिकरणपदानि किं विशेषणमात्रपराणि, उत विशेषणविशिष्टपराणि, उत स्वरूपमात्रपराणीति विवेचनीयम् । न तावद्विशेषणमात्रपराणि, विशेषणानामनेकार्थ-त्वादेकार्थत्वासिद्धेः, नापि विशिष्टपराणि, विकल्पासहत्वात् किं क्रमेण युगवद्वा विशिष्टार्थप्रतिपादनं पदानाम् ? न तावत्क्रमेण । तत्र किं प्रथमपदप्रतिपन्नविशिष्टस्य पदान्तरं स्वोपस्थापितविशिष्टेन तादात्म्यं विदघाति; उत विशेष-णान्तरान्वयम् ? प्रथमे विशिष्टैक्ये विधीयमाने विशेष्यांशयोरिव विशेषणांशभूतयोर्जातिगुणयोरप्यैक्य प्रसजेत् । द्वितीये च विशेषणानामन्योन्यसमवायप्रसङ्गः, प्रथममेकेन विशेषणेन विशिष्टतयावगतस्य वस्तुनः पश्चाद्विशे-षणान्तरविशिष्टतया बोधनं हि विशेषणान्तरान्वयप्रतिपादनम् तत्र विशिष्टं प्रति विशेषणतयान्वीयमानं पूर्ववि-शेषणस्यापि विशेषणं भवतीति विशेषणानामन्योन्यविशेष्यभावप्रसङ्गो हि दुर्वारः । अवर्जनीयं च पदानां क्रमे-णार्थप्रतिपादनं, कुतः ? उद्देश्योपादेयविभागवत्त्वात् सर्ववाक्यानां, नापि युगपत् उद्देश्योपादेयविभागहानिप्रसङ्गेन

युगपत् प्रतिपादनासम्भवात् सम्भवेपि विशेषणानां परस्परैक्यप्रसङ्गाच्च तथाहि-प्रातिपदिकानां विशिष्टार्थपरत्वे प्रातिपदिकार्थैक्यपरस्य समानविभक्तिनिर्देशस्य विशिष्टैक्यपरत्वमवश्याश्रयणीयमिति विशेष्यैक्यवद्विशेषणा-नामप्यैक्यं प्रतिपाद्यं स्यात्; तदनुपपत्त्या विशेष्यस्यापि नैक्यं प्रतिपादयितुमलं समानविभक्तिनिर्देशः । किञ्च सामानाधिकरण्यं न सिध्यति । किञ्च विशेषणानां व्यावर्तकत्वस्वाभाव्याद्विशेषणभेदेन विशेष्यभेदप्रसङ्गो दुर्वारः । तथाहि -भेदकं विशेषणं भेद्यं विशेष्यमिति हि विशेषणविशेष्ययोस्सवरूपविवेकः, दृश्यते च विशेषणानां विशे-ष्यभेदकत्वम्; यता खण्डो मुण्डः घटः पट इत्यादिषु । ननु नीलमुत्पलं देवदत्तः श्यामो युवेत्यादिषु विशेषणभेदेपि विशेष्यैक्यं दृश्यते । नैष दोषः, अत्र हि स्वतः प्राप्तं विशेषणानां विशेष्यभेकत्वं प्रत्यक्षविरोधेनापोह्यते, प्रत्यक्षा- गोचरे तु ब्रह्मणि विशेषणभेदप्रयुक्तो विशेष्यभेदः केन वार्यते ? तस्माद्वस्तुमात्रपरमेव समानाधिकरणवाक्यम् । नीलमुत्पलमित्यादिवाक्य एव सत्यादि वाक्येप्येकवचनान्तधर्मिपदैक्येन विशेष्यैक्यसिद्धिरिति चेन्न, खण्डो मुण्डः पूर्णृङ्गो गौरीत्यत्र विशेष्यभेदात् । ननु विशेषणभेदो न विशेष्यैक्यविरोधी,प्रत्यक्षमेव तु तद्विरोधि, प्रत्यक्षागोचरे ब्रह्मण्येकवचनान्तधमिर्वाचिपदैक्येन स्वतःप्राप्तमेकत्वं दुर्निवारमिति चेन्न; खण्डो मुण्डः पूर्णृङ्गो गौरिति परोक्षविषयवाक्येपि विशेष्यभेदप्रतीतेः, अतो न धर्मिवाचिपदैक्यं परोक्षब्रह्मण्यैक्यप्रतिपादनक्षमम्; तस्माद्विशेषण-भेदप्रयुक्तो विशेष्यभेदो दुर्वारः, ततश्चैकार्थत्वं न सिध्द्यति, अतः पारिशेष्यात् समानाधिकरणपदानां स्वरूपमात्र-प्रतिपादनपरत्वमास्थेयम् । एवं तर्हि पदानां पर्यायत्वम् एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यं प्रवृत्तिनिमित्तभेदाभावेन सामानाधिकरण्यलक्षणहानिश्च प्रसजेत् । नैवम्-एकस्यैवार्थस्य तत्तत्पदार्थविरोधि-प्रत्यनीकत्वपरत्वेन पदानामर्थवत्त्वमपर्यायत्वं निमित्तभेदलाभात् सामानाधिकरण्यलक्षणसिद्धिश्च; अत एव जगत्का-रणत्वशङ्कितानृतत्वजडत्वपरिच्छिन्नत्वदोषव्यावृत्तिः सत्यज्ञानादि वाक्येन क्रियते । न च व्यावृत्तिरूपधर्मवत्त्वं ब्रह्मणः प्रसज्येत, ब्रह्मस्वरूपस्यैव सकलेतरव्यावृत्तिरूपत्वात् यथा-शौकल्यादेः काष्र्ण्यादिव्यावृत्तिस्तत्पदार्थस्वरूपमेव, न धर्मान्तरं धर्मान्तरानुपलम्भात्, तदभ्युपगमेऽनवस्थानाच्च; अतः काष्र्ण्यव्यावृत्तं रक्तिमव्यावृत्तं शौकल्यमितिपदानां शौकल्यस्वरूपमात्रविषयाणां व्यावृत्त्यभेदेन यथा न पर्यायत्वमर्थवत्त्वमेकार्थत्वञ्च अत एव सामानाधिकरण्यलक्षण-वत्त्वं च, तथा सत्यादिपदानामपि व्यावर्त्यभेदेन न पर्यायत्वदोषप्रसक्तिः । नन्वेवं तत्तत्पदार्थविरोधिव्यावृत्तपरत्वे लक्षणा स्यात् । नैवम्, अवाच्योपस्थापने हि लक्षणा, यथा गङ्गायां घोषः प्रतिवसतीत्यत्र गङ्गापदस्य कूलोपस्थापने, न हि कूलं गङ्गापदवाच्यम्, अत्र तु सत्यादिपदानां वाच्यैकदेशभूतविशेषणपरित्यागेऽपि, वाच्यप्रधानांशभूतविशेष्य-स्वरूपप्रतिपादनान्न लक्षणाप्रसङ्गः, तथापि विशिष्टवाचिनः शब्दस्य विशेष्यमापिरत्वे स्वारस्यभङ्ग इति चेत्, नैष दोषः, समानाधिकरणवाक्येष्वेकार्थपरत्वबलात् विशेषणपरित्यागेन स्वरूपमात्रपरत्वमेव पदानां स्वारसिकं, तथा व्युत्पत्तेः, व्यधिकरणवाक्येषु पदानां विशिष्टपरता स्वारसिकी, लक्षणाभ्युपगमेऽपि न दोषः, वाक्यतात्पर्यानुगुणा हि लक्षणा तद्विरोधिमुख्यवृत्तेर्बलीयसी दृष्टा, यथा गङ्गापदे समानाधिकरणवाक्यस्य हि ऐक्य एव तात्पर्यमिति सर्वसम्मतम् । ननु सर्वपदानां लक्षणा नदृष्टा अयुक्ता च केनचिन्मुख्यवृत्तेन तात्पर्ये निश्चिते हि पदान्तरलक्षणा युक्ता, सर्वपदलक्षणाङ्गीकारे किं तात्पर्यनिश्चायकम् ? उच्यते-दृष्टा तावत् "विषं भुङ्क्ष्#े "त्यादिषु सर्वपदलक्षणा, तत्र विषपदं निषिद्धभोज्यं लक्षयति, भुङ्क्ष्#ेति भोजननिवृतिं्त, तत्र योग्यतादिवशाद्वाक्यतात्पर्यनिश्चयः, सत्यादि-वाक्येषु समानविभक्तिबलादैक्यतात्पर्यनिश्चयः, तदविरोधाय प्रातिपदिकानां लक्षणा स्वीकृता, एकपदलक्षणा-यामपि वाक्यतात्पर्यविरोध एव हि हेतुः, यथा गङ्गायां घोष इत्यादिषु तदविरोधे एकस्यापि न दृष्टा, यथा गङ्गायां मत्स्याः प्रतिवस्तीत्यादिषु, अतो वाक्यतात्पर्याविरोधाय एकस्येव सवर्पदानां लक्षणा न दोषः, तस्मात्समानाधि-

करणवाक्यं वस्तुमात्रपरमेवेति । एतदसभप्रायेण प्रत्यवतिष्ठते - नेत्युच्यत इति । सत्यज्ञानादयो गुणाः प्रतीयन्त इति चोदिते नेत्युच्यत इति वदतोऽयं भावः प्रतीयन्त इति आपातप्रतीतिमात्रविवक्षा चेत्तया न किञ्चित्प्रयोजनं, प्रमिति-विवक्षा चेत् न तु प्रमितिर्जायत इत्युपपाद्यत इति । कुतः ? इत्यत्राह - सामानाधिकरण्येनैकार्थत्वप्रतीतेरिति । शङ्कते- अनेकेति । यथा व्यधिकरणवाक्येषु मिन्नार्थपय्रवसायिकारकपदार्थापरित्यागेऽपि प्रधानार्थकार्यस्यैकत्वम् "अर्थैकत्वादेकं वाक्यम्" इत्यत्र निश्चीयते तथा समानाधिकरणवाक्येष्वपि विशेषणभूतगुणवाचिशब्दार्थापरि-त्यागेऽपि विशेष्यैक्यं सिध्द्यतीत्यर्थः । चोदयन्तमुपालभते - अनभिधानज्ञ इति । व्यधिकरणसमानाधिकरणवा-क्ययोरभिधानविशेषानभिज्ञ इत्यर्थः । देवानां प्रियः-मेषः, अज्ञ इत्यर्थः । परिहरति - एकार्थत्वमिति । एकार्थत्वं नाम-सर्वपदानामेकाभिधेयपर्यवसानं, न तु वाक्यस्येत्यर्थः । पृथक्पृथगर्थपय्रवसायिनां पदानामेकप्रधानार्थान्वया-दर्थैकत्वं व्यधिकरणवाक्य एव, समानाधिकरणवाक्ये तु पदानामेवैकार्थपर्यवसायित्वमुक्तं भवति । ततः किमित्य-पेक्षायां समानाधिकरणपदानां विशेषणमात्रपरत्वे विशिष्टपरत्वे च दूषणमेकग्रन्थेनाह - विशिष्टेति । विशिष्टे-त्यादिना कृत्स्नवाक्येन विशिष्टपक्षे दूषणमुक्तम् । विशेषणभेदेन-विशेषणानामन्योन्यतो विशेष्याच्च भेदेन । विशे-षणैर्विशेष्येण चानेकार्थत्वं स्यादित्यर्थः । किञ्च अर्थशब्दो विशेष्यपरतया च विवक्षितः, तेन विशेषणभेदेन विशे-ष्यभेदः स्यादिति दूषणान्तरमुक्तं भवति । किञ्च विशेषणभेदेन विशेष्यभेद इत्यक्ते व्यतिरेकवशाद्विशेष्याभेदे विशे-षणाभेदश्च स्यादित्युक्तं भवति । विशिष्टैक्यप्रतिपादिका समानविभक्तिर्हि अविशेषेण विशेष्यैक्यवद्विशेषणैक्यमपि प्रतिपादयतीत्यभिप्रायः । एवं विशिष्टपरत्वे युगपदभिधानपक्षे दूषणमुक्तं भवति, उद्देश्योपादेयविभागहानिप्रसङ्ग-श्चार्थसिद्धः, क्रमेणाभिधाने अन्योन्यसमवाय आनन्दमयाधिकरणे वक्ष्यते, विशेषणभेदेनार्थभेद इत्येतावतांशेन विशेषणमात्रपरत्वे च दूषणमुक्तं भवति, विशेषणानामनेकत्वादेकार्थत्वहानिरित्यर्थः । एवं पदानां प्रतिपाद्यभेदः प्रसञ्जितः । ततः किमित्यत्राह - ततश्चैकार्थत्वं न सिध्द्यतीति । सामानाधिकरण्यलक्षणासिद्धिरित्यर्थः । अतो वस्तुमात्रपरमिति परिशेषसिद्धम्, तदनुवादेन चोदयति - एवमिति । एवं तर्हि-वस्तुमात्रपरत्वे । कुत इत्यत्राह - अविशिष्टार्थाभिधायित्वादिति । अनेन ततश्चैकार्थत्वं न सिध्द्यतीत्यत्राह फलितोर्थो विवृतः । अत्र पर्यायत्वचोद्ये प्रवृत्तिनिमित्तभेदाभावात् सामानाधिकरण्यलक्षणहानिः, एकतरपदवैयर्थ्यं चेति चोद्यदूषमभिप्रेतं, परिहरिष्यमा-णत्वात् । उक्तचोद्यत्रयं परिहर्तुमाह - एकार्थेति । अवहितमनाः शृणु-प्रतिवचनस्यानेकवाक्यसाध्यत्वान्मध्ये न चोदनीयं, किन्त्वर्थस्य गहनत्वादवघातव्यमिति भावः । अनुपपत्तित्रयं परिहरति - एकत्वेत्यादिना । एकत्वतात्पर्य-निश्चयः समानविभक्तया । अर्थवत्त्वम्-प्रयोजनवत्त्वम् । व्यावर्थभेदकृतव्यावृत्ति#ेदादपर्यायत्वं व्यावृत्तिरूपप्रवृत्ति-निमित्तलाभात् सामानाधिकरण्यसिद्धिर्व्यावृत्तिबहुत्वात् पदानां तत्तद्य्वावृत्तिरूपप्रयोज्वत्त्वं चेत्यर्थः ।

ननु तत्त्वमस्यादिवाक्यवदन्वयमुखेनोपलक्षणं स्यात्, किमर्था व्यावृत्तिः ? व्यावृत्तिबहुत्वादनेकार्थत्वमापतितं, व्यावर्त्याकारानन्त्यात् कतिपयपदैर्न तद्य्वावृत्तिः शक्यते कर्त्तुं, ब्रह्मणो येभ्यो व्यावृत्तिः-कानि तानि वस्तूनि ? ब्रह्मणोऽनेकव्यावृत्तिमत्त्वात् सधर्मत्वम्, धर्मत्वानभ्युपगमे पदानां पर्यायत्वमित्याद्यनेकशङ्कापरिहारार्थमाह - एतदुक्तं भवतीति । लक्षणतः-स्वरूपलक्षणतः, न तु तटस्थलक्षणतः । अनेन जगत्कारणत्वशङ्कितदोषव्यावृत्तये ब्रह्मणः सकलेतरविरोधित्वं प्रतिपादयदिदं शोधकवाक्यं व्यावृत्तिपरं भवितुं युक्तमित्युक्तं भवति । बहुव्यावृत्तिभिरनेकार्थत्व-पसङ्गं परिहरति - तद्विरोधिरूपमिति । फलतो व्युदस्यत इति - इदं वाक्यं स्वरूपमात्रपरमेव, अत ऐकार्थ्यं, व्युदासस्तु फलित इति भावः । व्यावृत्त्र्याकारबहुत्वात् कतिपयपदैर्व्यावृत्तिर्न शक्येत्येतत्परिहरति - सर्वमनेन पदत्रयेण फलतो व्युदस्यत इति । प्रयोजकरूपेण व्युदासे सर्वमपि व्युदस्तं भवतीत्यर्थः । विरोधीनि कानीत्यत्राह-

तत्रेति । जगत्कारणत्वेन तुच्छता व्यावृत्ता । किमर्थमसत्यव्यावृत्तिरित्यत्रोक्तम् विकारास्पदत्वेनासत्यादिति । स्तब्धशीतादिसाधारणजडशब्दविवरणार्थमन्याधीनप्रकाशशब्दः । यद्यपि सत्यादिष्वैकैकपदेन समस्तव्यावृत्तिसिद्धिः, तथाऽपि ब्रह्मणि शङ्#िकतत्वेतत्पदार्थगतविरोध्याकारस्यैकपदेनानिवर्तनात् पदत्रयसाफल्यम् । व्यावृत्तिभिः सधर्मकत्वं परिहरति - नचेति । प्राभाकरपक्षे सिद्धान्तिमते च भावरूपधर्मः; वैशेषिकादिमते तु अभावरूपधर्मः । तस्माद्भाव-रूपोऽभावरूपो वेत्युक्तम् । व्यावृत्तिर्धर्मो न चेत्, किं स्यादित्यत्राह - अपि त्विति । शुक्तयादौ हि धर्मस्य व्यावृ-त्तित्वं रजतादिविरोधित्वादभ्युपगम्यते, एवं ब्रह्म च सकलेतरविरोधित्वात् स्वयमेव व्यावृत्तिरित्यर्थः । स्वरूपस्यैव व्यावृत्तित्वे दृष्टान्तमाह - यथेति । शौक्लयादेः काष्ण्र्यादिव्यावृत्तिर्न धर्मान्तरम्, अनुपलम्भात्; धर्मान्तरत्वेऽन-वस्थानाच्चेत्यभिप्रायः । तर्हि पदानां पर्यायत्वं स्यादित्याशङ्कय काष्र्ण्यव्यावृत्तं पीतिमव्यावृत्तं रक्तिमव्यावृत्तं शौक्लयमिति दृष्टान्तवाक्या-भिप्रायेण परिहरति - एकस्येति । व्युदसनीयव्युदासभेदेन पदानां प्रयोजनवत्त्वम्, तत एवाषपर्ययत्वमित्यर्थः । प्रतियोग्यवच्छिन्नवेषेण प्रवृत्तिनिमित्तलाभात् सामानाधिकरण्यलक्षणसिद्धिश्चेत्यभिप्रेतम् । पर्यायत्वादिप्रसङ्ग- परिहार ऐकार्थ्यविरोधेन कृत इत्यभिप्रायेणोक्तम्-एकार्थमिति स्वरूपमात्रपरत्वादैकार्थ्यं हि रक्षितम् । अर्थवत्त-रमिति - तरप्प्रत्ययेन दृष्टान्ताच्छौक्लयात् भेदवाद्यमितगुणपरत्वाच्च प्रयोजनादिक्यमभिप्रेतम् । अपरोक्षभूता हि शौक्लयादिदृष्टान्तः, तत्र स्पष्टार्थं काष्र्ण्यादिव्यावृत्तमित्यादिप्रयोगः । प्रत्यक्षागोचरे तुपरे ब्रह्मणि सकलेतरव्या-वृत्तिवचनमधिकप्रयोजनमिति दृष्टान्तात् प्रयोजनाधिक्यम् जगत्कारणभूतस्य ब्रह्मणः शङ्कितदोषव्यावृत्तिरेवापेक्षिता, न तु गुणान्तरमिति भेदवादिपक्षात् प्रयोजनाधिक्यम् ।

एवं सत्यज्ञानादिवाक्यस्यानुग्राहकस्तर्क उक्तः, तर्कानुगृहीतेन वाक्येन कोऽर्थः प्रतिपन्न इत्यत्राह - तस्मादिति । तस्मात्-उक्तन्यायानुगृहीतत्वादस्य वाक्यस्येत्यर्थः । एकमिति - समानविभक्तिनिर्देशफलितमैक्यमुक्तम् एवकारेण स्वरूपत ऐक्यं, गुणतो भेद इत्यंशतो ऽनेकार्थत्वव्यावृत्तिः । एतद्विशदयति - निर्द्धूतनिखिलविशेषमिति - निर्वि-शेषस्य तुच्छताव्यावृत्त्यर्थम्-स्वयंज्योतिरितिपदम् । इत्युक्तमिति - सत्यज्ञानादिवाक्येनेति शेषः । इत्थं सामाना-धिकरण्यान्यथानुपपत्त्या सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमुपपादितम् । अथ कारणवाक्यैकार्थ्येन शोधक-साक्यानतरैकार्थ्येन हेतुद्वयेन वस्तुमात्रपरत्वमुपपाद्यते - एवमित्यादिना । तत्र प्रथमं कारणवाक्यैकार्थ्यं हेतुरुच्यते-एवमिति । एवम्-निर्विशेषपरत्वेन निर्वाहे सत्येव, कारणवाक्यैकार्थ्यमित्यर्थः । कारणवाक्यैकार्थ्यं कुतोऽपेक्षितम् ? ऐकार्त्ये सति कथं वा निर्विशेषपरत्वम् ? इत्यत्राह - यत इत्यादि । यतो वा इमानीत्यादि लक्षणवाक्यम् । एतस्य कारणत्वानुवादेन लक्षणपरत्वात् कारणत्वप्रापकं वाक्यमाह - सदेवेति । उपलक्षितस्य-उपलक्षणं नाम चन्द्रस्य शाखेव तटस्थं ज्ञापकं - सत्यं ज्ञानमनन्तं ब्रह्मेतीति । अनेन वाक्येनेत्यर्थः । कारणवस्तुनः स्वरूपशोधकत्वात् कारणवाक्यैकार्थ्यमस्यापेक्षितमित्युक्तं भवति । अस्तु कारणवाक्यैकार्थ्यं, तत्तु सगुणब्रह्मकारणत्ववादिभिः "यस्सर्वज्ञः सर्ववित्" "यस्य ज्ञानमयं तपः" "तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते" "तमीश्वराणां परमं महेश्वरम्" "स कारणं करणाधिपाधिपः" इत्यादिवाक्यैरेव स्यादित्यत्राह - तत्रेति । तत्र-कारणवाक्यैकार्थ्येऽपेक्षिते । सर्वशा-खाप्रत्ययन्यायोऽह्यनुक्तार्थस्वीकारफलः, तेनात्रानुक्तस्योपनिषदन्तरोक्तस्यार्थस्य स्वीकर्त्तव्यत्वे सति सगुणमात्र-परासूपनिषत्सु निर्गुणमपि ब्रह्मोक्तं भवति । तत्रापच्छेदन्यायेन निर्गुणवाक्यानां बलीयस्त्वात् सर्वत्र सजातीय-विजातीयव्यावृत्तमद्वितीयं ब्रहमैव प्रतिपादितं भवतीत्यप्रि#ायः । ततः किमित्यत्राह - जगदिति । जगत्कारणेत्या-दिपदैः कारणवाक्योक्तमर्थमनुवदति । प्रतिपिपादयिषितम्-तात्पर्यभूमिः, वस्तुमात्र एव तात्पर्यमित्यर्थः । तदवि-रोधेन वक्तव्यम्-कारणवाक्यप्रतिपन्नब्रह्मस्वरूपशोधकत्वात्तदविरोधेनानेन वाक्येन वक्तव्यमित्यर्थः । नरपतिरद्वितीय इत्यादिवत्समाभ्यधिकराहित्येऽप्यद्वितीयत्वमुपपन्नमिति तदैकार्थ्येऽपि न निर्गुणपरत्वसिद्धिरित्यत्राह-अद्विती-यत्वश्रुतिरिति । सदेव एकमेवेति विजातीयसजातीयव्यावर्तकावधारणद्वयसमभिव्याहृतत्वादिदमद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहत इत्यभिप्रायः । एवं कारणवाक्यैकार्थ्यात् सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमु-पपादितम् । अथ शोधकवाक्यान्तरैकार्थ्यं हेतुरुच्यते - अन्यथेति । अन्यथा-सत्यज्ञानादिवाक्यस्य विशिष्टपरत्वे; निरञ्जनं निगुर्णमित्यादिभिर्विरोधः स्यात्, अतस्तदविरोधायेदं वाक्यं निर्विशेषवस्तुमात्रपरमित्यर्थः । अन्यथा निर्गुणं निरञ्जनमित्यादिभिर्विरोधश्चेत्यनेनाद्वितीयत्वश्रुतेर्गुणतोऽपि सद्वितीयतानिषेधपरत्वं चार्थादुपपादितं भवति । हेतु-त्रयोणोपपादितमर्थं निगमयति - अतश्चेति । अतः-पूर्वोक्तसामानाधिकरण्यान्यथाऽनुपपत्त्या पश्चादुक्तकारण-

वाक्यशोधकवाक्यान्तरैकाथ्यर्रूपहेतुद्वयेन चेत्यर्थः । एतल्लक्षणवाक्यम्-स्वरूपलक्षणवाक्यम् । अखण्डैकरसम्-निर्विशेषतैकस्वभावमेव प्रततिपादयतीत्यर्थः । अथ मुख्यार्थपरित्यागेन लक्षणास्वीकारदोषमुद्धाटयति । ननु चेत्यादिना । स्वार्थप्रहेणेन- स्वार्थो हि विशेषणद्वारकं विशेष्यं, तत्प्रहाणेनेत्यर्थः । लक्षणात्वमभ्युपगम्यादोषतां प्रतिजानीते । नैष दोष इति - मुख्यार्थत्वमुत्तरत्राभिधास्यते । हेतुमाह - अभिधानवृत्तेरपीति । तात्पर्यवृत्तिर्न्नाम-तात्पर्यादागता वृत्तिः तत्परत्वरूपा वा, सा चात्र लक्षणावृत्तिर्विवक्षिता, वाक्यतात्पर्यविरोधिमुख्यवृत्तेरपि वाक्य-तात्पर्यानुगुणलक्षणावृत्तेर्बलीयस्त्वादित्यर्थः । कस्मिन्नर्थे तात्पर्यम्, यदनुरोधाय लक्षणास्वीकारः ? इत्यत्राह - सामानाधिकरण्यस्येति । ऐक्य एव तात्पर्यमिति - तात्पर्यनिश्चायिका समानाविभक्तिरिति भावः । आनन्द-मयाधिकरणे सिद्धान्तिना ह्येतद्वक्ष्यते । सर्वसम्मतम् - विशिष्टैक्यविदिभिरन्यैश्च सम्मतमित्यर्थः । गङ्गायां घोष इत्यादिषु सर्वपदलक्षणा न दृष्टेति चोदयति । ननु चेति - तात्पर्यनिश्चायककतिपयमुख्यवृत्त्या तदनुगुणमन्येषां पदानां लाक्षणिकत्वमानयणीयम्, सर्वपदलक्षणायां तु तन्न सम्भवतीत्यभिप्रायः । तात्पर्याविरुद्धपदमुख्यार्थस्वी-कारस्तात्पर्यविरुद्धपदलक्षणस्वीकारस्याविरुद्ध इत्याशयेनाह - ततः किमिति । ततः किमित्यभिप्रेतं विवृण्वन् प्रतिबन्दिमुखेन विपक्षितार्थं दर्शयित्वा परिहर्तुं विपक्षे बादगर्भां प्रतिबन्दीमाह-वाक्यतात्पर्येति । यद्यविरुद्धपद-मुख्यार्थत्वं विरुद्धपदलक्षणाविरोधि, तर्हि गङ्गायां मत्स्या इति वाक्ये विरोधाभावाल्लक्षणानङ्गीकारः, गङ्गायां घोष इत्यत्र विरोधाल्लक्षणा न दोष इति चेत् तदत्रापि तुल्यमित्याह - समभिव्याहृतेति । सर्वपदलक्षणा च विषं भुङ्क्ष्#े-त्यादिषु दृष्टेत्यभिप्रायः । एतत्तात्पर्यमिति निश्चिते सतीति - अपवादकरहितसमानविभक्तिनिर्देशो निश्चायक इति भावः । द्वयोस्त्रयाणामित्यादि - अविरोधविरोधावेव मुख्यलक्षणावृत्तिस्वीकारप्रयोजकौ, न तु पदानामेक-त्वद्वित्वादिकमित्यर्थः । न केवलं विषं भुङ्क्ष्#ेत्यादिषु लौकिकप्रयोजकेष्वेव सर्वपदलक्षणाऽगत्याश्रिता, अन्यैरपि परीक्षकैराश्रितेत्याह -तथा चेति । तथा-सर्वपदलक्षणाया अदोषत्वम् । अभ्युपगम्यते-अभ्युपगमहेतुसद्भावा-दभ्युपगमः फलित इति भावः । कैः परीक्षकैः केषु वाक्येषु सर्वपदलक्षणाश्रितेत्यत्राह - कार्यवाक्यार्थेति । लौकिक-वाक्येषु सर्वपदलाक्षणिकत्वमुपपादयति - अपूर्वकायर्एवेति । क्रियाकार्यं लाक्षणिकमस्तु, तत्कथं सर्वपदलक्षणा ? इत्यत्राह-कार्यान्वितेति ।पदानामन्विताभिधायित्वेन

1.1.1

एवं सत्यज्ञानादिवाक्यस्यानुग्राहकस्तर्क उक्तः, तर्कानुगृहीतेन वाक्येन कोऽर्थः प्रतिपन्न इत्यत्राह-तस्मा-दिति । तस्मात्-उक्तन्यायानुगृहीतत्वादस्य वाक्यस्येत्यर्थः । एकमिति - समानविभक्तिनिर्देशफलितमैक्यमुक्तम्, एवका-रेण स्वरूपत ऐक्यं, गुणतो भेद इत्यंशतोऽनेकार्थत्वव्यावृत्तिः । एतद्विशदयति । निधूतनिखिलविशेष- मिति । निर्विशेषस्य तुच्छताव्यावृत्त्यर्थम्-स्वयंज्योतिरिति पदम् । इत्युक्तमिति । सत्यज्ञानादिवाक्येनेति शेषः । इत्थं सामानाधिकरण्यान्यथानुपपत्त्या सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमुपपादितम् ।। अथ कारणवाक्यैका-र्थ्येन शोधकवाक्यान्तरैकाथ्यै न च हेतुद्वयेन वस्तुमात्रपरत्वमुपपाद्यते । एवमित्यादिना । तत्र प्रथमं कारणवाक्यै-कार्थ्यं हेतुरुच्यते । एवमिति ।एवम् निर्विशेषपरत्वेन निर्वाहे सत्येव, कारणवाक्यैकार्थ्यमित्यर्थः । कारणवाक्यै-कार्थ्यं कुतोऽपेक्षितम्? ऐकार्थ्ये सति कथं वा निर्विशेषपरत्वम्? इत्यत्राह-यत इत्यादि । यतो वा इमानीत्यादि लक्षणवाक्यम् । एतस्य कारणत्वानुवादेन लक्षणपरत्वात् कारणत्वप्रापकं वाक्यमाह-सदेवेति । उपलक्षितस्य-उपलक्षणं नाम चन्द्रस्य शाखेव तटस्थं ज्ञापकम् । सत्यं ज्ञानमनन्तं ब्रह्मेतीति-अनेन वाक्येनेत्यर्थः । कार-णवस्तुनः स्वरूपशोधकत्वात् कारणवाक्यैकार्थ्यमस्यापेक्षितमित्युक्तं भवति । अस्तु कारणवाक्यैकार्थ्यं, तत्तु सगुणब्रह्मकारणत्ववादिभिः "यस्सर्वज्ञः सर्ववित्" "यस्य ज्ञानमयं तपः" "तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते" "तमीश्वराणां परमं महेश्वरम्" "स कारणं करणाधिपाधिपः" इत्यादिवाक्यैरेव स्यादित्यत्राह-तत्रेति । तत्रकार-णवाक्यैकार्थ्येऽपेक्षिते । सवर्शाखाप्रत्ययन्यायो ह्यनुक्तार्थस्वीकारफलः, तेनात्रानुक्तस्योपनिषदन्तरोक्तस्यार्थस्य स्वीकर्त्तव्यत्वे सति सगुणमात्रपरासूपनिषत्सु निर्गुणमपि ब्रह्मोक्तं भवति । तत्रापच्छेदन्यानेन निर्गुणवाक्यानां बलीयस्त्वात् सर्वत्र सजातीय-विजातीयव्यावृत्तमद्वितीयं ब्रह्मैव प्रतिपादितं भवतीत्यभिप्रायः । ततः किमित्य- त्राह - जगदिति । जगत्कारणेत्यादिपदैः कारणवाक्योक्तमर्थमनुवदति । प्रतिपिपादयिषितम्-तात्पर्यभूमिः, वस्तुमात्र एव तात्पर्यमित्यर्थः । तदविरोधेन वक्तव्यम्-कारणवाक्यप्रतिपन्नब्रह्मस्वरूपशोधकत्वात्तदविरोधेनानेन वाक्येन वक्तव्यमित्यर्थः । नरपतिरद्वितीय इत्यादिवत्समाभ्यधिकराहित्येऽद्वितीयत्वमुपपन्नमिति तदैकार्थ्येऽपि न निर्गुणपरत्वसिद्धिरित्यत्राह-अद्वितीयत्वश्रुतिरिति । सदेव एकमेवेति विजातीयसजातीयव्यावर्तकावधारणद्वय-समभिव्याहृतत्वादिदमद्वितीयपदं गुण-तोऽपि सद्वितीयतां न सहत इत्यभिप्रायः । एवं कारणवाक्यैकार्थ्यात् सत्यज्ञानादिवाक्यस्य वस्तुमात्रपरत्वमुपपा-दितम् ।। अथ शोधकवाक्यान्तरैकार्थ्यं हेतुरुच्यते । अन्यथेति । अन्यथासत्यज्ञानादिवाक्यस्य विशिष्टपरत्वे; निरञ्जनं निर्गुणमित्यादिभिर्विरोधः स्यात्, अतस्तदविरोधाय इदं वाक्यं निर्विशेषवस्तुमात्रपरमित्यर्थः । अन्यथा निर्गुणं निरञ्जनमित्यादिभिः विरोधश्चेत्यनेनाद्वितीयत्वश्रुतेर्गुणतो-ऽपि सद्वितीयतानिषेधपरत्वं चार्थादुपपादितं भवति । हेतुत्रयेणोपपादितमर्थं निगमयति । अतश्चेति ।अतः-पूर्वोक्तसामानाधिकरण्यान्यथाऽनुपपत्त्या पश्चादुक्तकारणवाक्यशोधकवाक्यान्तरैकार्थ्यरूपहेतुद्वयेन चेत्यर्थः । एतल्लक्षणवाक्यम्-स्वरूपलक्षणवाक्यम् । अखण्डैकरसम्-निर्विशेषतैकस्वभावमेव प्रतिपादयतीत्यर्थः । अथ मुख्यार्थपरित्यागेन लक्षणास्वीकारेदोषमुद्धाटयति । ननु चेत्यादिना । स्वार्थप्रहाणेनस्वार्थो हि विशेषणद्वारकं विशेष्यं, तत्प्रहाणेनेत्यर्थः । लक्षणात्वमभ्युपगम्यादोषतां प्रतिजानीते । नैष दोष इति । मुख्यार्थत्वमुत्तरत्राभिधा- स्यते । हेतुमाह-अभिधानवृत्तेरपीति । तात्पर्यवृत्तिर्न्नाम-तात्पर्यादागता वृत्तिः, तत्परत्वरूपा वा । सा चात्र लक्ष-णावृत्तिर्विवक्षिता । वाक्यतात्पर्यविरोधिमुख्यवृत्तेरपि वाक्यतात्पर्यानुगुणलक्षणावृत्तेर्बलीयस्त्वादित्यर्थः । कस्मि- न्नर्थे तात्पर्यम्, यदनुरोधाय लक्षणास्वीकारः? इत्यत्राह सामानाधिकरण्यस्येति । ऐक्य एव तात्पर्यमिति ।

तात्पर्यनिश्चायिका समानविभिक्तिरिति भावः । आनन्दमयाधिकरणे सिद्धान्तिना ह्येतत् वक्ष्यते । सर्वसम्मतम् - विशिष्टैक्यवादिभिरन्यैश्च सम्मतमित्यर्थः । गङ्गायां घोष इत्यादिषु सवर्पदलक्षणा न दृष्टेति चोदयति । ननु चेति । तात्पर्यनिश्चायककतिपयमुख्यवृत्त्या तदनुगुणमन्येषां पदानां लाक्षणिकत्वमाश्रयणीयम्, सर्वपदलक्षणायां तु तन्न संभवतीत्यभिप्रायः । तात्पर्याविरूद्धपदमुख्यार्थस्वीकारः तात्पर्यविरुद्धपदलक्षणास्वीकारस्याविरुद्ध इत्या-येनाह-ततः किमिति । ततः किमित्यभिप्रेतं विवृण्वन् प्रतिबन्दीमुखेन विवक्षितार्थं (विपक्षेबाधं)दर्शयित्वा परि- हर्तुं विपक्ष बाधगर्भां प्रतिबन्दीमाह वाक्यतात्पर्येति । यदि अविरुद्धपदमुख्यार्थत्वं विरुद्धपदलक्षणाविरोधि, तर्हि गङ्गायां मत्स्याः प्रतिवसन्तीत्यादिषु अविरोधेन एकस्यापि पदस्य लक्षणानङ्गीकारात् गङ्गायां घोष इत्यादिष्वेक-स्यापि पदस्य लक्षणा न स्यादित्यभिप्रायः । गङ्गायां मत्स्या इति वाक्ये विरोधाभावाल्लक्षणानङ्गीकारः, गङ्गायां घोष इत्यत्र विरोधाल्लक्षणा न दोष इति चेत् तदत्रापि तुल्यमित्याह समभिव्याहृतेति । सर्वपदलक्षणा च विषं भुङ्क्ष्वेत्यादिषु दृष्टेत्यभिप्रायः । एतत्तात्पर्यमिति निश्चिते सतीति ।अपवादकरहितसमानविभक्तिनिर्देशो निश्चा-यक इति भावः । द्वयोस्त्रयाणामित्यादि ।अविरोधविरोधावेव मुख्यलक्षणावृत्तिस्वीकारप्रयोजकौ, न तु पदानाम-#ेकत्वद्वित्वादिकमित्यर्थः । न केवलं विषं भुङ्क्ष्वेत्यादिषु लौकिकप्रयोगेष्वेव सर्वपदलक्षणाऽगत्याऽऽश्रिता, अन्यै-रपि परीक्षकैराश्रितेत्याह तथा चेति । तथा-सर्वपदलक्षणाया अदोषत्वम् । अभ्युपगम्यते । अभ्युपगमहेतुसद्भा-वादभ्युपगमः फलित इति भावः । कैः परीक्षकैः केषु वाक्येषु सर्वपदलक्षणाऽऽश्रितेत्यत्राह कार्यवाक्यार्थेति । लौकिकवाक्येषु सर्वपदलाक्षणिकत्वमुपपादयति । अपूर्वकार्य एवेति । क्रियाकार्यं लाक्षणिकमस्तु, तत् कथं सर्व-पदलक्षणेत्यत्राह कार्यान्वितेति । पदानामन्विताभिधायित्वेन कारकपदानामपूर्वकार्यान्विताभिधायिनां तदन्वित एव मुख्यार्थ इति तदन्वयपरित्यागे लक्षणैवेत्यर्थः ।

ननु गङ्गायां घोषः प्रतिवसेतित्यादिषु गङ्गापदस्य लाक्षणिकार्थत्वेऽपि तदन्विताभिधायिनां पदान्तरा-णाममुख्यत्वं न दृष्टमिति चेन्न-गङ्गापदलक्षितस्य कूलस्य वाक्यार्थत्वाभावात्; इह तु वाक्यस्य प्रधानप्रतिपाद्य-भूतकार्यार्थसमर्पकपदस्य लाक्षणिकत्वात् तदन्विताभिधायिनां पदानां लक्षणा स्यादेव ।अत एव कार्यवाक्या-र्थवादिभिरित्युक्तम् । ननु "कमलानि निमीलन्ति कुमुदान्युन्मिषन्ति च" इति वाक्यार्थभूतनिमीलनादेर्लाक्षणि-कत्वेऽपि तदन्विताभिधायिनां कमलादिपदानां न लाक्षणिकत्वं दृष्टमिति चेत्- अनभिप्रायज्ञश्चोदयति भवान् । सर्वपदानां निमीलनरूपवाक्यार्थपरत्वस्य कैश्च्द्वयवस्थापितत्वाभावात् निमीलनोपस्थापकपदलक्षणायामपि न तदन्विताभिधायिनां लाक्षणिकतापत्तिः; त्वया तु सर्वपदानां कार्यकरत्वाभ्युपगमात् तत्कार्यसमर्पकपदलाक्ष-णिकत्वे तदन्वितार्थाभिधायिनां लक्षणा प्राप्नोपि । तथा हि-कायर्वाक्यार्थवादिना पदानां किं विशिष्टकार्यैकदेशे पदशक्तिनिर्श्चीयते, उत विशिष्टस्थायिकार्यैकदेशे? प्रथमे विशिष्टकार्यैकदेशत्वाविशेषात् स्वार्थेषु कारकपदाना- मिव लिङादेः क्रियाकार्ये मुख्यत्वप्रसङ्गः । द्वितीये विशिष्टस्थायिकार्यैकदेशपरत्वप्रहाणस्य सर्वपदानामविशिष्ट- त्वात् लिङादेः क्रियाकायर् इव कारकपदानां क्रियाकार्यान्वितपरत्वे लक्षणा स्यात् ।। पदानां विशिष्टकार्यैकदेश- परत्वे तुल्येपि लिङादेः क्रियाकार्ये लाक्षणिकत्वम्, कार्यान्वितमात्रे कारकपदानां मुख्यत्वमिति चेत्-यदि कार्या-न्वितमात्रे कारकपदानां मुख्यत्वमिष्टं, क्रियाकार्ये लिङादेर्लाक्षणिकत्वं कथम्? ।। स्थायिकायर्परत्वेन वेदप्रयुक्त-त्वनिश्चयाल्लक्षणयापि क्रियाकार्यबोधनसम्भवादिति चेत्-कारकपदानामपि स्थायिकार्यान्वितपरत्वेन वेदप्रयो-गदर्शनात् लक्षणयापि क्रियाकार्यान्वितबोधनोपपत्तेः क्रियाकार्यान्वितप्रतिपादनं लाक्षणिकं स्यात् । ननु गोपदस्य सास्नादिमन्मात्रमुख्यत्वेऽपि प्रमाणान्तरेण खण्डादिसिद्धिवात् लिङादेः कार्यमात्रपरत्वे कार्यविशेषस्य प्रमाणा-

न्तरेण सिद्धयभावादुभयत्रैकशक्तिकल्पनायोगात् शक्तिद्वयकल्पने गौरवाच्च लिङ्देरपूर्वकार्ये मुख्यत्वमिति क्रिया-कार्यप्रतिपादनं लाक्षणिकम्; अन्यथा शब्दशक्तेः कायर्मात्रविषयत्वात् प्रत्यक्षाद्यविषयत्वाच्च कार्यविशेषो निष्प्रमा-णकः स्यदिति चेन्न-कार्यविशेषस्य प्रामाणिकत्वे तत्र शक्तिकल्पनम्, शक्तिकल्पने तस्य प्रामाणिकत्वमित्यन्यो-न्याश्रयप्रसङ्गात् । किञ्च यदि कार्यविशेषस्याप्रामाणिकत्वपरिहाराय तत्र शक्तिकल्पनम्-तर्हि कारकपदानां कार्यान्वितमात्रपरत्वे कार्यविशेषान्वयस्य प्रमाणान्तरागोचरत्वात् उभयत्र शक्तिकल्पने गौरवाच्च कार्यविशेषान्वये प्रमाणं न स्यादिति तत्परिहाराय कार्यविशेषान्वये कारकपदानां मुख्यत्वमिति क्रियाकार्यान्वितपरत्वं लाक्षणिकं स्यात् ।। लिङादिसमभिव्याहारबलात् कारकपदानां कार्यविशेषान्वयपरत्वसिद्धिरिति चेत् तर्हि स्वर्गकामपदसम-भिव्याहारबलात् लिङादेः कार्यविशेषपरत्वसिद्धिरिति लिङादिः कार्यमात्रपरः स्यात् । तस्माल्लिङादेरपूर्वकार्य एव मुख्यवृत्तत्वेन क्रियाकार्यस्यामुख्यत्वे कारकपदानामपि क्रियाकार्यान्वितपरत्वं लाक्षणिकमित्येवाभ्युपगन्तव्यम् ।। कारकपदानामन्वयांशे लक्षणा; न सर्वत्रेति चेत्-समानाधिकरणवाक्येऽपि पदानां प्रातिपदिकांश एव लक्षणा न समानविभक्ताविति तुल्यम् । सर्वपदलक्षणानुपपत्तिपरिहारमुपसंहरति । अत इति ।अतः-सर्वपदलक्षणाया उप-पत्तिसिद्धत्वात् लौकिकैः परीक्षकैरप्याङ्गीकृतत्वाच्चेत्यर्थः ।

यदप्याहुरित्यारभ्य कृतां शास्त्रेण स्वाभिमतार्थसिद्धिमुपसंहरति । अत इदमेवेति ।अतः-निर्विशेषे वस्तुनि, तस्यैव पारमार्थ्ये व्यतिरिक्तस्य मिथ्यात्वे तस्य दोषपरिकल्पितत्वे, दोषस्य च सदसदनिर्वचनीयत्वे, ज्ञानमात्रनिव-र्त्यत्वे च उक्तैरुपपत्तिसहितैः श्रुतिवाक्यैरित्यर्थः । इदमेवार्थजातम्-पूर्वोद्दिष्टमेवार्थजातम्; न तु सगुणवस्त्वादिकम् । प्रतिपादयन्तो वेदान्ताः प्रमाणमिति । वाक्यान्तराणां काल्पनिकार्थपरत्वेन तत्त्वावेदकत्वाभावादुक्तार्थविषयमेव वाक्यजातं तत्त्वे प्रमाणमित्यर्थः ।।

पूर्वं प्रत्यक्षविरोधे शास्त्रप्राबल्यं, शास्त्रे च भेदाबलम्बिनाबाध्यत्वं चोक्तम् । अथ प्रत्यक्षविरोधो नास्ती-त्युपपादयितुं प्रकमते । प्रत्यक्षादीति शास्त्रप्रत्यक्षविरोधे शास्त्रप्राबल्यप्रतिपादकग्रन्थेन वक्ष्यमाणार्थसङ्गतिरिति भावः । चः समुच्चये । अविरोधपक्षस्य च बुद्धिस्थत्वात् तस्य चान्वारुह्योक्तस्य च समुच्चयः । विरोधाभ्युपगमेऽपी-त्यर्थः । सति चेति ।अत्र च शब्दो हि शब्दार्थः । अविरोधं प्रतिजानीते । विरोध एव न दृश्यत इति । हेतुमाह निर्विशेषेति । विषयविषयिभावरूपभेदव्यवृत्त्यर्थं सन्मात्रब्रह्मेत्युक्तम् । प्रतीतिविरोधेन चोदयति । ननु चेति । विरोधमुपपादयति । घटोऽस्तीत्यादिना । न हि केवलम्, अस्तीति प्रतीतिः, अपि तु "घटोऽस्ति" "पटो-ऽस्ती"इत्येव हि प्रतीतिरित्यर्थः । प्रतीतेर्भ्रान्तिरूपत्वसंभवात् तद्व्युदासार्थं व्यवहारविरोधमाह विलक्षणेति । परिहरति । सत्यमिति । घटोऽस्ति, पटो-ऽस्तीत्यत्रास्तित्व व्यवहारस्यैकरूपत्वात् तावन्मात्रे भेदावभासमात्र चाङ्गीकारः, भेदव्यवहारस्य प्रत्यक्षभूलत्वे भेदावभासस्य प्रत्यक्षत्वे चानङ्गीकारश्च सूच्यते सत्यमित्यर्धाङ्गीकारेण । तथैव । यथा सन्मात्रस्यैव प्रत्यक्षत्वमेकव्य-वहारहेतुतैव च स्यात्, तथैवेत्यर्थः । अत्र घटादिविषयस्वरूपविषय-व्यवहारसमुदाये । विविच्यते । यथा इदं रजतमित्यत्र इदं व्यवहारस्य प्रत्यक्षमूलत्वं रजतव्यवहारस्य भ्रानितमूलत्वं, तथा विविच्यत इत्यर्थः । तत्र इदमंशरजतांशव्यवहारयोरबाधितत्वबाधितत्वाभ्यां विवेकः ; अत्र स्वरूपविषयभेद-विषयव्यहारयोरुभयोरप्यबाधितत्वाविशेषे कथं विवेकः इत्यभिप्रायेणाह कथमिति । यौक्तिकबाधोऽस्तीत्याशये-नाह घटोऽस्तीति । किमस्तित्वं भेदश्चैकः पदार्थः, उत द्वौ? द्वित्वे च किं तदुभयव्यवहारयोः प्रत्यक्षमूलत्वम्, उतान्यतरस्य? द्वयोरपि प्रत्यक्षमूलत्वे प्रत्यक्षं किं युगपदुभय-ग्राहि उत क्रमेण इति विकल्पान् हृदि निधाय, "अस्तित्वलक्षणस्वरूपतद्भेदयोरैक्यं न सम्भवति, भेदग्रहणस्य स्वरूपग्रहणप्रतियोगिस्मरणसापेक्षत्वात्, सन्मात्र-

ग्रहणस्य तन्निरपेक्षत्वाच्च इत्यभिप्रयन्नाह अस्तित्वं तद्भेदश्चेति । भिन्न इति व्यवहारइव घट इत्यसाधारणव्यवहारे-ऽपि घटस्य पटाद्वयावृत्ततया प्रतीतौ प्रतियोगिसापेक्षत्वात् घाटव्य-वहार एव भेदव्यवहार इत्युच्यते । द्वित्वे च द्वयोरपि प्रत्यक्षमूलत्वं नेत्याह न च द्वयोरपीति । द्वयोरपि व्यवहा-रयोः-स्वरूपविषयभेदविषयव्यवहारयोः । प्रत्यक्षं युगपद्वा क्रमेण वा मूलं स्यादिति विकल्पमभिप्रेत्य यौगपद्यं दूषयति । तयोरिति । प्रतियोग्यपेक्षानपेक्षा-रूपवैषम्यादित्यभिप्रेतम् । क्रमपक्षं प्रतिक्षिपति प्रत्यक्षज्ञानस्येति । चःसमुच्चये । एवं युगपत् क्रमेण चोभव्यवहार- स्य प्रत्यक्षमूलत्वमनुपपन्नमिति तयोरन्यतरस्य प्रत्यक्षविषयत्वमाह तत्रेति । भेदः प्रत्यक्षविषयः स्यादित्यत्राह भेदे- ति । अस्तित्वभेदयोरैक्यायोगे तद्वयवहारयोर्भिन्नकालज्ञानफलत्वे च य एव हेतुः, तेनैवेत्येवकाराभिप्रायः । प्रत्य-क्षस्य स्वरूपमात्रविषयत्वे कथं भेदव्यवहारसम्भव इत्यत्राह - अतो भ्रान्तीति । तथा च संवित्सिद्धौ, "यौगपद्य-क्रमायोगाद्वयवच्छेदविधानयोः । ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ।।" इति । व्यवच्छेदः भेदग्रहणम् । विदानम् स्वरूपग्रहणम् ।

एवं भेदे प्रमाणानुपपत्तिरुक्ता ;अथ प्रमेयानुपपत्तिमाह किञ्चेति । किञ्चेत्यादिना प्रमाणानुग्राहकतर्का-भावोऽप्युपपादितो भवति ।दुर्निरूपत्वं प्रतिजानीते भेदो नामेति । विकल्पासहत्वादिति भावः । न्यायविद्भिः । न त्वापातप्रतीतितृप्तैरिति भावः । स्वरूपधर्मविकल्पं हृदि निधाय स्वरूपपक्षं दूषयति भेदस्तावदिति । कुतः इत्यत्राह वस्तुस्वरूप इति । स्वरूपव्यवहारवत् सर्वस्माद्भेदव्यवहारप्रसक्तेरिति । प्रतियोगिनिरपेक्षभेदव्यवहारप्रसक्तेरि-त्यर्थः । स्वरूपग्रहणस्य शब्दव्युत्पत्तिव्युपन्नशब्दस्मरणनिरपेक्षत्वेऽपि भिन्न इति व्यवहारस्तु तत्सापेक्षो यथा भवति, तथा प्रतियोगिसन्मरणमपि भेदव्यवहारसामग्य्रन्तर्भूत्तम्; अतस्तत्स्मरणाभावात् तदानीमेव भेदव्यवहा-राभावः न तु भेदाग्रहणादिति परमतमाशङ्कयाह न चेति । कुत इत्यत्राह स्वरूपेति । यथा न स्वरूपग्रहणे प्रति-योग्यपेक्षा, तथा भेदव्यवहारे चेति च शब्दार्थः । हि शब्दो हेतौ । स्वरूपग्रहण इव भेदव्यवहारे प्रतियोग्यपेक्षाया असम्भवादित्यर्थः । असम्भवः कुत इत्यत्राह स्वरूपेति । स्वरूपभेदयोः स्वरूपत्वमविशिष्टमस्तु, ततः किं प्रति-योगिनिरपेक्षभेदव्यवहारप्रसक्तेः इति शङ्कायां तद्विवृणोति यथेति । स्वरूपपक्षे दूषणान्तरमप्याह हस्तः कर इति । पर्यायत्वे सति सहप्रयोगस्त्याज्यः स्यादिति भावः । स्वरूपपक्षे मृषावादिभिर्दूषणान्तराण्यप्युक्तानि; उदाहृतदूषण-परिहारेण तान्यपि प्रत्युक्तानि भवन्तीति भाष्ये न कण्ठोक्तानि । तान्युच्यन्ते-स्वरूपपक्षे भिन्न इति व्यवहर्तुं न युक्तम्, भिन्नो हि भेदयोगी । एतद्वयवहारसिद्धये यदि स्वरूपभूतभेदान्तरं स्वीक्रियते, तत्रापि भिन्न इति व्यव-हारस्यायुक्तत्वात् तत्स्वरूपभूतभेदान्तरमाश्रयणीयमित्यनवस्था । किञ्च-शब्दान्तरेण धर्म इत्युक्तं स्यात्; तथा च धर्मपक्षदूषणान्यापतेयुः । किञ्च-भेदःकिमनुवृत्तः, उत व्यावृत्तः,? व्यावृत्तश्चेत् स किं स्वरूपम्, उत धर्मः? प्रथमे घटस्य भेदव्यवहारे कृते पट विषयभेदव्यवहारो न स्यात्, व्यावृत्तत्वात् । धर्मश्चेत् पूर्वोक्तदोषो धर्मत्व-प्रयुक्तदूषणानि च स्युः । यद्यनुवृत्तः सच स्वरूपं चेत्-शब्दान्तरेण सन्मात्रमङ्गीकृतं स्यात् । धर्मपक्षे पूर्ववत् । किञ्च-भिदिधातोर्हि विदारणमर्थः,एकस्य वस्तुनो भेदो नाम द्विधा भावः, तत्खण्डस्यापि तथा स्यात् । अतो वस्तुनि भेदाभ्युपगमे विदारणपरम्परया नाश एव स्यादित्येवामादीनि ।

अथ धर्मपक्षं दूषयति नापीति । कुतः इत्यात्राह धर्मत्व इति । स्वरूपाद्धर्मस्य भेदाभावेऽनिष्टमाह अन्य-थेति । स्वरूपधर्मयोर्भेदोऽस्तु; ततः किमित्यत्राह भेदे चेति । तस्यापि भेदस्तद्धर्मः-तस्य धर्मतया स्वीकृतस्यापि भेदस्य, स्वरूपापेक्षया यो भेदः, सोऽपि तस्य धर्मतया स्वीकृतस्य भेदस्य धर्मः । यद्वा -स्वरूपाद्धर्मस्य यो भेदः स्वीकृतः, तस्य धर्मिभूताद्धर्मात् भेदोऽपि धर्मः । अन्यथा स्वरूपमेव स्यात् । तदा(था) च स्वरूपपक्षदूषणानि

स्युः; सोऽपि भेदो धर्मः, तस्यापि स्वरूपाद्भेदः इत्यनवस्थेत्यर्थः । एवं धर्मपक्षेऽनवस्यामुक्ताऽन्योन्याश्रयणमाह - किञ्चेत्यादिना । त्रेधा च तत्-धर्मिणि प्रतियोगिनि च गृहीते भेदग्रहणं, भेदे गृहीतेधर्मिप्रतियोगिग्रहणमिति; धर्मे धर्मिणि च गृहीते भेदग्रहणम् भेदे गृहीते धर्मधर्मिग्रहणमिति ।अयं घट इत्यत्र इदंशब्दनिर्दिष्टस्य घटजातीय-त्वविशिष्टग्रहणं पटजातीयाद्भेदग्रहणपूर्वकम्,अन्यथा घटाजातीयत्वविरोधात् ; पटाद्भेदग्रहणम् इदंशब्दनिर्दिष्ट- स्य घटजातीयत्वग्रहणपूर्वकम्, अन्यथा पटत्वप्रसङ्गादिति ; एवं धर्मधर्मिग्रहणे धर्मितया प्रतियोगितया च ग्रहणे तत्तज्जातीयत्वग्रहणे च त्रिधाऽन्योन्याश्रयणमुक्तम् ।

साधकप्रमाणाभावमुपसंहरति । अत इति ।अतः-स्वरूपधर्मपक्षोक्तैर्दूषणैः, दुर्निरूपत्वादित्यर्थः ।

इत्थं साधकप्रमाणाभाव उक्तः । प्रमेयानुपपत्तिरूपस्तर्कश्च तच्छेषभूतः; सामग्रीविषयेणार्थस्वाभावविष- येण वा निरूपणेन विषयविशेषे प्रमाणव्यवस्थापनं हि तर्ककृत्यम् ।अथ वाधकप्रमाणमुपन्यस्यति । कि ञ्चेति । तत्र अनुमानं विवक्षुर्व्याप्ति शिक्षयति घटोऽस्तीत्यादिना । "वैधर्म्याच्च न स्वप्नादिवत्" इत्यत्र सूत्रकारेणैव दृश्य-त्वानुमानस्य निराकरिष्यमाणत्वात् तन्निरासस्य मिथ्यात्वानुमानानां सर्वेषां दूष्यत्वप्रदर्शनार्थत्वात् पूर्वपक्षे व्या-वर्त्तमानत्वहेतुरुपन्यस्यते । अनुवृत्तत्वप्रदर्शनाय घटोऽस्ति पटोऽस्तीत्युक्तम् । सदनुमूत्योरेकत्वं वक्ष्यमाणं हृदि निधायानूभुतेरनुवृतिं्त दर्शयति । घटोऽनुभूयते पटोऽनुभूयत इति । ततः किमित्यत्राह अत्रेति । व्यावर्त्तमानत- या-उत्तरोत्तरप्रतिपातिविषयेप्वविद्यमानतया । रज्जुसर्पादिवत्-रज्जवादिवत्सर्पादिवच्चेत्यर्थः । तद्विवृणोति यथे-त्यादिना । बाधितत्वाबाधितत्वाभ्यां द्वयोरपि हेत्वोः सोपाधिकत्वं दर्शयंरचोदयति ननु चेति । उपाधिनिवृत्त्या पक्षे साध्यनिवृत्तिमाह अत्र त्विति । विपरीतोपाधिसद्भावाच्च व्याधात इति चाभिप्रायः । परिहरति उच्यत इत्या-दिना । प्रथमं सम्प्रतिपन्नांशमाह घटोदौ दृष्टा व्यावृत्तिरिति । सपक्षेषु सर्वेषु विद्यमानःपक्षे अविद्यमानो ह्युपाधिः । तत्र परेणोपाधित्वेनोक्तस्य धर्मस्य पक्षे विद्यमानत्वकथनेन व्यावर्त्तमानत्वहेतोः सोपाधिकत्वं दूषयिष्यन् तदुप-योगित्वेन, घटादिषु दृष्टा व्यावृत्तिः किं संवादफलभूता, उत बाधफलभूतेति विवेचनीयमित्याह सा किं रूपेति । बाधफलभूतत्वं दर्शयितुं व्यावृत्तिस्वरूपमाह किं घटोऽस्तीत्यत्रेति । घटोऽस्तीति प्रतीते विषये पटाभाव इत्यर्थः । स्दिं्ध तर्हीति । रज्जौ भूदलनादीनामभावो हि बाधितत्वमिति भावः । तस्मात् बाधफलभूतैवेत्याह अत इति । बाधो नाम-अदुष्टकारणजा निषेधबुद्धिः । तेन पुरोवर्त्तिन्यभावो व्यावृत्तिः । एवं निरुपाधिकत्वाद्वयावर्त्तमानत्वमपारमा-र्थ्यसाधकमित्याह सेति । अबाधितत्वफलभूतानुवृत्तेः परमार्थत्वप्रयोजकत्वादनुवर्त्तमाने पारमार्थ्यं दर्शयति रज्जुव-दिति ।अबाधो नाम अविरोधित्वम्, अनुवृत्तिर्नाम तत्कृतो विषयतयाऽन्वयः; पुरोवर्त्तिनि सद्भावो वा । इत्थं व्याप्तिः शिक्षिता । न केवलं तर्कः; अनुग्राह्यमप्यस्तीत्याह प्रयोगश्च भवतीति । मायावेदान्तिनो हि ज्ञानमात्र-पारमार्थ्यवादिनः; तत्कथं सतः पारमार्थ्यसाधनमित्यत्राह एवं सतीति । व्यावर्त्तमानत्वानुवर्त्तमानत्वयोरपारमा- र्थ्ये पारमाथ्ये च प्रयोजकत्वे सिद्ध इत्यर्थः । तर्हि परमार्थद्वयं स्यादित्यत्राह सैव सतीति । अथ सदनुमूत्योर्विषय-विषयिभावरूपं भेदमुद्धाटयंश्चोदयति । ननु चेति ।भिन्नत्वं साध्यं विषयतयेति हेतुः । परिहरति नैवमिति । तत्र साध्यांशं दूषयति भेदो हीति । पुरस्तादेव-ज्ञेयभदेनिषेधादेव ज्ञानभेदोऽपि निरस्त इत्यर्थः । हेत्वंशं दूषयति अत इति । न प्रमाणपदवीमनुसरतीति । विषयविषयिभावो भ्रान्तिसिद्ध इत्यर्थः । भेदस्य भ्रान्तिसिद्धत्वपिना समु-च्चीयते । श्रुतिप्रतिपाद्यान् अर्थान् तकैणापि साधयन्, विषयविषयिभावे निरस्ते ग्राहकाभावाच्छून्यत्वशङ्काञ्च व्यावर्तयन् स्वप्रकाशत्वमुपपादयति सा चेति । चः शङ्काया निवृत्तौ । तत्र व्यतिरेकिणं हेतुमाह अनुभूतित्वादिति । विपक्षे बाधं दर्शयति अन्यतः सिद्धाविति । यत् अन्यतः सिद्धं, तत् अननुभूतिदृष्टम्; यथा घट इति व्याप्तिरर्था-

द्दर्शिता ।अस्य व्यतिरेकिणः पराभिमतं प्रत्यनुमानं सोपाधिकमिति दर्शयन् अर्थादनुमानान्तरमप्याह किञ्चेत्यादिना । अनुमानान्तर कण्ठोक्तम्,आर्थः प्रत्यनुमाननिरासो वा स्यात् । अनुमानान्तरस्य कण्ठोक्तत्वे किञ्चशब्दः स्वरसः । प्रत्यनुमानस्य कण्ठोक्तत्वे न शक्या कल्पयितुमिति निर्देशः स्वरसः । किञ्चेति । न केवलं स्वमतोपपत्तिः, परमतानुपपत्तिश्चेत्यर्थः । अनुमानान्तरं चेति वाऽर्थः । अनुभवापेक्षा चेति । पूर्वोक्तसमुच्चेतव्यद्वये किञ्चशब्दसमुच्चितादन्यस्य समुच्चयपरः च शब्द: । न शक्या कल्पयितुम् । ज्ञानं परप्रकाशम्, वस्तुत्वात् भास-मानत्वाद्वा, घटादिवदिति प्रत्यनुमानम् । एवमादिभिः परप्रकाशत्वं न वक्तुं शक्यमित्यर्थः । कुत इत्यत्राह सत्तयै-वेति । सत्तयैव प्रकाशमानत्वादिति हेतोरसिद्धिशङ्कानिवृत्तये तं विवृणोति न हीति । विद्यमानदशायां कदाचि-दप्रकाशमानत्वं पराधीनप्राकाशत्वे प्रयोजकम्; अतः प्रत्यनुमानं सोपाधिकमित्यर्थः। विद्यमानदशायां सर्वदा भास-मानत्वादिति व्यतिरेक्यनुमानान्तरमिति स्फुटतरम् । यथा संवित्सिद्धौ, "यद्यप्रकाशमाना धीःकदाचिदवतिष्ठते" इत्यारभ्य-"घटादाविव तत्रापि कल्पनीयं प्रकाशनम्" इति । अनेन ग्रन्थेन स्वसत्तयैव प्रकाशमानत्वादिति हेतोरसिद्धिशङ्का परिहृता ।। विद्यमानत्वे सर्वदा प्रकाशमानत्वं सुखादावप्यस्तीत्यनैकान्त्यमिति चेन्न-सुखादि-व्यतिरिक्तत्वे सतीति विशेषणस्याभिप्रेतत्वात् । सिद्धान्तिमते सुखादेरपि ज्ञानविशेषत्वेन पक्षेऽन्तर्भावान्नानैका- न्त्यम् । एकमनुमानान्तरमुक्तम् । शङ्कितप्रत्यनुमानस्य सोपाधिकत्वञ्च दर्शितम् ।।

अथ प्राकष्टययानुमेयपक्षं निराचिकीर्षुरनुवदति अथैवं मनुष इत्यादिना । प्रथमं स्वसत्तयैव प्रकाशमा-नत्वादिति हेतोरसिद्धिमुपपादयति उत्पन्नयामिति । अनेन स्वोक्तस्य, "वस्तुत्वात्" "भासमानत्वात्" इत्यादि-प्रत्यनुमानस्य सोपधिकत्वव्युदासः सेत्स्यतीति भावः । उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासत इत्यत्र घटो-ऽयमितीत्यध्याहार्यम् । घटोऽयमिति विषयमात्रमवभासत इत्यर्थः । घटोऽयमिति जानन्निति हि वक्ष्यते । यथा संवित्सिद्धौ, "घटोऽयमिति विज्ञाने घटमात्र प्रकाशते न वित्तिरिति युष्माकं गोष्ठीषु ननु घुष्यते ।।" इति । घटो-ऽनुभूयत इत्यस्योत्तरत्रान्वयः । पूर्वत्रान्वयश्चेत्, "विषयमात्रमवभासत" इत्यनेन विरोधः स्यात् । कथं विषयमात्र-स्यावभासः; घटोऽनुभूयत इति अनुभवोऽपि प्रकाशत इति शङ्कायां विषयमात्रस्यैवावभासमुपपादयति । घटोऽनु-भूयत इत्यादिना । यदा घटोऽयमिति जानाति न हि तदानीमेव घटोऽनुभूयत इति जानाति । कुत इत्यत्राह अवि-षयभूतामनिदम्भावामिति । अविषयभूताम्-घटशब्दार्थव्यतिरिक्ताम् । अनिदम्भावाम्-अयंशब्दार्थव्यतिरि- क्ताम् । घटत्वविशिष्टं पृथुबुध्नोदराकारद्रव्यं घटशब्दार्थः । सन्निहितदेशवर्तमानकालविशिष्टत्वमयंशब्दार्थः । उभय-व्यतिरिक्तो ह्यनुभवः । स तु घटोऽयमित्यनुभववेलायां नानुभूयत इत्यर्थः । अविषयभूतामिति साधारणनिर्देशः पटादीनामपि प्रदर्शनार्थः । अत एवाघटभूतामित्यनुक्तिः । यद्वा घटोऽनुभूयत इति पूर्वेणान्वयः । इतिर्हेतौ । यतो घट एवानुभूतिकर्म, न त्वनुभूतिरपि तदानीमनुभूतिकर्म भवति-तस्माद्विषयमात्रमवभासत इत्यर्थः । अस्यैव विव-रणम् न हीति । शब्दलिङ्गालोकादीनां प्रकाशकानां ज्ञाततयैव प्रकाशकत्वं दृष्टम्; अतोऽनुभूतिरप्रकाशा चेत्, प्रकाशकत्वमपि न स्यादित्यत्राह तस्माद्धटादीति । सत्तया प्रकाशकं ज्ञायमानतया प्रकाशकञ्च द्विविधं प्रकाश-कम् । तत्र सत्तया प्रकाशककोटिनिविष्टं ज्ञानमित्यर्थः । क एवं नियामकः इत्यत्राह तस्मादिति । स्वसत्तयैव प्रका-शमानत्वहेतोरसिद्धेः, अस्मदुक्तहेतोः सोपाधिकत्वनिरासाच्चेत्यर्थः । यद्यनुभूतिः स्वयमेव न प्रकाशते, तर्हि किं तस्यां प्रमाणमित्यत्राह तदनन्तरमिति । अर्थगतकादाचित्कप्रकाशातिशयलिङ्गेन - कादाचित्कत्वात् कार्यं, कार्यत्वात् सहेतुकमित्यनुमानेन ज्ञायत इत्यर्थः । विषयगतप्राकठ्यलिङ्गेन कथं स्वगतज्ञानमनुमीयत इति चेत्- स्वस्मै प्रकाशमानत्वात् स्वगतज्ञानानुमानमुपपद्यते । यदि ज्ञानपश्चाद्भाविना प्रकाशलिङ्गेन ज्ञामनुमीयते, तर्हि

घटोऽनुभूयत इति वक्तुमयुक्तम्, घटोऽन्वभावीति वक्तुं युक्तमिति शङ्कायामुक्तं तदनन्तरमिति । प्रत्यासत्त्यतिश- यात् वर्तमानत्वव्यपदेश इत्यर्थः । अर्थेन्द्रियसंप्रयोगसमनन्तरभेव घटोऽनुभूयत इति प्रतीतेः प्रकाट्यलिङ्गेन ज्ञाना-नुमानानवकाशत्वशङ्का चानेन परिहृता तदनन्तरमिति । पद्मपत्र - बहुपत्रवेधवदनुमानशैघ्य्रात् तथा प्रतीतिरुप-पद्यत इति भावः । मृषावादी स्वदर्शनप्रसिध्द्याऽनिष्टं प्रसञ्जयति एवं तर्हीति जडत्वम्-ज्ञानव्यतिरिक्तत्वम्, अचि-त्त्वमित्यर्थः । इह चानुभूतिरजडेति विपर्यये पर्यवसानम् प्रसञ्जनीयस्य जडत्वस्यानिष्टत्वं प्रतिक्षेप्तुमजडत्वं विक- ल्प्य दूषयति किमिदमिति । किमिदं-न किमपि; दुर्निरूपमित्यर्थः; अनन्तरं शिरोद्वयप्रदर्शनाभावात् । दुनिर्रूप-त्वविवरणमुत्तरग्रन्थः । विकल्पपरो वा किं शब्दः । अजडत्वं नाम, किं हेतुत्वेनोक्तं विद्यमानदशायां सर्वदा प्रका-शमानत्वम्, उत साध्यतयाऽभिमतं स्वयमेव स्वस्य प्रकाशकत्वम् इति विकल्पोऽभिप्रेतः । तत्र प्रथमे कल्पे किमु-त्पत्तिकालेऽपि प्रकाशाव्यभिचारो विवक्षितः, उतोत्पत्तिक्षणादूर्ध्वं प्रकाशाव्यभिचारः इति विकल्पोऽभिप्रेतः । तत्रा- द्ये शरस्यसिद्धिः पूर्वभेवोक्तेति मत्वा द्वितीयेऽनैकान्तिकत्वमाह सुखादिष्विति । तद्विवृणोति न हीति । शिरोऽन्तरं दूषयति । अत इति -अतः-हेतोरसिद्धयनैकान्तिकत्वाभ्यां साध्यमपि नेत्यर्थः । अनेन जडत्वं नानिष्टमिति दर्शि- तम् । अनुमानान्तरेण साधयिष्यत इत्यत्राह अर्थान्तरमिति । व्याहतत्वान्न किञ्चिदपि प्रमाणमिममर्थं साधयितु-मलमित्यर्थः । यथाहुः, "अङ्गुल्यग्रं यथात्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मानं ज्ञातुमर्हति ।।" इति । एवं जडत्वप्रसङ्गरूपतर्कस्य विपर्यये पर्यवासानाभावः, व्याप्त्यमावः, इष्टप्रसङ्गत्वम्, व्याधातलक्षणप्रतितर्कप-राहतत्वञ्च दर्शितम् । इति-अथैवं मनुष इति पुर्वत्रान्वयः ।। अथ स्वयंप्रकाशत्ववाद्याह तदिदमिति । अनाकलि-तानुभवविभदस्य । स्वव्यतिरिक्तस्य कृत्स्नस्य प्रकाशकः सन्ननुभवः स्वात्मनि अनन्यनन्यापेक्ष इति एको विभवः । प्राकट्यहेतुको यो व्यवहारः "प्रकाशत" इति, तं च जनयितुमयमेव क्षम इत्यपरः । एवं द्विविधोऽनुभवविभवो-ऽनाकलितो येन, सोऽनाकलितानुभवविभवः; तस्य । स्वमतिविजृम्भितम् । प्रमाणतर्कनिरपेक्षस्वोत्प्रेक्षामात्र-विजृम्भितमित्यर्थः । स्वमतिमाहात्म्यमित्यधिक्षेपो वा । पारिशेष्यात् स्वयंप्रकाशत्व-मभ्युपगमयितुं प्रथमं प्राक-ट्यलिङ्गं प्रतिक्षिपति अनुभूतीत्यादिना । अनुभूतिव्यतिरेकिण इत्यनेनासाधारण्यप्रतिक्षेपः फलितः । विषय-धर्मशब्देन आत्मधर्मव्युदासः । तेन रूपादिवत् साधारण्यं फलितम् । अनुभूतिव्यतिरेकिविषयधर्मः प्रकाशः प्रत्यक्षयोग्यो न वा? न चेत्, लिङ्गज्ञानाभावात् अनुमानानुदयः । योग्यश्चेत् अन्यैरुपलभ्यः स्यात्, रूपादिव- दिति भावः ।। अपेक्षाबुद्धिजन्यस्य द्वित्वादेर्यथा तत्तदेकपुरुषवेद्यत्वम् ; तद्वत् प्राकट्यमपि तदेकपुरुषवेद्यमिति चेन्न; द्वित्वादिसङ्ख्याः प्रागेव सन्ति । यथैकत्र सर्वा दिशः; तत्तदुपाध्यपेक्षाबुध्यभिव्यङ्गया हि ताः-एवमपेक्षा-बुध्यभिव्यङ्गयद्वित्वादि तस्यैव प्रकाशते, यद्गतमभिव्यञ्जकम् । अत्र तु रूपादिवत् जन्यधर्मत्वाभ्युपगमात् सर्वै-रुपलभ्येत । अभिव्यङ्गयत्वेऽभिव्यञ्जकवत एवावभासते, सिद्दाञ्जनवतो निधिरिव । न तु जन्यं जनकस्यैवावभासते; न हि कुलालस्यैव घटः प्रकाशते । किञ्च रूपादिवदिति । धर्मस्य निराश्रयोत्पत्त्ययोगादतीतानागतयोरर्थयोर्जा-यमानयोरपि प्राकट्यायोगात् प्राकठ्याभावेऽपि ज्ञानं प्रतीयत इति तत्र रूपादिवत् प्रकाशानुपलब्धेः प्राकट्येन ज्ञानानुमानं न सम्भवतीति भावः । यथा संवित्सिद्धौ, "अतीतेऽनागते चार्थे कथं प्राकट्यसम्भवः । न हि धर्मि-ण्यसत्येव धर्मः सम्भवमृच्छति ।।" इति ।। अतीतानागतयोरपि द्वित्वादिवत् प्राकट्यं जन्यत इति चेन्न; द्वित्वादेरपि निराश्रयोत्पत्त्ययोगात् । तत्र द्वित्वाद्यनुत्पत्तावपि घटोदेरिव द्वित्वादेरपि धीस्थतया व्यवहारोपपत्तेश्च । ये पुनर्द्वि-त्वादिकं नाभ्युपगच्छन्ति, न तान् प्रति द्वित्वादिकं प्रतिबन्दीकार्यम् ।। विषयविषयिभावसम्बन्धस्य विद्यमानाश्र-यत्वनियमाभावाद्विषयविषयिभाव एव प्राकट्यमिति चेन्न, सम्बन्धस्य सम्बन्धिभ्यां विना प्रतीत्यनुपपत्त्या संबन्धि

ज्ञानं च प्रतीयत इत्यनुमेयमेव न स्यात्-इति प्राकट्यं लिङ्गं न भवति ।। एवं प्राकट्याख्यं वस्तु अनुपलब्धमप्य-न्यथाऽनुपपत्त्या कल्प्यत इत्याशङ्कय कल्पकस्यान्यथासिद्धि दर्शयति उभयेति । अनुभूत्येत्युक्ते प्राकट्यस्य ना-मान्तरमुक्तं स्यादिति शङ्कानिरासार्थमुभयाभ्युपेतशब्दः । यां प्राकट्यजनकत्वेनाभ्यधाः, तयैवेत्येवकाराभिप्रायः । अशेषव्यवहारः-हानोपादानादि(व्यवहार)#ः । तस्यानुभूत्यैव संभवान्न तेन प्राकट्यं कल्प्यम् । ज्ञातो घटः, प्रकटो घटः इति व्यवहारश्च, इष्टो घटः द्विष्टो घट इति व्यवहारवदन्यथासिद्ध इत्यशेषशब्दाभिप्रायः । न हीच्छाजन्येनार्थ-गतेष्टत्वेन इच्छाऽनुमीयते ।। घटः प्रकाशत इति घटकर्तृकतया प्रकाशः प्रतीयते; घटमनुभवतीति घटकर्मकतया अन्यकर्तृकतया चानुभवः प्रतीयते; एवमेकस्यैव कर्मकर्तृव्यवहारानुपपत्त्या कल्प्यत इति चेन्न-कारकभेदस्य धातुभेदनिबन्धनत्वे-नार्थभेदनिबन्धनत्वाभावात्, यथा "परशुमुद्यम्य वृक्षे निपातयति", "परशुना वृक्षं छिनत्ती" इत्युक्तौ परशोः कर्मत्वकरणत्वे श्रुते; अथापि नार्थभेदः; वृक्षस्याधिकरणत्वकर्मत्वे श्रुते; तथापि नार्थभेदः-तथा व्यवहारभेदस्य धातुभेदनिबन्धनत्वेनार्थभेदहेतुकत्वाभावान्न व्यवहारः प्राकट्यकल्पक इत्यभिप्रायेण च अशेष-व्यवहारोपपत्तावित्युक्तम् ।। घटः प्रकाशत इति व्यवहारो घटगतातिशयेन विना नोपपद्यते, अन्यथा पटेऽपि तस्य व्यवहारस्य प्रसङ्गात् । स चातिशयः प्राकट्यमिति चेन्न-योऽतिशयो व्यवस्थापकः, स कथं घट एव स्यात्; न पटे? ।। इन्द्रियसंयोगवशादिति चेत्-तेन ज्ञानमेव व्यवस्थाप्यताम्, किमतिशयान्तराभ्युपगमेनेति अयमर्थो-ऽप्यशेषव्यवहारशब्देनाभिप्रेतः ।

यत्तु घटोऽयमित्यनुमववेलायां नानुभूत्यनुभव इति -तन्न;अनुभूयत इति शब्दाप्रयोगस्याविवक्षानिब-न्धनत्वेनाननुभवप्रयुक्तत्वाभावात् । लोको हि अनुभूतकृत्स्नार्थविवक्षाऽस्ति चेत्, तं सर्वं वदति एकदेशविवक्षा- स्ति चेत्त्ङ,लनुभूतैकदेशं वदति । एकदेशविवक्षाऽपि नास्ति चेत्, न किञ्चिदपि वदति । अतोऽनुभूयत इति शब्दा-प्रयोगो नतदप्रकाशत्वहेतुः । इदमप्यशेषव्यवहारशब्देनाभिप्रेतम् ; विकलस्याविकलस्यापि व्यवहारस्याशेष- शब्देन क्रोडीकर्तुं शक्यत्वात् । एवं व्यवहारस्यान्यथासिद्धत्वादनन्यथासिद्धस्यैव कल्पकत्वात् न प्रकाशः कल्प्य इत्यर्थः ।।

प्राकट्यानुमेयत्वानुपपतिं्त निगमयति अत इति ।अतः-अनुपलब्धिव्यवहारान्यथासिद्धिभ्यां प्राकट्याभा-वात् अनुभूतिर्न प्राकट्यानुमेयेत्यर्थ्।#ः । मानसप्रत्यक्षवेद्यत्वानुपपत्तिमभिप्रेत्याह नापि ज्ञानान्तरसिद्धेति । इदमत्र परोक्तमनुमानम्-ज्ञानं मानसप्रत्यक्षग्राह्यम्, क्षणिकत्वे सति आत्मविशेषगुणत्वात् सुखदुःखप्रयत्नादिवदिति । आत्मविशेषगुणत्वादित्युक्ते धर्मादिष्वनैकान्त्यं स्यादिति तद्वयावृत्त्यर्थं क्षणिकत्वे सतीत्युक्तम् । क्षणिकविशेष-गुणत्वादित्युक्ते शब्दे व्यभिचारः, क्षणिकात्मगुणत्वादित्युक्ते आत्मनः संयोगे व्यभिचारः स्यादिति तत्परिहा-रार्थमात्मविशेषशब्दौ । तदिदमनुपपन्नम्; क्षणिकत्वगुणत्वयोरन्यतरासिद्धत्वात् । दृष्टान्तश्च साधनविकलः । किञ्च यत् मानसप्रत्यक्षवेद्यं तत् अनुभुत्सितग्राह्यं दृष्टम्, यथा सुखादि ।अतश्च तद्विषयं ज्ञानं नियतमिति वक्त- व्यम् । तस्मात् घटादिज्ञानविषयं यत् ज्ञानम्, तस्याप्यबुभुत्सितग्राहत्यत्वात् मानसप्रत्यक्षवेद्यत्वं स्यात्, तद्विषय-ज्ञानस्यापि तथेत्यनन्तसंविदावलीसमुदयस्यावर्जनीयत्वात् ज्ञानान्तरानवकाशः स्यात् ।। मानसग्राह्यत्वस्यावुभु-त्सितग्राह्यत्वव्याप्यत्वं नास्ति, स्वापादावुच्छ्वासनिश्श्वासप्रयत्ने सत्यपि तद्ग्रहणाभावादिति चेन्न-तदानीं जीवा-त्मनि प्रयत्नस्यैवाभावात्, देहधारणादयः परमात्मसङ्कल्पाधीनास्तदानीमिति हि वेदान्तवादिनः । "अन्तराभूत-ग्रामवत्" इत्यधिकरेणेऽयमर्थः सुनिर्णयः । स्वापे देहपरिवर्तनादिस्त्वङ्गप्रत्यङ्गतोदात् द्दशंमराकादिजन्यदुःखादिना वाऽत्यल्पबोधे सति भवति । तदानीं च प्रयत्नो धीविषयः ।अतो हेतोरव्यभिचारात् मानसग्राह्यं सर्वमबुभुत्सि-तग्राह्यमिति अनवस्था स्यादेव । यदि बुभुत्सितग्राह्यम्, तर्ह्यन्योन्याश्रयणं-ज्ञाने सतीच्छा, इच्छायां सत्यां ज्ञान-मिति । किञ्च मानसप्रत्यक्षवेद्यस्य बुभुत्सितग्राह्यत्वेऽपि, सुखादिषूपलिब्धनियमदर्शनात् बुभुत्सानियमः कल्प्य इति तद्वदेव ज्ञानेऽपि बुभुत्सानियमसिद्द्वरुपलब्धिश्च नियता स्यात् ।अतो बुभुत्सान्तरि-तज्ञानपरम्पराया अवि- रतिः स्यात् ।। ज्ञानं बुभुत्सितग्राह्यम्, सुखादि तु नेति चेन्न; मानसप्रत्यक्षत्वाविशेषे नियाम-काभावात् ।। सुखा- दिषु घटादिविषयप्रथमज्ञाने च बुभुत्सा ; द्वितीयादौ तु नेति चेन्न-नियामकाभावात्, मानसग्राह्य-त्वाविशेषात् प्राप्तां बुभुत्सां को वारयेत्? ।। मानसग्राह्यत्वे सति हि बुभुत्सा; सुखादिकं घटादिविषयप्रथमज्ञानं च मानसग्रा- ह्यम्; द्वितीयादिज्ञानं न मानसप्रत्यक्षवेद्यमिति चेन्न; तत्रापि नियामकाभावात् । किञ्च,-क्षणिकात्मविशेषगुणत्वे सत्यपि द्वितीयादिज्ञानं न मानसग्राह्यं चेत्, हेतोरनैकान्त्यम् ।। यदा प्रत्यक्षेण गृह्यते, तदा मानसग्राह्यमिति चेत्; तर्हि पक्षो हेतुश्च प्रत्यक्षग्राह्यशब्देन विशेष्यौ स्याताम् । किञ्च अन्यैरप्युक्तानि दूषणान्तराण्युच्यन्त;- यदिद्वितीयं ज्ञानं न मानसग्राह्यं, तस्य द्वितीयस्य निष्प्रमाणकत्वेन शून्यता च स्यात् । ततश्च प्रथमस्य, ततस्त-द्विषयघटो- देरपि शून्यता स्यात् । द्वितीयादिज्ञानं स्वतःसिद्धं चेत्, प्रथमज्ञानमपि तथा स्यादिति । एवमाद्यभि-प्रायेण नापि ज्ञानान्तरसिद्धा इत्युक्तम् । अथ पारिशेष्यात् स्वयंप्रकाशत्वं सिद्धमित्याह अपि त्विति । सर्वमिति । अन्यथा संविदः शून्यत्वेन तध्द्यीनसिद्धि सर्वं शून्यं स्यादिति तत्परिहारायस्वयंप्रकाशत्वमवश्याभ्युपगन्तव्यमि-त्यभिप्रायेणसर्वे साधयन्त्यनुभूतिः स्वयमेव सिद्धयतीत्युक्तम् । यथा संवित्सिद्धौ "तदेवापश्यतां सर्वशून्यत्वात् बिभ्यतां सताम् । गतिः स्वयं प्रकाशत्वादृते नान्योपलभ्यते ।।" इति ।

अथ तर्कानुग्राह्यं स्वयंप्रकाशत्वे प्रमाणमुपन्यस्यति प्रयोगश्चेति । न केवलं पारिशेष्यात् स्वतः-सिद्धत्वं; साधकप्रमाणमप्यस्तीति चार्थः । अनुभूतिरित्यादिना अनुमानद्वयं ग्रन्थलाधवार्थमविभागेनोक्तम् । अनुभूतिरन-न्याधीनस्वधर्मास्वसम्बन्धादर्यान्तरे तद्धर्महेतुत्वात् , अनुभूतिरनन्याधीनस्वव्यवहारा स्वसम्बन्धादर्थान्तरे तद्व-#्यवहाररहेतुत्वात् इत्येवं विभागः ।अत एव हि परत्र व्यवहारविशेषहेतोः स्वस्मिन्नपि तद्वयवहारहेतुत्वमति उत्त- रत्र वक्ष्यते । प्राकट्यमभ्युपगम्य तदुपजीवनेन प्रथमानुमानमुक्तं; तदनुपजीव्यं तु द्वितीयम् । प्राकट्याभ्युपगमस्य न स्वप्रकाशताविरोधित्वम्; तस्य ज्ञानानुमापकत्वानभ्युपगमात् । धर्मवत्त्वेऽनन्याधीनधर्मवत्त्वे च साध्ये सिद्ध-साध्यता स्यात्; अनुभूतित्वादिधर्माणां हेतुत्वन्तरनैरपेक्ष्यात् । न ह्यनुभूतित्वजातिर्हेत्वधीना; नित्यत्वात् । जात्यनभ्युपगमेऽप्यनुभूतित्वस्यानुभूतिसामग्रीव्यतिरिक्तहेत्वनपेक्षत्वात् सिद्धसाध्यता । अतोऽनन्याधीनस्वधर्मे-त्युक्तम् । स्वस्य धर्मः-स्वोत्पाद्यतया स्वसम्बन्धी धर्मः स्वधर्मः । परत्रस्वसाध्यधर्मात्यन्तसजातीयधर्म इत्यर्थः; अर्थान्तरे तद्धर्महेतुत्वादिति हेतूक्तेः । स्वधर्मशब्दनिर्दिष्टधर्मो हि तच्छव्दोक्तः । परत्र स्वसाध्यधर्मात्यन्तसजा- तीयः स्वस्मिन्नवश्यंभाविधर्मः स्वधर्मत्वेन विवक्षितः । अत एव स्वास्मिन् रूपित्वानापादनात् रूपस्य दृष्टान्तस्य साध्यविकलत्वशङ्का व्युदस्ता स्यात्; दण्डान्तरनिरपेक्षं स्वास्मिन् दण्डित्वमनापादयति दण्डे व्यभिचारश्च परि- हृतः स्यात् । अन्यशब्दश्च स्वात्यन्तसजातीयान्तरपरः अन्यथा हेतुमात्रनिरपेक्षत्वे दृष्टान्तस्य साध्यविकलत्वं स्यात् ; चक्षुराद्यपेक्षं हि रूपस्य चाक्षुषत्वम्, तादृशहेत्वपेक्षानियमराहित्यमनन्याधीनशब्देन विवक्षितम्; अन्या-पेक्षामात्रविरहे साध्ये परज्ञानस्यानुमेयत्वदर्शनेन बाधितत्वप्रसङ्गात् । न हि ज्ञानान्तरागोचरत्वमेतदनुमानसा- ध्यम्; अपि तु स्वात्यन्तसजातीयानपेक्षप्रकाशार्हत्वमात्रं, तच्च परज्ञानय सम्भवतीति न बाधितविषयत्वम् । अन-न्याधीनस्वव्यवहारेत्यत्रापि व्यवहारवत्त्वे साध्ये सिद्धसाध्यता; अतोऽनन्याधीनशब्दः । अन्यशब्दस्यात्यन्त-सजातीयपरत्वात् तद्वागाद्यपेक्षया बाधितत्वशङ्का परिहृता स्यात् । घटादीनां हानादिव्यवहारे स्वात्यन्तसजाती-

यानपेक्षो हेतुरनुभूतिरिति सिद्धसाध्यत्वव्युदासाय स्वशब्दः । स च परत्र स्वसाध्यव्यवहारात्यन्तसजातीयपरः । व्यवहारस्यात्यन्तसजातीयत्वं नामाभिन्नप्रवृत्तिनिमित्तकत्वम् । व्यवहारानुगुण्यमात्रं हि प्रकाशत इति व्यवहार- स्य निमित्तम् परज्ञानव्यवहारे कालात्ययापदेशपरिहारायापेक्षानियमराहित्यविवक्षा ।

हेतुमाह स्वसम्बन्धादिति । धर्महेतुत्वे व्यवहारहेतुत्वे च हेतौ विवक्षिते अनैकान्त्यं स्यादिति तत्परिहा- राय तच्छब्दः । स्वस्य यो धर्मो व्यवहारश्च तदत्यन्तसजातीयो धर्मो व्यवहारश्च तच्छब्दविवक्षितः । स्वस्याग्नि-सम्बन्धात् स्वस्मिन् पूर्वरूपसजातीयरूपान्तरतद्वयवहारहेतुघटोऽग्निसादेक्ष इति तत्र व्यभिचारपरिहाराय अर्था- न्तर इत्युक्तम् । किञ्च अर्थान्तरशब्दो निर्दिष्टजातीयाद्विजातीयपरः; तेन परस्मिन् द्रव्ये संयुक्तत्वतद्वयवहारहेतो-र्द्रव्यस्य परद्रव्यसापेक्षतया अनैकान्त्यं परिहृतं स्यात् । द्रव्यं हि द्रव्यस्यात्यन्तसजातीयम् ।। ननु घटो हि पटे संयु-क्तत्वादिकमापादयन् स्वस्य तथात्वे घटान्तरापेक्ष इत्यनैकान्त्यम् । नैवम्; सजातीयापेक्षानियमविरहरूपस्य साध्यधर्मस्य तत्र विद्यमानत्वात् । न हि घटः स्वस्य संयुक्तत्वादौ स्वात्यन्तसजातीयं घटमेवापेक्षत इति नियमो- ऽस्ति । पुत्रे पुत्रत्वतद्वयवहारहेतौ पितरि स्वस्य पुत्रत्वव्यवहाराय पित्रन्तरसापेक्षे व्यभिचारपरिहाराय स्व-सम्बन्धादित्युक्तम् । विद्यमानस्वसम्बन्धो विवक्षितः । परत्र स्वसम्बन्धतुल्यकालस्वगतधर्मात्यन्तसजातीयधर्म-तत्सापेक्षव्यवहारहेतुत्वादित्यर्थः । न हि पित्रादिप्रवासनिधनयोः पुत्रादौ पुत्रत्वं तद्वयवहारश्चापगच्छति । अत एव स्वस्मिन् अनन्यापेक्षद्वैधीभावमनापादयति परद्वैधीभावहेतौ द्रव्ये व्यभिचारश्च दूरोत्सारितः ।

ननु सिद्धान्तिनोऽप्यभिमतमिदमनुमानम् । चेतनः स्वसम्बन्धतुल्यकालं शरीरत्वं शरीरे जनयन् स्व- स्मिन् शरीरत्वतद्वयवहारयोर्नानन्यापेक्षः; अपि तु परमात्मसापेक्षः । परमात्मा च चेतनत्वादत्यन्तसजातीयः । अतस्तत्रानै-कान्त्यमिति । नैवम्; स्वव्यापकधर्महेतुत्वस्य विवक्षितत्वात् । न हि चेतनत्वव्यापकं शरीरत्वम्; ईश्वरस्य चेतनस्यापि शरीरत्वाभावात्, अतः स्वधर्मशब्दाभिप्रेतेन स्वावश्यम्भावित्वेन परिहारः ।

एतदुक्तं भवति-धर्मशब्दः प्रकाशपरो वा, धर्ममात्रपरो वा, अन्यशब्दश्च अन्यमात्रपरो वा स्वात्यन्त-सजातीयान्यपरो वा । तत्र हेतुमात्रानपेक्षप्रकाशत्वे दृष्टान्तस्य साध्यविकलत्वम्; रूपं हि चक्षुराद्यपेक्षप्रकाशम् । स्वात्यन्तसजातीयानपेक्षप्रकाशत्वे साध्ये व्यर्थविशेषणत्वं हेतोः; हेतुत्वमात्रेण साध्यसिद्धेः । न हि यस्य कस्य-चिद्धेतुस्सन् घटादिः स्वप्रकाशे घटान्तरादिकमपेक्षते । हेत्वनपेक्षधर्मत्वे अनुभूतित्वादिना सिद्धसाध्यता; परश्व-धादिष्वनैकान्त्यञ्च; काष्ठद्वैधीभावेहेतोः परश्वधस्य स्वद्वैधीभावे हेत्वन्तरसापेक्षत्वात् । स्वात्यन्तसजातीयानपे-क्षधर्मत्वे चानुभूतित्वादिना सिद्धसाध्यता । विषयप्रकाशके परज्ञाने लिङ्गापेक्षप्रकाशत्वदर्शनात् बाधश्च । रूपे रूपान्तरानपेक्षस्वगतरूपित्वहेतुत्वाभावात् दृष्टान्तस्य साध्यविकलता । पुत्रगतपुत्रत्वहेतौ पित्रन्तरसापेक्षपुत्रत्व-धर्मे पितरि अनैकान्त्यञ्च । परद्रव्यगत संयुक्तत्वहेतै द्रव्यान्तरसापेक्षसंयोगे द्रव्ये चे अकान्त्यम् । अत एवमादि-दोषपरिहारार्थमित्थं प्रयोक्तव्यम्-अनुभूतिः स्वजन्यपरगतधर्मात्यन्तसजातीयधर्मभाकत्वे स्वात्यन्तसजातीयापे-क्षानियमरहितेति प्रतिज्ञा । स्वविजातीये स्वावश्यम्भाविधर्मात्यन्तसजातीयस्वसम्बन्धतुल्यकालधर्म हेतुत्वादिति हेतुः । तथा अनुभूतिः स्वजन्यपरगतव्यवहारात्यन्तसजातीयव्यवहारभाकते स्वात्यन्त सजातीयापेक्षानियमरहितेति प्रतिज्ञा । स्वविजातीये स्वावश्यम्भाविव्यवहारात्यन्तसजातीयस्वसम्बन्ध तुल्यकालव्यवहारहेतुत्वादिति हेतुः । व्यवहारस्य स्वावश्यम्मावित्वं नामावश्यंभाविधर्मनिबन्धनत्वम् ।।

व्याप्तिप्र्रदर्शनपूर्वकं दृष्टान्तमाह य इति । साध्यसाधनधर्मौ सपक्षे दर्शयति -रूपादिर्हीति । पक्षधर्मता-बलसिद्धधर्ममाह अतोऽनुभूतिरिति । प्रकाशत इति व्यवहार इति ।अनुभूतिः प्रकाशत इति व्यवहारे अनुभूतिरिति

व्यवहारे चेत्यर्थः । ननु स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वं सोपाधिकम् सम्बन्धविशेषादर्थान्तरे तद्धर्मव्य-वहारहेतुत्वस्यैव स्वस्मिन् तद्धर्मव्यवहारयोरनन्याधीनत्वे प्रयोजकत्वात् । स च सम्बन्धविशेषः आश्रयाश्रयिभाव-रूपः । स तु रूपादावस्ति; न तु पक्ष इति ।। नैतत्-अस्य साध्यसमव्याप्त्यभावेनोपाधित्वाभावात् आश्रयाश्रयि-भावविरहेऽपि संबन्धमात्रादर्थान्तरे प्रकाशत इति व्यवहारहेतोर्दीपस्य स्वस्मिन्नपि तद्वयवहारेऽत्यन्तसजातीया-नपेक्षत्वं हि दृष्टम् । पूर्वं ज्ञानस्य परप्रकाशत्ववादिभिः स्वसत्तयैव प्रकाशमानत्वादिति हेतोरसिद्धिर्व्याहतिश्चोक्ते । तत्र घटोऽयमित्यनुभववेलायामनुभूयत इति शब्दस्याप्रयोगात् असिद्धिरुक्ता; शब्दव्यवहारवैकल्यपौष्कल्ययो-र्विवक्षाविशेषहेतुकत्वेनार्थानुभवेऽननुभवे च प्रयोजकत्वाभाववचनादसिद्धिः परिहृता । व्याहतिश्च नास्ति । तथा हि-अङ्गुल्यग्रस्य स्वात्मस्पर्शादिव्याहतिरुपलब्धिनिबन्धना । दीपादिषु च प्रकाश्यत्वप्रकाशकत्वे दृश्येते । निरू-प्यमाणे, कर्मकर्तृभावविरोधश्च नास्ति । निरासको (हि)दीपः, निरसनीयं तमः; दीप उत्पादकः, ज्ञानमुत्पाद्यं; ज्ञानमुत्पादकम्, व्यवहार उत्पाद्य इति । किञ्च यद्यपि कर्मकर्तृभावस्य स्वतो विरोधात् भेदकत्वमुपलब्धिसिद्धम्, तथापि ज्ञापकेषु विरोधनियमाभावश्चोपलब्धिसिद्धः । ज्ञातरि मनसि, शब्दशब्दे, पदमिति पदे, तथेदृशार्थान्तरे-ष्वप्यविरोधो हि उपलभ्यते । उत्पादकेष्वेव तु विरोधनियमः । तत्र चाकारान्तरेण चेन्न विरोधः ।। ननु घटादिषु व्यवहारार्हत्वं स्वव्यतिरिक्तज्ञानहेतुकं दृष्टम् । ज्ञाने व्याप्तिर्भज्यते चेत्, व्यवहारस्य ज्ञानपूर्वकत्वव्याप्तिभङ्गेन अज्ञातस्यैव ज्ञानस्य व्यवहारास्पदत्वं स्यात् ।। नैवम्;घटादिषु ज्ञेयव्यवतिरिक्तज्ञातृदृश्यत्वेऽपि स्वेनैव ज्ञात्रा ज्ञातरि दृश्यत्वमिति सर्वा-विगीतमिति तत्र परेणापि कर्मकर्तृविरोधव्याप्तिभङ्गोऽभ्युपन्तव्यः । तथा घटादौ स्व-व्यतिरिक्तकरणजन्यज्ञान-दृश्यत्वेऽपि मनसि तद्भग्नम्; स्वानुमाने मनस एव करणत्वात् । तथा सर्ववाच्यानां स्वव्यतिरिक्तशब्दवाच्यत्वेऽपि शब्दशब्दे पदपदे च तद् भग्नम्, घटादीनां स्वव्यतिरिक्त वाग्व्यवहार्यत्वेपि वागि- न्द्रिये तद् भग्नम्, अतः कर्मकर्तृभावस्य विरोधव्याप्तिर्नास्ति । व्यवहारस्य ज्ञानपूर्वकत्वं न कैश्चिदपि भग्नम् । ज्ञानव्यवहारस्य ज्ञानकर्मतापूर्वकत्वविरहः प्रसज्यते चेत्, नानिष्टः । अवभासपूर्वकत्वस्याभग्नव्याप्तिकत्वान्न तद्वि-रहप्रसङ्गः । तस्मादवभासमानस्यैव ज्ञानस्य व्यवहारास्पदत्वम् । अतः स्वविषयपरविषयव्यवहारानुगुण्यं ज्ञानस्य युक्तम् ।।

अथ ज्ञातृज्ञेयनिरसनं ज्ञानस्वयंप्रकाशत्वञ्च बौद्धपक्षेऽपि समानमिति तद्वयावर्त्तकं ज्ञानस्य नित्यत्वं साधयति सेयमिति । सेयम्-परमार्थभूतसन्मात्रैक्या प्रमाणाविषयभूता चेत्यर्थः; यद्वा स्वयं प्रकाशत्वहेतुभूतधर्म-वत्तया प्रसिद्धेत्यर्थः । स्वयंप्रकाशत्वस्य नित्यताहेतुत्वविवक्षया स्वयम्प्रकाशेत्युक्तम् । चः साध्यसमुच्चये; सौगत-साम्यशङ्का-निवृतौ वा । कुत इत्यत्राह प्रागभावादीति । स च कथमिति शङ्कायां ग्राहकाभावादित्यभिप्रायेणाह तदभावश्चेति । स्वतःसिद्धत्वेन प्रागभावाद्यमावं विकल्पमुखेन उपपिपादयिषुर्विकल्पशिरोद्वयेऽनुपपतिं्त प्रतिजा- नीते । न हीति । स्वतःपक्षे अनुभूतिः किं सती स्वाभावमवगमयति, उतासती इति विकल्पमभिप्रेत्य सत्त्वपक्षं दूषयति अनुभूतिरिति । कुत इत्यत्राह तस्या इति । ग्राह्याभावादित्यर्थः । अनुभूतिः किमनुमित्यादिरूपा स्वा-भावमवगमयति, उत प्रत्यक्षरूपेति विकल्पे लिङ्गाद्यभावात् प्रथमः कल्पो न संभवतीत्यभिप्रेत्य द्वितीयः कल्पो ग्राह्याभावाद्दूषितः । पूर्वाभिप्रेतविकल्पशिरसोरसत्त्वपक्षं ग्राहकाभावेन दूषयति एवमिति । पूर्वतराभिहितयो-र्विकल्पशिरसोरन्यत इति पक्षं दूषयति नापीति । अनुभूतिरनन्यगोचरा स्यात्; ततः किमभावाग्रहणस्य? अभावो ह्यन्यगोचरत्वमर्हतीत्यत्राह अस्या इति । अस्याः । न ह्यन्यस्य प्रागभावो ग्राह्यः; अपि त्वनुभूतेरेव; तस्मात् तां विषयीकृत्यैव तदभावो ग्राह्यः; तस्या विषयीभावानर्हत्वान्न तत्प्रागभावग्रहणं शक्यमित्यर्थः । एवं

प्रागभावाभावादुत्पत्यमावः(वं) ततश्च परिणामादिसर्वविकारान्तराभावमप्युपपादयति अतोऽस्या इति । अतः-स्वतः परतः पक्षयोरुभयोरप्यभावस्य दुर्ग्रहत्वादित्यर्थः । विकारमात्रविरहे साध्येऽनुत्पन्नत्वमन्तवति प्रागभावेऽनै-कान्तिकं स्यात् । अतो भावरूपविकारविरहस्य साध्द्यत्वज्ञापनाय भावशब्दः । यद्वा भावस्य विकार इति षष्ठी-समासः । ततश्च भावाभावरूपविकारमात्रविरहे साध्ये, प्रागभावे व्यभिचारशङ्कनिवारणार्थं भावत्वे सत्यनुत्प- न्नत्वं विकारान्तराभावे प्रयोजकमिति फलितम् । अनुभूतिर्नान्तवती, भावत्वे सत्यनुत्पन्नत्वात्; यदन्तवत् तत् भावत्वे सत्यनुत्पन्नं न भवति, यथा घट इति ।

बौद्धाभ्युपगतक्षणिकत्वव्यावृत्त्यर्थं नित्यत्वाय अनुत्पत्तिः, तद्वयाप्तविकारान्तराभावश्च साधितौ ।। अथ तदभ्युपगताऽनेकत्वव्यावृत्त्यर्थंसजातीयभेदं व्युदस्यति अनुत्पन्नेयमिति । व्यापकविरुद्धोपलब्धेः । नाना-त्वव्यापकोत्पत्तिविरुद्धानुत्पत्त्युपलब्धेरित्यर्थः । व्याप्तिं दर्शयति न हीति । अस्य ग्रन्थस्य, यदनुत्पन्नं तदनानाभूतं दृष्टमित्यर्थो वक्तुं न युज्यते; ब्रह्मव्यतिरेकेणानुत्पन्नस्य अनानाभूतस्य कस्यचिन्मायावेदान्तिभिरनभ्युपगमात् । यदनानाभूतं तदनुत्पन्नमित्युक्ते व्याप्यनाकजन्मनिवृत्त्या व्याप्नानात्वनिवृत्तिरुक्ता न स्यात् । तस्मादयमर्थः-यत् नानाभूतं तत् अनुत्पन्नं न दृष्टम्; अपि तूत्पत्तिमदेव दृष्टमिति जन्मनो नानात्वव्यापकत्वं दर्शितम् । अनेनोत्पत्ति-निवृत्त्या नानात्वनिवृत्तिरित्यर्थसिद्धम् । यद्वा-यथा न ह्यनग्नि धूमवद्दृष्टभित्युक्ते अग्निमदेव धूमवदित्युक्तं स्यात्, तद्वत् इहापि अनुत्पन्नं नानाभूतं न दृष्टं इत्युक्ते उत्पतिमदेव नानाभूतं इत्युक्तं स्यात्; ततश्चोत्पत्तिर्व्या-पिकेत्युक्तं भवति । अनुभूतिर्नाना न भवति, अनुत्पन्नत्वात् । यत् नानाभूतम्, तत् उत्पत्तिमद्दृष्टम्, यथा घट इति व्यतिरेक्यनुमानमनुभूतिं पक्षीकृत्योक्तम् । गगनादिषु व्यभिचारो दुर्वचः; तेषामुत्पत्तिमत्त्वेन वेदान्तिभिर-भ्युपगमादिति भावः । एवं सजातीयभेदो निषिद्धः ।अस्मिर्थे विकारान्तराभावे च भेदं विकारान्तरं च पक्षीकृ-त्यान्वय्यनुमानमाह भेदादीनामिति । आदिशब्देन उत्पत्त्यादयो विवक्षिताः । भेदादयो नानुभूतिधर्माः अनु-माव्यत्वात् रूपादिवदिति । व्यावृत्तिरूपधर्मोऽपि नास्तीत्युपपादयति अतोऽनुभूतेरिति । अन्योऽपि-व्यावृत्ति-रूपोऽपीति भावः(?) । यद्वा-विकारनानात्वजडत्वनिषेधात् नित्यत्वैकत्वस्वयप्रकाशत्वरूपधर्मवत्वशङ्काव्युदा- सार्थं पुर्वोक्तनानात्वादिव्युदासार्थं च व्यतिरेक्यनुमानमाह अतोनुभूतेरिति ।अन्योऽपि नित्यत्वादिरूपोऽपी- त्यर्थः । अनुभूतिर्न व्यावृत्तिरूपधर्मभाक् अनुभवस्वरूपत्वात्।#् । यत् व्यावृ#ृत्तिरूपधर्मभाक्, तत् अननुभूतिर्दृष्टम्, यथा घटादीति व्यतिरेकि । यदि व्यावृत्तिरूपधर्मं पक्षीकृत्यानुभूतिधर्मत्वाभावः साध्यः स्यात्,तदा अनुभाव्यत्वं हेतुः; यथा रूपादीति सपक्षः । इदमन्वयि । एवं स्वगतभेदो निरस्तः; पूर्वमेव ज्ञेयभेदो निरस्तः । "अत्रायं पुरुषः स्वयंज्योतिर्भवति" इत्यि#ादिषु वेदान्तवाक्येष्वात्मनो नित्यत्वस्वयंप्रकाशत्वादयः प्रतिपन्नाः; अत्र तु संविदो नित्य-त्वादिरुच्यते; तत् कथं सङ्गच्छते इत्यत्राह यत इति । निर्द्धूतनिखिलभेदा सकलभेदनिषेधेन विजातीयभेदोऽपि निरस्त इति विजातीयभेदस्य ज्ञातुर्मिथ्यात्वेन स आत्मा, अपि तु परमार्थभूता संविदेवात्मेत्यर्थः । यद्वा-वेदान्तैरा-त्मनः प्रतिपादितं सजातीयविजातीयस्वगतनानात्वराहित्यं संविद एवोपपद्यत इति सैवात्मेत्यर्थः । स्वरूपेति । स्व-रूपातिरिक्तआश्रयो हि ज्ञाता ; स नास्ति-संवित्स्वरूपातिरिक्तत्वादेवापरमार्थ इति स नात्मेति परमार्थभूता संविदेवात्मेत्यर्थः । स्वप्रकाशरूपा सैवात्मेति । वेदान्तैरात्मनः प्रतिपादितं स्वयभ्प्रकाशत्वं संविद उपपन्नमिति सैवात्मेत्यर्थः । यद्वा तुच्छत्वशङ्कानिरासार्थमुक्तं स्वप्रकाशरूपेति । स्वयम्प्रकाशत्वं स्वतन्त्रसाधकं चेत्याह अज-डत्वाच्चेति । इदं व्यतिरेति-संवित् आत्मा अजडत्वात्; यन्नान्मा तज्जडम्, यथा घटादीति । एतद्विवृणोति अना-त्मत्वेति । अनात्मत्वव्याप्तम् । व्याप्तमिति कर्तरिक्तः-व्यापकमित्यर्थः । प्राप्त इतिवत् ।।

तर्केण ज्ञातृत्वे प्रतिक्षिप्ते आत्मनोऽहंप्रत्ययगोचरत्वस्य स्वानुभवप्रत्यक्ष सिद्धत्वेन चोदयति ननु चेति । चश्चोद्यसमुञ्चये । प्रतीतिसिद्धा-स्वानुभवरूपप्रतीतिसिद्धेत्यर्थः । अत्राह नैवमिति । प्रतितेर्भ्रान्तित्वमाह सा भ्रा-न्तिसिद्धेति । अनुभवविषयत्वेन पूर्वं प्रतीता रजतता यथा शुक्तिज्ञानबाधितत्वात् भ्रान्तिसिद्धा भवति, तथेत्य-भिप्रायेणाह रजततेव शुक्तिशकलस्येति । भ्रमाधिष्ठानत्वोपपत्तये शकलशब्दः । अविकलवपुषः शुक्तेर्भ्रमास्पद-त्वायोगात् । यद्वा ज्ञातृत्वे प्रतीयमाने तत्र ज्ञानांशस्य पारमार्थ्ये कर्त्रंशस्यापारमार्थ्ये च दृष्टान्ततया रजततेव शुक्त-शकलस्येत्युक्तम् । तत्र हि इदमशः परमार्थः, रजततैवापरमार्थ इति । भ्रान्तिसिद्धत्वमुपपादयति । अदुभूतेरिति । ततः किमित्यत्राह अतो मनुष्य इति । कर्तृत्वायोगमुपपादयति ज्ञातृत्वं हीति । यद्वा-ज्ञातृत्वं नाम किं ब्रह्मस्व-रूपभूतज्ञानाश्रयत्वम्, उतान्तःकरणक्रियारूपज्ञानाश्रयत्वम् इति विकल्पमभिप्रेत्य प्रथमं शिरो दूषयति-अनुभूते-रिति । पूर्वोक्तयुक्तिभिरनुभूतेरेव पारमार्थ्ये सिद्धे, तस्या ज्ञातृत्वं स्वात्मनि कर्तृत्वं स्यात्; तत्तु व्याहतमित्यर्थ । कर्तृत्वम् आश्रयत्वम् । ज्ञातृत्वं भ्रान्तपुरुषप्रतीतिसिद्धत्वाच्चाध्यस्तमित्यभिप्रायेणाह अत इति । पिण्डस्योत्पत्त्या-दिभिरात्मव्यतिरिक्तत्वस्य सम्प्रतिपन्नत्वादत्यन्तबहिर्भूतेत्युक्तम् । अथ न केवलं स्वापेक्षया कर्तृत्व-मनुपपन्नम्, अपि तु स्वपरविभागनिर्विशेषं कर्तृत्वमात्रमेवानुपपन्नमित्यभिप्रायेण द्वितीयं शिरो दूषयति ज्ञातृत्वं हीति । ततः किमित्यत्राह तच्चेति । विक्रियात्मकम्-उत्पत्तिविनाशयोगात् क्रियायास्तदाश्रयत्वमपि कादाचित्कमिति तत् विकाररूपमित्यर्थः । जडम्-ज्ञेयम् । अत एव विकारिद्रव्याहङ्कारग्रन्थिस्थम्,जडत्वविक्रियात्मकत्वसाम्यादिति भावः । ग्रन्थिर्नाम बन्ध स्याशैथिल्यकरो ग्रथनविशेषः । अहङ्कारस्य सर्वभ्रममूलत्वात् ग्रन्थिरित्युक्तम् । एतद्विरो-धिरूपमाह अविक्रिय इति । साक्षित्वाभ्युपगमेन ज्ञातृत्वमभ्युपगतं भवतीति शङ्कायां साक्षित्वमपि ज्ञानस्वरूप- त्वा-नुगुणमित्यभिप्रायेण साक्षिणीत्युक्तम् । अविद्यानुभवरूपत्वमेव साक्षित्वमिति ज्ञानत्वाविरोध इति भावः । चिन्मात्रात्मनि-स्वयंप्रकाशे । जडम् । ज्ञातृत्वमजडस्य न संभवतीति भावः । कर्तृत्वादिर्नात्मधर्मः,दृश्यधीन-सिद्धित्वात् । रूपादिवदित्यन्वयिनमभिप्रेत्याह दृश्यधीनसिद्धित्वादेवेति । कर्तृत्वादेरित्यादिशब्देनाहम्प्रत्ययगो-चरत्वं गृह्यते । य एव भेदादीनामनुभूतिधमर्त्वाभावे हेतुः, तेनैवेत्येवकाराभिप्रायः । अहमर्थो ह्यात्मा तेन समाना-धिकरणतया प्रतीतो ज्ञाता आत्मा स्यादित्यत्राह सुषुप्तिमूर्च्छादाविति । "नाह रवलु" इत्यादि" श्रुत्युपजीवनेना-हंप्रत्ययापायेऽपीत्युक्तम् । आत्मनः कर्तृत्वाहम्प्रत्ययगोचरत्वाभावे व्यतिरेक्यनुमानत्रयं प्रसङ्गरूपेणाह कर्तृत्व इति । आत्मा न कर्त्ता, न चाहंप्रत्ययगोचर इति प्रतिज्ञाद्वयम्; अजडत्वात् प्रत्यकत्वात् आत्मत्वादिति हेतुत्र- यम्; यत् कर्तृ यत् अहंप्रत्ययगोचरः तज्जडं पराक् आनात्मा च दृष्टम्, यथा शरीरमिति । यद्वा आत्मा न कर्त्ता, न चाहंप्रत्ययगोचरः, जडत्वादिप्रङ्गात् देहवदिति । जडत्वम्-दृश्यतैकस्वरूपत्वम् । पराकत्वम्-परस्मै भासमानत्वम् ।आत्मत्वम्-पुरुषार्थप्रतिसम्बन्धित्वम्, देहं प्रति नियन्तृतया व्यापित्वं वा; तदभावोऽनात्मत्वम् । आदिशब्देन क्षयित्वादिकं विवक्षितम् । अहंप्रत्ययगोचस्य देहस्यानात्मत्वे सिद्धे ह्यहंप्रत्ययगोचरस्य कर्तुरनात्मत्वप्रसक्तिरित्य-त्राह अहंप्रत्ययगोचरादिति । क्रियाफल स्वर्गादेर्भोक्तुरित्यनेन देहातिरिक्तत्वं सिद्धम् । प्रामाणिकानाम्-चार्वा-कव्यतिरिक्तानाम् । अनात्मनः अहङ्कारस्य कर्तृत्वे कथमात्मनः संसारभोक्तृत्वमिति च शङ्का शरीरप्रतिबन्द्या निर-स्ता । स्वर्गादिभोक्तुरात्मत्वे सिद्धेज्ञातैवात्मा स्यादित्यत्राह तथेति । शरीरातिरिक्तात्मनोऽभ्युपगमो हि प्रमाण-बलात्क्रियते; तथा ज्ञातुरपि विलक्षणत्वेन प्रमाणसिद्धत्वात् तथाऽभ्युपगन्तव्यमित्यर्थः । यद्वा-प्रामाणिकाहंप्रत्य-यगोचरत्वेन हि शरीरस्यानात्मत्वादि; प्रामाणिकाहंप्रत्ययगोचरस्य तु कथमनात्मत्वादीत्यत्राह अहंप्रत्ययगोचरा-दिति । देहस्याप्रामाणिकाहंप्रत्ययगोचरत्वं प्रमाणबाधादेव हि ज्ञायते । एवं कमर्फलभोक्तुरौपाधिकाकारवतो

ज्ञातुरात्मत्वं प्रमाणबाधितं चेत्, आत्मनस्तद्विलक्षणत्वं स्वीकार्यमित्यर्थः ।अतः प्रामारिकाप्रामाणिकविभागा-भावेनाहंप्रत्ययगोचरत्वमात्रमेवानात्मत्वसाधकमिति भावः ।

अविक्रियात्मनः कथं ज्ञातृत्वसंभवः इत्यत्राह एवमिति । यद्वा-ज्ञातृत्वमहङ्कारग्रन्थिस्थमिति पूर्वमुक्तम् । कथमहङ्कारस्य ज्ञातृत्वसम्भव इत्यत्राह एवमिति । अभिव्यञ्जकत्वप्रयुक्तोऽयमहङ्कारस्य संविदाश्रयभाव इति भावः । अभिव्यञ्जकोऽस्त्वहङ्कारः; कथमस्य स्वाश्रयतयाऽभिव्यञ्जकत्वमित्यत्राह आत्मस्थतयेति । स्वभावशब्देन औत्सर्गिकत्वं विवक्षितम् । क्कचित् प्रमाणबाधश्चेत्, न तथेति भावः । दृष्टान्तं दर्शयति दर्पणेति ।आत्मस्थ-तयाऽभिव्यञ्जनं न दर्पणत्वप्रयुक्तम्, न च प्रतिबिम्बत्वप्रयुक्तम्, अभिव्यञ्जकत्वमात्रप्रयुक्तमिति दर्शयितुं खण्डादिग्रहणम् । आदिशब्देन मुण्डादि(?) । एवं व्यङ्क्तृव्यङ्गयभावकृतो ज्ञातृत्वावभासः संविद इत्याह तत्कृत इति । जडस्याभिव्यञ्जकत्वमयुक्तम्; स्वप्रकाशस्य वस्तुनोऽभिव्यङ्गयत्वं चायुक्तम्; संविदभिव्यङ्गयस्य च विशेषेण तदभिव्यञ्जकत्वमयुक्तम् इतीमामाशङ्कां स्वयमेवोत्थाप्य प्रतिक्षिपति स्वप्रकाशाया इति । कुत इत्यत्राह रविकरेति । करतलस्य किरणाभिव्यञ्जकत्वं क्व दृष्टमित्यत्राह जालकेति । एवं ज्ञातृत्वस्यापारमार्थिकत्वमुक्तम् । एतदेव परमार्थवस्तुभासनवेलायामनवभासनप्रतिपादनेन उपपादयति यत इति । अनेन अहंप्रत्ययापायेऽपीति पूर्वोक्तार्थो विवृतो भवति । यत इति साध्यस्य हेतुतया निर्देशः अग्निमत्त्वेन धूमवत्त्वमितिवत् । मुक्तिसमभिव्याहारेण सुषुप्तावप्यहंप्रत्ययापायस्यागमसिद्धत्वं सूचितम् । तदा कथं भासत इत्यत्राह तत्र हीति । "नाहं स्वल्वयमेवं सम्प्रत्यात्मानं जानाति,अयमहमस्मि" इति स्वापविषया श्रुतिः । "अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रंमभूयाय कल्पते " इति मुक्तिविषया स्मृतिः । "महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च" इति क्षेत्रान्तर्भावश्चोच्यते अहङ्कारस्य । "अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते" इति तस्य भ्रान्तिसिद्धत्वमुच्यते । हि शब्दः श्रुतिस्मृतिप्रसिद्धिद्योतनार्थः । न केवलं श्रुतिः सुषुप्तिविषया; परामर्शश्च तथाऽस्तीत्याह अत एवेति । (अत एव चेति ) । अत एवेति साध्यस्य हेतुत्वेन परामर्शः । कथं साध्यसाधनयोर्विपरीतनिर्देशः? इत्थम्-ज्ञप्तौ यत् साध्यं,तत् उत्पत्तौ साधनम्; यत् उत्पत्तौ साधनम् तद् ज्ञप्तौ साध्यम् (साधनम्?) । तस्मात् अन्गिमत्त्वादेव हि धूमोद्गम इतिवत् उत्पत्तौ हेतुत्वमपेक्ष्य अत एवेत्युक्तम् ।

ततः किं प्रस्तुतपूर्ववृत्तत्वचिन्तायाः इत्यत्राह तस्मादिति । तस्मादित्यनेन यदप्याहुरशेषविशेषेत्यार-भ्योक्तं प्रमाणतर्काभ्यां स्वमतोपपादनमभिप्रेतम् । निरस्तसमस्तभेदविकल्पेति । भेदविकल्पशब्देन ज्ञातृज्ञेया-दिभेदस्यावान्तरवैविध्यं विवक्षितम् । निर्विशेषशब्देन स्वगतनित्यत्वादिभेदव्यावृत्तिः । कुत इत्यत्राह चिन्मात्रै-करसेति । चिन्मात्रत्वादित्यर्थः । अनेन शून्यत्वव्युदासश्च । कूटस्थम् निर्विकारम्; सर्वाधिष्ठानं वा । नित्यसंविदे-वेति । चिन्मात्रशब्दः स्वयंप्रकाशत्वपरः, संविच्छब्दो विशेष्यपर इत्यपौनरुक्तयम् । चिन्मात्रस्य कथं भेदसम्भव इत्यत्राह भ्रान्त्येति । भ्रान्त्या विवर्त्तत इति करिकलभवन्निर्देशः । शुद्धम् अविद्यारहितम् । बुद्धम् स्वयंप्रकाशम् । मुक्तम् परमार्थतो भेददर्शनजन्मादिरहितम् । एवंविधब्रह्मात्मैकत्वविद्यालब्धये सर्वे वेदान्ता आरभ्यन्त इत्यर्थः । वेदान्तानामारभ्मणीयत्वं नाम तद्विचारस्याऽरम्भणीयत्वम् । सर्वे वेदान्ता आरभ्यन्त इति यदप्याहुरिति पूर्वे-णान्वयः । ब्रह्ममीमांसाशास्त्रं किमनारम्भणीयम्, उतारम्भणीयम् इति विचारे, बन्धस्य परमार्थत्वेन ज्ञाननिव-र्त्यत्वाभावात् ज्ञानप्रतिपादकवेदान्तवाक्यविचाररूपं शास्त्रमनारम्भणीयमिति पूर्वपक्षं कृत्वा, बन्धस्य मिथ्यात्वेन ज्ञानमात्रनिवर्त्यत्वात् ज्ञानार्थं वेदान्तविचाररूपं शास्त्रमारम्भणीयमिति हि ब्रह्माज्ञानपक्षे प्रथमाधिकरणार्थः शिक्षितः । अतो बन्धस्य मिथ्यात्वेन ज्ञानमात्रनिवर्त्यत्वात् ज्ञानप्रधानस्य शास्त्रस्य कर्मविचारो न पूर्ववृत्त इत्युक्तं

भवतीति वैषम्यम् । उपाय आत्मैकत्वविज्ञानम्, उपेयं निर्विशेषचिन्मात्रं ब्रह्म, निवर्त्यं च मिथ्याभूतम् इति त्रयं कर्मविचारस्यानपेक्षितत्वाय पूर्वं विस्तरेणोपपादितं निगमनग्रन्थे संक्षिप्तं भवति ।।

अथ कर्मविचारपूर्ववृत्तत्वविरोधिवस्तुसामर्थ्यनिरासार्थं परोक्तानामुपायोपेयनिवर्त्यानां प्रमाणतर्काभास-मूलत्वं प्रतिजानीते(प्रतिजानाति) तदिदमिति । स्वाभिमतानामेव तेषां प्रमाणतर्कोपपन्नतां च संक्षेपेण प्रतिजा-नाति । अर्थाद्वहुशास्त्रज्ञानां बहुग्रन्थकारारामपि परेषां स्खलनानुपपत्तिशङ्काच्च सम्यग्ज्ञानोत्पत्तिसामग्रीवैकल्य-प्रतिपादनमुखेन परिहरति तदिदमित्यादिना । परमपुरुषशब्देनोपेयम्, वरणीयतेत्यादिना उपायम् अनादीत्या- दिना निवर्त्यम् अनधिगतेत्यादिना परपक्षनैर्मूल्यम् न्यायानुगृहीतेत्यादिना स्वपक्षस्य समूलताम् अर्थताऽनेक-विद्वत्परिग्रहञ्च प्रतिजानीते । तदिदमिति अनन्तरवाक्यप्रकृतं परोक्तोपायोपेयनिवर्त्यत्रयं विवक्षितम् । औपनिष-दपरमपुरुषशब्देन "तं त्वौपनिषदं पुरुषं विद्धि" इति श्रुतिं स्मारयति; एतेन अस्मदभिमतप्रमाणप्रमेयविशेषसम्बन्धः श्रुत्यैव व्यक्त इति सूचयति । परमशब्देनेश्वरातिरिक्ततत्वव्यावृत्तिः । वरणीयताहेतुगुणविशेषविरहिणाभित्यनेन , "यमेवैष वृणुते तेन लभ्यः" इत्यभिमतोपायविशेषकथनं फलितम्; अनेन पदेन बहुशास्त्रज्ञबहुग्रन्थकाराणां भ्रमान-#ुपपत्तिशङ्का च परिहृता भवति; सम्यक् शास्त्रार्थज्ञानोत्पत्तौ भगवद्भक्तेरपि सामग्रयन्तर्भावेन केवलशास्त्रपरिश्रमस्य विकलहेतुत्वात् । यथा "यस्य देवे परा भक्तिः" इत्यादिका श्रुतिः । स्मृतिश्च "विद्या राजन् न ते विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम् ।। धृतराष्ट्रः । गावद्ग(ल्ग)णे! ते का विद्या या ते विद्या जनार्दने । यया त्वमभिजानासि त्रियुगं मधुसूदनम् ।। सञ्जयः । मायां न सेवे भद्रं ते न वृथा धर्ममाचरे । शुद्धभावं गतो भक्तया शास्त्राद्वेह्यि जनार्दनम्" इति अत्र, "भक्तया शुद्धभावं गतः शास्त्रात् जनार्दनं वेह्मीत्यनेन यथाव-च्छास्त्रार्थज्ञानोदयस्य भक्तिसापेक्षत्वं सिद्धम् । "जायमानं हि पुरुषं यं पश्येन्मधु-सूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः । पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभिप्लुतम् ।।" इति वचनाच्च तत्त्वार्थज्ञानस्यं भक्तिप्रीतभगवत्कटाक्षसापेक्षत्वं ज्ञायते । ननु "यया त्वमभिजानासि", "भक्तया वेद्मी"ति प्रशनप्रतिवचनाभ्यां विद्याभक्ति#ाशब्दयोरैकार्थ्यं प्रतीयते । भक्तिरूपा च विद्या मोक्षायेति प्रागुपपादितम् । ततश्च शास्त्रज्ञानमूला भक्तिः, भक्तिमूलं शास्त्रज्ञानमित्यन्योन्याश्रय इति चेत्-नैवम्; श्रवणवेलायामेव पदार्थतया अवगम्यमानेषु परमात्मगुणादिप्वनुकूलबुद्धिगोचरत्वाद्विद्याभक्तिशब्दयोः । तेन सम्यग्वाक्यार्थनिर्णयलाभः । पूर्वपक्षतयोपन्यस्यमानेऽपि सुगताभिमतवेदाप्रामाण्यादौ हि भवति प्रद्वेषो वैदिकानाम् । भगवद्गुणादिप्वनुरक्त-चित्तता भवति । न चैषा साक्षात्कारकल्पनिरन्तरध्यानरूपा भक्तिः ।अतो नान्योन्याश्रयः । अथ शास्त्रार्थ याथा- त्म्य ज्ञानोत्पत्तिहेतुभूतभक्तिविरोधिनमाह अनादीति । यद्वा सम्यग्ज्ञानहेतुभूतभक्तयभावात् सम्यग्ज्ञानविरोधि-पापानुबन्धमाह अनादीति । वासनाशब्देन पापस्य दृढमूलत्वेन दुर्निवारत्वमुक्तम् । वासनया पापं पापेन वासना, अज्ञानेन पापवासना पापवासनया अज्ञानमित्यन्योन्याश्रयपरिहाराय अनादिशब्दः । शेमुषी मोक्षोपयोगि ज्ञानम् ।अशेषशब्दस्योपायोपेयनिवर्त्यविषया विश्वशेमुषी दूषितेति भावः । अनेनार्थात् स्वपक्षे निवत्र्यं चोक्तं भवति; कर्मण एव मोक्षप्रतिबन्धकत्वात् । दूषितशेमुषीकत्वफलं सम्यग्ज्ञानाभावमाह अनधिगतेति । प्रत्यक्षविरोधे शास्त्रप्राबल्यस्य परेणोक्तत्वात्, पदशः समुदायेन च सविशेषपरत्वप्राधान्येन च प्रथमं शब्दप्रमाणमाह पदेति । प्रकृतिप्रत्यययोगेन च पदत्वं न ज्ञातमिति पदशब्दस्य भावः । वाक्यस्वरूपेति । वाक्यम् अनेकपदार्थसंसर्गविशेष भिधायि इति च न ज्ञातमिति भावः । तदर्थयाथात्म्यम्-तात्पर्यविषयः । प्रत्यक्षादीति आदिना अनुमानम्; सकल-शब्देन स्पार्शनचाक्षुषादिप्रत्यक्षावान्तरभिदा विवक्षिता; अन्वयव्यतिरेकाद्यनुमानावान्तरभिदा च विवक्षिता ।

यद्वा तत्तद्वाद्यभिमतार्थापत्त्यादिप्रमाणान्तरविषयः सकलशब्दः । वृत्तम्-बोधनम् । तदितिकर्त्तव्यतारूपेति । तर्केण प्रमाणबाधवचनात् प्रमाणानुग्राहकस्तर्क इति च न ज्ञातमिति भावः । प्रमाणानुग्राहकतयैव हि वयं तर्कम-ङ्गीकुर्म इत्यत्राह समीचीनन्यायेति । अनुग्राहकबुध्द्या स्वीकृतस्यापि तर्कस्य प्रमाणविरुद्धत्वात् सोऽसमीचीन इति भावः । अपच्छेदनयादिसमीचीनन्याया एव हि स्वीकृत इत्यत्राह न्यायमार्गाणामिति । अयमपच्छेदन्याय-विषयः, अयं सामान्यविशेषन्यायविषय इति तत्तन्यायसञ्चारविषयविभागोऽनवगत इति भावः । तर्हि किमव- लम्व्य प्रबन्धाः कृता इत्यत्राह विकल्पासहेति । कुतर्काः-प्रमाणविरुद्धाः मूलशैथिल्यमिथोविरोधादिदोषान्तरा-क्रान्ताश्च तर्काः । ते च त्रिचतुरपदस्थायिनो न भवन्ति, किन्तु विकल्पितान्यतरशिरःपरिग्रह एव भङ्गुरा इत्याह विकल्पासहेति । तर्कस्य विकल्पासहत्वं नाम तद्विषयसाधनादिविकल्पासहत्वमेव । विविधेति । ब्रह्मणोऽनुभा-व्यत्वेऽननुभूतित्वम्, प्रत्यक्षं सन्मात्रग्राहि, वेदान्तवेद्यं ब्रह्म प्रमाणान्तरागोचर इत्यादिरूपं कुतर्काणामन्योन्य-व्याहतिवैविध्यं विवक्षितम् । ईदृशकुतर्क एव कल्कम्-असारभूतम्, बौद्धैरात्तसारम् जीषमित्यर्थः । एतेन कल्पि-तम्-उत्कीर्णम् । इतिर्हेतौ । केषाञ्चित् समीचीनार्थान्तरविषयज्ञानेऽसत्यप्यस्यासमीचीनत्वनिश्चयः कथमित्यत्राह न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणवृत्तयाथात्म्यविद्भिरिति । अनेन पूर्वोक्तविपरीताकार उक्तः । बहुवचनेन स्वपक्षस्य भगवद्वोधायनाद्यनेकशिष्टपरिग्रहः सूचितः । अनादरणीयमिति । शिष्यशिक्षासु पूर्वपक्षोपन्यासकौश-लार्थमप्यादर्त्तुमयोग्यमित्यर्थः । अशेषविशेषप्रत्यनीकचिन्मात्रमित्यारभ्य सर्वे वेदान्ता आरभ्यन्त इत्यन्तेन यदप्याहुः तदनादरणीयमित्यन्वयः ।।

एवं सङ्क्षेपेण प्रतिपादितमर्थमुपपादयितुमुपक्रमते तथा हीति । ननु पूर्वपक्षिणा प्रथमं वेदान्तवाक्यानि (क्यविशेषान्)उदाहृत्य तत्र निरूपणीयं सर्वं निरूप्य पश्चात् तद्वयतिरिक्तप्रमाणतर्काः प्रदर्शिताः । अतः सिद्धान्ते च तेन क्रमेण तत्प्रतिक्षेपोयुक्तः । तत् कथं प्रथमं सकलप्रमाणाविषयत्वनिरूपणं सङ्गच्छते? उत्तरत्र च कथं प्रत्य-क्षादिनिर्विशेषविषयत्वनिरासपूर्वकं वेदान्तवाक्ययोजना क्रियते ।। उच्यते । प्रत्यक्षविरोधे शास्त्रप्राबल्याभ्युपगमात् परेण वेदान्तवाक्यानि प्रथममुहाहृत्य पश्चात् तदन्यद्वक्तन्यं सर्वमुक्तम्; प्रबलतयाऽभिमतप्रमाणपुरस्कारो ह्युचितः । सिद्धान्तिना तु प्रत्यक्षविरोधे शास्त्रप्राबल्यानभ्युपगमात् प्रत्यक्षादेर्निर्विशेषविषयत्वव्युदसनपूर्वकं तदविरोधेन वेदान्तवाक्यानि स्वरसतो व्याख्यस्यन्ते । तत्र निर्विशेषचिन्मात्रपारमार्थ्यस्य परेण प्रथमप्रतिज्ञातस्य सामान्येन सकलप्रमाणबहिष्कृतत्वरूपं दूषणं प्रथमं प्रतिजानीते निर्विशेषे इति । अर्थात् प्रमाणास्व(प्रमाणा)भावश्च स्व-पक्षानुगुणो निरूपितो भवति । स्वपुण्यमपि स्वानुभवसिद्धमिति वक्तुं शक्यमिति तद्रव्यावृत्त्यर्थमिदंशब्दः । परस-म्प्रतिपत्तिपदं प्रमाणं न किञ्चिदपीति भावः । यद्वा, न काचिदपि प्रमाणव्यक्तिर्निविर्शेषगोचरेत्येकवचनाभिप्रायः । कुत इत्यत्राह सविशेषेति ।। ननु विशेषा हि निर्विशेषाः, । तत् कथं निर्विशेषवस्तुनोऽप्रामाणिकत्वम् ।। उच्यते । धर्मेण धर्मी सविशेषः; धर्मिणा च धर्मः सविशेषः । कस्यचिद्धर्मभूतं धमिर् वा यन्न भवति, तत् प्रमाणशून्यमिति हि ग्रन्थार्थः । विशेषः व्यावर्त्तकः । धर्मी च स्वगतधर्मस्याश्रयान्तरगतधर्माद्व्यवच्छेदक इति विशेषशब्दवाच्यः । किञ्च विशेषो निर्विशेष इति शब्दौ किं पर्यायौ, न वा? आद्ये, सह प्रयोगानुपपत्तिः । द्वितीये तु, न निर्विशेषत्वम्; बोध्यभेदमन्तरेणापर्यायत्वायोगात् ।। ननु कथं सर्वप्रमाणानां सविशेषविषयत्वम्? न हि गन्धादिग्राहि प्रमाणं गन्धादिकं साश्रयमावेदयति । नैवम्;आश्रय एव विशेष इति नियमाभावात् । संविदोऽपि सर्वविशेषणतया सर्वा-र्थवौशिष्टयं ह्युपपद्यते । अयं गन्धोऽनुभूयत इति कालादिविशेषावच्छिन्नतयैव गन्धादिप्रतीतेश्च सविशेषविषयत्वो-पपत्तिः । तथा प्रतीतिश्च वक्ष्यते ।। तर्हि न वयं प्रमाणान्तरेण निर्विशेषसिद्धिमभ्युपगच्छामः; स्वानुभवसिद्धं हि

तदित्यत आह यस्त्विति । तुशब्देन समयं विशिंषन् समयवैशिष्टयमूलं स्वानुभवलक्षणप्रमाणवैषम्यमभ्रिप्रैति । स्वगोष्ठीनिष्ठ इति परवाद्यसम्मतत्वं दर्शयति ।आत्मसाक्षिकानुभवस्य सविशेषत्वं दर्शयति इदमहमिति । विशि-ष्टविषयत्वादिति । विशिष्टो विषयः स्वयमनुभव एव; शिलापुत्रकस्य शरीरमितिवदयं निर्देशः, अन्यथा स्वानुभ-वनिर्विशेषत्वनिरासे घटादिसविशेषत्वसाधनस्यानुपयोगात् । अनुभूयमानोऽप्यनुभव इत्युपरितनग्रन्थस्याप्येव-मेवार्थः; स्वानुभवसिद्धमित्यनेनैकार्थ्यात् । न चानुभवशब्दोऽनुव्यवसायपरः । न ह्यनुव्यवसायरूपं प्रत्यक्षमिष्टम्; अतीतविषयतया प्रत्यक्षत्वानुपपत्तेः । परज्ञान्म् प्रमुषितसंस्कारं स्वज्ञानं चानुमेयम्; अन्यत्तु स्मृतिविषयः । न च स्मृतिविषयत्वमिह विवक्षितम्; अनुभवशब्दस्यातदर्थत्वात् । अतोऽनुभूयमानत्वम् अवभासमानत्वम् । इद-महंशब्दाभ्यां सकर्मकर्तृक एवानुभव इत्युक्तम् । अदर्शमित्यनेनापरोक्षत्वविशेषान्वयोऽभिप्रेतः । अतीतत्वं त्वविव-क्षितं तदा स्वतःसिद्धत्वायोगात् । केनचिद्विशेषेणेति । उक्तेष्वप्यन्यतमविशेषणमन्ततो गत्वाऽप्यवर्जनीयमिति भावः । यद्वा,अदर्शमितीत्यत्र इतिशब्दः प्रकारवचनः प्रकृतसजातीयरूपं विशेषं यावत्सम्भवं गृह्णाति । तेन परोक्षत्ववर्तमानत्वादिकं केनचिदिति विवक्षितं स्यात् । परोक्षत्वं विषयद्वारा । ननु न हि वयमिदमहमदर्शमिति प्रतीतिमपलपामः । सा तु तर्कव्यवस्थापितविषया निर्विशेषे प्रमाणमित्यत्राह सविशेषोऽपीति । स्वव्याघातस्य दर्शयिष्यमाणत्वात् युक्तयाभासेनेत्युक्तम् । निविर्शेष इति निष्कृष्यमाण इति । यदा निर्विशेष इति निष्कृष्यते, तदानीमेवं हि निष्क्रष्टव्य इत्यर्थः । कथं निष्क्रष्टव्य इत्यत्राह सत्तातिरेकिभिः स्वासाधारणैरिति । सत्तानतिरेकी चेत् पक्षाविशिष्टो हेतुः स्यात् । तदयुक्तं; पक्षव्यावर्तको हि हेतुः । किञ्च अन्यस्य द्रव्यान्तराद्वयावर्त्तकधर्मस्यैव व्यावृत्तिरूपत्वसम्भवः । स्वरूपे प्रतिपन्ने स्वस्यान्यतादात्म्यभ्रमविरोधिनश्च स्वरूपमेव व्यावृत्तिः, यथा शुक्ति-त्वादेः । ब्रह्मणस्तु वस्त्वन्तरस्यान्यस्माद्वयावर्तकरूपधर्मत्वाभावात् स्वरूपे भासमाने भ्रमसहत्वाच्च न स्वरूप- मेव व्यावृत्तिरिति वक्ष्यमाणशौकल्यादिदृष्टान्तवैषम्याभिप्रायेण सत्तातिरेकिभिरित्युक्तम् । साधारणश्चेद्धेः तु, अनै-कान्तिको भ्रमाविरोधि च स्यात्; यथा शौक्लयादिः ।असाधारणं शुक्तित्वमेव हि रजतभ्रमविरोधि । अतः स्वासा-धारणैरित्युक्तम् स्वशब्देन व्यधिकरणासिद्धिपरिहारः । स्वभावविशेषैः-धर्मविशेषैः । एवं सामान्येनार्थशरीरमु- क्तम् । अतस्त्वयाऽपि निरासकहेतुतयाऽभिमतानां सत्तातिरेकित्वस्वासाधारणत्वे अवर्जनीये सत्यभिप्रायेण सत्ता-तिरेकिभिः स्वासाधारणैरिति पुनः कथनम्, ये ये हेतवः सविशेषघटादिवस्तुव्यावृत्ताः सामान्येन सकलविशेषा-भावसाधकाः, ते अथर्सामर्थ्यात् सामान्यान्तर्गतं स्वात्मानमपि निवर्तयेयुरेवेत्यत्राह अतः कैश्चिदिति । अतः- तेषां सत्तातिरेकित्वस्वासाधारणत्वयोरवश्याभ्युपगन्तव्यत्वादित्यर्थः । कैश्चिदिति । स्वासाधारणैः प्रामाणिकै-रित्यर्थः । विशिष्टस्यैवेति । निर्विशेषत्वसाधकनिवृत्तौ निर्विशेषत्वासिद्धेः, तदनिवृत्तौ तैरेव सविशेषत्वप्रसङ्गाच्चे-त्यभिप्रायः । अन्य इति । निर्विशेषत्वसाधका हेतवो येभ्यो घटादिभ्यो व्यावृत्ताः, तद्गता इहाप्रामाणिकाः रूपा- दयो विशेषा अस्मिन्निरस्यन्ते; न तु सर्वविशेषाः । अनग्निमद्यावृत्तो धूमः पक्षे ह्यनग्निमत्त्वमेव निवर्तयति: न त्वाकारान्तरमित्यर्थः । न क्वचिदिति । स्वानुभवे, प्रत्यक्षादिप्रमाणान्तरेष्वपीत्यर्थः । स्वव्याधातप्रसङ्गेन सकल-विशेषनिवृत्तेः साधयितुमशक्यत्वात् न निर्विशेषवस्तुसिद्धिरित्युक्तं भवति ।

एवं कर्मकर्तृव्युदासमभ्युपगम्य सविशेषत्वमापादितम् । अथ कर्मकर्तृनिरास एव दुःशक इत्याह धियो हीति । धीत्वम्-विषयप्रकाशत्वम् । स्वप्रकाशता-अनन्याधीनप्रकाशत्वम् । एतदुभयं स्वप्रकाशवादे साधनतया साध्यतया च परेणोपन्यस्तम् । ज्ञातुविर्षयप्रकाशनस्वभावतयोपलब्धेरिति । नियमेन स्वाश्रयं प्रति विषयप्रका-शकतया भासमानत्वात् धीत्वस्वप्रकाशत्वे सिध्यत इत्यर्थः । धीत्वं विषयसाधनत्वं; तथावभासमानत्वादिति न

साध्याविशिष्टता । यद्युपलब्धिसिद्धं सर्कमकत्वं नाङ्गीकुरुषे, ततः सर्कमकत्वहेतुकं स्वप्रकाशत्वमपि न सिध्येदिति भावः । यद्वा धीत्वं धीस्वरूपमात्रम् । हि शब्दः उपलब्धेः सर्वसम्प्रतिपतिं्त दर्शयति । ननु न कर्मकर्त्रवच्छिन्नं ज्ञान-मात्मभूतम्; अन्यदेव तु स्वापाद्यवस्तानुभूतं निविर्शेषं साध्यत इत्यत्राह स्वापेति ।अनुभवः-आत्मस्फुरणम् । न हि तदा धर्मभूतज्ञानस्फुरणम् । स्वावसरे-अहमर्थस्यैवात्मत्वसमर्थने । निपुणतरम्-परप्रयुक्तयुकत्यैवेति भावः । "सुखमहमस्वाप्सम्", "मामप्यहं न ज्ञातवान् इत्यादिना परोक्तपरामर्शेनैवेति यावत् । यद्वा निपुणतरं विशदतरम् । एतदुक्तं भवति-किं त्वया स्वानुभवाधीनं निर्विशेषत्वं कमर्कर्त्रवच्छिन्नस्य ज्ञानस्योच्यते, उताहमिति भासमान-स्यात्मस्वरूपभूतज्ञानस्य, उत(?) तदुत्तीर्णस्य वा? आद्ये कर्मकर्त्रवच्छेदनियमादेव न निर्विशेषत्वम् । द्वितीये प्रत्यक्तवानुकूलत्वादिभिः सविशेषत्वमवर्जनीयमिति वक्ष्यते । तृतीये शून्यत्वादेव न निर्विशेषत्वं साधमिति ।। मुखान्तरेण सविशेषत्वमाह स्वाभ्युपगताश्चेति । आदिशब्देन स्वप्रकात्वैकत्वाऽनन्द(त)त्वादयो विवक्षिताः । ते वस्तुमात्रमिति ह्युक्तमित्यत्राह ते चेति । उपपादयति वस्त्विति । बौद्धैः क्षणिकत्वमुक्तम्; अनेन तु नित्यत्वम् । वैशेषि#ेकादिभिश्च जडत्वबहुत्वे; अनेन तु स्वप्रकात्वैकत्वे स्वरूपं तु तैः सर्वैरभ्युपेतम् । अतो विप्रतिपत्तिविषयः सम्प्रतिपत्तिविषयश्चैक एवेति वक्तुमयुक्तमित्यर्थः । विमत्यनन्तरभाविना तदुपपादनेन च स्वरूपातिरिक्तंतां दर्शयति स्वाभिमतेति । क्षणिकत्ववादिनं प्रति ब्रह्मनित्यत्वं साधयता त्वया स्वरूपमात्रातिरेकेण किञ्चित् साधितमस्ति, न वा? अस्ति चेत्, सधर्मत्वम् । नो चेत्, सिद्धसाधनत्वम्; स्वरूपमात्रस्याभिमतत्वात् । संविन्नित्येति प्रतिज्ञा-वाक्यगतौ धर्मधर्मिशब्दौ किं पर्यायौ, न वा? आद्ये साधनायासो निष्फलः । द्वितीये स्वरूपातिरिक्तधर्माङ्गी(न्त-रस्वी)कार इति भावः । स्वमतोपपादनान्न वस्तुमात्रमिति शक्योपपादना इत्यन्वयः । पूर्वं सविशेषत्वनिरासक-हेतुभिः सविशेषत्वमुक्तम्; अनन्तरं साध्यधर्मैः; ततः कतिपयविशेषसाधकहेतुभिः । एते निरासकसाध्यसाधनधर्मा: अपरमार्था इत्यत्राह अत इति । अतः-विशेषव्युदासकत्वेन साध्यत्वेन साधनत्वेन च केषाञ्चिद्धर्माणां त्वयोक्त- त्वात् परमार्थभूतैस्तैः र्विशिष्टमित्यर्थः । प्रामाणिकैरित्यनेन कैश्चिदिति पूर्वोक्तस्यार्थस्यापि विशेषो दर्शितः । विशिष्टमेवेति । पूर्वोक्तसत्तातिरेकित्वस्वासाधारणत्वाभावे भ्रमोच्छेदो न स्यात्; निरासकधर्मापारमार्थ्ये, शुक्ति-त्वापारमार्थ्ये रजतसत्यत्ववत्, निरसनीयाकारसत्यत्वं प्रसजेत्; साध्यधर्मापारमार्थ्ये, च नित्यत्वादिविपरीता-कारानित्यत्वप्रसङ्गः; साधनापारमार्थ्ये च साध्यनित्यत्वादिविपरीताकार(स्य) सत्यत्वमापद्येतेति भावः ।

इत्थं स्वानुभवप्रसङ्गात् तत्रापि सविशेषत्वमुपपादितम्; अथ प्रथमप्रतिज्ञातं सर्वप्रम्राणानां सविशेषविष- यत्वं वक्तुमारभते; तत्र परेण प्रत्यक्षाद्बलीस्त्यवेनोक्तत्वात् सविशेषबोधकत्वातिशयस्य स्वाभिमतत्वाच्च प्रथमं शब्दस्य सविशेषयत्वमाह शब्दस्य त्विति । तु शब्दः परोक्तबलीयस्त्वशूचकः । विशेषेणेतिपदेन सविशेषवस्तु-बोधकत्वातिशय उच्यते । यद्वा सर्वप्रमाणानां सविशेषगोचरत्वे प्रतिज्ञाते, चिद्वस्तुनि अन्तरङ्गतया स्वप्रकाश- वृतिं्त निरूप्य तदनन्तरमात्मनि प्रत्यक्षादिभ्योऽन्तरङ्गत्वेन उभयवादिसम्मतस्य शास्त्रस्य सविशेषविषयत्वमाह शब्दस्य त्विति । सविशेषगोचरत्वे प्रमाणान्तरेभ्योऽतिशयो विशेषेणेत्युच्यते । तुशब्देन तत्तदौपयिकं शब्द- स्य सविशेषगोचरप्रत्यक्षादिपूर्वकत्वं विशेष उच्यते । प्रतिज्ञातस्य हेतुमाह पदवाक्यरूपेणेति । ततः किं सविशेष-विषयत्वस्येति शङ्कायां पदरूपेण प्रवृतिं्त विवृणोति प्रकृतीति । ततः किमित्यत्राह प्रकृतिप्रत्यययोरिति । पदस्यै- वेति । वाक्यं तावदास्ताम्; पदमेव सविशेषपरमिति भावः । वाक्यरूपेण प्रवृतिं्त विवृणोति पदभेदश्चेति । पदभेदः-पदानां परस्परभेदः । न केवलं प्रकृतिप्रत्ययभेद एवार्थभेदहेतुकः, पदभेदोऽपीति चार्थः । अन्यथा पदान्तरवैथ्य-र्थ्यादिति भावः । पदभेदस्यार्थभेदनिबन्धनत्वेऽपि वाक्यैकत्वात् निर्विशेषत्वसिद्धिरिति शङ्कायां वाक्यस्य सवि-

शेषविषयत्वं वदन् निर्विशेषे प्रमाणाभावमुपसंहरति पदसङ्घातेति । तत्तत्पदाभिधेयानां संसर्गविशेष एव वाक्य-प्रतिपाद्यः न तु तत्तत्पदार्थप्रहाणेन अर्थान्तरमित्यर्थः ।।

ननु निर्विशेषशब्देन निर्विशेषं वस्तु किं प्रतिपन्नम्, उत अप्रतिपन्नम्, उत सविशेषं वस्तु प्रतिपन्नम्? आद्ये, निर्विशेषवस्तुनः शब्देन प्रतिपादनात् निषेधोनुपपन्नः । द्वितीये तु निषेध्याप्रतिपत्तेः निषेधोऽनुपपन्नः । तृर्ती ये तु सविशेषनिरासः कृतः स्यात् ।। नैवम्;-भ्रान्तिप्रमितिविभागात् । निर्विशेषवस्तुनि शब्दस्य प्रमाणमावो हि निषि-ध्यते; न तू भ्रमहेतुत्वम्; अतो निर्विशेशब्दजनिता मिथोऽन्वयानर्हार्थगोचरा भ्रान्तिः प्रमितिजनकैः शब्दैर्बाध्यत इति युक्तम् । अधिकरणतदसाधारणनिषेध्यप्रतिपक्षधर्मतो विशेषशब्दस्य सङ्कोचानभ्युपगमे ह्यधिकरणलाभात् निषेधकशब्दस्यानन्वय एव स्यात् । न हि निर्विभक्तिकः पदान्तरानन्वितो निर्विशेषशब्दोऽर्थाभिधायी । अतः सङ्कोचाभावे व्याघातः । यद्यपि कथञ्चिद्विभक्तयर्थो न विवक्षितः, तथापि निर्विशेषपदस्य बहुव्रीहित्वादन्यपदार्था-भिधानमवर्जनीयम् । तत्पुरुष(पद)प्रयोगे च अधिकरणाभिधानमवजर्नीयम् ।अतो यदि निर्विशेषशब्दः प्रमाण-भूतवाक्यस्थः, तदा विषयविभागो द्रष्टव्यः; सकलविशेषशून्यप्रतिपादनासामर्थ्यात् । नगरे को विशेष इत्युक्ते, न कश्चिदपीत्यादिषु । वाक्येषु सविशेषनिषेधः सङ्कुचितविषयो दृष्टः । तथा शास्त्रेष्वपि, "अविशेषास्ततो हि ते" इति गन्धादिगुणान्वितानामपि पृथिव्यादीनां शान्तत्वधोरत्वमूढत्वरूपकतिपयविशेषविरहविवक्षया अविशेषशब्दः प्रयुज्यते ।।

एवं ज्ञानस्वरूप आत्मन्यन्तरङ्गतया स्वानुभवशब्दौ निरूपितौ । अथ व्यतिरिक्तप्रमाणेषु मूलभूतस्य प्रत्यक्षस्य सविशेषविषयत्वमुपपादयति प्रत्यक्षस्येत्यादिना । निर्विकल्पकानुभूतार्थस्य सविकल्पके प्रतिसन्धान- स्य वक्ष्यमाणत्वात्तदुपयोगित्वेन च सविकल्पकस्वरूपं प्रदर्शितम् । अथ निर्विकल्पकस्य सविशेषविषयत्वं प्रतिजा-नीते । निर्विकल्पकमपीति । एकजातीयपिण्डेषु द्वितीयादिपिण्डग्रहणस्य सविकल्पकत्वं प्रथमपिण्डग्रहणस्य निर्विकल्पकत्वञ्च हृदि निधाय हेतूमाह सविकल्पक इति । विशिष्टप्रतिसन्धानमिति षष्ठीसमासः कर्मधारयो वा । स्वस्मिन्-निर्विकल्पके अनुभूतजात्यादिपदार्थविशिष्टवस्तुविषयस्य सविकल्पके प्रतिसन्धानस्य हेतुत्वादित्यर्थः । प्रथमपिण्डस्य विशिष्टतयाऽवगतत्वमर्थलब्धम् प्रथमपिण्डे जातिविशिष्टतया प्रतीते हि द्वितीयादिषु जात्यनुवृत्ति-बुद्धिलक्षणं प्रतिसन्धानं घटते ।। कथं प्रतिसन्धानम्; सकलविशेषशून्यविषयं हि निर्विकल्पकमिति हेत्वसिद्धिमा-शङ्कयाह निर्विकल्पकं नामेति । सकलविशेषवैधुर्याभावमुपपादयति तथा भूतस्येति । सकलविशेषशून्यग्रहणं किं दर्शनादभ्युपगम्यते, किं वा अनुपपत्त्या कल्प्यते इति विकल्प्य, न तावत् दर्शनमित्याह कदाचिदपीति । कल्पनं व्युदस्यति अनुपपत्तेरिति ।निर्विशेषज्ञानबाधिकैव अनूपपत्तिर्दृश्यते । तत्कल्पिका तु दूरतो निरस्तेति भावः ।अद-र्शनं विवृणोति केनचिदिति प्रकारविशेषनियमो नेति भावः । उतरत्र ग्रहणायोगादिति पञ्चम्या हेतुत्वं स्फुटम् । अत्र पञ्चमीस्थाने हिशब्दः । इदमित्थमिति प्रतीतिमेव विवृण्वन् अर्थात् सकलविशेषशून्यग्रहणकल्पनामपि व्यु-दस्यति त्रिकोणेति । अनुपपतिं्त विवृणोति ग्रहणायोगादिति । अध्याहृतशङ्कावाक्येन ग्रहणायोगादिति पञ्चम्य-न्तान्वयः । त्रिकोणम्-गोमुखम् । ग्रहणायोगात्-दृष्टव्याप्तिविरोधेन सकलविशेषशून्यग्रहणकल्पनस्यानुपपन्नत्वा-दित्यर्थः । अनुपपत्तेरित्यनेन विपक्षे बाधकतर्कोऽप्यभिप्रेतः-सविशेषविषयत्वाभावे प्रत्ययत्वमेव हीयेतेति ।अस्य तर्कस्यानुग्राह्यं प्रमाणं प्रत्यक्षं योग्यानुपलम्भश्च । यद्वा अनुपपत्तेरित्यनेन सविशेषविषयत्वे साधकं प्रमाणं विव-क्षितम्-प्रथमाक्षसन्निपातजं ज्ञानं सविशेषविषयम्, ज्ञानत्वात् संप्रतिपन्नवदिति । एवं साधकप्रमाणाभावबाधक-प्रमाणसद्भावाभ्यां विवक्षितकतिपयविशेषशून्यग्रहणं निर्विकल्पकमिति सिद्धम् । अनेन निर्विकल्पकशब्दस्य

सङ्कुचितवृत्तित्वं फलितम् । स च सङ्कोचः कस्मिन् विषय इत्यत्राह अत इति । अतः-उक्तादर्शनानुपपत्तिभ्यामि- त्यर्थः । प्रथमद्वितीयपिण्डयोः सविकल्पकनिर्विकल्पकशब्दौ न सङ्केतितौ; अतस्तयोः पिण्डयोर्वैषम्यं वक्तव्यमिति शङ्कायां ग्राह्याकारभेदं दर्शयति तत्रेत्यादिना वाक्यद्वयेन । गोत्वानुवृत्तिप्रतीत्यप्रतीत्योः सविकल्पकनिर्विकल्प-कशब्दयोः प्रवृत्तिनिमित्ततां दर्शयति प्रथमप्रतीतीत्यादिना वाक्यद्वयेन । पूर्वग्रन्थोक्तं गोत्वं संस्थानशब्देन विशे-षितम्; तेन पराभिमतविलीनाज्यगतधृतत्वादेरिव प्रत्यक्षत्वे व्यञ्जकापेक्षया विलम्बो नास्तीति दर्शितम् । तदेव संस्थानमनन्तरग्रन्थे सास्त्रादिशब्देन निर्दिश्यते । एवमनुवृत्तिग्रहाग्रहाभ्यां सविकल्पकत्वं निर्विकल्पकत्वं चोक्तम् । नानुवृत्तिमात्रग्रहणान्निर्विकल्पकत्वम्, किन्तु जात्यग्रहणाच्च । अनुवृत्तत्यग्रहणे हि जातिरेवागृह्णीता स्यादिति शङ्कायामाह न पुनः संस्थाना(नरूपजात्यादेर?)ग्रहणादिति । अत्राग्रहणानुपपत्तिद्योतकः संस्थानरूपशब्दः । गोत्वादेरसाधारणधर्मभूताऽनुवृत्त्यग्रहणात् गोत्वादिर्न ग्रहीत इति शङ्कायामग्रहणानुपपत्तिमेव विवृणोति संस्था-नरूपजात्यादेरपीति । ग्रहणकारणभूतेन्द्रिययोग्यतायामपि स एव हेतुरिति द्योतनाय पुनः संस्थानशब्दोक्तिः । निर्विकल्पकस्य सविशेषविषयत्वे प्रमाणत्वेन सविकल्पके निर्विकल्पकानुभूतार्थविशिष्टप्रत्यभिज्ञानं (त्यभिज्ञानं)-पूर्वमुक्तम् । पराभिमतनिर्विकल्पकाभावे योग्यानुपलम्भः प्रत्यक्षं च प्रमाणम् । तयोरनुग्राहकतर्कज्ञानेनोक्तो भवति । किं प्रमाणानुपपत्त्या प्रमेयानुपपत्त्या वा वस्तुमात्रग्रहणाभ्युपगम इति विकल्पमभिप्रेत्य प्रमाणानुपपतिं्त प्रथमं व्युदस्यति ऐÐन्दयिकत्वाविशेषादिति । अनेन पृथिव्यपृथक्सिद्धगन्धव्यावृत्तिः ।। कथमैन्द्रियिकत्वम्? समवाय-स्यानैन्द्रियिकत्वात् तदयुक्तमिति चेत्#्#्#्, तर्हि सविकल्पके विशिष्टग्रहणमनुपपन्नम् । अतो न भिन्नेन्द्रियाग्राह्यत्व- मिति न प्रमाणानुपपत्तिः । असन्निहितत्वं प्रमेयानुपपत्तिः; अपृथक्सिद्धत्वेन तन्नास्तीति परिहृरति संस्थानेनेति । अनेन चाक्षुषत्वेपि पृथक्सिद्धदण्डादिव्यावृत्तिः । एकेन्द्रियग्राह्यत्वे सति अपृथक्सिद्धत्वात् प्रमाणप्रमेयानुपपत्ति-र्नास्तीति ससंस्थानमेव वस्तु गृहीतमित्यर्थः । एवं पूर्वं संस्थानरूपशब्देनाभिप्रतोऽर्थो विवृतो भवति । अनुवृत्त्य-ग्रहणान्न संस्थानरूपजात्यादेरग्रहः शङ्कनीयः; प्रकारप्रकारिभावेन ग्रहणोपपत्तेरिति भावः । प्रथमपिण्डग्रहणे अनु-वृत्त्यग्रहणात् गोत्वमगृहीतं चेत् द्वितीयपिण्डेऽपि गोत्वं दुर्ग्रहम्; अनुवृत्त्यग्रहणात् । अनेकव्यक्तयन्वयारूपा हि अन्यनुवृत्तिः । सा चान्वयिनः पदार्थस्य पूर्वव्यक्तिनिष्ठतापरार्ज्ञोनैव द्वितीयादिषु गह्यते । अतः प्रथमपिण्डे गोत्वाग-#्रहात् तदन्वयापरामर्शेन द्वितीयव्यक्तयन्वयरूपानुवृत्तिद्वितीयेऽपि दुर्ग्रहेति तत्रापि गोत्वमगृहीतम्, एवं प्रथमद्विती-यव्यक्तयन्वयापरामर्शे (र्शात्)तृतीयेप्यनुवृत्तिरगृहीतेति गोत्वमग्रहीतम्, एवं व्यक्तयन्तरेष्वपि गोत्वं दुर्ग्रहं स्यात् । अतः प्रथमपिण्डग्रहण एव गोत्वग्रहणमभ्युपेतव्यम् । एवं सकलविशेषशून्यवस्तुग्रहणं व्युदस्तम् । "जात्यादयो विशे-ष्यं च पृथक् निविर्कल्पके गृहीतम्; सविकल्पक एव विशिष्टतया ग्रहणम्" इति पक्षश्चार्थान्निरस्तो भवति । विशेषणं विशेष्यं च पृथक् पृथक् गृहीतमिति कथमवगतम्? दण्डकुण्डलादिषु विशेषणविशेष्ययोः प्रथक् प्रथग्ग्रहणपूर्वकत्व-दर्शनादिति चेत्-तत्र किमपृथक्सिद्धिवेलायां पृथग्ग्रहणम्? उत पृथक्स्थितिवेलायाम्? न प्रथमः, विशिष्टत्वेनैव ग्रहणात् । पृथक्स्थितिवेलायां तु विशिष्टग्रहणमेव नास्तीति न तत्प्रतीतिहेतुत्वम् । अतः पृथग्ग्रहणस्य विशि-ष्टग्रहणहेतुत्वाभावान्न गोत्वादौ पृथग्ग्रहणप्रसङ्गः ।।

ननु विशेषणविशेष्यभावस्य सप्रतियो-गिकत्वात् तज्ज्ञानस्य प्रतियोगिस्वरूपज्ञानमपेक्षितमिति विशि-ष्टप्रतिपत्तेर्जात्यादिपदार्थस्वरूपमात्रग्रहणपूर्वकत्वं स्वीकार्यम् ।। उच्यते । प्रतियोगिज्ञानापेक्षा नाम किं विशिष्ट- ज्ञाने प्रतियोग्यवभासनियमः? उत तद्ज्ञानस्य विशिष्टज्ञानहेतुत्वम्? प्रथममभ्युपगच्छामः । द्वितीये, च जात्यादयः पदार्थाः प्रथमं मिथो व्यावृत्ततया गृहीता न वा? न चेत्, अव्यावृत्ततया गृहीतानां पूर्वोत्तरज्वालानामिव विशेषण-

विशेष्यभावप्रतियोगिताप्रतीतिर्नोपपद्यते । यदि व्यावृत्ततया गृहीताः तदा व्यावृत्तिश्च विशेषणविशेष्यभावेन पारतन्त्र्#ादिलक्षणेन तदौपयिकाकारान्तरेण वा यदि न स्यात्, विशेषणविशेष्यभावव्यत्यासप्रतीतिः प्रसज्यते ।। वस्तुसामर्थ्याद्वास्तव एव विशेषणविशेष्यभावः प्रतीयत इति चेत् तर्हि वस्तुचसामर्थ्यं नाम विशेषणविशेष्यभाव- रूपं तर्दोपयिकाकारान्तररूपं वा स्यात् । वस्तुस्वभावस्य सत्तयोपकारकत्वे वस्तुस्वभावादेव विशिष्टप्रतीतिसम्भ-वात् स्वरूपमात्रग्रहणकल्पनमयुक्तम् । ज्ञाततयोपकारकत्वे तेन स्वभावेन व्यावृत्ततया विशेषणस्य प्रागवगतिर-स्तीति प्रथमत एव विशिष्टप्रतीतिरभ्युपगता स्यात् । अतो वरं द्रव्यस्यैव प्रथमं विशिष्टतया प्रतीत्यभ्युपगमः । तस्यापि स्वभावस्य स्वविशेष्यभूतं विशेषनं प्रति विशेषणत्वं न प्रथममवगतम्; किन्तु स्वरूपमात्रमिति चेत्-तर्हि विशेषणतत्स्वभावयोर्विशेषणविशेष्यभावव्यत्यासः प्रतीयेत । तत्परिहाराय तस्य वस्तुस्वभावस्याकारान्तराभ्यु- पगमे अनवस्था । यदि व्यत्यासविशिष्यप्रतीतिप्राथम्यप्रसङ्गपरिहाराय जात्यादीनां स्वरुपमेव विशेषणभावः विशे-ष्यभावश्च, न त्वाकारान्तरमित्यभ्युपगम्यते-तदा प्रथम-प्रतिपत्तिर्विशेषणतया विशेष्यतया च स्यात्; तदप्रतिपत्तौ स्वरूपस्यागृहीतत्वप्रसङ्गात् । तथैव प्रतीतौ प्रथमत एव विशिष्टप्रतीतिः स्यात्; एकस्यां प्रतीतौ विशेषणतया विशे-ष्यतया च जात्यादीनां प्रतिपन्नत्वात् ।अतः प्रथमत एव परस्परप्रतियोगिकविशेषणविशेष्यभावप्रतीतिः संभवती-त्यभ्युपगन्तव्यम् । एवं सति विशिष्टग्रहणस्य पृथग्ग्रहणपूर्वकत्वे भिन्नसामग्रीवेद्यवस्तुगोचरत्वमुपाधिः स्यात् । पक्षव्यतिरिक्तव्यवच्छेद्याभावेऽप्युक्ततर्कबलात् पक्षव्यवच्छेकत्वसिद्धेरुपाधित्वं युक्तम् । यथा प्रध्वंसाभावस्यादि-मत्त्वादन्तवत्त्वे भावरूपादिमत्त्वमुपाधिर्भवति, भावोन्मज्जनप्रसङ्गरूपतर्कबलात्; यथा अग्निमत्त्वात् धूमानुमाने आर्द्रेन्धनमुपाधिः सर्वत्राग्निमति धूमोपलम्भप्रसङ्गतर्कबलाद्भवति-तद्वत् । अतः-प्रथमपिण्डग्रहण एव गोत्वं गृह्यते; द्वितीयादिष्वनुवृत्तिग्रहणम(मित्य?)भ्युपेत्य(तव्य)म् ।अतो यथोक्तस्वरूपे एव निर्विकल्पकसविकल्पके ।।

अनुवृत्तिग्रहाग्रहौ हि सविकल्पकनिर्विकल्पकयोः प्रयोजकौ कथितौ; तत् कथं द्वितीयादिग्रहणस्य सवि-कल्पकत्वमित्यत्राह अत इति । अतः-प्रथमग्रहण एव स संस्थानवस्तुग्रहणात् । अनुवृत्तिग्रहणविधुरप्रथमेतरग्रहणे कथं सविकल्पकत्वम्? इत्यत्राह द्वितीयादीति । द्वितीयादिपिण्डग्रहणेषु-द्वितीयादित्वेन पिण्डग्रहणेषु । अनेन संस्कारसचिवग्रहणं सविकल्पकम्, इतरन्निर्विकल्पकमिति सिद्धम् । एतेन न केवलं जात्यनुवृत्त्यैव सविकल्पक- त्वम्; जातिगुणादिष्वन्यतमानुवृत्तिविशिष्टग्रहणमपि सविकल्पकमिति सिद्धम् । सवर्विधानुवृत्तिविकलग्रहणमेव निर्विकल्पकम् । यथा एकव्यक्तौ प्रथमाक्षसन्निपातजं ज्ञानम् ।। नन्वेकव्यक्तावपि संस्कारजन्यं देशकालाद्यनुवृत्ति-विशिष्टग्रहणं सविकल्पकं स्यात् ।। स्यादेव; संस्कारजन्यत्व-अनुवृत्तिगोचत्वाविशेषात् । एकजातीयद्रव्येषु प्रथ-मपिण्डग्रहणमित्युक्तिस्तु जात्यनुवृत्तिप्रदर्शनार्था । संस्थानिवत्संस्थानवदिति दृष्टान्तप्रदर्शनं स्पष्टीकरणार्थम् । पिण्डधर्मः संस्थानम्, तद्वर्मोऽनुवृत्तिरिति धर्मधर्मिभावरूपसाम्यनिबन्धनञ्च दृष्टान्तद्वयोपादानम् । एवं सविकल्प-कनिर्विकल्पकयोः संस्कारसचिवत्वतद्विरहौ सामग्रीवैषम्यम्,गोत्वाद्यनुवृत्तितद्विरहौ ग्राह्याकारवैषम्यमित्युक्तं भवति ।। द्विविधस्यापि प्रत्यक्षस्य सविशेषविषयत्वं निगमयति अत इति ।

प्रसङ्गात् भेदाभेदं निराकरोति अत एवेति । अत एव-प्रथमपिण्डग्रहणस्य विशिष्टविषयत्वसमर्थनेन । सर्वत्र-पिण्डद्वय-जातिव्यक्तिगुणगुणि-क्रियातद्वत्-कार्यकारणेष्वित्यर्थः । कथमित्यत्राह इदमित्थमिति । भेदा-भेदवादिना,पिण्डानामन्योन्यभेदाभेदसमर्थने इदमिदं न भवतीति भेदः, इदमिदं भवतीत्यभेद इत्येकस्यैव युगपत् भावाभावरूपव्याहतिपरिहारार्थम्, जात्यात्मना अभेदो व्यक्तयात्मना भेद इत्याकारद्वयेन भेदाभेद उपपादितः । जातिगतो अभेदः व्यक्तगतो भेदश्चेति नैकस्य द्वयात्मकतेति शङ्कापरिहा-राय जातिव्यक्तयोश्चान्योन्यभेदाभेद

उक्तः । तन्निर्वहणायाकारान्तरान्वयादर्शनात् प्रतीतिरेव शरणमित्याश्रिता । अतस्तन्निरासाय प्रथमं जातिव्यक्त-#्योर्भेदेनैव प्रतीतेरभेदस्य प्रतीतिविरोधं दर्शयति इदमित्थमिति । इदम्भावो विशेष्यम्; इत्थम्भावो विशेषणम् । इत्थमंशः कः; इदमंशः क इत्यत्राह तत्रेति । अत्र जातिव्यक्तयोर्भेदाभेदे चत्वारो हेतवः परोक्तः प्रथमपिण्डग्रहणे अभेदेन ग्रहणम्, एकशब्दानुविद्धप्रत्ययः, मत्त्वर्थीयप्रत्ययनिरपेक्षसमानाधिकरणपदप्रयोगः, सहोपलम्भनियमश्- चेति । अत्र सहोपलम्भनियमसमानाधिकरणप्रत्ययौ भेदाभेदसाधकौ; अन्यौ द्वावभेदसाधकौ । इदं हेतुचतुष्टय-माशङ्कयाह तथा हीति । तान् हृदि कृत्वा प्रथमपिण्डग्रहणेअभेदेन ग्रहणं व्युदस्यति प्रथममेवेत्यादिना । सक-लेतरव्यावृत्तम्-सकलविजातीयव्यावृत्तमित्यर्थः । ततः किं भेदेन ग्रहणस्य इत्यत्राह व्यावृत्तिश्चेति । गोत्वादि-संस्थानविशेषविशिष्टतया इत्थमिति प्रतीतेर्व्यावृत्तिश्च निश्चीयत इत्यर्थः । अनेनाखण्डवाक्याथर्भङ्गश्चार्थतः कृतो भवति; शौक्ल्यादिवैधर्म्यस्येहाभिप्रेतत्वात् । तच्च पूर्वं दर्शितम् ।। गोत्वादिविशिष्टतया प्रतीतिरस्तु, तथाप्य-भेदः स्वप्रमाणेन प्रसजन् न (प्रसज्यते चेत् , न) निवार्यत इत्यत्राह सर्वत्रेति । सर्वत्र-गोत्वतदाश्रयादिषु, दण्ड-कुण्डलादिषु च । दण्डदण्डिनोरिव जातीतद्वतोरपि विशेषणविशेष्यभाव एव अभेदविरोधीत्यर्थः । विशेषणवि-शेष्यभावेति । गोत्वव्यक्तयोरनुवृत्तिव्यावृत्त्यग्रहेऽपि विशेषणविशेष्यभावरूपेणाऽकारान्तरेण भेदो गृहीतः; न ह्येकेनैवाकारेण भेदग्रह इत्यस्ति नियम इति भावः । उभयत्राऽत्यन्तभेदोऽस्ति चेत्, मत्त्वर्थीयप्रत्ययनिरपेक्षसामा-नाधिकरण्यमेकशब्दानुविद्धप्रत्ययः सहोपलम्भनियमश्च कथमेकत्र दृश्यते नान्यत्रेत्यत आह तत्रेति । तत्र-गोत्व-तदाश्रयदण्डदण्ड्यादिवर्गे । पृथक्संस्थानविशिष्टस्वपर्यवसितकादाचित्कविशेषणभावो मत्वर्थीयप्रत्ययसापेक्ष-सामानाधिकरण्यप्रत्यये प्रयोजकः । द्रव्यसंस्थानतयैव पदार्थत्वेन तत्पर्यन्तत्वात् तद्विशेषणतयैव स्थितिर्मत्वर्थीय-प्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजिका । सहोपलम्भनियमतदभावयोरपृथक्सिद्धत्वपृथक्सिद्धत्वे एव प्रयोजके; न तु भेदाभेदावित्यर्थः । सहोपलम्भनियमे, द्वयोरेव सहभावात् सहोपलम्भो द्वित्वसाधकः; तन्नियमस्तुभिन्नयो-रेकस्मिन्नपि नास्तीत्यसाधारणानैकान्तिकत्वादनुभयसाधकः । किञ्च विरुद्ध एव; द्वित्वसाधकसहोपलम्भनियमो हि द्वित्वस्य नियमं दर्शयति । एकशब्दानुविद्धप्रत्ययस्तु एको दण्डीत्यादिषु दण्ड्यन्तरव्यावर्त्तकत्वदर्शनेन धर्म्य-न्तरनिषेधपरत्वान्न धर्मधर्मिणोरभेदसाधक इति भावः । यद्येवं जातिकुण्डलादेर्वैषम्यम्, यदि विशेषणविशेष्यभाव-साम्यादुभयत्र भेदः साध्यते, तर्हि सहोपलम्भनियमादिवैषम्ये(ण) एकत्वमपि स्यादित्यत आह उभयत्रेति । विशे-षणविशेष्यभावा(दि)विशेषात् तत्प्रयुक्तभेदप्रतिपत्तिरनिवार्या; विशेषणविशेष्यभावे सति भेदस्यापि संप्रतिपत्तेः । सहोपलम्भनियमे ऐक्यं हि विमतम् ।अतो न सम्प्रतिपन्नभेदविरुद्धाभेदः कल्प्यः । यथा शीतत्वोष्णत्वाद्यवान्तरवै-षम्यं न द्रव्यत्वादिसाधारणाकारविरोध्यद्रव्यत्वकल्पकम्, एवं सहोपलम्भनियमो न भेदविरोध्याकारकल्पक इति भावः । यद्वा-पृथक्स्थितानां दण्डादीनामविशेषणानामेव सतां कदाचित् सहभावमात्रात् विशेषणत्वमध्यस्तमित्य-त्यन्तभिन्नेषु विशेषणत्वाभावाद्विशेषणत्वं नात्यन्तभेदसाधनसमर्थमित्यत्राह उभयत्रेति । व्यावृत्तप्रतीतौ व्यावर्त्तक-तयोपयुज्यमानत्वं विशेषणत्वम् । तच्च दण्डादिष्वपि मुख्यमिति विशेषणत्वादत्यन्तभेदो युज्यत इति भावः ।। गो-त्वतदाश्रयादिष्वेव सहोपलम्भनियमः, नान्यत्रेति व्यवस्थासिध्द्यर्थमैक्यं कल्पनीयमिति चेत्-तत्राह इयांस्त्विति । इयानेव; न त्वधिकं कल्पनीयमित्यर्थः । यदि सहोपलम्भनियमव्यवस्थार्थमैक्यं कल्प्यते-तदयुक्तम्; तत्रैवैक्यं, ना-न्यत्रेति व्यवस्थार्थमर्थान्तरकल्पनप्रसङ्गात् । यद्यैक्यं तत्र स्वाभाविकम्, तर्हि सहोपलम्भनियमः स्वाभाविक इति न प्रतिपन्नविरुद्धार्थान्तरकल्पनागौरवमाश्रयणीयमिति भावः । यद्वा, विशेषणविशेष्यभावप्रयुक्तभेदप्रतिपत्तिर्यथो-भयत्र तुल्या, तथा सहोपलम्भनियमो दण्डदेवदत्तादावपि स्यात्, जातिव्यक्तयोर्वा स न स्यादित्यत्राह इयानिति ।

न हि साधारणाकारेऽभ्युपगतेऽवान्तरभेदस्त्याज्य इत्यर्थः । घटे पटस्याभावो भेदः, तत्र तस्य सद्भावो अभेद इति भावाभावविरोधस्य, "न हि दृष्टेऽनुपपन्नं नाम" इति न्यायात् प्रतीतिपराहतत्वमाशङ्कयाह अत इति । अतः-इत्थं भेदसामानाधिकरण्येनाभेदस्य प्रतीत्यभावात् ।। कथं प्रतीतिप्रकार इत्यत्राह प्रतीतिप्रकारो हीति । यदि विशे-षणविशेष्ययोरैक्यमस्ति तर्ह्यन्यतरदेव प्रतीयेत । अन्यतरप्रतीतिर्वाऽस्तु-तथाऽपि नैक्यम्; यथा पूर्वानुभूतयोः पुरु-षयोरेकस्मिन् दृष्टे न हि पुरुषैक्यम् ।। जातिव्यक्तयोः सम्बन्धनियम एवैक्यमिति चेत् न; भेदसाधकसम्बन्धनिय- मस्य भेदनियतसम्बन्धनियम्यत्वात् । द्वयोर्हि संबन्धः; तन्नियम ऐक्यं चेत्, सम्बन्धस्वरूपभङ्गप्रसङ्गः । एवं भेदा-भेदनिरासस्य सूत्रकाराभिमतत्वमाह तदेतदिति ।

अथ प्रमाणान्तराणां प्रत्यक्षमूलत्वात् तेषामपि सविशेषविषयत्वमाह अत इति । प्रत्यक्षादिदृष्टधूमादि-सम्बन्धविशिष्टाग्न्यादिविषयत्वादित्यर्थः । स्वाभिमतमुक्तं प्रमाणत्रयम् । प्रमाणान्तराम्युपगमेऽपि तेषां सविशेष-विषयत्वमाह प्रमाणसङ्खयेत्यादिना । प्रमाणानि सविशेषविषयाणि स्युः, तानि तर्कपराहतानीति सङ्कायाम्- अस्मिन् सर्वप्रमाणसविशेषविषयत्वविस्तरोक्तिसमयेऽपि पूर्वं तत्सङ्ग्रहोक्ताविव, बुद्धिस्थस्वसिद्धिवादेऽपि न निर्वि-शेषत्वसिद्धिरिति ज्ञापनाय, "सविशेषत्वबाधकतया परोक्तयुक्तयम्युपगमेऽपि युक्तिरूपविशेषैः सविशेषत्वमवर्ज-नीयम्" इति पूर्वोक्तं स्मारयन् विरोधं च दर्शयति वस्तुगतेति । यद्वा पूर्वं स्वानुभवसिद्धे विशिष्टे निर्विशेषत्वनि- ष्कर्षो निष्कर्षकः धमैः सविशेषत्वापादनेन दूषितः; तत् सर्वं प्रमाणनिर्विशेषत्वविषयत्वनिष्कर्षेऽप्यतिदिशति-वस्तुगतेति ।।

एवं निर्विशेषचिन्मात्रपारमार्थ्य-व्यतिरिक्तापारमार्थ्यप्रतिज्ञाबाधः सामान्येन सर्वप्रमाणसविशेषगोचर- त्वेन दर्शितः ।अथ परोक्तं प्रमाणतर्कजातं विशेषतो दूषयितुमुपकमते । शास्त्रबलीयस्त्वमिच्छता परेण प्रथमं शास्त्र-मुपन्यस्तम् तदनिच्छता प्रत्यक्षाविरुद्देऽर्थे शास्त्रं प्रमाणयता सिद्धान्तिना प्रत्यक्षस्य सन्मात्रविषयत्वं निराक्रियते । तत्र प्रत्यक्षस्य सन्मात्रविषयत्व, भेदस्य दुर्निरूपत्वे च परोक्तं कुतर्कमनूद्य निरस्यति यत्त्विति । यत्त्वित्यादिना ग्रन्थद्वयेन (प्रमाणानुपपत्तिप्रमेयानुपपत्त्यनुभाषणम्) । तदपीति । न केवलं सविशेषविषयत्वोपपादनम्, निर्विशे-षविषयत्वोपपादनानुपपत्तिश्चेति अपिशब्दस्य भावः । यद्वा-न केवलं भिन्नविषयत्वं स्थापितम्; सन्मात्रविषयत्व- मपि दूरोत्सारितमित्यपिशब्दस्य भावः । जात्यादेरेवेति । स्वपरनिर्वाहकत्वात् व्यावृत्तिरूपधर्मान्तरनिरपेक्षस्य प्रतियोगिनिरपेक्षस्यैव चेति भावः । दूरोत्सारितम् । प्रतियोगिस्मरणकृतविलम्बे सत्यपि ज्ञानस्य यावत्कार्यसिद्धि सत्त्वं(स्थिरत्वं) कल्प्यम् । तथापि प्रतियोगिनिरपेक्षजात्यादेर्भेदत्वेन, एकक्षणवर्त्तित्वेऽपि प्रत्यक्षस्य, भेदस्य सुग्रहत्वात् दूरोत्सारिमिति भावः । जात्यादेरेवेत्यभिप्रेतं भेदस्य स्वपरनिर्वाहकत्वं परोक्तयुकत्वैव दर्शयति संवेद-नवदित्यादिना । संवेदचवद्रूपादिवच्चेत्यनेन परोक्तपक्षसपक्षौ द्वावपि सपक्षीकृतौ । अनेन परोक्तदूषणस्य परिहृ-तत्वं दर्शयति अत एवेति ।अत्र प्रथमचशब्दस्य स्वपरनिर्वाहकत्वोपपादनेन दूषणपरिहारश्च सिद्ध इति भावः । द्वितीयश्चशब्दो दूषणद्वयसमुच्चये ।। अनवस्थापरिहारसिद्धौ तदथर्स्वपरनिर्वाहकत्वसिद्धिः, तदर्थस्वपरनिर्वाहक-त्वसिद्धौ अनवस्थापरिहार इत्यन्योन्याश्रय इति चेन्न; भ्रमनिवृत्त्यन्वयव्यतिरेकाभ्यामेव स्वपरनिर्वाहकत्वसिद्धे-रनवस्थापरिहारात् । प्रत्यक्षज्ञानस्य त्रिचतुरक्षणमात्रवर्त्तित्वे-ऽपि एकक्षणवर्त्तित्वमभ्युपगम्य परिहरति एकक्षण-वर्त्तित्वेऽपीति ।

अत्रैवमनुसन्धेयम्-किं भेदप्रतीतिः अनरयुपगता, उताङ्गीकारेऽपि मूलं नास्ति, किं वा मूलं दुर्निरूपम्; इति विषयो वा किं नास्ति, उत सन्नपि दुर्निरूप इति । तत्र प्रथमं (?) प्रतीत्यनभ्युपगमो नोपपद्यते; वेदान्ताना-

मनारम्भणीयत्वप्रसङ्गात्; वादिप्रतिवादिरूपेण कथानुपपत्तेश्च । मूलमप्यस्ति; कायर्स्य सम्प्रतिपन्नत्वेन कारणस्य कल्पनीयत्वात् । "कार्यं हि प्रतीतं कारणकल्पनायां प्रमाणम्; न पुनः स्फुटावधारितं कार्यं कारकनिरूपणाया-पह्नवमर्हतीति नीतिविदः । दुर्निरूपत्वमपि नास्ति; कार्योत्पत्त्यनुरूपत्वं हि कारणस्य सुनिरूपत्वम् । कार्योत्प- त्त्या कारणस्य तदनुरूपत्वं सिद्धमिति न दुर्निरूपत्वम् । विषयोऽप्यस्त्येव । यदि न विषयः, तर्हि त्वयैव तत् अनुयुक्तेन वक्तव्यम्-प्रपञ्चस्य वाध्यत्वज्ञानं किं सविषयम्? उताविषयम्, इति । सविषयत्वे, विषयोऽङ्गीकृत एव । नो चेत् वाध्यत्वमपि नेति प्रपञ्चपारमार्थ्यं स्यात् । अतोऽस्त्येव विषयः । न च बाध्यविषयत्वम्; तथा सति भेदबा-धकप्रमाणजन्यप्रतीतेरपि मिथ्याविषयत्वेन भेदपारमार्थ्यप्रसङ्गात् । एतान् प्रत्याहुः ।

"स्वशास्त्रनिर्णये सत्ये सत्याः स्युर्लोकनिर्णयाः । स्वशास्त्रनिर्णयेऽसत्ये सत्याः स्युर्लोकनिर्णयाः ।।" इति । उक्तविकल्पेषु पूर्वे चत्वारः पक्षाः अपिचेत्यादिना भाष्येण वक्ष्यमाणेनाभिप्रेता इति तेषां निरस्तत्वं तत्र ज्ञास्यते । अत्र प्रथमं पञ्चमं बाध्यविषयत्वपक्षं प्राधान्यात् परिजिहीर्षता भाष्यकारेण प्रत्यक्षबाधस्तावन्न दृष्ट इति, यौक्तिक-बाधः परिह्रियते । तत्र प्रतियोगिनिरपेक्षजात्यादेरेव भेदत्वेन तद्विशिष्टविषयतया क्षणान्तरग्राह्याभावात् क्रमयौग-पद्यविकल्पायोगरूपा प्रमाणानुपपत्तिः परिहृता । एवं प्रमेग्रानुपपत्तौ स्वरूपपक्षे प्रतियोगिनिरपेक्षभेदव्यवहार-प्रसक्तिश्च इष्टतया परिहृता; हानोपादानादिरूपस्य गोत्वादिशब्दावलम्बिनश्च व्यवहारस्य प्रतीतेश्च प्रतियोगिनिर-पेक्षत्वात् शब्दव्यवहारविशेषे प्रतियोगिसापेक्षत्वस्य दाराः कलत्रमापः इत्यादिषु स्त्रीत्वनपुंसकत्वबहुत्वादिवत्, शब्दस्वभावायत्तत्वान्नार्थदूषणत्वम् । व्यावृत्तादिशब्दप्रयोगेष्वेव प्रतियोगिसापेक्षत्वदर्शनात्, गोत्वादिप्रतिपत्ति-व्यवहारेषु तदभावात् शब्दव्यवहारविशेषस्य प्रतियोगिसापेक्षत्वं शब्दविशेषस्वभावाधीनमित्यन्वयव्यतिरेकाभ्यां निश्चीयते । शब्दस्वभावश्च प्रवृत्तिनिमित्तसाधारण्यात्तदवच्छेदकोपाधिपुरस्कारेणार्थविशेषप्रतीतिहेतुत्वम् । गोत्व-शब्दो ह्यसाधारणो गोत्वं स्वरूपेण दर्शयति । भेदशब्दस्तु व्यावृत्तिबुद्धिहेतुत्वरूपप्रवृत्तिनिमित्तसाधारण्यात् तद-वच्छेदकमहिषादिपदार्थान्तररूपोपाधिपुरस्कारेण गोत्वं दर्शयति । पर्यायत्वप्रसक्तिश्च परिहृता; व्यावृतिरूपे परे ब्रह्मणि ब्रह्मशब्देन सह स्वरूपाब्दवत् अधिकारार्थाविवक्षायामपि भिन्नशब्दस्य प्रयोगसंभवात् । उपाधि शब्दानां हि वाच्यनतिरेकेपि तटस्योपाधिभेदात् अपर्यायत्वं उपपद्यते । तत्र ऐच्छौ प्रयोगाप्रयोगौ । भेदस्य व्यावृत्त्यनुवृत्ति विकल्पोपि परिहृतः; व्यावृत्त इत्यभ्युपगमे स्वरूपव्यावृत्तशब्दयोरिव भेदशब्दस्यानुवृत्तप्रयोगसम्भवात् "भिन्नोहि भेदयोगी" इत्येतच्च स्वरूपस्यैव जात्यादिभेदविशिष्टत्वेन भिन्नशब्द प्रयोगसंभवात् परिहृतम् । धर्मभूतजात्यादि#ेषु भिन्न इति प्रयोगो भवन्मते व्यावृत्तिरूपे ब्रह्मणि व्यावृत्तशब्दवदौपचारिकः; धर्मान्तरराहित्येऽपि तद्योगकार्यव्या-वृत्तिबुद्धिहेतुत्वात् । धर्मपक्षेऽनवस्थाऽन्योन्याश्रयणे च परिहृते; प्रतियोगिनिरपेक्षजात्यादेरेव भेदत्वात् तस्यैव स्वपरनिर्वाहकत्वाभ्युपगमाच्च ।। अविद्यायाः ब्रह्मणो भेदोऽस्ति वा, न वा? न चेत्, ब्रह्मणो जडत्वादिप्रसङ्गः; अस्ति चेत्, स भेदः स्वरूपं वा धर्मो वेति विकल्पे दूषणपरिहारसाम्यं द्रष्टव्यम् । किञ्च स्वरूपधर्मविकल्प-दूषणपरिहारा अभेदेऽपि तुल्याः-अभेदः स्वरूपं चेत्, प्रतियोगिनिरपेक्षाभेदव्यवहारप्रसङ्गः । "परमात्मना भवत्य-भेदी", "घटध्वंसे घटाकाशो न भिन्नो नभसा यथा" इत्यादिष्वभेदः सप्रतियोगिको ह्यवसीयते । ब्रह्माद्वितीयमिति पदानां पर्यायत्वं स्यात् । धर्मश्चेत्, सविशेषत्व्म् । ततश्चापसिद्धान्त इति ।

इत्थं विषयदुर्निरूपत्वपक्षे प्रतिक्षिप्ते भेदप्रतीत्यनभ्युपगम एव परेषां शरणमिति तं निराकरोति अपि चेत्यादिना । प्रथमं प्रतिपत्तिविरोध उच्यते सन्मात्रेति; यदिचेत्यादिना व्यवहारविरोधः; सर्वास्वित्यादिना शब्दविरोधः ।। नन्वेकत्र स्मर्यन्त एव सर्वे शब्दाः, सर्वप्रतीतीनां सन्मात्रविषयत्वाभ्युपगमात् ।। नैवम्,-घटे प्रति-

पन्ने तत्र पटव्यवहाराप्रसङ्गस्यभिप्रेतत्वात् । अत्र प्रतिदूषणं सन्मात्रशब्दानुवृत्तिर्दूष्योर्थोऽयमेवेति स्मरणार्था । किञ्चेत्यादिना प्रतीत्यवान्तरजातिविशेषविरोध उक्तः । अत्र सन्मात्रशब्दाप्रयोगः किञ्चशब्देन दूष्यार्थप्रतिसन्धा-नात् । धारावाहिकज्ञानेषु कालभेदो ऽस्तीति तद्वयावृत्त्यर्थं विशेषाभावादित्युक्तम् । स्मृतिवैलक्षण्यं न स्यादिति । ज्ञात-तयैव परामर्शप्रसङ्ग इत्यर्थः ।। धारावाहिकबुद्धिष्विव ज्ञाततापारामर्शाभावोपपत्तिरिति चेन्न; तत्राप्रतिसन्धा-नस्य तादात्विकबुभुत्साभावाधीनत्वात् । अत्र तु सत्यामपि बुभुत्सायां ज्ञाततयापरामर्शाभावो विषयभेदमेवे व्य-वस्थापयति । प्रतिसंवेदनमिति । विशेषाभ्युपगमशङ्का परस्य गत्यन्तराभावद्योतनार्था । सर्वेषामित्यादिना कर-णव्यवस्थाऽभावप्रसङ्ग उक्तः । करणानां व्यवस्थासिध्द्यर्थं विषयभेदानाह न चेत्यादिना । अत्र पूर्वोक्तविशिष्ट-विषयप्रतिपत्तिविरोधविवरणम् अकारणत्वदुर्निरूपकारणत्वनिरसनं च कृतं भवति । रूपैकार्थसमवेतेति । रूप-समानाश्रयसमवेतेत्यर्थः । समवेतशब्दो विशेषणतैकस्वभावपरः । विशेष्यत इति विशेषः । तेन सन्मात्रविलक्षण-परस्परभिन्नविषयत्वसिद्धिः ।। ननु सर्वं प्रत्यक्षं सविशेषविषयमित्युक्तम्; शब्दगन्धरसानां साश्रयतया धर्मान्तर-वत्तया वा ग्रहणाभावात् तदग्राहिणः प्रत्यक्षस्य कथं सविशेषविषयत्वम् ।। नैतदेवम्; गुणकर्मणोरपि तत्तत्संस्था-नवत्तया कालविशिष्टतया च सविशेषत्वेन गृह्यमाणत्वात् । एतच्च निर्विकल्पकमपेक्ष्योक्तम् । सविकल्पके तु देशा-दीनां बहूनां विशेषणत्वं संभवत्येव । इन्द्रियाणां लोकसिद्धहेतुभिः सन्मात्रविषयत्वप्रतिक्षेपमुपसंहरति अत इति । प्रत्यक्षस्य सन्मात्रविषयत्वं पराभ्युपगतार्थान्तरविरुद्धं चेत्याह निविर्शेषेति । शास्त्रस्याप्राप्तविषयतयाऽर्थवत्त्वम्, लोकसिद्धत्वात् भेदस्य शास्त्रविषयित्वं वदद्भिः परैरेवाभ्युपेतम् । श्रुतिप्रामाण्यविरोध उक्तः; पराभिमतार्थान्तरवि-रोधमाह सन्मात्रब्रह्मण इति । ततः फलितमनिष्टमाह तत इति । एवमुपपादितं प्रत्यक्षस्य सन्मात्रग्राहित्वप्रतिक्षेपं स्वाभिमतार्थान्तरव्युत्पादनाय प्रत्यक्षस्य विशिष्टविषयत्वे पर्यवसाययति अत इति ।अतः इत्यादिभाष्येऽर्थद्वयमु- क्तम्-वस्तुसंस्थानरूपा जातिः, जात्यादिरेव भेद इति च । तत्र प्रथमं संस्थानमेव जातिरित्युपपादयति संस्थाने-त्यादिना । किं दर्शनेन अनुपपत्त्या वा उत संस्थानातिरिक्तजात्यभ्युपगम इति विकल्पभिप्रेत्य, दर्शनं नेत्याह संस्थानातिरेकिण इति । अयं सास्नादिमान् अयमपि सास्त्रादिमान्,अयं पृथुबुध्नोदराकारः, अयमपि तदाकार इति सास्नादिरनुवृत्तबुद्धिव्यवहारविषयोः दृश्यते; तदतिरिक्तोऽनुवृत्तधीव्यवहारविषयो न कश्चिदृश्यते; तस्मादि- त्यर्थः । यद्वा जातितया स्वाभि#ामतात् संस्थानात् पराभिमतजातेरसाधारणं रूपमुक्तम् एकाकारबुद्धिबोध्यस्येति । कल्पनमप्यनुपपन्नमित्याह तावतेति । व्युत्पत्तिरनुगतप्रयोगश्च व्यक्तिजातिविशेषादिशब्दा नामिव गवादिशब्दा-नामपि सुसदृशोपाधिवशादुपपद्यत इति भावः । नामान्तरेण पराभिमतजातेरभ्युपगतत्वशङ्काव्युदासायाह अतिरे-कवादेऽपीति । परैरवयविनोऽसमवायिकारणत्वेन संस्थानं स्वीकृतम् । किमिदं संस्थानं नाम? किमवयवसंयो-गविशेषः, उत स्वरूपमात्रम्? उतान्यत् किमपि? प्रथमे, निरवयवेष्वात्मसु संस्थानाभावादात्मत्वादिजातिर्न स्यात् । द्वितीये प्रत्यक्षस्य विशिष्टविषयत्वं न स्यात्; अनुगतव्यवहारश्च न स्यात्; जातिमात्रोच्छेदश्च स्यात् । तृतीये गत्याभावात् अस्मत्पक्षाङ्गीकार इति शङ्कायां निरवयवेष्वपि जातिव्यवहारसिध्द्यर्थं जात्यजातिसाधारणं संस्थानमात्रं(?) दर्शयति संस्थानं नामेति । घटस्य द्रव्यत्वं संस्थानं माभूदित्यसाधारणशब्दः । रूपम्-अपृथ-क्सिद्धविशेषणम्, तेन गर्भदासादिव्यवच्छेदः ।।

ननु स्वासाधारणमित्यत्र स्वशब्दः किं व्यक्तिपरः? उत सजातीयपरः? व्यक्तिपरत्वे च किमेकव्यक्तिपरः? उत सर्वव्यक्तिपरः? प्रथमे, एकव्यक्तयतिरिक्तव्यक्तिषु गोत्वं न स्यात् । स्वशब्दस्य सर्वव्यक्तिपरत्वे, महिषव्यक्ता- वपि गोत्वं स्यात् । असाधारणशब्दश्च निष्फलः । सजातीयपरत्वे जातेः संस्थानविशेषत्वात् समानसंस्थानविशेषा-

णामसाधारणं रूपं संस्थानमित्युक्तं स्यात् । ततश्चात्माश्रयः; संस्थाननिरूपणस्य तत्प्रतिपत्तिसापेक्षत्वात् ।। नैवम्; स्वशब्दस्य प्रकृतपरत्वात् प्रकृतत्वञ्च तद्वयवहारगोचरतया बुद्धिस्थत्वम् ।। एवं तर्हि खण्डे बुद्धिस्थे गोत्वं तदसाधारणमिति मुणडे गोत्वं न स्यात् । खण्डस्य वा गोः गोत्वं संस्थानं न स्यात्; मुण्डेऽपि विद्यामनतया गोत्व-स्य खण्ड साधारणत्वाभावादिति चेन्न-खण्डं प्रति गोत्वस्य संस्थानरूपत्वाभावात् । खण्डत्वमेव हि खण्डस्य संस्थानम् । किं तव खण्डो बुद्धिस्थः? उत गौः? उत खण्डो गौः? प्रथमे खण्डत्वमेव खण्डासाधारणमिति न मुण्डे गोत्वाभावप्रसङ्गः । अत एव खण्डं प्रति गोत्वस्य संस्थानरूपत्वाभावश्च नानिष्टः । द्वितीये, गोर्गोत्वमसा-धारणमिति महिषादौ गोत्वं निवर्तते, गोषु च वतर्त इति न कश्चिद्दोषः । तृतीये, यथा नीलोत्पलस्य नीलत्वविशे-षितमुत्पलत्वमसाधारणम् एवं खण्डस्य गोः खण्डत्वविशेषितगोत्वमसाधारणमिति मुण्डे खण्डत्वविशेषित-गोत्वमेव निवर्तते, न गोत्वमात्रमिति न काचिदनुपपत्तिः । नीलत्वविशेषितमुत्पलत्वमिन्दीवरशब्दप्रवृत्तिनिमि-त्तत्वादेकं संस्थानम् । खण्डत्वगोत्वे तु मिथो विशेषणविशेष्यभावेऽपि नैकं संस्थानम्, एकशब्दप्रवृत्तिनिमि-त्तत्वाभावादिति भिदा । अतः स्वासाधारणरूपं संस्थानम् ।। कस्तर्हि जातिरूपसास्थानानां शौक्ल्यादिभ्यो भेदः । स्वभावतारतम्याभावादिति ब्रूमः । शौक्लयादिषु हि शुक्लं शुक्लतरमिति तारतम्यं विद्यते । शब्दादिष्वप्यु-पाधितो वा स्वतो वा तीव्रतरत्वादितारतम्यमुपलभ्यते । खरत्वमृदुत्वादिस्वभावतारतम्यं स्पर्शादिष्वप्यस्ति । संख्यास्वपि न्यूनाधिकभाव उपलब्धः । परिमाणे च स्फुटतरः । एवं गोत्वादिषु गोतरो गोतम इति तारतम्यं नोपलभ्यते । एममादिवैषम्यं द्रष्टव्यम् । (संस्थानसामान्यलक्षणपक्षं त्युकत्वा ) जातिरूपसंस्थानलक्षणमिह विवक्षितं चेत्-प्रकृताकारेण सुसदृशव्यक्तयः समस्ताः स्वशब्देन विवक्षिताः । प्रकृताकारेणेति आत्माश्रयः परि- हृतः; संस्थाननिरूपणस्य संस्थानप्रतिपत्तिनैरपेक्ष्यात् । सुसदृशशब्देन महिषादावतिप्रसङ्गः परिहृतः । समस्त- शब्देन मुण्डादिष्वभावप्रसङ्गः परिहृतः । खण्डासाधारणत्वाभावात् गोत्वस्य ।

ननु व्यावृत्तं संस्थानमनुवृत्तव्यवहारस्य कथं निष्पादकम्? उच्यते-यथा व्यक्तित्वजातिविरहेऽपि बह्वीषु व्यक्तिषु व्यक्तिशब्दप्रयोगः, यथा गोत्वाश्वत्वादिजातिषु जात्यन्तराभावेपि जातिशब्दप्रयोगः, भिन्नेषु भिन्नत्वजा-त्यभावेऽपि भिन्नशब्दप्रयोगः, खण्डादिषु खण्डत्वादिजात्यभावेऽपि खण्डादिशब्दप्रयोगः, यथा च नित्यद्रव्येषु विशेषमिच्छतां विशेषेषु विशेषत्वाभावेऽपि विशेषशब्दप्रयोगः- तद्वत् गवादिशब्दव्यवहार उपपद्यत इति । किञ्च कोऽयमनुवृत्तव्यवहारः इति निरूप्यम् । गकारौकारविसर्जनीयानामानुपूर्वीं यावदाकाशभाविनां देशतः कालतश्च नोपपद्य इति तस्या उच्चारणनिबन्धनत्वादुच्चारणस्य च विनाशित्वादानुपूर्वी च प्रतियोगिविनाशिनीत्यानुपूर्वीविशे-षविशिष्टस्य शब्दस्य कथमनुवृत्तिः? ।। सुसदृशत्वमेव शब्दानामनुवृत्तिरिति चेत्- अर्थानामपि गोत्वादीनां तथा-भूतानुवृत्तिरित्यङ्गीक्रियताम् ।। ननु किमिदं सौसादृश्यम् ।। उच्यते । सदृशब्यवहारासाधारणहेतुर्विषयधर्मः सादृ- श्यम् । स च भ्रातृत्ववत् प्रतियोगिनिरूप्यपदार्थः प्रतिव्यक्ति व्यावृत्तः । अतो न वृत्तिविकल्पादिदौर्धट्यम् । निर्दिष्टाकारपौष्कल्यतः सादृश्यं सौसादृश्यमिति । विशेष्यवाचिशब्दप्रवृत्तिनिमित्तपौष्कल्यं निर्दिष्टकारपौष्कल्यं विवक्षितं पौष्यकल्यशब्देन । गवयनिष्ठगोसादृश्यं न सौसादृश्यमिति सिध्यति । नन्वेवं तर्हि प्रथमेतरगोव्यक्तिषु गवा सुसदृश इत्येव प्रयोगः स्यात्; न तु गौरिति इति चेत्- यदि विवक्षा, तदा प्रयुज्यताम्-अयं गौः, अयं गवा सुसदृश इति प्रयोगेऽर्थभेदाभावात् ।। किं तर्हि न प्रयुज्यत इति चेत्- व्यवहारगौरवादिति ब्रूमः, गौरिति व्यवहारे हि लाघवात् सौकर्यमस्ति । ननु तर्हि तत्सदृशि तच्छब्दो माणवकेऽग्निशब्दवदौपचारिकः स्यात् ।। न; सौसादृश्य-लक्षणानुवृत्त्यभावनिबन्धनत्वादौपचारिकत्वस्य । न हि माणवकाग्न्योः सौसादृश्यम्; किन्तु सादृश्यलेशमात्रम् ।

पक्षे तु सौसादृश्यलक्षणानुवृत्तिरुपलभ्यते, तस्य च मुख्यताहेतुत्वं वृद्धव्यवहारसिद्धम्, यथा जात्यादिशब्दानाम् । अतोऽनुवृत्तप्रयोग उपपन्नः । कस्मिश्चिदर्थे कस्यचिच्छब्दस्य व्युत्पत्तिः तत्सुसदृशेऽर्थे सुसदृशस्य तस्यैव शब्दस्य प्रयोगे हेतुरिति यथादर्शनमभ्युपगन्तव्यम् । अप्रतिपन्नमर्थान्तरं कल्पयित्वा वृत्तिविकल्पादिदोषाणां प्रतीति-शरणतया परिहारादपि परिदृष्ट एव वस्तुनि प्रतीतिबलेन चोद्यपरिहारो लाघवन्यायादुपपद्यते । व्याप्तिग्रहणञ्च सौसादृश्यलक्षणानुवृत्तेरेवोपपद्यत इति तदपि न त्वदभिमतजातिकल्पकम् । अतः संस्थानानतिरिक्ता जातिः ।।

ननु संस्थानस्यासाधारणाकारत्वात् तेन विना संस्थानिनः प्रतीत्यनुपपत्तेश्च शुक्तयादौ रजतादिभ्रमो न स्यात् । न ह्यसाधारणाकारस्फूर्तौ भ्रमः संभवतीति चेत्-न; केनाऽपि संस्थानेन प्रतिपन्नवस्तुनि प्रतिपन्नसंस्था-नाविरोध्याकारविषयभ्रमोपपत्तेः । प्रतिपन्नसंस्थानविरोध्याकारभ्रमस्यैव ह्युत्पत्त्यसम्भवः । इदं शुक्लमिति प्रतीतौ न काष्र्ण्यादिभ्रमः । शौक्लयं हि शुकलस्यासाधारणम्, न शुक्तेः । अतोऽसाधारणाकारप्रतीतिर्भ्रान्तिश्चोपपद्यते ।। एवमापेक्षिकं चेदसाधारण्यम्, तर्ह्यसाधारणशब्दवैयर्थ्यं स्यात् । न हि किमपि रूपं कस्यचिदसाधारणं न भव- तीति चेन्न-शुक्तयपेक्षया शौक्लयस्य संस्थानत्वव्युदासार्थत्वादसाधारणशब्दस्य । अतः स्वासाधारणरूपं संस्था- नम्; ततो नातिरिक्ता जातिरिति सिद्धम् ।

इत्थं संस्थानमेव जातिरित्युपपाद्य गोत्वादेरेव भेदत्वं पूर्वप्रस्तुतमुपपादयति जातिग्रहणेनेति । प्रतियो-गिनिरपेक्षो गोत्वादिः प्रतियोगिसापेक्षे भेदो भवितुं नार्हति; अतः प्रतियोगिसापेक्षतरेतराभावो गोत्वाद्यतिरिक्तो भेदोऽभ्यपगन्तुमुचित इति शङ्कायामुच्यते । जातिग्रहणेनेतिप्रतियोगिनिरपेक्षो गोत्वादिः प्रतियोगि सापेक्षो भेदो-भवितुं नार्हति । अतः प्रतियोगि सापेक्षेतरेतराभावो गोत्वाद्यतिरिक्तो भेदोभ्युपगन्तुं उचित इति शङ्कायां उच्यते । जातिग्रहणेनैव भिन्न इति व्यवहारसम्भवादिति । अयमर्थः-गोत्वादिव्यतिरिक्तभेदमङ्गीकुर्वताप्यभावाभावे प्रति-योगिनिरपेक्षभावरूपपदार्थस्यैव प्रतियोगिसापेक्षाभावत्वमङ्गीकृतम्; अन्यथाऽनवस्थानात् अनुपलम्भाच्च । तद्वद-त्रापि संभवति; प्रतियोगिसापेक्षत्वस्य प्रतियोगिनिरूपितवेषप्रवृत्तिनिमित्तकशब्दस्वभावाधीनत्वेनार्थस्वरूपभेद-हेतुत्वाभावादिति । एवमनुपपत्तिर्नास्तीत्युक्तम्; दर्शनञ्च नेत्याह पदार्थान्तरादर्शनादिति । नामान्तरेणेतरेतरा-भावाभ्युपगमशङ्कायां व्युदस्यति अर्थान्तरेति ।अर्थान्तरवादिना-इतरेतराभावरूपो भेदोऽप्यस्तीति वदतेत्यर्थः । पूर्वं प्रतियोग्यपेक्षया भेदव्यवहार इत्युक्तम्; अत्र तन्निरपेक्षगोत्वादिर्भेद उक्तः । तर्हि भेदव्यवहारोऽपि प्रतियोगि-निरपेक्षः प्रसजेदित्यभिप्रायेण चोदयति ननु चेति । एकार्थविषयानेकचोद्यपरः ईदृशश्चशब्दः । सत्यमिति । प्रति-योग्यनपेक्षभेदस्वरूपव्यवहारेऽभ्युपगमः,भेदशब्दादिव्यवहारविशेषे त्वनभ्युपगमः । भेदश्च व्यवह्नियत एवेति । न केवलं गृह्यते, प्रतियोगिनिरपेक्षं व्यवह्नियते चेति चार्थः । उपपादयति गोत्वादिव्यवहारादिति । कथं गोत्वादिव्य- हारे सति भेदव्यवहार इत्यत्राह गोत्वादिरिति । गोत्वादिरेव कथं व्यावृत्तिरित्यत्राह गोत्वादाविति । निर्दिष्ट-सामान्यानन्तरपरसामान्यापेक्षया तद्विशेषाणां सजातीयत्वं विवक्षितम् । अत्र तिर्यकत्वेन सजातीयो महिषादिगो-त्वव्यवच्छेद्यः । व्यावृत्तेः सजातीयबुद्धिव्यवहारनिवृत्तिहेतुत्वमस्तु; ततः किं व्यावृत्तेभेदत्वे इत्यत्राह भेदग्रहणेनैव ह्यभेदनिवृत्तिरिति । अभेदनिवृत्तिः-अभेदधीनिवृत्तिः । एवं गोत्वादेः प्रतीतौ हानोपादानादौ गोत्वादिशब्दव्यव- हारे च न प्रतियोग्यपेक्षेत्युक्तम्; तर्हि कथम्,यमस्माद्भिन्न इत्यत्र प्रतियोग्यपेक्षेति शङ्कायामाह अयमस्मादिति । न हानादिव्यवहारे; नापि शब्दव्यवहारमात्रे;अपि तु शाब्दव्यवहारविशेष एवेति ज्ञापयति तु शब्दः ।

भेदश्च व्यवह्नि-यत एवेत्यादिना भेदग्रहणेनैव ह्यभेदनिवृत्तिरित्यन्तेन कस्यचिद्वस्तुनो वस्त्वन्तरा-द्व्यावर्तकधमर्स्यैव स्वयमेव स्वव्यावृत्तिरूपत्वसम्भवः; परनिर्वाहकत्वाभावे स्वनिर्वाहकत्वासम्भवात् । स्वरूपे

प्रकाशमाने भ्रमविरोधिनश्च न व्यावृत्तिरूपधर्मान्तरापेक्षेत्युक्तं भवति । एवञ्च सति ब्रह्मणः कस्यचिद्वस्तुनो वस्त्व-न्तराद्यावर्तकधमर्रूपत्वाभावात्, स्वरूपे भासमाने अध्याससहत्वाच्च न स्वरूपमेव व्यावृत्तिरिति सिध्यति ।।

ननु धर्मिणः स्वरूपमेव तद्गतभावाभावरूपसकलधर्मान्तरापेक्षया भेद इत्यन्ततो गत्वाऽभ्युपगन्तव्यम्, भेदान्तराभ्युपगमे तस्मात्स्वरूपस्य भेदापेक्षायामनवस्थाप्रसङ्गात् ।। सत्यम् । स तु स्वरूपभेदो नाध्यासविरोधी; तन्निवृत्तौ धर्मान्तरान्वयसापेक्षत्वात् । पटद्रव्यस्य रूपाव्यतिरेकभ्रमो हि स्पर्शसामानाधिकरण्यबुद्धिनिवत्र्त्यः । अतो धर्मिस्वरूपस्य स्वगतधर्मापेक्षया भ्रमविरोधिभेदो धर्मान्तरान्वयः । अतो धर्मणांस्वरूपस्यैव स्वाश्रयस्य स्वविरुद्धधर्मान्तरधमर्यन्तरापेक्षयाऽध्यासविरोधिभेदत्वसम्भवः । विशिष्टस्य तु वस्तुनः स्वरूपमेव विशिष्टं स्व-विरुद्धविशेषणविशिष्टवस्त्वन्तराद्वयावृत्तिरिति च युक्तम् ,अर्थान्तरैक्यभ्रमविरोधित्वात् । तत्र विशेषणापेक्षया विशेष्यस्य स्वरूपमेव भेदः । विशेष्यापेक्षया विशेषणस्य स्वरूपमेव भेदः । तदुभयापेक्षया च सम्बन्धस्य स्वरूप- मेव भेदः । विशिष्टस्य विशिष्टान्तरापेक्षया स्वरूपमेव भेदः । स्वरूपस्य भेद इति निर्देशस्तु पदार्थस्वरूपमिति-वदनतिरिक्तार्थः । तत्तदसाधारणशब्दवाच्यं स्वरूपम् । स च शब्दो व्युत्पत्तिसिद्धः । प्रतियोगितयाऽभिमतार्था-न्तरैक्यधीविरोधि वा स्वरूपम् । अतः कस्यचिद्धर्मत्वाभावात् धर्मविशिष्टत्वाभावात् स्वरूपे भासमानेऽपि भ्रमसहत्वाच्च ब्रह्मणः स्वरूपमेव जडत्वाद्यध्यासविरोधिनी व्यावृत्तिर्भवितुं नार्हतीति सिद्धम् ।।

इत्थं प्रमाणप्रमेयानुपपत्ती परिहृते; अथ परोक्तमनुमानमनूद्य दूषयति यत्पुनरित्यादिना । पुनःशब्दः केवलतर्कादनुमानस्य वैषम्यं द्योतयति । दृश्यत्वानुमानस्य सूत्रकारैरेव दूषयिष्यमाणत्वाद् वक्ष्यमाणदूषणस्य मिथ्यात्वविषयसर्वानुमानानां दूष्यत्वप्रदर्शनार्थत्वाच्च व्यावर्तमानत्वानुमानमिह दूष्यते । साधारणदूषणानि काला-त्ययापदेश-सोपाधिकत्वव्याघाताः ।

तत्राश्रयः प्रतीतो न वा? न चेत्, आश्रयासिद्धिः । प्रतीतत्वे, प्रतीतिश्च प्रत्यक्षादिप्रमाणैः सत्यत्वेनेति तस्य मिथ्यात्वसाधनं धर्मिग्राहकप्रमाणबाधितम् प्रतिपन्नोपाधौ बाधितत्वस्य मिथ्यात्वे प्रयोजकतया सोपाधिक- त्वञ्च वक्ष्यते । तत्र देशकालविषयभ्रमेष्वपि वस्त्वन्तरस्योपाधित्वात् अनुदितबाधकज्ञानेषु भ्रान्तिष्वपि(?) चोद-यितृपुरुषज्ञानेन बाधितत्वाच्च विशेषणविशेष्यांशसिद्धेर्विशिष्टोपाधिसिद्धिरिति विस्तरेण वक्ष्यामः ।

साध्यधर्मस्य पारमार्थ्यापारमार्थ्यविकल्पे कृते, पारमार्थ्यं चेत्,अद्वैतहानिः; दृश्यत्वहेतोरनैकान्त्यञ्च; परमार्थेऽपि तस्य वृत्तेः । अपारमार्थ्ये, प्रपञ्चसत्यता; "बाधकबाधे बाध्यस्वरूपाबाधः" इति न्यायात् । अत एव हि, "द्वौ नञौ प्रकृतमर्थ सूचयतः" इति शाब्दप्रसिद्धिः । "धर्मे धर्मान्तरारोपणेन प्रत्यवस्थानादियं नित्यसमा जातिः" इति न वाच्यम्; अप्रामाणिकधर्मपरम्परापादनेन दूषणं हि नित्यसमा । मिथ्यात्वमिथ्यात्वं प्रामाणिकम्; माध्यमिकोक्तस्य ज्ञानबाध्यत्वस्य भवता बाध्यत्वाभ्युपगमात्; परमार्थरज्जौ रज्जुबुद्धेः सर्वबुध्द्या बाध्यत्वस्य बाध्यत्वदर्शनाच्च ।। तर्हि सत्यत्वेऽपि सत्यत्वं किमस्ति, उत नास्ति? न चेत्, असत्यं जगत्स्यात् । अस्ति चेत्, तस्यापि सत्यत्वमित्यनवस्थेति चेन्न-स्वपरनिर्वाहकत्वाभ्युपगमात् । यदि त्वया मिथ्यात्वेऽपि स्वपरनिर्वाकत्व-मङ्गीक्रियते, तर्हि मिथ्यात्वस्यैव स्वमिथ्यात्वनिर्वाहकत्वात् मिथ्यात्वं मिथ्यात्वान्तरमनपेक्ष्य स्वयमेव मिथ्येति प्रपञ्चः सत्यः स्यात् ।। साधनस्य पारमार्थ्यापारमार्थ्यविकल्पे कृते-पारमार्थ्ये, अद्वैतहानिः; अपारमार्थ्ये, धूमबु- द्धया गृहीतबाष्पवत् असाधकत्वमिति व्याघातः ।। भेदवादिनापि हि न प्रपञ्चसत्यत्वहेतुसत्यत्वसाधनपूर्वकमनुमा-नान्युपन्यस्यन्ते; तथापि तदुपपद्यते; तद्वन्ममापीति चेन्न-सत्यत्वासाधनेऽपि नास्माकं स्वाभ्युपगमव्याहतिः; तव तु मिथ्यात्वाभ्युपगमसाधकत्वाभ्युपगमव्याहतिरिति वैषम्यात् ।। ननु न साधनधर्मपारमार्थ्यमपेक्षितम् । नाशके

मुद्गरे नष्टेऽपि पूर्वनष्टो घटो नष्ट एव दृष्टः, नोत्पन्नः । तद्वत् बाधकज्ञानस्य मिथ्यात्वेऽपि तद्बाधितस्य मिथ्यात्वं तिष्ठत्येवेति चेन्न-कारकज्ञापकयोवैषम्यात् । नाशको हि कारकः । अतस्तन्नाश्यस्य तस्मिन्नष्टेऽपि नाश एव; तथा दर्शनात् बाधकञ्च ज्ञापकः । तस्मिन् बाधिते तद्वाध्यं च सत्यमेव स्यात् । अपवरकस्थघटाभावे केनचिदुक्ते अस्तीति वचनेन बाधिते घटसत्यत्वदर्शनात् ।। ननु बाधकबाधे पूर्वबाधितस्य सत्यत्वं वक्तुमयुक्तम्; बृन्तविषय-भ्रमरत्वभ्रमबाधेऽपि भ्रमरत्वबुद्धिबाधितस्य पलाशपुष्पविषयाग्निभ्रमस्य अबाधितत्वदर्शनादिति चेत्-तत्र किं वस्तुनिवृत्तिः बुद्धिनिवृत्तिर्वोच्यते? न प्रथमः; दावत्वस्य परमार्थभूतवृन्तबाध्यत्वदर्शनात् । बुद्धिनिवृत्तिश्चेत्, सा न बाधकाधीना । ज्ञानानां क्षणिकत्वात् स्वयं निवृत्तेः । भ्रमरबुद्धिस्तूतरकालीनदावबुद्धयुत्पत्तिप्रतिबन्धिका । तत्प्रतिबन्धकत्वञ्च भ्रमरपारमाथ्यर्बुद्धेरेव । अन्यथा पूर्वभ्रमनिवृत्त्यभावदर्शनात् । ततश्च त्वन्मते कदाचिदपि न निश्शेषभ्रमनिवृत्तिः सिध्यति । बुद्धिनिवृत्तेर्बाधकविज्ञानजन्यत्वपक्षेपि निवर्त्तकज्ञानानां सर्वेषां भ्रान्तिरूपोत्तरोत्त-रनिवर्त्तकज्ञानापेक्षतया भ्रमपरम्परापत्तेः । उत्तरस्य कस्यचित् ज्ञानस्य स्वयं नाशे काल्पनिकघटादिनाशस्येव तन्नाशस्य काल्पनिकत्वात् नाशक्लृप्तिरूपभ्रान्तिः स्थिरेति निश्शेषभ्रमनिवृत्तिरूपो मोक्षोऽनुपपन्न इति कृत्स्न-मिथ्यात्वनिश्शेषाविद्यानिवृत्तिव्याघातः । एवमादिव्याघाता अनुसन्धेयाः । सोपाधिकत्वं चानन्तरमेव वक्ष्यते ।

दृश्यत्वव्यावर्तमानत्वयोरसाधारणं दूषणं ब्रह्मण्यनैकान्त्यम् । (1)अध्यस्तं स्वाधिष्ठानसमानाधिकरण-तया वेद्यं, यथा इदं रजतमिति । एवं घटस्सन् पटस्सन्नित्यधिष्ठानस्य सतः प्रपञ्चस्य चैकधीवेद्यत्वाद् दृश्यत्वमनै-कान्तिकम् । यद्यपि नभो मलिनमित्यध्यासे नभसो अचाक्षुषत्वादेकधीवेद्यत्वमध्यस्ताधिष्ठानयोर्न नियतम्, तथा- पि सन्मात्रस्य प्रत्यक्षग्राह्यत्वं परोपगतमिति सिद्धमनैकान्त्यम् ।। ननु दृश्यत्वनियमोऽत्र हेतुतया विवक्षितः । स तु दृश्यत्वनियमः सतो नास्ति; सतः स्वयंप्रकाशत्वात् ।। तदपि कथम् । सदनुभूत्योर्भेदाभावादिति चेन्न-अन्योन्या-श्रयणात्; सदनुभूत्योर्भेदाभावे सिद्धे सतः स्वयंप्रकाशत्वेन दृश्यत्वनियमासिद्धेर्दृश्यत्वहेतोरनैकान्त्यपरिहृतिः, अन-#ैकान्तिकत्वे परिहृते भेदभाव इति । यद्यनुमानान्तरेण भेदनिषेधः, तर्ह्यस्मिन् सिद्धसाध्द्यता । एवं परोपगमे-नैकान्त्यमुक्तम् । किञ्च ब्रह्मणो दृश्यत्वं श्रुतिसिद्धम्, "दृश्यते त्वग्रयया बुद्धया" "आत्मा वा अरे द्रष्टव्यः" इति । अनुभूतित्वादित्याद्यनुमानेन दृश्यत्वाभावे साध्ये कालात्ययापदेशः । "यत्तदद्रेश्यम्" इति वाक्याद्दृश्यत्वश्रुतिर्बा- ध्येति चेन्न, दृश्यत्वसामान्यनिषेधपरत्वात् तस्य; "दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः" इत्यस्य दृश्य-त्वविशेषविधानविषयत्वाच्च; "न चक्षुषा गृह्यते नापि वाचा "नान्यैर्देवैः", "मनसा तु विशुद्धेन" इत्यादौ दृश्यत्व-विशेषनिषेधदशर्नादद्रेश्यमित्यादिसामान्यनिषेधस्य तत्पर्यमसायित्वाच्च ।। अद्रेश्यमित्यादिसामान्यश्रुत्या दृश्य-त्वाभावसाधकानुमानेन च ब्रह्मणो न दृश्यत्वमिति चेन्न; तर्हि "न हिंस्यात् सर्वा भूतानि" इति सामान्यनिषेध- श्रुत्या हिंसात्वादित्यनुमानेन च अग्नीषोमीयर्हिंसानिवृत्तिप्रसङ्गात् । अतो ब्रह्मणि दृश्यत्वमनैकान्तिकम् । अनै-कान्तिके (कत्वे?)परिजिहीर्षिते ब्रह्मणो मिथ्यात्वं वाभ्युपगन्तव्यं स्यात् ।। दृश्यतैकस्वभावत्वं हि हेतुत्वाभिमत-मिति नानैकान्त्यमे; ब्रह्म हि स्वयंप्रकाशमिति न दृश्यतैकस्वभावमिति चेन्न-तदानीं हेतोर्भागासिद्धिः स्यात्; चिदचिदात्मके प्रपञ्चे जीवांशस्य स्वयंप्रकाशत्वात् । अचिदंशमात्रपक्षीकारे हेतोर्जीवगतनित्यत्वादिधर्मेष्वनैका-न्तिकत्वम् । ते हि धर्मभूतज्ञानवेद्या एव, परमार्थभूताश्चा ।। (2) व्यावर्त्तमानत्वमपि ब्रह्मण्यनैकान्तिकम्; अनृतादिभ्यो व्यावृत्तत्वेनाभ्युपगमात् । तच्च स्वरूपमात्रमिति न शक्यं वक्तुम्, ब्रह्मणः कस्यचिद्धर्मत्वाभावात् अध्याससहत्वाच्च । व्यावर्त्तमानत्वस्य स्वरूपत्वेऽपि तत् स्वकार्यकरम् अनुभूतित्ववत् । हेतोः स्वरूपानतिरेके- ऽपि साधनदशायां कार्यकरत्वम्, न तु दूषणदशायामिति नियामकाभावात् । किञ्च ब्रह्मणि स्वरूपं व्यावृत्तिश्चेत्,

घटादिष्वपि तथाऽस्तु । यदि ब्रह्मणि स्वरूपातिरिक्ता सा, तर्हि घटादिष्वपि तथा स्यात् । सर्वथानैकान्त्यमवर्ज-नीयम् । जडादिव्यावृत्तत्वं ब्रह्मणोऽपरमार्थश्चेत् वस्तुतो ब्रह्म जडमेव स्यात् । अपरमार्थशब्दश्च निष्फलः; घटादा- वपि व्यावर्त्तमानत्वस्य मिथ्यात्वेन व्यावर्त्याभावात् । ततश्चानैकान्त्यं सुस्थम्; अपरमार्थस्यैव हेतुतया त्वयाङ्गीकृत-त्वात् तस्य च विपक्षेऽपि वर्त्तमानत्वात् । किञ्च अनुवर्त्तमानस्य सन्मात्रस्य निषेधस्य तत्पर्यवसायित्वाच्च । अद्रेश्य-मिन्यादि सामान्य व्यावर्त्तमानेभ्यो घटादिभ्यो व्यावृत्तिरस्ति वा न वा? अस्ति चेत्, तत एव व्यावर्त्तमानत्वहेतु-ब्रह्मण्यनैकान्तिकः । नो चेत्, घटादिष्विव व्यावर्त्तमानत्वं ब्रह्मणि स्यात्; व्यावर्त्तमानेभ्यो व्यावर्त्तमानत्वाभा- वात् । यथा रजतादिव्यावृत्तं रजतम्, तथा व्यावर्त्तमानादव्यावृत्तमपि हि व्यावर्त्तमानमेव भवति ।अत उभयथापि ब्रह्मण्यनैकान्त्यम् ।। ननु ब्रह्म जडादिव्यावृत्तमेव; व्यावर्त्तमानत्वं च सत्यम्; तच्च स्वरूपमिति नाद्वैतहानिः । तस्य च सत्यत्वान्न जडत्वादि ब्रह्मणः । ततश्च नानैकान्त्यम् । अपरमार्थभूतं घटादिगतं व्यावर्त्तमानत्वं हि हेतु- रिति चेत्-यद्यपरमार्थभूतं घटादिगतं व्यावर्त्तमानत्वं हेतुतया विवक्षितम्, तर्हि असिद्धो हेतुः; घटादीनां मिथो व्यावृत्तेरसत्यत्वोपगमात् ।

यत्पुनरित्यादिना सोपाधिकत्वं प्रतिजानीते । पूर्वं परेण बाधस्यापि पक्षाद्(द?) व्यावृत्त्युपपादनेनोपा- धित्वं प्रत्युक्तम्; तद्वयुदासाय पक्षे बाधाभावं दर्शयितुं बाघं शिक्षयति द्वयोरिति । विरोधे सत्येव बाध्यबाधकभावः; न त्वस्नि#ास्तीतिप्रत्ययमात्रयोरित्यर्थः । बाधितस्यैव व्यावृत्तिरिति । प्रतिपन्नोपाधौ बाधितस्यैव मिथ्यात्वसा- धिका व्या-वृत्तिः; न त्वगृहीतत्वमात्रं मिथ्यात्वसाधकमित्यर्थः । अत्र व्यावृत्तिविशेषो व्यावृत्तिशब्दोक्तः उत्तरत्र व्यावर्तमानत्वमात्रमिति मात्रच्प्रत्ययसद्भावात् । ततः किं पक्षे बाधाभावस्येत्यत्राह अत्रेति । देशयोः कालयोश्च भेदे सति अविरोधं दर्शयितुं तयोरैक्ये विरोधबाधौ दर्शयति यस्मिन्निति । भावाभावविरोधादन्यतरस्य बाध्यत्वे सति बलवतो बाधकत्वमितरस्य बाधितत्वात् निवृत्तिश्चेत्यर्थः । च एवार्थे । बाधितस्यैव त्वदभिमतव्यावृत्तिविशेष इत्यर्थः । सामानाधिकरण्यानर्हत्वं विरोधः । अदुष्टकारणजन्या निषेधधीर्बाधः । अदुष्टकारणजन्यत्वे सति निषे-धरूपत्वं बाधकत्वम् । पुरोवर्तिनि अभावोऽनवभासो वा सत्यत्वावभासाभावो वा निवृत्तिः । पक्षे घटादौ देश-कालभेदेन विराधबाधाभावावुपपादयति देशान्तरेति । विरोधबाधाभावात् तत्फलभूतनिवृत्तिरपि नेत्याह अन्य- त्रेति । अन्यत्र निवृत्तस्य । अन्यत्र-विरोधबाधरहितस्थले निवृत्तस्य । अन्यत्र विरोधबाधरहितस्थले । यद्वा अन्यत्र स्वदेशकालव्यतिरिक्तदेशकालयोः । अन्यत्र स्वदेशकालयोः । एतद्वैधर्म्यं दृष्टान्तेन विवृणोति रज्जुसर्पा-दिष्विति । तुशब्दो घटादिवैषम्यपरः । इत्यं दूषणोपयोगिनी व्याप्तिः शिक्षिता; अथानुमानदूषणसिदिं्ध दशर्यति इति देशकालान्तरेति । इतिर्हेतौ । मिथ्यात्वं व्यापकम्; व्यावर्तमानत्वं व्याप्यम् । व्यावर्तमानत्वमात्रमिति मात्रशब्देन विरोधबाधहेतुकव्यावृत्तिर्व्यावत्र्त्यते ।

यद्वा, व्यावर्त्तमानत्वहेतोरसिदिं्ध प्रतिजानीते-यत्पुनरित्यादिना । तदर्थं बाधमूलं विरोध इत्याह द्वयो- रिति । पक्षे तदभावं दर्शयति अत्रेति । विरोधाभावमुपपादयति यस्मिन्निति । तत्फलनिवृत्तिमाह अन्यत्रेति । दृष्टान्ते तद्वैधर्म्यं दर्शयतिरज्विति । एवमसिदिं्ध वक्तुं विभागो दर्शितः । अथासिद्धिमाह इति देशकालान्तरेति । सोपाधिकत्वमार्थम् ।

अयमर्थः-किं पटोऽस्तीत्यत्र घटाभावः सिषाधयिषितः उत घटोऽस्तीत्यत्रापि तदभावः? प्रथमे सिद्धसा-ध्यता । द्वितीये व्यावर्त्तमानत्वशब्देन किं व्यावृत्तिबुद्धिबोध्वत्वं मिथ्यात्वहेतुतया विवक्षितम्, उत प्रतिपन्नोपाधौ बाधितस्य व्यावृत्तिः । प्रथमे सोपाधिकत्वम् । द्वितीये हेत्वसिद्धया घटादेः सत्यत्वमिति ।। ननु बाधार्हताया उपाधि-

त्वे साध्याविशिष्टता स्यादिति बाधिकत्वमेवोपाधिः स्यात्; तस्य न साध्यसमव्यातिः । असहायेन गच्छता पथि दृष्टस्य रज्जुसर्पस्य केनाप्न्यबाधितत्वादिति चेत्-नैवम्,-ईश्वरादिज्ञानेन बाधितत्वनियमात् । अनभ्युपगतेश्वरा- दीनां पक्षेऽप्यमुपाधिरेव; किं त्वया तस्य पथि दृष्टस्य रज्जुसर्पस्य मिथ्यात्वं प्रमाणतोऽवगतम्, न वा? न चेत्, सम्यक् सर्प एवेति तत्रावृत्तिर्न साध्यसमव्याप्त्यभावाय स्यात् । अवगतं चेत्, तत एव ज्ञानात्तस्य बाधितत्वं सिद्ध-मिति साध्यसमव्याप्तिसिद्धिः ।। ननु किं प्रतिपन्नोपाधौ बाधो मिथ्यात्वे प्रयोजकः; उत केवलबाधः? प्रथमे, देश-कालयोरुपाधित्वात् देशकालभ्रमस्य देशकालोपाधिकत्वाभावेन सर्वसपक्षाननुयायित्वेन साध्यसमव्याप्त्यभावात् प्रतिपन्नेपाधौ बाधौ नोपाधिः स्यात् । द्वितीये कृत्स्नमिथ्यात्वमिति ।। अत्रोच्यते-न हि देशकालावेव उपाधिरिति नियमः; किन्तु वस्त्वन्तरमपि उपाधिः । उपाधिः अवच्छेदकः । अतराव हि देशकालादिप्रतिपन्नोपाधौ अबाधि-तत्वादित्यत्रादिशब्देन वस्त्वन्तरस्याप्युपाधित्वं भाष्यकारैर्वक्ष्यते । तस्मात् देशकालभ्रमे वस्त्वन्तरमुपाधिः । देशकालाभ्रमस्य वस्त्वन्तरमुपाधिकत्वेऽपि वसुभ्रमस्य देशकालोपाधिकत्वे नान्योन्याश्रयः, भ्रमव्यक्तिभेदात् । तस्मात् यदवच्छेदकावच्छिन्नं यत् प्रतिपन्नम्, तदवच्छेदकावच्छिन्नस्य बाधो मिथ्यात्वे प्रयोजकः । यद्वा-आरो-पितेन सायन्त्वादिना तन्निवर्त्तकेन दिवात्वादिना च विना क्रियान्तरावच्छिन्नकालस्य भ्रान्त्युपाधित्वम्; एवं देशेऽपीति न कश्चिद्दोषः । एवं विशिष्टोपाधौ विशेषणविशेष्यांशयोः पतिहृताऽनुपपत्तिकत्वेन विशिष्टोपाधिसिद्धिः । अतो न व्यावर्त्तमानत्वमात्रमपारमार्थ्यहेतुः । कैश्चिदेवमुक्तम् घटोऽस्तीत्यत्र किं घटोस्तिशब्दौ पर्यायौ उत न? पर्यायत्वे सह प्रयोगो न स्यात् । नो चेत्, सद्विलक्षणो घट इति ।। नैवम्; "अस्ति ब्रह्मेति चेद्वेद"इत्यादौ च अस्ति-ब्रह्मशब्दयोः पर्यायत्वे पौनरुक्त्यम्; नो चेत्, ब्रह्मणोऽपि सद्विलक्षणत्वमिति । उमयत्रायं परिहारः-स्वशब्दप्राप्त- स्य स्वभावस्यैव निषेधार्थानुवादशङ्कापरिहारायास्तिशब्देन नियमः क्रियत इति ।।

अथ पारमार्थ्यसाधकत्वेनोक्तमनुवर्त्तमानस्वं दूषयति यत्त्वित्यादिना । प्रमाणसम्बन्धार्हतत्तद्घटादिस्व-रूपस्य सच्छब्दवाच्यस्य किं पारमार्थ्यं साध्यते, उत उधिष्ठानतयाऽनुवृत्तस्वार्थान्तरस्य इति विकल्पे द्वितीयशि-रस्याश्रयासिद्धिमाभिप्रेत्य प्रथमे सिरसि सिद्धसाधनत्वं दूषणमुक्तम् । ननु सदेव परमार्थ इति हि ग्रन्थकाराभि-प्रायः, तत् कथं सिद्धसाधनत्वमिति ।। उच्यते । एतदनुमानं किं सतः पारमार्थ्यसाधकम्, उत व्यतिरिक्तापारमा-थ्यस्य, उतोभयस्य? । प्रथमे सिद्धसाध्यता । द्वितीये व्यधिकरणऽसिद्धता (च) । तृतीयेअंशे सिद्धसाध्यता, अंशे व्यधिकरणासिद्धिश्चेति । निगमयति अत इति । परेण प्रमाणप्रमेयानुपपत्तिकृतं भेददूषणमुपजीव्य अनुभूतेः सतो-(अनुभूतिसतोः) भेदोऽपास्तः । अत्र च भेददूषणहेत्वाभासनिरासमुपजीव्यानुभूतिसतोरभेदश्च निरस्यते अनुभूती-त्यादिना ।अनुभूतिसद्विशेषयोरित्यत्र विशेषशब्देन अनुवर्त्तमानत्वहेतोराश्रयासिद्धिः सूच्यते; सच्छव्दवाच्यस्य वस्तुनो व्यावत्तत्वादनुवृत्तार्थान्तराभावाच्च ।। सच्छब्दः प्रमाणसम्बन्धयोग्ये हि वर्त्तते । घटः सन् पटः सन्नित्यनु-वृत्तव्यवहारो व्यावृत्तशब्दवत् उपपन्न इति प्रमाणसम्बन्धार्हाः पदार्थाः परस्परव्यावृत्ताः सच्छब्दवाच्याः ।।

अथ परोक्ते स्वयंप्रकाशत्वेऽभिमते तत्रापि शिक्षणीयांशोऽस्तीत्यभिप्रायेणाह यत्त्वनुभूतेरिति । तुः पक्षवैषम्ये । वक्तव्यांशमाह तत् विषयप्रकाशनवेलायामिति उत्तरत्र वर्त्तमानदशायामिति हि वक्ष्यते । तस्य ज्ञानस्य नित्यद्रव्यत्वेन सदा वर्त्तमानत्वात् वर्त्तमानदशायामिति पदं निरर्थकमिति श्ङ्कापनुत्तये विषयप्रकाशनवेलायामित्युक्तम् । वर्त्तमानदशाशब्देन विषयसम्बन्धप्रसरस्य वर्त्तमानता विवक्षितेत्यवगम्यते । न तु सर्वेषामित्येतदुपादयति परानुभवस्येति । (न?)सर्वदेत्येतदुपपादयति स्वानुभवस्यापीति । अनुभूतिश्चेदित्यनेन स्वाश्रयं प्रति विषयप्रकाशनवेलायामित्युक्तवैषम्यविरहो गर्भितः । एवमनुभूतेरनुभाव्यत्वसम्भवमुपपाद्य तदसंभवे परोक्तमनुमानं दूषयति अनुभूतेरिति । कुत इत्यत्राह स्वगतेति । परानुभावनुमेयत्वानभ्युपपगमे लौकिकव्यवहारविरोधमनिष्टमाह परेति । अथ वैदिकव्यवहारविरोधमाह आचार्यस्येति । परानुभवानुमानानभ्युपगम इत्यादिना चार्वाकनिरासच्च फलितः; अनुमानानभ्युपगमे शब्दार्थसंबन्धग्रहहणायोगात् । एवं बाध उक्तः; अथ व्याप्तिंदूषयति न चान्येति । न ह्यसाधारणाकारो धर्मिग्राहकमानसिद्धिः साधारणाकारे सति अयपगच्छतीत्यभिप्रायेणानुभूतिरूपं शिक्षयति अनुभूतित्वमिति । अत्रानुभूतिशब्दो ज्ञानमात्रपरः; न तु स्मृतिविलक्षणपरः । प्रकाशमानत्वमित्युक्ते घटादेरप्यनुभूतित्वं स्यादिति तद्व्यावृत्त्यर्थं स्वाश्रयं प्रतीत्युक्तम् । अणुत्वनित्यत्वाध्यात्मधर्माणां ज्ञानान्तरप्रकाश्यत्वात् तद्वयावृत्त्यर्थं स्वसत्तयैवेत्युक्तम् । अतीतानुभवव्यावृत्त्यर्थं वर्त्तमानदशायामित्युक्तम् । यद्यप्यतीतानुभवस्य ज्ञानान्तरमन्तरेण प्रकाशानुपपत्तेरर्थात् (असंभव) व्यवच्छेदः; तथाऽप्यतीतस्य ज्ञानान्तरेण सिदिं्ध परानभिमतां व्युत्पादयितुमिदिं विशेषणम् । विषयसम्बन्धस्य वर्तमानदशायामित्यर्थः । वर्त्तमानदशायां स्वसत्तयैव प्रकाशमानत्वमित्युक्ते परानुभवे तदसंभवात् तद्वयावृत्यर्थं स्वाश्रयं प्रतीत्युक्तम् । एतल्लक्षणं स्वयम्प्रकाशत्ववादिनामेवेष्टमिति सर्वसम्प्रतिपन्नं लक्षणमाह स्वसत्तयैवेति । स्वाश्रयं प्रति वर्तमानदशायामिति पदद्वयानुकर्षस्योपलक्षणं स्वसत्तयैवेति पदम् । साधनमित्युक्ते दण्डचक्रादेरपि तथात्वात् तद्वयावृत्तत्यर्थं विषयसाधनेत्युक्तम् । चाक्षुषज्ञानं श्रावविषयं न साधयतीति सर्वविषयसाधनत्वासंभवात् तद्वावृत्तत्यथर् (सर्वविषयासाधनत्वासंभवव्यावृत्त्यर्थं)स्वशब्दः । इन्द्रियव्यावृत्तत्यर्थं स्वसत्तयैवेति पदम् । तदसम्भवात्तद्वयावृत्त्यर्तः स्वाश्रयं प्रतीत्युक्तम् । चाक्षुषज्ञानं श्रावणविषयं न साधयतीति सर्वविषयसाधनत्वासम्भवव्यावृत्त्यर्थ स्वशब्दः । इन्द्रियव्यावृत्त्यर्थ स्वसत्तयैवेति पदम् । इन्द्रियादिकं हि न केवलं स्वसत्तया प्रकाशकम्; अपि तु ज्ञानोत्पादनद्वारा । वर्त्तमानदशायामित्यतीतानुभवव्यावृत्तिः स्वाश्रयं प्रतीति परानुमवव्यावृत्तिः । ततः किमित्यत्राह ते चेति । एवमननुभाव्यत्वलक्षणसाध्यधर्मप्रतिक्षेपेक्षणानुभाव्यत्वेनानुभूतित्वस्य सामानाधिकरण्यदर्शनात् अननुभाव्य- त्वेन व्याप्तिर्नराकृता; तर्हि कथमनुभाव्यत्वेऽननुभूतित्वदर्शनमिति शङ्कायां सोपाधिकत्वमाह घटादेस्त्विति । अननुभूतित्वम्-अनुभूतिशब्देन व्यवहर्तव्यत्वाभाव इति न साध्याविशिष्टता । यद्वा उक्तयोर्लक्षणयोरन्यतरदनु-भूतित्वम्; न तु समुच्चितमुभयम्; अन्योन्यनिरपेक्षत्वात्; वाशब्दप्रयोगाच्च । न हि चशब्दः प्रयुक्तः । तत्रान्यतर-लक्षणाराहित्यरूपम् अननुभूतित्वम् अन्यतराकारविरहप्रयुक्तमिति सोपाधिक(त्व)मित्युयर्थः । अथ प्रतितर्क-पराहतिमाह तथानुभूतेरिति । यद्वा आभाससमानयोगक्षेमत्वमाह (तथानुभूतेरिति)। गगनकुसुमादेरननुभूति- त्वस्य उपाध्यन्तरसत्त्वं शङ्कते गगनेति । घटादेरननुभूतित्वस्याप्युपाध्यन्तरमज्ञानाविरोधित्वमाह एवं तर्हीति । प्रकाशनियमाभावाविरोधित्वम् अज्ञानाविरोधित्वम् । न च सुखादावभावात् साध्यसमव्याप्त्यभावः शङ्कनीयः,; सुखादेर्ज्ञानविशेषत्वेनाननुभूतित्वाभावात् । अज्ञानाविरोधित्वस्योपाधित्व निरासाय पक्षे तत् प्रसञ्जयति अनुभूते-रिति । तत् भवत्पक्षेऽपि तुल्यमित्याह अननुभाव्यत्वेऽपीति । अनुभूतेरनुभाव्यत्वेऽननुभूतित्वस्य उपाधित्वेनोक्तम-ज्ञानाविरोधित्वमननुभाव्यत्वेऽपि प्रसज्यत इत्यर्थः । अनुभाव्यत्वेऽननुभूतित्वमज्ञानाविरोधित्वञ्च यदुक्तम्, तत् अननुभाव्यत्वेऽपि गगनकुसुमादेरिव प्रसज्यत इत्युक्तम् ।। गगनकुसुमादावननुभूतित्वमज्ञानाविरोधित्वं चासत्त्व-प्रयुक्तम्, नाननुभाव्यत्वप्रयुक्तमिति चेत्-अननुभाव्यत्वे तद्वत् असत्त्वमपि प्रसज्यते ।। गगनकुसुमादेरसत्त्वं नान-नुभाव्यत्वमात्रप्रयुक्तम्; अपि तु स्वयम्प्रकाशत्वे सति अननुभाव्यत्वविरहप्रयुक्तमिति अनुभूतेरननुभाव्यत्वमात्रा-न्नसत्त्वप्रसक्तिरिति चेत्-अननुभाव्यत्वे तद्वत् अस्वयम्प्रकाशत्वमपि प्रसज्यते(प्रसजति) । अतः अस्वयम्प्रकाश-

त्वे सति अननुभाव्यत्वप्रयुक्तमसत्त्वमनुभूतेर्दुवारम् ।। असत्त्वं तु धर्मिग्राहकप्रमाणविरुद्धमिति चेत्; अनुभाव्यत्वेऽननुभूतित्वमपि तथेत्येवमनुसन्धेयमिति भाष्याभिप्रायः । खपुष्पोदाहरणे तु नाश्रयवैकल्यदोषः शङ्कनीयः,ख्यातेर्नासदिति व्यतिरेकदृष्टान्तत्वस्य परैः स्वीकृतत्वात् । "शब्दज्ञानानुपाती वस्तुशून्योऽवभासो विकल्पः; सस्वभावस्त्ववभासः प्रतीतिः" इति हि तैरुच्यते । तत्राभासप्रतीतस्यापि निषेधाधिकरणत्वं युक्तमिति भाट्टाङ्गीकृतञ्च ।अतः परमतप्रक्रियया खपुष्पमुदाहृतम् । उपहास्यम्-समीपस्थैरपि हास्यमित्यर्थः ।

अथ परोक्तं नित्यत्वं व्युदस्यति यत्त्वित्यादिना ।। ननु ज्ञाननित्यत्वमभ्युपयद्भिः कथं तन्निरसनं युक्तम्? उच्यते;-ज्ञानाश्रयभूत आत्मा । तदाश्रितं च सङ्कोचविकासार्हं नित्यं ज्ञानद्रव्यं परस्यानभिमतम् । यत्तु प्रस्तुतमिन्द्रियसंयोगाद्यन्वयव्यतिरेकानुविधायि प्रत्यक्षत्वपरोक्षत्वप्रमाणत्वाप्रमाणत्वावस्थं लोकसिद्धं ज्ञानम्, तस्य यदि नित्यत्वमुपपाद्यते, तत् व्युदस्यते विषयसम्बन्धिज्ञानस्य हि स्वयम्प्रकाशत्वं परेण समर्थितम् । स्वयम्प्र-काशत्वसमानाधिकरणं च नित्यत्वं परस्येष्टम्, स्वतस्सिद्धतया नित्यत्वसमर्थनात् । अतस्तन्निरासो युक्तः । तत्र च मृद्द्रव्यस्य सिद्धत्वेपि घटत्वाद्यवस्थमृद्दृव्यानित्यत्ववात् । ज्ञानाख्यद्रव्यस्य नित्यत्वेऽपि स्मृतित्वानुभूतित्वा-द्यवस्थज्ञानानित्यत्वं युक्तमिति न स्वपक्षविरोधः । स्वयम्प्रकाशत्वेपि किञ्चिदुपादेयत्वमस्तीति तद्वयावृत्त्यर्थस्तु- शब्दः । अन्धस्य जात्यत्धेन यष्टिः प्रदीयत इति । असिद्धमत्यन्तासिद्धेन हेतुना साध्यत इत्यर्थः । तत्र हि ग्राह-काभावात् ग्राह्याभावाच्च प्रागभावाभाव उक्तः; तमाशङ्कय ग्राहकोऽस्तीत्याह प्रागभावस्येति । तत्र विकल्पे पूर्व-पक्षिणोक्ते, सत्येवावगमयतीति पक्षं स्थापयितुं तत्रोक्तं विरोधं शङ्कते कथमिति । तदानीमित्यभावविशेषणम्; न क्रियाविशेषणम् । परिहरति नहीति । स्वसमकालवर्त्तित्वनियमः किं ग्राह्यसामान्यप्रयुक्तः? उतहतद्ग्राह्यविशे-षप्रयुक्तः इति विकल्पाभिप्रायेण प्रथमं ग्राह्यसामान्यप्रयुक्तत्वपक्षं प्रतिवदति । न ह्यनुभूतिरिति । यद्वा-वर्त्तमान-ग्रहणनियमः किं ग्राहकानुभूतिस्वभावात्? उत ग्राह्यानुभूत्यभावस्वभावादिति विकल्पमभिप्रेत्य प्रथमं दूषयति न हीति । हि शब्दो हेतौ । नेति प्रतिज्ञा अध्याहर्त्तव्या ।

ग्राह्यविशेषपक्षं दूषयितुं शङ्कते अथ मन्यस इति । ग्राह्यविशेषस्य समकालवर्त्तित्वनियमोक्तिर्दर्शनपूर्वि- कैव स्यादित्यभिप्रायेणाह किं त्वयेति । क्कचित्-अनुभूतौ । व्याप्तिग्रहणभूमित्वेनाभावस्य दृष्टत्वात्प्रागभावो दुर-पह्नव इत्याह हन्त तर्हीति । प्रागभावस्य समकालसिद्ध्या व्याप्तिरनुभूतिप्रागभावरूपे धर्मिणि गृहीते हि सिध्य-तीत्यर्थः । आदिशब्दः प्रध्वंसपरः । समकालवर्त्तित्वनियममभ्युपगम्य दूषणमुक्तम् । समकालवर्त्तित्वं चानुपपन्नमि-त्याह तत्प्रागभावञ्चेति । यदि स्वसमकालवर्त्तिग्रहणनियमोऽनुभूतेर्नास्ति, तर्ह्यविद्यमाने घटेऽपि चाक्षुषं ज्ञानमु-पपद्येततत्राह इन्द्रियजन्मन इति । प्रत्यक्षशब्देन प्रत्यक्षज्ञानमुच्यते । अयमभिप्रायः-स्वसमकालवर्त्तिग्राहकत्वनि-यमो न ज्ञानमात्रस्य; न च तदवान्तरभेदप्रमाणज्ञानस्य; न च तद्भ्रान्तरभेदप्रत्यक्षस्य; अपि तु प्रत्यक्षविशेषरूप- स्य ऐन्द्रियिकज्ञानस्येति । न सर्वेषां ज्ञानानां प्रमाणानां चेति । चशब्देन प्रत्यक्षस्य चेत्युक्तं भवति; उपपादक-ग्रन्थानुगुण्यात् । कुत इत्यत्राह स्मरणानुमानेति । स्मरणशब्देन सर्वज्ञानामां समकालवर्त्तिविषयत्वनियमव्युदासः । अनुमानागमशब्देन प्रमाणमात्रस्य तन्नियमव्युदासः । योगिप्रत्यक्षादिशब्देन प्रत्यक्षमात्रस्य तन्नियमव्युदासः । आदिशब्देन ईश्वरप्रत्यक्षं गृह्यते । प्रमेयसद्भावो न चेत्, प्रमाणाप्रमाणज्ञानयोः कथं वैषम्यमित्यत्राह अत एवेति । अत एव-ज्ञानमात्रस्य समकालवर्त्तिग्राहकत्वनियमाभावेन । प्रमेयाविनाऽभावश्च सिद्ध इत्यर्थः । अन्यथा वर्त्त-मानविषयालाभादसमकालवर्त्तिग्राहिणा तत्तत्प्रमाणानां प्रमेयाविनाभावो न सिध्येदिति भावः । तत्सिद्धिः कथ-मित्यपेक्षायां तमेवाविनाभावं विवृणोति न हि प्रमाणस्येति । प्रमाणस्यार्थसम्बन्ध इत्यन्वयः । तर्हि प्रमेयाविना-

भावः क इत्यत्राह अपित्विति । यद्दोकालादीत्यादिशब्देन संस्थानमुच्यते । मिथ्यात्वप्रत्यनीकता । मिथ्यात्व- स्य प्रमाणं प्रत्यनीकं भवति; तस्य भाव इत्यर्थः । यद्वा मिथ्यात्वप्रत्यनीकोऽर्थो भवति । तस्य भावो मिथ्यात्वप्रत्य-नीकता । सा प्रमाणस्यार्थसम्बन्ध इत्यन्वयः । अत एवेत्यादिभाष्यस्यैवं वाऽर्थः-अत एव-प्रमाणत्वेन सम्प्रतिप-न्नानां कालान्तरवर्त्तिग्राहकत्वदशर्नात् तत्रापि प्रमेयाविनाभावः कल्प्यत इत्यर्थः । कथं तत्राविनाभावःप्रकारः इत्यत्राह न हीत्यादि । अनेनैव प्रमाणप्रमेयाविनाभावरूपविषयविषयिभावरूपशिक्षणेन बौद्धैकदेशिभिरुक्तं स्मृतेर्निर्विषयत्वं निरस्यत इत्यश्याभ्युपेतव्यमिदमित्यभिप्रायेणाह अत इदमपीति ।

एवमनुभूतिरेव प्रागभावग्रहणक्षमेत्युपपादितम् ; अथ तद्ग्राहिणाऽनुभवेन प्रत्यक्षाद्यन्यतमेन भवितव्य- मिति, तदसम्भवेन प्रमाणाभावात् प्रागभावाभावं (व इति)शङ्कते अथोच्येतेति । लिङ्गाद्यभावादिति आदि- शब्देन अनुमानशब्दौ विवक्षितौ । तद्विवृणोति न हीत्यादिना । निगमयति अत इति । उपमानस्य प्रतिपन्नवस्तु-सादृश्य-संज्ञासंज्ञिसम्बन्धयोरन्यतरमात्रगोचरत्वेनाप्रतिपन्नपदार्थप्रतिपादनासामर्थ्यादनुपन्यासः ।

परिहरति यदीति । यदिशब्दः किमर्थः । चेच्छब्दो यद्यर्थः । स्वपरिपाटी विहाय शास्त्रमर्यादायां किम-वतीर्णोऽपि; तथा चेदित्यर्थः । प्रमाणमाह योग्यानुपलब्ध्यैवेति । परेणाभावप्रमाणस्याङ्गीकृतत्वात् योग्यानु-पलब्ध्यैवेत्युक्तम् । स्वपक्षपर्यालोचनायामपि ज्ञानस्य योग्यानुपलब्धिर्नाम भावरूपावस्थान्तरोपलब्धिः । पिण्ड-त्वाद्युपलब्धिरेव हि धटस्य योग्यानुपलब्धिः । अतोऽतीतकालावच्छिन्नज्ञानाभावो नाम ज्ञानस्य सङ्कोचः अर्था-न्तरज्ञानं वा । पूर्वकालीनगजज्ञाने बुभुत्सिते तत्कालीनस्वापादिप्रतिसन्धानं घटादिज्ञानप्रतिसन्धानं वा गजज्ञा- नस्य योग्यानुपलब्धिः । सा च लिङ्गतया पूर्वकालीनज्ञानाभावनिश्चायिका । यद्#ुक्तं-संविदः इयमिति विषयी-कारानर्हत्वेन अभावो दुर्ग्रहः इति-तदयुक्तम्;-तथा सति प्रागभावनिरासानुपपत्तेः । न ह्यन्यस्य घटादेः प्राग- भावो निरस्यते; अपि त्वनुभूतेः । तस्मादनुभूतिम् इयमिति विषयीकृत्य तस्याः प्रागभावो निराकरणीयः । इय- मिति विषयीकाराभावेऽपि तत्प्रागभावो निराकर्तुं शक्यते चेत्; तदभावेऽपि प्रागभावः साधयितुं शक्यते । यदि त्वया विषयीकृता, तद्वदस्माभिरपि विषयीकृतेति तदभावः सुसाघ इत्यनुसन्धेयम् । उत्तरत्र नित्यञ्चेदिति ग्रन्थे ह्यययमर्थोऽप्यभिप्रेतः ।

एवं प्रागभावस्य योग्यानुपलब्धिसिद्धत्वमभिधायार्थापत्तिमप्याह किञ्चेत्यादिना । ज्ञानस्य स्वावभासा-स्थिरत्वलक्षणयोग्यानुपलब्ध्या अनित्यत्वमुक्तम् ; अथ विषयप्रकाशनिरूपणमुखेनापि तदुपपाद्यते । अविशेषेण ज्ञानाभावस्य ग्रहणमुपपन्नमित्युक्तम् । अथ किं भवता नित्यत्वं सविषयज्ञानस्य विषाधयिषितम्, उत निर्विषयस्य इति विकल्पमभिप्रेत्य सविषयपक्षं दूषयति प्रत्यक्षेत्यादिना । सर्वदा-घटसत्ताकाले सवÐस्मन्(घटो?)न प्रतीयत इत्यर्थः । घटादेः पूर्वोत्तरकालसत्ता न प्रतीयताम्; ततः किमित्यत्राह तदप्रतीतिश्चेति ।अप्रतीतिः-ज्ञानस्य घटव्या-वहारानुगुण्याभावः । अतो न साध्याविशिष्टता । नियमेन स्वसमकालवर्त्तिग्राहिणः प्रत्यक्षज्ञानस्य पूर्वोत्तरकालयो-र्विद्यामानेऽपि घटे तदप्रकाशकत्वं तदानीं स्वाभावादेवेत्यर्थः । एवं विषयव्यवहारानुगुण्यकादाचित्कत्वान्यथानुप-पत्त्या ज्ञानानित्यत्वमुक्तम् । अर्थापत्त्यन्तरमा(मप्या)ह घटादिविषयमेवेति । विषयसमकालवर्त्तिनः प्रत्यक्षसंवे-दनस्य नित्यत्वे घटादिरपि नित्यः स्यात्; अतो घटाद्यनित्यत्वाऽन्यथानुपपत्त्या ज्ञानानित्यत्वमित्यर्थः । अर्थाप-त्त्यन्तरमाह नित्यञ्चेदिति । संविदो नित्यत्वसाधनं संविदियमिति विषयीकृत्यैव कर्त्तव्यम् । स्वतःसिद्धत्वेनेयमिति विषयीकारानर्हत्वात् स्वयमेव नित्यमिति प्रतीयेत, न च तथा प्रतीयते; तस्मादनित्यत्वमेवेत्यर्थः । एवं नित्यतया-ऽनवभासान्यथाऽनुपपत्त्या ज्ञानानित्यत्वमुक्तम् ।। अनित्यतयाऽनवयासात् नित्यत्वमिति चेन्न; पूर्वापरावधि

सापेक्षस्य अनित्यत्वस्य सद्भावेऽपि अवधिद्वयास्वयम्प्रकाशत्वादेव अनित्यत्वाप्रकाशत्वोपपत्तेः । यद्वा घटादि-नित्यत्वप्रसङ्गो नित्यत्वेनावभासप्रसङ्गश्च विषयव्यवहारानुगुण्यकादाचित्कत्वान्यथानुपपत्तेरनुग्राहकतर्कत योक्तौ भवतः ।।

अथानुमानादिविषयाणामपि नित्यत्वमनिष्टं प्रसञ्जयति एवमिति । एवम्-प्रत्यक्षज्ञाननित्यत्वे विषयनि-त्यत्वप्रसक्तौ सत्यामित्यर्थः । कुतो नित्यम्,अत्राह (नित्यतेत्यत्राह) संविदनुरूपेति । यथा संवित् स्वविषयं दर्शयति, तथाभावादिति तदर्थः ।। ननु प्रत्यक्षस्य समकालवर्त्तिविषयत्वनियमात् तन्नित्यत्वे विषयनित्यत्वप्रसङ्ग उपपन्नः । अनुमानादिसंविदाम् अतीतानागतविषयत्वसम्भवात् कथं तन्नित्यत्वे विषयनित्यत्वप्रसङ्गः ।। उच्यते । अतीतानागतते ह्यापेक्षिके वर्तेते । ततः संविदपेक्षया हि विषयस्यातीतत्वानागतत्वे । संविदो नित्यत्वे तदपेक्षया विषयस्यातीतत्वानागतत्वे संविन्न दर्शयतीति कालानवच्छिन्नतया प्रतीतौ (ताः)विषया नित्याः स्युरिति । काला-नवच्छिन्नत्वमेवानुगतं नित्यत्वलक्षणमित्यभिप्रायेण कालानवच्छिन्नाः नित्या इत्युक्तम् ।। ननु न संविदपेक्षया विष-यस्यऽतीतत्वागामित्वे; किन्तु लिङ्गाद्यर्थान्तरापेक्षया । ततो विषयस्य लिङ्गाद्यपेक्षयाऽतीतत्वमागामित्वञ्च संभव-तीति न नित्यत्वप्रसङ्गः ।। उच्यते-लिङ्गादेः प्रत्यक्षज्ञानविषयत्वात् तन्नित्यत्वेन तद्विषयभूतलिङ्गादेरपि नित्यत्वा-पातात् तदपेक्षयानुमानविषयस्यातीतत्वमागामित्वञ्च संविन्न दर्शयतीति कालानवच्छिन्नो नित्य एव विषयः स्यादिति ।। एवं पूर्वोक्तदोषमुपजीव्य अनुमानविषयनित्यत्वप्रसक्तिरित्यभिप्रायेण एवमित्युक्तम्; ।

एवं पूर्वोक्तविकल्पे सविषयानुभवस्य नित्यत्वं निराकृतम् ; अथ निविर्षयानुभवस्य नित्यत्वपक्षं निराक-रोति न चेति । कुत इत्यत्राह अनुपलब्धेरिति । न केवलं निर्विषय संविदनुपलब्धेरेव, सविषयसंविद एव परेण स्वयम्प्रकाशत्वसमर्थनात् तदभ्युपगमप्रकारेणापि निर्विषया संविन्नास्तीत्याह विषयेति । ततः कितित्यत्राह संविदो विषयेति । सविषयज्ञानोत्तीर्णायाः संविदः कदाचिदपि विषयसम्बन्धाभावेन स्वयम्प्रकाशत्वासिद्धेर्ज्ञा-नान्तराबेद्यत्वाच्च तुच्छतेत्यर्थः ।। ननु यदि विषयप्रकाशकतया स्वयम्प्रकाशत्वमुपपाद्यते, तदाऽयं दोषः स्यात् । विषयसम्बन्दाभावेऽपि अनुभूतित्वादित्यनेन साध्यस्वप्रकाशत्वसिद्धिरिति चेत्-किमिदमनुभूतित्वम्? किं स्वतः सिद्धत्वम्? तदा साध्याविशिष्टता स्यात् । यदि विषयप्रकाशकत्वमनुभूतित्वम्, तदानीं मुक्तदोषः स्यादेव । विद्य-मानदशायां सर्वदा भासमानत्वमपि न त्वया हेतुत्वेन वाच्यम्; सुखदुःखेच्छादौ जडत्वेन त्वदभिमते व्यभिचारात् । अतो विषयप्रकाशकत्वमनुपजीव्य स्वयंप्रकाशत्वं दुःसाधमित्युक्तदोषानतिवृत्तिः । कथं स्वप्रकाशत्वरूपसाध्यधर्म-निवृत्तौ धर्मिभूतसंविदसिद्धिरित्यत्राह अनुभूतेरनुभवान्तराननुमाव्यत्वाच्चेति । नन्वेकस्या एव संविदः अन्तः-करणवृत्तिद्वारा विषयसम्बन्धः कादाचित्कः । तद्विगमेपि स्वपादिदशासु स्वप्रकाशा संविच्छकास्तीति न तुच्छ-ताप्रसक्तिरित्यत्राह न चेति । केवलशब्देन निराश्रयत्वमुच्यते । कुत इत्यत्राह योग्येति । तदेवोपपादयति तास्व- पीति । विपर्यये पर्यवसानं दर्शयति । न च तदस्तीति । व्यापकाभावो हि व्याप्याभावसाधकः । स्मरणञ्च नानु-भवव्यापकम् । अतस्तदभावो न अनुभवाभावसाधक इत्याह नन्विति । पथि गच्छता स्पृष्टतृणादीनां प्राग्जन्मा-नुभूतार्था(दी)नां चास्मरणादिति भावः । परिहरति उच्यत इतियादिना । विषयान्तरव्यासङ्गादिरस्मरणमात्रहेतुः । विषयवैचित्रीविरहः, निष्प्रयोजनतया तात्पर्याभावः, तादात्विकतीव्रसंवेदनान्तरम्, अनुभवानभ्यासश्च अस्मरण-मात्रहेतुतया हि प्रसिद्धाः । अतो नियमशब्दः । अस्मरणनियम इत्युक्तेः । जन्मान्तरानुभूतस्याप्यनुभवाभावप्रस- ङ्गात् तद्वयावृत्त्यर्थं निखलसंस्कारेत्युक्तम् । देहविगमादीत्यादिशशब्देन नारकदुःख-प्रसूतिव्यसन-कालविप्र- कर्षा विवक्षिताः । यथा संवित्सिद्धौ, "प्रायणान्नरकक्लेशात् प्रसूतिव्यसनादपि । चिरान्नि(ति)वृत्ताः प्राग्जन्मभ

न स्मृतिगोचराः " इति । देहविगमादीनां निखिलसंस्कारतिरस्कृतिकरत्वं स्वभावः । पुण्यविशेषादपवादात् कस्य-चिदेकस्य जातिस्मृतिः । प्रबलशब्दोव्यासङ्गाद्यपेक्षया प्राबल्यपरः । उक्ततिरस्कारकाभावे कदाचिदपि स्मरणम-नुभवव्यापकम् । अतस्तदभावोऽनुभवाभावसाधक एवेत्यर्थः । न केवलमनुभवसाधकाभावः, बाधकप्रमाणान्तरम-प्यस्तीत्याह न केवलमिति । सिद्धेरिति अनुभवाभावस्येत्यनुषङ्गः । अथास्मरणनियमस्यान्यथासिद्धिमाशङ्कते न चेति । अहङ्कारविगमः-अहं प्रत्ययविगमः । परिहरति अर्थान्तरेति । घटाननुभवः पटविनाशश्च अनुभूतकु-ड्याद्यस्मरणकारणं न दृष्टमित्यर्थः । ननु कुड्यादेः स्मरणं प्रति घटादेरकारणत्वात् तदभावो नास्याः स्मरणहेतुः; इह तु स्मरणकारणस्याभावोऽस्मरणहेतुरेव ।। नैवम्; कुड्यादिस्मरणं प्रति घटादेरिव ज्ञातृज्ञेययोरपि स्मरणं प्रति अकारणत्वमकामेनापि स्वीकार्यामित्यभिप्रायेण ह्यर्थान्तरशब्दः प्रयु#ुक्तः । अयमर्थः-ज्ञातृज्ञेययोः स्मरणं प्रति कार-णत्वं दृष्टत्वादङ्गीक्रियते चेत्, दृष्टत्वादेवानुभवेऽपि ज्ञातृज्ञेययोः कारणत्वमङ्गीकार्यम् । यदि ज्ञातृज्ञेययोर्दृष्टत्वे अप्यनुभवकारणत्वं नाङ्गीक्रियत,#े स्मृतावपि कारणत्वं न स्यात् । अतस्तदभावान्न स्मरणाभाव इति एतद्दूषणम-हमर्थाभावमभ्युपगम्योक्तम् । अहमर्थाभावोपि नास्तीत्युपपादयिष्यत इत्याह तास्वपीति । अनुवर्त्तते-प्रकाशते । ततो हेतुरसिद्धश्चेत्यर्थः ।।

पूर्वं सविशेषोऽनुभवः स्वपादिदशास्वस्तीत्युक्तमिति तदालम्व्य व्याघाताभिप्रायेण चोदयति नन्विति । अ त्राह सत्यमुक्तमिति । स त्वात्मानुभवः । नानुभूत्यनुभव इत्यर्थः । अनुभूतिविरहे स आत्मा निर्विशेषः स्या-दित्यत्राह स चेति । प्रत्यकत्वानुकूळत्वविशिष्ट इत्यर्थः । इह किं निषिध्यत इत्यत्राह इह त्विति । शब्दान्तरेणा-स्मन्मतमङ्गीकृतमिति शङ्कते केवलैव संविदात्मानुभत इति चेदिति ।आत्मानुभवे-केवलात्मानुभवदशायाम् । स्वापादिदशायां या संवित् त्वया नित्यतया अभ्युपेता, सा प्रसरणाभावेन विषयावच्छेदविरहात् तदानीं केवला निर्विशेषा अस्मदुक्तैव स्यादिति । परिहरति सा चेति । सा च-धर्मभूता संवित् । विषयविरहिताऽपि(वा) वा साश्रयेत्यर्थः । केवलैवेत्यादेरेवं वार्थः-आत्मानुभवरूपा आत्मस्फुरणरूपा या संवित्, सा केवलैवेति चेत्-अस्मदुक्त(क्ता?)सकलविषयादिविशेषशून्यैवेति चेदित्यर्थः । परिहरति सा चेति । सा-धर्मिस्फुरणरूपा या संवित्; सा साश्रयेति वक्ष्यते । स्फुरणं हि स्फुरतो धर्मः । यथा प्रभाश्रयस्य दीपस्य धर्मिणः औज्जवल्यं दीपा-ख्यधर्मिगतो धर्मः, तद्वदित्यर्थः । धर्मिस्वरूपभूतज्ञानस्य स्फुरणं नित्यम् । तच्च भासमानता; व्यवहारानुगुण्यम् । धर्मभूतज्ञानस्य स्फुरणं विषयसम्बन्धजन्यं तदानीमेव; न त्वन्यदा । तत एव हि विषयप्रकाशनवेलायामिति पूर्वमुक्तम् । "पुंस्त्वादिवत्त्वस्य" इत्यत्र च वक्षयते । स्वापादौ तु तस्य सर्वविषयसम्बन्धार्हता प्रतिबद्धा, वह्नेर्दाह-कत्वशक्तिवत् । अतो न तदा स्फुरणम् ।

अथ प्रासङ्गिकमात्मानुभवं परिसमाप्य प्रस्तुतप्रागभावसिद्धि निगमयति अत इति । अतः-निर्विषयज्ञा-नस्याप्रामाणिकत्वात् दवच्छिन्नज्ञाननित्यत्वस्योक्तानुपपत्तिपराहतत्वात् प्रागभावग्राहकसमर्थनाच्चेत्यर्थः ।। कथ-मनुभूतिः सती स्वप्रागभावं साधयेत् ।। इत्थम्-स्मर्त्तव्यास्मरणलिङ्गेन इयन्तं कालं न किञ्चिदहमज्ञासिषमिति सुषुप्त्यवस्थापरामर्शेन ज्ञानसामान्याभावगोचरेण तदन्तर्गतस्वाभावोपि स्वेनैव विषयीकृत इति स्वतः पक्षे प्राग-भावसिद्धिरुक्ता । परतःपक्षेपि सिध्द्यतीत्याह अनुभूतेरिति । अथ प्रागभावाभावहेतुकाननुत्पत्तिदूषणमुपसंहरति तस्मादिति ।

अथानुत्पत्त्या विकारान्तरनिरसनं दूषयति यदपीत्यादिना । अनुत्पत्तिरूपहेत्वसिद्ध्या विकारान्तर-निरासोऽनुपपन्नः । तदभ्युपपगमेऽपि, हेतोर्व्यभिचामाह प्रागभाव इति । तद्विवृणोति तस्य हीति । भावशब्दो-

पादाने, तद्विरहेऽपि, व्यभिचारसाम्याभिप्रायेण भावशब्दोपादानमुपालभते भावेष्वितीति । नात्र (नतु)प्रतिज्ञा- न्तरं दूषणमुच्यतें । तद्धि उक्तिदूषणम्: न त्वर्थदूषणम् । भावरूपत्वे व्यभिचारं दर्शयति तथा चेति । तथाशब्देन भावरूपत्वं विवक्षितम्; तैर्भावरूपाज्ञानस्य समथिर्तत्वात् । तत्र परिहारं शङ्कते तद्विकारा इति । अस्य विशेषण- स्य व्यावर्त्याभावान्नैरर्थक्यमाह किं भवत इति । व्यावत्यर्मस्ति चेत्-अद्वैतहानिः । न चेत् विशेषणवैयर्थ्यमित्यर्थः । किं विकारमात्राभावः साध्यते, उत परमार्थविकाराभावः? प्रथमेऽनैकान्त्यम् । द्वितीयेनुभूतिः परमार्थविकाररहिता अजत्वादित्युक्तं स्यात् । यत् परमार्थविकारवत् तत् उत्पन्नम्, यथा घट इति व्यतिरेकोदाहरणं वाच्यम् । घटस्य परमार्थविकारानभ्युपगमाद्दृष्टान्तः साध्याव्यावृत्त इति हेतोर्व्याप्यत्वासिद्धिर्भवेदिति भावः ।।

अथाजत्वात् नानात्वनिषेधं प्रतिवदति यदपीति ।अत्र किं भेदमात्रं दुदूषयिषितम्? उत विजातीयभेदः? उत विजातीयभेदः, उत स्वगतभेदः, इति पक्षेषु हेत्वसिद्धया निरस्तेष्वपि हेतुत्वाभ्युपगमेन प्रथमं द्वितीयं शिरश्च दूषयंश्चार्वाकव्यतिरिक्तसर्ववादिसम्मतस्थले व्यभिचारं दर्शयति अजस्यैवेति । मृषावाद्यभिमतस्थल एव हेतोरनै-कान्त्यमाह अविद्याया इति । "तमःप्रकाशयोरिव विरुद्धस्वभावयोरितरेतराभावानुपपत्तौ तमःप्रकाशयोरिव विरु-द्धस्वभावयोरितरेतरभावानुपपत्तौ सत्याम्" इति हि तद्ग्रन्थः । तद्विभागस्य मिथ्यात्वमाशङ्कय तदभ्युपगमेन परिह-रति स विभाग इत्यादिना । जन्मप्रतिबद्धः-उत्पत्तिव्याप्तः । घटादिषु परमार्थविभागस्यैव उत्पत्तिव्याप्यत्वाभ्युप- गमे घटादिविभागस्य पारमार्थ्यप्रसङ्गात्, तस्यापारमार्थ्ये विशेषणवैयर्थ्यादुक्तदोषः स्यादेवेत्यर्थः । हेतुदूषणस्य बुभु-त्सायाम्, दृष्टान्तस्य साध्यव्यावृत्तत्वमुखेन व्याप्यत्वासिद्धिरभिप्रेतानुसन्धेया । यत् परमार्थविभागवत् उत्पन्नम् । यथा घट इति हि व्यतिरेकदृष्टान्तः । घटस्य परमार्थविभागवत्त्वानभ्युपगमात् साध्याव्यावृत्तत्वं हि स्पष्टम् । विभा-गस्य मिथ्यात्वे दूषणान्तरमाह अविद्याया इति ।अथ सजातीयभेदाभावं व्युदस्यति अबाधितेति । पूर्वं प्रमाणप्रमे-यानुपपत्तिमिथ्यात्वानुमानानिरासमुखेन दृश्यभेदः समर्थितः । तत्तुल्यन्यायतया दर्शनभेदोऽपि सिद्ध इत्यर्थः । अव-च्छेदकगतो भेदः, न त्ववच्छेद्यगत इति घटकरकाऽकाशदृष्टान्तमाशङ्कयाह छेद्यभेदादिति । यथा संवित्सिद्धौ, "प्रतिप्रमातृविषयं परस्परविलक्षणाः । अपरोक्षं प्रकाशन्ते सुखदुःखादिवत् धियः ।। संबन्धिव्यङ्गयभेदस्य संयोगे-च्छादिकस्य तु । न हि भेदः खतो नास्ति नाप्रत्यक्षश्च संमते ।।" इति । प्रतिप्रमातृविषयं ज्ञानभेदोपरोक्षः । परज्ञानं परोक्षतया भासते; स्वज्ञानमपरोक्षतया । घटादिविषयज्ञानानां परस्परवैलक्षण्यं चापरोक्षम् । अतस्तद्भेदापलापः स्वानुभवप्रत्यक्षबाधित इति प्रथमग्रन्थार्थः । सर्वमेकं ज्ञानं ज्ञातृज्ञेयरूपावच्छेदकसम्बन्धभेदाद्भेदेन प्रतीयत इत्य- त्राह सम्बन्धीति । सम्बन्धिव्यङ्गयभेदस्येति शङ्काबीजानुवादः । न च ज्ञातृज्ञेयरूपसम्बन्धिव्यङ्गयत्वमात्रेण ज्ञान-स्य भेदः सम्बन्धिभेदकृत इति औपाधिकः स्यात्; संयोगादेरपि संबन्धिव्यङ्गयत्वमात्रेण घटकरकावच्छिन्नाकाश-वदेकत्वप्रसक्तेः । संबन्धी हि द्वेधा-सत्ताहेतुर्व्यक्तिहेतुश्चेति । यस्य संयोगादेः सम्बन्धिव्यरिरेकेण स्वरूपे प्रमाणं नास्ति, तस्य संबन्धी सत्ताहेतुः; यस्य तु शब्दाकाशादेरस्ति, तस्य तदुपाधिको भेदावभासः ; न स्वतः । तस्मात् ज्ञातृज्ञेयव्यतिरेकेणालब्धसद्भावस्य ज्ञानस्य स्वाभाविक एव भेदः । तस्मान्न सजातीयभेदापलाप इत्यर्थः । एतदभिप्रेत्य छेद्यभेदादित्युक्तम् ।।

अथ स्वगतनित्यत्वैकत्वादिभेदनिरासार्थं पूर्वपक्षिणा अनुभूतिं पक्षीकृत्योक्तम् अनुभूतित्वादिति व्यतिरे-कि, दृश्यं पक्षीकृत्योक्तं दृश्यत्वादित्यन्वयि च दूषयति यदपीत्यादिना । अनैकान्तिकमिति । अनियतम्; व्या-प्तिशून्यमित्यर्थः । दृश्यत्वादित्यन्वयिनः पक्षत्रयवृत्तित्वलक्षणमनियतत्वम्; दृशित्वादिति व्यतिरोकिणः साध्यव्या-वृत्तावपि साधनाव्यावृत्तिलक्षणमनियतत्वमात्रम् । अनुभूतिर्न दृश्यधर्मवती दृशित्वात्; यद् दृश्यधर्मवत् तन्न दृशिः,

यथा घटः इति ह्यनुमानशरीरम् ।अत्र दृश्यधर्मवत्त्वस्य अदृशित्वव्याप्तिरनुभूतौ भग्ना, तस्याः दृशित्वनित्यत्वा-दिधर्मवत्त्वादिति भावः । नित्यत्वादिमिथ्यात्वे नित्यत्वादिविपरीताकारानित्यत्वं प्रसजेदिति तत्परिहाराय तेषां स्वरूपमात्रत्वमाशङ्कय परिहरति न चेत्यादिना । तेषां स्वरूपमात्रत्वं किमन्वयरूपाणाम्, उत व्यतिरेकरूपाणा-मिति विकल्पमभिप्रेत्य, अन्वयमुखेन स्वरूपमात्रत्वं संभावितं शिर इति दूषितम्; न तु पराभ्युपगमात् । हेतुमाह स्वरूपभेदादिति । स्वरूपाद्भेदः तेषां परस्परं भेदश्च विवक्षितः । अनेन पूर्वं विधाभेदविवाददशर्नादित्युक्तं विवृतं भवति । संवेदनत्वस्वयम्प्रकाशत्वयोः स्वरूपभेदमाह स्वसत्तयेत्यादिवाक्यद्वयेन । प्रकाश्यतेऽनेनेति प्रकाशनम्; व्यवहारानुगुण्यापादकमित्यर्थः । उभयत्रानुगतप्रकाशशब्दाथर्माह प्रकाशश्चेति । चिदचिदशेषपदार्थाः तदा हि व्य-वहारानुगुणाः, यदा तद्वयवहारहेतुषु ज्ञानं सन्निधत्ते । तत्राचिदंशस्य स्वव्यवहारसामग्रयन्तर्भूतज्ञानवत्त्वं व्यवहारा-नुगुण्यम् । वेद्यत्वे चिदंशस्याप्येवम् । स्वप्रकाशत्वे तु स्वव्यवहारासामग्रयां ज्ञानान्तरानपेक्षया स्वस्यान्तर्भावः । यद्वा, एवञ्चाहुः,-व्यवहारानुगुण्यं व्यवहारप्रतिसम्बन्धित्वम्, प्रकाश इत्यर्थः । तच्च ज्ञप्तिज्ञात्रोः स्वतः । ज्ञेयस्य तु ज्ञानापाद्यम् । अतः पुरोवर्त्तिनो घटादेरपि तदेव प्रकाशः; न प्राकट्यम्, तदतिरिक्ताभ्युपगमेऽपि न ज्ञानस्य स्वप्रकाशत्वविरोधः; तस्य तन्निरपेक्षसिद्दितया प्राकट्यस्य ज्ञानानुमापकत्वानभ्युपगमात् । यद्वा ज्ञानगतप्रकाशा-साधारणं लक्षणमाह चिदचिदिति । चिदचिदशेषपदार्थापेक्षया साधारणं ज्ञानगतं चिद्वयवहारानुगुण्यञ्च प्रकाशः; स्वपरव्यवहारानुगुण्यं प्रकाश इत्यर्थः ।।

नन्वचितो विषयत्वमविगीतम्; तच्च भासमानत्वम् । अचितो व्यवहारानुगुण्यं हि ज्ञानगतं चेत्, घटः प्रकाशत इति व्यवहारामुख्यत्वं स्यात्; ज्ञानगतप्रकाशस्य तत्सम्बन्धिन्युपचरितत्वात् । न च ज्ञानसम्बन्ध एव घटादेर्व्यवहारानुगुण्यम्; व्यवहारानुगुण्यापानस्वभाव इति ज्ञानलक्षणकथनायोगात् । संबन्धस्य द्विनिष्ठतया पुरोवर्तिनो घटोदेरपि तद्धेतुत्वेन सम्बन्धरूपव्यवहारानुगुण्यापादकत्वं हि ज्ञानज्ञेयसाधारणं स्यात् ।। उच्यते । व्यवहारकर्मत्वरूपं व्यवहारानुगुण्यं साधारणम् । तद्धि व्यवहारप्रतिसंबन्धित्वम् । तदेव भासमानत्वम् । घटः प्रका-शत इति व्यवहारश्च तन्निबन्धनतया मुख्यः । व्यवहारप्रतिसम्बन्धित्वं प्रति हेतुत्वरूपव्यवहारानुगुण्यं ज्ञानस्यैव । तत्र प्रत्यकत्वानुकूलत्वैकत्वलक्षणस्य स्वस्य व्यवहारप्रतिसम्बन्धितां प्रति हेतुत्वरूपं व्यवहारानुगुण्यं ज्ञातृस्वरूप-भूतज्ञानस्यैव स्वस्वरूपस्वगतैकत्वपराक्तानुकूलत्वाद्याकार-खाश्रयतत्सम्बन्ध-स्वविषयतत्सम्बन्धानां व्यवहार-प्रतिसम्बन्धित्वे हेतुत्वरूपं व्यवहारानुगुण्यं तु धर्मभूतज्ञानस्यैव ।अतः स्वपरव्यवहारानुगुण्यं ज्ञानासाधारणप्रकाश-लक्षणमिति युक्तम् ।।

अथ नित्यत्वमाह सर्वेति । यद्यपि कालानवच्छिन्नत्वमनुगतं नित्यत्वलक्षणं प्रागुक्तम् । सदकारणत्वञ्च नित्यत्वं प्रसिद्धम्-तथापि संविदः कालव्यतिरिक्तत्वात् कालव्यतिरिक्तार्थनित्यत्वं कृत्स्नकालसम्बन्धव्याप्तमिति तेनापि सविशेषत्वापादनाय कालव्यतिरिक्तार्थनित्यत्वलक्षणमत्रोक्तम् ।

धर्माणामभावरूपत्वेऽप्यनैकान्त्यमाह तेषामिति । अभावरूपाणमपि स्वरूपानतिरिक्तत्वे दूषणमाह संविदि त्विति । तुशब्देन प्रागुक्तशौक्लयादिदृष्टान्तवैषम्यभिहाभिप्रेतम् । तस्य कस्यचिद्धर्मत्वेन स्वपरनिर्वाहक-त्वात्, स्वरूपे प्रतिपन्ने भ्रमविरोधित्वाच्च स्वरूपमेव व्यावृत्तिः । ब्रह्मणस्तु कस्यचिद्धर्मत्वेनानभ्युपगमात्, स्वरूपे प्रतिपन्नेऽपि भ्रमसहत्वाच्च पुरोऽवस्थितशुक्लभास्वरशकलस्येव न स्वरूपमेव व्यावृत्तिरिति । संविदस्तीतिशब्दो नित्यस्वयंप्रकाशादिशब्दाश्च किमधिकार्थाः उतानधिकार्थाः? अधिकार्थत्वे सविशेषत्वम्; अन्यथा पदान्तरवैय- र्थ्यम्, स्वरूपमात्रस्याविगीतत्वात् । नित्यत्वादिसाधनैर्हेतुभिः किं संविन्मात्रं साध्यते, उत तदतिरिक्तं किञ्चित् ।

प्रथमे सिद्धसाध्यत्वम् ; द्वितीये सविशेषत्वमित्येवं समानाधिकरणपदप्रयोगानुपपत्तिर्नित्यत्वादिसाधकहेतूनां सिद्ध-साधनत्वं चाभिप्रेतम् । यथा संवित्सिद्धौ, "न वेद्यं वित्तिधर्मः स्यादिति यत् प्रागुदीरितम् । तेनापि साधितं किञ्चित् संविदोऽस्ति न वा त्वया । अस्ति चेत् पक्षपातः स्यात् न चेत् ते विफलः श्रमः ।। " इति । नित्यत्वादिधर्माणां पर-स्परभेदानभ्युपगमे एकेनैव धर्मेण साधितेनालम्; न तु धर्मान्तरं साध्यम्; तस्य पूर्वप्रसाधितधर्मानतिरिक्तत्वात् । न हि नित्यत्वे प्रसाधिते कालापरिच्छेदः पुनरपि साध्योऽवतिष्ठते । एवं नित्यत्वादीनां स्वरूपाद्भेदः परस्परभेदश्च सिद्धः ।

परेण संविदो निर्भेदत्वापादनमुखेन तस्य आत्मत्वं संधितम् । अत्र निर्भेदत्व-निराकरणमुखेन संविदा-त्मत्वं निराकर्तुमारमते अपि चेत्यादिना । तत्र सविशेषत्वमापादयितुं विकल्पयति संवित्सिध्यति वा न वेति । किं प्रतीता उताप्रतीतेत्यर्थः । प्रथमं शिरो दूषयति सिध्यति चेदिति । सर्वप्रमाणानां सविशेषविषयत्वस्य पूर्वमुप-पादितत्वादिति भावः । यद्वा सिध्यद्वस्तु सिद्धेराश्रयतया सविशेषं स्यात्-सिद्धिः प्रकाशः; व्यवहारानुगुण्यधर्मयो- गी स्यादित्यर्थः । शिरोद्वयापादि(पदि)तदोषपरिहाराय परोक्तं शङ्कते सिद्धिरेवेति । सिद्धेः सिद्धयन्तरानपेक्ष- त्वात् प्रमितिविषयत्वप्रयुक्तं सिद्धिसम्बन्धित्वरूपं सविशेषत्वं न स्यात् । अथापि तुच्छत्वं च न भवेत्; न च शश-शृङ्गं सिद्धिरूपमिति भावः । तत्रापि सविशेषत्वमाह कस्येति । प्रतीतिश्चेत्, कस्यचिदाश्रयस्य किञ्चिद्विषयं प्रति भवेदिति तदुभयं वक्तव्यमित्यर्थः । विपक्षे बाधकमाह यदीति । तद्विवृणोति सिद्धिर्हीति । पितृः स्थाने विषयः, पुत्र-स्थाने आश्रयः, पुत्रत्वस्थाने सिद्धिः । पुत्रत्वस्य हि पुत्रः आश्रयः । कस्यचिदित्युक्तं ज्ञात्रपेक्षाप्रतिक्षेपं शङ्कते आ-त्मन इति चेदिति । आत्मानं प्रतीत्यर्थः । आत्मशब्दः स्ववाची । अनेन प्रत्यक्त्वं फलितम् । सिद्धिप्रतिसंबन्धी स्वात्मा हि प्रत्यक् । स्वस्मै भासमानत्वं प्रत्यक्त्वमिति हि वक्ष्यते । तच्च संविदोऽनुपपन्नमित्यभिप्रायेणाह कोऽय-मात्मेति । अयंशब्दः सिद्धिप्रतिसम्बन्धित्वपरः । सिद्धिप्रतिसम्बन्ध्यात्मा कः । किंशब्दः क्षेपे । संविन्न सिद्धिप्रति-सम्बन्ध्यात्मा । संविदः प्रत्युक्तमनुपपन्नमित्यर्थः । संविदात्मत्वस्योपपादितत्वान्नानुपपन्नमिति चोदयति नन्विति । परिहरति सत्यमुक्तमिति । संविदात्मत्वस्य दुरुक्तत्वं संविदात्मत्वनिराकरणमुखेनोपपादयितुमारभते तथा हीति । कर्मनिर्देशो दृष्टान्तत्वेन । अर्थजातमिति । धर्मधर्मिरूपपुञ्ज एव प्रमितिविषय इति भावः । सिद्धिरूपा प्रकाशरूपा; अत एव तदुभयसम्बन्धिनी । कथमिति ।आत्मधर्मभूता संवित् स्वयं कथमात्मेत्यर्थः ।

सिद्धिशब्द उत्पत्तिज्ञप्तिसाधारण इह किमर्थः? प्रकाशश्चेदिह विवक्षितः, । स कः? तस्य कर्मकर्तृसम्ब-न्धित्वे किं प्रमाणम्? वृत्तिज्ञानं हि सकर्मकर्तकम्, संवित्तु केवला । इह कर्मनिर्देशे किं फलमिति शङ्कायामाह एत-दुक्तं भवतीति । अनुभूतिरित्यनेन ज्ञप्तिपरत्वमुक्तम् । स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारा-नुगुण्यापादनस्वभाव इत्यनेन तत्स्वरूपमुक्तम् । एवं सिद्धिशब्दार्थ उक्तः । ज्ञानावगतिसंविदाद्यपरनामेत्यनेन ज्ञानसंविच्छब्दयोः पर्यायतया वृत्तिज्ञानसंविदोविर्भागस्य निष्प्रमाणकत्वं फलितम् । घटमहं जानामीत्यादिना, आत्मसाक्षिकः प्रसिद्ध इत्यन्तेन कर्मकर्तृसम्बन्धस्य स्वानुभवसिद्धत्वं ज्ञानसंविदोः पर्यायत्वञ्चोक्तम् । तत्र स्वा-नुभवसिद्धत्वमुक्तम् । ज्ञानसंविच्छब्दयोः पर्यायत्वमुपपादितञ्च । कर्मकर्तृसंबन्धे परभ्युपगतिमाह एतत्स्वभावत- येति । आत्मनः स्वयम्प्रकाशत्वं साधयता कर्मकर्तृसम्बन्धिज्ञानस्य स्वयम्प्रकाशत्वं साधितमिति सकर्मकंज्ञानं जड-रूपमात्मभूतज्ञानादन्यत् वृत्तिरूपमित्यभ्युपगमोऽनुपपन्न इति भावः । अस्येत्यादिना कर्मनिर्देशस्य फलं दर्शितम् । ननु न वयं संविदः कर्त्तृत्वमिच्छाम इति कथमयं प्रसङ्गः ।। उच्यते । संविद आत्मत्वं वदता प्रत्यकत्वमभ्युपेतव्यम् ।

प्रत्यक्त्वञ्च ज्ञानाश्रयस्यैवेति संविदो ज्ञातृत्वमवर्जनीयम् । तच्च दुर्घटमित्यर्थः । कर्त्तृत्वमाश्रयत्वम् । धात्वर्थाश्रयो हि कर्ता ।

एवं धर्मधर्मभावेन प्रतीत्या संविदात्मत्वं निराकृतम् । अथ स्थिरत्वास्थिरत्ववैधर्म्येण तद् व्युदस्यते । तथेति । हिर्हेतौ । तथाशब्देन चार्थेन हेत्वन्तरमुच्यते । कर्तृस्थैर्यमुपपादयति कर्त्तृस्थैर्य तावदिति । प्रत्यभिज्ञाय-मानत्वाद्धि घटादेः स्थैर्यसिद्धिः; तद्वत् तत्र घटप्रत्यभिज्ञाकाल,#े पूर्वं मया अनुभूत इति कर्तुरपि प्रत्यभिज्ञाविषय- त्वात् स्थैर्यसिद्धिरित्यर्थः । अथ ज्ञानस्योत्पत्तिस्थितिनिरोधान् दर्शयति अहमित्यादिना । जानामीत्यनेनोत्पत्ति-स्थिती सिद्धे । अज्ञासिषमित्यतीतत्वप्रतीतिः । एवद्वैशद्यायानन्तरपूर्वकालसञ्जातज्ञानविशिष्टत्वपरामर्शद्योतनार्थं ज्ञातुरेव ममेत्युक्तिः । उत्पत्त्यादय इति आदिशब्देन स्थितिनिरोधग्रहणम् । संविद उत्पत्तिर्नाम त्रिचतुरक्षणस्था-यिन्याः तस्याः प्रथमक्षणयोगः; क्षणान्तरसम्बन्धः स्थितिः । संविदः स्वप्रकाशत्वात् ते प्रत्यक्षे । घटसंविदो निरो- धो नाम पटसंवित् । सा च प्रत्यक्षा । इतिर्हेतौ । स्थिरत्वा स्थिरत्ववैधर्म्येण न तदैक्यमित्यर्थः । एवं प्रत्यभिज्ञावि-षयत्वेनाऽऽत्मनः स्थैर्यभुक्तम् । अथ प्रत्यभिज्ञाश्रयत्वेन स्थैर्यमुच्यते एवमिति । पूर्वत्र प्रत्यभिज्ञाप्रत्यक्षसिद्ध-मित्युक्तम्; अत्र प्रत्यभिज्ञा न घटत इत्युक्तम् ।अयमभिप्रायः-प्रत्यभिज्ञाविषये ज्वालादौ यत्र क्कचिदन्यथासिद्धिः संभवेत्, तत्र न स्थैयर्सिद्धिः । अत्र प्रत्यभिज्ञाविषयत्वान्यथासिद्धावपि प्रत्यभिज्ञाश्रयत्वस्यानन्यथासिद्धत्वात् भ्रान्तिरूपप्रत्यभिज्ञायामपि तदाश्रयस्य स्थैर्यमनन्यथासिद्धमिति प्रत्यभिज्ञाश्रयत्वप्रयुक्तं स्थैर्यं दुष्प्रकम्पमिति । प्रत्यभिज्ञाश्रयतया स्थैर्यं विवृणोति अन्येनेति ।

एवं स्थिरस्य ज्ञातुर्धर्मत्वेनास्थिरत्वेन च प्रतीतत्वात् अस्थिरत्वनिबन्धनात्प्रतिसन्धानासंभवाच्च संविदा-त्मत्वं निरस्तम् ; अथ स्थिरत्वाभ्युपगमेऽपि प्रतिसन्धानासंभवादात्मत्वं व्युदस्यति किञ्चेति । अनुभूतेरात्मत्वा-भ्युपगमे तस्या नित्यत्वेपीति । आत्मत्वाभ्युपगमौपयिकतया संविदो नित्यत्वाभ्युपगमेऽपीत्यर्थः । न केवलमनि-त्यत्वपक्ष एव संविदात्मत्वानुपपत्तिः; नित्यत्वेऽपि इत्यपिशब्दार्थः । आत्मा हि प्रतिसंधत्ते; प्रतिसंधानमत्र न संभवतीत्यर्थः । तदसंभवमुपपादयति प्रतिसन्धानमिति । तदुदाहरति अहमिति । ततः किमिति शङ्कायां तस्य परानिष्टत्वमाह भवत इति । न केवलं भवदनभ्युपगमः, अनुभूतेरनुभवितृत्वं गमनक्रियाया गन्तृत्ववत् अनुपपन्नं चेत्यभिप्रायेणाह अनुभूतिरिति । मात्रचा अनुभवितृत्वव्यावृत्तिः । ननु धर्मत्वास्थिरत्वाप्रतिसन्धातृत्वैः संविदो नात्मत्वं यदुक्तम्, तन्न वक्तव्यम्; अनुभवितृत्वस्यात्माकारत्वेनानभ्युपगमात्; विषयाश्रयशून्यायाः संविदो गुण-भावाभावात् तदुभयसम्बन्धप्रयुक्तानित्यत्वप्रसङ्गाभावाच्चेत्यत्राह संविन्नामेति ।। ननु कथं विषयाश्रयशून्यज्ञाना-भावः? स्वरूपभूतं ज्ञानं विषयाश्रयशून्यं त्वन्मते ।। उच्यते । स्थविष्ठमिदं चोद्यम् । किं त्वया ज्ञातुरेव ज्ञानशब्द-वाच्यस्याजडत्वनित्यत्वादिकं विषयाश्रयशून्यत्वमात्मत्वं च साध्यते? तत् सिद्धसाधनम् । यदि ज्ञातृव्यतिरिक्तस्य ज्ञानस्य, तर्हि ज्ञातृव्यतिरिक्तं विषयाश्रय विरहितं ज्ञानं सून्यमिति ब्रूमः । ज्ञातृज्ञेय तदवच्छिन्न ज्ञानस्वरूपत्रिका-तिरिक्तं ज्ञानमनुपलम्भनिरस्तमित्यर्थः । बौद्धैकदेशिभिः धर्मिकल्पनातो वरं धर्मकल्पनेति लाघवन्यायात्, ज्ञात्रा-त्मवादिना ज्ञानात्मवादिना च सम्प्रतिपन्ना संविदेवात्मेत्युक्तम् । तदाशङ्कय परिहरति उभयेति । कल्पनायामेव लाघवन्यायः; न तूपलब्धौ । अन्यथा अत्यन्तलाघवार्थं माध्यमिकमतानुसारेण ज्ञानञ्च त्यज्येत ।। कल्पने तु लाघ-वन्यायः; संवित्तूपलभ्यत इति चेत्-ज्ञाताऽपि तथोपलभ्यते ।अत उपलब्धिपराहतत्वात् संविदात्मत्वमनुपपन्नमि-त्यर्थः । साश्रयैव संविदुपलभ्यते; तथाऽपि युक्तिभिर्निर्विशेषत्वं साधितमित्यत्राह अनुभूतिमात्रमिति । यद्वा संविदः परमार्थत्वेनोभयवादिसम्मतत्वात् सैवात्मेत्युक्तमित्याशङ्कय दूषयति उभयेति । उपलब्धिपराहतम्-प्रत्यक्-

त्वलक्षणस्यात्मत्वस्य अहं जानामीति ज्ञातृत्वसामानाधिकरण्येनोपलब्ध्या पराहतमित्यर्थः । ज्ञातुरेव प्रत्यगात्म-त्वमुपलब्धिसिद्धमित्युक्तम् । तस्या उपलब्धेर्निर्विशेषसंविदात्मत्वसाधकयुक्तिभिर्बाधितत्वमाशङ्कयाह-अनुभूति-मात्रमिति ।

प्रत्यगर्थो ह्यात्मा । प्रत्यकत्वं च अहमर्थत्मत्वे तु न सिध्यति, संविदात्मत्वपक्ष एव सेत्स्यतीति चोद- यति । ननु चेति । अहं जानामीत्मस्मत्प्रत्यये-अस्मत्प्रत्ययत्वेन पराभ्युपगते । यश्चित्यदार्थः, स आत्मा; कुत इत्यत्राह अनिदमंश इति । इदमंशव्यतिरिक्तः परागर्थव्यतिरिक्तः प्रत्यगर्थः । हेतुगर्भमिदम्; प्रत्यगर्थत्वादित्यर्थः । प्रत्यकत्वं च कुत इत्यत्राह प्रकाशैकस्य इति । स्वयम्प्रकात्वादित्यर्थः । हेत्वभिप्रायश्चिच्छब्दः । ज्ञानत्वात् स्व-यम्प्रकाशत्वमित्यर्थः । प्रत्युकत्वं स्वस्मै प्रकाशमानत्वम् । स्वयंप्रकाशत्वमनन्याधीनप्रकाशत्वम् । अहमर्थस्तु युष्मदर्थलक्षणः । युष्मदर्थलक्षणत्वात् परागर्थविशेषोहमर्थ इत्यर्थः । युष्मदर्थ लक्षणत्वं कुत इत्यत्राह तद्वलेति । तद्वलनिर्भासितत्वात्-ज्ञानाधीनप्रकाशत्वात् । तच्च चिन्मात्रातिरेकित्वादित्यर्थः । अस्मिश्चोद्यग्रन्थे संविदात्म- त्वे व्यतिरेकित्रयम्, अहमर्थानात्मत्वे अन्वयित्रयञ्चाभिप्रेतम् । तत्र व्यतिरेकिणां व्यतिरेकिदृष्टान्तोऽन्वयिनां सपक्षश्च युष्मदर्थशब्देन सूचितः । अनुभूतिरात्मा, प्रत्यकत्वात्; यदनात्मा तन्न प्रत्यक् यथा घटः-अनुभूतिः प्रत्य-ग्भूता स्वयंप्रकाशत्वात्, यन्न प्रत्यक् तन्न स्वयम्प्रकाशम्, यथा घटः-अनुभूतिः स्वयम्प्रकाशा, अनुभूतित्वात्, यन्न स्वयंप्रकाशम्(स्वतस्सिद्धि), न तदनुभूतिः,यथा घट इति व्यतिरेकित्रयम् । अहमर्थो ज्ञानाधीनप्रकाशः चिद्व-#्यतिरिक्तत्वात् घटवत्; अहमर्थः पराक् ज्ञानाधीनप्रकाशत्वात् घटवत्; अहमर्थो नात्मा पराक्त्वात् घटवदित्य-न्वयित्रयम् । स्वयम्प्रकाशत्वमेव संविदात्मत्वे साक्षाद्धेतुतया पूर्वमुक्तं पूर्वपक्षोपन्यासे; अत्र तु तेन प्रत्यकत्वं साधयित्वा तेनाऽऽत्मत्वं साधितम् । एतत् परिहरति नैतदेवमिति । संवित्स्वयम्प्रकाशत्वमिष्टम्; शिक्षणीयां- शश्च शिक्षितः(श्चोक्तः) । अतः स्वतस्सिद्धत्वसाधकहेतोः सिद्धसाध्यता । ज्ञातुः अस्वतस्सिद्धत्वसाधकहेतोश्चि-दन्यत्वस्यासिद्धिर्वक्ष्यते । इतरानुमानचतुष्टयमिह निरस्यते । संविदात्मत्वादि किं प्रतीत्याऽभ्युपगतम्, उत प्रत्य-क्त्वसिध्द्यनुपपत्त्या, उत श्रुत्यर्थापत्त्या, उत श्रुतिस्मृतिसूत्रस्वारस्यात् इति विकल्पमभिप्रत्य प्रथमपक्षे प्रत्यक्ष-प्रतीतिविरोधमाह अहं जानामीति । एतेन परोक्तानां ज्ञानप्रत्यकत्वात्मत्वज्ञातृत्वपराकत्वानात्मत्वसाधकानाम-न्वयव्यतिरेक्यनुमानानां कालात्ययापदेश उक्तः । अहं जानामीत्यत्राहमर्थः स्वावभासेऽपि घटावभास इव प्रति-सम्बन्धितया अहमिति प्रतीयते । धर्मीतया अवभासादेव न ज्ञानशेषतावभासः । अतः स प्रत्यक्; आत्मा च । ज्ञानं धमर्तया प्रतीयमानं सुखादिवदन्यस्मै भासत इति न प्रत्यक् आत्मा च । ज्ञानं धर्मतया प्रतीयमानं सुखादि-वद्यस्मै भासत इति न प्रत्यक् नाप्यात्मा ,अपितु पराक् अनात्मा च । अतश्चतुर्णा हेतूनां प्रत्यक्षबाध उक्तो भवति ।

अथ प्रत्यकत्वं विपरीतसाधकं चेत्याह किञ्चेति । स्वस्मै प्रकाशमानत्वरूपं प्रत्यकत्वं परस्मै प्रकाशमानत्वं पराक्त्वं चाहमि-दम्बुद्धिम्यां हि विभज्यते । तस्मादहम्बुद्धिविगमे प्रय्यकत्वमेव न सेत्स्यतीति प्रत्यकत्वमहमर्थस्यै-वात्मत्वसाधकमित्यर्थः । संविदि प्रत्यकत्वाभावादात्मत्वसाधकहेतोरसिद्धिश्च फलिता । अहमर्थस्य पराकत्वाभा-वादनात्मत्वसाधकहेतोरसिद्धिश्च सिद्धा । अहम्बुध्येत्यनेन युष्मदस्मत्प्रत्ययगोचरयोरिति स्वोक्तिविरोधश्च, "कोऽहमित्येव निपुणः", "शब्दोऽहमिति दोषाय नात्मन्येष" इत्याद्यागमविरोधश्च गर्भितः; हि शब्दस्य प्रसिद्धि-परत्वात् । हेतौ वा, अनुभूतिः पराची, अहमर्थव्यतिरिक्तत्वात् घटवदिति । प्रत्यकत्वहेतोरसिद्घिदार्ढ्य, तत्प्रत्य-कत्वसाधकस्य स्वयम्प्रकाशत्वहेतोः सत्प्रतिपक्षत्वञ्च, अनुभूतिरनात्मा अहमर्थव्यतिरिक्तत्वात् घटादिवदिति

संविदात्मत्वसाधकस्य प्रत्यकत्वहेतोश्च सत्प्रतिपक्षत्वं चाभिप्रेतमित्यवगम्यते; अहम्बुध्द्या परागर्थात् प्रत्यगर्थस्य भेदसमर्थनात् । हिशब्दाच्चात्र संवित्प्रत्यकत्वहेतोरसिद्धिन्च सिद्घा । श्रुत्यर्थापतिं्त वक्तुं मुमुक्षोरभिसन्धिमाह निर-स्तेति । ततः किमित्यत्राह अहमर्थविनाश इति । यत्सम्बन्धित्वेन दुःखज्ञानं यत्सम्बन्धिनी दुःखविनिवृत्तिर्यत्स-म्बन्धिनी सुखप्राप्तिश्चेप्स्यते, तद्विनाशो मोक्षश्चेत्, अधिकारिविरहादप्रमाण्यं भवेत् । प्रमितिजनकत्वं हि शास्त्र- स्य प्रामाण्यम् । बुभुत्सितग्राह्यस्य शास्त्रस्य पुरुषार्थपर्यवसायित्वाभावे श्रवणमननाद्यधिकारी न सिध्येत् । न हि शास्त्रं श्रवणादिनिरपेक्षं कस्यचित् प्रमितिं जनयति । अतोऽधिकारिविरहात् प्रामाण्यं न भवेदिति शास्त्रप्रामाण्या-न्यथानुपपत्तिरूपश्रुत्यर्थापत्तिरुक्ता । अहमर्थे नष्टेऽपि ज्ञप्तिर्नित्या तिष्ठतीत्यत्राह मयि नष्टेऽपीति । न हि मयि नष्टे-ऽपि स्तम्भस्तिष्ठतीति स्वशिरश्छेदः पुरुषार्थः स्यादिति भावः । न हि केवलसंविदः श्रवणादौ प्रवृत्तिः, अपित्वहम-र्थस्यैव; अतः प्रवर्तमानोऽयं स्वनाशाय न प्रवर्त्तते । अहमर्थविगमे ज्ञप्त्यवस्थानमभ्युपगम्य दूषणमुक्तम् । अथ तद-वस्थानमेव नास्तीत्याह स्वसम्बन्धितयेति । सामान्याकारः सत्ता; विज्ञप्तिता-विषयप्रकाशत्वरूपविशेषाकारः । आदिशब्देन स्वयम्प्रकाशत्वं विवक्षितम् । सत्ताया आश्रयसम्बन्धाधीनत्वात्, स्वरूपलाभे सति ज्ञप्तित्वादि-सम्भवाच्च सर्वं तदधीनमित्यर्थः । अतो यत्सम्बन्धायत्ता सत्ता, तत्संबन्धिवियोगे ज्ञप्तिसत्तैव नेत्याह स्वसम्बन्धेति । घटकरकाकाशदृष्टान्तव्यावृत्त्यर्थ विषयाश्रयसम्बन्धस्य सत्ताहेतुत्वे दृष्टान्तमाह छेत्तुरिति । छेदनादेरि आदिना सत्ता तत्फलं द्वैधी भाव इत्यादि विवक्षितम् ।

एवं प्रत्यक्षविरोधात् असिद्धत्वात् विपरीतसाधकत्वात् सत्प्रतिपक्षत्वाच्च संविदात्मत्वानुपपत्तेः श्रुत्यर्था- पत्या चाहमर्थात्मत्वमाह अत इति । पूर्वोत्तरहेतूनामियं प्रतिज्ञा । श्रुतिस्मृतिसूत्राणि दर्शयति विज्ञातारमिति । ज्ञातव्यस्यात्मनो ज्ञातृत्वमुक्तं, "विज्ञातारमरे केन विज्ञानीयात्" इति । ज्ञातृत्वस्य स्वाभाविकतया मुक्तावपि ज्ञातृत्वमस्तीति दर्शयति जानात्येवेति । "ज्ञोऽत एव" इत्यत्र ज्ञशब्दनिर्दिष्ट आत्मेति ज्ञापनार्थम्, "नात्मा श्रुतेः" इति सूत्रमुपात्तम्; त्वया अनित्यतया अभ्युपेतस्याऽहमर्थस्य नित्यत्वकथनमपि तस्यैवात्मत्वसाधकमिति च ज्ञापनार्थम् । अतो नात्मेति संविदात्मत्वप्रतिक्षेपनिगमनात् । पूर्वोक्ताहमर्थात्मत्वप्रतिज्ञायां संविदात्मत्वप्रतिक्षेपे च यथायथमुक्तहेतवोऽनुसन्धेयाः ।

दूषणान्तरं व्याहतिरप्यस्तीत्याह अहंप्रत्ययेत्यादिना । अहंप्रत्ययसिद्ध इति सिद्धशब्देन स्वतस्सिद्धिः सूचिता । अत एव ह्यन्यत्र युष्मत्प्रत्ययविषय इत्युक्तम् । अहंप्रत्ययसिद्धो हीति हि शब्देनास्मदर्थयुष्मदर्थशब्द- तश्च युष्मदस्मत्पत्ययगोचरयोरिति तद्वन्थप्रसिदिं्ध दर्शयति । ज्ञानमेव स्वयम्प्रकाशम्; तद्वयतिरिक्तत्वादहमर्थो-ऽन्याधीनप्रकाशः, अतो नात्मेति शङ्कायां हेतोरसिद्धिमभिप्रयन् अहमर्थस्य प्रकाशान्तरनैरपेक्ष्यं प्रतिजानीते न चासाविति । कुत इत्यत्राह स्वयम्प्रकाशत्वादिति । प्रकाशः-व्यवहारानुगुण्यम् । स्वत एव व्यवहारानुगुण्यश-क्तियुक्तत्वादहमर्थः प्रकाशान्तरनिरपेक्ष इत्यर्थः । तच्च कथमित्यत्राह चैतन्यस्वभावता हि स्वयम्प्रकाशतेति । चेतना ज्ञानम्, तद्भावश्चैतन्यं ज्ञानत्वम्; तत्स्वभावत्वं ज्ञानत्वगुणकतेत्यर्थः । ज्ञानत्वमेव हि ज्ञानस्य स्वय-म्प्रकाशत्वम्, तद्वदत्रापि ज्ञानत्वं प्रामाणिकं चेत्, तदेव स्वयम्प्रकाशत्वं भवतीत्युक्तं भवति । अहमर्थस्य चैत-न्यस्वभावत्वे श्रुतिं प्रमाणं वक्ष्यन् तदनुग्राहकतर्कमुपन्यस्यति यः प्रकाशस्वभाव इत्यादिना । आत्मदीपधमर्-भूतज्ञानप्रभयोः साक्षाद्वा प्रणाल्या वा यादृशव्यवहारानुगुण्यम्, तादृशं व्यवहारानुगुण्यमिह प्रकाशशब्देन विव-क्षितम् । दीपस्य तमोविरोधि रूपमौज्जवल्यं प्रकाशः; ज्ञानस्य तु स्फुरणम् । यःतत्स्वभावःतद्धर्मकः स्वः यव-हारानुगुण्यापादन शक्तियुक्तः सः अनन्याधीतप्रकाशः स्वधर्म निरपेक्षप्रकाश इत्यर्थः । प्रकाशस्वभावत्वासिद्धिर्न

शङ्कनीया; यथा प्रभाश्रयस्य दीपस्य ओज्वल्यं प्रत्यक्षसिद्धं तथा ज्ञातुरपि स्वत एव व्यवहारागुण्यस्य वक्ष्यमाण श्रुतिस्वारस्यानुगतत्वात् । प्रकाशस्वभावस्य स्वधर्मभूत प्रकाशानपेक्ष प्रकाशत्वं उपपन्नमित्येतावदेव हि उच्यते अनेन ग्रन्थेन । अथ चक्षुगर्राह्यत्वे सति प्रभाव्यतिरिक्तत्वात् दीपो घटादिवत् प्रभाबलनिर्भास्य इति दृष्टान्तस्य साध्यवैकल्यमासङ्कयाह नहीति । न च चक्षुर्ग्राह्यत्वे सति प्रभान्यत्वात् घटादिरिव दीपः प्रभावभास्यः,अन्धकारे व्यभिचारात् । अतो न दीपस्य प्रभापेक्षेत्यमिप्रायः । अप्रकाशत्वमन्याधीनप्रकाशत्वञ्चेति । स्वयमौज्जवतयधर्म-कत्वाभावः तत्कृतप्रकाशान्तरसापेक्षत्वञ्च नास्तीत्यर्थः । (अर्थसिद्धं) अर्थस्थितिं वक्तुं अकाशंङ्क्षां दर्शयति किं तर्हीति । उत्तरमाह दीप इति । दीपो न केवलं स्वात्मानमेव प्रकाशयति, अपि तु स्वपरिकरेण अन्यानपि प्रका-शयतीत्यतिशयमाह अन्यानपीति । एवं वाऽर्थः-दीपः प्रभानिरपेक्षप्रकाशश्चेत्, प्रभावत् विषयानपि प्रकाशयेदि-त्यत्राह अन्यानपीति । विषयप्रकाशनक्षमेपि स्वरूपस्य क्वचित्कतया विषयसम्बन्धाभावात् स्वरूपेण न प्रकाश-यति, किन्तु विषयसम्बन्धिन्या स्वपरिकरभूतया प्रभयेत्यर्थः । "यथा प्रकाशयत्येकः कृत्स्नं लीकं इमं रविः" इत्या-दिनिर्देर्शाऽभिप्रेतः ।

यद्वा अनगुमानविवक्षयाऽऽह चैतन्यस्वभावता हीति । चैतन्य स्वमावता ज्ञानधर्मकत्वम् । एतदेव हि स्वयंप्रकाशत्वम् । ज्ञानधर्मकत्वात् स्वयं प्रकाशत्वम् इत्युक्तं भवति । यथा धूमवत्वं ह्यग्निमत्वाभित्युक्ते धूम-वत्वादग्निमत्वं इत्युक्तं स्यात्-तद्वत् । अयं चान्वयी हेतुः । व्याप्तिं दर्शयति य इति । प्रकाश स्वभावः- प्रकाश- धर्मकः । यो धर्म्यन्तरापरोक्षावभासे साक्षाद्वा परम्परया वा भासमानतयैव हेतुः, सोऽनन्याधीन (स इह) प्रका-शशब्दविवक्षितः रूपि-तत्स मवेतार्थचाक्षुषत्वनिमित्तस्य रूपस्य, स्वाश्रयेतरद्रव्यानुमापकदूमादेश्च प्रकाशत्व-व्युदासाय धर्म्यन्तर-अपरोक्षशर्ब्दो । इन्द्रियव्यवच्छेदार्थः भासमान शब्दः । पक्षसपक्षयोः अनुगतत्वाय साक्षाद्वा परम्परया वेत्युक्तम् । ज्ञाता स्वधर्मभूत प्रकाशनिरपेक्षसिद्धिः प्रकाशधर्मकत्वात् दीपवदित्यनुमानशरीरम् । भास-मानतया साक्षाद्वा परम्परया वा धर्म्यन्तरापरोक्षावभासहेतुधर्मकत्वादिति हेतुवाचिशब्दार्थः । दीपस्य स्वधर्मभूत प्रभानपेक्षप्रकाशत्ववत् ज्ञातुरपि स्वधर्मभूतमाननिरपेक्षप्रकाशत्वं भिदधमिति पक्षधर्मतावलात् स्वयंप्रकाशत्व- सिद्धिः । दृष्यान्ते साध्यान्वयं धर्शयति नहीति । साधनान्वयं दर्शयति अन्यानपीति ।

अनुमानपरत्वादपि ग्रन्थस्य श्रुत्यनुग्राहकतर्कपरत्वं युक्तम्; उत्तरत्र तथा हि श्रतय इति वक्ष्यमाणत्वात् । पूर्वमनुमानं विवक्षितं चेत्, तथा चेति हि वक्तव्यम् । उपक्रमे चैतन्य स्वभावता हि स्वयं प्रकाशतेति समानाधि-करणनिर्देशस्वारस्याच्च । पञ्चम्यर्थत्वे हि स्वारस्यं भज्यते । निगमने च चिद्रूपताहि स्वयंप्रकाशतेत्युक्तम् । चिद्रूप-शब्दो ज्ञानस्वरूपत्परः; न तु ज्ञानधर्मकत्वपरः; अनन्तरपूर्वग्रन्थे चिद्रूप एव चैतन्य गुणक इति (ज्ञानधर्मकत्वस्य पृथगुक्तत्वात्) एवं निगमने स्वयम्प्रकाशतापदसमानाधिकरणस्य चिद्रपताशब्दस्य ज्ञानधर्मत्वस्य पृथगुक्तत्वात् । एवं निगमने स्वयम्प्रकाशतापदसमानाधिकरणस्य चिद्रूपताशब्दस्य ज्ञानस्वरूपतापरत्वदर्शनात्, पूर्वमपि स्वय-म्प्रकाशतापदसमानाधिकरणस्य चैतन्यस्वभावतेति पदस्य ज्ञानस्वरूपतापरत्वस्य समुच्चितत्वाच्च चैतन्यस्वभाव-तेत्यादिभाष्यं श्रुत्यनुग्राहकतर्कपरम् । एवमनुग्राहकतर्कस्य श्रौतत्वे सति अनुमानमप्यर्थसिद्धम्; ज्ञानधर्मकत्वज्ञान-स्वरूपत्वोक्तेः; एकजातीयद्रव्योर्नियतधर्मधर्मिभावे प्रभाप्रभावद्दृष्टान्तोक्तेश्च ।

ज्ञानस्य द्रव्यत्वे द्वयोर्ज्ञानयोर्नियमेन धर्मधर्मिभावो नोपपद्यते; अन्यत्रादर्शनात् । गुणत्वे तु न ज्ञानाश्र-यत्वसम्भवः गुणानामगुणत्वात् । न च द्रव्यत्वेऽपि नियताश्रयाश्रयिभावः प्रभाप्रभावतर्दृश्यत इति वाच्यम्; प्रभाया विशीर्णदीपावयवत्वादित्याशङ्कयाह एतदुक्तमिति । यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रूपेणावतिष्ठते, एवमात्मा

चिद्रूप एव चैतन्यगुण इति यथाशब्दस्योत्तरत्रान्वयः । प्रथमं प्रभाया विशीर्णावयवान्यत्वं प्रतिजानीते एकमेवेति । एकम्-एकजातीयम् (सजातीयम्)। नियतधर्मस्य कथं द्रव्यत्वमित्यत्राह यद्यपीति । गुणभूता-परतन्त्रभूता; अयुतसिद्धिविशेषणभूतेत्यर्थः । तेजोद्रव्यमेवेति प्रतिज्ञातद्रव्यविशेषत्वसिद्धयर्थं प्रथमं द्रव्यत्वमुपपादयति स्वा-श्रयादिति । द्रव्यत्वमस्तु; तत्रापि तेजस्त्वे किं प्रमाणमित्यत्राह प्रकाशवत्त्वादिति । प्रकाशः-तमोविरोध्याकार-विशेषः, औज्जवल्यम् । प्रकाशवत्त्वमुपपादयति प्रकाशवत्त्वं चेति । स्वविषयपरविषयज्ञानविरोधितमोनिरसन-रूपकार्यदर्शनादित्यर्थः । तर्हि कथमस्या गुणत्वव्यवहार इत्यत्राह अस्या इति । तुशब्दः शौक्लयादिवैषम्यपरः । अथ विशीर्णावयवानां प्रभावत्त्वं प्रतिक्षिपति न चेति । कुत इत्यत्राह मणीति । प्रतिक्षणं विनाशप्रसङ्गादित्यर्थः । तदभ्युपगमे मण्याद्यनुपलम्भप्रसङ्गपरिहाराय प्रतिक्षणोत्पत्तिरभ्युपेत्या । प्रतिक्षणोत्पत्तिविनाशाम्युपगमश्चानुप- पन्नः; दीपस्येव उत्पत्तिविनाशसामग्रयनुवृत्त्यभावात् । तदभावेऽपि तेजस्त्वसामान्याद्दीप इव प्रत्यभिज्ञाबाधेन प्रति-क्षणं विनाशादिकल्पने सत्त्वद्रव्यत्वादिभिः घटादावपि क्षणिकत्वप्रसङ्ग इति भावः । रत्नेषु क्षणिकत्वं रत्नशास्त्रवि-रुद्धम्; कालविशेषे तदुत्पत्त्याद्यवगतेः । आदित्यादिषु च क्षणिकत्वं श्रुतिविरुद्धम्, "सूयोचन्ध्रमसौ धाता यथापूर्व-मकल्पयत्" "नाग्नीषोमौ न सूर्यः" इति कालविशेषे तदुत्पत्तिविनाशवगतेः । न च सूर्यादिसृष्टिप्रलयपरवाक्यानां सन्तत्युपक्रमोच्छेदपरत्वं वाच्यम्; रत्नसूर्यादिमात्रक्षणिकत्वे प्रमाणाभावात् । तेजस्त्वं हि (तु) तेजःपरमाणुमि-च्छद्भिः न हेतुतया वाच्यम्; तेजः-परमाणुषु व्यभिचारात् सत्त्वादिभिः क्षणिकत्वे जगत्क्षणिकत्वं स्या#ि#ादत्यु- क्तम् ।। ननु कर्पूरादीनां दूरोपलब्धगन्धानां गन्धाश्रयभूतावयवविशरणस्यावर्ज्जनीयत्वात् उत्तरकालोपलम्भाच्च प्रतिक्षणोत्पत्तिविनाशवभ्युपगन्तव्यौ; तद्वन्मण्यादिष्वपीति ।। नैवम् । समुद्गकसम्पुटादिनिवातदेशनिहित-दृढपि-हित-धनसारादेःदूरे गन्धोपलम्भाभावात् आश्रयावयवविशरणाभावेन यथापूर्वं स्थित्युपलम्भोपपत्तेः न प्रतिक्षणो-त्पत्तिविनाशौ कल्प्यौ । सवातदेशस्थधनसारादीनां दूरोपलभ्यमानगन्धानामल्पावयवविशरणमस्त्येव । वयविनि च सूक्ष्मपरिक्षयो विद्यत एव; तुलया परीक्षणेऽप्यल्पाल्पपरिमाणापकषर्दर्शनात् । अतः प्रतिक्षणमवयवान्तरोपनि-पातविश्लेषहेतुकोत्पत्तिविनाशौ कल्प्यौ । कल्पनेऽपि परितः केषाञ्चिदवयवानामुपलभ्यमानगन्धाश्रयत्वेन उभयवादिसम्प्रतिपन्नानामेव स्थितिमात्रं कल्प्यम्; तावता गन्धोपलब्ध्युपपत्तेः । अनेक धर्मि-तदुत्पत्तिविनाशा-अपरिदृष्टतदुभयसामग्रीकल्पने गौरवाच्च । यद्वा घ्राणस्यापि चक्षुष इव रश्मिद्वारा संबन्धात् दूरस्थपदार्थगतगन्ध-ग्राहित्वं कल्प्यम् । गौरवाभावात् । न केवलं कल्प्यं रश्मिमत्त्वम् । उक्तञ्च भारते, "न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः । प्रवर्त्तमानैरनयैर्दुर्द्धर्षै रकृतात्मभिः ।। तेषां तु मनसा रश्मीन् यदा सम्यङ्नियच्छति । तदा प्रकाशते ह्यात्मा दीपो(?) दीप्यन्निराकृत्तिः ।।" इति । इन्द्रियाणां पञ्चीकृतभूताप्यायनैः र्वायुतेजःप्रभृतिभिः सम्बन्धात् रश्मिमत्त्वं चोपपद्यते ।।

ननु अग्न्यातपसम्बन्धात् (तपतप्त) सलिलशिलादेरौष्ण्यतारतम्योपलम्भोऽग्न्यातपाद्यवयवसङ्क्रान्तिं विना नोपपद्यते । सलिलादेः स्वत औष्ण्याभावान्निराश्रयधर्मसङ्क्रमणायोगाच्च औष्ण्याश्रयभूत अग्न्यातपावय- वस्य संक्रान्तिरभ्युपेत्या । एवमवयवसङ्क्रान्तिश्च विशरणेन विना नोपपद्यते । गत्वराणां रश्मीनां चरणतलाना- मिव कथं विशरणेन विना क्कचित् सङ्क्रमः अवयवतारतम्याच्चौष्ण्यतारतम्यम् इति ।। उच्यते । अग्नितप्तेषु अग्न्य-वयवसङ्क्रान्त्यैव औष्ण्योपलम्भः । सलिलादौ सङ्क्रान्तिमन्तोऽग्न्यवयवा एव प्रभेति न वाच्यम्; दीपप्रभया अहोरात्रसंवृते(पृक्तऽ)पि सलिलभूतलादावौप्ण्यानुपलम्भात् । आतपतप्तेष्वपि न किरणशिरणादवयवसङ्क्रमः, तुहिनकणानामिव रविकिरणोपात्तमुक्तानामग्नयवयवानां संक्रमणादुष्णोपलम्भोपपत्तेः । न चात्र कल्पकमन्वेष्ट-

व्यम्; नापि कल्पनागौरवं प्रसजति; आगमसिद्धत्वादस्यार्थस्य । तथाहि मात्स्ये पुराणे कथ्यते, "वसन्ते ग्रीष्मके रश्मिशतैः सन्तपति त्रिभिः । शरद्यपि च वर्षासु चतुर्भिस्सम्प्रवर्षति ।। हेमन्ते शिशिरे चैव हिममुत्सृजते त्रिभिः" इति । यथा वर्षासु हेमन्ते च रविकरणमुक्ता सलिलकणाः तुहिनकणाश्च न विशीर्णकिरणावयवाः;किन्तु किर-णोपात्तविमुक्ता आप्यावयवा एव-एवं(वसन्ते?) ग्रीष्मे च रविकिरणाजन्यं सन्तापनं न तद्विशीर्णावयवकार्यम्, किंतु तदुपात्तमुक्ताग्न्यवयवकार्यमिति प्रतीयते । तथा "अग्निं वा वादित्यः सायं प्रविशति", "उद्यन्तं वावादि-त्यमग्निरनुसमारोहति" इति श्रूयते । अत्र चाऽऽदित्यतिरोधानदर्शनावच्छिन्नकालविशेषपरौ सायंप्रातःशब्दौ । कालस्य सायम्भावप्रातर्भावौ रविविप्रकृष्टसन्निकृष्टतत्तदेशविशेषवृत्तिपुरुषापेक्षया सर्वदोपपद्यते इत्ययमर्थो भुवन-कोशे स्पष्टतरः । ततश्च प्रविशतीत्यनेनाम्नावादित्यस्य व्याप्तिरुच्यमाना दूरस्थितस्य स्वरूपेण नोपपन्नेति किण- द्वारा भवति । अग्निरनुसमारोहतीत्यनेन अग्न्यवयवानामादित्येनोपादीयमानत्वमुच्यते । न चाग्न्यधिष्ठातृदेवता-रोहणपरमिदं वाक्यम्; "तस्माद्धूम् एवाम्नेर्दिवा ददृशे" इत्यनन्तरवाक्येनाग्नरादित्योपसर्पणनिमित्ततेजोमान्द्यकथ-नात् । अन्यथा सायंप्रातस्समययोः सर्वदा सम्भवेन अग्नेरादित्ये सर्वदारोहरम् अग्नावादित्यस्य सर्वदारोहणेञ्च प्रसजेत् । ततश्चाम्न्यादित्ययोः स्वानविविमयेन सर्वदास्थितिरुक्ता स्यात् । सा च प्रमाणान्तरविरुद्धा ।अत आदि-त्यस्याम्नौ किरणद्वारा व्याप्तिः किरणैःरम्न्यवयवोपादानं च वाक्यद्वयोक्तम् । अतश्चोपात्ताम्न्यवयववर्षेण तापनं मात्स्योक्तम्: उत्सर्जनप्रक-णस्वारस्यात् ।अतस्तुहिनकणानामिव रविकिरणमुक्तानामाग्नेयावयवानां विशीर्ण-किरणावयवत्वाभावात् रविकिरणेषु तन्मण्डले च प्रतिक्षणविनाशोत्पत्तिक्लप्तिरनुपपन्ना । अतो न विशीर्णावयवाः प्रभा ।

दूषणान्तरमाह दीपेपीति । अवयवप्रतिपत्त्यनुपपत्तिमुपपादयति नहीति । दीपः किं विशरणस्वभावः उत स्थिरस्वभावः? विशरणस्वभावत्वे पिण्डीभावो मूर्तद्रव्यप्रतिबन्धनिबन्धनः स्यात् । स्थिरस्वभावत्वे विशरणं मूर्तद्रव्यप्रतिहतिहेतुकं स्यात् । अत्रोभयमनुपलम्भहतम् ।। विशरणस्वभावत्वे पिण्डीभावो वातिनोपपद्यत इति चेत्-तर्हि युवाते पिण्डीभावो न स्यात् । स्तिमितसूक्ष्मवायुना पिण्डीभावश्चेत्-विशरणं न स्यात् । तच्च सूक्ष्मवायुना चेत्, एकस्य विरुद्धस्वभावद्वयायोगात् पिण्डीभावविशरणहेतुभूतवायुद्वयमभ्युपेत्यम् । तयोमिर्थः प्रतिधातुकत्वादन्यतर-विगमे पिण्डीभाव एव वा विशरणमेव वा स्यात् । तत्परिहाराय परस्परान्तरितविरुद्धस्वभाववायुद्वयपरम्परया संन्निधिविगमपरिकल्पने गौरवं स्यात् । तत्कल्पनेऽपि तिर्यग्गत्वराणां वाय्ववयवानां नोदनामात्रहेतूनां परितः प्रतिबन्धकत्वायोगात् पिण्डीभावो न स्यात् ।

ननु पोषणद्रवीभूतपार्थिवावयवसन्दंशात् पिण्डीभावः, ततस्तदवयवगतस्त्रिग्धत्वापगमेन संदंशकत्वा-भावादग्न्यवयवविशरणमित्यत्राह न हि विशरणेति । यद्यग्न्ययवा उद्गमनस्वभावाः,तर्हि विशरणे तिर्यग्नतिर्न स्यात् । यदि ते तिर्यग्गतिस्वभावाः तर्हि प्रथममूद्र्ध्वगतिर्न स्यात् । एकजातीयद्रव्यस्योपाधिना विना विरुद्धस्व-भावत्वायोगात् । उपाधिश्च न दृश्यते । दीपप्रभयोर्भिन्नावयवित्वे तु विरुद्धस्वभावत्वमुपपद्यते । किञ्च चतुरङ्गुला-दिपरिमिति(माण) तारतम्यनियामकोऽपि नास्ति । विशरणे च पार्श्वेऽपि विशरणं सम्भवति । समन्ततो युगपद्वि-शरणेनियामकाभावादित्यभिप्रायः । किञ्च विशीर्णानाभावयवानां पांसूनामिव ॠजुप्रसरण नियमते च न हेतुः । प्रसरणस्य आर्जवनियमश्च तिरोधायकं पदार्थं प्रति ऋ#ृजुदेश एव च्छायायोगादवगम्यते । छायावैपुल्यं तु निवार्य-माररश्मीनां पृथ्वग्रत्वकृतम्, नाऽनार्ज्जवकृतम् । छायाकौटिल्यं तु तिरोधायककौटिल्टकृतम्; न तु प्रसरणा(सारा)-नार्जवकृतम् । तच्च ऋ#ृजुप्रसारित्वसाधकम् । विशीर्णावयवत्वे रेणूनामिव पवनानुत्सार्थमाणत्वं न च घटते ।

प्राचीनजालकनिष्क्रान्ता हि प्रभादक्षिणानिलेन नोत्सार्यते । अन्यथा रजसामपि तत्र नोदनं प्रसजेत् । जालकनि-ष्कान्तप्रभायाश्च पवनानुत्सारित्वं ततः परस्मिन् भित्त्यादौ प्रभा संसर्गादेवगम्यते । अतो धनुषि आततायाः मौर्व्या इव प्रभाया न विशीर्णावयवत्वमिति ।

ततः किमित्यत्राह अतस्सप्रभाका एव दीपाः प्रतिक्षण-मुत्पन्ना इति । तेजस्त्वेन मण्यादिविनाशाम्युप- गमे अतिप्रसङ्गात् , विशरणस्वीकारे पिण्डीभाव-युगपद्विष्वग्निःशरणं- ऋजुसरणाद्यनेकनियमव्यवस्थापकाभा- वात् यथादृष्टाभ्युपगमे विरोधाभावाच्च सप्रभाका एव दीपाः प्रतिक्षणमुत्पन्ना इत्यर्थः । तर्हि कथं प्रतिक्षणोत्पत्ति-विनाशावित्यपेक्षयाम्, यथा मण्यादीनां प्रतिक्षणविनाशो न प्रसजति, तथा दीपक्षणिकत्वे हेतुद्वयमाह पुष्कलका-रणक्रमोपनिपातात्तद्विनाशे विनाशाच्चेति । पृथक्स्थितदण्डचक्राद्#िव्यावत्त्यर्थं पुष्कलशब्दः । वर्त्यवयवाग्नि-संयोगस्य दीपसामग्रीत्वं प्रथमवर्त्यवयवाग्निसंयोगेदृष्टम् । न च प्रथमावयवाग्निसंयोगस्यैव कारणत्वं शङ्कनीयम्; चरममध्यावयवयोरप्यग्निसंयोगे सति दीपोत्पत्तिदर्शनात् । अतः प्रत्यवयवमग्निसंयोगात् पुष्कलकारणपरम्परा दृष्टेति प्रत्यवयवमग्निसंयोगात् दीप उत्पद्यते एव । तत्र प्रतिक्षणमुत्पत्तौ सत्यां युगपदनेकदीपानुपलम्भात् विना- शोपि सिद्धः । प्रतिक्षणाविनाशस्य पृथगनुमापकमुच्यते तद्विनाशे विनाशच्चेति । वर्त्ववयवविनाशस्य दीपविनाश-सामाग्रीत्वं चरमवर्त्यवयवविनाशे दृष्टम् । एवं विनाशकारणानुवृत्तिदर्शनात् प्रत्यवयवविनाशं दीपो विनश्यत्येव । एवमुत्पत्तिविनाशसामग्रयनुवृत्तिभ्यां प्रतिक्षणं तावनुमीयेते इत्यर्थः । प्रभा विशीर्णावयवाः; न चेत्, दीपसमीपे तस्या औष्ण्याधिक्यादिकं कथम्? विशरणपक्षे ह्यवयवबाहुल्यवैरौल्याभ्यामाष्ण्याधिक्यमान्द्यादिकमुपपद्यत इत्य-त्राह प्रभाया इति । प्रकाशाधिक्यमौष्ण्याधिक्यमित्यादीति आदिशब्देनाश्रयविप्रकृष्टदेशे प्रकाशमान्द्यमौष्ण्य-मान्द्यञ्च विवक्षितम् । उपलब्धिव्यवस्थाप्यत्वे दृष्टान्तमाह अग्न्यादीनामिति । उक्तं दार्ष्टान्तिकेऽतिदिशति । एव-मिति । चिद्रूप एवेति । रूपशब्दो धर्मिस्वरूपपरः । ततः किं स्वयम्प्रकाशत्वस्येत्यपेक्षायां चिद्रूपत्वं विवृणोति चिद्रूपता हीति । अनेन वक्ष्यमाणश्रुतिवाक्ये ज्ञानादिशब्दो विवृतो भवति ।।

एवमनुग्राहकतर्कमुपन्यस्य प्रमाणमाह तथाहि श्रुतय इति । स यथा सैन्धवधन इति । अनन्तरः-अन्त-रङ्गव्यतिरिक्तः । अबाह्यः-बहिरङ्गव्यतिरिक्तः । एवं व्यतिरेकनिर्देशेन निश्शेषग्रहणं कृतम् । तदेवाह कृत्स्न इति । दार्ष्टान्तिकविषयो बाह्यशब्दो धर्मिपरः; अनन्तरशब्दो धमर्परः; कृत्स्नशब्दस्तयोरेकदेशजडत्वशङ्काव्युदासार्थः । अत्र सर्वत्रैकरूप्यमेव दृष्टान्तोपजीव्यम्, न त्वन्यत् । दृष्टान्तदार्ष्टान्तिकविषयवाक्यद्वयेऽप्यनन्तरोऽबाह्य इति ह्युक्तम् । शरीरित्वावस्थायामपि ज्ञानात्मकत्वपरं वाक्यमुपादत्ते विज्ञानधन एवेति । घनशब्दोक्तनैरन्तर्यस्य जडां-शमिश्रत्वं व्यावर्तयत्येवकारः । ज्ञानत्वं नाम स्वयम्प्रकाशत्वमिति ज्ञापनार्थम् अत्रायमितिवाक्योपादानम् । धर्म-धर्मिभावं ज्ञापयति न विज्ञातुरिति । ज्ञातृसंबन्धिज्ञानस्य नित्यत्वे कथिते ज्ञानमात्रस्य(?) नित्यत्वशङ्काव्युदा- सार्थं ज्ञातुरेवात्मत्वं दर्शयति अथ य इति । एकवाक्येन ज्ञानगुणकत्वस्व-स्वयंप्रकाशत्वयोः सहप्रतिपादकं वाक्य-माह कतम इति । ज्ञानगुणकत्वज्ञानस्वरूपत्वप्रतिपादकवाक्यमाह एष हीति । ज्ञातव्यस्य निष्कृष्टान्त्मस्वरूपस्य ज्ञातृत्वमाह विज्ञातारमिति । अनेन ज्ञातृत्वं स्वाभविकमिति फलितम् । न केवलं संसृतिदशायाम्; मुक्तावपि ज्ञातृत्वं ज्ञापयति जानात्येवायमिति । अवधारणासङ्कोचान्मुक्तावपि ज्ञातृत्वसिद्धिः(ज्ञातृत्वं सिद्धम्) । मुक्तौ ज्ञाननिषेधश्रुतीनां विषयविभागं दर्शयति न पश्य इति, स उतम इति च । पु#ुरुषं प्राप्तस्य मुक्तस्य ज्ञातृत्वेऽनुवर्त्त- मान एव देहेन्द्रियविगमं दर्शयति एवमिति । अन्तःकरणोत्तीर्णस्य ज्ञातृत्वमाह तस्माद्वा इति । अस्यार्थस्य सूत्र-कारामिप्रेतत्वमाह वक्ष्यति चेति । पूर्वं सूत्रोपादानमहमर्थात्मत्वं सूत्रकाराभिमतमिति ज्ञापनार्थम् । अत्रोपादानं

ज्ञानगुणकत्वज्ञानस्वरूपत्ववादिनीनां श्रुतिनामविरोधः सूत्रकारभिमत इति ज्ञापनाथर्म् ।। ज्ञानत्वात् ज्ञानं न ज्ञानान्तराश्रय इति चेत्-यदि व्याप्त्यनुरोधेनैवमुच्यते, तर्हि धर्मत्वेन स्वीकार्यम् । यदि श्रुतिबलात् स्वातन्त्र्#ेण स्वीक्रियते, तर्हि श्रुतिबलादेव ज्ञानाश्रयत्वमप्यङ्गीक्रियताम् । न च व्याप्तिविरोधः; धर्मभूतज्ञानत्वप्रयुक्तत्वात् ज्ञाने ज्ञानानाश्रयत्वस्य । श्रुत्या ज्ञातृः स्वयंप्रकाशत्वसिदिं्ध निगमयति अत इति ।।

ननु घटमह नानामीत्यत्र ज्ञानस्य ज्ञातृ(ज्ञातृस्व?)सम्बन्धः प्रतीयत इत्यभ्युपेत्यम् । अन्यथा स्वज्ञान-परज्ञान विभागस्य दुर्ग्रहत्वप्रसङ्गात् । स्वसम्बन्धितया प्रतीतं ज्ञानं सम्बन्धा प्रतीतौ कथं स्वज्ञानमिति व्यवह्रियते? अतः स्वसम्बन्धः प्रतीयत एव । तत्प्रतीतिः न तावदहमर्थाद्भवति । "अहमर्थः प्रत्यकत्वेनानुकूलत्वेनैकत्वेन च स्व- तो भाति; न ह्यर्थान्तरमहमर्थो विषयीकर्तुमलम्" इति भवतां प्रक्रिया । अतो धमर्भूतज्ञानेनैव सम्बन्धप्रतीतिः । सम्ब्धश्च सम्बन्धिभ्यां विना न प्रतीयत इति ज्ञातृज्ञानयोरपि सम्बन्धप्रकाशकज्ञानान्तरवेद्यत्वं स्यात् । ततः स्व-तोऽवभासो ज्ञानान्तरेणावभासश्चेत्यवभासद्वयाभावात्, ज्ञानान्तरेणैव प्रकाश्यतया स्वप्रकाश्यत्वासिद्धेः,र्ज्ञातुश्च ज्ञानस्य च जडत्वं स्यात् । किञ्च, ज्ञानान्तरेण सम्बन्धप्रतीतिः अवश्यम्भाविनी चेत्, संबन्धविषयज्ञानेन सह ज्ञातृसम्बन्धस्यापि ज्ञानान्तरेण प्रतीत्यवश्यम्भावात् सम्बन्धज्ञानपरम्पराप्रसङ्गः । अवश्यम्भावाभावे सर्वज्ञानेषु अहं जानामीति ज्ञानज्ञातृसम्बन्धप्रतीतिर्न स्यात् ।। नैवम्; स्वयम्प्रकाशप्रत्यक्षेणैव सम्बन्धप्रतीतेः । नियतविशेष-णविशेष्यभावो हि सम्बन्धः । अहमर्थो विशेष्यतैकस्वभावं स्वात्मानं प्रकाशयति । धर्मभूतज्ञानं च विशेषणतैक-स्वभावं स्वात्मानं प्रकाशयति । विशेषणविशेष्यभावस्य परस्परप्रतियोगिकत्वं च ज्ञातृज्ञानयोः सहावभासादेव प्रती-यते ।। ननु सम्बन्धप्रतीतौ सम्बन्धिनोः सहावभासञ्च एकज्ञानगम्यतया विना नोपपद्यत इति ज्ञातृज्ञानयोर्ज्ञानान्तर-वेद्यत्वं स्यात् । सुरभि पुष्यमित्यादौ भिन्नसामग्रीवेद्ययोरपि गन्धपुष्पयाः सम्बन्धप्रतीतिवेलायामेकज्ञानगभ्यत्वं हि दृश्यत इति चेन्न-तत्र सम्बन्धिनोः सम्बन्धेन सह एकज्ञानगम्यत्वस्य सहावभासप्रयुक्तत्वाभावात् । संबन्धिनो जड-त्वप्रयुक्तं हि तत्रैकज्ञानगम्यत्वम् । अत्र स्वयम्प्रकाशत्वात् स्वयमेव सहावभासमानर्योज्ञातृज्ञानयोर्विशेषणविशेष्यतै-कस्वभावत्वरूपसम्बन्धग्रहो ज्ञानान्तरानपेक्ष उपपद्यते । अतः सम्बन्धाग्रहस्वपरज्ञानविभागाभावसम्बन्धज्ञानपर-म्पराप्रसङ्गाः दूरोत्सारिताः । एवं ज्ञातृत्वस्वयम्प्रकाशत्वोपपादनेन चिन्मात्रव्यतिरिक्तत्वादिति जडत्वयाधकहेतुः निरस्तो भवति । ज्ञानव्यतिरिक्तत्वाज्जडत्वं वदता किं स्वयम्प्रकाशव्यतिरिक्तत्वं हेतुरुक्तः, उत विषयप्रकाशकान्य-त्वम् । प्रथमे साध्याविशिष्टत्वम् । द्वितीये ब्रह्मण्यनैकान्तिकम्; श्रुत्यादिबाधश्च ।

अथ साश्रयत्वे तर्कमाह प्रकाशत्वादेवेति । प्रकाशत्वात्-विषयेण साक्षात्सम्बध्यसाक्षात् परम्परया वा ज्ञायमानत्वेनाऽपरेक्षव्यवहारानुगुण्यहेतुत्वादित्यर्थः । अनेन स्वरूपभूतज्ञानेन्द्रियलिङ्गादिव्यावृत्तिः । हेत्वन्तर-मप्याह संविदनुभूतीति । सम्बन्धिशब्दत्वं शब्दस्वभावायत्तमित्याशङ्कयाह न हि लोकवेदयोरिति । यत्रऽर्थस्व-रूपस्यान्यथात्वं दृश्यते; तत्र शब्दस्वभावायत्तत्वमाश्रयणीयम् । यथा दारा इत्यादिषु बहुत्वादेः । यत्र नान्यथा- त्वम्, तत्रार्थस्वभावायत्तत्वमेव, यथा भार्येत्यादिष्वेकत्वादेः । तथा लोकवेदयोः सकर्मकर्तृत्वदर्शनात् अर्थस्वभावा-यत्तमेव सम्बन्धिशब्दत्वमित्यभिप्रायः । यद्वा-कर्मकर्तृसम्बन्धित्वं व्युत्पत्तिनिमित्तमस्तु; न प्रवृत्तिनिमित्तम् । तत्तु ज्ञप्ति(?)मात्रमित्यत्राह नहि लोकेति । प्रयोगाधीनं हि प्रवृत्तिनिमित्तान्तरकल्पनम् । प्रयोगश्च संबन्धिन्येवार्थ इति नार्थान्तरकल्पना स्यात् । स्वरूपभूतज्ञानवाचिशब्दानां सम्बन्धिशब्दत्वं त्वन्मतेऽप्यनुपपन्नमिति चेन्न, स्वरूप-गोचराणां स्वयम्प्रकाशत्वे रूढानां ज्ञानादिशब्दानां अनुभूत्यादिशब्देभ्यः शब्दान्तरत्वात् । अतः(?) सम्बन्धि-

शब्दत्वोप(त्वव्यप?) देशस्तु धर्मभूतज्ञाने सावकाशेऽस्मन्मते । विषयाश्रयसम्बन्धिज्ञानस्यैव विषयाश्रयसम्बन्ध-बाधेन निराश्रयत्वनिर्विषयत्वाभ्युपगमात् त्वन्मते सम्बधिशब्दत्वोपदेशो निरर्थक इति भावः ।

अथाजडत्वात् संविदात्मत्वसमर्थनं दूषयितुमनुवदति । यच्चेक्तमिति । अथ अजडत्वं किं स्वसत्ताप्रयुक्त-प्रकाशत्वम्, उत अव्यभिचरितप्रकाशसत्ताकत्वम्, उत स्वस्मै प्रकाशमानत्वम्, उत स्वस्मै स्वयम्प्रकाशत्वम्, उत स्वयम्प्रकाशत्वम्, इति पञ्चवा विकल्पमभिप्रेत्याह अजडत्वमितिकिमभिप्रेतमिति ।अहं जानामीति प्रत्यक्ष बीधः सर्वसाधारणं दूषणम् । प्रथमं स्वसत्ताप्रयुक्तप्रकाशत्वपक्षं दूषयितुमाह स्वसत्तति । स्वसत्ताप्रयुक्तः प्रकाशो यस्येति बहुव्रीहिः । वक्ष्यमाणासिद्धिदूषणोपयोगिमेदज्ञापनार्थं स्वसत्ताप्रयुक्तशब्दः । अनैकान्त्यमाह तथा सती- ति । स्वपक्षे ज्ञातुरात्मत्वात्सपक्षभूते तस्मिन्, विपक्षे अनात्मनि दीपे च वृत्याऽनैकान्त्यं पक्षत्रयवृत्तित्वलक्ष्णमु- क्तम् । परपक्षेअनियत्वमेवानैकान्त्यम्; सपक्षाभावात् । दूषणान्तरदूयमाह संविदतिरिक्तेति । संवित् प्रत्योजिका प्रकाशः प्रयोज्य इति तदतिरेकेणानभ्युपगमादसिद्धिः ।अभ्युपगमे निर्विशेषत्वविरोधः । इमीवसिद्धिविरोधौ विक-ल्पितसर्वाशिरस्साधारणावनुसन्धेयौ । यद्वा, विरोधः पक्षविपक्षयारेव वर्त्तमानत्वम्; पक्षभूतसंविदि विपक्षे दीपादौ च वृत्तेः । परमतमात्रपर्यालोचनायां विरोध उक्तः । अत्र स्वसत्ताप्रयुक्तप्रकाशत्वमित्यत्र प्रकाशशब्देन किं सा- क्षाद्वा परम्परया वा व्यवहारानुगुण्यं विवक्षितम्, उत परम्परयैव, उत साक्षादेवेति विकल्पोऽभिप्रेतः । प्रथमं शिरः-स्वपरदर्शनपर्यालोचनया अभिहितयोरनैकान्त्यविरोधयोरन्यतरेण निरस्तं भवति । द्वितीये त्वसिद्धिः, परम्परयैव व्यवहारानुगुण्यस्य ज्ञप्तौ उभयवाद्यनाभिमतत्वात् । तृतीये सत्ता(सन्मात्रा)तिरिक्तप्रकाशानभ्युपगमनिबन्धना- सद्धिः निर्विशेषत्वविरोधश्च स्याताभित्यभिप्रायः । द्वितीयं पक्षं प्रतिक्षिपति अव्यभिचरितेति । न व्यभिचरति प्रकाशो यस्य सत्तायां सोऽव्यभिचरितप्रकाशसत्ताकः । प्रयोज्यप्रयोजकत्वाभावेऽपि विद्यमानदशायां सर्वदा प्रका-शमानत्वमित्यर्थः । तस्यानात्मत्वेन संप्रतिपन्नेषु सुखदुःखादिषु व्यभिचार उक्तः । अथ तत्पयिहारमुखेन स्वस्मै प्रकाशमानत्वपक्षमुपक्षिपति तद्युच्येतेति । परिहरति ज्ञानं वेति । कस्येत्यत्राह तदपीति । परस्मै भासमानत्वमु-पपादयति अहमिति । तस्मादेवंरूपाजडत्वमसिद्धमित्याह अत इति । अथ चतुर्थं शिरो दूषयन् असिद्धिमाह तस्मादिति । स्वयंप्रकाशत्वपक्षेऽपि स्वयंप्रकाशत्वं नाम किं ज्ञानकर्मतामतरेण व्यवहारानुगुन्त्वम् उत ज्ञानान्त-रनिरपेक्षप्रकाशत्वम् इत्यभिप्रेते विकल्पे प्रथमं शिरः तस्मादिति ग्रन्थेन दूषितम् । इह इतरात्मव्यावृत्त्यर्थं स्वात्मा-नमित्युक्तम् । स्वसत्तयैव सिध्यन्नित्यनेन स्वयम्प्रकाशत्वमुक्तम् । स्वस्मै स्वयं भासमानत्वं अहमर्थस्य अधि- कम् । स्वरूपै स्वयंभासमानस्य स्वयम्भासमानत्वमप्यस्तीत्यभिप्रायेण स्वात्मानं प्रति स्वसत्तयैवेत्युक्तम् । तेन, ज्ञानकर्मतामन्तरेण व्यवहारानुगुणत्वं ज्ञातर्यप्यंस्तीति तत् व्यभिचरितम्- स्वपक्षे अनात्मनि ज्ञातर्यपि विपक्षभूते वृत्तेरिति दर्शितम् । ज्ञानान्तरनिरपेक्षप्रकाशत्वं संविद्यसिद्धम्; तस्याः स्वरूपभूतज्ञानाधीनत्वात्; अहमर्थस्यैव तदित्यभिप्रायः स्वसत्तयैवेत्यनेन सूचितः । तमेव विवृणोति ज्ञानस्यापीति । तत्सम्बन्धायत्तत्वमुपपादयति तत्कृत-मेव हीति । ज्ञानस्फुरणस्य अश्रयसम्बन्धोऽपि सामग्रयन्तर्भूत इति भावः । अजडत्वात् संविदात्मत्वासिदिं्ध निग-मयति अत इति ।

अथाहमर्थस्य भ्रान्तिसिद्धत्वं दूषयितुमनुवदति ।अथ यदुक्तमित्यादिना । संविदपि मिथ्या किं न स्यादि-त्यत्राह निरधिष्ठानेति । अनुभूतिव्यतिरिक्तापारमार्थ्यसिद्धवत्कारेणायं हेतुरुक्तः । दूषयति तदयुक्तमित्यादिना । अधिष्ठानसामानाधिकरण्येनाध्यस्तप्रतीतिं दृष्टान्तेनोपपादयति पुरोऽवस्थितेति । पक्षे तद्विपर्ययं दर्शयति अत्र- त्विति । पृथगवभासमाना-व्यधिकरणतया अवभासमाना । तथा प्रतीति दर्शयति तथा हीति । ततः किमित्य-

त्राह तदेवमिति । तदेवम्-उक्तप्रकारेण धर्मधर्मिभावप्रतीतौ । विशेषणतया प्रतिपन्ने तद्विशेषणविशिष्टस्याध्यासो-ऽनुपपन्न इत्यर्थः । तत्र न सम्बन्धमात्राध्यासः; तथा सति सम्बन्धिनो ज्ञातुः पारमार्थ्यप्रसङ्गात् । न च तथाभ्युपे- तम् ।। ननु विशेषणे विशिष्टाध्यासो दृश्यते; यथा प्रभा-यां मण्यध्यास इति ।। इदं चोद्यं पृथगवभासमानेत्यनेन परिहृतम् । नहि तथा वैयधिकरण्येन विशेषणीभूता प्रभा, किन्तु अयं मणिरिति मण्यध्यासाधिष्ठानभूता । प्रभा मणिसामानाधिकरण्येनैव हि भाति ।। ननु अनुभवसामानाधिकंरण्येन प्रतीतिप्रसञ्चनमयुक्तम्; दिक्षु मालिन्यम्, नभसि राग सति वैयधिकरण्येनाप्यध्यासदर्शनात् ।। नैवम्;पदद्वयप्रवृत्तिनिमित्तयोरेकाश्रयवृत्तित्वं हि सामानाधि-करण्यम् । इह दिकत्वमालिन्ययोः नभस्त्वारुण्ययोश्च एकाश्रयवृत्तित्वात् अर्थतः सामानाधिकरण्यमस्ति । वैयधि-करण्यं तु शब्दगतम् । दिशो मलिनाः, दिक्षु मालिन्यमित्यत्र कोऽर्थभेदः? अध्यासेषु धर्म्यैक्यप्रतीतिरवर्ज्जनीया । अतः सैवात्रापद्यते अनुभूतिरहमिति प्रतीयेतेति ।। ननु,अनुभूतिरहमितिप्रतीतिप्रसङ्गो दुर्वचः । अनुभूतित्वं ह्यधिष्ठानासाधारणाकारः । तदस्फुरणं भ्रमानुगुणमेव । न हि, शुक्ती रजतमिति प्रतीयत इति ।। एवं तर्ह्यनुभूते-र्निर्विशेषतया रूपान्तरेण स्फुरणाभावात् अनुभूतितया स्फुरणे विरोधाच्च तदधिकरणाध्यासानुदयः ।अवि- रोधेन कृत्स्नाध्यासे ग्रन्थोक्तसामानाधिकरण्यप्रतीतिप्रसङ्गो दुर्वारः । एतदभिप्रायेण हि पुरोऽवस्थितभास्वर-द्रव्याकारतया रजतादिरिवेत्युक्तम् ।। ननु, अध्यासानुदयो दर्वचः, विषयोपश्लिष्टा #्रनुभूतिः अहं जानामीत्यत्र ज्ञात्रध्यासे प्रतीयते । सा तु नाधिष्ठानम् । निर्विषया निराश्रयानुभूतिरेवाधिष्ठानम् । तदप्रकाशादध्यासोदय इति ।। उच्यते । तत्रऽप्रतिपन्नस्य अधिष्ठानत्वायोगात् विषयाश्रयशून्यसंविदो योग्यानुपलब्धिनिरस्तत्वात्, विषयप्रकाश-कसंविद एव आत्मत्वाभ्युपगमेन त्वया स्वयम्प्रकाशत्वसमर्थनाच्च सैवाधिष्ठानमिति तदवभासे तस्याश्च शुक्तित्ववत् भ्रमविरोधित्वेऽध्यासानुदय इति ।।

देहात्माभिमानवतो ज्ञातृत्वप्रतिभासात् तन्मिथ्येत्युक्तमनूद्य दूषयति यदप्युक्तमित्यादिना । तदबाधादे- वेति ज्ञातृत्वस्याबाधितत्वं मुक्तावपि ज्ञातृत्वपरश्रुतिवाक्यात् । ज्ञातृत्वस्य विक्रियात्मकत्वं निराकर्तुं तदनुवदति यद्प्युक्तमविक्रियस्येति । ज्ञानस्य धात्वर्थतया क्रियात्वम् । तत्कर्तृत्वं च विकाररूपम् ।अत एव जडं च । अवि-क्रियस्याजडस्यात्मनो न संभवति । विक्रियात्मकत्वाज्जडत्वाच्च तादृशाहङ्कारग्रन्थिस्थमित्यर्थः । सर्वाध्यासमूल- त्वात् ग्रन्थित्वम् ।अथ हेत्वन्तरेण च ज्ञातृत्वस्यान्तःकरणधर्मत्वमुपपादयति कर्तृत्वादिरिति । दृश्यत्वादित्यर्थः । आत्मनो ज्ञातृत्वेऽनिष्टं प्रसञ्जयति कर्तृत्व इति । अत्र व्यतिरेक्यनुमानान्यभिप्रतानीति पूर्वमेवोक्तम् । परिहरति नैतदिति । देहस्येत्यादिना अन्तःकरणस्य ज्ञातृत्वाभावोपपादनम् । आदिशब्दादन्तवत्त्वग्रहणम् । चेतनासाधा-रणेत्यादिना आत्मनो ज्ञातृत्वोपपादनम् । ज्ञातृत्वाभावः साध्योऽभिप्रेतः ।अन्तःकरणं धर्मि । अचेतनत्वादयो हेतवः । देहस्येवेति सपक्षो दर्शितः । ज्ञातृत्वस्य चेतनासाधारणत्व कथनात् व्यतिरेकव्याप्तिश्च कथिता । एवं परोक्तव्यतिरेकिणां प्रत्यनुमानान्युक्तानि भवन्ति-अन्तःकरणं न ज्ञातृ अचेतनत्वात् प्रकृतिपरिणामत्वात् दृश्य- त्वात् पराकत्वात् परार्थत्वात् देहवदिति । ननु,अचेतनत्वात् अज्ञातृत्व साध्ये साध्याविशिष्टता ।। नैवम्-अचेतन-शब्देनानात्मत्वस्य विवक्षितत्वात् । पुरुषार्थप्रतिसम्बन्धित्वम्, देहं प्रति नियन्तृतया अन्तःप्रविष्टत्वं वा आत्म- त्वम्; तदभावोऽनात्मत्वम् । प्रकृतिपरिणामत्वं प्रकृतिकार्यत्वम् । दृश्यत्वं नियमेन ज्ञानान्तराथीनसिद्धित्वम् । पराकत्वम् परस्मै भासमानत्वम् । परार्थत्व परप्रयोजनैकफलत्वम्; जीवोपकरणत्वमित्यर्थः ।आत्मनो ज्ञातृत्वे साध्ये अमी हेतवो यथासंभवं तर्क्काः योजनायाः-आत्मनो ज्ञातृत्वाभावे देहस्येवानात्मत्वप्रसङ्गः, परार्थत्वप्रसङ्ग इति । ननु यथा घटदेहयोरचेतनत्वादिके तुल्येऽपि इन्द्रियाक्षयत्वादिकं देहासाधारणं भवति तथा देहान्तःकरणयोः

अचेतनत्वादिके तुल्यपि ज्ञातृत्वमन्तःकरणासाधारणधर्मः स्यात् । अत इन्द्रियाश्रयत्वाभावस्येव ज्ञातृत्वाभाव-स्याप्यचेतनत्वादिकमप्रयोजकम् ।अचिद्विशेषत्वमेव प्रयोजकम् । तथाऽऽत्मनो ज्ञातृत्वाभावेऽपि प्रत्यकत्वादि-रुपपद्यतामित्युभत्रापि विपक्षे बाधकाभावमाशङ्कय परिहरति एतदुक्तमिति । येन दृश्यत्वादिविरुद्धधर्मेण देहस्य द्रष्टत्वाद्यनुपपत्तिः, तेनान्तःकरणस्यापि तद्द्रव्यत्वात् द्रष्टृत्वाद्यनुपपत्तिरित्यर्थः । ज्ञातृत्वामावं प्रति अचेतनत्वा-दिकमप्रयोजकं चेत्, देहस्य ज्ञातृत्वप्रसङ्गः । ततश्च चार्वाकं प्रति देहात्मभेदस्त्वयाऽपि दुरुपपादः । न च देहस्य देहत्वादज्ञातृत्वम्, घटादौ देहत्वभावेऽपि ज्ञातृत्वाभावात् । अतः तत्राचित्त्वादिकस्य ज्ञातृत्वाभावप्रयोजकत्वम-भ्युपगन्तव्यमिति क्कचित् ज्ञातृत्वाभावाप्रयोजकस्य तस्याचित्तत्वादेः क्कचिदप्रयोजकत्वमयुक्तम् ।अतोऽचित्त्वादि-भिर्द्देहस्येव अन्तःकरणस्य द्रष्टृत्वाद्यनुपपत्तिरित्यर्थः । प्रत्यकत्वादेरिति आदिशब्दादजडत्वग्रहणम् । विविच्यते । प्रत्यकत्वादिधर्म्मैः सम्बन्धरहितोऽवगम्यत इत्यर्थः । तैरेव हेतुभिस्तस्माद्विविच्यत इति । पराकत्वादिभिर्देहस्य ज्ञातृत्वाभावे उक्ते परकत्वं व्याप्यं ज्ञातृत्वभावो व्यापक इति सिध्यति । ततश्च स्वाभावव्याप्तेषु पराक्षु निरवकाशं ज्ञातृत्वं यदि प्रत्यग्वस्तुन्यपि न स्यात्, तदा निराश्रयं प्रसजेदिति पूर्वोक्तव्याप्तिस्थापनाय विपक्षे बाधकस्तर्को-ऽत्राप्यभिप्रेतः । तस्माद्विविध्यत इत्येतदुक्तमित्यन्वयः ।अतोऽचेतनत्वजडत्वादिस्वभावविरोधान्नाहङ्कारस्य ज्ञातृ-त्वमित्याह अत इति ।

नहि वयं द्रष्टृत्वाद्यनुपपत्त्या देहात्मविवेकं व्रूमः । स तु परमतानुसारात्कृतः । वयं तु दृशित्वानुपपत्त्येति शङ्कायाम्- द्रष्टृत्वाभावस्यैअचेतनत्वादिप्रयोज्यत्वे मृषावाद्यसाधारणप्रतिबन्दीमाह दृशित्ववदिति । तदेव विवृ- णेति यथेति । दृश्यत्वाद्यविशेषेऽपि देहस्य घटादिविलक्षणस्येन्द्रि#ायाश्रयत्ववत् अन्तःकरणस्य दृशित्वं उपपद्य- ताम् ।। अन्तःकरणस्यापि दृश्यत्वादिना देहस्येव दृशित्वं नोपपद्यत । इति चेत् तथा-दृश्यस्य अन्तःकरणस्य दृश्यत्वादिनैव देहर्स्यव दृष्टत्वमपि नोपपद्यते । अतो दृशित्वाभाव इव द्रष्टृत्वाभावेऽपि अचेतनत्वादिकं प्रयोज- कम्; अन्वयव्यतिरेकयोस्तुल्यत्वात् उपायान्तरादशर्नाच्चेति भावः ।

अहम्प्रत्ययगोचरत्वमनात्मत्वसाधकं देहस्येवेति यदुक्तम्, तदयुक्तम्; बाधिताहम्प्रत्ययगोचरत्वस्य पक्षे वृत्त्यभावात् अबाधिताहम्प्रत्ययगोचरत्वस्य सपक्षे देहादावभावाच्च । यद्यहम्प्रत्ययगोचरत्वमात्रेणात्मनि अयना-त्मत्वादिप्रसङ्गः, तर्हि रजतप्रत्ययगोचरत्वमात्रेण भ्रान्तवत् (अभ्रान्त) सम्यग्रजतेऽप्यरजतत्वऽ#्गुलीयकनिर्माणा-नर्हत्वप्रसङ्गः स्यादिति असङ्गतम् । श्रुतिभिः प्रत्यक्षेण च कालात्ययापदेशश्च । अनात्मत्वादिप्रसञ्जकं कर्तृत्वं किं प्रयत्नाधारत्वम् उत स्पन्दरूपक्रियाश्रयत्वम् उत धात्वर्थमात्राश्रयत्वम् । प्रथमे, व्याप्त्यभावः; प्रयत्नाधारत्वाना-त्मत्वयोः क्कचित् सहदर्शनाभावात् । परमात्मन्यनात्मत्वादिप्रसङ्गश्चेत्, "कर्तारमीशं पुरुषम्" इत्यादिना कालात्य-यापदेशश्च । जीवे चेत्, "साधुकारी साधुर्भवति", "कर्ता शास्त्रार्थवत्त्वात्", "यतः स्वकृतभुक् पुमान्" इत्यादिभिः प्रत्यक्षेण च कालात्ययापदेशश्च । द्वितीये,परमात्मन्यसिद्धिः । जीवे तूत्क्रान्त्यादिश्रुतिभिः कालात्ययापदेशः । तृतीये, भ्रमाश्रतया स्वाभिमतात्मन्यनात्मत्वप्रसङ्गः ।। भेददर्शनं तदाश्रयत्वं चापारमार्थिकमिति चेत्-किं परमार्थ-भूतधात्वर्थाश्रयत्वमनात्मत्वसाधकम् उतापरमाथर्भूतधात्वर्थाश्रयत्वम्? प्रथमे घटादावपि परमार्थभूतधात्वर्थान्व-यानभ्युपगमात् व्याप्त्यभावः । द्वितीये, त्वदभिमतस्य भ्रमाश्रयस्याऽऽत्मनोऽप्यनात्मत्वप्रसङ्गः ।

अथ विक्रियात्मकत्वं नेत्याह न चेति । तदुपपादयति ज्ञातृत्वं हीति । गुणा(क्रिया)श्रयत्वेऽपि तत् का-दाचित्कं चेत् क्रियाश्रयत्ववत् विक्रियात्मकं स्यादित्यत्राह ज्ञानं चास्येति । धर्मस्य स्वाभाविकत्वेऽपि धर्मी अनि-त्यश्चेत् धर्मोऽप्यनित्यः स्यात् । धर्मिनित्यत्वे धर्मः सोपाधिकश्चेत्, उपाधिविगमे धर्मो नश्यतीत्यनित्यः स्यात् ।

उभयव्यावृत्त्यर्थौ नित्य-स्वाभाविकशब्दौ । अवस्थाविशेषेण कदाचित्कत्वं तु प्रामाणिकत्वादिष्टम् । अनेन पदद्वयेन, "न हि विज्ञातुर्विज्ञातेविर्परिलोपो विद्यते अविनाशित्वादात्मनः" इति श्रुत्यर्थ उक्तो भवति । अस्याः श्रुतेरयमर्थः-ज्ञातृसंबन्धि विज्ञानं नित्यम्; कुतः? अविनाशित्वादात्मनः । विशिष्टस्य नित्यत्वेन विशेषणभूतज्ञा-नस्यापि नित्यत्वात् । यद्वा धर्मिनित्यत्वेन तत्स्वाभाविकधर्मस्यापि नित्यत्वादिति । आत्मनो नित्यत्वे ज्ञानस्य तत्स्वाभाविकधर्मत्वे च प्रमाणं स्मारयन् पूर्वभेव श्रुतिवाक्योपादानात् सूत्रमुदाहरति नित्यत्वं चेति । सूत्रोदाहर- णेन तद्विषयभूता श्रुतिरपि ह्यर्थतो दर्शिता स्यात् । सूत्रं च पूर्वं ज्ञानगुणकत्वप्रदर्शनायोपात्तम्; इदानीं नित्य-त्वज्ञापनायोपात्तम् । "ज्ञोऽत एवेत्यत्र ज्ञ इति व्यपदेशस्य विवरणम्, "यावदात्मभावित्वाच्च न दोषः" इति सूत्रम् । अत्रः स्वाभाविकत्वसिद्धिरिति भावः । ज्ञानस्वरूपस्य ज्ञानाश्रयत्वं कथमित्यत्राह अस्येति । ज्ञानं स्वा-भाविकनित्यधर्मश्चेत्, सर्वदा सर्वज्ञत्वप्रसङ्ग इत्यत्राह स्वयमिति । स्वयं स्वतः । "सम्पद्याविर्भाव" इत्यादिसूत्रे उपपादयिष्याम इत्यर्थः । अनन्तरमेवेति वाऽर्थः । तर्हीदानीमपि कदाचित् सवर्ज्ञत्वम्, मुक्तौ च कदाचिद् ज्ञान-सङ्कोचः किं न स्यात् । यदि क्षेत्रज्ञावस्थायां सङ्कोचः,तर्हि सर्वेऽप्यज्ञाः स्युरित्यत्राह अतः क्षेत्रज्ञेति । अतः-सङ्कोचविकासार्हत्वात् । कर्मणेति सङ्कोचकोपाधिः । क्षेत्रज्ञावस्थायामिति । तदानीमेव सङ्कोच इत्यर्थः । सर्वे-षामज्ञत्यप्रसक्तिश्च कर्मतारतभ्यात्परिहृता । तारवम्यशब्देन, "तया तिरोहितत्वाच्च शक्तिः क्षत्रज्ञसंज्ञिता । सर्व- भूतेषु भूपाल तारतम्येन वर्तते" इति वचनं स्मारितं भवति । कर्मणेतिपदेन तयति पदं श्लोकस्थं व्याख्यातं भवति । तया कर्मरूपाविद्ययेत्यर्थः । "अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिप्यते । यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप ! सर्वगा ।। संसारतापानखिलानवाप्रोत्वतिसंततान्" इति हि प्रकृतम् । ज्ञानस्य नित्यत्वेन अनु-त्पत्तिकत्वात् इन्द्रियनैरपक्ष्यं स्यादित्यत्राह तच्चेति । यद्वा स्यावरेष्वपि ज्ञानविकासः स्यादित्राह तच्चेति । इन्द्रि-यद्वाराकत्वं सङ्कोचविकासार्थमित्यर्थः । तर्ह्युत्पत्ति-विनाशव्यपदेशो न स्यादित्यत्राह तमिममिति । प्रसरान्वय-व्यतिरेकावपेक्ष्य उदायास्तमयव्यपदेश इत्यर्थः । यद्वा प्रसृतांशः प्रसरः । तस्य प्रसरणसङ्कोचावुदयास्तमयावि- त्यर्थः । सङ्कोचविकासाभ्युपगमे विक्रियात्मकत्वं स्यादित्यत्राह ज्ञानप्रसरे त्विति । तादृशविक्रियात्मकत्वं प्रामा-णिकत्वात् इष्टमित्यर्थः । अचेतनवत् परिणामो ह्यनभ्युपगत इत्येवकाराभिप्रायः ।अनेन भाविकारश्रुतीनां विषयो दर्शितः । मुखान्तरेणाप्यविकारश्रुतीनां निर्वाहं दर्शयति तच्चेति । स्वाभाविकविकारनिषेधपरा अविकारश्रुतय इत्यर्थः । स्वाभाविकं रूपं कथमित्यत्राह अविक्रियेति । स्वरूपम्-स्वाभाविकरूपम् । अविकारित्ववाक्यानि उपाधिविमुक्तस्वाभाविकरूपपराणीत्यर्थः । प्रसरणकर्तृत्वमपि विकाररूपत्वात् अन्तःकरणस्यैवेत्यत्राह एवंरूप-विक्रियात्मकमिति । स्वधर्मभूतज्ञानप्रसरणकर्तृत्वलक्षणविकारित्वमेवंरूपशब्देन विवक्षितम् । ज्ञानस्वरूपस्य ।ज्ञानमेव स्वाभाविको धर्मः यस्य स ज्ञानस्वरूपः । स्वधर्मभूतज्ञानप्रसरकर्तृत्वलक्षणविकारः तद्धर्मकस्यात्मन एव संभवति, न तु जडत्वात् अतद्धर्मस्याहङ्कारस्येत्यर्थः । एवं विक्रियात्मकत्वात् ज्ञातृत्वस्य आत्मधर्मत्वानुपपत्तिनिर-स्ता ।

अथ परोक्तान् ज्ञातृत्वनिर्वाह प्रकारान् निरस्यति । ज्ञातृत्वं चिच्छायापत्तिकृतम्, चित्संपर्ककृतम्, चिद-भिव्यञ्जकत्वकृतमिति त्रयः पक्षाः । तत्र प्रथमं चिच्छायापत्तिपक्षमाशङ्कते जडेति । दूषयति केयमिति । केयं-दुर्नि-रूपेत्यर्थः । विकल्पयति किमिति । चिच्छायाशब्दयोः समासान्तर्गता विभक्तिः षष्ठी वा सप्तमी वेति भावः ।

अहङ्कारच्छायापत्तिस्संविदः । अहङ्कारे संविद्गतज्ञातृत्वच्छायापत्तिरित्यर्थः । संविच्छायापत्तिरहङ्करस्येति । संविदि अहङ्कारगतज्ञातृत्वच्छयापत्तिरित्यर्थः । प्रथमं दूषयति न तावदिति । शिरोऽन्तरं व्युदस्यति नापीति ।

पूर्वमचेतनत्वप्रकृतिपरिणामत्वादिभिरहङ्कारस्य ज्ञातृत्वव्युदासमभिप्रेत्याह उक्तरीत्येति । दूषणान्तरमाह द्वयोर- पीति । तद्विवृणोति न हीति । चित्संपर्कं दूषयितुं शङ्कते अथेति । पूर्ववद्विकल्प्य दूषयति नैतदिति । इयं साधा- रणी प्रतिज्ञा । अहङ्कारे संवित्सम्पर्कात् ज्ञातृत्वं व्युदस्यति संविदीति । अहङ्कारसम्पर्कात् संविद ज्ञातृत्वं दूषयति अहङ्कारस्य त्विति । सुतरामिति । ज्ञानस्याजडत्वात् ज्ञानाश्रयत्वं स्वमते न संभवति । अहङ्कारस्य जडत्वेन वस्तुतो ज्ञानाश्रयत्वस्य स्वपरपक्षयोरुभयोरप्यसम्भवान्न तत्सम्पर्कात् संविदि ज्ञातृत्वमिति भावः । रुमागतकाष्ठा-दीनां लवणसम्बन्धाल्लवणत्वोत्पत्तिर्दृश्यते; अयःपिण्डेऽग्निसम्पर्कादुष्णत्वमुपलभ्यते ।अतो ज्ञातृत्वं तदुपलब्धि-र्वेति पृथगुक्तम् । ननु पूर्वोक्ते पक्षद्वये ज्ञातृत्वस्य छायापत्तिसम्पर्कौ निरस्तौ । ज्ञानच्छायापत्तिसम्पकौ कस्मान्न निरस्तौ ।। वक्ष्यमाणाभिव्यक्तिपक्षान्तर्भावादिति व्रूमः । ज्ञानस्याहङ्कारे छायापत्तिर्नाम दर्पणे मुखस्येव तदाधेय- तया अभिव्यक्तता । संपर्कपक्षेऽप्यधिष्ठानतया संपर्कौ ज्ञातृत्वप्रतीत्यनुपयुक्तः । अत आधेयतया संपर्को वक्तव्यः । स च तत्स्थतयाऽभिव्यक्तावन्तर्गतः । अतस्तत्रा(द?)नुपन्यासः । किञ्च छायापत्तिः संविदोऽचाक्षुषत्वेनैव निर- स्ता । संपर्कश्चोपम्मानुगुण्येन वक्तव्यत्वात् अपृथक्सिद्धधर्मधर्मिभावेन वक्तव्यः । स च नोपपन्नः; अचेतनस्य चैत-न्यस्य च तथाविधधर्मधर्मिभावायोगात् । दण्डदेवदत्तयोरिव ज्ञानज्ञात्रोः पृथगवस्थानादर्शनात् अपृथगवस्थितयो-स्सम्पर्कश्च अनुपपन्न इत्यनुसन्धेयम् । अथाभिव्यक्तिपक्षमनुभाषितुं छायापत्तिसम्पर्कपक्षयोरभिव्यक्तिपक्षस्य चा-न्योन्यवैषम्यं दर्शयति उभयत्रेति । वस्तुत इति । छायापत्त्यादिना आपाद्यमानादध्यासात्पूर्वमेव सिद्धत्वं विवक्षि- तम्; न तु पारमार्थिकत्वम् । अलातचक्रादेरपि प्रतिबिम्बदर्शनात्,उष्णजलसम्पर्कादनुष्णेऽप्यौ णोपलम्भाच्च । एकत्र पूर्वसिद्धज्ञातृत्वाध्यासादन्यत्र ज्ञातृत्वनिवार्हः पूर्वस्मिन् पक्षद्वये ; अभिव्यक्तिपक्षे तु ज्ञातृत्वस्य पूर्वसिद्धि-मनपेक्ष्य ज्ञानाध्यासात् ज्ञातृत्वनिर्वाह इति वैषम्यम् । अभिव्यक्तिपक्षमाह अहङ्कारस्त्विति । दूषयति तदयुक्त- मिति । कुत इत्यपेक्षायामात्मनो अभिव्यञ्जकापेक्षा च नास्ति, अहङ्कारस्याभिव्यञ्जकत्वशक्तिरपि नास्तीत्याह आत्मन इत्यादिना । स्वोक्तार्थस्य सांप्रदायिकत्वप्रदर्शनार्थं, दृष्टान्तेन तद्विशदीकरणार्थं चात्मसिद्धिग्रन्थमाह तदुक्तमिति ।

शान्ताङ्गार इत्यादिकं श्लोकं विवृणोति स्वयमिति । स्वयम्प्रकाशशब्देन अभिव्यञ्जकापेक्षाया अभाव उक्तः । अनुभवाधीनसिद्धय इत्यनेन अहङ्कारस्याभिव्यञ्जकत्वाभाव उक्तः । अचिदहङ्कार इत्यनेन चिन्मात्रातिरे-कित्वात् तदायत्तप्रकाश इति परोक्तहेतुः सूचितः । अनुदितानस्तमितस्वरूपप्रकाशम् । कदाचिदप्रकाशं चेत्, तदा अभिव्यञ्जकापेक्षा स्यात्; तदभावात् कदाचिदपि व्यञ्जकापेक्षा नास्तीत्यर्थः । अशेषाथर्सिद्धिहेतुभूतम् । त्वया विषयप्रकाशकत्वेन हि स्वयम्प्रकाशत्वं समर्थितमिति भावः । परिहसन्तीति । ईदृशमनुभवमीदृशोऽहङ्कारो-ऽभिव्यनक्तीति त्वदीया एव त्वत्समीपस्था एव हसन्तीति भावः ।

अहङ्कारानुभवयोरभिव्यञ्जकत्वाभिव्यङ्गयत्वानभ्युपगमेन दूषणमुक्तम् । तयोरभिव्यञ्जकत्वम् भिव्यङ्गय-त्वञ्चास्तु, तत्परस्परं नोपपद्यत इत्याह - किञ्चेति । स्वभावविरोधात्-अनुभवस्याशेषार्थसिद्धिहेतुत्वं तद्वयतिरि-क्तत्वेनाहङ्कारस्यास्य तदधीनसिद्धित्वं च विरोधः । यथा पितापुत्रयोरन्यं प्रति पुत्रत्वे पितृत्वे च सत्यपि परस्परं पितृत्वपुत्रत्वव्यत्ययो नोपपद्यते, एवमन्यापेक्षया तयोर्व्यङ्क्तृव्यङ्गयभाव संभवेऽपि परस्परं नोपपद्यत इत्यर्थः । दूषणान्तरं चाह अनुभूतेरननुभूतिवप्रसङ्गाच्चेति ।

अस्मिन्नर्थेअप्यात्मसिद्धिग्रन्थं दर्शयति यथोक्तमिति । प्रतिकूल्यतः पूर्वोक्त स्वभावविरोधशब्देन प्रति-कूल्यशब्दो व्याख्यातः । तद्वयङ्गयस्यैव तद्वयञ्जकत्वे परोक्तदृष्टान्तं दूषयिष्यन्नाह न चेति । दृष्टान्तस्य साध्य-

विकलत्वमाह तत्रपीति । तत्र तथात्वस्यान्यथासिदिं्ध दर्शयति । करतलेति - नहि ब्रह्मप्रसरणस्वभावं द्रव्यम्, अतस्तद्वाहुल्यहेतुत्वमहङ्कारस्याऽनुपपन्नमित्यर्थः ।। तथा अहङ्कारेणास्याभिव्यकिं्त त्रि(त्रे)धा विकल्प्य दूषयति किञ्चेत्यादिना । किं रूपा-किं शब्दः क्षेपार्थः । दुन्निर्रूपेत्यर्थः । कुत इत्यत्रापेक्षायां अभिव्यक्तिर्नाम किमुत्पत्तिः, उत प्रकाशनम्, उतानुभवसाधनानुग्रहः इति त्रि(त्रे)धा विकल्पमभिप्रेत्योत्पत्तिपक्षं दूषयति न तावदिति । अनु-त्पन्नस्य घटादेरभिव्यक्तयसम्भवात् उत्पादकस्यापि दण्डचक्रादेः उत्पादनद्वारा अभिव्यक्तिहेतुत्वात् उत्पत्तिरपि विकल्पशिरसि निवेशिता । किञ्च व्यङ्गयप्रकाशोत्पादनं व्यञ्जनम् । संविदः स्वयमेव प्रकाशरूपत्वात् तदुत्पत्ति- रेव तत्प्रकाशोत्पत्तिरूपाभिव्यक्तिरिति विकल्पशिरस्युत्पत्तिनिवेशः । स्वतःसिद्धतयेति ।तथा हि प्रागभावाभाव उक्तः । अनादित्वादिति वार्थः । अथ द्वितीयं व्युदस्यति नापीति । प्रकाशनम्-अनुभवविषयप्रकाशोत्पत्तिः ।

अथ तृतीयं प्रतिवक्ति तत इति । तत एव-प्रकाशानुपपत्तेरेव ।। नन्वनन्तरग्रन्थोत्थानमनुपपन्नम्; अनु-ग्राहकद्वैविध्यस्य तन्निरासानुपयोगित्वात् । उत्तरात्रात्मसिद्धिग्रन्थोदाहरणं च न सङ्गतम्; इन्द्रियासम्बन्धवाचि-त्वेनानुग्रहद्वैविध्यानुपयोगात् ।। अत्रोच्यते । पूर्वमनु-ग्राह्यजन्यप्रकाशविषयानुभूतिपर्यालोचनया तदनुभवसाधनानु-ग्रहो दूषितः । इदानीमनुग्रहप्रकारविशेषपर्यालोचनया दूषणमाह स हीति । द्विविधस्याप्यनुपपतिं्त दर्शयितुं प्रथमं द्वैविध्यमाह ज्ञेयस्येति । शमदभादेः शास्त्रानुग्राहकत्वोक्तिः परमतेन । तद्धि उपासनानुग्राहकम् ।। ननु स हि द्विध- ति वक्तुमयुक्तम्; अनुग्रहस्य कोटि-द्वयेऽप्यनन्तभावात् । अनुमानादेः र्व्याप्तिग्रहादिरनुग्रहोऽप्यस्तीति ।। उच्यते ।करणानुग्रहः कर्त्रनुग्रहश्चेति कोटिद्वयमेव । व्याप्तिग्रहणमपि करणानुग्रहान्तर्भूतम् । यद्वा दृष्टमुखेन चानुग्रहः अदृष्टमुखेन चेति द्विधा । व्याप्तिग्रहणमपि दृष्टमुखेनानुग्रहः । तस्मादिन्द्रियसम्बन्धहेतुत्वेनेत्येतत् करणानुग्रह- स्य दृष्टमुखेनानुग्रहस्य चोपलक्षणम् । तत्राहङ्काराभिव्यङ्गयायाः संविदोऽनुमानविषयत्वासंभवात् इन्द्रियसम्बन्ध-हेतुत्वेनेत्युक्तम् । बोद्धृगतकल्मषापनयनेनेति कर्त्रनुग्रहस्यादृष्टमुखेनानुग्रहस्य चोपलक्षणमुक्तम् । आत्मसिद्धिग्र-न्थेऽप्ययमेव भावः । एवं द्वैविध्यदर्शनेन द्विधाभूतोऽप्यनुग्रहोऽहङ्कारस्य न सुवच इत्यनुषङ्गेण योजना । कथमत्र द्विविधस्याप्यनुग्रहस्यानुपपत्तिरिति शङ्कायामात्मसिद्धिग्रन्थमाह यथोक्तमिति । "करणानामभूमित्वात् न तत्स-म्बन्धहेतुता" इति हेतुत्वलक्षणानुग्रहः अनुपपन्न इति दर्शितः । बोद्धृगतकल्मषापनयनलक्षणानुग्रहानुपपत्तिर्न ग्रन्थस्था । अत्र केचिदाचार्या एवं व्याचक्षते शमादेरनुग्राहकत्वं शास्त्रसिद्धम्, न तथा अहङ्कारस्यानुग्राहकत्वं शास्त्रसिद्धमिति स्फुटत्वान्न ग्रन्थे कण्ठोक्तया निरास इति । पूर्वार्धौदाहरणेन श्लोकस्योत्तरार्धै बोद्दृगतकल्मषाप-नयनलक्षणानुग्रहानुपपत्तिर्द्रष्टव्येत्याचार्याः । तदिदमुत्तरार्धं अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते" इति । एक-स्यैव स्वप्रतियोगितया शोध्यत्वं शोधकत्वं चानुपपन्नमित्यर्थः । अयं तु भाष्याभिप्रायः-अहमर्थस्य बोद्धृगतकल्म-षापनयने कर्तृत्वं किं स्वरूपेण उतादृष्टकिञ्चित्कारमुखेन । प्रथमे कर्मकर्तृविरोधः, एकस्यैव स्वापेक्षया शोध्य-त्वशोधकत्वानुपपत्तेः । द्वितीये निष्प्रमाणकत्वम् । न ह्यन्तःकरणस्यादृष्टवशादन्तःकरणशुद्धिरित्यत्र प्रमाणम- स्तीति ।

पूर्वमिन्दियगोचरत्वानभ्युपगमेन दूषणमुक्तम् ; अथानुभाव्यत्वाभ्युपगमेन दूषणमाह किञ्चेति । अनुग्रह-स्वरूपं शिक्षयति सहीति ।। व्यक्तिदर्पणादावनुग्रहप्रकारान्तरे दृष्टे अपि कथं प्रतिबन्धनिरसनरूपानुग्रह एव परिशेषितः ।। उच्यते । जातिव्यक्तयोनियतधर्मधर्मिभावेन, व्यक्तिः जातेः र्व्याञ्जिका । न तथा अहङ्कारानुभवयोः नियतधर्मिधर्मभावोऽस्ति । स तु परेणैव निरस्तः । मूर्तद्रव्यभूतः चाक्षुषरश्मिप्रतिहतिहेतुः दर्पणोमूर्तद्रव्यभूतचाक्षुष-रश्मि मुखेन सम्बन्धयति; न तथा अहङ्कारो मूर्तद्रव्यं कस्य चित्प्रतिहतिहेतुरिति वक्ष्यमाणामिहानुग्रहप्रकारान्त-

रानुपपत्तिमभिप्रेत्य प्रतिबन्धनिरसनरूपानुग्रह एव परिशेषितः । ईदृशानुग्रहे दृष्टान्तमाह यथा रूपादीति । ततः किमित्यत्राह न चेहेति । तदुमपायति न तावदिति । किं प्रागभावरूपमज्ञानम् किं वा भावरूपम् उतान्यन्निरसनी-यमुच्यत इति शिरस्त्रयमभिप्रत्य तावच्छब्दः प्रयुक्तः । न तावदिति ग्रन्थेन अन्यन्निरसनीयं निरस्तम् । यद्वा अहङ्का-रस्याज्ञाननिरासकत्वमज्ञानस्य संवित्सम्बन्धित्वं चोभयमनुपपन्नमित्यभिप्रेत्य प्रथममहङ्कारापनेयत्वमज्ञानस्य प्रति-क्षिपति न तावदिति । अहङ्कारपनेयमज्ञानमस्तीति शङ्कते अस्ति हीति । दूषयति नेति । अज्ञानशब्दो भावसरूप-स्य चाभावरूपस्य च साधारणः । दूषणमपि साधारणम्; द्विविधस्याप्यज्ञानस्य अहङ्कारापनोद्यत्वाभावात् । किं निवर्तकमित्यत्राह ज्ञानमेव हीति । प्रागभावस्यापि ज्ञानोत्पत्तिर्निवर्तिका । भावरूपस्यापि ज्ञाननिवर्त्यत्वं परा-भ्युपेतम् ।

एवमज्ञानस्य संविदाश्रयत्वे सत्यप्यहङ्कारापनोद्यत्वायोगात् तन्निरसनरूपानुग्रहो न सम्भवतीत्युक्तम् ; अथाज्ञानस्य संविदाश्रयत्वं चानुपपन्नमित्याह न चेति । संविदाश्रयत्वम् । संवित्सम्बन्धित्वमित्यर्थः । आश्रय- णम् सम्बन्धः । संबन्धश्च कर्मत्वेनाश्रयत्वेन च इत्युभयविधसम्बन्धपर आश्रयशब्दः । "आश्रयश्चेतसो ब्रह्मे" इत्या-दिप्रयोगाच्चाश्रयशब्देन विषयस्याप्युपस्थापनं युक्तम् । संविदो अज्ञानसम्बन्धः किम् आश्रयतया किं विषयतया? उभयथाऽपि संबन्धोऽनुपपन्न इत्यर्थः । कुत इत्यत्राह ज्ञानेति । ततः किमित्यत्राह ज्ञातृभावेति । साक्षिणि । द्रष्टु- रेव साक्षित्वम्; ज्ञप्तेस्तु साक्षित्वमपि व्याहतं भवतीत्यभिप्रायः । भवितुमर्हतीति र्निर्देशेन आश्रयतया विषयतया वा सम्बन्धमात्रं विवक्षितम् । अनेन व्यतिरेकव्याप्तिर्दशिता भवति । संविदाश्रयत्वाभावे अन्वयव्याप्तिं दर्शयति यथेति । अज्ञानाश्रयत्वं (हि) ज्ञानप्रागभावाश्रयत्वमनिर्वचनीयाज्ञानाश्रयत्वं वा । तत् घटादौ नास्तीत्यर्थः । ज्ञानाश्रयत्व प्रसक्तीति । ज्ञातुरप्यज्ञानाश्रयत्वं ज्ञानाश्रयत्वं च कालभेदादविरुद्धमिति भावः । ज्ञानात्यन्ताभा-वाश्रयत्वं हि धटादेः । ज्ञानं नाज्ञानश्रयः; न चाज्ञानविषयः । अज्ञानाश्रयत्वे तद्विषयत्वे चोपगम्यमाने ज्ञातृत्वज्ञ-#ेयत्वप्रसङ्ग इति प्रतिकूलतर्क उक्तो भवति । एवमज्ञानाश्रयत्वानभ्युपगमेन दूषणमुक्तम् । तदभ्युपगमेन दूषणमाह संविद इति । अवच्छिन्नज्ञानस्यानुभाव्यत्वेऽङ्गीकृतेऽप्यनवच्छिन्नस्यात्मभूतस्य ज्ञानस्यानुभाव्यत्वानभ्युपगमादि-त्याभिप्रायेणाह आत्मतयाऽयुपगताया इति । ज्ञानविषयस्यैवाज्ञाननिवृतिं्त सदृष्टान्तमाह ज्ञानं हीति । यद्य-विषयेऽप्यज्ञाननिवृत्तिः तर्हि शुक्तिज्ञानेन सर्व(र्प)भ्रमनिवृत्तिः स्यादित्यभिप्रायः । एवं ज्ञाननिवर्त्याज्ञानाश्रयत्वे ज्ञानविषयत्वप्रसङ्ग इत्युक्तं भवति । आश्रयत्वाभ्युपगमेनोक्तदूषणं निगमयति अत इति । त्वया अहङ्कारापोह्यत्व-#ेनोक्तमज्ञानं किं सदसदनिर्वचनीयम् उत ज्ञानप्रागभावरूपम् इति विकल्प्याऽऽह अस्येति । द्वितीयं प्रतिवक्ति ज्ञानप्रागभावेति । विरोधिशब्देन प्रतिबन्धकत्वं विवक्षितम्, न सहानवस्थानमात्रम्, । अभिव्यक्तेर्दुर्न्निरूपत्वं निगमयति अत इति । केनापि प्रकारेण ।उत्पादकत्वेन वा प्रकाशकत्वेन वा तदनुभवसाधनानुग्राहकत्वेन वेत्यथः ।

अथ स्वात्मस्थतयाऽभिव्यकिं्त दूषयति न चेति । व्यभिचारमाह प्रदीपादिष्विति । हेत्वन्तरं चाह यथा-वस्थितेति । प्रतीतिः व्यवहारानुगुण्यम्; तदनुगुणात् ज्ञानादीनां स्वभावादित्यर्थः । तदेव उपपादयति । तच्चेति ।

प्रमाण्याप्रामाण्यविषयाश्चत्वारः पक्षाः । प्रामाण्याप्रामाण्ये द्वे च परतः, द्वे च स्वतः, प्रामाण्यं परतः अन्यत् स्वतः, प्रामाण्यं स्वतः अन्यत् परत इति । प्रथममनुपपन्नम्,निःस्वभावत्वादिप्रसङ्गात् । प्रामाण्याप्रामाण्ये अन्यत्र विद्येते चेत्-तत्सम्बन्धात् ज्ञानस्य तथात्वम्, तत्सम्बन्धाभावेऽनुभयत्वं च युक्तम्; अनुष्णाशीतवत् । अन्यत्र तयोरविद्यमानत्वात् परतस्त्वमनुपपन्नम् । प्रामाण्यबुभुत्सापरम्परयाऽनवस्थाप्रसङ्गाच्च । द्वयोरपि स्वतस्त्वमनुपप-न्नम्; विरुद्धधर्मत्वेन व्याधातात् । न च व्यक्तिभेदादविरोधः; इयं प्रामाण्याश्रयव्यक्ति इयं नेति नियामकाभावात् ।

अप्रामाण्यस्यैव स्तस्त्वमनुपपन्नम्; प्रामाण्यस्यैव भूयस्त्वात् अन्यस्याभूयस्त्वाच्च । भूयसं स्वतस्त्वं अल्पीयस औ(सामौ)पाधिकत्वञ्च हि युक्तम् । घटपटादिज्ञानेषु, शुक्तिरजातादिज्ञानानामिदमंशेशष्वपि प्रामाण्यदर्शनात् तस्य भूतस्त्वम् । अतः स्वतः प्रामाण्यं परतोऽप्रामाण्यमिति ।

क्कचिदात्मस्थतयाऽभिव्यञ्जनमभ्युपेत्य व्यभिचार उक्तः । अथ क्कचिदपि तन्नास्तीत्याह न चेति । तर्हि मुखदर्शनाय दर्प्पणादिकं नोपादीयेतेत्यत्राह अपि त्विति । प्रतिफलनस्य दोषत्वमन्यथाज्ञानहेतुत्वादित्याह तद्दो- षेति । कस्तत्राभिव्यञ्जक इत्यत्राह अभिव्यञ्जकस्त्विति । अहङ्कारस्य मूर्त्तस्वच्छस्थूलद्रव्यत्वाभावात् संविदो ज्ञेयत्वाभावादचाक्षुपत्वाच्च अहङ्कारेण संविदि अविषयभूतायां तद्ग्रहकवस्तुप्रतिफलनदोषो न सम्भवतीत्याह न चेहेति । व्यक्तौ जातिप्रतीतिर्नियतधर्मधर्मिभावात् न तु व्यङ्गयत्वादित्याह व्यक्तेरिति । एतत् दर्पणव्यक्तिनिर्वाह- द्वयं हृदि निधाय पूर्वं प्रतिबन्धनिरसनरूपानुग्रहो दूषितः । धर्मधर्मिभावेन वस्तुतः तात्स्थ्#ेनोपलब्धिर्व्यक्तौ; दपर्णे तु प्रतिफलनरूपदोषात् । एवं परपक्षे न संभवतीत्याह अत इति । वस्तुतः कारणं धर्मधर्मिभावः; दोषस्तु तात्स्थ्ये-नोपलब्धिकारणं मूर्तस्वच्छस्थूलद्रव्यत्वम् । उभयमप्यहङ्कारे नास्तीत्यर्थः । वस्तुतः कारणाभावान्न ज्ञातृत्वं विद्यते, दोषरूपकारणाभावान्नोपलभ्यते चेत्यभिप्रायेणाह नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वेति । ज्ञातुरात्मत्वं निगम- यति तस्मादिति । ज्ञप्तेरात्मत्वमयुक्तम्, अहं त्वाभावे प्रत्यकत्वायोगादित्याह अहम्भाव(न?)विगम इति । अह-मिति व्यवहारानुगुणभासनविरहे स्वस्मै भासमानत्वं न स्यात् । अतः प्रत्यकत्वमप्यहमर्थस्यैवात्मत्वसाधकमित्यर्थः ।

अथ सुषुप्तावहमर्थस्फुरणमस्तीति साधयितुम् "वेदान्तावलम्बिभिः सर्वैः स्वयंज्योतिष्ट्वश्रुत्यनुसारात् सुषुप्तावात्मस्फुरणमभ्युपेयम् । तत्र, "नाह स्वल्वयमेवं संप्रत्यात्मानं जानाति अययमहमस्मि" इति श्रुत्या, "माम-प्यहं न ज्ञातवान् इति परामर्शाच्च नाहमर्थानुभवः । अतोऽनुभूतिस्फुरणमेव तदानीम् इति शङ्कायामहमर्थस्याविश-दस्फुरणमस्तीति सोपपत्तिकं प्रतिजानीते तम इत्यादिना । चस्त्वर्थः शङ्कानिवृत्तौ । तमोगुणाभिभवहेतुकात् परा-गर्थानुभवाभावात् स्फुटावभासाभावः । विविक्तप्रतिभासः-व्यावृत्तप्रतिभासः । अनेकविशेषणविशिष्टावभासः स्फुटावभासः । व्यावर्त्तकब्राह्मणत्वादिबाह्यधर्मविशिष्टत्वेन बुद्धिसुखाद्यान्तरधर्मविशिष्टत्वेन च प्रतिभासाभा- वात्, सकलेतरव्यावृत्ततया स्फुटतया च प्रतिभासाभावः । केनाकारेण स्फुरतीत्यत्राह अहमित्येकाकारेण स्फुरणादिति । अहमिति न शब्दानुकारः; अपित्वेतद्वाच्यार्थानुकारः । प्रत्यकत्वाकारेण स्फुरणादित्यर्थः । एक- शब्देन अहम्भावाविगमो विवक्षितः । यद्वा एकाकारेण-सर्वात्मसाधारणाकारेणेत्यर्थः । प्रत्यकत्वादिको हि सर्वा-त्मसाधारणः । सुखदुःवादयो देवत्वादयश्च न हि सर्वात्मसाधारणाः । सुषुप्तौ भासमान आत्मन्यहम्भावः साध्यः; तथा स्फुरणं हेतुः । विशदावभासाभावादहमर्थस्फुरणं नास्तीत्यत्राह भवदभिमताया अनुभूतेरपीति । न केवल-महमर्थस्फुरणे एव अवैशद्यदोषः; अनुभूतिस्फुरणेऽपि स त्वया वाच्यः (स तुलयः) । अतो विशदावभासाभावात् नास्तित्वं चेत्, ज्ञप्त्यात्मनोऽपि तदानीं स्फुरणं न स्यात् । "ज्ञातृज्ञेयोपश्लेषविरहात् स्फुटानवभासः" इति हि तदभ्युपगम इत्यभिप्रायः । मृषावादिभिर्वाद्यन्तरैरपि जागरितावस्थायामेव अविशदावभासो निर्विकल्पकेऽङ्गीकृतः । ते यदि विशदावभावाभावदहमर्थास्फुरणं व्रूयुः, तत्रापि-निर्विकल्पके पृथक्पृथग्वस्तुमात्रावभासाभ्युपगमो नोप-पद्यते । अविशदवस्तुमात्रावभासः परैरप्रामाणिको निर्विकल्पके स्वीकृतः; अत्र तु, "अत्रायं पुरुषः स्वयंज्योति-र्भवति" इत्यादिश्रुत्यनुसारादविशदावभासः प्रामाणिकः स्वीकृत इति भिदा । अतः सुषुप्तावात्मस्फुरणाभ्युपगमे अविशदावभासाभ्युपगमे च तुल्येपि भृषावादिमतादपि स्वपक्षे प्रमाणानुगुण्यं विवक्षुः परपक्षे प्रमाणाननुगुणत्वं दर्शयति न हीति । अहम्भाववियुक्त-अर्थान्तरप्रत्यनीकाकारा-ज्ञातृज्ञेयादिसमस्तविशेषपरहितेत्यर्थः । प्रत्य-

कत्वसिध्द्यर्थं ज्ञप्तिरहमिति अत्राहंशब्दोपादानम् । स्वपक्षे परामर्शानुगुण्यमाह एवं हीति । अयं परामर्शः सुषुप्ति- काले सुखरूपतयाऽनुभूतात्मगोचरः । अतीतकालसम्बन्धस्वापौ तु पूर्वकालानुभूतार्थप्रत्यभिज्ञानयोग्यानपलब्धि-भ्यामनुमेयौ । स्वतोऽनुकूलतयाऽवभासमानस्य अहमर्थस्याऽनुमानिककाल-स्वापवैशिष्टयगोचरप्रत्यभिज्ञाविशेषोऽ-यं परामर्शः सुखमहमस्वाप्समिति । एवं स्वपरमतयोः परामर्शनुगुण्यतदभावरूपवैषम्यभुक्तम् । श्रुतिस्वारस्यं च अस्मन्मते; "अत्रायं पुरुषःस्वयंज्योतिः" इति पुरुषशब्दश्रवणात् । पुरुषशब्दो न संविन्मात्रपरः । "एष हि द्रष्टा श्रोता रसयिता ध्राता मन्ता बोद्धा विज्ञानात्मा पुरुषः" इति ज्ञातृरेव पुरुषत्वश्रवणात्; ल्लोके ज्ञातरि पुरुषशब्दप्रसि-द्धेश्च । प्रत्यकत्वसिद्धिश्चास्मन्मत एवेति वक्ष्यते । उक्तपरामर्शफलितमर्थमाह अनेनेति ।

सुखमहमस्वाप्समिति परामर्शे सुखमित्यनेन तदानीमनुकूलतया भासमानत्वमुसंहितं भवति ह अहमि-त्यनेन स्वस्मै भासमानत्वरूपप्रत्यकत्वं चानुसंहितं भवति । यथा मन्दमगच्छम्, मधुरमगायमिति परामर्शेन पूर्वं गमनगानाभ्यां सह तदानीन्तनं मान्द्यं माधुर्यं चानुसंहितं भवति, तद्वदित्यर्थः । स्वस्मै स्वयमनुकूलमित्यानुकूल्य-प्रतियोगित्वाभिप्रायेण सुखित्वमित्युक्तम्; स्वस्मै भासत इति भासनप्रतिसम्बन्धित्वरूपप्रत्यकत्वाभप्रायेण ज्ञातृ-त्वमित्युक्तम्; न तु धर्मभूतज्ञानस्फुरणात् । तत्तु, "विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैव; न सर्वेषां सर्वदा तथैव" इति भाष्यस्वारस्यविरुद्धम् । "पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् इति सूत्रस्वारस्यविरुद्धञ्च । अस्म-रणनियमाध्युपपत्तिविरुद्धञ्च । संसारदशायां मनोव्यापारविरहेऽपि ज्ञानस्याऽत्मविषयत्वम्, "तञ्चेन्द्रियद्वारेण व्य-वस्थितम्" इति भाष्यस्वारस्यविरुद्धं च । अन्यथा एषां सूत्रभाष्यवचसां सङ्कोचः स्यात् । स च सङ्कोचकाभावाद-नुपपन्नः । तस्मात् तदानीमात्मा प्रत्यकत्वेनानुकूलत्वेनानुसंहित इति परामर्शफलितार्थः ।। सुखमहमस्वाप्समिति सुखस्य स्वापक्रियाविशेषणत्वे प्रतीयमाने कथमात्मविशेषणत्वमुच्यत इति चेत्-नैवम् । क्रियायाः सुखाश्रयत्वायो-गेन पुरुषद्वारा क्रियाविशेषणत्वस्य युक्तत्वादिति । आत्मनस्तदानीं "न किञ्चिदवेदिषम्" इत्यज्ञानसाक्षित्वेन स्थितिं वदता अज्ञानाश्रयभूताहमर्थानुभवाऽभ्युपगन्तव्यः; यथा प्रातश्चत्वरें गजो नासीदिति परामर्शे पूर्वं गजाभा-वाश्रयभूतं चत्वरमनुसंहितं भवति, तद्वत् । अस्वाप्समिति परामर्शेन मन्दमगच्छमित्यत्र गमनवत् स्वापोऽपि तदा-ऽनुसंहितः स्यादिति चेन्न; यथा प्रातश्चत्वरे गजो नासीदित्यत्र पूर्वं गजा भावाननुसन्धानेऽपि एवं परामर्शोपपत्तिः, तद्वत् सकलज्ञाननिवृत्तिरूपस्वापस्य तदानीमननुसंहितत्वेऽप्येवं परामर्शेपपत्तेः । तत्र हि प्रातश्चत्वरमेवानुभूतम्, न गजाभावः; प्रतियोगिभूतगजास्मरणात् पश्चात्, "गजः किं स्थितः" इति पृष्टेन योग्यार्थाननुस्मरणलिङ्गेन अभावेऽनुमीयते । तद्वत् सकलज्ञाननिवृत्तिरूपस्वापोऽपि योग्याननुस्मरणलिङ्गेनाभावोऽनुमीयते ।। ननु सुख-महमस्वाप्समिति परामर्शस्वरूपे सति स्वापादेतदानीमननुभवः सुखित्वादेरनुभवश्च कथमुच्यते? सर्वमप्यनुभूतं स्यात्; न वा स्यात् ।। नैतत् ।। सुखमहमस्वाप्समित्यत्र यस्मिन्नंशे प्रतीतिस्वारस्यापवादकमस्ति, तद्विषयप्रति-पत्तिस्वारस्यभङ्गेऽप्यनपोदितांशविषयप्रतिपत्तिस्वारस्यभङ्गायोगात् । तत्र स्वापदशायां योऽर्थो नानुभवितुं शक्यः, तद्विषयप्रतिपत्तिस्वारस्यं भज्यते । यस्तु तदानीमनुभवयोभ्यः, तद्विषयप्रतिपत्तिस्वारस्यं तिष्ठत्येव । बाह्यन्तः-(न्तर?)करणजन्यसमस्तज्ञानाभावरूपत्वात् स्वापः तदाऽनुसन्धातुं न शक्यते । अनुसन्धानमस्तीति चेत्-स्वाप एव न स्यात्; ऐन्द्रियिकसमस्तज्ञाननिवृत्त्यभावात् । नैवं सुखादेः प्रतिपत्त्यनुपपत्तिरिति यथोक्त एवार्थः ।

अथाऽस्य परामर्शस्य परोक्तान्यथासिद्धिमनूद्य परिहरति न चेत्यादिना । अतद्रूपत्वादिति । एवमर्थः किं प्रतिपक्षिस्वारस्यात् उतानुपपत्त्याऽभ्युपगम्यते इति विकल्प्य, अतद्रूपत्वाप्रतिपत्तेति प्रतिपत्तिस्वारस्यं परिहृतम्; यथा मन्दमगच्छम् मधुरमगायमिति परामर्शवचनस्य । न हि तत्र, यथेदानीं मान्द्यं माधुर्यं च भवति तथा अगच्छ-

मगायमित्यर्थः उपपद्यते । अपितु गतिगानसमकालत्वमेव मान्द्यमाधुर्ययोरुपपन्नम् । तद्वत् प्रत्यकत्वसुखित्वे अपि स्वापसमकालीने इत्यर्थः । अथानुपपतिं्त परिहरति न चेत्यादिना । अनुपपत्तिश्चाऽऽत्मनः अस्थिरत्वमनुभवाभा वो वा । तत्र परामर्शेन स्थिरत्वमाह यत इति । मयेदं कृतमित्यादयो मानसवाचिककायिकत्रिविधव्यापारविषयप-रामर्शपराः । अथाहमर्थाननुभवसाधकनिषेधसामान्यविषयं परामर्शं (र्शविशेषं) शङ्कते एतावन्तमिति । अहमर्थ- स्य निषेधविषयत्वाभावाभिप्रायेणाऽऽह ततः किमिति । परविवक्षितं शङ्कते न किञ्चिदिति । परिहरति नेति । वेद्यविषयः-वेद्यप्रतिभासविषयः । कृत्स्नविषयत्वेऽनिष्टमाह न किञ्चिदिति । नानुभूतिनिषेधः, तस्या अनुवृत्तेरि-त्याशङ्कयाह सुषुप्तिसमये त्विति । भवत्पक्षस्य विपरीतोऽयं परामर्श इत्यर्थः । यथा प्रातश्चत्वरे गजानुभवं पृष्टेन पश्चात् योग्याननुस्मरणलिङ्गेन चत्वरे गजाभावं वदता पुरुषेण पूर्वकालीनचत्वरानुभवेन विना गजाभावो न वक्तुं शक्यते-तथा अज्ञानाश्रयमहमर्थं वदता स्वापवेलायामहमर्थानुभवोऽभ्युपगन्तव्यः । अथाप्यहमर्थनिवृत्तिज्ञानानु-वृत्तिकथनं चत्वरनिवृत्तिगजावस्थानवचनतुल्यमिति भावः । देवानामेव साधयतु । अर्चारूपा हि देवाः । प्रति-वचनमकुर्वतामित्यर्थः । क्षमावतामिति वा, प्रतिवाद्यसन्निधाविति वा, उल्लोकमुक्तमिति वाऽर्थः ।।

अथ निषेधविशेषविषयं परामर्शमाह मामपीति । परिहरति स्वानुभवेति । स्वानुभववचनयोर्नान्योन्यं विरोधः; किन्तूभयोरप्यहमर्थानुवृत्तिनिषेधशब्देन विरोधः इत्यर्थः । अनुभवैकदेशयोर्वचनैकदेशयोश्च मिथो विरोध इति वाऽर्थः । विरोधञ्च दर्शयति अहमिति ।अहं न ज्ञानवानित्यत्र अज्ञानसाक्षित्वेन अहमर्थानुवृत्तिः स्वा-नुभवसिद्धा, वचनमपि तदनुगुणमित्यनुभववचनाभ्यामहर्थानुवृत्तिनिषेधवाक्यविरोध इत्यर्थः । निषेधशब्दत्तदर्थानु-भवयोर्विरोध इति वाऽर्थः । तत्र मामिति पदस्य अर्थं वक्तुं परप्रश्नमनुभाषते मामितीति । पूर्वं विरुद्धार्थकथनम-साधु; अर्थतत्त्वप्रश्नः साधुरित्यभिवप्रायेणाह साध्विति । निषेधानुवृत्त्योर्विषयविभागं दर्शयति तदुच्यत इत्यादि- ना । अहं मामित्युभयोरपि पदयोर्विशिष्टविषयतैवोचिता नीतिभेदप्रसङ्गात्यत्राह अहं मामिति । विधिनिषेध-योरेकविषयत्वे व्याघातः स्यादिति तन्निवृत्यर्थं विषयविभागः कार्य इत्यर्थः । विषयविभागविपर्यासशङ्कायां विष-यविभागमुचितं दर्शयति जागरितेति । यत् सामग्रयभावात् तदानीं न प्रकाशते, तदेव निषेधविषयः । यत् अनन्या- पेक्षं स्वयं प्रकाशत,#े तदेवानुवर्त्तत इति, अप्रकाशमानस्यानुवृत्तिः प्रकाशमानस्य निषेधश्चानुपपन्नावित्यर्थः । एवं विषयविभागानुगुणमनुभवं दर्शयति अत्रेति । शब्दप्रयोगो विवक्षावशात् धीस्थं सर्वं वदति वा; तदेकदेशं वदति वा; न किञ्चिदपि वदति वा । अतः शब्दप्रयोगे वैवक्षिकेऽप्यनुभव एकरूपः । स पुनः एवंविषय विभागानुगुण एवेत्यर्थः । अनेन "नाह स्वल्वयेमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मि" इति श्रुतिवाक्यस्थायंशब्दो व्याख्यातः ।।

परमतेनेममर्थमुपपादयति किञ्चेत्यादिना । साक्षित्वेनात्माऽभ्युपगम्येत, ततः किमित्यत्राह साक्षित्वं चेति । साक्षाज्ज्ञातृत्वम्-साक्षात्काररूपज्ञानाश्रयत्वम् । असाक्षात्कारिणि साक्षिशब्दः प्रयुक्तश्चेत्, औपचारिकः । उपपादयति न हीति ।अजानतः-अज्ञातुरित्यर्थः । कुत इत्यत्राह ज्ञातैव हीति । शब्दप्रयोगनियामकं लक्षणमाह स्मरतीति । साक्षिशब्दं स्मरतीत्यन्वयः । ततः किमहमर्थस्याऽत्मत्व इत्यत्राह य चेति । अस्मिन्नर्थे अनुमानमुत्त- रत्र विस्तरेण विवक्षितम्; अत्र शङ्ग्रहेणाह आत्मने स्वयमिति । आत्मने स्वयमवभावमानोऽहमित्येवावभासत" इति व्याप्तिवचनम्; जाग्रदात्मा सपक्षः; स्वस्मै प्रकाशमानत्वादिति हेतुः । निगमयति स्वापादीति । अविशदा-वभासस्य सर्वाभ्युपगतत्वात् श्रुतिस्वारस्यात् परामर्शस्वारस्यात् साक्षित्वोपपत्तेः प्रत्यकत्वसिद्धेश्च सुषुप्तावात्मा अहमिति स्फुरतीत्युक्तं भवति ।।

अथ मुक्तावहमर्थाननुवृत्तिमनूद्य दूषयति यत्त्वित्यादिना । तुरर्थगौरवविशेषे । अपेशलम् असाध्वित्यर्थः । कुत इत्यत्राह तथासतीति । सौगतान् ज्ञानसन्तत्युच्छेदं मोक्षं वदतः स्वरूपनाशस्य अपुरुषार्थत्वेन दूषयता त्वया शब्दान्तरेण स्वरूपनाश एवोक्तः स्यादित्यर्थः । नैयायिकाद्युक्ते मोक्षेऽप्यपुरुषार्थत्वं तुल्यम् । दुःखनिवृत्तिः सुख-प्राप्तिश्चोभयं पुरुषार्थः । अत्रापुरुषार्थाभूतदुःखाभावात्पुरुषार्थान्वयः, मुखाभावादपुरुषार्थान्वयश्चेति मुक्तेः पुरुषा-र्थापुरुषाथर्मिश्रयत्वं हि स्यात् ।अहमर्थो ह्यारोमितः; अतस्तद्विगमे स्वरूपनाशो न प्रसज्येदित्यत्राह न चेति । कुत इत्यत्राह अहमिति । अहमर्थधर्मतया ज्ञानप्रतीतेरेव । पूर्वोक्तहेतोरेवेत्यर्थः । अहमर्थात्मत्वसमर्थनोपजीवनेन स्वरूपनाप्रसङ्ग उक्तः । एवं धर्मधर्मिभावेन प्रतीत्या अनुवृत्तिरुपपादिता ।अथ श्रुत्यर्थापत्तिमाह अपिचेत्यादिना । पूर्वमहमर्थस्यात्मत्वसमर्थनाय श्रुत्यर्थापत्तिरुक्ता; इदानीमहमर्थस्य मुक्तावनुवृत्त्युपपादनाय तामेव श्रुत्यर्थापतिं्त विस्तरेणाऽऽह । यः स्वात्मानं दुःखिनमनुसन्धत्ते, स एव तन्निवृत्तिसाधने प्रवर्त्तते । स चाहमर्थ एव । दुःखित्वं भ्रान्तिसिद्धमिति चेत्-यः स्वात्मानं भ्रमन्तमनुसन्धत्त,#े स एव भ्रमनिवृत्तिसाधने प्रवतर्ते । स चाहमर्थः । द्विच-न्द्रज्ञानादिभ्रान्तिमतोऽपि स्वभ्रमनिवृत्तिरेवापेक्षिता; न तु स्वविनाशः ।अतोऽहमर्थविनाशोऽपुरुषार्थः इत्यभि- प्रायेण परमार्थतो भ्रान्त्या वेत्युक्तम् । अनुसन्धत्त इत्यन्तेन, "निरस्ताखिलदुःखोऽहम्"-इत्यत्रापेक्षितं वक्तव्य-मुक्तम् । निरस्तेत्यादिश्लोकं विवृणोति । सवर्मेतदित्यादिना । अनाकुलः स्वस्थो भवेयमिति । अपुनर्भवम-पोह्येत्येतत्फलितमुक्तम् अनाकुल इति । आगामिदुःखशङ्कया मनःक्षोभः आकुलत्वम्; तदभावोऽनाकुलत्वम् । स्वस्थः-स्वस्मिन् स्थितः, स्वभावे स्थितः, यथावस्थितात्मनानुभवपरः । अनन्तानन्दभागिति फलम् । स एव-पूर्वदुःखित एव । उत्पन्नानिष्टनिवृत्तीष्टप्राप्त्यभिलाषः स एवेत्यर्थः । श्रवणादाविति पूर्वमुक्तत्वादिह तत्साधन इत्येतावदुक्तम् । अपसर्प्पेदसावित्यादिग्रन्थेन फलितमर्थमाह ततश्चाधिकारीति । श्रवणाद्यायाससाध्यस्य शास्त्र-स्यापुरुषार्थपर्यवसायित्वे श्रवणाद्यधिकारिविरहात् श्रवणादिसापेक्षस्य शास्त्रस्य प्रमितिजनकत्वलक्षणं प्रामाण्यं न स्यादित्यर्थः । "मयि नष्टेपीत्ये"तद्विवृणोति । अहमुपलक्षितमित्यादिना । बुद्धिपूर्वकारीत्यनेन कस्यापीति पदं विवृतम् । श्रुत्यर्थापतिं्त निगमयति अत इति । अहमर्थविगमे ज्ञप्तिसिद्धिरप्यनुसन्धेया । अनुमानमाह स चेति । किञ्च अनुमानमप्यस्तीति चार्थः । अन्वयव्याप्तिमाह योय इति । तथाऽवभासमानत्वेन-स्वस्मै प्रकाशमानत्वेन । व्यतिरेकव्याप्तिं दर्शयति यः पुनरिति । उपनयमाह स्वस्मा इति । निगमनमाह तस्मादिति । स्वस्मै प्रकाशमा- नत्वं हेतुः,अहमिति व्यवहारार्हत्वं साध्यमिति न साध्याविशिष्टता । अहमित्येव प्रकाशते-अहमिति व्यवहारार्हं प्रकाशत इत्यर्थः ।

साध्यविपरीतविशेषसाधकतया विशेषविरुद्धत्वं शङ्कते न चेति । आदिशब्दात् रागद्वेषदुःखादि विवक्षि- तम् । ननु व्यापकं हि प्रसञ्जनीयम् । न च कार्यं कारणस्य व्यापकम् ।। सत्यम् । कारणजातीयस्य तु कदाचित्कार्य-प्रसक्तिर्व्यापिका । अतोऽहंप्रत्ययेनात्मनोऽत्वादिप्रसञ्जनम् । अज्ञत्वादिप्रसक्तिः श्रुतिविरुद्धेत्याह मोक्षेति । "न पश्यो मृत्युं पश्यति न रोगं नोत दुःखता"मिति हि श्रुतिः । अतो यथा सहदर्शनमात्रेण पर्वते भाण्डादिप्रसक्तिः प्रत्यक्षबाधात् वार्यते, तद्वत् कालात्ययापदेश इत्यर्थः । सोपाधिकत्वमाह अज्ञत्वादीति । संसारित्वाहमर्थत्वयोः सहदर्शनमात्रेण मुक्तावपि संसारित्वादिप्रसङ्गश्चेत्, अनुभवस्यापि तत्सहभावदर्शनात् त्वत्पक्षेऽपि मुक्तौ संसारि-त्वप्रसङ्गः ।। तत् मोक्षग्राहिप्रमाणविरोधात् कालात्ययापदिष्ट(त्व?)म्, संसारित्वादेरनुभवप्रयुक्तत्वाभावात् सोपे-धिकत्वं चेति चेत्-तदस्मत्पक्षेऽपि समानमित्यभिप्रायः । अनेन अहमिति भासनं न स्वस्मै भासमानत्वप्रयुक्तम्, अपित्वज्ञत्वप्रयुक्तमिति हेतोः सोपाधिकत्वञ्च श्रुतिबलेन व्याप्तेर्भग्नतया सहदर्शनमात्रमेवेति परिहृतं भवति । एवं

कालात्ययापदेशसोपाधिकत्वे उक्ते । तत्र सोपाधिकत्वमुपपादयितुमज्ञानत्वेन संभावितशिरांसि विकल्पयति अज्ञानं नामेति । धर्म्यैक्ये सति प्रकारान्तरारोपणेन ज्ञानमन्यथाज्ञानम्; यथा पीतः शङ्ख इति । इदं रजःकार्यम् । धम्यर्न्तरस्य धर्म्यन्तरत्वेन ज्ञानं विपरीतज्ञानं; यथा शुर्को, इदं रजतमिति । इदं तमःकार्यम् । "अयथावत् प्रजा- नाति बुद्धिः सा पार्थ! राजसी ।। अधर्मं धर्ममिति या मन्यते तमसा वृता ।। सर्वार्थान् विपरीताश्च बुद्धिः सा पार्थ! तामसी" इति स्मृतेः । अहंप्रत्ययस्य स्वरूपज्ञानरूपत्वात् तत्प्रागभावान्यथाज्ञानविपरीतज्ञानानि विरोधादेवाप-गतानीत्याह अहमित्येवेति ।अहमित्येवात्मनः स्वरूपम्-अहमिति व्यवहारबुध्द्यर्हमेवात्मनः स्वरूपमित्यर्थः । अहम्प्रत्ययस्याज्ञत्वादिप्रयोजकत्वदूषणेनाज्ञत्वादेरविद्यान्वयः एवोपाधिरित्यर्थादुक्तं भवति । अथवा कार्यकार-णभावेन व्याप्तिमङ्गीकृत्व परेणाज्ञत्वादिप्रसङ्ग उक्त इति, व्याप्तिप्रतिक्षेपाय कार्यकारणभावं प्रतिक्षिपति अज्ञात्वा-द्यहेतुत्वाञ्चेत्यादिना । अज्ञत्वफलमपि नास्तीत्याह कुतः संसारित्वमिति ।।

निवृत्ताविद्यानामपि अहमित्यात्मप्रतिपत्तिदर्शनेन अहम्प्रत्ययस्य मुक्तावृत्तिमाह ब्रह्यात्मभावेति । तद्ध-#ैतत्पश्यन् इति ब्रह्मात्मकत्वसाक्षात्कारकथनेन निर्धूतनिरवशेषाविद्यत्वं गम्यते । ब्रह्मणोऽपि तथा प्रतिपत्तिमाह सकलेतरेति । सकलेतराज्ञानविरोधिनः-न हि सकलेतरविषहरणनिपुणस्य वैनतेयस्य विषवश्यत्वसम्भव इति भावः । सच्छब्दप्रत्ययमात्रभाजः-सच्छब्दस्य सदिति प्रत्ययस्य च विषयभूतस्य । मात्र चा पाशचात्यनामरूप-भाकत्वव्यावृत्तिः । अनेनाहङ्कारसृष्टेः पूर्वमप्यहम्प्रत्ययं ज्ञापयति । अहम्प्रत्ययस्फुटीकरणाय "अहमिमा" इति वाक्यं पूर्वमुपादत्ते । बहु स्यामिति वाक्ये "अस्मद्युतम" इत्युत्तमपुरुषबलादहमिति प्रत्ययस्सिद्धिः । अहमिमास्तिस्त्र इत्यत्राहंशब्दः कण्ठोक्तः । न ह्यहङ्कारस्य नामरूपव्याकर्तृत्वमिति भावः । बहूपनिषत्सु अहमिति निर्देशज्ञापनायो-पादत्ते स ईक्षतेति । सृजा इत्यु-त्तमपुरुषेणाहंशब्दाकर्षसिद्धिरिति भावः । स्मृतिं दर्शयति तथा यस्मादिति । यस्मा-दिति वचनं क्षराक्षरातीतस्वाभाविकरूपेणाहम्प्रत्ययज्ञापनार्थमुपात्तम् । न ह्यहङ्कारः क्षराक्षरातीत । अतो अस्मी-त्युत्तमपुरुषेणाप्यहमर्थसिद्धिः । आत्मनो अहम्प्रत्ययं ज्ञापयति-अहमात्मेति । न ह्यहङकारश्चिदचिदन्तरात्मा । स्वाभाविकनित्यरूपेऽहम्प्रत्ययं दर्शयति न त्वेवाहमिति । न ह्यहङ्कारो नित्यः । मृत्युविरोधिमुक्तिप्रदोऽप्यहम्प्रत्य-यविषय इत्याह तेषामिति । न ह्यहङ्कारो मुक्तिप्रदः । एवमनेकश्रुतिस्मृतिवचनोपादानं परविवक्षितद्धित्रतादृशव-चनापनोदनार्थम् । एभिरहंशब्दैश्चिन्मात्रमुपलक्ष्यते चेत् अनेक वाक्यस्थाहंशब्दलक्षणैव दोषः ।

"महाभूतान्यहङ्कार" इति क्षेत्रान्तर्भाववचनमेकम्, "अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निमर्मः शान्तो ब्रह्मभूयाय कल्पते ।।" इति त्याज्यत्वपरं वचनं द्वितीयम्, "अहङ्कारविमूढात्मा" इत्यपरम्; एतत्त्र-यमनुदाहृतमप्यभिप्रेतम् उतरत्र प्ररिहारात् । पूर्वमेतद्वचनाभिप्रायेण, सुषुप्तिमुक्तयोर्नान्वेतीत्युक्तम् । इममर्थमवल- म्व्य चोदयति कथं तर्हीति । परिहरति उच्यत इति । अहमर्था-हङ्कारयोरभेदबुध्द्या परेण चोदिते प्रकृति प्रत्यययो-रर्थविभागव्युत्पादनाय प्रकृत्यर्थभूत आत्मन्यहभ्बुद्धेः प्रामाणिकत्वस्थैर्यं दर्शयति स्वरूपोपदेशेष्विति । अन्यथा-सिदिं्ध दर्शयन् तत्राहङ्कारशब्दविवक्षितमाह अव्यक्तेति । अव्यक्तपरिणामभेदस्येति । न त्वहमर्थस्येत्यर्थः । "अथा-तोऽहङ्कारादेश" इत्यादिषु शुद्धस्वरूपस्याहङ्कारशब्देनाभिधानाभ्युपगमेऽपि न विरोधः; स त्वहङ्कारशब्दोऽहमर्थ-विषयबुद्धिपरः । यद्यहङ्कारशब्दवाच्यत्वमात्रात् प्रत्यगात्माऽपि क्षेत्र(जड)भेदः स्यात्-तर्हि हरिशब्दवाच्यत्वसा- म्यात् सिंहो मण्डूकः स्यात् । अतोऽनेकार्थाभिधायिशब्दैकत्वमर्थभेदाविरोधीति भावः । यथा आगमप्रामाण्ये "तथा च हरिशब्दस्य दृष्टा मण्डूकवाचिता इति । " तच्छब्दवाच्वत्वात्सिंहो मण्डूक एव किम् ।। तथा गोशब्दवा-च्यत्वाच्छब्दश्चापि विषाणवान्" इति । अथाहङ्कारशब्दस्याव्यक्तपरिणामविशेषवाचकत्वप्रकारं दर्शयति स त्विति ।

अहम्भावः अहमिति बुद्धिः । भावशब्दस्य बुद्धिवाचकत्वमभिप्रायपरतया प्रयोगादवगम्यते । सर्वत्राहं शब्दार्थ-मेकरूपमङ्गीकृत्याहङ्काराब्दस्याव्यक्तपरिणामवाचित्वं शब्दानुशासनप्रक्रिययोपपादयति अस्य त्विति । च्विप्रत्य-यस्य सर्वलोपः । कृमः करणे धञ्" । क्षेत्रान्तर्भावोपदेशस्य निर्वाहः कृतः । "अहङ्कारं बलं दर्पमिति त्याज्यतयोपदे-शस्य निर्वाहः क्रियते अयमेव त्विति । अयंशब्देन प्रस्तुताहम्भावो विवक्षितः; न त्वहम्भावकरणहेतुः; गर्वापर-नामेति वचनात् । न हि महदहङ्कारयोरन्यतरोऽहङ्कारो गर्वापरपर्यायः । अतोऽत्राहम्भाव एवायंशब्दविवक्षितः । प्रशस्तदेहेऽहम्बुद्धिरुत्कृष्टजनावामानहेतुः । अहङ्कारः अहम्बुद्धिः । मानसव्यापारवाचिनः करोतेः बुद्धिपरत्वं युज्यते । यथा "तदेकावयवं देवं चेतसा हि पुनर्बुधः । कुर्यात्" इति । मनसा करणं हि वेदनम् । अतोऽहम्बुद्धिर- हङ्कारः । च्विप्रत्ययार्थगर्भत्वात् अतहमि अहम्बुद्धिगमौ इमौ अहंभावाहङ्कारशब्दौ । अत्र भावे व्युत्पत्तिः; पूर्वत्र करणे व्युत्पत्तिः । "गर्वोभिमानोऽहङ्कार" इति नैधण्टुकाः ।। ननु कथं भावे (हेये?) व्युत्पन्नस्याहङ्कारशब्दस्यो-पादेयगोचरतया प्रयोगः "अथातोऽहङ्कारादेश" इति । उच्यते । स त्वहङ्कारशब्दः साक्षादहमर्थबुद्धिवाची; न त्व-नात्मन्यात्मबुद्धिपरच्विप्रत्ययार्थगर्भः । हेयोपादेयरूपेण शब्दप्रतिपन्नयोरहम्बुध्द्योर्विषयविभागं निगमयति तस्मा-दिति । अस्मिन्नर्थे प्रमाणमाह यथोक्तमिति । तत्रैव पुराणे नात्मविषयाहम्बुद्धिवचनयोर्भ्रान्तत्वमात्मविषयेत्व भ्रान्तत्वं च स्पष्टम् । यथा, "आकाशवाऽवभ्निजलपृथिवीभ्यः पृथक्स्थिते । आत्मन्यात्ममयं भावं कः करोति कलेवरे ।। पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ।।" इति । आदिभरतचते "आत्मन्येष न दोषाय शब्दोऽहमिति यो द्विजः । अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।।"इति । एत-द्वचनार्थमप्यहमर्थात्महेतुत्वेनाह यदीति । अनात्मनीति । अनात्मन्यहम्प्रतीतिः कथमात्माभिमान इत्यर्थः । अह-मर्थात्मत्वं निगमयति तस्मादिति ।अस्मिन्नर्थे आत्मसिद्धिग्रन्थमुदाहरति । तदुक्तमिति । धर्मधमिर्भावेन प्रतीतिः, प्रत्यक्षसिद्धिः, स्थिरत्वास्थिरत्वादिवैषम्यम् श्रुत्यर्थापत्तिश्च न्यायः । आगमः उदाहृतोपनिषद्वाक्यानि । अविद्या-योगः-अनन्तरोक्तभ्रान्तियोगः । अहमर्थस्यानातमित्वे स्थूलोऽहमिति भ्रान्तेरयोग इति वार्थः । ज्ञातुरात्मत्वे संवा-दिग्रन्थो दर्शितः । ज्ञप्तेरनात्मत्वे चात्मसिद्धिग्रन्थमाह तथा चेति । धीभ्योऽन्य इत्येतदत्रोपयुक्तम् । साधनशब्द-(पद?)स्योत्पादकज्ञापकसाधारणत्वात् तत् व्याचष्टे अनन्येति । जीवस्वरूपविभुत्वशङ्काव्युदासार्थं व्यापीति शब्दं व्याचष्टे अतीसूक्ष्मेति । पुराणेषु व्याप्तिशब्दप्रयोगात् स एवात्र श्लोके प्रयुक्तः । यत्र यत्र जीवस्य व्याप्तिवाचिनः शब्दः, तत्रायेमेवार्थो द्रष्टव्य इति भावः । जीवस्य धर्मभूतज्ञानेन व्याप्तिरात्मसिद्धावेवोच्यते, "व्याप्तिरपि चैतन्य-मात्रेणैव न स्वरूपेणे"ति । अतो यथोक्त एवार्थः ।।

अथ शास्त्रप्रत्यक्षविरोधे शास्त्रप्राबल्यमनूद्य निरस्यति यदुक्तमित्यादिना । परेण पूर्वम्, "मूलमूलिभाव-परोक्षापरोक्षरूपत्वादिर्न्न बाध्यबाधकभावे कारणम्; ज्वालाभेदानुमानेन व्यभिचारात् । "आदित्यो यूप" इत्यादा-वपि यूपादित्यैक्याद्यप्रतिपादनं न दौर्बल्यात्; अपि तु यूपाञ्जनविधिशेषत्वेनैक्ये तात्पर्याभावात् इत्युक्तम् । तत्र ज्वालाभेदानुमानात् शास्त्रस्य त्रिधा वैषम्यमस्ति प्रमाणान्तरेण दोषमूलत्वानिश्चयादन्योन्याश्रयः, बाध्यबाधकयो-स्तुल्यदोषत्वम्, मूलोच्छेदित्वञ्चेति; एतत्त्रयं ज्वालाभेदानुमाने नास्ति । तथाहि,-एकवर्तिकावर्त्तित्वनिबन्धन-सादृश्याख्यदोषस्या असत्यप्यैक्ये ऐक्यप्रतीतिहेतुत्वम् अचिरनिर्वापितारोपितप्रदीपे दृष्टमिति, चक्षुषा ज्वालैक्य-प्रतिपत्तेः क्कचित् दोषमूलत्वनिश्चयात् अन्यत्रैक्यप्रतिपत्तावपि दोषमूलत्वसम्भवाज्जवात् अवालैक्यप्रत्यक्षं शङ्कितं न निश्चयजननक्षमं परीक्षकस्य भवेत् । ज्वालायां सादृश्यरूपदोषस्य असत्यप्यैक्ये ऐक्यप्रतीतिहेतुत्वं प्रमाणान्त- रेण न दृष्टं चेत्, अन्योन्याश्रयः स्यात्-अनुमानस्य प्राबल्यात् प्रत्यक्षस्यान्यथासिद्धिः, तदन्याथासिध्द्याऽनुमानस्य

प्राबल्यमिति; ऐक्यप्रतीतेरन्यथासिद्धिसम्भवः प्रमाणान्तरदृष्ट इति नान्योन्याश्रयः । अत्र न तथा प्रमाणान्तरेण भेदवासनाया दोषत्वं दृष्टम् । किञ्च दीपे बाध्यस्य ज्वालैक्यज्ञानस्य सादृश्याख्यदोषमूलत्वे बाधकस्य ज्वाला-भेदानुमानस्य न सादृश्यदोषमूलत्वं दृष्टम् । अत्र तु बाध्यस्य प्रत्यक्षस्य बाधकस्य शास्त्रस्य चोभयोः पराभ्युपेत-दोषमूलत्वमविशिष्टं विद्यत इति तुल्यदोषत्वम् । किञ्च तत्र ज्वालाख्यधर्मिग्राहिणः प्रत्यक्षस्य च प्रथमवर्त्यवयवा-ग्निसंयोगे चरमवर्त्यवयवस्य विनाशे च उत्पत्तिविनाशयोर्व्याप्तिग्राहिणः प्रत्यक्षस्य, प्रत्यवयवमग्निसंयोगवर्त्य-वयवविनाशाख्यलिङ्गग्राहिणः प्रत्यक्षस्य च न भेदानुमानबाध्यविषयत्वम् । ऐक्यप्रतिपत्तेरेव तत् । अत्र तु शब्दा-ख्यधर्मिग्राहिणः तस्य निर्दोषत्वसाधकलिङ्गग्राहिणः तल्लिङ्गव्याप्तिग्राहिणषद्विध तात्पर्यलिङ्ग ग्राहिणश्च प्रत्यक्षस्य तेषां तार्त्पयलिङ्गानां च शास्त्रेणैव बाधोपगमान्मूलोच्छेदित्वमिति त्रिधा वैषम्यम् । एतद्वैषम्यत्रयमुपपादयिष्यन् पूर्वपक्षमनुवदति दोषमूलत्वेनेति । सकलभेदावलम्बिप्रत्यक्षस्येति । अत्रायं भावः-तत्त्वशुद्धिकारादिभिः कैश्चित् काचतिमिरादिरेव प्रत्यक्षस्य दोष उक्तः । स नोपपद्यते; काचतिमिरादेः क्काचित्कत्वात् । एतेन प्रत्यक्षान्तराणां दोषमूलत्वमनुमीयते चेत्, शब्दत्वात् शास्त्रस्यापि दोषमूलत्वमनुमीयताम् ।। शास्त्रे दोषस्य योग्यानुपलम्भनिरा-सश्चेत्, प्रत्यक्षेऽपि तथैव स्यात् । किञ्च आयुर्वेदे दोषाणां स्वरूपं तन्निवृत्त्युपायादिकं च निरूपितम् । सर्वप्रत्य- क्षस्य दोषमूलत्वानुमानं तद्विरुद्धं च । किञ्च सर्वप्रत्यक्षस्य दाषमूलत्वे सन्मात्रग्राहिणः प्रत्यक्षस्य च दोषमूलत्वात् सन्मात्रमपि मिथ्या स्यादिति दूषयति कोऽयमित्यादिना । कोऽयं दोष इति वक्तव्यमिति । कोऽयं दोष इत्य- नया वचनव्यक्तया दोषरूपं मूलं यय्दुक्तं, तत् किमिति पृष्टे अयं दोष इति वक्तव्यमित्यर्थः । यद्वा यच्छब्दसाम- र्थ्यात् तत्रेत्याक्षेपसिद्धम् । दोषमूलत्वेनेत्यादिना यदर्थजातमुक्तम्, तत्र कोऽयं दोष इति पृष्टे, वक्तव्यमित्यर्थः । कुतो वक्तव्यमित्यत्राह यन्मूलतयेति । न हि दोषमनुकत्वाऽन्यथासिद्धिः सुवचेत्यर्थः । दोषमाह अनादीति । स्व-रूपसम्प्रतिपत्तिपर एवकारः । हि शब्देन दोषान्तरासम्भवसिद्धवत्कारः । स्वमते दोषत्वसम्प्रतिपत्त्यभिमानाद्वा हि शब्दः । दोषत्वं हि विपरीतज्ञानहेतुत्वम् । अतो विपरीतज्ञानहेतुत्वेन व्याप्तेरदृष्टतया भेदवासनास्वरूपसम्प्रति-पत्तावपि दोषत्वासम्प्रतिपत्तेः पृच्छति भेदवासनाया इति । तिमिरादिवदिति आदिशब्देन सादृश्यादि विवक्षितम् । तद्धि ज्वालायामैक्यभ्रमहेतुः । अन्यत्र ज्ञातपूतर्वत्वस्य दुर्वचत्वाच्छङ्कते अनेनैवेति । दूषयति नेति । एवं प्रमाणा-न्तरेण दोषत्वानिश्चयेनान्योन्याश्रयणापत्तिरूपवैषम्यमुक्तम् । अथ तुल्यदोषत्वं बाध्यबाधकयोराह किञ्चेति । अथ दोषमूलत्वे तुल्येऽपि परत्वाद्वाधकत्वं शङ्कते अत्रेति ।अपच्छेदादिषु, इदं रजत्म्, नेदं रजतमित्यादिषु च बाधकं दृष्टम्; अतो निषेध्योपस्वापकमानापेक्षया निषधकस्य परत्वात् बलीयस्त्वमित्यर्थः । एवं बह्मप्रतिपादकशास्त्रस्यापि व्युत्पत्त्यादेः प्रत्यक्षादिमूलतया तत्पूर्वकस्य तस्य प्रत्यक्षावपेक्षया परत्वात् तत्प्रतिपाद्यनिर्विशेषवस्तुसत्यत्वमपि तुल्यन्यायतया सिद्धम् । तद्दूषयति तन्नेति । परत्वस्याकिञ्चित्करत्वमुपपादयति रज्जुसर्पेति । उत्तरज्ञानस्य दोष-मूलत्वेन प्रामाण्याऽनिश्चयाद्भयानिवृत्तिः । ननु भ्रान्तत्वे ज्ञाते परत्वमकिञ्चित्करमस्तु; अत्र तु भ्रान्तत्वज्ञानं ना-स्तीत्यत्राह शास्त्रस्य चेति । ज्ञातत्वमुपपायति श्रवणावगतेति । शास्त्रस्य भेदवासनामूलत्वं तावत्सम्प्रतिपन्नम् । तस्याश्च दोषत्वं भेदमिथ्यात्वज्ञानादवगम्यते । तन्मिथ्यात्वावगतिश्च ज्ञाननिवर्त्यत्वावगमात् ज्ञाननिवर्त्यत्वावग- मश्च ब्रह्मात्मैकत्वज्ञानस्य निखिलभेदोपमर्दित्वावगतेः । अत ईदृशनिवर्त्तकज्ञानाभ्यासरूपमननं कुर्वता शास्त्रस्य दोषमूलत्वमवगतमित्यर्थः ।

एवं बाध्यमाधकयोस्तुल्यदोषत्वरूपं वैषम्यमुक्तम् ।अथ मूलच्छेदित्वमाह अपि चेति । इदं शास्त्रमिति शब्दरा-शिव्यावृत्तिः । असम्भाव्यमानदोषमिति बौद्धागमादिव्यावृत्तिः । त्वया-प्रमाणप्रमेयादिकं तात्विकत्वे-

नानभ्युपगच्छता । न तावदिति । स्वतस्सिद्धत्वेन निर्द्धूतनिखिलविशेषत्वम् । एतद्विशेषणं निर्विषयत्वप्रदर्शनार्थम् । कुतो नावगम्यत इत्यत्राह तस्या इति । सर्वविषयविरक्तत्वात् । निर्विषयत्वादित्यर्थः । न हि विज्ञानम् असंबध्य विषयं प्रकाशयति । वस्तुतो निर्विषयापि भ्रान्त्या अविद्यमानमपि शास्त्रप्राबल्यमवगमयतीत्यत्राह शास्त्रपक्षपात-विरहाच्चेति । असम्बन्धाविद्यमानत्वाविशेषात् सौगतादिशास्त्रान्तरप्राकाण्यमप्यवगयमयेदित्यर्थः । प्रत्यक्षादिकं नावगमयतीत्याह नापीति । भोगिप्रत्यक्षादेरप्यैन्द्रियिकप्रत्यक्षमूलशास्त्रजन्यज्ञानहेतुकादृष्टकार्यत्वादैन्द्रियिकप्रत्य- क्षं प्रथममुपात्तम् । तन्मूलत्वात्-भेदवासनामूलप्रत्यक्षमूलत्वात् । एवं प्रकृतगोचरतयोक्तं प्रमाणाभावं पराभिमत-सर्वगोचरत्वेनोपसंहरति अत इति । न स्वाभिमतार्थसिद्धिः । स्वाभिमतम्, प्रत्यक्षदौर्बल्यशास्त्रप्राबल्यादिकम् ।

एतत #्खण्डकाराद्युक्तकुतर्कनिरसनोपलक्षणार्थमुक्तम् । तत्र प्रमाणव्याप्त्यादिभङ्गः क्रियते । तत्रेदं प्रष्ट- व्यम्-स्वाभिमतव्यतिरिक्तार्थपरं शास्त्रान्तरमपरमार्थार्थकमित्यस्मिन्नर्थे किं तव प्रमितिः, तत्साधनं नास्ति, उत नास्ति? अस्ति चेत्, न प्रमाणादिभङ्गः । नास्ति चेत्, तत एव न प्रमाणादिभङ्गः । प्रमितितत्साधनादिकमस्त्येव; तत् व्यावहारिकमिति चेत्-किमिदं व्यावहारिकत्वम्? किं परमार्थत्वम्, उतापरमाथर्त्वम्? अपरमार्थभूतं प्रमाणं किं साधकम्, उतासाधकम्? साधकं चेदपरमार्थसंज्ञितम्, अन्येषां च प्रमाणं तत्तत्पक्षसाधकमेव स्यात् । अथा-साधकम्, ततो नितरां वाद्यन्तराभ्युपगतप्रमाणादिकं साधकं भवेत् । त्वदुक्तं प्रमाणादिकं परमार्थभूतं चेत्, द्वैती विजयी स्यादिति । स्वपक्षपरपक्षभेदः किं परमार्थः, उतापरमार्थः? परमार्थश्चत्, न भेदमिथ्यात्वम् । अपरमार्थ-श्चेत्,परपक्ष एव त्वयाऽङ्गीकृतः स्यादिति भेदपारमार्थ्यं त्वयैवोक्तं स्यादिति । एवमादिव्याघातः सवर्त्रानुसन्धेय इत्यभिप्रायः ।।

अथ स्वपक्षसाधनाप्रमाणाभावं प्रतिविवक्षुश्चोदयति नन्विति । कोऽयमित्याक्षिपति । व्यावहारिकस्व- रूपं दर्शयति आपातेति । दूषयति किं तेनेति । साध्यनिश्चयरूपप्रयोजनं नेत्यर्थः । कुत इत्यत्राह प्रमाणतयेति । युक्तया बाधो यौक्तिकबाधः; धूमबुद्धया गृहीतबाष्पादेः साध्यनिश्चयाहेतुत्वदर्शनादित्यर्थः । एवं मूलोच्छेदित्वं वैषम्यमुपपादितम् ।

एवं पूर्वं परोक्तं परत्वाद्वैषम्यं दूषितम् ।। अथास्मात् परस्य कस्यचिद्बाधकस्याभावं व्रह्म प्रतिपादकशास्त्र-स्य प्रत्यक्षाद्वैषम्यं शङ्कते अथोच्येत इत्यादिना । बाधदर्शनाभावरूपं वैषम्यं शास्त्रस्य वक्तुं प्रत्यक्षविषयस्य बाध-दर्शनमाह शास्त्रेति । प्रत्यक्षविषयात् शास्त्रविषयस्य वैषम्यमाह शास्त्रविषयत्वेति । पाश्चात्यबाधादर्शनाभ्युपगमेन दूषयति तदयुक्तमिति । कुत इत्यत्राह अबाधितस्येति । "यस्य दुष्टं कारणं यस्य च मिथ्येति प्रत्ययः, स एवास-मीचीनः प्रत्ययः" इति(हि) नीतिविदः । अतो दुष्टमूलत्वबाधकप्रत्ययौ प्रत्येकं मिथ्यात्वसाधकौ ।। व्याहतमिदम्, यत् अबाधितस्याप्यपारमार्थ्यनिश्चय इति । अपरमार्थत्वेन निश्चितत्वं हि बाधितत्वमित्यत्राह एतदुक्तमिति । अज्ञातस्वतिमिरस्येति पदं क्कचिद्दृश्यते । दोषज्ञाननिबन्धनपरोक्षवाधकज्ञानोदयव्युदासः प्रयोजनम् । ज्ञात-स्वतिभिरस्येति तु पाठो लेखकस्खलनकृतः । स हि पुरुषान्तरागोचरत्वोक्तिविरुद्धः । बाधकाभावे कथं मिथ्या-त्वमित्यत्राह दोषो हीति । भ्रान्तिसमानाश्रयबाधकज्ञानाभावेऽपि पुरुषान्तरज्ञानेन मिथ्यात्वनिश्चयो न व्याहत इत्यर्थः । तिरश्चां यावज्जीवं बाधोदयामावेऽपि देहात्मधीर्मिथ्यार्थविषया; तस्याः संसर्गरूपदोषमूलत्वात् । बाह्य- भ्रमेषु स्पष्टोदाहरणस्य विवक्षितत्वादेव तदनुक्तिः । ननु तिरश्चां देहात्मभ्रमो नास्माकं प्रत्यक्षः; कार्यानवगमात् भ्रमकारणदोषोऽपि दुरवगमः; तत् कथं दोषमूलत्वसम्भावनाज्ञानमात्रेण मिथ्यात्वनिश्चयः ।। उच्यते ।अस्मदादेः शास्त्रश्रवणात्पूर्वं देहात्मभ्रमदर्शनात् तेषां च शास्त्राधिकाराभावात् देहात्मभ्रमस्तन्मूलदेह संसर्गरूपदोषवत्त्वं

चानुमीयते; दोषमूलत्वनिश्चयान्मिथ्यात्वनिश्चयः । एवं तैमिरिकजनस्य तिमिरान्वये आप्तवाक्यादिकमन्वेष्टव्यम्; ततो मिथ्यात्वनिश्चयः । एवं सपक्षे शिक्षितमर्थं दार्ष्टान्तिके निगमयति तथेति । ज्ञानमिथ्यात्वं परमताभ्युपगमा-दुक्तम् । पाश्चात्यबाधादर्शनमुतरत्र निरसिष्यते । शास्त्रस्याविद्यामूलत्वाभ्युपगमे अनिष्टं प्रसञ्जयति भवन्तीत्या- दिना । व्याप्ति प्रदर्शनवचनत्वात् प्रयोगा इत्युक्तम् । प्रतिज्ञादृष्टान्तहेतुरूपेण कथनम्, "अनिष्टप्रसङ्ग एवमपि न्या-य्यः" इति ज्ञापनार्थम् । ज्ञानविषयत्वमात्रमेको हेतुः, एको दुष्टपुरुषज्ञानविषयत्वम्, एको मिथ्याभूतसामग्रीजन्य-ज्ञानविषयत्वमिति भिदा । पूर्वं सपक्षीभूत एवार्थोत्र सपक्ष इत्येवकारार्थः ।। नन्वसत्यहेतुजन्यधीविषयत्वमन्यतरा-सिद्धम् । प्रपञ्चवदिति दृष्टान्तश्च साध्यविकलः । कथमेवं प्रसङ्गः ।। उच्यते । "ब्रह्मणोऽननुभूतित्वं त्वदुक्तयैव प्रसज्यते" इति वत् प्रसञ्जकप्रसञ्जनीयधर्मव्याप्तिं परमतेनाभ्युपगम्य दूषणमुक्तमिति न विरोधः ।

नासत्वहेतुजन्यज्ञानविषयत्वादसत्यत्वं ब्रह्मणः; असत्यादपि सत्यप्रति प्रतिर्द्दश्यत इति शङ्कामनूद्य परि-हरति न चेत्यादिना । किमसत्यस्य सत्योत्पत्तिहेतुत्वानुपपत्तिः, उत तज्ज्ञप्तिहेतुत्वानुपपत्तिः इति विकल्पमाभि- प्रेत्य उत्पत्तिहेतुत्वेज्ञप्तिहेतुत्वे चोदाहरणानि दर्शितानि । तत्र स्वाप्नविषयाणां सत्यत्वेऽभिमतेऽपि विषयासत्यत्वम-भयुपगम्य परिहरति स्वाप्नेति । ज्ञानस्य सत्यत्वमुपपादयति तत्र हीति । अवधारणं कथमित्यत्राह तेषामेवेति । ज्ञानस्याबाधं दर्शयति न हीति । कथं जायत इत्यत्राह दर्शनं त्विति । अन्यविषयो बाधो नान्यत्र सञ्चारयितुं युक्त इत्यर्थः । अत्रानेकोदाहरणप्रदर्शनं तत्तज्ज्ञानसामग्रीविशेषाणां सत्यत्वज्ञापनार्थम् । तच्च ज्ञानसत्यत्वनिर्वहणा- र्थम् । स्वप्नकारणं पूर्वानुभवसंस्कारः सत्यः । प्रसिद्धत्वात् -तदनुक्तिः । मायाविन इति । अत्र मन्त्रो#ैषधादिप्रभव-मित्यनेन कारणसत्यत्वमुक्तम् । मायाभयम्-मिथ्याविषयमित्यर्थः; विचित्रविषयं वा । विषयेत्यादि । विषयदोषः सादृश्यादिः; इन्द्रियदोषः काचादिः; आदिशब्देन देशगतदूरत्वादिदोष उच्यते । दोषश्च सत्यः । सत्यैवेति । सर्प्पसन्निधानं कारणं सत्यम्; द्रष्टबुद्धिश्च सत्या; शङ्काविषबुद्धावपि सामग्री सत्या; निर्विषोरगदंशनं वा अन्ध-कारेअश्मलोष्ठादिनिपीडनं वा सत्यं हि भवति । वस्त्विति । जलादि सत्यम् । तत्कृतचाक्षुषतेजः प्रतिहतिश्च सत्या । संवेदनानां सत्यत्वे निश्चिते ह्युक्तोदाहरणेषु सत्यात्सत्यप्रतिपत्तिरित्यत्राह एषामिति । उत्पत्तिमत्त्वमर्थ-क्रियाकारित्वं च द्वयमपि प्रत्येकं सत्यत्वे साधकम् । न हि शुक्तौ रजतमुत्पत्तिमत्; न च कार्यकरम् । अथ ज्ञान-सत्यत्वं विषयसत्यताव्याप्तमिति तन्निवृत्त्या ज्ञानसत्यत्वनिवृत्तिरिति शङ्कते हस्त्यादीनामिति । अभावे-प्रतिपन्नो-पाधौ तथात्वाभावे । ज्ञानसत्यत्वं सालम्बनत्वमात्रव्याप्तम् ; अबाधितत्वादिति परिहरति नैतदिति । सालम्बन्त्व-मात्रशब्देन सत्यालम्बनत्वव्यावृत्तिः । मिथ्याभूतस्यालम्बनत्वं कथमित्यत्राह अर्थस्येति । आलम्बनम्-विषयः । प्रतिभासमानत्वमेन ह्यालम्बनत्वेऽपेक्षितमिति । प्रतिभासमानत्वमेव विषयत्वमिर्त्थः । अविद्यमानस्याप्यतीता-नागतादेः प्रतिभासमानस्यालम्बनत्वदर्शनात् विद्यमानस्याप्यप्रतिभासमानस्य तदभावाच्चेति भावः । पक्षे प्रतिभास-मानत्वमप्यस्तीत्याह प्रतिभासेति । प्रतिभासमानता-संविदपेक्षया प्रतिसम्बन्धित्वम् ।। अविद्यमानस्य विद्यमान-तया भासनात् तेन रूपेणासत्यता । तथा साक्षादवभासमानो विषयोऽपि ज्ञानहेतुः स्यात्; संप्रतिपन्नविद्यमानविष-यवत् विद्यमानतया भासमानत्वाविशेषात्; तथासति असत्योत्सत्यात्पेक्षिरित्यत्राह दोषवशादिति । अविद्यमानस्य विद्यमानतया भासनहेतुर्दोष एव; न त्वविद्यमानो विषयः । अविद्यमानो विषयो न ज्ञानस्य हेतुतयाऽपेक्षितः केवलं विष-तया, विद्यमानस्तु तथात्वेन भासमानो विषयतया हेतुतया चापेक्षितः, अतो वस्तुतो विद्यमानत्वमेव विषयस्य ज्ञानहेतुत्वे उपाधिः । नियतपूर्वकालवर्त्तिनो हि हेतुत्वं दृष्टम् । तस्मादविद्यमानस्य हेतुत्वायोगात् दोष एव हेतुरिति नासत्यात्सत्योत्पत्तिरित्यर्थः । प्रातभासमानत्वे द्वयोरप्यविशिष्टे कथमन्यरस्यासत्यत्वनिश्चय इत्यत्राह स त्विति ।

बुद्धिरप्यसत्या किं न स्यादित्यत्राह अबाधितेति । विषयासद्भावेन ज्ञानस्यासत्यताकथनं कालात्ययापदिष्टमि- त्यर्थः ।।

ननु स्वाप्नादिविषयज्ञाने किं ज्ञानमात्रं शुभाशुभप्रतिपत्तिहेतुः, उत ज्ञानविशेषः? ज्ञानमात्रपक्षेऽतिप- #्रसङ्गः । ज्ञानविशेषश्चेत्, कस्तस्यावच्छेदकः? विषयश्चेत्,किं विषय उपलक्षणतयावच्छेदकः उत विशेषणतया? यदि विशेषणतया,-विशेष्येण सह कार्यान्वयि हि विशेषणम्, अतो-हस्त्यादेरपि शुभाशुभप्रतिपत्तिहेतुत्वादसत्या-त्सत्यप्रतिपत्तिः । यद्यपलक्षणतया,-उपलक्ष्यबहिर्भूतः उपलक्ष्यप्रतीत्युपायो ह्युपलक्षणम् । अतो-विषयस्य ज्ञानप्रति-पत्तिहेतुत्वादसत्यात्सत्यप्रतिपत्तिः ।। ज्ञानानां तत्तद्ययवहारानुगुण्यलक्षणस्वभावविशेषैर्व्यावृत्तत्वान्नातिप्रसङ्ग इति न च वाच्यम्; व्यवहारानुगुण्यमात्रस्य व्यावर्त्तकत्वेऽतिप्रसङ्गात् । व्यवहारविशेषानुगुण्यस्य व्यावर्त्तकत्वे तद्विशेष-श्च तत्संग्राहकविषयाधीन इति व्यवहारावच्छेदकतया अनृतस्य सत्यहेतुत्वमिति ।।

उच्यते-व्यावृत्तमेव ज्ञानं शुभाशुभाद्यनुमापकम्; व्यावृत्तिश्च स्वा(साआ)लम्बनेन । अविद्यमानस्या-प्यालम्बनत्वं दोषवशादित्युक्तम् । अन्यथा ख्यातिपक्षेऽप्यालम्बनसत्यता सर्वज्ञानानामिष्यत एव; विशेषणविशे-ष्यतत्संसर्गाणां क्कचित्ससत्यत्वात् । विशेषणविशेष्ययोस्तथात्वनिर्वाहकः संसर्गः स्वस्य तदीयत्वे संसर्गान्तरनिर- पेक्षः । स तु संसर्गः पुरोवत्तिर्नि भ्रमाधिष्ठाने प्रतीयमानः पुरोवर्त्यपेक्षया स्वयं स्वस्य संर्गारूपत्व निर्वहणाऽभाय-र्थ्यात् पुरोवर्तिति नास्तीति पुरोवर्त्यपेक्षया संसर्गोऽपरमार्थः; न तु स्वरूपेण । आलम्बनत्वे च सन्निहितत्वरूपम-नपेक्षितम्, असन्निहितास्याप्यालम्बनत्वदर्शनात् । अतः सत्येन रूपेणालम्बनत्वमिति हस्त्यारोहणादिज्ञानान्यपि सत्यभूतहस्त्याद्यालम्ब-नावच्छिन्नानि परमार्थभूतया स्वप्नावस्थयावच्छिन्नत्वाज्जाग्रदवस्थाज्ञानविलक्षणानि शुभा-शुभप्रतिपत्तिनिमित्तानि । अतो नातिप्रसङ्गः, नासत्यात्सत्यप्रतिपत्तिश्च । न च प्रतिबिम्बात् बिम्बानुमितावसत्या-त्सत्यप्रतिपत्तिः; प्रतिबिम्बप्रतिभासस्य सत्यस्यैवानुमापकत्वात् । परमार्थतस्तु तत्र नानुमापकानुमेयविभाग, दर्प्प-णादिप्रतिहतैश्चाक्षुषतेजोभि#ेर्बिम्बस्यैव दर्पणस्थतया गृह्यमाणत्वात् । अतः क्कचिदर्थात् प्रतिपत्तिः, क्कचित् तत्प्रति-भासात् तत्तदर्थप्रतिपत्तिरिति नासत्यस्य लिङ्गत्वम् । किञ्च असत्यात्सत्यप्रतिपत्तिः किं भवत्पक्षेणोच्यते, उतास्म-त्पक्षेण । न तावत् भवत्पक्षे सा सिध्यति; शुभाशुभयोरपि मिथ्यात्वेन असत्यादसत्यप्रतिपत्तिरेव हि स्यात् । न चा-स्मत्पक्षे; यर्थाथख्यात्यभ्युपगमात् सत्यादेव सत्यप्रतिपत्तेः । एषां स्वाप्नहस्त्यादिज्ञानादीनां शुभाशुभप्रतिपत्त्या-दिहेतुभूतानां षण्णामुदाहरणज्ञानानां संस्कारादिसत्यसामग्रीकत्वं स्पष्टम्; ज्ञानानां सत्यत्वमुपपादितम् । अत उत्पत्तौ ज्ञप्तौ च हेतुसत्यत्वं सिद्धम् ।।

अथ ज्ञानव्यतिरिक्तासत्यहेतुना सत्यप्रतिपतौ हेतुसत्यत्वमुपपाद्यते रेखयेत्यादिना । हेतोरसत्यत्वं दर्शयँ-श्चोदयति नन्विति । परिहरति नैवमिति । वर्णात्मकता किं सत्तयो वर्णप्रतिपत्तेरुपायः, उत प्रमिततया, उत प्रतीत-तया इति विकल्पमभिप्रेत्याह असत इति । असत्यत्वात्सत्तयोपायत्वमनुपपन्नमित्यसत इति पदस्याभिप्रायः । असतः-सद्वयतिरिक्तस्येत्यर्थः । असत्त्वादेव प्रमिततयोपायत्वं चानुपपन्नमिति निरुपाख्यशब्दाभिप्रायः । उपा- ख्या-प्रमितिः; तदविषयत्वं निरुपाख्यत्वम् । प्रतीतिविषयतयोपायत्वानुपपत्तिस्तु वक्ष्यते ।। सत्ताप्रमित्योरभाव- #ेऽपि वर्णात्मताया उपायत्वमस्तीति कल्प्यते चेत्, तदनुपपन्नम्; व्याप्तिविरोधात् । व्याप्त्यनुगुणं हि कल्पनं प्रव- र्त्तत इत्यभिप्रायेणाह अनुपपन्नं चेति । अथ भ्रान्तित प्रतीतायाः वर्णात्मताया वर्णप्रतिपत्तिहेतुत्वपक्षेऽपि बुध्द्यं- शस्य हेतुत्वे परस्यानुपपतिं्त दर्शयितुमाह अथेति । दूषयति एवं तर्हीति । कुत इत्यत्राह बुद्धेरिति । दूषणान्तरमाह उपायेति । तदुपपादयति उभयोरिति । बुध्द्यंशस्य हेतुत्वे दूषणमुक्तम् । वर्णात्मतांशस्य हेतुत्वे सिंहावलोकितकेन

दूषणमाह रेखाया इति । अविद्यमानवर्णात्मना-अविद्यमानवर्णात्मत्वेनेत्यर्थः । अतिप्रसङ्गपरिहारार्थं शङ्कते अथेति । तत्रापि स्वमतासिद्धिमाह हन्तेति । तदुपपादयति रेखाया इति । उदाहरणान्तरं परिहरति रेखागवयाद-पीति ।

स्फोटवादावलम्बनेन उच्यमानं उदाहरणान्तरं परिहरति न चैकरूपस्येत्यादिना । "नादैः स्फोठ्यते इति व्युत्पत्त्या स्फोट एकरूपः शब्दः; तदभिव्यञ्जकनादविशेषाः बहवः; कत्वस्वत्वादिभेदो व्यञ्जकगतः शब्द #ेआरोपितोऽर्थविशेषप्रतिपत्तिहेतुः; तत्रासत्यात्सत्योत्पत्तिः"इत्यपि न युक्तमित्यर्थः । कुत इत्यत्राह नानानादेति । कत्वस्वत्वादिविशेषान्विततत्तन्नादकृतोऽभिव्यक्तिविशेषः सत्यः; तद्विशिष्टः सत्यःशब्दोऽथर्प्रतिपत्तिहेतुरित्यर्थः । यद्यपि कत्वस्वत्वादिवौशिष्टयं शब्दस्यारोपितम्-तथापि तज्ज्ञानं सत्यभेवार्थप्रतिपत्तिहेतुः । ज्ञानस्य च सत्येनै-वालम्बनेन स्वाप्नज्ञानवद्वयावृत्तिरनुसन्धेया । कत्वाद्यालम्बनाभिव्यक्तिविशिष्टरूपेण स्फोटस्यार्थप्रतिपत्तिहेतुत्व-सम्भवात् कत्वादिवैशिष्टयस्यासत्यस्यार्थस्य नार्थप्रतिपत्त्युपयोगः । एवं शब्दस्यैकरूपत्वमभ्युगम्य परिहृतम् । अथ तदनभ्युपगमेन परिहरति शब्दस्यैकरूपत्वमिति । कुत इत्यत्राह गकारादेरिति । एककारेणैकरूपः शब्दो व्यावत्र्त्यते; न तु दुन्दुभिशब्दादिः । स त्वनभिव्यक्तविशेषाकारो गकारादिरेव । "अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्ज्जनीया इति हि भगवानुपवर्षः" इति गकारेदेरेव बोधकत्वं व्याचख्युः । ननु "तस्मिस्तस्मिस्तु तन्मात्रं तेन तन्मात्रता स्मृता" इति शास्त्रवशादेकरूपं शब्दमात्रमभ्युपगन्तव्यम्; तत् कथं तत्प्रतिक्षेपः ।। नैवम्; तन्मात्रावस्थासूक्ष्मभूतकारणगुणानामिन्द्रियग्राह्यत्वायोगात् । पञ्चीकृतभूतगुणानामेव ह्यैन्द्रियिकत्वम् । किञ्च, दध्यवस्थायां दुग्धावस्थेव तन्मात्रावस्था ।आकाशगुणभूतं शब्दतन्मात्रं स्थूलाकाशसृष्टे पश्चान्न विद्यते । यथा-महाभूततृतीये तेजसि शुकलकृष्णादिवर्णव्यतिरेकेण रूपतन्मात्रं किञ्चिदस्ति, शुकलकृष्णादयश्चाभिव्यञ्जकगताः एकरूपे आरोपिता इति च वक्तुमयुक्तम्-एवमिदानीमेकरूपशब्दस्य विद्यमानत्वं तत्राभिव्यञ्जकगतानां कत्वस्व-त्वादीनामारोपितत्वञ्च सर्गप्रतिपादकशास्त्रानुसारिभिरभ्युपेतुमयुक्तम् ।

अत्रायामभिसन्धिः-वर्णातितिक्त एकरूपः शब्दः किं स्फुटप्रतिपन्नत्वादभ्युपगम्यते, उत कल्पनावशात् । न प्रथम:, गकारादिव्यतिरिक्तस्य कस्यचिदनुपलम्भात् । न द्वितीयः, कल्पकाभावादिति ।। ननु वर्णानां वाचकत्वा-नुपपत्तेः, एकं पदभित्यादिप्रत्ययस्य वर्णेष्वनुपपत्तेः, भिन्नेषु वर्णेषु शब्दः शब्द इत्यनुवृत्तिबुद्धिवशाच्च वर्णातिरिक्त-पदस्फोटसिद्धिः; तत एव न्यायात् पदसङ्घातातिरिक्तवाक्यस्फोटसिद्धिश्चत्यत्राह गकारादेरिति । गकारादिवर्णा-नामेव समुदितानां वाचकत्वम् । एकं पदम्, एकं वाक्यमिति प्रत्ययश्च वणर्समुदायविषयः । शब्दः शब्द इत्यनुवृत्ति-बुद्धिश्च श्रोत्रग्राह्यत्वोपाधिनिबन्धना ।अतः कल्पकानामन्यथासिद्धत्वान्नैकरूपशब्दसिद्धिरित्यर्थः ।।

ननु न कल्पकान्यथासिद्धिः । तथाहि,-न तवदेकैकस्य वर्णस्य वाचकत्वं वर्णान्तरवैयर्थ्यात्; गकारमा- त्रेण गोगवयगजाद्यप्रतिपत्तेश्च । नापि वर्णसमुदायो वाचकः; क्रमोच्चारितश्रुतानां वर्णानां यौगपद्याभावेन वृक्षादी-नामिव समुदायभावानुभूतवर्णविषयस्मरणा नुपपत्तेः । न च पूर्वपूर्ववर्णश्रवणजनितसंस्कारसचिवोऽन्त्यवर्णो वाचक इति युक्तम्; वर्णानुभवजन्यसंस्काराणामनुभूतवर्णविषयस्मरणहेतुतयाऽननुभूतार्थान्तरप्रतीतिहेतुत्वाभावेनाकिञ्चि-त्करत्वात् । तत्साचिव्यविरहितान्त्यवर्णस्य च अर्थप्रत्यायकत्वायोगात् । तथा वर्णानां भिन्नत्वात् एकं पदमिति प्रत्ययश्च तदतिरिक्तार्थविषयो भवितुमर्हति । न च वनसेनादिप्रत्ययवत् समुदायविषयत्वमेकत्वप्रत्ययस्य युक्तम्, एकप्रदेशसम्बन्धित्वादिवत् एकीकारनिमित्तोपाध्यभावात् ।। एकस्मृत्यारूढत्वमुपाधिरिति चेन्न-द्वे पदे, त्रीणि पदानि, बहूनि वाक्यानीत्यनेकेषामेकप्रत्ययारूढत्वदर्शनात् । न चैकार्थावच्छिन्नवर्णसमुदाय एकं पदम्; वर्णानां वाचकत्वानुपपत्तेरेवैकार्थप्रतिपादनाभावात् । किञ्च बहुवर्णेषु अयं शब्दोऽयं शब्द इत्यनुवृत्तः शब्दशब्दो वर्णाति-रिक्तार्थविषयो युक्तः । घटकरकापवरककादिभेदेऽप्येकार्थविषयस्योकाशशब्दस्य हि घटकरकाद्यतिरिक्तार्थविष- यत्वं दृष्टम् । न च श्रोत्रग्राह्यत्वोपाधिना शब्दशब्दानुवृत्तिरिति युक्तम्,श्रोत्रस्य श्रोत्रग्राह्यत्वात् योगेन श्रोत्रग्राह्य-ताया अपि श्रोत्रेण ग्रहीतुमशक्यत्वात् । मानान्तरेण श्रोत्रग्राह्यताप्रतीतौ अविलम्बितशब्दसाक्षात्कारानुपपत्तिः । अतः कल्पकान्यथासिध्द्यभावाद्वर्णातिरिक्तः शब्दः स्फोट इति ।

अत्रोच्यते । न तावत् वर्णानां वाचकत्वानुपपत्त्या स्फोटसिद्धिः; तेषां स्फोटाभिव्यञ्जकत्वेऽपि चोद्य-यरिहारयोस्तुल्यत्वाल्लाघवन्यायेन वर्णानामेव वाचकत्वाश्रयणस्य न्याय्यत्वात् । तथा हि-न तावदेकैकवर्णः स्फो-टव्यञ्जकः, द्वितीयवर्णवैयर्थ्यात्; गकारमात्रेण गवयादिपदस्फोटाभिव्यक्तिप्रसङ्गाच्च । नापि वर्णसमुदायो व्यञ्जकः; क्रमोच्चरिरतश्रुतानां वर्णानां यौगपद्याभावेन समुदायभावानुपपत्तेः । न च पूर्वपूर्ववर्णजनितसंस्कारसचिवोऽन्त्यव- र्णो व्यञ्जकः, वर्णानुभवजन्यसंस्काराणामनुभूतवर्णस्मृतिमात्रहेतुतयाऽननुभूतस्फोटप्रतीतिहेतुत्वायोगेन तत्संस्का-रानुपकृतस्यान्त्यवर्णस्य च तदभिव्यञ्जकत्वायोगात् । यद्युच्येत-पदं तावत् प्रतीयते ।अतस्तत्प्रतीत्यनुरूपं कारणं कल्प्यम् । क्रमभाविनामपि संस्काराणां युगपत्कार्यकरत्वं युक्तम्; क्रमदृष्टयोरपि घटयोः तौ घटाविति स्मरणदर्श- नात् । अतो युगपद्भाविपूर्ववर्णमरणसचिवोऽन्त्यवर्णो वा युगपत्स्मर्यमाणसर्ववर्णसमुदायो वा स्फोटाभिव्यञ्जक इति-एवं तर्हि स्फोटाभिव्यञ्जकतया अभ्युपेतायाः सामग्रया अर्थाभिव्यञ्जकत्वमास्थीयताम्; चोद्यपरिहारयोस्तुल्यत्वात्; अन्यथासिद्धस्यार्थान्तरकल्पकत्वायोगात् वर्णानामेव वाचकत्वसंभवे तदतिरिक्तकल्पनानुपपत्तेर्लाघवन्यायस्य बलीयस्त्वाच्च । वर्णानां भिन्नत्वेऽपि युगपद्बुद्धिस्थैकविभकत्यन्तानेकवर्णसमुदायविषयतया पदैकत्वबुद्धिरपि ना-र्थान्तरकल्पिका । न चार्थैकत्वात् पदैकत्वं पदैकत्वादर्थैकत्वमित्यन्योन्याश्रयेः; एकविभकत्यन्तवर्ण समुदायस्यै-कपदत्वनिश्चयात् । "सुतियन्तं पदम्" इति हि पदनिष्कर्षः । तस्य चोक्ताभिप्रायत्वे सति अव्याप्तिर्न्न स्यात् । एकव्युत्पत्तिसिद्धैकार्थप्रीतीत्युपयुक्तवर्णसमुदायस्व वा पदत्वम् । बहुवर्णेषु अयं शब्दोऽयं शब्द इति प्रत्ययोऽपि श्रोत्रग्राह्यत्वोपाधिनिबन्धनत्वादन्यथासिद्ध इति नार्थान्तरसिद्धिः । न च श्रोत्रग्राह्यताया अपि श्रोत्रेण ग्रहणा- पेक्षा , यथा चाक्षुषाणां धवलिमनीलिमपीतिम्नां चाक्षुषत्वज्ञानेन चक्षुरपेक्षा । इदं चाक्षुषम्, इदं चाक्षुषमिति व्यवहारश्च चाक्षुषत्वज्ञाननिबन्धन एव । प्रमाणान्तरा-वगतचक्षुश्श्रोत्राद्यन्वयव्यतिरेकानुविधायिज्ञानगोचर- त्वेन चाक्षुषश्रावणत्वादिज्ञानम् । न हि सहसैव शब्दोऽयमिति जानन्ति । प्रथमं गकारादिरूपेण शब्देऽवसिते व्युत्पन्नशब्दस्मरणपूर्वकमेव शब्द इत्यवगम्यते । अतः शब्देन स्मरणकृतविलम्बवत् श्रोत्रग्रह्यता(श्रोत्रा)नुमान-विलम्बोप्यभ्यासपाटवकृतात् शैघ्य्रान्न विविच्यते ।अतो वर्णसमुदाय एव पदं पदसमुदाय एव वाक्यमिति स्थि- तम् ।

असत्यात्सत्यप्रतिपत्तिनिराकरणमुपसंहरति अत इति । सत्यप्रतिपत्तिहेतुषु सत्यतया अभिमतेषु यादृशं सत्यत्वम्, तादृशं सत्यत्वं शास्त्रस्याप्यस्तीत्यभिप्रायेण चोदयति नन्विति । गगनकुसुमवदिति युक्तिबाधो ह्युक्तः । न त्विदानीमेव लौकिकपुरुषैर्नास्तीति प्रतिपन्नत्वम् । अतः तादृ#ामसत्यत्वं नेत्यर्थः । हेतुमाह सद्दुद्धिबोध्यत्वा- दिति । सदिति बोध्यत्वमेव कार्यकत्वानुगुणम्; न सत्यत्वमित्यर्थः । तर्हि सदद्वैतभङ्गः स्यादित्यत्राह उत्पन्न इति । तर्हि न बोधकमित्यत्राह न तदेति । परिहरति नैवमिति । नैवम्-उपायकालेऽपि सत्यत्वं नास्तीत्यर्थः । ज्ञानस्य मिथ्यात्वं मिथ्यार्थविषयत्वात् । ज्ञानस्य दोषमूलत्वाद्विषयमिथ्यात्वे निदर्शनमाह यथेति । पूर्वं पश्चात्त-नबाधादशर्नमभ्युपेत्य दूषणमुक्तम् । इदानीं तदेव नास्तीत्याह पश्चादिति । तदुपपादयति शून्यमिति । तद्वाक्यं

तत्प्रामाण्यमपि भ्रान्तिसिद्धमिति शङ्कते तत्त्विति । तुल्यत्वमाह एतदपीति । पाश्चात्यबाधादर्शनस्य प्रामाण्यहेतु-त्ववचनं सर्वशून्यवादिन एव साधकम्; ततः परं निषेध्याभावेन निषेधानुदयादित्याह पाश्चात्येति । प्रामाण्यादीनां दोषमूलत्वं द्वयोरपि तुल्यम्; पाश्चात्यबाधादर्शनं तु शून्यवादिनोऽधिकमित्यर्थः ।। सर्वशून्यवादिनोऽपि परो निषे-धोऽस्ति; सर्वमस्तीति वचनं हि तन्निषेध इति चेत्-तर्हि प्रपञ्चमिथ्यात्ववचनस्यापि प्रपञ्चसत्यतावचनं निषेधः स्यात् । नास्तीति वचनमेव निषेध इति चेत्-तत्तु शून्यवादिन एवेति भावः । इदञ्च वेदाप्रामाण्यं मृषावादिनां सौ-गतानां च समानम् । यदाहुः-

"वेदो अनृतो बुद्धकृतागमाऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् ।

बोद्धाऽनृतो बुद्धिफले तथाऽनृते यूयं च बौद्धाश्च समानसंसदः ।।" इति ।

ननु विषयसत्यत्वरूपं शास्त्रप्रामाण्यं विद्यत इति महदिह(दं) वैषम्यमस्माकमिति चेन्न । किं कतिपय-विषयसत्यत्वं विवक्षितम्, उत कृत्स्नविषय सत्यत्वम् । कतिपयविषयसत्यत्वं बुद्धागमस्याप्यस्ति; संवित्स्वयम्प्र-काशत्वादेः सम्प्रतिपन्नत्वात् । कृत्स्नविषयसत्यत्वं तु श्रुतेरपि त्वया न स्वीकृतमिति । किञ्च विषयसत्यत्वं दुर्व- चम्; सत्यतयाऽभ्युपेतस्य ब्रह्मणः प्रमाणविषयत्वानभ्युपगमात् ।

यत्तु "आदित्यो यूपः" इत्यत्र यूपादित्यैक्याप्रतिपादनं तात्पर्यलिङ्गाभावात्, न तु प्रत्यक्षप्राबल्यादित्यु- च्यते-तत्र तात्पर्यलिङ्गाभावोऽभ्युपेत एव । तेन प्रत्यक्षाविरुद्धार्थप्रतिपादनाक्षमत्वमवर्ज्जनीयमापतति । न हि वेदान्तिभिरर्थवादादेरन्यपरत्वात् स्वार्थे प्रामाण्यं त्यज्यते । मन्त्रार्थवादानामपि स्वार्थे प्रामाण्यस्य भवद्भिरेवोप-पादितत्वात् ।अतः स्तुतिपरत्वात् यूपादित्यैक्याप्रतिपादनं इत्यपसिद्धान्तः ।। अर्थवादानां स्वार्थे प्रामाण्यमस्तीति कथं तत् यूपादित्यैक्याप्रति पादनमिति चेत्-उच्यते । प्रमाणाविरोधश्च तात्पर्यलिङ्गम् उपक्रमोपसंहारादिष्वपूर्वत्व- मपि तात्पर्यलिङ्गतया ह्युक्तम्, "अभ्यासो अपूर्वताफलम्" इति । अपूर्वत्वं साधकबाधकप्रमाणागोचरत्वम् यथा-ऽऽहुः, "असन्निकृष्टवाचा च द्वयमत्र जिहासितम् । ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा" इति ।

अतः प्रमाणान्तरागोचरत्वलक्षणं तात्पर्यलिङ्गमत्र नास्तीति यूपादित्यैक्याप्रतिपादनम्; न त्वर्थवादत्वेन स्वार्थे प्रामाण्याभावादिति ।अतस्तात्पर्यलिङ्गाभावो नाम प्रत्यक्षादिविरोधे पर्यवस्थित इति शास्त्रं न तद्विरुद्धार्थ-प्रतिपादनक्षमम् । शास्त्रप्राबल्यनिरसनं परिसमापयति अलमिति । यद्वा, यत्तु प्रत्यक्षमित्यादिना न्यायमुखेन कृतं परपक्षप्रतिक्षेपमुपसंहरति अलमिति । प्रमाणविरुद्धस्तर्कः कुतर्कः । अत एवाप्रतिष्ठितत्वम् । स्वविरुद्धबौद्धमतोपयु-क्तयुक्तिकथनात्परिहसनीयत्वम् ।।

परेण प्रत्यक्षादपि शास्त्रप्राबल्यं वदता प्रबलतयाऽभिमतं शास्त्रं पुरस्कृत्य पश्चात् तर्कः प्रतिपादितः । सिद्धान्ते तु प्रबलतया अभिमतलौकिकप्रमाणगतिं प्रथमं निरूप्य परोक्तदुस्तर्कं निरस्य लौकिकप्रमाणविरोधे शास्त्रप्राबल्यं च प्रतिक्षिप्तम् । शास्त्रस्य लोकिकप्रमाणविरुद्धार्थप्रतिपादनासामर्थ्योपपादनेन शास्त्रस्य सविशेषपर- त्वं सामान्यतः सामर्थ्यात् सिद्धम् । विशेषेण शब्दस्य पदवाक्यरूपेण प्रवृत्त्या सविशेषपरतोपपादनाच्च शास्त्रस्य सविशेषपरत्वं सामान्येन सिद्धम् । अथापि ये वाक्यविशेषाः परेण निर्विशेषपरत्वेनोदाहताः, तेषां सविशेषपरत्वं वाक्यतात्पर्यपर्यालोचनया प्रतिपादयितुमारभते यदुक्तमित्यादिना । तत्र निर्विशेषपरत्वं सङ्गहेणानुवदति यदुक्त-मिति । ज्ञानैकरसत्वेन शोधकवाक्येषु प्रतिपन्नत्वान्निर्विशेषत्वम् । तच्च कारणवाक्येषु प्रतिपन्नम् । वस्तुमात्रशब्देन अन्यत्र सगुणब्रह्मणि तात्पर्याभावस्सूच्यते । इत्यादीनीत्युक्ते तस्यामेवोपनि#ेषदि पर्यवस्यतीति तद्वयावृत्त्यर्थमित्ये-वमादीनीत्युक्तम् । तत् दूषयति तदयुक्तमिति । कुत इत्यत्राह एकविज्ञानेनेति । येनाश्रुतमित्यादिवाक्येन एक-

विज्ञानेन सर्वविज्ञानं प्रतिज्ञायते ।

अस्यायमर्थः, येन श्रुतेन मतेन विज्ञातेन अश्रुतममतमविज्ञातं श्रुतं मतं विज्ञातं भवतीति, न तु ब्रह्मण-स्सत्तया सर्वं ज्ञातं भवतीति-दार्ष्टान्तिकसामर्थ्यात्, मृद्दृष्टान्तसामर्थ्याच्च । न हि ब्रह्मसत्तया मृत्पिण्डसत्तया वा तत्तत्कार्यं ज्ञायते । "कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति" इति मुण्डकोपनिषदि, "आत्मनि स्वल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्" इति बृहदारण्यके च श्रवणाच्च । अतो यथोक्त एव प्रतिज्ञावाक्यार्थः । न हि घटज्ञानेन पटज्ञानसंभव इत्येकविज्ञानेन सर्वविज्ञानं न संभवतीति शङ्कायां कार्यकारणयोस्तद् दृष्टमित्याह यथा सौम्येति । तत्राप्यसत्कार्यवादमुखेन एकविज्ञानेन सर्वविज्ञानानुपपत्तिशङ्कां परिहरति-वाचारम्भणमिति । वाचा । वाक्शब्दोऽजहल्लक्षणया वाक्पूर्वव्यवहारपरः । वाचेति तृतीयया प्रयोजनतया हेतुत्वं विवक्षितम् । आर-म्भणमिति कर्मणि ल्युट्; आरभ्यते आलभ्यते इत्यारम्भणम् । "आलम्भः स्पर्शहिंसयोः" मृत्पिण्डेनेत्यर्थसिद्धम् । विकारः घटत्वद्रव्यत्वाद्यवस्था । वाक्पूर्वकहानादिव्यवहारार्थं मृत्पिण्डेन नामरूपे स्पृश्येते, मृत्पिण्डो नामरूप- भाग् भवतीत्यर्थः । कार्यकारणयोरेकद्रव्यत्वे प्रमाणमाह मृतिकेत्येव सत्यमिति । मृदयं घट इति प्रत्यभिज्ञया मृण्मयं घटादिकमपि मृद्द्रव्यत्वेनैव प्रामाणिकमित्यर्थः । बुद्धिशब्दादिभेदाः घटादिषु द्रव्यभेदेऽपि दृष्टाः; न तत्र आस्ते शेते सुख्यहं दुःख्यहमित्यादिषु द्रव्यैक्येपि दृष्टाः; अतस्ते साधारणाः । तत्र आस्ते शेते सुख्यहं दुख्यहं इत्यादिषु द्रव्यैक्यनियामिका या प्रत्यभिज्ञा, सैवात्रापि द्रव्यैक्यनियामिकेति भावः । अत्र मृत्तिकामात्रस्य पार- मार्थ्यं विकारासत्यत्वं च विवक्षितं चेत् इतिशब्दवैयर्थ्यं स्यादिति । तदा मृतिकैव सत्येति हि वाच्यम्; विकारा-सत्यत्वे दृष्टान्तः साध्यविकलः; सत्यत्वप्रतिपत्तेः ।। घटादिसत्यत्वं व्यावहारिकमिति चेत्-पिण्डस्यापि सत्यत्वं व्याहारिकमिति न कारणसत्यत्वसिद्धिः ।। कारणस्य व्यावहारिकमेव सत्यत्वमभितं चेत्-तद् घटादेरपि तुल्यं स्यात् । कार्यकारणद्रव्यैक्यात् कारणविज्ञानेन कार्यविज्ञानमुपपन्नमस्तु; तथाऽपि लोके विविधकार्यवर्गस्य विविधोपादानकत्वदर्शनादेकविज्ञानेन सवर्विज्ञानमनुपपन्नमिति शङ्कायां जगतो ब्रह्मैककारणतामाह सदेव सोम्येदमग्र आसीदिति । श्रुतिगतसच्छब्दार्थमभिप्रेत्यात्र शच्छब्दवाच्यस्येत्युक्तम् । सगुणब्रह्मपरमिदमित्यन्य-थासिद्धिर्दुर्वचेत्यभिप्रायेण परस्य ब्रह्मण इत्युक्तम् । अग-सृष्टेः पूर्वमित्यर्थः; अनन्तरं सृष्टेर्वक्ष्यमाणत्वात् । विजा-तीयसजातीयस्वगतनानात्वव्यावृत्तिः । अत्र विवक्षिता चेत्, अग्र इति वक्तुमयुक्तम् । न हि ब्रह्मणः कालविशेषे निर्विशेषत्वम्; वैषम्यनैर्वृण्यपरिहाराय जीववहुत्वतत्कर्मप्रवाहतदनादित्वानामभ्युपगम्यत्वाच्च ।। तद्वहुत्वमपार-मार्थिकमिति चेत्-पारमार्थिकबहुत्वस्य इदानीमप्यभावादग्रशब्दवैयर्थ्यात् । न चाग्रशब्दस्याविवक्षितार्थता; अन- न्तरं सृष्टयुक्तेः । अतः कालरूपविजातीयभेदश्चेतनरूपसजातीयभेदः सार्वज्ञ्यादिसृष्टयनुगुणगुणरूवस्वगतभेदश्च तदानीमस्तीति विजातीयादित्रिविधभेदनिरासपरत्वं विरुद्धम्; कारणवाक्यत्वात् । न चेदिदं कारणवाक्यम्, ईदृशानां वाक्यानां सर्वशाकारणवाप्रत्ययनयात् विजातीयादिभेदनिरासपरत्वेन कारणपरत्वाभावात् ब्रह्मकारण-त्वमप्रमाणं स्यात् । अवधारणवाचिन एवकारस्य स्वयं व्यावत्र्त्यविशेषोपस्थापनासमर्थस्य समभिव्याहृतपदान्त-रार्थविरोधिव्यावर्तकत्वनियमदर्शनात् सदेवेत्यवधारणमसत्कार्यवादव्युदासपरम् । न हि अयं विद्वानेवेत्यवधारणं ब्राह्मणत्वं व्यावर्त्तयति; अपि त्वविद्वत्त्वमेव । अतः शब्दस्वारस्यात् सदेवेति निरसनीयमसत्त्यमेव; न तु विजाती-यभेदः । यद्यपि सद्विजातीयमसत्-तथाऽपि तस्य व्यायर्त्यत्वं न विजातीयत्वाकारेण; अपि तु सद्विरोधित्वरूपे- णा । सदेव; न तु कदाचिदपि असदित्यर्थः । सच्छब्दो हि मानसम्बन्धयोग्यतालक्षणं सत्त्वं प्रवृत्तिनिमितीकृत्य परमात्मनि वतर्ते ।अयं सच्छब्दो विशेष्यभूतपरमात्यवाचकोऽपि कारणविषत्वसामर्थ्यात् कारणत्वौपयिकगुण-

विशिष्टं प्रकृतिपुरुषकालशरीरकं परमात्मानमुपस्थापयति । एकभेवेति अविभक्तनामरूपकारणावस्थं ब्रह्योच्यते । कारणत्वावस्थायामेत्वात्वावधारणस्य बहु स्यामिति स्त्रक्ष्यमाणकायर्बहुत्वप्रतियोग्येकत्वपरत्वात्; "एकेन मृत्पिण्- डेन सवर् मृण्मय" इत्युक्तदृष्टान्तसामर्थ्यात् । "तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत" इति श्रुत्य-न्तरैक्यार्थ्याच्चायमेवार्थः । वैशेषिकादिभिर्न्नित्यतयोक्तानामाकाशादीनामपि संहाराभिप्रायः एवकारः । एवमवि-भक्तनामरूपत्वाद्द्रह्मण उपादानत्वं सिद्धम् । भाव्यवस्थाविशेषवतः प्रागवस्थायोगो ह्युपादानत्वम् । अद्वितीय- मिति निमित्तान्तरनि#ेषेधः; उपादानस्य प्रस्तुतत्वेन निमित्तस्य बुद्धिस्थत्वात्; परतन्त्ररूपविशेषाणां विहितत्वात् निषेधस्य च विहितव्यतिरिक्तविषयत्वात्; उपरितनवाक्यसङ्गतेरपेक्षितत्वाच्च । एकमेवेति शब्दस्याविभक्तनाम-रूपतापरत्वं बहुस्यामित्यनेनावगम्यते । "तदैक्षत...तत्तेजो असृजते" इत्यनेन आद्वितीयपदस्य निमित्तान्तरा-भावपरत्वमवगम्यते । परस्य ब्रह्मणः सर्वदा सत्त्वेन सदेवेत्यवधारणमसत्कार्यवादव्युदासपरमिति उपरितनेन, "कथमसतः सज्जायेत" इत्यादि वाक्येनावगम्यते । "कथमसतः" इत्यादिवाक्यं वैशेषिकमतनिरासपरम्; न तु क्षणिकवादिनिरासपरम्, न शून्यवादिनिरासपरं च; क्षणिकशून्यवादिनिरासे कृते अप्येकविज्ञानेन सर्वविज्ञानस्य वैशेषिकमतनिराससापेक्षत्वात्; "तद्धैक आहुः असदेवेदमग्र आसीत्" इयारब्धत्वाच्च । न हि क्षणिकत्वं शून्यत्वं च कालविशेषे भवति । अतोऽसत्कार्यवादनिरासपरं तद्धैक आहुरित्यादि वाक्यम् । "कुतस्तु खलु सौभ्येवं स्यात्" इति-मृद उत्पन्नस्य मृदात्मकत्वत् असत उत्पन्नस्यासदात्मकत्वप्रसङ्ग इति भावः । उत्पत्तिर्नाम द्रव्य-स्यावस्थान्तरापत्तिरित्यमर्थो वाचारम्मणमित्यनेन शिक्षितः । तदु(मु?)पजीव्योच्यते, कथमसतः सज्जायेतेति । कथं निराश्रयातस्यासम्भव इत्यर्थः ।

तदैक्षतेति सर्वज्ञत्वम्, असृजतेति निमितत्वम्, बहु स्यामित्युपादानत्वम्, तदुभयानुगुणं सर्वशक्तित्वम्, सत्यसङ्कल्पत्वञ्च, अनेन जीवेनात्मनाऽनुप्रविश्येति सर्वान्तरत्वं चोक्तं भवति । जीवेनात्मना-जीवशरीरकेण मये-त्यर्थः । "सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः" इत्तिवत् । सवर्ज्ञत्वादिगुणकस्य तद्विपरीता-कारजीवैक्यासंभवात्, "यस्यात्मा शरीरम्" इत्यादिवचनात्, "तदनुप्रविश्य" इति अचेतन इव जीवेऽप्यनुप्रवेश-श्रवणच्च । शरीरवाचिशब्दस्य शरीरिपयर्न्तत्वमुख्यताया उपपन्नत्वाच्चायमेवार्थः । "सदायतनाः" इत्यनेन सर्वाधा- रता, तत एव सर्वनिय-मनञ्च सिद्धिम् । "एतस्य वा अक्षरस्य प्रशासने गार्गि ! द्यावापृथिव्यौ विधृते तिष्ठतः" इति प्रशासनेन धारकत्वश्रवणात् । एवं सर्वाधारत्वसर्वनियमनसर्वान्तरत्वैः शरीरिलक्षणैर्ज्जगच्छरीरकत्वं ब्रह्मण उक्तम् । आदिशब्देन सृष्टयुपयोगिनः श्रुत्यन्तरसिद्धा गुणा गृह्यन्ते । ऐतदात्म्यमित्यनेन कृत्स्नस्य जगतः तदा- मकता चावगम्यते; तत्सत्यमिति तदात्मकत्वेनैव जगतः प्रामाणिकत्वम् । जगतः स्वनिष्ठत्वेन प्रतीतिर्भ्रान्तिरि- त्यर्थः । अतः कृत्स्नस्य जगतः स आत्मा । "ऐतदात्म्यमिदं सर्वं स आत्मा" इति निर्देशः "रामानुजं लक्ष्मण- पूर्वजं च" इतिवत् अन्योन्यसम्बन्धित्वतात्पर्यातिशयकृतः । यद्वा, "स त आत्माऽन्तर्वाम्यसृतः" इतिवत् कृत्स्न-जगदन्तर्यामित्वात् तवात्मा स इत्यर्थः । तस्मात् त्वंशब्दतदर्थतद्बुद्धयः तत्पर्यन्ता इति तत्त्मबसीत्यस्यार्थ इत्याह एवम्भूतेति । एवम्भूतशब्देन तत्पदस्य प्रकृतपरामर्शित्व सूचितम् ।

अस्याः सद्विद्यायाः सविशेषवस्तुन्येव षड्#िववतात्पर्यलिङ्ग विद्यते-उपक्रामे तावत्, "उत तमादेशमप्राक्ष्यः" इत्यत्र आदेशशब्देन प्रशासिताऽभिधीयते । अत्र श्लोकावाचार्यपादैरुक्तौ-

"छान्दोग्ये केचिदाहुर्दिशतिः "उत तमादेशमप्राक्ष्य" इत्य-

त्राङ्पूर्वस्तूपदेशं प्रकटयति सतो न प्रशास्ति घञन्तः ।

नो कर्त्तर्यस्त कर्मण्यगणि घञिह सत् कर्तृ शास्तौ न कमर्

स्यात् स्या(त)त्कर्मोपदेशे तदिदमुदित (तदिदम् उतत)मादेशवाचोपदेश्यम् ।।

अत्र व्रूमः प्रशास्ति वदति दिशिरसावाङ्मुखो नोपदेशं

शास्तौ (शास्ता) सोऽतिप्रसिद्धो न हि पर इह चापेक्षितार्थप्रसङ्गः ।

युक्तोऽसाधारणोक्तया घञगणि करणेऽप्यत्र वैवक्षिकत्वं

शाब्दोक्तं कारकाणां ननु करणतया कर्तरि स्याद्विवक्षा ।।" इति ।

आदेशशब्देनोपदेश्यमुच्यते । प्रकृत्यर्थ उपदेशः; प्रत्ययार्थः कर्मत्वम् "अकतर्रि च कारके संज्ञायाम्" इति कर्तृव्यतिरिक्तकारके घञो विहितत्वात् । उपदेशे ब्रह्मणः कर्मत्वोपपत्तेश्च; प्रशासने तु ब्रह्म न कर्म । अपि तु कर्तृ । कर्तृव्यतिरिक्तकारके हि घञ्प्रत्ययविधिः । नात्र कर्त्तरि कप्रत्यय उपपद्यते; "किङ्ति चे" इति गुणप्रतिषेधादादे-शशब्दरूपासिद्धेः । नापि पचाद्यच्प्रत्यय उपपद्यते; दिशिघातोरिगुपधत्वेन "इगुपधात्कः" इत्यपवादसूत्रेण कप्रत्य-यप्राप्तेर्गुणाभावात् । अतो घञ्प्रत्ययान्त एवायमादेशशब्दः । स च प्रत्ययः कर्तर्यविहित इति कर्मार्थत्वस्यैव युक्त-त्वादुपदेश्यमेवादेशशब्दवाच्यमिति । अत्रोच्यते-प्रकृत्यर्थः शासनम्; प्रसिद्धिप्राचुर्यात् । अन्यथा स्वारस्यभङ्गात् । "आङ्पूर्वो दिशतिर्नियोक्तृप्रयोजनवचनः, उपपूर्वस्तु नियोज्यप्रयोजनवचनः" इति हि न्यासकारः । नियोक्तरि प्रया-जनं यस्य, तस्यार्थस्य वाचक इत्यर्थः । एवमन्यत्रापि । किञ्च उपदेश्यत्वं लौकिकालौकिककमर्ब्रह्मभागार्थसा-धारणम् ; शासितृत्वं तु ब्रह्मणोऽसाधारणम् ; "अन्तःप्रविष्टः शास्ता जनानाम्", "एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिभिर्निरुपाधिकप्रशासनस्य ब्रह्मासाधारणत्वश्रवणात् ।। निरु पाधिकोपदेश्यत्वं ब्रह्मणोऽसाधारण-मिति चेन्न-इष्टप्राप्त्यनिष्टतिवृत्तितत्साधनेषु साधारण्यात् । यद्यप्यपरिमितसुखप्राप्तिदुःखनिवृत्त्यादि साक्षादुपदेश्यं स्यात्-तथापि संसारनिवृत्तिब्रह्मतदुपासनानामुपदेश्यत्वं साधारणम् । प्रष्टव्यस्योपदेश्यत्वमर्थसिद्धम् । अत उपदे-श्यत्वकथनवैयर्थ्यञ्च । ननु "येनाश्रुतं श्रुतम्"मित्यनेनैकवाक्यत्वात्स्वज्ञानेनान्यज्ञानहेतुताविशेषितमुपदेश्यत्वम-साधारणमिति चेत्-तथापि तादृशमुपदेश्यत्वं प्रतिज्ञावाक्येन, प्रष्टव्यत्वोक्तया चार्थसिद्धमित्यनपेक्षितोपदेश्यत्व-कथनादप्यपेक्षितं प्रशासितृत्वमेव वाच्यमिति युक्तम् । "येनाश्रुतम्" इत्युपादानत्वे सिद्धे प्रशादितृत्वेन हि निमित्तत्वं सिध्येत् । निमित्तान्तरे सति एकविज्ञानं सर्वविज्ञानं नोपपद्यते । अतः प्रतिपिपादयिषितवस्तुनो विविक्षितासाधार-णाकारविशिष्टतयैव प्रतिपादनमुचितम् । घञ्प्रत्ययस्य तु करणे व्युत्पन्नत्वात्, "विवक्षातः कारकाणां प्रवृत्तिः" इति शाब्दोक्तन्यायेन कर्त्तर्येव करणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोग उपपद्यते, अकर्त्तरीतिसूत्र्- स्य प्रयोजनं करणत्वविवक्षया विना कर्त्तर्यसाधुत्वेन प्रयोगनिवृत्तिः । उपदेशपक्षे प्रकृत्यर्थास्वारस्यं प्रत्ययस्वारस्यं च, प्रशासनपक्षे तु प्रत्ययास्वारस्यं प्रधानभूतप्रकृत्यर्थस्वारस्यमर्थौचित्यं चेति वैषम्यम् । अतः प्रशासितैवादेश-शब्दाभिधेय इति स्वीकर्तुं युक्तम् । एवमुपकमे निरुपाधिकप्रशासनगुणयोग उक्तः । तथा जगदुपादानत्वं निमित्तत्वं तदनुगुणसार्वश्सर्वशक्तिस्वादिकञ्चावगतम् ।

उपसंहारे च तत्त्वमसीति सामानाधिकरण्येन जीवान्तर्यामित्वं नाम गुणविशेष उक्तः । अस्यैवार्थस्य बहुश आवतिर्तत्वादभ्यासोऽप्यस्ति । एवं ब्रह्मणो जगत्कारणत्वजग-दन्तरात्मत्वादिगुणानां प्रमाणान्तराप्रति-पन्नत्वादपूर्वता सिद्धा । एवमुपासकस्य, "तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इति शरीरपातान- न्तरं मोक्षश्रवणात् फलमपि विद्यते । पितुः पुत्रं प्रति प्रतिवचनरूपत्वादर्थवादश्च लब्धः । मृत्पिण्डादिदृष्टान्तोप-पादनादुपपत्तिश्चेति ।

अस्मिन् दृष्टान्तत्रयेऽपि विवर्तपक्षानुगुणः कोऽपि दृष्टान्तो न दृश्यते; अपि तु परिणामपक्षानुगुण एव दृश्यते । दार्ष्टान्तिकविषयवाक्येऽपि तत्तजोऽसृजतेत्युक्तम्, न तु तदभ्रमादिति । अतो अस्यां श्रुतौ विवर्तपक्ष-प्रसङ्गोऽपि नास्ति । श्रुत्यन्तरेषु च "तदात्मानं स्वयमकुरुते" इत्यादिकं श्रूयते; न तु, व्यवर्त्ततेति । सूत्रं च "परि-णामात्" इति; न तु,0 विवर्तादिति । स्मृतिषु च, "कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् । क्षितितलपरमाणवोऽनिलान्ते" इत्यादिषु परिणामपक्षा(क्ष?) एव दृश्यन्ते(ते?) । अतः श्रुतिस्मृतिसूत्रस्वार- स्यात् परिणाम एवाभ्युपगन्तव्यः । स च परिणामः सद्वारक एव भवितुमर्हति; निर्विकारत्व-निर्दोषत्व-अनु-प्रवेशशरीरशरीरिभावादिविषयानेकश्रुतिस्वारस्यात् । अन्यथा तद्विरोधप्रसङ्गाच्चेति ।

एकविज्ञानेन सर्वविज्ञानाप्रतिज्ञावाक्यं किम्; कथं तदुपपादनमित्याशङ्कायामेतद्विस्तरो वेदार्थसङ्गह इत्याह प्रपञ्चित इति । अत्रापेक्षितार्थः कथं ज्ञास्यत इत्यत्राह अत्रापीति । निपुणतरम्-तस्याधिकरणस्यैतदर्थैक-विषयत्वादिति भावः ।।

1.1.1

अनन्तरोदाहृतायाः परविद्यायाः सविशेषपरत्वमाह अथ परेत्यादिना । अपाणिपादमित्यन्तानां पदानां विषयमाह प्राकृतानिति । प्राकृताः-प्रकृतिसम्बन्धिनः, अनेन क्कचित्सिद्धस्य हि क्कचिन्निषेधः इति निषेध्यानां क्कापि सिद्धिर्दर्शिता भवति । प्रकृतिगताः-प्रकृतिसंसर्गप्रयुक्ताः जीवगता दोषाश्च प्राकृताः । अद्रेश्यमग्राह्यम्- प्रत्यक्षागोचरमनुमानाद्यगोचरम् । यद्वा चक्षुरगोचरमिन्द्रियान्तरागोचरम् । अगोत्रमवर्णम्-प्राकृतनामरूपरहि- तम् । अचक्षुःश्रोत्रम् इन्द्रियाधीनज्ञानं न भवति । अपाणिपादम्-इन्द्रियाधीनचेष्टं न भवति "अपाणिपादो जवनो अहीता"पश्यत्यचक्षुः स #ृणोत्यकर्णः" इति श्रुतेः । अनेन पदद्धयेन जीवगतहेयनिषेधः, इन्द्रियाधीनज्ञानत्वं तद-धीनप्रवृत्तित्वमपि हि जीवधर्मः । सर्वगतं सुसुक्ष्ममिति पाठकमः, तथाऽप्यर्थक्रमेण व्याख्यातम् सूक्ष्मत्वसर्वगत-त्वेति । सूक्ष्मतया हि व्याप्तिः । नित्यत्वेन कालापरिच्छेदः । विभुम्-प्रभुम् प्रभुत्वं नियन्तृत्वं जगच्छरीरकत्वं फलितम्; अनेन वस्त्वपरिच्छेदसिद्धिः, सर्वगतत्वेन देशापरिच्छेदः । अव्ययत्वं व्ययशब्दोपलक्षितदोषविरोधित्वं नाम गुण इत्यभिप्रायेण कल्याणगुणैः सह तन्निर्देशः । यद्वा अव्ययत्वम्-एकरूपत्वं पूर्णत्वं वा । भूतयोनित्वम्-जगत्कारणत्वम्; एतत्प्रकरणस्थेन "यस्सर्वज्ञस्सर्ववित्" इत्यनेन वाक्येन सार्वज्ञ्यमुक्तम् । सर्वज्ञस्सर्ववित् सर्वं स्वरूपतो वेत्ति सर्वं प्रकारतश्च वेत्तीत्यर्थः । परस्य ब्रह्मण इत्यस्य पूर्ववदर्थः ।

अथ शोधकवाक्येषु सत्यज्ञानादिवाक्यस्याखण्डार्थत्वं निरस्यति -सत्यं ज्ञानमित्यादिना । स खल्वे-वमुपन्यस्तः प्रतिपत्तिसौकर्यायाचार्यपादैः । तथा हि-सत्यादिवाक्यं सत्यत्वादिगुणविशिष्टमेव ब्रह्म प्रतिपादयति; नीलमुत्पलमित्यादिषु समानाधिकरणवाक्येषु विशिष्टैकार्थपरत्वव्युत्पत्तेः, सत्यादिवाक्यस्य च समानाधिकरण- त्वाच्च । तथा च सामानाधिकरण्यलक्षणं "भिन्नप्रवृत्तिनिमित्ताना"मित्यादिनोक्तं शाब्दैः । तत्र-

यदुक्तं -सामानाधिकरण्यस्यैकार्थ्यपरत्वव्युत्पत्तेःऐकार्थ्थस्य च पदानां विशेषणमात्रपरत्वे विशिष्टपरत्वे चासिद्धेः स्वरूपमात्रैक्यपरत्वं सत्यादिसामानाधिकरणपदानामास्थेयमिति-तदयुक्तम्; विकल्पासहत्वात् । किं सत्यादिपदानि तत्तत्पदाथर्विरोधिव्यावृत्तिमात्रपराणि, उत स्वरूपमात्रपराणि, उत विरोधिव्यावृत्त्यवच्छिन्न-स्वरूपपराणि इति विवेचनीयम् । न तावाद्विरोधिव्यावृत्तिमात्रपराणि; व्यावर्तमानामनेकत्वेनैकार्थत्वासिद्धेः । व्यावर्त्यानेकत्वात् व्यावृत्तयो ह्यनेकाः स्युः । नापि स्वरूपपराणि; तथासति पदानां पर्यायत्वप्रसङ्गात्, प्रवृत्ति-निमित्तभेदाभावेन सामानाधिकरण्यलक्षणहानिप्रसङ्गात् एके(क)तरपदवैयर्थ्यप्रसङ्गाच्च । नापि तदवच्छिन्नस्व-रूपपराणि; विकल्पासहत्वात् । किं विरोधिव्यावृत्तीनां स्वरूपावच्छेदकत्वमुपलक्षणतया, विशेषणतया वा । न तावदाद्यः कल्पः, एकेनोपलक्षणेन स्वरूपं प्रतिपन्नमिति उपलक्षणान्तरवैयर्थ्यात् । उपलक्ष्याद्व्रहिर्भूत उपलक्ष्य-प्रतीत्युपायो धर्मः उपलक्षणमिति ह्युपलक्षणविदः । तथा च शाखादिषु दृश्यते । अथ एके(क)तरवैयर्थ्यम् । प्रवृत्ति-निमित्तभेदाभावेन सामानाधिकरण्यलक्षणहानिश्च ।। कथं तर्हि भवत्पक्षे जन्मादिबहूपलक्षणत्वमेकस्यैव ब्रह्मणो-ऽभ्युपगम्यत इति चेत्-उच्यते । तत्र ह्युपलक्ष्यस्य धर्मिणो ब्रह्मण एकत्वेऽपि प्रत्युपलक्षणमुपलक्ष्यधर्मभेदो जन्म-स्थित्याद्यनुगुणज्ञानशक्तयादिरूपोऽस्माभिरभ्युपगम्यते । अन्यथा तत्राप्यनेकोपलक्षणवैयर्थ्यं प्रसज्यत एव । त्व- त्पक्षे तुअनेकोपलक्षणोपलक्ष्यधर्मभेदानभ्युपगमादुक्तदोषो दुर्वारः, तदभ्युपगमे हि ब्रह्मणः सविशेषत्वप्रसङ्गः । नापि द्वितीयः; विशेषणभूतानां व्यावृत्तीनामनेकत्वेनैकार्थत्वासिद्धेः । विशेष्यान्तर्भूतो विशेष्यप्रतीत्युपायो धर्मो विशेषणम् ।। विशेष्यान्तर्भावो नाम ज्ञाप्यान्तर्भावः ।। विशेषणभूतार्थभेदोऽपि विशेष्यभूतप्रधानार्थैक्यादैकार्थ-(त्व?) सिद्धिरिति चेत्, तत् सखण्डवाक्यार्थवादिनोऽपि समानम् ।। कस्तर्हि विशेष आवयोरिति चेत्-अयमेव

विशेषः-यदेकस्य मते पदानां लाक्षणिकत्वम्, इतरस्य पक्षे तेषां मुख्यत्वमिति ।

यच्चोक्तम्-विशेषणान्तरविशिष्टे वस्तुनि विशेषणान्तरान्वयाद्विशेषणानामन्योन्यसमवायप्रसङ्ग इति- तदसत्;-विकल्पासहत्वात् । "पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थ-बोधकम् ।।" इत्युक्तप्रक्रियया हि वाक्यमर्थमवबोधयति । तत्र किं पदानां पदार्थस्म(स्मा)रणदशायामन्योन्यसम-वायप्रसङ्गः, उत परामर्शदशायाम, आहोस्वित् वाक्यार्थाभिधानदशायाम् । न तावत् प्रथमः कल्पः; स्मरणदशायां पृथक्पृथक् पदार्थस्मरणेन मिथोऽन्वयप्रसङ्गाभावात् । नापि द्वितीयः; एकस्मिन् वस्तुन्यविरुद्धानेकविशेषणसम-वायस्य प्रत्यक्षाद्यवगतस्य यथावस्थितवस्तुपरामर्शदशायां परामृश्यमानत्वात् । नापि तृतीयः; वाक्यार्थाभिधान-दशायां (वाक्यस्य?) सर्वैः पदैर्युगपदनेकविशेषणविशिष्टैकवस्तुविषयैकज्ञानजनकत्वेन क्रमाभिधानप्रयुक्तान्योन्य-समवायप्रसङ्गाभावात् । यथैव हि द्वेचक्षुषी जातिगुणाद्यनेकविशेषणविशिष्टैकवस्तुविषयैकां धियं युगपज्जनयतः, तथैवानेकपदानि युगपदेव तर्त्तद्विशेषणविशिष्टैकवस्तुविषयैकज्ञानजनकानि भवन्ति । क्रमेणाभिधानेऽपि नान्यो-न्यसमवायप्रसङ्गः; पदान्तरोपात्ते विशिष्टे विशेष्याशंस्यैव पदान्तरोपात्तविशेषणेन विशेष्यमाणत्वात् । तच्च यथा-दृष्टविषयत्वात् पदानां व्युत्पत्तेः । अन्यथा भवत्पक्षे व्यावृत्तिरूपविशेषणानामन्योन्यविशेषणविशेष्यभावः क्रमा-भिधानप्रयुक्तो दुर्वारः । अतो यथोक्त एव परिहारस्तवापि शरणम् ।। क्रमेणाभिधानानभ्युपगमे कथमुद्देश्योपादे-यविभागसिद्धिरिति चेत्-उच्यते । ज्ञाताज्ञातविभागो ह्युद्देश्योपादेयविभागः । स च युगपत्प्रतिपादनेऽपि नापैति । एकेन वाक्येनैकवस्तुनोऽनेकविशेषणान्वये युगपत्प्रतिपाद्ये, तत्र एकविशेषणान्वयः प्रागेव ज्ञातः, विशेषणान्तरा-न्वयस्त्वज्ञात इति ज्ञाताज्ञातविभागपरामर्शः परामर्शदशायां संभवत्येव ।

यदप्युक्तम्-विशिष्टैक्यप्रतिपादने विशेष्यैक्यवत् विशेषणैक्यं प्रसज्यत इति-तदपि न साधीयः;-विशेष्य-मात्रैक्य परत्वात् समानविभक्तेः । तच्च व्युत्पतिसिद्धम् । व्युत्पतिश्च प्रत्यक्षमूला । प्रत्यक्षं च विशेष्यैक्यमेवाव गम-यति; न तु विशेषणानामैक्यम्; यथा गौरित्याद्येकपदप्रयोगेऽपि प्रातिपदिकावगतविशेषणविशेष्यैक्यं तद्गतमेक- वचनं नावगमयति, किन्तु विशेष्यैक्यमेवावगमयति । प्रत्यक्षमूला व्युत्पत्तिरेव हि तत्र कारणम् । तथा समानाधि-करणपदसङ्घातस्थसमानविभक्तिरपि विशेष्यैक्यमात्रपरत्वेनैव नियामिका । अन्यथा भवत्पक्षेष्यसत्यादिप्रतियोगि-व्यावृत्तिरूपविशेषणैक्यप्रसङ्गात् ।। प्रातिपदिकानां तत्तत्प्रतियोगिव्यावृत्तिविशिष्टस्वरूपपरत्वेऽपि समानविभक्तेः प्रातिपदिकार्थैकदेशभूतविशेष्यमात्रैक्यपरत्वव्युत्पत्त्या न विशेषणैक्यं प्रसज्यत इति चेत्-तदस्मत्पक्षेऽपि समानम् ।आवयोविर्शेषस्तु प्रागेवोक्तः ।

यच्चोक्तम्-विशेषणभेदे विशेष्यभेदप्रसङ्ग इति-तदयुक्तम्; विशेषणभेदमात्रस्य विशेष्यभेदकत्वाभावात् । तच्च, देवदत्तः श्यामो युवेत्यादिषु विशेषणभेदेऽपि विशेष्यैक्यदर्शनात् ।। विशेषणभेदस्य स्वतःप्राप्तविशेष्यभेदकत्वं प्रत्यक्षेण तत्रापोद्यत इति चेत्तन्न; धर्मिवाचिपदैक्यात् समानविभक्तिनिर्देशाच्चैक्यप्रतीतेः ।। खण्डो मुण्डः पूर्णृङ्गो गौरित्यत्र धर्मिवाचकपदैक्ये समानविभक्तिनिर्देशे सत्यपि विशेषणभेदे विशेष्यभेदः प्रतीयत इति चेत्-नै(मै)वम्; यतः स्वतः प्राप्तं तयोर्विशेष्यैक्यप्रत्यायकत्वं प्रत्यक्षेण तत्रापोदितम् ।। परोक्षविषये खण्डो मुण्डः पूर्णशृङ्गो गौरित्या-दिवाक्ये प्रयुक्ते खण्डत्वादिविशेषणभेदे विशेष्यभेदप्रतीतिर्दृश्यत इति चेत्-परोक्षविषयेऽपि देवदत्तः श्यामो युवे-त्यादिवाक्ये प्रयुक्तेरयामत्वादि विशेषणभेदेऽपि विशेष्यैक्यप्रतीतिर्दृश्यत इति समानश्चर्चः ।। को निर्णायक इति चेत्-यज्जातीयविशेषणानां नियमेन भिन्नाश्रयत्वं दृष्टं प्रत्यक्षेण, तज्जातीयविशेषणानां परोक्षत्वेऽपि विशेष्यभेदा-पादकत्वम्, यथा खण्डत्वादीनाम्; यज्जातीयविशेषणानां भिन्नाश्रयत्वनियमो न दृष्टः, तज्जातीयविशेषणानां

धर्मिवाचि पदैक्ये समानविभक्तिनिर्देश चैकविशेष्यनिष्कर्षकत्वं युक्तम्, यथा नीलत्वादीनामिति ।

यच्चोक्तम्-समानविभक्तयवगतैक्यविरोधाद्विशेषणपरित्याग इति-तदप्ययुक्तम्; प्रातिपदिकाभिहित-विशेषणान्वयविरोधादैक्यपरित्यागापत्तेः । तथा हि-यदि समानविभक्तयन्वयावगतत्वा(क्तयन्वया)दैक्यं न हातुं शक्यते, तर्हि प्रातिपदिकावसितविशेषणान्वयः कथमिव हातुं शक्यते, यथा नीलमुत्पलभित्यादौ ।। तत्र प्रत्यक्ष-सिद्धत्वादङ्गीक्रियत इति चेत्-तत्रैक्यप्रतीतिरपि तथैवेति किं न स्यात् ।। समानविभक्तिनिर्देशे परोक्षेऽप्यैक्यप्रती-तिशाब्दीदृश्यते इति चेत्-तथैव, प्रयोगे परोक्षेऽपि प्रातिपदिकावगतविशेणान्वयप्रतीतिर्दृश्यत एव ।। तस्मादैक्य-प्रतीतिः शाब्दीति चेत्-विशिष्टप्रतीतिरपि शाब्दीति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् । किञ्च प्रातिपदिकावगत-विशेषणान्वयपरित्यागहेतुभूतसमानविभक्तयवगतमैक्यं किं स्वरूपम्, उत तदतिरिक्तम्? अतिरिक्तपक्षे सविशेष-त्वप्रसङ्गः । अनतरिक्तपक्षे हेत्वसिद्धिः । प्रातिपदिकावगतस्वरूपातिरेकेण समानविभक्तया कस्यचिदैक्यस्याप्रति-पादनात् । न हि स्वरूपमात्र विरोधाद्विशेषणपरित्यागः; व्यधिकरणवाक्येष्वपि तत्त्यागप्रसङ्गात् । प्रातिपदिकाव- गतं स्वरूपं निविशेषमिति प्रतिज्ञाय समानविभक्तरैक्यावगमादित्युक्ते स्वरूपावगमादित्युक्तम् स्यात् । ततश्च्चै-क्यावगमविरोधरूपहेत्वसिद्धिः । स्वरूपं तु विशेषणान्वयाविरुद्धं व्यधिकरणवाक्येषु विशेषणान्वयावगमादियु- क्तम् । किञ्च समानविभक्तयवगतमैक्यं प्रातिपदिकार्थैकदेशभूतविशेष्यमात्रस्यत्युक्तत्वात् तस्य च विशेषणभेदा-विरोधित्वान्न तद्विरोधनिबन्धनविशेषणत्यागो युक्तः । अतो न निर्विशेषत्वं वस्तुनः ।

काष्र्ण्यव्यावृत्तं पीतिमव्यावृत्तं शौक्लयमित्यादिषु प्रतियोगभेदस्य तत्तद्वयावृत्तस्वरूपस्य च शब्दोपात्त- त्वान्न लक्षणाप्रसङ्गः, सत्यादिवाक्येषु न तथेति विशेषः । एवं शौक्लयादिदृष्टान्तवाक्यात् सत्यादिदार्ष्टान्तिकवा-क्यस्य शब्दद्वारकं वैषम्यमुक्तम् । अर्थद्वारकं च वैषम्यं पूर्वोक्तं द्रष्टव्यम् । कथमिति चेत्; इत्थम् । शौक्ल्यादेः कस्य-चिद् द्रव्यस्य द्रव्यान्तराद्वयावत्तर्कधर्मतया धर्मान्तरानपेक्षत्वं युक्तम्; ब्रह्मणस्तु न तथात्वमिति स्वरूपातिरिक्त-व्यावर्त्तकधर्मा(न्तरा)पेक्षाऽस्त्येव । न हि परनिर्वाहकत्वानभ्युपगमे स्वनिर्वाहकत्वसम्भवः । किञ्च शौक्ल्यादि-स्वरूपस्फुरणे सति न काष्र्ण्याद्यध्यासप्रसङ्गः । अतस्तत्र स्वरूपमेव व्यावृत्तिरिति युक्तमभ्युपगन्तुम् । ब्रह्मणः स्वरूपस्फुरणे तदितराध्यासाभ्युपगमात् रजतादिव्यावर्त्तकाधिष्ठानस्वरूपात्तिरिक्त शुक्तित्वादिवत् सर्वाध्यासा-धिष्ठानब्रह्मस्वरूपातिरिक्तसकलेतरव्यावृत्तिरूपधर्मोऽवश्याभ्युपगमनीयः ।

यच्चोक्तम्-वाच्ये प्रधानांशस्य प्रतिपादनान्न लक्षणेति-तदप्यसत्; विशेषणद्वारेण विशेष्यपर्यवसायिनः शब्दस्य द्वारानभिधाने द्वार्यभिधानासिद्धेः । अलाक्षणिकत्वेऽपि विशिष्टाभिधानस्वरसस्य शब्दस्य विशेष्यमात्र-परत्वे स्वारस्याहानिरवजर्नीया । सा च न विरोधाभावे युक्ता । यच्च-विषं भुड्क्ष्वेत्यादिषु सर्वपदलक्षणा दृष्टेति । तच्च विधिप्रत्ययांशस्य मुख्यार्थत्वादयुक्तम् । तत्र विधिप्रत्ययव्यतिरिक्तशब्दलक्षणा च मुख्यार्थत्वे प्रमाणान्तरविरोधात् स्वीक्रियते । प्रस्तुते विरोधाभावान्न सा युक्ता ।।

विमतं वाक्यमखण्डार्थं समानाधिकरणवाक्यत्वात् सम्प्रतिपन्नवदिति ईदृश्यनुमानोक्तिरनुपपन्ना, वाक्य-मखण्डार्थमिति पदयोरर्थ भेदोऽस्ति, न वा । अस्ति चेत्-प्रतिज्ञावाक्य एव हेतोरनैकान्त्यम् । न चेत्-अखण्डा- र्थत्वं प्रतिज्ञातमेव न स्यात् । दृष्टान्तस्य च साध्यवैकल्यमवर्जनीयम्; प्रकृतिप्रत्ययात्मकपदपुञ्जरूपत्वात् सर्ववा-क्यानाम् । यदि भावरूपाखण्डार्थप्रतिपादनासमर्थमिति प्रतिज्ञा, तर्हि साध्यधर्मवचनान्तर्गतयोः समानाधिकरण-योर्भावरूपखण्डशब्दयोरनैकान्त्यम् । तस्मात् सत्यादिवाक्यं सत्यत्वादिविशिष्टमेव ब्रह्म प्रतिपादयतीति सिद्धम् । तदिदमुच्यते-सत्यं ज्ञानमनन्तमित्यादिना । तत्र निर्विशेषपरत्वाभावं सोपपत्तिकं प्रतिजानीते सत्यं ज्ञानमिति ।

सामानाधिकरण्यलक्षणप्रत्यभिज्ञापकैः शब्दैर्हेत्वंशं विवृणोति प्रवृत्तीति । ततः किमित्यपेक्षायामन्वयमुखेन व्या-वृत्तिमुखेन वा प्रवृत्तिनिमित्तभेदस्यावश्याश्रयणीयत्वमाह तत्रेति । तत्र को विशेष इत्यत्राह इयानिति । अवश्या-श्रयणीय इत्यत्राभिप्रेतं व्यावृत्तीनां स्वरूपमात्रत्वे दूषणमाह नचेति । सामानाधिकरण्यासिद्धिमुपपादयति-एक-स्मिन्निति । पर्यायत्वं दूषणं स्पष्टमिति न कण्ठोक्तम् । विशेषणभेदेनानेकार्थत्वात् । सामानाधिकरण्यलक्षणहानिं निरस्यति न च एकस्येति । विशिष्टताभेदात्-तत्तद्विशेषणान्वयभेदात् । तथाविधमनेकाथर्त्वं न विरोधि; प्रत्युता-नुकूलमवेत्यर्थः । कुत इत्यत्राह भिन्नप्रवृत्तीति । विशेषणतो भिन्नार्थत्वे विशेष्यतश्चैकार्थत्वे सति हि सामानाधि-करण्यलक्षणपाद्गुण्यमित्यर्थः । समानाधिकरणं वाक्यं किं विशेषणविशेष्यसम्बन्धपरम्; उत विशेष्यैक्यपरम्, उत उभयपरम्? । प्रथमे विशेष्यैक्ये प्रमाणं न स्यात् । द्वितीये विशेषणान्वयो निष्प्रमाणकः स्यात् । तृतीये सम्बन्धद्वयस्यैकवाक्येन बोधयितुमशक्यत्वात् वाक्यभेदप्रसङ्गः" इति केचिच्चोदयन्ति । तन्न; प्रातिपदिकेनैव विशे-षणान्वयस्य बोध्यतया समानविभक्तिनिर्देशेन विशेष्यैक्यप्रतिपादने वाक्यभेदप्रसङ्गाभावात् ।

एवं सामानाधिकरण्यस्यान्यथैवोपपत्त्या सत्यज्ञानादिवाक्यस्य निर्विशेषपरत्वं निरस्तम्; अथ कारण-वाक्यैकार्थ्यान्निर्विशेषपरत्वं निराकर्तुं तदनुवदति यदुक्तमित्यादिना । सदेव एकमेवेति विजातीयसजातीयभेद-व्यावर्त्तकावधारणद्वयसमभिव्याहृतमद्वितीयपदं पारिशेष्यात् स्वगतभेदाभावपरमिति गुणतोऽपि सद्वितीयतां न सहत इत्यर्थः । "यः सवर्ज्ञः सर्ववित् "यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते"इत्यादिसगु-णविषयकारणवाक्यैकाथ्यर्मस्तीत्यत्राह अत इति । सर्वशाखाप्रत्ययन्यायान्निर्गुणकारणवाक्येषु सगुणत्वं सगुण-कारणवाक्येषु निर्गुणत्वञ्चोक्तं स्यात् । तत्रापच्छेदन्यायेन निर्गुणवाक्यप्राबल्यात् सवर्कारणवाक्यानि निर्गुण-पराणीत्यर्थेः । कारणवाक्यैकार्थ्यं कुतोऽपेक्षितमित्यत्राह कारणतयोपलक्षितस्येति । जगत्कारणत्वं तटस्थलक्ष- णम्; न तु स्वरूपलक्षणमित्यभिप्रायेण उपलक्षितरयेत्युक्तम् । कारणत्वशङ्कितदोषव्यावर्त्तकत्वादैकाथ्यर्मवर्ज-नीयमित्यर्थः । अथ शोधकवाक्यान्तरैकार्थ्यान्निविर्शेषपरत्वं निराचिकीर्षुरनुवदति अन्यथेति ।अनूदितमर्थं दूषयति तदनुपपन्नमित्यादिना । तत्र प्रथमं कारणवाक्यैकार्थ्यं सविशेषविषयत्वे सतीत्याह जगदिति । तथैवेति । आद्वि-तीयपदं यथा अधिष्ठात्रन्तरनिवारणपरमेव भवति, तथैवेत्यर्थः । विचित्रशक्तियोगमेवेति । उत्तरवाक्यमुपादान-भूतस्यैव ब्रह्मणोऽधिष्ठातृत्वशक्तियोगमेवावगमयति; न तु निर्गुणत्वमित्यर्थः । शङ्कते अविशेषेणेति । सर्वनिषेध- स्य निमित्तान्तरनिषेधस्य च साधारणमद्वितीयपदम्, निरुपपदत्वात् । किञ्च उपक्रमे सदेवैकमेवेति सजातीय-विजातीयभेदयोर्न्निषिद्धत्वादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः सजातीयविजातीयभेदमात्रमिथ्यात्वेऽनुपपन्नत्वाच्च अद्वितीयपदमुपक्रमानुगुण्येन स्वगतभेदनिषेधपरं स्यात्; न तूतरवाक्यानुगुणं स्यात् उपक्रमप्राबल्यादिति साक्षा-त्पूवर्पक्षिचोद्यम् ।निमित्तत्वोपादानत्वे उभे अप्युत्तरत्र श्रूयते; तत्रोपादानान्तरमद्वितीयपदेन निषेध्यम्; न तु निमि-त्तान्तरमिति पार्श्वस्थचोद्यम् । तत्राह सिसृक्षोरिति । अनेन शङ्कां द्वयं परिहृतं भवति । तदैक्षतेत्यनन्तरोक्तत्वादस्य वाक्यस्य कारणपरत्वं नापलपनीयमित्यभिप्रायेण सिसृक्षोरित्युक्तम् । कारणपरत्वे च सति अग्रशब्देन विजाती-यकालसद्भावसिद्धेः, जीवानादित्वश्रुतेः अकृताभ्यागमकृतविप्रणाशादिश्रुत्यर्थापत्त्या, वैषम्यनैर्धृण्यपरिहाराय जीवानां कर्मसूक्ष्मभेदस्य प्रलयदशायामभ्युपगमात् एकत्वावधारणत्य जीवसूक्ष्मभेदसहत्वस्य परैरभ्युपगन्तव्यत्वात् सार्वज्ञ्यसर्वशक्तित्वादीनां सर्गौ-पयिकत्वाच्च विजातीयसजातीयस्वगतभेदाभावस्य दुर्वचत्वात् एकविज्ञानेन सर्व-विज्ञा नप्रतिज्ञायाश्चोक्तार्थाविरोधेन निर्वाह्यत्वात् परतन्त्रभेदस्य विहितत्वात् निषेधस्य च विहितव्यतिरिक्तविषय-त्वात्, स्वतन्त्ररूपभेदविशेषस्य "न तत्समश्चाभ्यधिकश्च दृश्यते" इत्यदिभिर्निषिद्धत्वात्, सामान्यनिषेधस्य च

तत्पर्यवसानस्य न्याथ्यत्वाच्च अद्वितीयपदस्य स्वतन्त्रभेदनिषेधपरत्वे प्राप्ते सति अविभक्तनामरूपताप्रतिपादकेनै-कमितिपदेनापादानत्वस्य सिद्धत्वात् निमित्तान्तरस्य बुद्धिस्थत्वाच्च निमित्तान्तररूपस्वतन्त्रवस्तुनिषेधपरमद्विती-यपदमित्यर्थः । सर्वनिषेधेऽनिष्टमाह सर्वेति । सर्वशाखाप्रत्ययन्यायस्य निवषत्ववादविपरीतत्वमाह सर्वशाखेति । अत्र-निर्गुण वादे । अत्र भवत इत्युपालम्भो वा । सर्वशाखाप्रत्ययन्यायनुक्तगुणस्वीकारफलः, न तूक्तगुणत्याम- फल इति त्वत्पक्षविपरीतफल इत्यर्थः । सविशेषपरत्वे कारणवाक्यैकार्थ्यं निगमयति अत इति । न केवलं सामाना-धिकरण्यान्यथानुपपत्त्या; कारणवाक्यैकार्थ्याच्च सविशेषपरमिव्यपिशब्दस्य भावः ।।

अथ शोधकवाक्यान्तरैकार्थ्यं निर्विशेषपरत्वहेतुं निरस्यति न चेति । परेणापच्छेदन्यायेन हि निर्गुणस-गुणवाक्यविरोधः परिहृतः । अत्र भिन्नविषयत्वात् विरोध एव नास्तीत्याह प्राकृतेति । निर्गुणमिति-गुणसामा-न्यनिषेधः, निष्कलमिति शरीरसामान्यनिषेधः, निष्क्रियमिति क्रियासामान्यनिषेधः ।। न गुणनिषेधः सङ्कोचयि-तव्य; आर्थगुणनिषेधबलेन सर्वगुणविरहावगमात् । ज्ञानस्य ज्ञानादिगुणाश्रयत्वादशर्नात् ब्रह्मणो ज्ञानमात्रत्वप्रति-पादनेन निर्गुणत्वं हि फलितम्-इति शङ्कायामार्थगुणनिषेधं परिहर्तुं श्रुतिप्रतिपन्नमर्थमनुभाषते ज्ञानमात्रेति । ततः किमित्यत्राह न तावतेति । कुत इत्यपेक्षायाम्-किं ज्ञानत्वात् ज्ञानानाश्रयत्वमुच्यते, किमेकजातीयद्रव्ययो-र्नियतधर्मधर्मिभावानुपपत्तेरिति विकल्पे, प्रथमं प्रतिवक्ति ज्ञातुरेव ज्ञानस्वरूपत्वादिति । अयमर्थः-ज्ञानस्य ज्ञाना-दिगुणाश्रयत्वाभावः किं व्याप्त्या कथ्यते, उत श्रुतिबलात् । व्याप्त्या चेत्-ज्ञानानाश्रयभूतं विषयप्रकाशकं ज्ञानं कस्यचिद्धर्मभूतमेव दृष्टमिति धर्मत्वेनाङ्गीक्रियताम् । यदि श्रुतिबलात् स्वतन्त्रत्वेन अङ्गिक्रियते-तर्हि नुतिबलादेव ज्ञानाश्रयत्वमपि अङ्गिक्रियतमिति । ज्ञानानाश्रयत्वं धर्मभूतज्ञानत्वप्रयुक्तम्; न तु ज्ञानत्वमात्रप्रयुक्तमिति सोपा-धिकत्वम् । अतो व्याप्तिविरोधश्च नास्ति । यद्वा जडस्य घटादेरिव ज्ञातृत्वायोगात् ज्ञातृत्वेनैव ज्ञानस्वरूपत्व-मर्थसिद्धम् । द्वितीयं प्रतिवक्ति ज्ञानस्वरूपस्येति । एकजातीयद्रव्ययोर्न्नियतधर्मधर्मिभाव उपपद्यत इत्यर्थः । श्रुत्या ज्ञानाश्रयत्वे सिद्धे हि तथाभ्युपगम इत्यत्राह ज्ञातृत्वमेव हीति । यद्वा ज्ञातुरेव ज्ञानस्वरूपत्वादिति-ज्ञातुर्ज्ञान-स्वरूपत्वाविरोधादित्यर्थः । एकजातीयद्रव्ययोर्न्नियतधमिर्धर्मिभावानुपपत्त्या विरोधं परिहरति ज्ञानस्वरूपस्यै- वेति । ज्ञानत्वात् ज्ञानानाश्रयत्वं परिहरति-ज्ञातृत्वमेन हीति । पूर्ववदभिप्रायः । ज्ञातृत्वं यथा फलितं भवति, तादृशगुणपराश्च ज्ञातृत्वकण्ठोक्तिमत्यश्च श्रुतयः सर्वशब्दविवक्षिताः । बहुवचनेन बहूपनिषद्वाक्यानि वा विवक्षि-तानि । एवकारेण ज्ञातृत्वस्यानन्यथासिद्धिरभिप्रेता । हिशब्दो हेतौ । ज्ञातृत्वस्य श्रुतिसिद्धत्वान्न काचिदप्यनुप-पत्तिरित्यर्थः । काः पुनः श्रुतय इत्यपेक्षायाम्-आर्थगुणनिषेधपरिहारार्थं निर्गुणश्रुतिसङ्कोचसिद्ध्यर्थं सगुणश्रुती-नामाविद्यकगुणविषयत्वशङ्कापनोदार्थं च श्रुतीर्दर्शयन् ताभिरेतत्प्रयोजनत्रयसिदिं्ध च दर्शयति यः सर्वज्ञ इत्यादि- ना । यः सवर्ज्ञः सर्ववित्-सर्वं स्वरूपतः प्रकारतश्च जानातीत्यर्थः । ज्ञानस्य सर्वविषयत्वम्, तस्य समष्टिव्य-ष्टिसृष्टयुपयोगित्वम्, आत्मसम्बन्धित्वं च दर्शयति । तदैक्षतेत्यादित्रयेण । नित्यो नित्यानामित्यत्र चेतनबहु-त्वमुक्तम्; कामप्रदत्वञ्च । ज्ञाज्ञौ द्वावजावित्यत्र ज्ञातृत्वमीश्वरत्वं च । तमीश्वराणामित्यत्र ईश्वरत्वदेवतात्व-पतित्वानि; ईश्वरत्वम्-नियन्तृत्वम् । नियाम्यविषयज्ञानवत एव नियन्तृत्वात् नियमनस्य ज्ञानविशेषरूपत्वाच्च । नियन्तृत्वेन ज्ञातृत्वासिद्धिः । देवतात्वम् कार्माराध्यत्वम् । पतित्वम् शेषित्वम् । न तस्येति । कार्यम् शरीरम् । करणमिन्द्रियादि; "कार्यकारणकर्तृत्वे" इति प्रयोगात् । समाभ्यधिकनिषेधश्चात्र श्रूयते । तेन अद्वितीयमिति सामान्यनिषेधस्य, "छागो वा मन्त्रवर्णात्"इति न्यायादीश्वररूपद्वितीयविशेषपर्यवसायित्ववं सूचितम् । पराऽ- स्येति ज्ञानशक्तयादीनां स्वाभाविकत्वमुक्तम् । क्रियानियमनम् । एष आत्मेति विशेषविधानम्; विशेषनिषेधश्च ।

आर्थगुणनिषेधस्य परिहर्तव्यतामभिप्रेत्य ज्ञानस्वरूपस्यैवेत्युक्तम् । आविधिकत्वनिराकरणाय स्वाभाविकानित्यु-क्तम् । समस्तहेयरहिततां चेत्यनेनपि अविद्यिकत्वशङ्का अर्थात्परिहृता ।

किञ्च ज्ञातृत्वप्रमुखान् कल्याणगुणान् समस्तहेयरहिततां चेत्यनेन निर्गुणवाक्यस्य सङ्कुचितवृत्तित्वं चोपपादितं भवति । तथा हि-कल्याणगुणानित्यस्यायाभिप्रायः-गुणविशेषविधानं गुणसामान्यनिषेधो न बाधितुं प्रभवति; अपि तु तद्वयातिरिक्तविषय एव भवति; अन्यथा "न हिंरयात् सर्वा भूतानि"इति सामान्यनिषेधेन, "अग्नीषोमीयं पशुमालभेत" इति हिंसाविशेषविधानबाधप्रसङ्गादिति । समस्तहेयरहिततां चेत्यस्यायमर्थः-यथा "पशुना यजेत", "छागस्य वपायाः" इत्यादिषु, "छागो वा मन्त्रवर्णात्" इति सूत्रो इत्युक्तन्यायात् सामान्यशब्दो विशेषदर्शने सति तत्र पयर्वस्यति, तथा गुणसामान्यनिषेधो विशेषगुणनिषेधे पर्यवस्यतीति । किञ्च सामान्यशब्दा- नां विशेषपर्यवसायित्वं व्युत्पत्तिसिद्धम्; यथा गामानय, गां बधानेत्यादिषु सामान्यशब्दो विशेषकटाक्षेण प्रयो-जकवृद्धेन प्रयुज्यते । तत एव हि तत्र प्रयोज्यवृद्धश्च न सर्वा गोव्यक्तीरानयति, किं तु विवक्षितव्यक्तिविशेषमेवान- यति । तथैव हि तत्र व्युत्पत्तिः । एवं ज्ञातृत्वप्रमुखान् कल्याणगुणानित्यनेन समस्तहेयरहिततां चेत्यनेन च उत्सर्गापवादन्यायस्सामान्यविशेषन्यायश्च अभिप्रेतः । उपात्तविशेषव्यतिरिक्तवि#ेये सामान्यशब्दस्य विरोधपरि-हाराय सङ्कोच उत्सर्गापवादन्यायः, अविरोधेऽपि वैयर्थ्यपरिहाराय सङ्कोचश्चेद्गोवलीवर्दन्यायः, उपात्तविशे-षविषये तस्य सङ्कोचस्सामान्यविशेषन्याय इति भिदा ।

किञ्च, अध्यात्मशास्त्रेषु गुणशब्दस्सत्त्वरजस्तमस्सु प्रसिद्धः । "न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैराखिलैर्गुणैः ।", "सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।" "निर्गुणस्याप्रमेयस्य" "गुणा गुणेषु वर्तन्ते", "कारणं गुणसङ्गोऽस्य", "निर्गुणं गुणभोक्तृ च", "नान्यं गुणेभ्यः कर्तारम्", "दैवी ह्येषा गुणमयी मम माया दुरत्यया", "विना हेयैर्गुणादिभिः", "गुणादिदोषाश्च मुने व्यतीतः", "गुणकलुषस्य सदातन-स्य तेन" इत्यादिषु । एवं केवलगुणशब्दस्य सत्त्वादिपरत्वेन प्रसिद्धिप्राचुर्यात् निर्गुणाब्दाः सत्त्वादिनिषेधपराः ।

अयं विषयविभागो न केवलं अस्मि#ाभिः भिन्नोपनिषद्वाक्येषु गुणविशेषविधान गुणविशेषनिषेधदर्शना-न्निश्चीयते, एकस्मिन्नेव वाक्ये विषयविभागो दृष्ट इत्याह निर्गुणेति । गुणसामान्यनिषेधवत् गुणसामान्यमात्र-विधानाभ्युपगमेन निर्गुणवाक्यानां सगुणवाक्यानां चेत्युक्तम् । न हि श्रुतिषु गुणसामान्यविधानं क्कचिद्दृश्यते । गुणविशेषा एव हि श्रूयन्ते । दोषसमभिव्याहृतगुणशब्दस्तूपादेय(तम)गुणपरः । "वर्षायुतैर्यस्य गुणा न शक्याः", "स ते गुणानामयुतैकदेशम्", नान्तं गुणानां गच्छन्ति" इत्यादिस्मृतिवचनाभिप्रायेण वा सगुणवाक्यानामित्यु- क्तम् । तत्र गुणशब्दो दोषप्रतिपक्षवचनः; लोके तथा प्रसिद्धेः; प्रकरणवशाच्छागपशुन्यायेन कल्याणगुणरूप-विशेषपर्यवसानस्य न्याय्यत्वाच्च । उक्तनायद्ववेन विरोधाभावादपच्छेदन्वायस्याविषयत्वमाह इति सगुणनिर्गुणवा-क्ययोरिति । इतिशब्देन पूर्वोक्तसर्वहेतवो विवक्षिताः । उत्सर्गापवादन्यायान् सामान्यविशेषन्यायात् अध्यात्मशा- स्त्रेषु गुणशब्दस्य सत्त्वादिषु प्रसिद्धिप्राचुर्याच्चेत्यर्थः । सगुणनिर्गुणवाक्ययोरिति । अत्र तु विषयविभागान्न विरोध इति नापच्छेदनयः प्रवतर्त इति भावः । अन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयमिति । सगुणवाक्य- स्येति न ह्युक्तम्; किंतु अन्यतरस्येत्युक्तम् । सगुणेन निर्गुणवाक्यस्य वा निर्गुणेन सगुणवाक्यस्य वा बाधाश्रयण-मनुपपन्नमित्यर्थः ।

अत्रायमभिप्रायः,-पूर्वं विरोधो नास्तीति परिहृतम् । इदानीं विरोधाभ्युपगमेऽपि नायमपच्छेदन्याय विषयः, अपि तु विरोधाधिकरणन्यायविषय एवेति । तथाहि-अपच्छेदन्यायो ह्यनियतविरोधपौर्वापर्यविषयः, उद्गा-

तृप्रि#ीतहर्त्रोरुभयोरपच्छेदनियमो नास्ति । तत्रापि क्रमेणापच्छेदोऽप्यनियतः । तन्नियमे सति हि सर्वस्व दक्षिणा-कत्वादक्षिणाकत्वविरोधनियमः । उभयोरप्यपच्छेदे तस्य क्रमभावित्वे, "उद्गात्रपच्छेदः पूर्वभावी, इतरस्तु चरम-भावी" इति वा विपयर्येणेति वा नियमो(ऽपि) नास्ति । अतोऽपच्छेदन्यायविषयः प्रयोगावधिकविरोधः । सगुण-निर्गुणवाक्यविरोधस्तु स्वरूपप्रयुक्तः; विधिनिषेधरूपतया नियतपौर्वापर्यश्च । अतो विरोधाभ्युपगमेऽप्यनियतविरो-धपौर्वापर्यविषयोऽपच्छेदनयो नात्र प्रवर्तते; अपि तु विरोधाधिकरणन्याय एव प्रवर्तते । तद्विषये हि पौर्वापर्यनियमो विरोधनियमश्च विद्यते । तथाहि-"औदुम्बरी स्पृष्ट्वोद्भायेत्" इति प्रत्यक्षश्रुतिः । ऐनैक् "औदुम्बरी सर्वा वेष्टयितव्या" इति स्मृतिः । तत्र श्रुतिः प्रथमत एव प्रमितिं जनयति, निरपेक्षप्रमाणत्वात् । स्मृतिस्तु स्वमूलभूतश्रुत्यनुमानसापेक्ष-तया विलम्बितप्रवृत्तिः । अतस्तत्र पौर्वापर्यं नियतम् । औदुम्बरीस्पर्शतद्वेष्टनयोर्विरोधश्च नियतः । तत्र पूर्वमेव प्रमि-त्यां जातायां तद्विरुद्धार्थः कालात्ययापदिष्टः स्यात् । अतः, "विलम्बितधीहेतोः शीघ्रधीहेतुर्बलीयान्" इति न्यायात् पूर्वस्याः श्रुतेर्बलीयस्त्वं इत्युत्तरत्र शास्त्रानुदय एव ।। नन्वत्राधीतमेव हि उत्तर मुचरशास्त्रमिति चेत्-ततः किम्? प्रमि-त्यनुदयो ह्यनुदयः; न तु शब्दानुदयः । आदित्यो यूपइतिवत् ।। ननु तत्र स्मृतित्वश्रुवित्वे बाध्यबाधकभावप्रयोजके ।। नैवम्; स्मृतित्वश्रुतित्वयोः पौर्वापर्यहेतुत्वात्त् । तेन सिद्धं पौर्वापर्यमेव बाध्यबाधकभावहेतुरिति न्यायसाम्यात् सगुण-वाक्यबलीयस्त्वमिति ।

यद्वा माभूद्विरोधाधिकरणन्यायः; अत्र उपक्रमाधिकरणन्याय एव प्रवर्त्तते; विरोधपौर्वापर्यनियमात् । अतः सगुणवाक्यप्रतिबद्धत्वात् निर्गुणशास्त्रानुदय एवेति ।। "ननु प्रथमप्रवृत्तं विलम्बितस्योत्पत्तिप्रतिबन्धकं चेत्- नेदं रजतमिति ज्ञानोदयम्, इदं रजतमिति धीः प्रतिबध्नातु" इति चेत्-न; सत्तया ज्ञायमानतया च ज्ञापकयोरत्यन्त-वैषम्यात् । सत्त्या ज्ञापकं हि प्रमाणं पूर्वापरपरामर्शनिरपेक्षं ज्ञानं जनयति । तत्रोत्पन्नं ज्ञानम्, "पूर्वाबाधेन नोत्प-त्तिरुत्तरस्य हि सिध्यति" इति न्यायात् पूर्वं बाधित्वैवोदेति । ज्ञायमानतया ज्ञापकं तु योग्यतापरामर्शादिसापेक्षं प्रमितिं जनयति । तत्र परामर्शदशायां पूर्वप्रमाणेन विरुद्धप्रमितिश्चेत्, सा प्रमितिरुत्तरोत्पतिं्त प्रतिबध्नातीति वैष-म्यमिति ।। एवं तर्हि, नेदं रजतमिति ज्ञानस्य इदं रजतमिति परामर्शसापेक्षत्वात् पूर्वज्ञानेन प्रतिबद्धस्य नेदं रजत-मिति ज्ञानस्यानुदयप्रसङ्ग इति चेन्न-इन्द्रियस्य प्रत्यभिज्ञेतरज्ञानजनने पूर्वपरामर्शनिरपेक्षत्वात् । इहापि शुक्तिरिय-मिति शुक्तित्वविषया ह्युत्तरप्रमितिः । शुक्तित्वप्रतीतेश्च न रजतप्रतिपत्तिसापेक्षत्वम् । शुक्तित्वे गृहिते सति तद्ग्रहण फलभूतो नेदं रजतमिति व्यवहारो नञ्जुल् लिखितत्वात् प्रतियोगि सापेक्षः प्रवर्तते । तत्सापेक्षत्वं च शब्दस्वभावा-धीनम् । अतः शुक्तिज्ञानं रजतज्ञाननिरपेक्षमुदयमानं पूर्वं बाधित्वैवोदेति ।

अतो नियतविरोधपौर्वापर्यविषयः उपक्रमाधिकरण (विरोधाधिकरण) न्याय एवात्र (विरोधाधिकरण न्याय उपक्रमधिकरणन्याय एव वा अत्र?) प्रवर्तते; न त्वपच्छेदनयः । स चेदृशस्थले यदि प्रवर्तते, पश्वालम्भन-मकर्तव्यं स्यात्; चरमभाविनः, न हिंस्यादिति निषेधस्य प्रबलत्वात् । ततश्चानुष्ठानविरोधः । सगुणनिर्गुणवाक्य-योर्विरोधपौर्वापयर्नियमः परेणैवोक्तः । अतोऽपि विरोधाधिकरणन्यायविषयत्वेनात्र अपच्छेदन्यायानवकाशात् सगुणवाक्यानां बलीयस्त्वं सिद्धमिति । एतदभिप्रायेण अन्यतरस्येत्युक्तम् ।

उपाध्यनुक्तिपूर्वकश्रुत्युक्तानां गुणानां निरुपाधिकत्वस्य स्वतःप्राप्तत्वात्, स्वाभाविकत्वश्रुतेः, "नान्यो हेतुर्विद्यत ईशनाय" इति ईशनस्याहेतुकत्वश्रवणेन तदौपयिकगुणानामपि निरुपाधिकत्वसिद्धेः, ज्ञानशक्तयादि-तारतम्योपाधिभूतकर्मसंबन्धनिषेधपूर्वकसत्यकामत्वाद्युक्तेः, "त इमे सत्याः कामाः" इति स्वरूपवत् सत्यत्वश्रुतेः, "पराऽस्य शक्तिः", "ते ये शतम्" इत्यादिभिर्गुणानामपरिच्छिन्नत्वप्रतिपादनेन कर्मसंबन्धव्यापकपरिच्छेदनिवृत्त्या

व्याप्यकर्मसंबन्धनिवृत्तेरर्थसिद्धत्वात्, स्वाभाविकत्वकण्ठोक्तिरहितगुणपरवाक्येष्वपि सर्वशाखाप्रत्ययन्यायेन गुणानां स्वाभाविकत्वसिद्धेः, "आनन्दं ब्रह्मणः" इत्यादितात्पर्यलिङ्गप्राचुर्यात्, उत्सर्गापवादन्यायसामान्यविशे-षन्यायाभ्यां विषयविभागात् एकस्यां श्रुतावेव विषयविभागस्य, दृष्टतया च विरोधाभावात्, अपच्छेदन्यायाविष-यत्वात्, विरोधे सत्यपि विरोधाधिकरणन्यायेन सगुणवाक्यप्राबल्यात्, "यस्सर्वज्ञः" इत्यादिषूपासनविधिरहितेषु वाक्येषु स्वरूपवत् प्रतिपन्नत्वात्, मानान्तरागोचरतया अनुवादविषयत्वासंभवेन निषेद्धुमशक्यत्वात्, "आत्मा वा अरे द्रष्टव्यः", "सत्यं ज्ञानमनन्तं ब्रेह्म यो वेद", "आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्" कामान् इति क्कचिदुपास्यत्व-श्रवणस्य स्वरूपेऽपि तुल्यत्वात्, अध्यात्मशास्त्रेषु सत्वादौ(दिषु) गुणशब्दस्य प्रसिद्धिप्राचुर्याच्च निर्गुणवाक्यविषयत्वाभावात्, बाह्यतर्काणां कालात्ययापदिष्टत्वात्, अवधारणद्वयसहिताद्वितीयश्रुतिज्ञानानन्द-स्वरूपत्व-वाङ्मनसनिवृत्ति-ज्ञेयत्वनिषेधरूपार्थगुणनिषेधानां परिहृतत्वाच्च निरुपाधिकाः ब्रह्मगुण इत्युक्तवक्ष्य-माणार्थ- सङ्ग्रहः प्रवृत्ति(प्रतिपत्ति?) सौकर्याय दशिर्तः ।

सत्यं ज्ञानमिति ज्ञानपदेन सिध्यन् आर्थगुणनिषधः पूर्वं परिहृतः । अथैतदनुवाकोपसंहारे च, "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इति वाङ्मनसनिवृत्त्यभिधानान्निर्गुणत्वं फलितम् । अतस्तदैकार्थ्याच्च सत्य-ज्ञानादिवाक्यस्य निर्विशेषपरत्वमिति शङ्कायाम्, आर्थगुणनिषेधपरतया परोक्तस्यास्य वाक्यस्योक्तार्थानुगुण्य-मुपपादयति-भीषाऽस्मादित्यादिना । भीषाऽस्मादित्यनेन आज्ञापयितृत्वमुच्यते । क्षेत्रज्ञानन्दातिशयमुकत्वेति । अत्र निर्विशेषत्वं प्रतिषिपादयिषितं चेत्-गुणानां क्रमेण न्यूनतां प्रतिपाद्य सर्वाभावे पर्यवसिंतं युक्तम् । अत्र तु क्रमेण गुणानामाधिक्यमुकत्वा वाङ्मनसनिवृत्त्यभिधानमानन्त्यादेवेत्यभिप्रायः । यथा, "संख्यातुं नैव शक्यन्ते गुणा दोषाश्च शाÐङ्गणि । आनन्त्यात् प्रथमो राशिरभावादेव पश्चिमः ।।" इति । प्रथमं मनुष्यानन्द मारभ्य क्रमे-णातिशयो दशिर्तः ।

साधु युवाध्यायकः । साधु-यथाविधि सम्यक्संप्रदायसिद्धतया स्वरवर्णादिभ्रंशरहितं वा । युवशब्देन प्रत्यग्रत्वं विवक्षितम् । अविस्मरणान्नित्यनवं यथा भवति, तथा अध्ययनवानित्यर्थः । यद्वा स्वसमवयस्कानां सर्वेषामध्यापकः । तदधिकज्ञान इत्यर्थः । आशिष्ठः-आशुतरक्रिय; । यद्वा अशनक्षमः; अरोग इत्यर्थः । यद्वा आशीर्वादविषयमभूतः; सर्वानुरञ्जक इत्यर्थः । "सर्वान् देवान् नमस्यन्ति" इतिवत् । बलिष्ठः-मनोबलवान्; द्रढिष्ठ इति शरीरबलस्योक्तत्वात् । यद्वा द्रढिष्ठः-दृढतरः; न त्वव्यवस्थितस्वभाव इत्यर्थः । बलिष्ठः-शारीरमानससर्व-विधबलवान् । वित्तस्य पूर्णा-विक्षेन पूर्णा । "पूरणगुणसुहितार्थसदव्यतव्यसामानाधिकरणेन" इति षष्ठयनुज्ञा- नात् । स एको मानुष आनन्दः । एवं गुणसमुदायं विभूतिपौष्कल्यं चोकत्वा, "स एको मानुष आनन्दः" इति श्रुत्या स्वरसतः तस्यैवानन्दत्वमुक्तम् । अनुकूलत्वं ह्यानन्दत्वम् । निवर्त्यानिष्टत्वेष्टत्वेष्टसाधनत्वानपेक्षमिष्टत्वमुन-कूलत्वम् । उक्तलक्षणयोगात् गुणविभूत्योरानन्दत्वमुपपद्यते । तद्विषयज्ञानस्याप्यनुकूलत्वं विषयानुकूलत्वकृतमित्य-न्वयव्यतिरेकसिद्धम् । एवञ्च सति श्रुतिस्वारस्यञ्च सिद्धयति । गुणविभूतिप्रकर्षमुकत्वा, "स आनन्द" इति ह्युक्तम्; न तु तद्विषयज्ञानमिति । युवत्वाद्यनेकगुणान् विभूतिमप्युकत्वा तत्समुदायमानन्दशब्देन निर्दिश्य तस्यानन्दस्य निरतिशयत्वप्रतिपादनात् सर्वगुणानां विभूतेश्चानवधिकातिशयत्वं प्रतिपादितं भवति । अनुकूलज्ञानत्वमेवानन्द-त्वमिति गुणविभि#ूतिविषयज्ञानस्यानन्दत्वेऽपि तस्यानन्दस्य निरवधिकातिशयत्वोक्तया गुणविभूत्योरप्यनवधिका-तिशयत्वमर्थादुक्तं भवति; तदानन्त्यस्य गुणविभूत्यानन्त्यनिबन्धनत्वादिति । आरम्येति-उपक्रमानुगुणमुप-संहृत(ति?) (संहार)वाक्यं नेयमिति भावः । त्रोत्रियस्य वाकामहतस्येति वक्यैः मुक्तानन्दस्य भगवदानन्द साक्यं

उक्तं भवति । बह दशायां निरतिशयानन्दासंभवात् । श्रोत्रियः-ब्रह्मनिष्ठः । अकामहतः-निवृत्ताविद्यत्वात् समस्त-सांसारिकभोगानुपहतः । "स एकः प्रजापतेरानन्दः" इत्यन्तेन क्षेत्रज्ञानन्दातिशय उक्तः । "स एको ब्रह्मण आनन्दः" इति भगवदान्द उच्यते । चतुर्मुखानन्दपरत्वे बह्मशब्दास्वारस्यात् (ब्दस्वारस्याहानिः); "परं जैमिनिर्मुख्यत्वात्", "स्याच्चैकस्य ब्रह्मशब्दवत्" इति ब्रह्मशब्दस्य तत्रैव मुख्यवृत्तत्वस्य सूत्रितत्वात्; भाष्ये प्रथमसूत्रस्थब्रह्मशब्दव्या-ख्यानावसरे प्रपञ्चितत्वाच्च । "ब्रह्मविदाप्नोति", (अनन्तं बह्म") "ब्रह्मणा विषश्चिता", "आन्दं ब्रह्मः", "असद्व्र- ह्मेति वेद चेत्", "अस्ति ब्रह्मेति चेद्वेद" इति प्रकरणस्थब्रह्मशब्दानां ब्रह्मपरत्वात् प्रकरणविरोधश्च । आनन्दं ब्रह्म- णो विद्वानिति पूर्वत्रोत्तरत्र च आनन्दप्रतियोगिषष्ठयन्तब्रह्मशब्दस्वारस्यविरोधश्च । "सैषाऽऽनन्दस्य" इति प्रक्रा-न्तब्रह्मानन्दस्य चतुर्मुखानन्देनोपसंहारानुपपत्तिश्च । "तदप्येष श्लोको भवति" इति ब्रह्मानन्दं प्रकृत्य वक्ष्यमाणस्य श्लोकस्य उक्तविषयत्वविरोधश्च । "स एकः प्रजापतेः" इति निरुपपदैकवचनान्तप्रजापतिशब्दस्वारस्याभङ्गश्च । न च तत् जात्येकवचनम्; बहुत्वैकत्वविवक्षायां बहुवचनैकवचनर्निर्देशप्रकरणत्वात् । मनुष्य गन्धर्वाणां देवानानं देव-गन्धर्वाणां इन्द्रस्य, बृहस्पतेः, प्रजापतेरिति हि निर्दिश्यते । अतः प्रजापतिशब्दश्चतुर्मुखपरः । "स एको ब्रह्मणः" त्यत्र ब्रह्मशब्दो भगवत्परः ।। "ते ये शतम्" "स एक" इति भगवदानन्दस्य कथं परिच्छिन्नत्वमिति चेत्-न परिच्छि-न्नत्वम् । एकक्षणार्धे बहूनि योजनानि गच्छतोरेवः "क्षिप्तेषुरिव सर्पति" इत्यादिषु साम्यकथनं यथा गतिमान्द्य-निवृत्तिपरम्, न तु परिच्छिन्नत्वपरम्-तद्वत् "ते ये शतं-स एकः" इति निर्देशोऽपि चतुर्मुखानन्दाधिक्याभिप्रायः, न तु परिच्छेदपर इति । यद्वा ते येः शतमिति स एक इत्यस्य निर्देशस्य संख्याविशेषपरत्वेऽप्यानन्दस्यापरिच्छन्न- त्वं फलितम् । "अण्डानां तु सहस्राणां सहस्राण्ययुतानि च । ईदृशानां तथा तत्र कोटिकोठिशतानि च ।।", "रोम-कूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते" इत्यादिवचनैरण्डानामनन्तत्वेन तत्रतत्र चतुर्मुखानामप्यानन्त्यात् । काल-त्रवर्तिसमस्तब्रह्माण्डगतचतुर्मुखानन्दापेक्षया शतगुणत्वात्, "मेरोरिवाणुर्यस्यैतद्ब्रह्माण्डमखिलं मुने" इत्युक्तत्रि-पाद्विभूतिमत्तया च भगवदान्दस्यात्यन्तमानन्त्यसिद्धेरिति । कल्याणगुणानन्त्यमिति । न हि क्रमेण गुणापकर्ष उक्तः; किन्तु गुणानां प्रकर्ष एवोक्तः । अतो गुणप्रकर्षस्य निरतिशयत्वाद्वाङ्मनसनिवृविरिति भावः । अत्यादरे- णेति ब्रह्मस्वरूपादपि तद्गुणेष्वादरातिशय उक्तः । "आनन्दं ब्रह्मणो विद्वान्" इति हि श्रुतिः; न त्वानन्दान्वितं ब्रह्म विद्वानितीति भावः । इयं श्रुतिरिति । निर्गुणपरत्वेन त्वयोक्तैतत्प्रकरणस्था श्रुतिरप्यस्मदुक्तार्थानुगुणैवेति भावः । एवमार्थगुणनिषेधनिरासद्वारा प्रकरणगतवाक्यान्तरेण गुणानन्त्यपरेणैकार्थ्यात् सत्यज्ञानादिवाक्यस्य सविशेषविषयत्वमुक्तम् । अथ स्ववाक्यैकदेशेनापि सविशेषपरत्वमुपपादयति सोऽश्नुत इत्यादिना । फलमवगम-यद्वाक्यमिति । "ब्रह्मविदाप्नोति परम्" इति ब्राह्मणे ब्रह्म तद्वेदन प्राप्तिः प्राप्यं चेति चतुष्टयमुक्तम् । एतद्विवरणं सत्यज्ञानमित्यादिमन्त्रेण क्रियत इति श्रुतिरेवाह तदेषाम्युक्तेति । तदेव ब्रह्माभिमुखीकृत्य ॠगेषाऽध्येतृभि-रुक्तेत्यर्थः । मन्त्राणां ब्राह्मणविवरणरूपत्वदर्शनात् उपक्रमाधिकरणविषयवाक्ययोरिव आपातविरोधप्रतीत्यभा- वात् मन्त्रब्राह्मणयोर्नित्यनिर्दोषत्वाविशेषाच्च मन्त्रापेक्षया ब्राह्मणप्राबल्यवादोऽनुपपन्नः । स्फुटप्रतिपत्तिहेतुत्वत-दभावावेव प्राबल्यदौर्बल्यशब्दविवक्षितौ चेत्-न विरोधः । "सत्यं ज्ञानमनन्तं ब्रह्म" इति ब्रह्मशब्दो विवृतः, "यो वेद निहितं गुहायाम्" इति विच्छब्दः, "परमे व्योमन् सोऽश्नुते" इति प्राप्तिः, "सर्वान् कामान्" इत्यादिना प्राप्यम्; तत्र परशब्दार्थविवरणमतदिति दर्शयितुं परस्य विपश्चितो ब्रह्मण इत्युक्तम् । विपश्चित्त्वमपि भोग्यगुणत्वेनोक्तम् । वाक्यस्यार्थं वक्तुं पदानामन्वयं दशर्यति विपश्चितेति । किमत्र गुणवाचिपदमिति शङ्कायाम्, "यदा सर्वे प्रमुच्यन्ते कामायेऽस्य हृदि स्थिताः" इति त्याज्यतयोक्तकामव्यावृत्त्यर्थमवयवशक्त्या व्याचष्टे काम्यन्त इति । ब्रह्मवेदन-

फलतया मुक्तानुभाव्यत्वादिह त्याज्यकामपरत्वानुपपत्तेः, काम्यत्वस्य ब्रह्मस्वरूपेऽपि संभवे सत्यपि व्यतिरेकनि-र्देशात् बहुवचनान्तत्वात् अवयवशक्तेः तदुक्तभोग्यत्वस्य च गुणेषु संभवात् "स वा एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके", "य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्", "त इमे सत्याः कामाः" इत्यादिश्रुत्यन्तरैकार्थ्याच्च कामशब्दवाच्याः कल्याणगुणा इत्यर्थः । कस्येमे गुणाः? सहभावश्च बह्मणः, पुत्रेण सहौदनं भुङ्क्त" इत्यत्र पुत्रस्येव किं भोक्तृतया, उत क्षीरेण सहौदनं भुङ्क्त इत्यत्र क्षीरस्येव भोग्यतया? इति शंकां च परिहरन् वाक्यार्थमाह ब्रह्मणेति । अस्य वाक्यस्य प्राप्यवाचिपरशब्दविवरण-रूपत्वात्, सर्वान् कामान् सह ब्रह्मणेति भोग्यवाचिपदेनाव्यवहितप्रयोगस्वारस्याच्च सहशब्दो भोग्यसाहित्यपरः । सन्निहितं ब्रह्मैव च गुणा-नामाश्रयः । अतोऽनन्तगुणविशिष्टं ब्रह्मानुभवतीत्यर्थः । "सह युक्तेऽप्राधाने" इति शब्दा-नुशासनवशात् सहशब्देना-प्राधान्यं ब्रह्मण आशङ्कय तत्परिहाराय सहशब्दप्रयोजनमाह दहरेति । "यो वेद" इति विहिते वेदने गुणानां प्राधा-न्यसूचकः सहशब्दः । दहरविद्यायामुपासने हि गुणप्राधान्यमुक्तम् । तथा अत्राप्युपासने गुणप्राधान्यं वक्तुं सहशब्द इत्यर्थः । फलदशायां गुणप्राधान्यश्रवणादुपासने गुणप्राधान्यं कथं सिध्यतीत्यत्राह-फलोपासनयोरिति । फलोपा-सनयोरुभयोरपि सगुणत्वं गुणप्राधान्यं च तुल्यप्रकारमित्यर्थः । गुणप्राधान्यं वक्तु-मित्यनेनापि सहशब्दस्य भोग्य-साहित्यपरत्वं सिद्धम् । अन्यथा भोक्तृप्राधान्यं हि सिध्येत्, न तु भोग्यगुणप्राधान्यमिति । श्रुत्यैवेत्येवकारेण उक्त-न्यायस्य पुरुषबुध्युत्प्रेक्षानिरपेक्षं श्रुत्या कण्ठोक्तत्वमभिप्रेतम् ।।

अथ सगुणानामेव ज्ञेयत्वं दृष्टमिति ज्ञेयत्वनिषेधे निर्गुणत्वं फलितमिति ज्ञेयत्वनिषेधपरत्वेन परोक्तं वाक्यमुपादत्ते । यस्येति । किं ज्ञानमात्राविषयत्वम्, उत उपासनात्मकज्ञानाविषयत्वम्, उत सगुणोपासनात्म-कज्ञानाविषयत्वं विवक्षितमिति विकल्पत्रयमभिप्रेत्य, प्रथमं ज्ञानमात्राविषयत्वं दूषयति ब्रह्मविदिति । ब्रह्मणो -वेद्यत्वे श्रुतेरादरातिशयं दर्शयति असन्नेवेति । न ब्रह्मणवेदनमपवर्गोपायः, अपि तु प्रपञ्चमिथ्यात्वज्ञानमेव तदु- पाय इति परैरुच्यते । "विद्ययाऽमृतमश्नुते", "तथा विद्वान्नामरूपाद्विमुक्तः", "ततो ज्ञानं प्रवर्तते", "ज्ञानाग्निः सर्वकर्माणि" इत्यादिष्वनिर्दिष्टविशेषविषयेषु वाक्येष्वपवर्गोपायतया श्रूयमाणस्य ज्ञानस्य ब्रह्मविषयत्वप्रपञ्चमि-थ्यात्वविषयतासाधारण्यात् तदाशङ्कयाह अत इति । अतः-केषुचिद्वाक्येष्वपवर्गोपायज्ञानस्य ब्रह्मविषयत्वदर्श- नात् । सर्वाः श्रुतयः-अनिर्दिष्टविषयविशेषाः, "विद्ययाऽमृतमश्नुते" इत्यादिकाः श्रुतयोऽपि सर्वशाखाप्रत्यय- न्यायेन ब्रह्मविषयमेव वेदनमपवर्गोपायतया विदधतीत्यर्थः । यद्वा केषुचिद्ब्रह्मविषयत्वे श्रुते ज्ञानमात्रोपायपराः श्रुतयश्च सामान्यविशेषन्यायात् तत्रैव पर्यवस्यन्तीत्यभिप्रायः । अथोपासनात्मकज्ञानाविषयत्वपक्षं दूषयति ज्ञानं चेति । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते" इति श्रुतिरुपासनात्मकज्ञानाविषयत्वशङ्काबीजम् । वाक्यार्थ-ज्ञानस्योपायत्वानुपपत्त्युपपादनात् परिहृतमित्यर्थः । "नेदं यदिदमुपासत इत्यस्यायमर्थः-यदिदं प्रतीकमुपासते, तन्न; तदेव परं ब्रह्म त्वमुपास्स्वेति । अथ सगुणोपासनाविषयत्वपक्षं प्रतिक्षिपति उपास्यञ्चेति । निर्गुणपरत्वेन परोक्तायाः सद्विद्याया एव सगुणविषयत्वोपपादनादिति भावः । यद्वा ज्ञानं चोपासनात्मकम्" इति । ज्ञानविशेष-विषयत्वकण्ठोक्तया ज्ञेयत्वमात्रनिषेधो दूरनिरस्त इति भावः । उपास्यं चेति । ज्ञेयत्वनिवृत्त्या सिषाधयिषिता गुणनिवृत्तिर्गुणविधानबाधिता । ततश्चाज्ञेयत्वं बाधित्वा ज्ञेयत्वमाक्षिपतीति भावः । तर्ह्यविज्ञातत्वामतत्वश्रुत्योः कोऽर्थ इत्यत्राह यतो वाच इति । अनन्तशब्देन सत्यं ज्ञानमित्यादिवाक्यं स्मारितम् । अनन्तस्येति स्वरूपान-न्त्यमुक्तम् । अपरिच्छिन्नगुणस्येति गुणानन्त्यम् । अस्मिन्नर्थे-"न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः", "नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते", "तवानन्तगुणस्यापि

षडेव प्रथमे गुणाः", "वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः । महात्मनः शङ्खचक्रासिपाणेर्विष्णो-र्जिष्णोर्वसुदेवात्मजस्य", "चतुर्मुखायुयदि कोटिवक्त्रो भवेन्नरः क्कापि विशुद्धचेताः । स ते गुणानामयुतैकदेशं वदेन्न वा देववर प्रसीद", "यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणा ह्यनन्तस्य असंख्येया महात्मनः इषुक्षया-न्निविर्तन्ते नान्तरिक्षक्षितिपात् । मतिक्षयान्निवर्त्तन्ते न गोविन्दगुणक्षयात्" इत्यादि द्रष्टव्यम् । परिच्छिन्नत्वज्ञाने कथं धर्मिणो ब्रह्मणोऽज्ञातत्वमित्यत्राह अपरिच्छिन्नत्वात् ब्रह्मण इति । ब्रह्मशब्दवाच्यस्य स्वरूपतो गुणतश्चापरि-च्छिन्नत्वादित्यर्थः । न केवलं श्रुत्यन्तराविरोधार्थमेवमर्थ उक्तः, इतरथा स्ववाक्यव्याहतिप्रसङ्गाच्चेत्याह अन्यथेति । तत्रैव-स्ववाक्य एव ।

ज्ञेयत्वनिषेधे परिहृते ज्ञातृत्वनिषेधं परिहरति यत्त्वित्यादिना । दृष्टेर्मतेरिति पञ्चम्यन्तत्वाभिप्रायेण व्य-तिरिक्तपदाध्याहारेण किं योजना, उत षष्ठयन्ततया व्यतिरिक्तपदानध्याहारेण योजना त्वया क्रियते इति विकल्प-मभिप्रेत्य प्रथममध्याहारपक्षमनुवदति न दृष्टेरिति । परिहरति तदिति । प्रसक्तस्य हि प्रतिषेध इति शङ्कायां प्रसङ्गं दर्शयति कुतर्कसिद्धामिति । कुतर्कः कथमुपन्यस्तः इत्यपेक्षायां स्वरूपजडत्वे परोक्तं हेदुद्वयं सङ्ग्रहेणोपपादयति

आगन्तुकचैतन्यगुणयोगितयेति । आगन्तुकत्वाद्गुणत्वाच्चेति हेतुद्वयम् । आगन्तुकत्वात्-अनित्यत्वात् ज्ञानं नित्यस्यात्मनो न स्वरूपं भवितुमर्हति; गुणत्वाच्च न स्वरूपमिति । यद्वा चैतन्यं नाम विषयप्रकाश तन्नित्यं स्व- रूपं चेत्, सर्वदा विषयप्रकाशप्रसङ्ग इति भावः । दृष्टिश्रुतिमतिनिदिध्यासनानां ज्ञानविशेषाणां कर्तुरात्मनः स्व-रूपस्य दृष्टयादिरूपत्वे विधीयमाने आत्मनः स्वरूपस्य न ज्ञानावान्तरभेदः शङ्कनीयः । तेषां ज्ञानविशेषरूपाणां स्वयंप्रकाशत्वलक्षणं ज्ञानत्वमविशिष्टमिति तावन्मात्रमेव स्वरूपस्य विवक्षितं भवति । अयं परिहारः परपक्षेऽपि समानः । साक्षाद्योजनामाह अथवेति । दृष्टिश्रुतिमतिनिदिध्यासनानां कर्तारं जीवात्मानं प्रतिषिध्य परमात्मान-मुपास्स्वेत्ययमर्थ उक्त इत्यर्थः । यद्वा अभिदधाती (तीती?)त्यनुषङ्गः । जीवात्मानं प्रतिषिध्य परमात्मानमुपा-स्स्वेत्यभिदधाति श्रुतिः । इति वाक्यार्थ इति वाक्यान्तरम् । यद्वा प्रतिषिध्य-परित्यज्येत्यर्थः । अतः समानकर्तृ-कत्वोपपत्तिः । "यः प्राणेन प्राणिति योऽपानेनापानिति एष त आत्मा सर्वान्तरः" इति प्रस्तुतत्वात् प्राणेन प्राणि-तृत्वादि जीवात्मनः संभवतीति तदुपास्यत्वशङ्काव्यावृत्त्यथर्म्, न दृष्टेर्द्रष्टारं पश्येरित्याद्युच्यत इति अयमेवार्थः । अन्यथा श्रुत्यन्तरविरोधमाह अन्यथेति । गुणत्वमसिद्धम्, ज्ञानस्य स्वरूपत्वेन श्रुतिप्रतिपन्नत्वात् । मानं चेत्, आगन्तुकमिति न वाच्यम्; ईश्वरज्ञाने व्यभिचारात् । अस्मदादिज्ञानस्याप्यागन्तुकत्वं कालात्ययापदिष्टम्, "न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते" इति श्रुतेः-इति हेतुद्वयपरिहारः । विषयप्रवणत्वं धर्मभूतमानस्यैव; सर्वसाधारणं ज्ञानत्वं स्वप्रकाशत्वम् । अतो न सर्वदा विषयप्रकाशप्रसङ्गश्च ।।

ज्ञेयत्वनिषेधपरिहारानन्तरं बुद्धिस्थत्वात् ज्ञातृत्वनिषेधः परिहृतः । अथ आर्थगुणनिषेधान्तरं परिह्रियते आनन्द इत्यादिना । पूर्वोक्तं परिहारमत्रतिदिशति तत् ज्ञानाश्रयस्येति । कथं तेनेदं परिहृतमित्यत्राह ज्ञानमेव हीति । तर्हि श्रुतिषु विज्ञानानन्दशब्दयोः समभिव्याहारो नोपपद्यत इत्यत्राह विज्ञानमिति । स्वयंप्रकाशत्वानु-कूलत्वरूपप्रवृत्तिनिमित्तभेदादुपपद्यत इति भावः । तथैव भवद्भिरभ्युपगतमित्याह अत एवेति । अत एव-ज्ञाना-नन्दशब्दयोरेकविषयत्वादेवेत्यर्थः । आनन्दस्य आनन्दाश्रयत्वानम्युपगमः किं श्रुत्या, उत व्याप्त्या? व्याप्त्या चेत्, कस्यचिद्धर्मः स्यात् । श्रुतिबलात् स्वतन्त्रत्वमिति चेत्-तत एवानन्दाश्रयत्वमभ्युपगम्यताम् । धर्मभूतान- न्दस्य हि आनन्दाश्रयत्वाभावो दृष्टः । अतो व्याप्तिविरोधश्च नास्ति । अतः स्वतन्त्रत्ववत् गुणाश्रयत्वमपि श्रुति-सिद्धत्वात् स्वीकार्यमिति भावः । उभयत्र प्रमाणे सति हि न्यायसञ्चार इत्याशङ्कायां दृष्टान्तभूमौ प्रमाणस्य दर्शि-

तत्वमाह अस्येति । दार्ष्टान्तिकेऽपि कण्ठोकिं्त दर्शयति तद्वदिति । ज्ञातृत्ववत् आनन्दित्वमपि कण्ठोक्तमित्यर्थः । ज्ञातृत्वश्रुतिरप्यानन्दित्वे प्रमाणमित्यभिप्रेत्याह ज्ञातृत्वमेव ह्यानन्दित्वमिति । ज्ञातृत्वातिरिक्तानन्दित्वव्युदास- पर एवकारः । हिशब्दस्तदुपपत्तिसूचकः । अनुकूलज्ञानाश्रयत्वमेव ह्यानन्दित्वमित्यर्थः । ज्ञातृत्वश्रुतिर्ज्ञानाश्रयत्व-निषेधस्य आनन्दाश्रयत्वनिषेधस्य च विरोधिनीति भावः ।अथ भेदनिषेधपरत्वेन परोक्ताः श्रुतीर्योजयितुमनुवदति यदिदिमिति । यत्र हीत्यादिवाक्याभ्यां भेदनिषेधः कृतः । भेदप्रतिपावनर्थं दर्शयति-मृत्योरिति । "तमसो वा एष तमः प्रविशति" इतिवत् । नित्यानुवृत्तस्य भेदस्य कथं भ्रान्तिसिद्धत्वमित्यत्राह-यत्र त्विति । उक्तवाक्येषु वचन-भङ्गीवैविध्याभिप्रायेण बहुधेयुक्तम् । बहुश इति पाठे निषेधक्रियाऽऽवृत्तिरर्थः । परिहरति तदिति । तच्छब्दस्य परि-हृतमित्यत्रान्वयः । समस्तहेयप्रत्यनीकत्वेन समस्तकल्याणगुणात्मकत्वेन च श्रुत्यन्तरप्रसिद्धस्य ब्रह्मणो विकारा-स्पदेक्लेशकर्मादिहेयपरवशजगदैक्यं व्याहतत्वाच्छØतिर्न प्रतिपादयति ।। न व्याहतिः; हेयानामपारमार्थिकत्वादिति चेत्-अपारमार्थिकत्वेपि एतान्निरसनीयं नवा नचेत् तन्निवृत्यर्थं शास्त्रं अनर्थकं स्यात् । निरसनीयं चेत् निरसनीय-संबन्ध एव हेयसंबन्ध इति तत्प्रत्यनीकस्य तत्सम्बन्धित्वं व्याहतम् । किञ्च, बहु स्यामिति सङ्कल्पपूर्वकं बहुभवनं श्रूयते । सर्वज्ञस्य स्वेच्छया स्वस्मिन् हेयोपाद(योपादा)नमनन्वितमिति तत्प्रतिपादनमशक्यम् ।

असर्वज्ञत्वे, "पश्यत्यचक्षुः स #ृणोत्यकर्णः", "स्वाभाविकी ज्ञानबलक्रिया च", "यः सर्वज्ञः" इत्यादिश्रुतिविरोधः । हेयस्यापारमार्थ्येऽपि स्वसङ्कल्पेन स्वस्यानन्तापुरुषार्थभ्रमापादनं सर्वज्ञस्य नोपपद्यते । सार्वज्ञ्यस्याविद्यापरि-कल्पितत्वाभ्युपगमात् अविद्यापूवर्कमेव बहुभवनभ्रमरूपं सार्वज्ञ्यमिति न वाच्यम्; स्वाभाविकीति श्रुतेः; "त इमे सत्याः कामाः" इति सत्यत्वश्रुतेश्च । स्वसार्वज्ञ्यमाविद्यिकत्वेन मिथ्येति न जानातीति चेत्-सार्वज्ञ्यं न स्यात् । जानातीति चेत्-तेनैव ज्ञानेन बाधितत्वात् सार्वज्ञ्यं न स्यात् । ततश्च पूर्वजगदाकारपर्यालोचनेन स्वसङ्कल्पपूर्वकं जीवकर्मानुगुणसृष्टिर्नोपपद्यते । अतः सार्वज्ञ्यस्याविद्यिकत्वमनुपपन्नमिति सर्वज्ञस्य तस्य स्वगतहेयोपादनं (या-#ेपादानं) न घटते । किञ्च हेयं स्वगतत्वेन जानतः सर्वशक्तेस्तस्य सत्यसङ्कल्पस्य सहसैव स्वगतहेयानिरासकत्वमपि नोपपद्यते । अशक्तत्वे, "पराऽस्य शक्तिर्विर्विधैव श्रूयते स्वाभाविकी" इत्यादिश्रुतिविरोधः ।। ईदृशविरोधो नास्ति; श्रुतिबलादविरुद्धत्वस्याभ्युपगन्तव्यत्वादिति चेत्-तर्हि विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविन-श्यति", "न जायते म्रियते वा विपश्चित्", "वायुश्चान्तरिक्षं चैतदमृतम्", "आत्मनः आकाशः सम्भूतः", "न नमो न भूतिर्नेमे द्यावापृथिवी", "अन्तवदेवास्य तद्भवति", "नास्येष्टापूर्ते क्षीयेते" इत्यादिश्रुत्युक्तस्यात्मादीनां नित्यत्वानित्यत्वादेरपि श्रुतिप्रतिपन्नतया विरोधाभावादुभयमप्युपगन्तव्यम् । ततश्च सर्वत्र यथाप्रतिपन्नस्वीकारे हि मीमांसारम्भवैयर्थ्यं स्यात् । प्रस्तुतभेदाभेदश्रुत्योरपि पारमार्थिकापारमार्थिकविषयत्वेन सोपाधिकनिरुपाधि-कविषयत्वेन वा विभागकल्पनमनुपपन्नम्; तस्य विरोधपरिहारार्थत्वात्; विरोधस्य चाभावात् । ततश्च भेदपार-मार्थ्यसिद्धः । अतो विरोधोऽभ्युपगन्तव्यः । इह च विरोधोऽवगम्यते, "मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति" इति भेदप्रतिपत्तेः संसारहेतुत्वं श्रूयते । "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति", "जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः" इति भेदज्ञानस्य मोक्षोपायत्वं श्रूयते । "द्वैतिनो-ऽतथ्यदर्शिनः" इत्यादिस्मृतिविरुद्धम्, "द्वाविमौ पुरुषौ", "आविश्य विभर्त्यव्यय ईश्वरः...यस्मात् क्षरमतीतो-ऽहमक्षरादपि चोत्तमः" इत्यारभ्य, "यो मामेवमसंमूढो जानाति पुरुषोत्तम्" इति भेदज्ञानवतोऽसंमूढत्वं स्मर्थते । एवमादिवचनप्रतिपन्नस्य भेदस्य लोकसिद्धत्वाभावात्, निषेधार्थं भेदोऽनूद्यत इति वादोऽनुपपन्नः । किञ्च यदि भेदमात्रस्य लोकसिद्धत्वात्, अप्राप्ते हि शास्त्रमर्थवदिति न्यायात्, अभेद एव शास्त्रवेद्य इत्युच्यते-तर्हि सोऽयं

देवदत्त इत्यादावभेदमात्रस्य च लोकसिद्धत्वात् अप्राप्ते शास्त्रस्यार्थवत्त्वाच्च शास्त्रेणाभेदप्रतिपादनमयुक्तम् ।। देव-दत्ताद्यैक्यं हि लोकसिद्धम्, न जीवपरयोः । अतस्तयोरभेदः शास्त्रप्रतिपाद्य इति चेत्-तर्हि घटपटादिभेद एव लोक-सिद्धः, न तु जीवपरयोः । नियाम्यत्वनियन्तृत्वधार्यत्वधारकत्वशेषत्वशेषित्वव्याप्यत्वव्यापकत्वादिलक्षणभेदो न लोकसिद्ध इति न भेदः शास्त्रप्रतिपाद्य-एव । यथोक्तमाचार्यपादैः-

"न द्वैतं प्रतिपादयन्त्युपनिषद्वाचः प्रसिद्धं हि तत् किन्त्वद्वैतमनन्यगोचरतया तद्वेद्यमास्थीयताम् ।

अप्राप्ते खलु शास्त्रमर्थवदिति व्यर्थः प्रयासो यतः प्रख्यातादपरस्तु शास्त्रविषयो भेदस्त्वदद्वैतवत्" ।।

इति । अयञ्चार्थोऽनन्तरमेव भाष्ये वक्ष्यते । अतः, अनुवाद इति निर्वाहो नोपपद्यते ।।

भेदश्रुतिरुपासनार्था, न तु तत्त्वपरा, "पृथगात्मानं प्रेरितारं च मत्वा", "जुष्टं यदा पश्यत्यन्यमीशम्" इत्युपासनवाचिपदश्रवणादिति चेत्-तथापि तात्त्विक एव भेदः; तज्ज्ञानस्य मोक्षोपायत्वोक्तेः । तत्त्वज्ञानेन हि मोक्षः । न च फलविशेषायोपासनार्थत्वात् भेदश्रुतीनां भेदस्यातात्त्विकत्वं वाच्यम्; एक्यस्य चोपासनार्थत्वादसत्य-त्वप्रसङ्गात् । श्रूयते ह्यभेदस्योपासनार्थत्वम्-"अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद", "आत्मेत्येवोपासीत" इति । ऐक्यस्योपासनार्थत्वं भेदस्य च तात्त्विकत्वं युक्तम् । वैनतेयध्यानेन ह्यैक्यमारोपितं दृष्टम्; भेद एव हि नरेन्द्रवैनतेययोस्तात्विकः ।। विधिशेषभूतव्यतिरिक्तेष्वपि वाक्येष्वभेदः प्रतीयत इति तस्य तात्त्विकत्वमिति चेत्-तर्हि "क्षरं प्रधानममृताक्षरं हरः", "प्रधानक्षेत्रज्ञपतिर्गुणेशः", "ज्ञाज्ञौ द्वौ", "ऋतं पिबन्तौ", "द्वा सुपर्णा", "नित्यो नित्यानाम्" इत्यादि अविधिशेषभूतवाक्यावगतत्वाद्भेदस्यापि तात्त्विकत्वमवर्जनीयम् । उपास्तिफलभूतमुक्तिदशायामभेदात् अभेदपारमार्थ्यं चेत्-मुक्तिदशायां भेदश्रवणाद्भेदतात्त्विकत्वसिद्धिः । अत उपासनार्थत्वादपरमार्थविषयत्वेन भेदश्रुतिनिर्वाहो नोपपद्यते । भेदाभेदयोर्नियतपौर्वापर्यविरोधवत्त्वादपच्छेदन्या-यविषयत्वं सगुणत्वनिर्गुणत्वयोरिव न संभवतीति विरोधनयादुपक्रमनयाद्वा परभूतभेदनिषेधोत्पत्तिप्रतिबन्ध एव स्यात् । इदं च पूर्वमेव प्रपञ्चितम् ।

एवं न्यायानुगृहीतश्रुत्यन्तरविरोधस्यावर्जनीयत्वम्, एषां निर्वाहाणामनुपपन्नत्वं च प्रदेशान्तरोक्तमिहा-भिप्रेत्य, समीचीननिर्वाहं दर्शयति तदिति । जगत इति पदं ब्रह्मपयर्न्तम् । तस्य ब्रह्मकार्यतयेति पदेन ऐक्यादिति पदेन चान्वयः । तदन्तर्यामिकतयेत्यत्र सामर्थ्याज्जगत इत्यध्याहारः; तेन सकृत्प्रयुक्तस्य च (?) जगच्छब्दस्य निष्कर्षकत्वानिष्कषर्कत्वविरोधपरिहारः । "सर्वं खल्विदं ब्रह्म तज्जलान्" इत्युक्तं जगतस्तज्जत्वं तल्लत्वं चोपजी- व्याह ब्रह्मकार्यतयेति । ब्रह्मशब्दः कारणावस्थचिदचिद्धिशिष्टपरः । तदनत्वमुपजीव्याह-तदन्तर्यामिकतयेति । तच्छब्दो विशेष्यपरामर्शी; विशिष्टे प्रकृते विशेष्यांशस्यापि प्रकृतत्वात् । यथा "सन्मूलाः, सदायतनाः" इत्यत्र सच्छब्दस्य विशिष्टपरत्वं विशेष्यपरत्वञ्च, तद्वत् । तत् ब्रह्म अन्तर्यामि यस्य, तत् तदन्तर्यामिकम्; तद्भावेनेत्यर्थः ।

कथं तदनत्वेन तदन्तर्यामिकत्वसिद्धिः? उच्यते । अननं स्थितिः ब्रह्मणो जगत्स्थितिहेतुत्वञ्च अन्तः प्रविश्य प्रशासनेन धारकत्वम् "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः" इत्यत्र सन्मूलाः सत्प्रतिष्ठाः इति पदद्वयं सच्छब्दवाच्यब्रह्माधीनोत्पत्तिलयपरम् । प्रतिष्ठा-निष्ठा-पर्यवसानम्-लयः; न तु सदाधारत्वम्; सदा-यतना इति पुनरुक्तिप्रसङ्गात्; एवं ब्रह्मण उत्पत्तिलयहेतुत्ववाचिपदद्वयमध्यगतेन स्थितिहेतुत्ववाचिना सदायतना इति पदेन धायकत्वसिद्धेः, "एतस्य वा अक्षरस्य प्रशासने गार्गि! द्यावापृथिव्यौ विधृते तिष्ठतः" इत्यत्र तिष्ठतिधातू-क्तस्थितेः प्रशासनेन धारणाधीनत्वावगमात्, "अन्तःप्रविष्टः शास्ता जनानाम्" इति धारणहेतुभूतप्रशासनस्यान्तः-प्रविश्यक्रियमाणत्वश्रवणात्, "तद्यथा अरेषु नेमिरर्पिता नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्व-

र्पिताः प्रज्ञामात्राः प्राणे अर्पिताः", "मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव" इति श्रुतिस्मृतिभ्याम् अरनाभिमणिग-णसूत्रदृष्टान्ताभ्यामन्तःस्थिस्य धारकत्वावगमात्, "तत् सृष्ट्वा तदेवानुप्राविशत्" इत्युक्तानुप्रवेशस्य सृष्टयनन्तर-भावित्वादुदाहृतश्रुत्यैकार्थ्याच्च स्थित्यर्थत्वात्, "तत् सृष्ट्वा तदेवानुप्राविशत्" इत्युक्तानुप्रवेशस्य सृष्टयनन्तरभावि-त्वादुदाहृतश्रुत्यैकार्थ्याच्च स्थित्यर्थत्वात्, "सप्त प्राणाः प्रभवन्ति" इत्यादिवाक्योक्तप्रक्रियया सृष्टस्य च जगतः "तेनेदं पूर्णं पुरुषेण सर्वम्" इति वाक्येन स्थितिवेलायां व्यापकेन परमपुरुषेण पूर्णत्वावगमात्, सर्वशाखाप्रत्यय-न्यायेन व्यापननियमनधारणेष्वन्यतमोक्तावन्यतमस्य सिद्धत्वाच्च अनुप्रविश्य प्रशासनेन धारकत्वं स्थितिहेतुत्व- मिति ह्यवगम्यते । एवं तज्जलानिति वाक्यमुपजीव्योक्तं जगतो ब्रह्मकार्यतया तद्न्तर्यामिकतया चेति तदन्तर्या-मिकत्वमुभयलिङ्गस्य ब्रह्मणः परमाथर्जगदुपादानत्वान्यथानुपपत्तिसिद्धम्, घटकश्रुतिसिद्धञ्च ।

चशब्दस्योत्तरत्रान्वयः, तदन्तर्यामिकतया तदात्मकत्वेन चेति । स आत्मा यस्य तत् तदात्मकम्; तदन्तर्यामिकत्वरूपेण तदात्मकत्वेनेत्यर्थः । अन्तःप्रविश्य नियन्ता ह्यात्मा । ब्रह्मकायर्तया तदन्तर्यामिकतया तदात्मक-त्वेन चेत्युक्ते हेतुत्रयशङ्का स्यादिति तद्वयुदासार्थः चशब्दस्य प्राक्प्रयोगः । एवमुभयविधैक्यस्य विहि-तत्वादित्यर्थः ।

ननु ऐक्यस्य कार्यकारणभावनिबन्धनत्वे कार्यावस्थजगाद्विशिष्टस्य कारणावस्थचिदचिद्विशिष्टब्रह्मणा स्वरूपैक्यं युक्तम् । तदन्तर्यामिकत्वनिबन्धनत्वे तु न ब्रह्मणा ऐक्यम्, किन्तु प्रकारिणो ब्रह्मण एकत्वसंख्यान्वय एवेति ऐक्यशब्दस्यार्थभेदः स्यात् । ततश्च जगतस्तदात्मकत्वेनैक्यादिति वक्तुमयुक्तम्, प्रकारप्रकारिणोर्भिन्न- त्वात् ।। नैवम्; जगद्व्रह्मणोभिर्न्नत्वेऽप्यत्र जगच्छब्दो जगद्विशिष्टब्रह्मपर इत्युक्तत्वात् । ऐक्यशब्दस्य च नार्थभेदः; उभयथाऽपि विशिष्टैक्यपरत्वात् । तथाहि-कार्यकारणभावनिबन्धनमैक्यं नाम अवस्थाद्वयापन्नचिदचिद्विशिष्ट-वस्त्वेकत्वम्; यथा रूपस्पर्शादिविशिष्टघटस्य तादृशमृद्दृव्येणैक्यम् । चिदचिदात्मकजगद्विशिष्टस्य स्वरूपेण गुणैश्च निरतिशयबृहत्त्वविशिष्टस्य चैक्यं प्रकार्यैक्यम्; यथा नैल्यविशिष्टस्य उत्पलत्वविशिष्टस्य चैक्यम् । न च विशेषणांशैक्याभावाद्वस्त्वैक्यहानिः; मृद्घटादावपि स्वरूपस्य रूपस्पर्शादीनां कार्यत्वकारणत्वावस्थयोश्चैक-त्वाभावात् । इयान् विशेषः-कार्यकारणभावे भिन्नकालीनावस्थारूपसद्वारकविशेषणाश्रयधर्म्यैक्यम्, यथा स एवायं तरुणोऽभूदिति । अन्यत्र समकालसंबन्ध्यद्वारकानेकविशेषणाश्रयधर्म्यैक्यम्, यथाऽयं वेदविद्व्राह्मण इति । बाल्ययौवने भिन्नकालीनसद्वारकावस्थे । वेदनं ब्राह्मणशरीरं च समकालवर्त्यद्वारकविशेषणम् । एवमुभयविध-विशेषणविशिष्टधर्म्यैकत्वमैक्यशब्दार्थः । अतो जगच्छब्दवाच्यधर्म्यैक्यात् जगत ऐक्यादिति निर्देश उपपन्नः ।

यद्वा कृत्स्नस्य जगत इति निष्कर्षकः शब्दः; ब्रह्मशब्दोऽपि विशेष्यमात्रपरः; कार्यावस्थां प्रति आधार-त्वात् । आधारत्वं च साक्षाद्वा परम्परया वा मुख्यमेव । अतो ब्रह्मकार्यं जगत् । तदन्तर्यामिकशब्दो व्याख्यातः । एवं ब्रह्मकार्यतया तदन्तर्यामिकतया च जगतः तदात्मकम् । तदात्मकत्वं नाम जगतस्तत्प्रकारतैकस्वभावतया पृथगवस्थानाभावात् तदन्तर्गतत्वम् । तेन प्रकारेणैक्यम्; न तु स्वरूपैक्यम् ।विशिष्टान्तर्भाव-एवैक्यमित्यर्थः । तत्प्रत्यनीकनानात्वमिनि । विहितोभयविधैक्यप्रत्यनीकनानात्वं निषिध्यत इत्यर्थः । कार्यकारणभेदः कुतर्कमूल-भ्रान्तिविषयः स्वनिष्ठभेदो लौकिकप्रतीतिमूलभ्रान्तिविषयः । अतो भ्रन्तिमूलत्वाविशेषात् विहितैक्यप्रत्यनीक-त्वाविशेषाच्च तेनाकारेणोभयविधं भेदं नानाशब्देन परामृश्य निषिध्यत इति न वाक्यभेदः । तत्प्रत्यनीकेति । ऐक्यविधिशेषभूतो भेदनिषेधः; अन्वयमुखेनोक्तार्थस्थिरीकरणार्थत्वाद्वयतिरेकोक्तेः । ऐक्यविधिश्च, "नेह नाना-स्ती"ति प्रकरणे श्रूयते, एकधैवानुद्रष्टव्यमिति । एकधा-एकतया परमात्मशरीरतयैकप्रकारेणेत्यर्थः । तथा "अह-

मेकः प्रथममासं वर्तामि च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः", "आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत्", तथा "परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते", "अहं हरिः सर्वमिदं जनार्दनो नान्य- त्ततः कारणकार्यजातम्", "तदच्युतो नास्ति परं ततोऽन्यत्" इत्यादिषु चैक्यविधिशेषतया भेदनिषेधो दृश्यते । शेषत्वं च विहितैकत्वस्थिरीकरणलक्षणकिञ्चित्कारेण भवति । यादृशमैक्यं विहितम्, निषेधस्य तादृशैक्यविरोधि-भेदविषयत्वे सति तत्स्थिरीकरणार्थत्वं सिद्धयेत् । न त्वविरोध्यर्थान्तरनिषेधस्तदुपयुक्तः । न हि मृदेव घट इत्युक्ते घटद्वित्वनिषेधो मृद्घटैकत्वोपकारकः, घटद्वित्वस्य मृह्यटैकत्वारिरोधित्वात् । नाप्येको घट सत्युक्ते घटमत रूप-परिणामादि निषेधो घटारव्य धमैक्यविधेः उपकारकः रूपपरिमाणादिभेदस्य घटव्यक्तयैक्याविरोधित्वात् । विधे-यविरोध्यर्थनिषेध एव हि विध्युपकारकः । किञ्च न केवलमुपकाराभावः; ऐक्यविधिविरुद्धं च कृत्स्नभेदनिषेधपर-त्वम्; समानाधिकरणवाक्येनैक्यविधानात् । भिन्नविशेषणाभिधायिशब्दानामेकविशेष्यवृत्तित्वं हि सामानाधिकर-ण्यम् । न च प्रकारभेदे तिष्ठति कृत्स्नभेदनिषेध उपपद्यते । अतो भेदनिषेधस्यैक्यविधिशेषत्वात् कार्यकारणभेदः स्व-निष्ठभेदश्च निषिध्यत इत्यभिप्रायः । किञ्च, "न चास्य कश्चिज्जनिता न चाधिपः", "न तत्समश्चाभ्यधिकश्च दृश्यते", "तेनार्हति ब्रह्मणा स्पर्द्धितुं कः", "न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव" इत्यादिभिः स्वतन्त्ररूपवस्तुविशेषविषयनिषेधदर्शनात् सामान्येनावगतो भेदनिषेधः तत्र छागपशुन्यायेन पर्यवस्यतीत्यर्थ- सिद्धम् । तत्प्रत्यनीकनानात्वमित्युक्तत्वात्; केषुचिद्वाक्येषु तस्य कण्ठोक्तत्वाच्च ।

अथ उत्सर्गापवादन्यायमभिप्रयन्नाह न पुनरिति । ब्रह्मणः कायर्रूपेण नानात्वविषयश्रुतिवाक्योदाहरणं प्रकारनानात्वविषयवाक्यानामपि प्रदर्शनार्थम् । "एकः सन् बहुधा विचचार", "एको देवो बहुधा निविष्टः" "त्वमे-कोऽसि बहूननुप्रविष्टः", "योऽव्यक्तमन्तरे सञ्चरन् यस्य मृत्युः शरीरम् एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः" इति प्रकारनानात्वं प्रकार्येकत्वं च हि स्पष्टं श्रूयते । यद्वाछान्दोग्ये तैत्तिरीये च बहु स्यामिति प्रकरणे, "अनेन जीवेनात्मनाऽनुप्रविश्य", "तदनुप्रविश्य सच्च त्यच्चाभवत् निरुक्तञ्चानिरुक्तं च निलयनं चानिल- यनं च विज्ञानं चाविज्ञानञ्च" इति चिदचिदनुप्रवेशपूर्वकनामरूपभाकत्वश्रवणात् उभयलिङ्गस्या(प्य)व्यवधानेन जगदुपादानत्वानुपपत्तेश्च । बहु स्यामित्यत्रापि ब्रह्मणो बहुनामरूपभाकत्वस्य सद्वारकत्वसिद्धेः शरीरतया प्रकार-भूतचिदचिन्नानात्वमर्थसिद्धमित्यभिप्रायेण बहुस्यामिति वाक्यमुदाहृतम् । एवं कार्यनानात्वस्य प्रकारनानात्वस्य च विहितत्वात्, सामान्यनिषेधस्य च विहितव्यतिरिक्तविषयत्वाच्च कुतर्कसिद्धकार्यकारणभेदविषयाः लौकिकप्रती-तिसिद्धस्वनिष्ठभेदविषयाश्च भेदनिषेधश्रुतय इत्यर्थः ।

नानात्वनिषेधादपरमार्थविषयत्वं शङ्कते नानात्वेति ।इयम्-श्रुतिः निषेधार्थमनूद्यत इति भावः । परिहरति नेति । अप्राप्तस्यानुवादायोगात् ।अतो विषयविभागादविरोध एव न्याय्यः एतदुक्तमाचार्यपादैः,

"यद् ब्रह्मणो गुणशरीरविकारभेदकर्मादिगोचरविधिप्रतिषेधवाचः ।

अन्योन्यभिन्नविषया न विरोधगम्धमर्हन्ति तन्न विधयः प्रतिषेधबाध्याः ।।" इति ।

समस्तहेयरहितस्य हेयाकरस्त्वैक्यासंभवात्, हेयस्यापारमार्थ्येऽपि तस्य निरसनीयतया हेयत्वस्यावर्ज्ज-नीयत्वात्, तत्प्रतिभटतयोक्तस्य तत्संबन्धार्हवस्त्वैक्यव्याघातात्, सर्वज्ञस्य ब्रह्मणः स्वसङ्कल्पेन स्वगतहेयत-द्विषयभ्रमापादनायोगात्, असर्वज्ञत्वे र्सावज्ञ्यश्रुतिविरोधात्, सर्वशक्तेः स्वगतहेयानिवारकत्वायोगात्, अशक्तत्वे सर्वशक्तिश्रुतिविरोधात्, श्रुतिबलादीदृशविरोधाभावे "तान्येवानुवि#िनश्यति" "न जायते म्रियते वा" इत्यादिवाक्य-प्रतिपन्ननित्यत्वानित्यत्वनिर्गुणत्वसगुणत्वादेः श्रुतिबलाद्विरोधाभावेन क्कचिदपि न्यायसञ्चारानपेक्षतया मीमांसा-

नैरर्थक्यात्, भिन्नत्वाभिन्नत्वयोश्च विरोधाभावेन पारमार्थिकापारमार्थिकत्वेन विभागस्यानभ्युपगन्तव्यत्वात्, "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति", "जुष्टं यदा पश्यत्यन्यमीशम्" इति पृथक्यत्वज्ञानस्य मोक्षोपायत्वश्रवणात्, "यस्मात् क्षरमतीतोऽहम्" इत्यादिना भेदज्ञानवतोऽसम्मूढत्वस्मरणात्, जीवपरयोर्निय-न्तृत्वनियाम्यत्वादिलक्षणभेदस्य घटपटभेदवत् प्रमाणान्तरागोचरत्वेनानुवादासम्भवाद्विहितस्य निषेधायोगात् उपासनार्थत्वाश्रयणस्य "अथ योऽन्यां देवताम्" इत्यादिवाक्यप्रतिपन्नैक्येऽपि प्रसङ्गात्, ऐक्यस्याविधिशेषवा-क्यप्रतिपन्नत्वे भेदस्य च तुल्यत्वात्, नियतपौर्वापर्यविरोधतया अपच्छेदन्यायाविषयत्वात्, विरोधाधिकरणन्या- येन भेदश्रुतेः परभूतनिषेधोत्पत्तिप्रतिबन्धकत्वात्, ऐक्यविधिशेषस्य भेदनिषेधस्य विहितैक्यविरोधिभेदनिषेधक-त्वोपपत्तेः, अन्यथा सामानाधिकरणवाक्यप्रतिपन्नस्वशेषिभूतैक्यविरोधित्वप्रसङ्गात्, उत्सर्गापवादन्यायेन निषे- धस्य विहितभेदव्यर्तिरिक्तविषयत्वात्, छागपशुन्यायेन भेदनिषेधस्य सामान्येन स्वतन्त्रभेदविशेषनिषेधपर्य-वसायित्वाच्च भेदनिषेधश्रुतयोऽब्रह्मात्मकनानात्वनिषेधपराः; न तु भेदमात्रनिषेधपरा इति सङ्ग्रहः ।

यत्रहीत्यादिवाक्यानामयमर्थः-यत्र यद्वा द्वैतमिव भवति-स्वनिष्ठभेद इव भवति । इवशब्दः स्वनिष्ठ-भेदस्यातात्त्विकत्वद्योतकः । कथमिवेतिवत् वाक्यभङ्गिरित्यविवक्षितार्थो वा । तत्-तदा । इतर इतरमितरेण पश्यति । केनेति वक्ष्यमाणत्वादितरेणेत्यध्याहारः । इतरः-स्वनिष्ठो द्रष्टा । इतरम्-स्वनिष्ठं द्रष्टव्यम् । स्वनिष्ठ-दर्शनसाधनेन पश्यति । यत्र तु-यदा । अस्य-उपासकस्य । सर्वमात्मैवाभूत-परमात्मसामानाधिकरण्येन सर्वं साक्षात्कृतम् । न हि पूर्वमनात्मभूतमिदानीं सर्वमात्मा भवति । अतः साक्षात्काराभिप्रायः अभूदिति निर्देशः, अस्येत्युक्तेः । तत्-तदा । क इत्यध्याहारः; इतर इत्युक्तत्वात् । तत्-तदास्वनिष्ठः को द्रष्टा स्वनिष्ठेन केन दर्श-नसाधनेन स्वनिष्ठं कं द्रष्टव्यमर्थं पश्येत् । ज्ञातृज्ञेयज्ञानसाधनेषु स्वनिष्ठं किञ्चिदपि नास्तीत्यर्थः । प्रमितनिषेधा-योगादापा-तप्रतीतिसिद्धस्यैव निषेध्यत्वाल्लौकिकप्रतीतेश्च स्वनिष्ठताविषयत्वात् तेन रूपेणैव निषेधविषयत्वोप- पत्तेः । यदि द्रष्टृदृश्यादिमात्रं निषिध्यते, तदानीं "तद्धैतत् पश्यन् ॠषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूयश्च" इति परमात्म-साक्षात्कारदशायाम् अहमिति द्रष्टुरात्मनो मनुसूर्यादिदृश्यपदार्थानां च साक्षात्कारश्रवणं विरुध्यते । तस्मात् लौकिकप्रतीतौ द्रष्टृदृश्यादिकं प्रकारिभूतपरमात्माप्रतिपत्तेस्तत्सामानाधिकरण्यमन्तरेण स्वनिष्ठतया भाति । योगदशायां तु प्रकारिणः परमात्मनः प्रतीयमानत्वादहंशब्दवाच्यपरमात्मसामानाधिकरण्येन प्रकाशत इति वैष- म्यम् । न तु द्रष्टृदृश्यादीनि प्रतिषिध्यन्त इत्यक्युपगन्तव्यम्; अन्यथा वामदेवादिदशर्नस्य भ्रान्तित्वप्रसङ्गात् ।

नेह नानेति । इह-प्रपञ्चे । लोकदृष्टप्रकारेण नानाभूतं स्वनिष्ठतया भिन्नं किञ्चिदपि नास्तीत्यर्थः । स्व-निष्ठदर्शनेन प्रत्यवायमाह मृत्योरिति । "तमसो वा एष तमः प्रविशति" इतिवन्निर्देशः । नानेव-स्वनिष्ठमिव । अज्ञा-नादज्ञानमाप्नोतीत्यर्थः । देहातिरक्तिविषयाज्ञानं प्रागेव सिद्धम् ततोऽप्यतिशयितमज्ञानं स्वनिष्ठतया तद्वस्तुदर्शन-मित्यभिप्रायः ।

यदा ह्येवैष इत्यादिश्रुतिमुपादाय तत्र ब्रह्मणीत्यादिना पूर्वपक्षिणोक्तमर्थमनूद्य दूषयति तदसदिति । तद-सत्-भयप्राप्तिहेतुत्वं नेत्यर्थः । कुत इत्यत्राह सर्वमिति । ब्रह्मणः कायर्जगद्रूपेण नानात्वानुसन्धानं मुक्तिहेतुरिति सिद्धान्तार्थः । इदानीं परोक्तं शान्तिहेतुत्वमभ्युपगम्योक्तम् । कथं तत्र नानात्वानुसन्धानप्रतीतिः, कथं वा तस्य भयप्राप्तिहेतुताविरोधित्वमिति शङ्कायामेतद्विवृणोति तथाहीति । अत्र नानात्वानुसन्धानप्रतीतिं दर्शयति सर्वस्येति । न हि केवलं ब्रह्मेत्युक्तम्; अपितुं इदं सर्वं ब्रह्मेत्युक्तम् । सर्वशब्दश्च विविधभेदप्रपञ्चपरः । अतो नानात्वविशिष्ट-ब्रह्मानुसन्धानं प्रतीतमित्यर्थः । ततः किमित्यत्राह अत इति । नानात्वानुसन्धानस्य शान्तिहेतुत्वद्वारा समस्तभय-

निवृत्तिरूपमोक्षोपायत्वात् भेदबुद्धेर्भयप्राप्तिहेतुत्वोक्तिस्तद्विरुद्धेत्यर्थः ।। ननु मणिकृपाणदर्पणादिगतप्रतिबिम्बे- ष्विव देहेषु रागद्वेषादिनिवृत्त्यर्थं सर्वस्य ब्रह्मण्यध्यस्ततानुसन्धानविधिः किं न स्यात् । नैवम्; प्रवृत्तिनिमित्तभेदे-नैकार्थवृत्तित्वंहि सामानाधिकरण्यमित्युपपादितत्वात् बाधार्थत्वस्य वक्ष्यमाणदूषणोपहतत्वाच्च । अथ चोद्यपूर्व-कमेतच्छØत्यर्थमाह इदमुच्यत इति । अदृश्य इत्यचिद्वयावृत्तिः । अनात्म्य इति बद्धव्यावृत्तिः; स हि परमात्मना व्याप्यः । यद्वा आत्म्यम्-व्याप्यं कर्मकृतशरीरम्; तद्रहितोऽनात्म्यः । अनिरुक्त इति मुक्तव्यावृत्तिः; स हि बद्धा-वस्थायां देवादिशब्दैर्निरुक्ताः । अनिलयन इति नित्यमुक्तव्यावृत्तिः; तेषामपि हि भगवान् आधारः । स्वोक्ताथर्विष-यमुपबृंहणं दर्शयति यथोक्तमिति । हानिः-इष्टहानिः । छिद्रम्-अनिष्टप्राप्तिरन्ध्रम् । भ्रान्तिः-तत्कृतचित्तस्खलनम् । विक्रिया-तेनाङ्गानाम् अवशात् अयथायथाव्यापारः । "एक स्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुषि- तेनेव युक्तमाक्रान्दितुं भृशम् ।। ", "वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैश- सम् ।।" इत्यादिवचनानि आदिशब्दविवक्षितानि । भेदवाचिनोऽन्तरशब्दस्य विच्छेदार्थकत्वं कथमित्यत्राह-ब्रह्मणीतिं । अविच्छिन्नं हि ध्यानं निरन्तरमित्युच्यते । अतोऽन्तरं विच्छेद एव । स कस्येत्यपेक्षायां प्रतिष्ठायाः प्रकृतत्वात् तस्याः विच्छेदः । प्रकृतब्रह्मविषये, "तदप्येष" इत्युदाहृते, भीषाऽस्मादित्यनन्तरश्लोके वायुसूर्यादिसर्व-चेतनप्रशासितृत्वकथनादन्तरशब्दस्योपासनविच्छेदपरत्वमेव युक्तम्; न तु भेदपरत्वम् । अतोऽयमर्थः पूर्वापरवाक्य-श्रुत्यन्तरानुगुणः उपबृंहणानुगुणश्च; परोक्तस्तु तदुभयविरुद्ध इति भावः ।।

ननु यदा ह्येवैष इत्यत्र प्रतिष्ठाविच्छेदोऽर्थश्चेत्, एतस्यामिति स्त्रीलिङ्गता स्यात् ।। अदितिः पाशानिति न्यायात् विभक्यवगतनपुंसकत्वाविवक्षेति चेत्-तथाप्यस्वारस्यमवर्जनीयम् । तच्च स्वरसार्थे संभवति नोपपद्यते । सप्तमी चास्वरसा । तस्य विच्छेद इति ह्युक्तिः स्वरसा; न तु तस्यां विच्छेद इति । प्रातिपदिकास्वारस्यं च प्रति-ष्ठापरत्वे स्यात् । पूर्ववाक्ये, "यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्ये" इति ब्रह्मपरतया प्रयुक्तस्य एतस्मिन्निति पदस्या-नन्तरवाक्येपि बुद्धौ विपरिवृत्तेः ।। उच्यते । न तावाल्लिङ्गसप्तम्योः प्रातिपदिकस्य चास्वारस्यम्, ब्रह्मपरामर्शित्वा-देतच्छब्दस्य । अन्तरशब्दश्चावकाशपरः; निरन्तरं सान्तरमिति प्रयोगात् । अन्तरञ्च देशतः कालतश्च भवति । काल-कृतं चान्तरं विच्छेद एव ।। नन्वेवंसति कस्य विच्छेद इत्यपेक्षायाम्, प्रतिष्ठाया अन्तरमित्यध्याहारः स्यात् । तच्चा-युक्तम्, अनध्याहारेण निर्वाहसंभवादिति चेत्-न; संनिधिलब्धस्यार्थस्याध्याहारनिरपेक्षत्वात् ।। अथाप्यस्वारस्य-मिति चेत्, तद्वरम् । पक्षान्तरे बह्वस्वारस्यसंभवात् । तथाहि-भयहेतोरभयहेतुप्रतियोगित्वादभयहेतुपरप्रतिष्ठापद-स्यैक्यवाचित्वाभावाद्वाक्यवृत्तेरसामञ्जस्यम् । तत्सामञ्जस्याय प्रतिष्ठाशब्दस्यैक्यपरत्वे मुख्यार्थहानिः । दृढसंबन्धो हि प्रतिष्ठा; यथा राज्ये प्रतिष्ठित इति । प्रथमप्रतिपन्नप्रतिष्ठापदस्यार्थभङ्गश्चानुपपन्नः । पूर्वसिद्धैक्यावगतिपरत्वात् विन्दतिधात्वर्थस्यास्वारस्यञ्च । सप्तमी चास्वरसा; भेदप्रतियोगित्वावधित्वसम्बन्धविवक्षायां तृतीयापञ्चमीषष्ठी-नामेव स्वारस्यात् । करोतेः प्रतिपत्त्यर्थत्वादस्वारस्यञ्च । मनसि कुरुत इति योजनायामध्याहारः । एष ह्येवान-न्दयातीति पूर्ववाक्यप्रतिपन्नभेदविरोधश्च । अनन्तरं च भीषास्मादिति प्रशासितृत्वेन भेद उच्यते । अतो मध्ये भेदनिषेधश्चानुपपन्नः । "आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन", "कदाचन" इति पूवापरवाक्येषु गुणविशिष्ट-वेदनस्याभयहेतुत्वोक्तेः ब्रह्मणि भेदनिषेधस्याभयहेतुत्वकथनं च विरुद्धम् । ब्रह्मविदाप्नोतीति विद्युपक्रमत्वाच्च ब्रह्मणि प्रतिष्ठाया वेदनरूपत्वमेव युक्तम् ; न त्वैक्यरूपत्वम् । न ह्यैक्यतद्बुद्धयोरुभयस्य च प्रतिष्ठाशब्दवाच्य- त्वम् । दृढसम्बन्धवाचिनः प्रतिष्ठाशब्दस्य तु उपास्यं ब्रह्म प्रत्युपासकतया सम्बन्धे पर्यवसानं युक्तम् ।।

ब्रह्मणो निर्विशेषत्वे व्यतिरिक्तमिथ्यात्वे च परोक्तं सूत्रद्वयं परिहरति यदुक्तमिति ।

अथ स्मृतिपुराणयोः सविशेषपरत्वमुपपादयति । स्मृतीत्यादिना । स्मृतिपुराणयोरिति । सामान्येन प्रमा-णस्य तदवान्तररूपस्य शब्दस्य च सविशेषवस्तुपरत्वोपपादनात्, शास्त्रस्य प्रत्यक्षविरुद्धार्थप्रतिपादनासामर्थ्योप-पादनात् विशेषेण वेदान्तवाक्यानां सविशेषपरत्वोपपादनेन स्मृतिपुराणयोः श्रुतिविरुद्धार्थे प्रामाण्यासम्भवाच्च तयोः सविशेषपरत्वं सिद्धम् । इदानीं स्मृतिपुराणयोरपि परोदाहृतवचनानां पूर्वापरपर्यालोचनया सविशेषपरत्वमुपपाद्यते । यथा लौकिकप्रमाणश्रुतिविरुद्धान् अर्थान्नेदं शास्त्रं प्रतिपादयति, एवमेव पूर्वापरवाक्यविरुद्धमप्यर्थं न स्मृतिपुराणानि प्रतिपादयितुं शकनुवन्तीत्यभिप्रायः । परेण सर्वस्यारपिऽऽविद्यिकत्वाविशेषेण स्वाभाविकवक्तृवैषम्यानभ्युपगमाद-द्वैतस्पष्टताभ्रमाच्च पूर्वं पुराणवचनान्युपन्यस्य पश्चाद्भगवद्गीतावचनान्युदाहृतानि । अत्र तु स्वाभाविकवक्तृवैषम्या-भ्युपगमादनन्तगुणविभूतिमत्वस्य स्पष्टतया च भगवद्गीतावचनानि पूर्वमुपन्यस्य पश्चात् पुराणवचनानि प्रदर्श्यन्ते; अतः स्मृतिपुराणयोरित्युक्तम् । परेण स्वोदाहृतवचनप्रतिपाद्यतया योऽर्थोऽभिहितः, तद्विपरीतार्थपरत्वेन स्पष्टत-मानि वचनानि प्रथमं प्रदर्श्यन्ते, पश्चात्तदविरोधेन परोक्तवचनानामर्थप्रति-पादनार्थम् । यो मामिति । अत्र अज-मिति पदेन अचित्तत्संसृष्टचेतनव्यावृत्तिः । अनादिमिति मुक्तव्यावृत्तिः । तस्याजत्वं हि आदिमत् । लोकमहेश्वर-मिति । नित्यमुक्तव्यावृत्तिः । लोक्यत इति लोकः प्रमाणसिद्धत्रिविधचेतनाचेतनवर्गः, अत्रोत्तरार्द्धो(द्धार्थो)ऽप्यनु-सन्धेयतया अभिप्रेतः, "असम्मूढः स मर्त्येषु" इति । चेतनाचेतनविलक्षणत्वेन जानन्नसम्मूढ इति कथनात् सर्व-वैलक्षण्यं तात्त्विकमित्युक्तं भवतीत्यभिप्रायः । धारकत्वादिभिर्वैलक्षण्यं वैशद्यार्थमुपादत्ते मत्स्थानीति । अत्र शरीरलक्षणं सूचितं भवति । सर्वभूतानि मदायत्तस्थितीनि; नाहं तदायत्ता-स्थितिरित्यर्थः । लोकदृष्टप्रकारेण नाहमाधारः, अपि तु सङ्कल्पमात्रादित्याह न चेति । निषेधस्य विहितव्यतिरि-क्तविषयत्वादयमेवार्थः । योगमै-श्वरम्-ईश्वरासाधारणं सर्वशक्तियोगमित्यर्थः । न च मत्स्थानीति धारकत्वपार-मार्थ्यनिषेधश्चेत् -योगमैश्वरं पश्येति विरुद्धम् । मम भ्रान्ति पश्येति हि तदा वक्तव्यम् । योगमैश्वरमित्येतद्विवृण्वन् इममेवार्थमाह भूतभृदिति । ममात्मा-मम सङ्कल्प इत्यर्थः । आत्मशब्दो हि मतिवाची, "यत्नेऽर्केऽग्नौ मतावात्मा" इति । अतोऽत्र आत्म- शब्दः सङ्कल्परूपज्ञानवाची । "ममात्मा भूतभावनः" इत्यनेन "न च मत्स्थानि भूतानि" इत्यस्यार्थः स्पष्टीकृतः । भूतभावनः-भूतानां सत्तानुवतर्कः । अर्वाचीनस्येश्वरस्य हि सगुणत्वमिति शङ्कायां कारणातिरिक्तवस्तुनिषेध-प्रदर्शनार्थं लक्षणप्रदर्शनार्थं च जगत्कारणत्वमाह-अहमिति । प्रभवः प्रलयश्चोक्तः; स्थितिस्तु धारकत्वकथनेन सिध्यतीति धारकत्वं विशिनष्टि मयीति । विष्टभ्याहमित्यनेन नियन्तृत्वमुक्तम् । विष्टम्य-अधिष्ठाय । एकांशेन-सङ्कल्पैकदेशेन । तच्च शरीरित्वलक्षणम् । योमामजमित्यादिनाऽभिप्रेतचिदचिद्वैलक्षण्यकण्ठोकिं्त दर्शयति उत्तम इति । पूर्वस्मिन् वचने क्षराक्षरशब्दोक्तौबद्धमुक्तौ । कूटस्थः-निर्विकारः; ज्ञानसङ्कोचरूपविकाराभावान्मुक्तस्य । कूटस्थशब्दः साधारणवाची वा; सर्वेषु लोकेषु कामचारो भवतीति मुक्तात्मनः उभयविभूतिसाधारणत्वात् कूटस्थ-त्वम् । परमात्मेत्युदाहृत इत्यनेन "परत्मात्मा व्यवस्थितः" इत्येतद्वाक्यान्वितो नारायणानुवाकः स्मारितः; अक्ष-रादपि चोत्तम इत्यनेन च । तत्रैव हि, "सोऽक्षरः परमः स्वराट्" इत्युक्तम् । ज्ञानसङ्कोचरूपक्षरणाभावादक्षरो मुक्तः । स्वराट्-स्वतन्त्रः, अकर्मवश्यः । परमः-जीवगतावस्थासु अतःपरमुत्कृष्टावस्थान्तराभावात् पारम्यम् । सर्वाणीति पदं ब्रह्मशिवाद्यभिप्रायम् । तस्मिन्ननुवाके हि, "स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट्" इति बद्धमुक्तजीववाचिपदैः समानाधिकृतैर्भगवानुक्तः । तत्र "विश्वमेवेदं पुरुषः" इति च सामानाधिकरण्यवाक्यं श्रूयते । सामानाधिकरण्यहेतुश्च तस्मिन्नुवाके स्पष्टः । "तद्विश्वमुपजीवति", "पतिं विश्वस्यात्मेश्वरम्", "व्याप्य नारायणः स्थितः" इति च वाक्यजाते धार्यत्वधारकत्वनियन्तृत्वनियाम्यत्व-शेषित्वशेषत्व-व्याप्यत्वव्यापकत्वादिकमेव

सामानाधिकरण्यनिबन्धनम्, न तु तद्#ै(द्रव्यै)क्यमिति स्पष्टम् । तदत्राप्युच्यते । आ-विश्येति "व्याप्य नारायणः स्थितः" इत्यस्याथर् उक्तः । "पतिं विश्वस्ये"त्यस्यार्थः ईश्वरशब्देनोक्तः । ईश्वरशब्दो हि शेषिवाचकः । अत एव हि, "पतिं विश्वत्यात्मेश्वरम्" इत्यत्र पत्यन्तरराहित्यविवक्षायामात्मेश्वर इत्युक्तम् । "तद्वि-श्वमुपजीवती"त्यस्यार्थो विभर्तीत्युक्तः । तथा (तथा च?) "व्यापनाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः" इति । "यो मामेवमसंमूढः" इति कृत्स्नवैलक्षण्यज्ञानवतोऽसम्मूढत्वमुक्तम् । "इति गुह्यतमं शास्त्रम्" इति तस्यार्थस्य गुह्य-तमत्वमुक्तम् । अतोऽस्मि-न्नर्थे तात्पर्यमिति स्पष्टम् । पुरुषोत्तम-शब्दस्य समासासाधुत्वमशङ्कनीयम्; "नागोत्तमादि च सिद्धं भवति" इति महाभाष्यवचनात् । पाणिनिवत् पुरुषोत्तमशब्दनिर्वाहकृतामृषीणामाप्ततमत्वाच्च । पुरुषोत्तम इति पञ्चमीसमा- सो वा; अक्षरादपि चोत्तम इति ह्युक्तम् । पूर्वनिपातस्तु सामानाधिकरण्यविवक्षायामेव, न तु तदविवक्षि#ायामपीति नानुशासनविरोधशङ्काप्रसङ्गः । एवमेभिर्वचनैश्चिदचिद्वैलक्षण्यस्य प्रतिपादितत्वात् "क्षेत्रज्ञं चापि मां विद्धि" इत्या-देस्तदविरोधेनार्थो वर्णनीयः । "यो लोकत्रयमाविश्य विभर्ति" इत्यादिना कृत्स्नस्य भगवच्छेषत्वधार्यत्वनियाम्य-त्वव्याप्यत्वशरीरत्वादेर्विहितत्वात् तस्य च निषेद्धुमयुक्तत्वात्, "न तदस्ति विना यत् स्यात्" इत्यादिना अतदा-त्मकस्य नास्तित्वमुच्यते । अविनाभावशब्दस्य मिथ्यात्वपरत्वेन प्रसिद्धयभावाच्च तथा-भ्युपेत्यमित्यभ्रिपायः । विनाशब्दो हि सम्बन्धविरहपरः; अविनाभावशब्दस्य सम्बन्धनियमवाचित्वात् ।

अथ पुराणवचनान्युपन्यस्यन्ते । तत्र प्रत्यस्तमितभेदमित्यस्य वचनस्यार्थं व्याचिख्यासुः तदुपयोगित्वेन तदुपक्रमोपसंहारयोः सविशेषपरत्वं दर्शयिष्यन् उपक्रमवचनान्युपादत्ते स सर्वेति । तत्र प्रथमग्रन्थो हेयप्रत्यनीकत्व- परः । सर्वभूप्रकृतिम् प्रधानम् । विकारान् महदादीन् । गुणादिदोषान् सत्त्वरजस्तमोहेतुकान् दोषान् । ते दोषाः क्लेशादयः । व्यतीतः-विशेषेणातीतः; नियमेन (अ)तत्परवशतया सम्बन्धानर्ह इत्यर्थः । अतीतसर्वावरणः । आवरणम्-प्रकृतिसंबन्धकर्मवासनादिकम् । तत् सर्वमतीतं येन, स इत्यर्थः । यद्वा सर्वविषयज्ञानावरणं सर्वावर- णम् । सर्वविषयज्ञानसङ्कोचम(चा)तीत इत्यर्थः; ज्ञानशक्त्यादिसवर्गुणसङ्कोचकातीत इति वाऽऽर्थः । अखिला-त्मत्वं विवृणोति तेनेति । न तु मृदात्मको घट इतिवदित्यर्थः । भुवनान्तराले-उभयविभूत्यन्तराले । अथ दिव्या-त्मस्वरूपस्य मङ्गलैकतानत्वमाह समस्तेति । समस्तकल्याणगुणात्मक इति कल्याणगुणवत्त्वमुच्यते चेत्, आ-त्मशब्दः स्वभाववाची स्यात् । एवं संक्षिप्तार्थस्य तेजोबलैश्वर्येत्यादिना विस्तरः क्रियत इति विभागः (निर्वाहः) । अस्मादपि निर्वाहात् दिव्यात्मस्वरूपपरत्वं युक्तम्; अपेक्षितविधेरनपेक्षितविधानं दुर्बलमिति न्यायात् । तदा कल्या-णशब्दो भावप्रधानः । समस्तकल्याणत्वं गुणः स्वभावो यस्य स समस्तकल्याणगुणः; यथा "द्वयेकयोर्द्विवचनै-कवचने" इति सूत्रस्थद्वयेकयोरितिपदं द्वित्वैकत्वपरं व्याख्यातम् । अन्यथा द्वयेकेष्विति वाच्यम्; न तु द्वयेकयो-रिति । तच्च भावप्रधाननिर्देशस्य साधुत्वज्ञापनाय कृतम् । तत एव हि, "गुणाः सत्यज्ञानप्रभृतयः" इत्यभियुक्तैरु- क्तम् । समस्तकल्याणगुणः आत्माउधर्मिस्वरूपं यस्य, स समस्तकल्याणगुणात्मकः । बहुव्रीहिरौपचारिकः; शिलापुत्रकस्य शरीरमिति निर्देशवत् । दिव्यात्मस्वरूपमेव स्तौति स्वशक्तीति । स्वांशलेशात् धृतभूतसर्गः । यद्वा शक्तिः-सामर्थ्यम्, स्वगुणलवधृतभूतजात इत्यर्थः । भूतसर्गः-भूतसमूहः । यद्वा सृज्यत इति सर्गः कार्यवस्तुजातमि-त्यर्थः ।अभिप्रायविशेषेण षाड्गुण्यं पश्चाद्वक्ष्यन् प्रथमं दिव्यविग्रहमाह इच्छेति । अभिमतत्वम्-अभिमत्यर्हत्वम्; स्वानुरूपत्वमिति यावत् । अर्हार्थे निष्ठा, यथा "अदृष्टो द्रष्टा अश्रुत" श्रोता इति । तत्र ह्यर्हार्थीयः क्तः; अद्रेश्य-मग्राह्यमित्याद्यैकार्थ्यात् । अभिमतस्याननुरूपत्वम्, अनुरूपस्यानभिमतत्वं च लोके दृश्यते । तद्वयावृत्त्यर्थम् । इच्छागृहीताभिमतशब्दौ । निरुपपदेच्छाशब्दो नित्येच्छाया अवतारसमयजन्येच्छायाश्च साधारणः; असङ्कोचात् ।

अथावतारद्वारेण साध्यं विग्रहप्रयोजनमाह संसाधितेति । अथ षाड्गुण्यवत्तामाह तेज इति । नात्र क्रमविवक्षा । महाशब्दसुशब्दौ सर्वगुणसाधारणौ । महत्त्वमपरिच्छिन्नत्वम् । यथा "महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः" इति । यथा "प्रकृष्टं विज्ञानं बलमतुलम्" इत्यादि । सुशब्देन तेषां मङ्गलत्वमुच्यते । एवं स्व-रूपतो विग्रहतो गुणतश्च पर इत्याह पर इति । गुणादिदोषानित्यत्र दोषशब्दार्थं विवृणोति न यत्रेति । क्लेशादयः-क्लेशकर्मविपाकाशयाः । अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः । कर्म पुण्यापुण्यात्मकम् । जात्यायुर्भोगाः विपाकाः । आशय-वासना, संस्कारः । "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" इति योगसूत्रं स्मार- यति स ईश्वर इति । योगशास्त्रादपि वेदान्तार्थवैषम्यमाह व्यष्टीति । पूर्वं भेदश्रुत्यर्थ उक्तः, अतैक्यश्रुतिनिर्वाहार्थं घटकश्रुत्यर्थ उच्यते-व्यष्टीति । व्यष्टिसमष्टिशब्दाभ्यां कार्यकारणा(णभावा)वस्थश्चेतनवर्ग उच्यते । रूपम्-शरी- रम् । स्वरूपम्-स्वासाधारणं शरीरम् । शरीरिलक्षणं सूचयति सर्वेश्वर इति । ईश्वरः-नियन्ता । अनेन नियाम्यत्वं शरीरत्वं सिद्धम्; नियाम्यविशेषो हि शरीरम् । सर्वदृक् सर्ववेत्ता-स्वरूपतः प्रकारतश्च सर्वं जानातीत्यर्थः । यद्वा विश्वतश्चक्षुरित्यादिश्रुतिप्रकियया सर्वतोदृग्भवन् सर्वं वेत्तीत्यर्थः । यद्वा सर्वेषां दृक् सर्ववेत्ता च; "चक्षुर्देवानामुत मर्त्यानाम्" इति श्रुतेः । चक्षुः-ज्ञानप्रदः । सर्वं विन्दतीति वा सर्ववेत्ता; अवाप्तसमस्तकाम इत्यर्थः । समस्तशक्तिः । शक्तिः-कार्योपयोग्यपृथक्सिद्धविशेषणम् । उक्तप्रकारेण सर्वशरीरकत्वादस्य सर्वमपृथक्सिद्धविशेषणमित्यर्थः । परमेश्वराख्य इति परमशब्देन अनन्येश्वरत्वं सिद्धम् (अन्येश्वरत्वं निषिद्धम्) । परो मा अस्येति हि परमः । एवं-विधेश्वरविषयज्ञानस्यैवापवर्गोपायवेदनत्वमाह स ज्ञायत सति । संज्ञायत इति पाठे अस्तदोषमित्यादि ब्रह्मविशे-षणम् । येन शास्त्रजन्यज्ञानेन विज्ञायते, येनोपासनात्मकेन संदृश्यते, येन परमभक्तिरूपेणानुभवरूपेण च प्राप्यते-अनुभूयत इत्यर्थः । "भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप" इति वच-नात् । स ज्ञायत इति पाठे अस्तदोषमित्यादि ब्रह्मज्ञानविशेषणम् । "अर्थेनैव विशेषो हि निराकारतया धियाम्" इति वचनात् ज्ञानस्यास्तदोषत्वादिकं विषयद्वारा । अस्तदोषमिति दोषास्पदाचिद्विषयज्ञानाद् व्यावृत्तिः । शुद्ध-मिति "अशुद्धास्ते समस्तास्तु" इत्याद्युक्तकर्मवश्याशुद्धबद्धजीवविषयज्ञानाद्वयावृत्तिः । परं निर्मलम्-अत्यन्त-निर्मलम्; अनेन कदाचित्कर्मसंबन्धार्हतारूपमलान्वितमुक्तविषयज्ञानाद्वयावृत्तिः । एकरूपमिति नित्यमुक्त-विषयानेकरूपज्ञानाद्वयावृत्तिः । अनया दिशा ब्रह्मविशेषणत्वेऽपि व्यावृत्तिर्द्रष्टव्या । ब्रह्मविशेषणत्वे एकरूप-मित्याश्रयणीयत्वोपयोगिविशेषणं च भवति; स्थिरस्वभावम्; आश्रितसंरक्षणादिप्रतिज्ञायां दृढतरमित्यर्थः । अज्ञानम्-मोक्षोपायज्ञानादन्यत् तद्विरोधि वा; "सा विद्या या विमुक्तये" इति वचनात् । यद्वा अज्ञानम्-ज्ञानाभवः; ब्रह्मपर्यन्तत्वाभावेन अयथावस्थितवस्तुविषयत्वात् । ब्रह्मविशेषणत्वे एकवाक्यम्; ज्ञानविशेषणत्वे वाक्यद्वयम् ।

"प्रत्यस्तमितभेदम्" इत्यादिश्लोके प्रत्यस्तमितभेदपदं हृदि निधाय सविशेषत्वे वचनानि दर्शतानि ।। अथ अगोचरं वचसामित्येतद्वयाचिख्यासया शब्दागोचरत्वे वचनानि दशर्यति शुद्ध इत्यादिना । तत्र अशब्द-गोचरस्येत्यादिके पूर्वश्लोके मुक्तात्मनि भगवच्छब्द प्रयोगः औपचारिक इत्युक्तम्; तत् कथमित्यपेक्षायां मुक्तात्मव्य- वर्तकं भगवच्छब्दप्रवृत्तिनिमित्तमाह-शुद्ध इति । यत्र प्रवृत्तिनिमित्तपौष्कल्यम् तत्रैव हि मुख्यत्वम्, नान्यत्रेति भावः । शुद्धे । "सिद्धे शब्दाथर्सम्बन्धे" इत्यत्र सिद्धशब्दवच्छुद्वशब्दोऽवधारणगर्भः । शुद्ध एव-नित्यशुद्धे इत्यर्थः । "अब्भक्षः" इतिवत् सिद्धशब्दस्यावधारणगर्भत्वात् सिद्धशब्दो नित्यपरत्वेन हि व्याख्यातः; तद्वत् । अनेन नित्य-शुद्धत्वेन सकलचेतनव्यावृत्तिः; नित्यसिद्धानामपि नित्यशुद्धत्वस्य भगवन्नित्येच्छायत्तत्वात् । महाविभूत्याख्ये । विभूतिभूतस्य महाविभूतित्वायोगात् उभयविभूतिशेषित्वं समस्तचेतनव्यावर्तकम् । परे ब्रह्मणीत्यनेन च चेतन-

व्यावृत्तिः; सिद्धा । अप(व?)रात्मा हि केवलब्रह्मशब्देनोक्तः, "अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज" इति । उत्तरत्र तु(?) "परमब्रह्मभूतस्य" इति हि परमात्मा वक्ष्यते । प्रदेशान्तरेऽपि परब्रह्मशब्दः परमात्मपर एव दृश्यते । अतोऽपरमात्मव्यावृत्त्यर्थं, "महाविभूत्याख्ये परे ब्रह्मणी"त्युक्तम् । सवर्कारणकारणत्वञ्च भगवत एव । जगद्वया-पाररहितो हि मुक्तात्मा । एवमुक्तप्रवृत्तिनिमित्तपौष्कल्यात् सर्वेश्वर एव भगवच्छब्दो मुख्यवृत्तः, नान्यत्रेत्यर्थः ।

इयमर्थं विवृण्वन्नक्षरशः समुदायशश्च भगवच्छब्दार्थमाह-संभर्तेत्यादिना । शुद्धत्वम्, विना हेयैः इति विवृतम् । भोग्यसम्पद्वाचकेन ऐश्वर्यस्यसमग्रस्यतिश्लोकस्थश्रीशब्देन भोगविभूतेः, सम्भरणाद्युक्तया लीलाविभूतेश्च दर्शितत्वान्महाविभूतित्वं विवृतम् । सर्वकारणकारणत्वं चोपरि स्पष्टम् । अत एव ज्ञानशक्त्यादिभिश्च निरति-शयबृहत्त्वात् परब्रह्मत्वं स्फुटम् । अत उत्तरग्रन्थानां शुद्ध इत्यादिश्लोकविवरणरूपत्वं युक्तम् । भश्च गश्च भगश्च वश्चेति विभज्यार्थ उच्यते । एतेषां पदानां तत्तद्धातुषु "अन्येष्वपि दृश्यते" इति डप्रत्यये टिलोपे च कृते एवं रूपं भवतीति । भार्थमाह समित्यर्द्धेन । सम्भर्ता । संभरणम्-उपकरणसंविधानम् । प्रकृतिपुरुषकालान् कार्योत्पत्तियो-ग्यान् करोतीत्यर्थः । महदादिसृष्टिः अण्डरूपकार्योत्पत्त्युपयुक्ता सम्भरणमिति वा विवक्षा । भर्ता-स्वामी; धारण-स्य वकारवाच्यत्वात् पोषकत्वस्य गकारवाच्यनेतृत्वान्तर्भावात् अपेक्षितविधेरनपेक्षितविधानदौर्वल्याच्च स्वामित्व- मिह विवक्षितम् । यद्यपि प्रत्ययविशेषयुक्तस्य भरतेः स्वामिनि रूढत्वम्, तथापि पूर्वोक्तयुक्तिसचिवाषवचनवलात् धातुमात्रस्य स्वामि(त्व?)वाचित्वं निश्चीयते । इतिकरणेन संभर्तृत्वभर्तृत्वे प्रवृत्तिनिमित्ते निष्कृष्योच्येते । अत एव अर्थद्वयान्वित इत्युक्तम् । उत्तरत्र तु प्रवृत्तिनिमित्तत्रये सत्यपि इतिकरणेन तेषामनिष्कृष्टत्वात् प्रवृत्तिनिमित्तत्रय-विशिष्टो धर्मी एक एवार्थ उक्तः । गकारार्थमाह नेतेति । उपसर्गस्फुटीकृतानामर्थानां धातुलीनत्वात् उद्गमयिता सङ्गमयितेत्येवंरूपपदानामर्थमाह नेतेति । स्त्रष्टेत्यनेन उद्गमयितृशब्दार्थ उक्तः । नेतेति गमयितृशब्दार्थ उक्तः । स्थितिकर्तेत्यर्थः । गमयितृशब्देन सङ्गमयितृशब्दार्थ उक्तः । स च संहारः । यथा "यस्मिन्निदं सञ्च विचैति सर्वम्" इत्यत्र व्येति समेतीति सर्गसंहारावुच्येते, तद्वत् । यद्वा कारणभूतं स्वात्मानं गमयिता; स्वस्मिन् कार्यवर्गस्य कय-कर्तेत्यर्थः । उपसर्गाप्रयोगेऽपि अर्थानां धातुलीनत्वादेवं व्याख्यातं भगवता पराशरेण । अथ वकारव्याख्याना-त्पूर्वमेव भकारगकारसमुदायस्यार्थमाह ऐश्वर्यस्येति । समग्रशब्दः सर्वत्रान्वेति । परिच्छिन्नचतुर्मुखाद्यैश्वर्यव्या- वृत्त्यर्थः समग्रशब्दः । यशः गुणवत्ताप्रथा । श्रीः भोग्यसंपत् । वैराग्यं विरक्तिः; परिपूर्णत्वादनादरतेत्यर्थः । यथा "अवाक्यनादरः" इति । मतुप्प्रत्ययस्य प्रसिद्धार्थत्वाद् न तद् व्याख्यातम् । अथ वकारार्थमाह वसन्तीति । "अन्ये-ष्वपि दृश्यते" इति डप्रत्ययस्यानेकार्थत्वादधिकरणे कर्तरि च व्युत्पत्तिः । भूतात्मनि भूतानामात्मनि । अखि-लात्मनि आखिलशरीरके । यद्वा-भूतशब्देन कार्यमुच्यते; तस्यात्मनि , अखिलात्मनि कार्यानन्तर्भूतानां नित्य-मुक्तानामात्मनीत्यर्थः । अथ समुदायशक्तिविषयमर्थमाह ज्ञानशक्तीति । पाठक्रमे तु "एवमेष" इत्यादिश्लोकद्वया-नन्तरं ज्ञानशक्तिबलैश्वर्येत्यादि श्लोकः पठ्यते । तथापि प्रवृत्तिनिमित्तवाचित्वसङ्गतिवशात् "एवमेष" इत्यादि श्लोक-द्वयात्पूर्वं ज्ञानशक्तीत्यादिश्लोक इहोपात्तः । "उत्पतिं्त प्रलयं चैव" इत्यादिश्लोकस्य प्रस्तुतानुपयुक्तत्वाच्च एवमुपा-दानं कृतम् । भगवच्छब्दवाच्यानि-प्रवृत्तिनिमित्तत्वेन वाच्यानीत्यर्थः । अशेषतः । न प्रत्येकं प्रवृत्तिनिमित्तानि; अपितु समुच्चित्येत्यर्थः । अशेषशब्देन षाङ्गुण्यावान्तर(भिदा)रूपं शीलादिगुणजातं च क्रोडीकृतम् । यद्यप्यैश्वर्य-वीर्यज्ञानानि पूर्वं कण्ठोक्तानि, तथापि कतिपयसमुदाय्यावापोद्वापप्रयुक्तसमुदायभेदादपुनरुक्तिः । न चात्र समु-दायशक्तिः कल्प्यते, येनानुक्तगुणमात्रगोचरता स्यात् । वचनबलादेव शक्तिस्वीकारः । पूर्वमक्षरार्थकथनेन भका-रगकारवकाराः व्याख्याताः; अथ अन् इत्यस्यार्थमाह विनेति । कश्यपः पश्यको भवतीति न्यायात् अन्नित्यनेन

नेत्युक्तं भवति; निषेध्यं च हेयमित्यर्थः । एवं प्रवृत्तिनिमित्तपौष्कल्याद्भगवत्येव मुख्यवृत्तत्वमाह एवमिति । महा-र्थगर्भत्वान्महाशब्दत्वम् । मुक्तात्मव्यावृत्त्यर्थं परमब्रह्मेत्युक्तम् । कथं तत्रैव मुखंयृत्तत्वम्; अन्यत्रापि तत्प्रयोगो दृश्यत इत्यत्राह तत्रेति । पूज्यपदार्थोक्तिः पूज्यानामवयवार्थानामुक्तिः; परिभाषा रूढिः; ताभ्यां समन्वितः । योगरूढिभ्यां विशिष्टः । अत एव नोपचारेण । मुख्यवृत्त इत्यर्थः । अन्यत्रामुख्यत्वमित्याह । । मुक्तात्मन्यौ-पचारिकत्वोक्तया अर्थान्तरप्रयोगेष्वप्यौपचारिकत्वमर्थात् दर्शितमिति हिशब्दाभिप्रायः । भगवच्छब्दप्रयोगविषयेषु सर्वेषु प्रयोगे अन्यथासिद्धेऽपि न हि शक्तिभेदकल्पनं युक्तम् । यत्र ज्ञानादयो निरङ्कुशाः , स एव मुख्यार्थः । गुणलेशयोगादपि प्रयोगसंभवादन्यत्र वृत्तिरौपचारिकात्यर्थः ।

अथ तस्मिन्नेव योगप्रकरण उपसंहारेऽपि सविशेषपरवाक्यानि दर्शयन् दिव्यवग्रिहवत्वं चाह समस्ता इति । बद्धो मुक्तः कर्मरूपाविद्या च शक्तयः । तत्तदभिमानिदेवताद्वारेण तत्र तासां प्रतिष्ठितत्वम्; यत्रेत्यनुवादस्य पुरोवादसापेक्षत्वात्; अस्त्रभूषणाध्याये यथोक्तप्रकारेणपुरोवादाच्च । तद्विश्वरूपवैरूप्यमिति संनिवेशवैलक्षण्यमु- क्तम् । अन्यदिति द्रव्यान्तरत्वमुक्तम् । महदित्यपरिच्छेद्यत्वम् । विलक्षणसंनिवेशस्य सकलेतरविसजातीयस्य कथं-चन्तयितुं शक्यत्वमित्यत्राह समस्तेति । केन हेतुनेत्यत्राह स्वलीलयेति । लीलायाः प्रयोजनत्वात् तदभिसन्धिर्हेतुः । न तु कर्मणेत्यर्थः । किं प्रयोजनमित्यत्राह जगतामिति । न तु स्वकर्मफलभोगायेत्यर्थः । एतद्विवृणेति न सेति । व्यापिनी देशनियमरहिता; यथा वैदिकपुत्रानयनादिषु । व्यापनशक्तत्वेऽपि प्रतिबन्धः संभवतीत्यत्राह अव्याह-तात्मिका । न तस्याः प्रतिहतिरस्तीत्यर्थः । यद्वा व्यापिनी-सर्वावतारानुगुणा । अव्याहता(त्मिका?) देशकाल-वस्तुकृतप्रतिबन्धरहिता ।

एवं प्रत्यस्तमितेति श्लोकस्य परमात्मपरत्वाभ्युपगमेपि निर्विशेषपरत्वनिराचिकीर्षया उपक्रमोपसंहार-योस्तस्मिन्नेव प्रकरणे सविशेषपरत्वं दर्शितम् । अथास्य श्लोकस्य परिशुद्धजीवात्मस्वरूपविषयत्वं प्रत्यस्तमि-तभेदादिपदानां कतिपयविषयत्वं च विवक्षुः, तदर्थं परमात्मविषयभेदनिषेधादीनां कतिपयविषयत्वाभिधायीनि वाक्यानि दर्शयिष्यन्, परमात्मविषयकतिपयभेदनिषेधपरवचनोदाहरणेन मुक्तात्मविषये किमायातमिति शङ्कायां मुक्तस्य परमात्मसाम्यप्रतिपत्तये मुक्तगुणान् परमात्मन्यतिदिशन्तं श्लोकं दर्शयति । एवम्प्रकारमिति । एतच्छ्लो-कोदाहरणेन प्रत्यस्तमितेत्यादिश्लोकानन्तरं पूर्वपक्षे पठितस्य "ज्ञानस्वरूप"मित्यादेः प्रथमांशोपक्रमश्लोकस्य चतुःश्लोक्याश्च सविशेषपरत्वप्रतिपादनाय प्रथमांशोपसंहारेऽपि सविशेषपरत्वं दर्शितं भवति । उपसंहारवचनोपा-दानमुपसंहारस्य बुद्धिस्थत्वात् क्रियते । एवम्प्रकारम् । मुक्तात्मानं प्रति "निर्व्यापारमनाख्येयम्" इत्यादिना यः प्रकार उक्तः तदुपेतमित्यर्थः । एवं भगवति मुक्तात्मगुणातिदेशः कृतः । भेदराहित्यस्य सत्तामात्रत्वस्य वचसामगो-चरत्वस्य च मुक्तगुणस्य निर्व्यापारमित्योदिनोक्तस्य भगवत्यतिदिष्टत्वात् भगवति च तेषां निषेधानां कतिपय-विषयत्वस्य प्रामाणिकत्वाच्च ते निषेधा मुक्तात्मन्यपि तथाविधा इति कतिपयविषयत्वं सिद्धमिति भावः । अथ परमात्मनोऽधिकान् गुणानाह । अमलम्-मलप्रतिभटम् । सोपाधिकहेयविरोधिनमित्यर्थः । नित्यम्-उक्ताकारेण नित्यम् । मलप्रतिभटत्वं नित्यमित्यर्थः । व्यापकम्-स्वरूपेण व्यापकम् । अक्षयम्-स्वत एव धर्मतोऽपि विकारर-हितम् । मुक्तस्य हि पूर्वावस्थायां मानसङ्कोचविकासरूपविकारो विद्यते । नित्यसिद्धानामपि तथात्वं परा(तदा)-यत्तमिति तद्वयवच्छेदः । समस्तहेयरहितम् । पूर्वं हेयप्रत्यनीकत्वमुक्तम्; अत्र हेयराहित्यमुक्तम् । स्वतो हेयाभावो-ऽपि मुक्तस्य नास्ति; परमात्मप्रसादाधीनत्वात् तस्य । पद्यत इति पदम् । दिव्यात्मस्वरूपम्-परमपदशब्दस्य दिव्य-लोके मुक्तात्मनि च प्रयोगात् तद्वयावृत्त्यर्थं विष्ण्वाख्यं इत्युक्तम् ।

अथ प्रथमांशोपक्रमेऽपि सविशेषपरत्वं दर्शयति परः पराणामिति । अनेन शास्त्रोपक्रमस्यापि सविशेष-परत्वमुक्तं भवति, अनेन प्रत्यस्तमितभेदमित्यादिपदानां कतिपयभेदनिषेधपरत्वं च सिद्धमिति त्रिविधं प्रयोजनम् । अनेन परःपराणामित्यादिग्रन्थजातस्य अविकारायेत्यादिसंग्रह श्लोकविवरणरूपत्वात् ज्ञानस्वरूपमित्यादिश्लोकं प्रति उपक्रमत्वमर्थक्रमेण सिद्धमिति तस्यापि सविशेषपरत्वसिद्धिः । यद्वा प्रथमांशोपक्रमोपसंहारयोः सविशेष-परत्वादुपक्रमोपक्रमभूतस्यापि ज्ञानस्वरूपमिति श्लोकस्य महावाक्यखारस्यविरोधो न न्याय्य इति तस्यापि सवि-शेषपरत्वं सिध्यति । यद्वा नमस्कारश्लोकस्य शास्त्रोपक्रमशेषभूतत्वात् तच्छेषभूतस्तदनुगुणार्थो वर्णनीय इति सिध्यति ।। उपक्रमोपक्रमभूतनमस्कारश्लोकार्थानुगुणं "परः पराणात्" इत्यादेरर्थो वर्णनीय इति चेत्, न; तस्या-प्युपक्रमभूतप्रश्नोत्तरवरलाभकथनश्लोकानुगुणं तदर्थस्य वाच्यत्वादित्यभिप्रायः ।

अत्र ब्रह्मणः कृत्स्नजगत्कारणत्वसिद्धयर्थं वेदान्तेषु "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादिवाक्यैरानन्त्यमुक्तम् । तच्च त्रिविधपरिच्छेदराहित्यम् । न हि देशकालादिभिः परिच्छिन्नानां घटादीनां कृत्स्नस्य सर्वविधकारणत्वं दृष्टम् । कालत्रयवर्तिकार्यजातकारणत्वे सर्वदेशगतकार्यकारणत्वे च देशतः कालतोऽप्यपरिच्छेदावपेक्षितौ । उपादानत्व-सिद्धयै वस्त्वपरिच्छेदोऽपेक्षितः । न हि वस्तुतःपरिच्छिन्नः कुलाल उपादानं भवति; मृत्पिण्डकुलालयोः सामाना-धिकरण्यासंभवात् । अतः कृत्स्नकारणत्वसिद्धयर्थं त्रिविधपरिच्छेदराहित्यं विस्तरेण विवक्षुः "परः पराणामि"त्य- धैन तत् सङ्ग्रहेण प्रतिजानीते परः पराणां परम इति । अनेन कालानवच्छेदः सिद्धः; अधिककालवर्तित्वस्य परशब्ब्दवाच्यत्वात् । परमात्मेति देशापरिच्छेद उक्तः । आप्नोति ह्यात्मशब्दव्युत्पत्तिः । आत्मसंस्थितः-सर्वेषा-मात्मत्वेन सर्ववस्तुभिर्विशिष्टः । यद्वा आत्मत्वेन संस्थिततया सर्वशरीरकत्वात् स्वस्मिन् पर्यवस्थितः-स्वनिष्ठः । अन्यत् सर्वं तन्निष्ठम्; शरीरतया विशेषणत्वात् । अतः सर्वपर्यवसानभूमिः स्वनिष्ठः इति वस्त्वपरिच्छेद उक्तः । सर्ववस्तुसामानाधिकरण्यार्हत्वं हि वस्त्वपरिच्छेदः इदमिदं न भवतीति हि वरतुपरिच्छेदः । यद्वा नित्यत्वविभुत्व-व्यतिरिक्तगुणैः समाभ्यधिकरहितत्वं वस्त्वपरिच्छेदः । स्वनिष्ठं परमात्मानमपेक्ष्य तन्निष्ठानामन्येषां समत्वाभ्य-धिकत्वासंभवादात्मसंस्थित इत्यनेन वस्त्वपरिच्छेदसिद्धिः । एवं संक्षिप्तमर्थमुपपादयति-रूपेत्यादिना । तत्र कालापरिच्छेदं प्रथमं विवक्षुः कालपरिच्छिन्नेषु वतर्मानं पञ्चकल्पनान्वितत्वं ब्रह्मणि नास्तीत्याह-रूपेति । रूप-शब्देन जातिरुच्यते । "जातिगुणौ च रूपिणां रूपे" इति हि नीतिविदः । वर्णशब्दो रूपाख्यगुणविशेषपरः । आदिशब्देन गन्धरसादिः, आसनशयनादिक्रिया, विषाणाद्यवयववत्वं च विवक्षितम् । रूपवर्गादीति पाठे रूप-शब्दो नीलपीतत्वादिगुणपरः, वर्गशब्दो देवमनुष्यादिवर्गपरः ; जातिपरः । इति अर्थः । तन्निबन्धनस्तद्विषयो निर्देशः शब्दः । शब्दवाच्यास्त एव विशेषणानि तैर्विवर्जितः । यद्वा रूपवर्णादि-तद्वाचिशब्दरूपैर्विशेषणैर्विव- र्जितः । एवमनित्यत्वव्यापकं कमर्कृतं रूपादिमत्त्वं ब्रह्मणि नास्तीति कर्मकृतरूपादिनिवृत्त्या तद्व्याप्यकालपरि-च्छेदनिवृत्तिरित्यर्थः । यद्वा अनित्यत्वव्याप्यकर्मकृतरूपाद्यभावान्नानित्यत्वं ब्रह्मण्यनुमातुं शक्यमित्यर्थः । अनेन "प्रत्यस्तमितभेदम्" इत्यस्य पदस्य विषयो दर्शितः ।

अथानित्यत्वव्यापकत्वाद्विकाराणामनित्यत्वनिवृत्तये तद्वयापकविकारराहित्यमाह अपक्षयेति । जायते, अस्तीत्यवस्थाद्वयं जन्मशब्देन विवक्षितम् । उत्पत्तिस्थितिनाशानामेकैकत्र विधाद्वयेन विकारषट्कसिद्धिः । तद्वि-वर्जितत्वात् सदाऽस्तीति वक्तु शक्यते । सदाशब्देन कादाचित्कास्तित्वव्या(नि)वृत्तिः । न तु उत्पद्यत इत्यदि-शब्दैरिति केवलशब्दाभिप्रायः । अनेन सत्तामात्रमित्यस्य विषयो दर्शितः । अगोचरं वचसामित्यस्य च विषयो दर्शितो भवति; रूपवर्णादिप्रवृत्तिनिमित्ताभावादुत्पत्त्यादिप्रवृत्तिनिमित्ताभावाच्च कल्पनाविकारवाचिशब्दैनर् वक्तुं

शक्यत इति तस्य पदस्यार्थ इत्यभिप्रायः । अगोचरं वचसामिति सर्वशब्दागोचरत्वमुच्यते चेत्, वचसामगोचरं, सत्तामात्रमित्यपि वक्तुं न शक्यते ।

अथ देशापरिच्छेदं नामनिर्वचनमुखेनाह सर्वत्रेति । ब्रह्मण ईश्वरातिरिक्तत्वनिषेधार्थं देवतान्तरव्युदासार्थं च नामनिर्वचनमुखेन तदुक्तिः । औणादिकप्रत्ययस्यानेकार्थत्वादधिकरणे कर्तरि च व्युत्पत्तिर्वासुदेवशब्दस्योच्यते सर्वत्रेति । वेदान्तेषु परब्रह्मणो हि निर्विकारत्वादिकमुक्तम्; तत् कथं वासुदेवस्योच्यत इत्यत्राह तद्व्रह्मेति । "शैत्यं हि यत् सा प्रकृतिर्जलस्य" इतिवत् तदिति निर्देशः । "निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वना- मानि पर्यायेण तल्लिङ्गमुपाददते" इति हि शाब्दाः । नित्यमिति कायर्मात्रव्यावृत्तिः । अजमक्षरमव्ययम् एकस्व-रूपमिति सविकारनित्यप्रधानव्यावृत्तिः । एकस्वरूपशब्देन वृद्धिपरिणामराहित्यं विवक्षितम् । हेयाभावाच्च निर्मलमिति बद्धव्यावृत्तिः । सदेति मुक्तव्यावृतिः । परममिति नित्यसिद्धव्यावृत्तिः । यद्वा एकस्वरूपमिति बद्ध-व्यावृत्तिः, सदेत्यादिना मुक्तव्यावृतिरिति । एवं स्वव्यतिरिक्तसमस्तवस्तुविलक्षणत्वेनोपनिषत्सूक्तं ब्रह्म वासुदेव एवेत्यर्थः । त्रिविधापरच्छि#ेदवाचिनी श्रुतिरपि देवताविशेषं निरचिनोत् अनन्तमिति । अनन्तशब्दो योगरूढः । अतो नारायणादिशब्दपर्याय त्रिविधानन्त्ययोगिनि भगवति मुख्यो वर्तते । सत्यज्ञानादिवाक्ये अनन्तमिति पदं पुल्लिङ्गं द्वितीयान्तम्; यो वेदेति वेदनशब्देनान्वयात् प्रथमान्तत्वे तद्यो वेदेति । तत्पदाध्याहारः स्यात्; वाक्यभेदश्च स्यात् । अतस्तत्र यथोक्त एवार्थः । तस्मात् तदनुसारेणात्रापि अपरिच्छेदकथनसमये देवताविशेषो निर्णीतः ।

वस्त्वपरिच्छेदमाह तदेवेति । सर्वमेवैतदिति व्यक्ताव्यक्तपुरुमषकालसमुदाय उच्यते । व्यक्ताव्यक्त (पुरुष-काल?) स्वरूपमेतत् सर्वं तद् ब्रह्मेत्यर्थः । अनेन वस्त्वपरिच्छेद उक्तः । सर्ववस्तुसामानाधिकरण्यार्हत्वं हि वस्त्व-परिच्छेदः । सर्ववस्तुसामानाधिकरण्यार्हत्वेनैव चिदचिच्छरीरकत्वहेतुभूतव्यापनभरणादिगुणतः समाभ्यधिकरा-हित्यसिद्धेश्च वस्त्वपरिच्छेदसिद्धिः । न हि ब्रह्मव्यतिरिक्तस्य कस्यचित् समस्तचिदचिच्छरीरकत्वसंभवः ।

एवं शास्त्रोपक्रमे वासुदेवाख्यमुभयलिङ्ग वस्तु प्रतिपाद्यमुक्तम् । शास्त्रोपसंहारे च तथोक्तमिदं दर्शयति प्रकृतिर्येते । परमात्मशब्दस्य क्कचिर्ज्जीवेऽपि प्रयोगदर्शनात् तद्वयावृत्त्यर्थं साक्षात्परमात्मलक्षणं जगत्कारणत्व- मुक्तं लीयेते परमात्मनीति । स चेश्वरानतिरिक्त इति ज्ञापनार्थः परमेश्वरशब्दः । ईश्वरश्च न देवतान्तरमिति ज्ञाप- नाय विष्णुनामेत्युक्तम् । अत्र परमात्मा आधारः परमेश्वरः इति पदैः शरीरिलक्षणं स्पष्टम् । एवं शास्त्रोपक्रमोप-संहारयोरवान्तरप्रकरणोपक्रमोपसंहारयोश्च हेयप्रत्यनीककल्याणगुणात्पदं नारायण एव परं ब्रह्मेति प्रतिपाद्यत इति दर्शितम् ।

अथ अविद्यासम्बन्धादयश्च ब्रह्मण एव हि प्रतिपाद्यन्ते । तत् कथं यथोक्तस्वरूपस्य ब्रह्मण उपपद्यत इति शङ्कायाम्-"काठिन्यवान् यो बिमर्ति" इतिवत् द्वारद्वारिभावेनोपपद्यत इति वक्तं परमात्मनो जीवानाञ्च आत्मशरीरभावेन सम्बन्धं तेषामविद्यासम्बन्धादिकं च वक्ष्यन् प्रथमं जीवब्रह्मणोः शरीरशरीरिभावरूपसम्बन्धं दर्शयति द्वे रूपे इत्यादिना । मूर्तं चामूर्तमेव चेति । बद्धश्च मुक्तश्चेत्यर्थः । एतद्विवृणोति क्षराक्षरस्वरूप इति । ज्ञानसङ्कोचात्मकक्षरणवत् असङ्कुचितज्ञानं चेत्यर्थः । सर्वभूतेषु च स्थिते । अर्हर्थे क्तः । सर्वभूतस्थित्यर्हे-सूक्ष्मतरतया व्यापनक्षमे इत्यर्थः । यद्वा बद्धस्य स्वरूपेण सर्वभूतस्थितिः, मुक्तस्य तु धर्मभूतेनविमुज्ञानद्वारेणेति । अक्षरं तत्परं ब्रह्मेति । तत् मुक्तस्वरूपमक्षरम् । क्षरं सर्वमिदं जगत्-इदं बद्धस्य रूपं क्षरमित्यर्थः । रूपत्वं विशि-नष्टि एकदेशेति । शक्तिः-अपृथग्भूतं कार्योपयोगि विशेषणम् । एकदेशस्थितस्य, विस्तारिणीति विशेषणद्वयेन असंङ्कीर्णस्वभावत्वमुक्तम् । अस्मिन् श्लोके अखिलं जगदिति चिदचिदात्मकं जगदुच्यते । तुल्यन्यायत्वादक्षर-

स्यापि शक्तित्वसिद्धिः । यद्वा अखिलजगच्छब्देनाक्षरस्यापि क्रोडीकारः । त्रिपाद्विभूतेरपि लोकशब्दवाच्यत्वात् तत्समानार्थत्वाज्जगच्छब्दस्य; अखिलशब्दस्य सङ्कोचकाभावाच्च । क्षरं सर्वमित्यत्र क्षरसामानाधिकरण्यमपवादः; इह तदभावादक्षरस्याप्यभिधानमुपपद्यते । इदंशब्दस्य प्रकृतवाचित्वात् क्षराक्षरपरत्वं युज्यते ।।

नन्वत्र क्षराक्षरशब्दौ कार्यकारण रूपेणावस्थितपरब्रह्मपरौ; परब्रह्मशब्दमुख्यार्थसिद्धेः । अन्यथा ब्रह्म-शब्दानामेकप्रकरणस्थानामर्थवैरूप्यं च स्यात् । जगतो ज्योत्स्नास्थानीयत्वञ्चोपपद्यते; प्रभायाः विशीर्णावयवत्वेन अग्निकार्यत्वोपपत्तेः ।। नैवम्; ब्रह्मणो रूपे इति व्यतिरेकनिर्देशस्वारस्यभङ्गप्रसङ्गात् । स च कार्यकारणयोर्ब्रह्म-व्यतिरिक्तत्वाभावात् । यदि षष्ठीस्वारस्याय मूर्तत्वामूर्तत्वे विवक्षिते, तदा मूर्तामूर्तशब्दस्वारस्यङ्गः । भावप्रधान-त्वाविवक्षायां रूपशब्दसामानाधिकरण्यायोगः । यद्युच्येत-ब्रह्मणो द्वे रूपे-ब्रह्म हि मूर्तममूर्तं चेति-तदा प्रथ-मान्तब्रह्मशब्दाध्याहारदोषः स्यात्; षष्ठयन्तब्रह्मशब्दस्य मूर्तामूर्तशब्दसामानाधिकरण्यायोगात् । किञ्च सर्व- भूतेषु च स्थिते" इति चानुपपन्नम्; सर्वभूतशब्दस्य कार्यवाचितया तत्र कार्यस्थितावुच्यमानायां स्वस्मिन् स्व-वृत्तिप्रसङ्गात्; कारणस्यापि कार्यादनन्यतया स्ववृत्तिप्रसङ्गाच्च । अवस्थाद्वयस्य सर्वभूतस्थितिरिति च न वाच्यम्; धर्मिपर्यन्तक्षराक्षरशब्दसामानाधिकरण्यायोगात्; तयोरप्यवस्थापरत्वे स्वारस्यभङ्गात् । अवस्थावद्वाचिजगच्छब्द-ब्रह्मशब्दसामानाधिकरण्यायोगाच्च । तस्मिन् सोढेऽपि कारणावस्थायाः कार्ये विद्यमानत्वायोगाच्च शक्तिशब्दस्य कायर्वाचित्वायोगाच्च श्लोकस्य नायमर्थः । उपचारतोऽपि कार्योपयोगिविशेषणं (हि) शक्तिशब्देन व्यपदेशमर्हति; कार्योपयोगिविशेषणत्वस्य सामान्यात् । शक्तिर्हि शक्तं प्रत्यपृथग्भूतं कार्योपयोगिविशेषणम्, कार्यं तु न कारण-स्यापृथग्भूतं विशेषणं कार्यापयोगि च भवति; कार्यकारणयोरनन्यत्वात् स्वस्य स्वयमेव विशेषणत्वायोगात् ।। कायर्त्वं विशेषणमिति चेत्, सत्यम्; तथापि धर्मिवाचिनो जगच्छब्दस्य कार्यतावाचित्वाभावात् शक्तिशब्दसामा-नाधिकरण्यमुपचारतोऽपि नोपपद्यते । कार्योपयोग्यपृथग्भूतविशेषणं शक्तिरिति मुख्यत्वमस्मन्मते संभवेत् । क्षर-शब्दस्य कार्यपरत्वे दृष्टान्तवैघट्यञ्च स्यात्;; तच्च ज्योत्स्नाया विशीर्णावयवत्वाभावेनाग्निकार्यत्वाभावात् । न च "क्षरं प्रधानममृताक्षरं हरः" इति प्रयोगानुसारेण चेतनाचेतनपरत्वं युक्तम् । अचिदंशस्य स्वस्मिन् स्ववृत्तिप्रसङ्गेन सर्वभूतस्थित्यनुपपत्तेः ।। चिदचित्सङ्घातरूपेषु भूतेषु द्वयोरवस्थानमुपपन्नमिति चेन्न; समुदायिनोः समुदायनिष्ठ-त्वानुपपत्तेः । समुदायो हि समुदायिनिष्ठः । उपरितनग्रन्थवैरूप्यं च स्यात् । उत्तरत्र हि, "भूपमूर्तममूर्तञ्च" इति मूर्तामूतर्शब्दाभ्यां रूपद्वयं प्रस्तुत्य हिरण्यगर्भादीन् निर्दिश्य, "मूतर्मेतद्धरेः रूपं भावनात्रितयान्वितम् " इति मूर्तशब्दवाच्यरूपस्य भावनात्रयान्वयकथनात् । न ह्यचेतनस्यकर्मब्रह्मभावनान्वयः । "सोऽक्षरः परमः स्वराट्" इत्यत्र हीन्द्रादिबद्धविलक्षणाचित्वात्, "स स्वराड् भवति" इतिवत् मुक्तवाचिस्वराट्छब्दसामानाधिकरण्याच्च अक्षरशब्दो मुक्तात्मपरः । अतस्तदनुरोधेनाक्षरशब्दोऽत्रापि मुक्तात्मपरः । ब्रह्मशब्दार्थवैरूप्यं तु, "तपसा चीयते ब्रह्म", "तस्मादेतत् ब्रह्म नामरूपमन्नं च जायते" इति श्रुताविव अनेकोपपत्तिबलात् युज्यते । अतो यथोक्त एवार्थः । ब्रह्मणोऽविद्यासम्बन्धद्वारभूते जीवात्मनि अविद्यान्वयं दर्शयति विष्णुशक्तिरित्यादिना । सर्वगा-चतु-र्मुखादिपिपीलिकान्तसर्वशरीरस्था । जातावेकवचनम् । यद्वा धर्मभूतज्ञानेन स्वतः सर्वं व्याप्तुं क्षमा, (यया?) कर्मणा वेष्टिता-कर्मणा सङ्कुचितज्ञानेत्यर्थः । तर्हि सर्वे अज्ञाः स्युरित्यत्राह तयेति । कर्मतारतम्यानुगुणं ज्ञान-तारतम्यवती क्षेत्रज्ञशक्तिरित्यर्थः । सर्वेषां ज्ञाननित्यत्वस्य मुक्तौ सर्वविषयकत्वस्य च प्राकाणिकत्वात् बद्धाव- स्थायां सङ्कोचविकासौ सिद्धौ । तत्तारतम्यञ्च, "पुंसः शकत्युपलक्षितः", "तच्छकत्या पशवोऽधिकाः" इति स्पष्टी-कृतम् । जातीनामप्यपृथक्सिद्धधर्मत्वेन रूपशब्दवाच्यत्वाच्च तद्वयावृत्त्यर्थं प्रस्तुतं रूपत्वं निमाम्यत्वलक्षणमित्याह

प्रधानञ्चेति । चिदचितोः परमात्मनियाम्यत्वधार्यत्वव्याप्यत्वनित्यत्वादेः प्रमाणान्तरागोचरतया विहितत्वान्निषे-ध्यत्वमयुक्तमिति नियाम्यत्वादिधर्माणां पारमार्थ्येन तदाश्रयभूतयोश्चिदचितोश्च पारमार्थ्यात् नित्यत्वोक्तया च तयोर्भ्रमविषयत्वा-संभवश्च दर्शितो भवति । न हि धर्मिसत्यत्वेन विना धर्मसत्यत्वं युक्तम् । नापि बाध्यस्य नित्यत्वं युक्तम् । सर्वभू-तात्मभूतया-सर्वभूतव्यापिकयेत्यर्थः । विष्णुशक्तया-विष्णोर्नियमनशकत्या । अन्यथा, "शक्तिः साऽपि तथा विष्णोः" इत्यनन्तरोक्तिविरोधात् । तया वृतौ-व्याप्तौ । नियमनेन च धारणं श्रुतिसिद्धम् । "एतस्य वा अक्षरस्य प्रशासने गार्गि! द्यावापृथिव्यौ विधृते तिष्ठतः" इति हि श्रूयते । अतो विभर्तीत्युत्तरश्लोकसामञ्जस्यम् ।

संश्रय-धर्मिणौ-भगवदपृथक्स्थितिधर्मकौ । पृथग्भावः-उपकरणोपकरणित्वलक्षणसंबन्धविशेषराहित्यम्; संहारः । तत्र हि करणकलेवरं नास्ति । संश्रयः-करणकरणित्वेन सम्बन्धः; सृष्यिरित्यर्थः । यद्वा संश्रयः-तयोः सम्बन्धः, संसारः । पृथग्भावो मोक्षः । तत् सर्वं भगवन्नियमनाधीनमित्यर्थः । अत्र दृष्टान्तमाह यथेति । कारणात् कार्यस्य विभागे दृष्टान्तः । जलस्य कणिकाः तस्माद्भेदेन विभर्ति वायुः । संयोजकत्ववियोजकत्वयोर्वा दृष्टान्तः । परस्परं सङ्कलिता असङ्गलिताश्च बिमर्ति वायुः । यद्वा प्रकृतिपुरुषगतदोषलेशराहित्ये दृष्टान्तः । वायुर्हि कणिका- शतं तत्स्वभावास्पृष्टो बिमर्ति । प्रधानपुरुषात्मनः-प्रधानपुरषयोरात्मनः । समस्ति#ुचदचिद्वस्तुजातमिति कर्म अध्याहतर्व्यम् । यद्वा प्रधानशब्दानन्तरपुरुषशब्दो बद्धपरः । आत्मशब्दः प्रकृतिसंसर्गरहितमुक्तात्मपरः । तान् बिमर्तीति । एवंविधस्य जगतः परमार्थत्वमाह तदेतदिति । मिथ्या हि बाध्यत्वेनानित्यम् । पारमार्थ्ये सति हि नित्यत्वसंभवः । उदाहृतवचनार्थान् सङ्क्षेपेणाह इत्यादिनेति । निरस्तनिखिलदोषत्वं कल्याणगुणात्मकत्वञ्च "स सर्वभूतप्रकृतिम्", "समस्तकल्याण" इत्यादिश्लोकार्थः । जगदुत्पत्त्यादिलीलत्वं भगवच्छब्दनिर्वचनसिद्धम् । अन्तः-प्रवेशनियमनादीत्यादिशब्देन अध्यक्षत्वानुमन्तृत्वे उच्येते । इत्यादिनेत्यादिशब्देन "क्रीडतो बालकस्य" इत्यादि-वचनं विवक्षितम् । तदर्थो लीलाशब्देन विवक्षितः । सर्वावस्थावस्थितस्य-कार्यकारणावस्थितस्य, बद्ध-मुक्ता-वस्थितस्य चेत्यर्थः । प्रमाणान्तरगोचरस्यार्थस्य हि निषेधार्थं भ्रान्तिसिद्धत्वेनानुवादसंभवः; परमात्मनिया-म्यत्वादिकं तु प्रमाणान्तरागोचरत्वात् विधित्सितमेवेति विहितस्य निषेधोऽनुपपन्न इत्यभिप्रायेण पारमर्थिकस्यै-वेत्युक्तम् । नियन्तृत्वनियाम्यत्वादिप्रतिपादनसिद्धोऽर्थः शरीरतया रूपत्वम् । तदेव सर्वमेवैतदित्यत्र तच्छब्द-सामानाधिकरण्यम् । द्वे रूपे ब्रह्मणस्तस्येत्यादिनोक्तमर्थमाह शरीररूपतन्वंशेति । प्रतिपादितमितीति । एवं शास्त्रोपक्रमोपसंहारेष्ववान्तरप्रकरणोपक्रमोपसंहारेषु च प्रतिपादितत्वादित्यर्थः । ज्ञायत इत्यन्तेनोक्तवचनार्थसङ्ग्रहः कृतः । उदाहृतवचनैर्वस्तुनः सविशेषत्वं जगतः सत्यत्वञ्च स्थितम् ।।

अथ परोदाहृतवचनानि पूर्वोदाहृतवचनार्थानुगुण्येन व्याचिख्यासुः प्रथमं प्रत्यस्तमितभेदमित्यादिश्लोकं व्याचष्टे प्रत्यस्तमितेति । "दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः" इति , "पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः" इत्यादिषु प्रकृतिर्देवादिशरीरं चोपाधित्वेन प्रतीयत इत्युभयविध-वचनार्थं संघटयितुं देवमनुष्यादिप्रकृतिपरिणामविशेषेत्युक्तम् । प्रकृतेरित्यत्र प्रकृतिशब्दनिर्देशः शरीरस्य प्रकृ-तिपरिणामरूपत्वादित्यभिप्रायः । देवमनुष्यादिशब्देन प्रतिषेध्यभेदस्य शरीरे विद्यमानता दर्शिता ।। ननु मुक्ता-नामुपास्यत्वाभावात् उपासकस्वरूपस्य अचित्संसृष्टतया प्रत्यस्तमितभेदत्वायोगाच्च तादृकत्वोपदेशायोगादस्य श्लोकस्य परिशुद्धात्मविषयत्वानुपपत्तेः परमात्मविषयत्वं स्यादिति शङ्कापरिहाराय चोक्तं देवमुनुष्यादिप्रकृति-परिणामविशेषसंसृष्टस्यापीति । इदानीं संसरतोऽपि स्वाभाविकाकारस्य तिरोहितस्य विद्यमानत्वादाविर्भविष्य-तस्तस्य तथा(तथात्वा)नुसन्धानायोपदेश इति भावः । "तस्यात्मपरदेहेषु सतोऽपि" इत्येतत् स्मारयितुं संसृष्ट-

स्यापीत्युक्तम् । अपिर्विरोधे । पातकिसंसर्गात् पातकित्वं भवति; रुमासंसर्गात् पदार्थानां लवणत्वं भवति; अतो विरोधः । तद्गतभेदरहितत्वेन । भेदो रूपवर्णादिः । अनेन प्रत्यंस्तमितभेदशब्दो व्याख्यातः । प्रत्यस्तमितभेद-शब्देन भेदस्यापुनरुदयविनाशोऽभिप्रेतः । ततश्च प्रलयकालव्यावृत्तिः । तद्भेदवाचिदेवादिशब्दागोचरमित्यनेन अगोचरं वचसामिति पदं व्याख्यातम् । ज्ञानसत्तैकलक्षणमिति ज्ञानपदं सत्तामात्रमिति च पदं व्याख्यातम् । सत्तैकलक्षणमित्यत्र एकशब्देन सत्तामात्रमिति पदगतमात्रजर्थं विवृण्वता जायतेऽस्तीत्यादिविकारा व्यावृत्ताः । सत्तामात्रमित्युक्ते केनाकारेण सत्तेत्यपेक्षायां ज्ञानसत्तैकलक्षणमित्युक्तम् । ज्ञानत्वाकारेण सत्तेत्यर्थः । वचसा-मगोचरत्वे सत्ताव्याघातपरिहारार्थं न्यायवैशेषिकोक्तजडस्वरूपताव्युदासार्थं च आत्मसंवेद्यमिति पदस्यार्थमाह स्वसंवेद्यमिति । यद्वा अगोचरं वचसामित्यन्तैः पदैः कल्पनाविकारराहित्ये तद्वाचिशब्दागोचरत्वे चोक्ते भेद-कधर्माभावात् कथं स्वव्यावृत्तिग्रहणमिति शङ्कायामाह आत्मसंवेद्यमिति । प्रत्यकत्वेन भासमानत्वं स्वव्यावर्तकम् । अन्ये हि इदन्तया भासन्त इत्यर्थः । ज्ञानपदं धर्मधर्मिणोरविशेषेणाजडत्वमाह-धर्मभूतज्ञानस्य बृहत्तया परिशुद्धात्म-स्वरूपस्य ब्रह्मशब्दवाच्यत्वम्, "ब्रह्मणो हि प्रतिष्ठाऽहम्" इत्यादिष्विवोपपद्यते । योगयुक्-प्रक्रान्तयोगः । एवं प्रकारममलमिति वचनेन परमात्मनि मुक्तस्वभावस्यातिदिष्टत्वेन मुक्तस्य परमात्मसाम्यप्रतिपत्तेः, परमात्मनश्च "अपक्षयविनाशभ्याम्", "रूपवर्णादिनिर्देश" इत्यादिवचनैः कतिपयभेदराहित्यस्य षड्भावविकारराहित्यस्य च स्पष्टत्वात् तदानुगुण्येनानतिविस्तरं श्लोको व्याख्यातः । अस्य श्लोकस्य मुक्तात्मविषयत्वं तस्य च प्रक्रान्तयोग-स्यागोचरत्वं च कथं ज्ञायत इत्यभिप्रायेणाह कथमिदमिति । प्रकरणादेवावगम्यत इति परिहरति तदुच्यत इत्या-दिना । अस्मिन् प्रकरणे । न ह्ययं मुक्तव्कश्लोकः, अपि तु प्रबन्धस्थः । अतः "पूर्वापरा(पौर्वापर्या?)परामृष्टः शब्दोऽन्या कुरुते मतिम्" इति तत्परिहाराय पूर्वापरमरामर्शेनैवार्थो वर्णनीय इति भावः । संसारैकभेषजतया योगमभिधायेति एकशब्देन "क्लेशानां च क्षयकरं योगादन्यन्न विद्यते" इत्यस्यार्थोऽभिप्रेतः । वाक्यार्थज्ञानमात्र-स्यापवर्गोपायत्वनिरासश्च स्फोरितः । योगावयवान् प्रत्याहारपर्यन्तानिति, "प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये । वशीकृते ततः कुर्यात् स्थितं चेतः शुभाश्रये" सत्यादिवचनार्थः । संक्षिप्तः । परस्य ब्रह्मणो विष्णोः शक्तिशब्दा-भिधेयमिति । "विष्णुशक्तिः परा प्रोक्ता" इत्यत्र विष्णुरेव शक्तिर्ब्रह्मण इति केचिद्वदन्ति; तद्वयावृत्तये विष्णो- रिति व्यासः कृतः "परस्य ब्रह्मणः शक्तिः", "परमब्रह्मभूतस्य वासुदेवस्य", "ततः स वासुदेवेति", "तद्ब्रह्म परमं नित्यम्", "परमात्मा च सर्वेषाम्", "विष्णुनामा स वेदेषु वेदान्तेषु च", "परब्रह्मस्वरूपस्य विष्णोः शक्तिसम-न्वितम्", "शक्तिः साऽपि तथा विष्णोः" इत्यदिभिर्विष्णोरेव परब्रह्मत्वं जगतस्तच्छक्तित्वं तच्छक्तिनि(तन्नि?)-याम्यत्वं चोक्तमिति तत्प्रतिपादकतत्तद्वचनविरोधात् तदयुक्तमित्यभिप्रायः । शक्तिशब्दाभिधेयम् । अपृथक्सिद्ध-विशेषणं हि शक्तिः । ब्रह्म च न कस्यचिद्विशेषणम् । अतो विष्णोरेव शक्तिः । स हि ब्रह्मशब्दवाच्य इत्यभिप्रायः । अत्र "नारायणः परं ब्रह्म", "विष्णुस्तदाऽऽसीत् हरिरेव निष्कलः", "पतिं विश्वस्यात्मेश्वरम्", न तस्येशे कश्चन", "न तत्समश्चाभ्यधिकश्च दृश्यते", "यस्मात् परं नापरमस्ति किञ्चत्" "न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोक- त्रये" इत्यादिश्रुतिस्मृतयोऽनुसन्धेयाः । शक्तित्रयाश्रयो दिव्यविग्रह उपास्यत्वेनोच्यते । विष्णुरेव शक्तश्चेत्-कथं विष्णोर्विग्रहैकदेशो विष्णोरेवाश्रयः । तदाश्रयभूतो विग्रहो न हि ब्रह्मणोऽस्तीतीदं च दूषणं फलितम् । शक्तिश-ब्दाभिधेयं रूपद्वयमिति । परापरसंज्ञस्यास्य रूपद्वयस्योत्तरत्र परापरशब्दसामानाधिकरणशक्तिशब्देन पराम- र्शात् परसंज्ञरूपगोचरः शक्तिशब्दो न परमात्मविषय इत्यभिप्रायः । "तच्च विष्णोः परं रूपम्", "विष्णुशक्तिः परा प्रोक्ता" इति ह्युच्यते । "भूप मूर्तममूर्तञ्च" इत्यादिवचनार्थमभिप्रेत्याह मूर्तामूर्तविभागेनेति । "अविद्याकर्मसंज्ञा-

ऽन्या तृतीया शक्तिरिष्यते" इत्यस्यार्थमाह तृतीयेति । तृतीयेति मूर्तामूर्तविभागेनेत्युक्तत्वात् मूर्ताख्यविभागमिति विभज्य निर्देशः कृतः । निष्पन्नयोगिध्येयतयेति । न विद्यर्थे कृत्यप्रत्ययः, अपितु शक्यत्वाभिप्रायः । योगिध्येयं परं पदमित्यत्रापि स एवार्थः । निष्पन्नयोगिध्येयतया प्रक्रान्तयोगस्य ध्यातुमशक्यत्वं फलितम् । स्वतश्शुद्धिविरहा- दिति । अत्र न शुद्धेरस्वाभाविकत्वमुच्यते; अपि त्वौपाधिकदोषनिरासे स्वयमशक्तत्वेन भगवत्प्रसादसापेक्षत्वं विवक्षितम् । शुभाश्रयत्वं प्रतिषिध्येति । स्वतःशुद्धिविरहादित्यनेन शुभत्वं प्रतिषिद्धम्, अनालम्बनतयेत्यनेना-श्रयत्वं प्रतिषिद्धमिति शुभाश्रयत्वप्रतिषेधः । शुभत्वम्-हेयविरोधित्वम्; न तु हेयराहित्यमात्रम् । "चिन्त्यमात्म-विशुद्धयर्थं सर्वकिल्विषनाशनम्" इत्युक्तत्वात् । शक्तित्रयाश्रयत्वकथनाय शक्तित्रयमनुवदति परेति । अत्र, "सम-स्ताः शक्त-यश्चैताः" इति वचनार्थो विवक्षितः । एताः शक्तय इति बहुवचने सत्यपि समस्तपदं बहुव्यक्तिक्रोडीका-रार्थम् । परशक्तिरेव परमात्मनो रूपमिति परशक्तिरूपम्; परशकत्यात्मकं वा । एवमुत्तरत्रापि । भगवदसाधारण-मिति चतुर्मुखादिशरीरव्यावृत्तिः; भगवदधिष्ठितत्वेऽपि तत्तज्जीवविशेषाभिमानविषयत्वात् तेषां शरीराणाम् । श्रुति-मूलतां दर्शयति आदित्येति । मूर्तरूपमित्यनेन "मूर्ते भगवतो रूपे" इति वचनार्थ उक्तः । उक्तेष्वर्थेष्वयं श्लोकः किंवि-षव इत्यत्राह अत्रेति । शुभाश्रयतानर्हत्वकथनार्थमुच्यते चेत्, अन्यत्रास्यानर्हत्वकथनं वस्त्वन्तरस्य तदर्हत्वकथनं च

द्रष्टव्यमित्यत्राह तथाहीति अस्मिन्नर्थद्वये वचनद्वयमुपादत्ते न तदिति । योगयुजा-प्रक्रान्तयोगेन । अनालम्बन्त्व-मनेन ग्रन्थेनोक्तम्; स्वतःशुद्धिविरहश्च प्रकरणसिद्ध इत्यभिप्रेतः । "अन्ये तु पुरुषव्याघ्र! चेतसो ये व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः" इत्यादिना भगवद्विग्रहव्यतिरिक्तानां हि शुद्धिविरह उक्तः । अन्यस्य रूपस्यार्हताकथनं चास्यरूपस्यानर्हत्वविवक्षासूचकमिति चशब्दार्थः । अन्येत्विति ग्रन्थेन कर्मसंबन्धलक्षणा-शुद्धिकथनात् कर्मसंबन्धविनिर्मुक्तानामपि स्वतःशुद्धिविरहः सूचितः । तेषामपि शुभाश्रयपदस्थशुभशब्देन व्यव-च्छेद्यत्वं स्पष्टयितुमाह तथेति । पश्चादुद्भूतबोधाश्चेत्येतत् व्याख्यातं स्वस्वरूपापन्नानामिति पदेन । आब्रह्मस्त-म्बपर्यन्ता इत्यत्र आङ् अभिविधौ; स्तम्बसमभिव्याहारात् । स्तम्बो हि कर्मवश्यः । "पुमान्न देवः" इत्यारभ्य "भूपैते कर्मयोनयः" इत्युक्तेः । "तेषामप्यन्यतो यतः" इत्येवमन्तस्य ग्रन्थस्यार्थः । पूर्वमुक्तः ।अथ, तस्मात्तदमलं ब्रह्मेत्यादेरर्थमाह परस्येति । स्वासाधारणमित्यस्य पूर्ववदर्थः । प्रत्यस्तमितेत्यादिश्लोकस्य भेदनिषेधपरत्वाभावं निगमयति अत इति ।

अथ ज्ञानस्वरूपमित्यादि श्लोकस्य भेदमिथ्यात्वपरत्वाभावमाह ज्ञानस्वरूपमितीति । अपिः समु#ुच्चये । कृत्स्नमिथ्यात्वप्रतिपादनाभावमुपपादयति ज्ञानेति । ज्ञानस्वरूपस्यार्थाकारतयाऽवभासे भ्रमे सति अर्थाकारस्य तथात्वेननावभासो न भ्रमो भवतीत्यर्थः । तमेव दृष्टान्तेनोपपादयति नहीति । दृष्टान्तात् वैषम्यमुखेन चोद्यं शङ्कते जगद्ब्रह्मणोरिति । तत्र हि सर्वं रजतजातं न शुक्तिकाशकलेन समानाधिकरणं दृष्टम्; अपि तु व्यधिकरणत्वेन प्रमाणप्रतिपन्नम् । अतो न कृत्स्नस्य रजतजातस्य शुक्तित्वेन विरोधः; अपि तु समानाधिकरणरजतस्यैव विरोधः । तत्र विरोधात् समानाधिकृतरजतस्य मिथ्यात्वम्, अविरुद्धस्यासमानाधिकृतरजतस्यामिथ्यात्वञ्च । अत्र तु ब्रह्मव्यतिरिक्तं कृत्स्नं ब्रह्मसमानाधिकरणं प्रतीयते । अतो ज्ञानाकारस्यार्थाकारस्य च विरोधे कृत्स्नस्यार्थजातस्य मिथ्यात्वं फलितमिति । एतत् परिहरति तदसदिति । तत्र प्रथमं परोक्तार्थस्य प्रबन्धवाक्यार्थविरोधमाह अस्मि- न्निति । ब्रह्मणोऽविद्यान्वयो जगतो मिथ्यात्वं चात्र विरुद्धम् । "समस्तहेयहितं विष्ण्वाख्यं परमं पदम्", "ततः स वासुदेवेति", "तद् ब्रह्म परमं नित्यम्", "हेयाभावाच्च निर्मलम्", "तानि सर्वाणि तद्वषुः", "विभूतयो हरेरेताः" इत्यादिवचनादित्यर्थः ।। "भ्रान्तिदर्शनतः स्थितम्", "विष्णुं ग्रसिष्णुम्" इति विष्णोः सगुणस्य भ्रमाश्रयत्वमु-

च्यते । अतस्तत् युक्तम्; परब्रह्म हि निर्दोषमिति शङ्काव्यावृत्त्यर्थं परस्य ब्रह्मणो विष्णोरित्युक्तम् । निरस्ताज्ञा-नादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्मकस्येत्याभ्यां पदाभ्यामविद्यान्वयानुपपत्तिरुक्ता । अविद्या- संबन्धे सति निरस्तसमस्तहेयत्वं समस्तकल्याणगुणात्मकत्वमपि ह्यनुपपन्नं स्यात् । महाविभूतेरिति जगन्मि-थ्यात्वानुपपत्तिरुक्ता । जगतो भगवद्विभूतित्वं हि न प्रमाणान्तरसिद्धम्, येन निषेधार्थमनुवादः स्यात् । अतो विधीयत एव । विधिस्तु न भ्रमं जनयति; तथा सति निषेधवचनस्यापि सतो भेदस्यासत्त्वविषयबुद्धिरूपभ्रमपर-त्वस्यानिर्वायत्वात् । प्रामाण्यं हि वाक्यद्वयस्य समानम् । तस्माद्विहितोऽर्थः परमार्थ एवेति न जगन्मिथ्यात्वमि- त्यर्थः । सामानाधिकरण्येनैक्यप्रतीतौ सत्यां ज्ञानाकारार्थाकारयोर्विरोधादन्यतरमिथ्यात्वं स्यात्, यथा शुक्तिरेव रजतमित्यत्रेति शङ्कायामाह सामानाधिकरण्येनेति । बाधासहम्-न केवलमाकारद्वये; अन्यतरबाधनिरपेक्षमपि सामानाधिकरण्यं संभवति; किन्तु बाधं न सहते; आकारद्वयासिद्धौ सामानाधिकरण्यलक्षणासिद्धेरित्यर्थः । तर्ह्येकस्मिन् वस्तुन्याकारद्वयविरोधः कथं परिह्रियत इत्यत्राह अविरुद्धञ्चेति#ीति ।आकारद्वयाङ्गीकारेऽप्यैक्यप्रति-पादनमविरुद्धम्; सद्वारकत्वादिति भावः । अनन्तरमेव-न त्वधिकरणान्तरे इत्यर्थः । प्रथमश्चशब्दः शङ्कानिवृ-त्तिपरः; द्वितीयः समुच्चयपरः । मिथ्यात्वपरत्वाभावं निगमयति अतोऽयमिति । एवं ज्ञानस्वरूपमिति श्लोकस्य प्रपञ्चमिथ्यात्वपरत्वमनुपपत्त्युद्धाटनेन निरस्तम् । अथ श्लोकं स्वपक्षे व्याख्यातुमुपक्रमते तथा हीति ।

अथ किमर्थं प्रश्नश्लोकव्याख्यानम्? ।। उच्यते-ज्ञानस्वरूपमिति श्लोके द्वितीयान्तपदानां विशेष्यो विष्णुरिति न प्रतीयते; तेषां प्रणम्येति पदेनान्वयश्च न ज्ञायते; श्लोकस्य विशिष्टार्थ(विशिष्ट)परत्वं च प्रकरणस्य विशिष्टपरत्वेन विना नावगम्यते; अतो नमस्कारश्लोकाः व्याख्यातव्याः । तेषु व्याख्यातव्येषु, द्वितीयाध्यायारम्भे नमस्कारकरणं किंनिबन्धनम्; प्रथमत एव हि कर्तव्यमिति शङ्का जायते । शास्त्रस्य प्रश्नप्रतिवचनरूपेणावतीर्ण- त्वात् प्रथमं प्रश्नानां सङ्क्षेपेण प्रतिवचनं कृत्वा विस्तारविवक्षायां द्वितीयाधायायारम्भे नमस्कारः कृतः । अन्यथा प्रश्नानन्तरमेव नमस्यायां क्रियमाणायाम् अस्मत्प्रश्रनस्य किमुच्यत इति शिष्यबुद्धेर्व्याकुलता स्यादिति पूर्वोक्त-शङ्कानिरसनमुखेन नमस्कारश्लोकसङ्गतिप्रदर्शनार्थं प्रश्नश्लोका व्याख्याताः । "ज्ञानस्वरूपम्" इत्यस्मिन् उपक्रम- ग्रन्थे निर्विशेषवस्तुव्यतिरिक्तस्य भ्रान्तिसिद्धत्वदर्शनात् तदनुगुण एवार्थः उत्तरत्र वर्णनीय इति शङ्कापरिहराय उप-क्रमोपक्रमभूतैः प्रश्नोत्तरवर लाभश्लोकैः शास्त्रप्रतिपाद्यः सविभूतिक देवताविशेषः न तु ज्ञाप्तिमात्रमिति शास्त्रता- त्पर्य ज्ञापनार्थं च प्रश्नश्लोकव्याख्यानम् । व्याचिख्यासितश्लोकोक्तभ्रान्त्यन्वयस्य सद्वारकत्वसिद्धये सामानाधिकर- ण्यं शरीरशरीरिभावनिबन्धनमिति यन्मयमिति मयट्प्रत्ययेन ज्ञापनार्थञ्च प्रश्नश्लोका व्यख्यायन्ते ।

तत्र किमयं श्रुतवेदान्तप्रश्नः; उताश्रुतवेदान्तप्रश्नः इति विकल्पे अश्रुतवेदान्तस्य विशेषप्रश्नानुपपत्तिः, श्रुतवेदान्तस्य श्रोतव्याभावात् प्रश्नानुपपत्तिरिति शङ्कायां श्रुतवेदान्तप्रश्न इत्याह यतो वा इमानीत्यादिना । अव- तिते सतीत्यनेन ब्रह्ममीमांसाश्रवणं कृतमित्युक्तम् ।। श्रुतवेदान्तस्य कथं प्रश्नोपपत्तिरिति शङ्कायां श्रुतवेदान्त-स्येतिहासपुराणश्रवणविधिं दर्शयति इतिहासेति । इतिहासेत्यादि श्लोके वेदशब्दो वेदान्तपरः । पब्रंहणानि, इति-हास पुराणानि उपरितन भागो वादेपवृहणपराणीति विभागः । स च स्मृत्यधिकरणे व्यक्तीभविष्यति । तत्र धर्मशा-स्त्रेषु ब्रह्मप्रतिपादनं कर्मणां तदाराधनरूपत्वज्ञापनार्थम् ; इतिहासपुराणेषु कर्मप्रतिपादनं कर्मणां ब्रह्मोपासनाङ्ग-त्वप्रतिपादनार्थम् । इतिहासस्य पुराणेभ्योऽभ्यर्हितत्वं विशेषः । अल्पाच्तरमिति पुराणशब्दस्य पूर्वनिपाते प्राप्ते, अभ्यर्हितं पूर्वं प्रयोक्तव्यमिति पूर्वनिपातितस्येतिहासस्याभ्यर्हितत्वप्रतीतेः । अस्य श्लोकस्य प्रथमार्घं व्याचष्टे उप-बृहंहणं नामेति । षष्ठयन्तविशेषरद्वयेन आगमोत्थं विवेकजं च ज्ञानमस्तीत्युक्तम् । तत्त्वार्थानामिति बहुवचनं

कपिलमतादपि इतिहासादीनां प्राबल्यद्यो-तनार्थम् । व्यक्तीकरणम्-अज्ञातविशेषैः सह स्वावगतार्थ निष्कर्षः । यथा वेदेन कर्तव्यतया विहितस्य सन्ध्योपा-सनादेः शरीरशुतद्धिप्रकारदन्तधावनस्नानादिविशेषैः सह निष्कर्षः, एवमुपनिषद्भागेऽप्यर्थनिष्कर्षः सम्पाद्यः । उपनिषदर्थनिष्कर्षो ब्रह्मविचारसिद्ध इति नोपबृंहणापेक्षेति शङ्कायामुत्त- रार्धं व्याचष्टे सकलोति । पूर्वार्थविहितोपवृंहणकार्यतोपपादकमुत्तरार्धम् । उपबृंहणं नाम अनधीत शाखान्तरार्थैः सह अधीतशाखार्थनिष्कर्षः । अतो नोपबृंहणविचारनैरपेक्ष्यमित्यर्थः ।

ननु यथा आपातप्रतीत्या फलवदर्थावगमात् कर्मविचारे, तदनन्तरं ब्रह्मविचारे च रागतः प्रवृत्तिः-तथा अधीयमानशाखान्तर्गतेन, "अनन्ता वै वेदाः" इति वाक्येन वेदानामानन्त्यावगमादधीतशाखानवगतानां तदविरु-द्धानं विरुद्धानां चार्थानां सम्भवात्, "स्मृतेश्च", "अपि स्मर्यते", इत्यादिसूत्रेषु वेदान्तार्थनिर्णयस्योपबृंहणसापे-क्षत्वदर्शनाच्चोपबृंहणसापेतत्व श्रवणे रागतः प्रवृत्तिरुपपद्यते । तत्र पूवर्भागोपबृंहणेषु धर्मशास्त्रेषउ श्रुतेषु उपनिष-द्भागोपबृंहणरूपेतिहासपुराणेत्वपि रागात्प्रत्तृत्तिरिति विधिवैयर्थ्यम् । अप्राप्ते हि शास्त्रस्यार्थवत्वम् । न च गुरोरेव श्रोतव्यमिति नियमविधिः; अस्मिन् वचने तद्वाचिशब्दाभावात् । इतिहासपुराणयोः श्रवणप्रवृत्तस्य एतद्वचनार्थ-ज्ञानम्, तस्मादितिहासपुराणश्रवणे प्रवृत्तिरित्यन्योन्याश्रयश्च । अतः उपबृंहयेदिति विधिरनुपपन्न इति ।। सत्यम्; भारता-दिप्रबन्धविशेष श्रवणाय तन्मध्यगतेनानेन वचनेन न्यायसिद्धं सामान्यत उपबृंहणस्यापेक्षितत्वमनूद्यते । उपबृंहणं कार्यमिति विज्ञायत इत्यस्यायमर्थः,-न्यायसिद्धमुपबृंहणस्य करणीयत्वमनेन वचनेनापि ज्ञायत इति । उपबृंहणंना-मेत्यादिभाष्येण न्यायप्राप्तिरेव प्रदर्श्यते । यद्वा समन्वय-विरोधपरिहारलक्षणाभ्यामेव तत्त्वस्थितेर्न्नि-श्चितत्वात्, वस्तुनि विरुद्धाकारासंभवादधीयमानश्रुतिनिर्णीतविरुद्धार्थप्रतिपादकप्रदेशान्तरसंभवे वेदस्य भ्रान्ति जल्पितायमानत्वप्रसङ्गाच्च निर्णीततत्त्वविरुद्धार्थ प्रतिपादकप्रदेश(प्रसङ्ग)#्नसंभवात्, ब्रह्मण्यनवगतगुणविभूति-विशेषसद्भावेऽप्युपबृंहणसहस्रैरपि तदियत्ताप्रतिपादनायोगात्, अवगतकतिपयगुणविशेषोपासनेष्वन्यतमेनैव पुरु-षार्थसिद्धयु-पपत्तेश्च उपबंहणश्रवणनिरपेक्षं प्रति उपबृंहयेदिति विधानं युज्यते ।।

नन्वेवं तर्हि न्यायानुगृहितवाक्यावगतेष्वर्थेषूपबृंहणनिष्क्रष्टव्याभावात् निष्क्रष्टव्यांशस्य सूत्रोदाहृतवच-नैरेव निष्कृष्टत्वाच्चोपबृंहणविधिरदृष्टार्थः स्यात् । न च दृष्टे संभवति अदृष्टकल्पनं न्याय्यम् । दृष्टार्थत्वञ्च वचनं दर्श-यति "मामयं प्रतरिष्यति" इति । वेदस्य प्रतारणं नाम तदभिप्रेतविपरीतार्थवर्णनमेव । अतस्तन्निवृत्तिरूपं दृष्टफलं वाचनिकम् । सति तस्मिन् अदृष्टकल्पनमयुक्तम् । तर्हि तदेव दृष्टं फलमिति चेत्-तदप्ययुक्तम्; तत्त्वविपर्यासप्रति-पादनासंभवस्य त्वयैवोक्तत्वात्; साकल्येन ब्रह्मविभूत्यनवगमस्य समस्ततदवान्तरविशेषानवगमस्य च वेदप्रतारण-रूपत्वाभावेन तन्निवृत्तेः फलत्वायोगाच्च ।।

उच्यते । यद्यपि परतत्त्व-तदुपासनप्रतिपादनेषु विपर्यासासंभवः-तथापि, "किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्द(र्म्य)म् । आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन् रन्धायानः" इत्यादि-वाक्यप्रतिपन्नप्रमगन्दादिवृत्तान्तस्येव परमात्मसृज्यसुरनरतिर्यगादिविशेषतदुत्पत्तितद्वृत्तविशेषाणां श्रुति सामा-न्यप्रतीतत्वेन वाक्याविवक्षितत्वं मन्यमानः अहल्याजारादिवाक्यानां पण्डितमानिभिरितरैरुक्तमर्थमिव वेदपूर्वर्-भागोपनिषद्भागगतानां मन्त्रार्थवादानामन्यथार्थत्वं मन्यते चेत्, अश्रुतोपबृंहणतया वेदं प्रतारयत्येवायमिति तत्परिहारायोपबृंहणविधिरुपपद्यत इति । न चान्योन्याश्रयः; स्वाध्यायविधिवाक्यस्य स्वाध्यायान्तर्भावेऽपि, अध्ययनाद्विध्यवगमः विध्यवगमादध्ययनमिति यथा नान्योन्याश्रयः, तद्वत् । तत्र हि विध्यभिज्ञपुरुषप्रेरणात्, तदनुष्ठानदर्शनाद्वा माणवकप्रवृत्तिः । एवमुपबृंहणविध्यभिज्ञशिष्टजनवादप्रसिद्धया, तदभिज्ञस्वगुरुवचनेन वा,

तेनोपबृंहणाधिगमप्रवृत्तपुरुषान्तरदर्शनाद्वा उपबृंहणज्ञानस्य संपाद्यताज्ञानात् शिष्यस्य प्रश्नः उपपद्यते । अत उपबृंहणविधिरुपपन्नः ।

तत्र स्वगुरोः पराशरस्य सार्वज्ञ्यप्रसिद्धेः तेनैव सर्वविद्यास्थलेषु स्वस्य कृतशिक्षत्वाच्च मैत्रेयस्य तत्प्रणीत-पुराणश्रवणप्रवृत्त्युपपत्तिः ।

पुराणान्तरेभ्योऽस्य पुराणस्य वैषम्यं वदन् प्रश्नान् अवतारयति तत्रेति । अस्य तावत् पुराणरत्नस्य प्राच्योदीच्यादिसर्वविद्वज्जनविदितस्य पुराणान्तरेभ्योऽपि प्रसिद्धिप्राचुर्यात्, धर्मशस्त्रेषु मानवस्येव, व्याकरणेषु पाणिनीयस्येव च सजातीयप्रबन्धेभ्यः प्रकर्षातिशयो नापह्नोतुं शक्यते । तत एव प्रसिद्धिप्राचुर्यात् कौर्मादेरिव नष्ट-कोशत्वशङ्का दूरोत्सारिता । अनतिविस्तरत्वाच्च प्रक्षेपशङ्का नावतरति । अन्यपरोक्तिप्रसिद्धपरिग्रहातिशयं चेदम् "षडइ परासरसद्दम्" (पठति पराशरशब्दम् ) इति ।

"अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ।। सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसप्तंसिद्धा गमिष्यन्ति परं गतिम् । यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं -ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते" इति सम्यज्ज्ञाननिष्पादकसत्त्वमूलत्वात्, अन्यथाज्ञा-नविपरीतज्ञानहेतुभूतरजस्तमोमूलत्वाभावात् दुष्टकारणपुराणान्तरसाम्यं न संभावनीयम् । सत्त्वस्य यथार्थज्ञान- हेतुत्वं रजस्तमसोश्चान्यथाज्ञानविपरीतज्ञानहेतुत्वम्, "सत्त्वात् सञ्जायते ज्ञानम्", "अयथावत्प्रजानाति बुद्धिः सा पार्थ! राजसी", "सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी" इति च वचनात् प्रसिद्धम् । "सत्त्वं लघु प्रकाशकमिष्टम् उपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः" इति, "सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः" इति च प्रसिद्धम् ।।

ननु चतुर्मुखशिवादिप्रतिपादकपुराणानां रजस्तमोमूलत्वपरवचनस्य रजस्तमोमूलत्वेन प्राणाण्याभावात् सात्त्विकपुराणप्राबल्यासिद्धिः । अस्य वचनस्य सत्त्वमूलत्वे प्रमाणं नास्ति । अत एव तद्वचनमात्रस्याप्रामाण्यं वक्तुं युक्तम्, न बहूनां पुराणानाम्; भूयसां बलीयस्त्वात् ।। उच्यते । न तावदस्य वचनस्य प्रामाण्ये विमतिर्न्याय्या; बाधकादर्शनात् स्वतस्सिद्धप्रामाण्यस्यानपोदितत्वात् । "यो ह खलु वा अस्य राजसोंशः, सोऽसौ ब्रह्मचारिणो योऽयं ब्रह्मा । यो ह खलु वा अस्य सात्त्विकोंशः, सोऽसौ ब्रह्मचारिणो योऽयं विष्णुः । यो ह खलु वा अस्य तामसोंऽशः, सोऽसौ ब्रह्मचारिणो योऽयं रुद्रः" इति , "महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः" इति च श्रुत्यानुगु-ण्येन तत्तद्गुणमयत्वेनावगतस्य तत्तत्तत्त्वस्य तत्तत्कल्पेषु तत्तद्गुणमयेन ब्रह्मणा तेषु तेषु पुराणेषु प्रतिपादितत्व- परस्य वचनस्योपपन्नार्तत्वाच्च । सकलशास्त्रार्थव्यवस्थापके महाभारते च मोक्षधर्मे, "जायमानं हि पुरुषं यं पश्ये-न्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः (निश्चयः)" इत्यादिना भगवत्कटाक्षेण सत्त्वगुणमूल-सम्यग्ज्ञाननिश्चयमुक्त्वा, "पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा चास्य मानसं समभिप्लु- तम्" इति चतुर्मुखशिवायोः कटाक्षेण रजस्तमोमूलकालुष्यप्रतिपादनाच्च चतुर्मुखशिवप्रतिपादकप्रबन्धानां रजस्त-मोमूलत्वमुपपद्यते । अस्य वचनस्य रजस्तमोमूलपुराणस्थत्वेऽपि नाप्रामाण्यं शङ्कनीयम्,ब्रह्मशिवादिप्रतिपादना-भिनिविष्टस्य प्रबन्धस्य भगवत्प्रकर्षोक्तौ आग्रहासंभवेनास्य वचनस्य तत्त्वपरत्वोपपत्तेः । स्वप्रतिपाद्यदेवतायामेव हि वक्तुराग्रहसंभवः, न त्वन्यत्र। तस्मान्नास्य वचनस्य कारणदोषसंभवः ।

यदुक्तमनेकपुराणाप्रामाण्यात् एतद्वचनमात्राप्रामाण्यं युक्तम्; भूयसां बलींयस्त्वादिति-तदयुक्तम्; सा-क्षादर्थविरोधाभावात् । न हि विधिशिवप्रतिपादकप्रबन्धानां रजस्तमोमूलत्वं नेति तेषु पुराणेष्ववगम्यते ।। तत्त-

त्प्रबन्धेष्वेव प्रमाणतया प्रतिपन्नानां तेषां प्रामाण्यं रजस्तमोमूलत्वं च विरुद्धमिति परम्परया विरोधः फलितः; तत्र भूयसां बलीयस्त्वमिति चेत्-यदि केवलमेतद्ववचनमात्रविरोधेन तेषामप्रामाण्यम्, तदा स्यादयं दोषः । पुरा- णाना परस्परविरोधेन सर्वेषामविशेषेण प्रामाण्येऽनुपपन्ने, सर्वाप्रामाण्यादपि कतिपयप्रामाण्यसिद्धयनुगुणनि- र्वाहे न्याय्ये सति, कस्याप्रामाण्यं कस्य च प्रामाण्यमित्यपेक्षायां विषयव्यवस्थामात्रपरत्वादस्य वचनस्य । अतो- ऽनेन सत्त्वादिमूलत्वे ज्ञापिते सति अदुष्टमूलैः प्रबन्धैर्दुष्टमूलप्रबन्धबाधः । अतो न भूयसांबलीयस्त्वनयेन तद्वच-नबाधः ।। भगवत्प्रतिपादकपुराणेभ्यो विधिशिवप्रतिपादकपुराणबाहुल्यात् तत्प्रामाण्यमिति चेत्,-इदं तावत् वचनमबाधितम्; इह भूयसांबलीयस्त्वनयानवतारात् । एवं बाधकरहितेनानेन वचनेन सत्त्वादिमूलत्वे पुराणाना-मवगते सति दुष्टमूलपुराणबाहुल्यमदुष्टमूलमेकमपि पुराणं न बाधितुं प्रभवति । न हि भ्रान्तपुरुषसहस्रवचनैरे-कस्याभ्रान्तस्य वचनं बाध्यते । अतो भगवत्प्रतिपादकत्वेन सत्त्वमूलत्वान्न कारणदोषः ।

तथा पुराणान्तराणामिवास्य बाधकप्रत्ययो न दृश्यते; नारायणस्यैव परमकारणत्वप्रतिपादनात् । प्रत्यक्षश्रुतिषु हि नारायणस्यैव सामान्यशब्दविशेषशब्दाभ्यां कारणत्वमुकत्वा, "न चास्य कश्चिज्जनिता न चाधिषः", "न तत्सम-श्चाभ्यधिकश्च दृश्यते", "न ह्येतस्मादिति नेत्यन्यत्परमस्ति", "यस्मात्परं नापरमस्ति किञ्चित्" इति कारणभूतात् तस्मादन्यस्य परत्वं च निषिध्यते । " न ब्रह्मा नेशानः", "तत्र ब्रह्मा चर्तुमुखोऽजायत", "त्र्यक्षः शूलपाणिः पुरुषो-ऽजायत", "ततो यज्ञ उग्रस्त्वेष नृम्णः", "विरूपाक्षाय...ब्रह्मणः पुत्राय", "अजस्य नाभावध्येकमर्पितम्", "स प्रजापतिरेकः पुष्करपर्णे समभवत्", "यन्नाभिपद्मादभवन्महात्मा प्रजापतिः" इति ब्रह्मशिवयोश्च नारायणादुत्पत्तिः श्रूयते । लैङ्गे तु ब्रह्मविष्णू प्रति, "युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ" इति रुद्रोक्त्या रुद्रात् हरिचतुर्मुखयो-रुत्पत्त्यवगमात् पुराणान्तराणां श्रुतिविरोधः स्फुटतरः । यद्यपि कैश्चित् त्रयाणां देवानां साम्यमैक्यं चाभ्युपगतम्, तत्राप्ययं विरोधो दुष्परिहरः; तुल्यानामेकीभूतानामपि तेषामुत्पत्तिप्रतिपादने भगवतश्चतुर्मुखशिवयोरुत्पत्तिश्रव- णात् रुद्रादितरयोरुत्पत्तेः क्कचिदपि वाक्ये श्रवणाभावाच्च । कारणवाचिशिवादिशब्दानामाकाशादिशब्दानामिव कार्यतयाऽवगतप्रसिद्धरुद्रादिपरत्वाभावाच्च । "सर्वे विष्णुमया वेदाः सर्वे विष्णुमया ग(गु)णाः । न हि ;विष्णु- समा काचिद्गतिरन्या विधीयते । इत्येवं सततं वेदा गायन्ते नात्र संशयः ।।" इति लैङ्गादावपि वेदानां भगवत्पर-त्वप्रतिपादकत्वाभ्युपगमाच्च । अतो नारायणस्यैव परमकारणत्वपराभिः प्रत्यक्षश्रुतिभिर्बाधकप्रत्ययवद्वयः पुरा-णान्तरेभ्यो वैलक्षण्यं स्फुटम् ।

तथा नारायणमेव परमकारणं प्रतिपादयद्भिर्मानवादिधर्मशास्त्रैरष्यैकार्थ्यं स्पष्टम् । "आपो नारा इति प्रोक्ताः, "तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कार्त्यते", "विद्यात्तु पुरुषं परम्", "नारायणः परोऽव्यक्तात्" इत्यादि-भिर्नारायणस्यैव हि कारणत्वं तेषूच्यते । पुराणान्तराणि तु धर्मशास्त्रविरुद्धानि च । तथा वक्तृवैलक्षण्यं च प्रत्यक्ष-श्रुतिसिद्धम्, "स होवाच व्यासः पराशर्यः" इति । अत्र पराशरात्मजत्वेन हि व्यासोत्कषर् उच्यते । तथा लैङ्गेऽपि पराशरवैलक्षण्यं प्रतीयते; यथा तत्र द्वितीयेऽध्याये, "पराशरस्यावतारो व्यासस्य च शुकस्य च । विनाशं राक्षसा- नां तु कृतं वै शक्तिसूनुना" इति । अत्र पराशरस्यावतारः इत्युक्तिर्हि प्रकर्षातिशयार्था । अन्यथा "पराशरस्य चो-त्पत्तिर्व्यासस्य च शुकस्य च" इत्यपि हि वक्तुं शक्यते ।

पुलस्त्यवसिष्ठवरदानलब्धपरदेवतापारमार्थ्यज्ञानवत्त्वं च महत् वैलक्षण्यम् । वरदाने सति एतत्पुराण-प्रमाण्यम् तत्प्रामाण्ये सति तत्प्रतिपन्नवरलाभसत्यत्वमित्यन्योन्याश्रय इति न वाच्यम्; वरलाभवचनस्य "परा- शरो न लब्धवरः" इति बाधकप्रत्ययाभावेन स्वतस्सिद्धप्रामाण्यस्यानपोदितत्वात् । लैङ्गै च देवतापारमार्थ्यज्ञान-

लाभः पराशरस्यावगम्यते । यथा तत्र द्वितीयेऽध्याये, "देवतापरामार्थ्यं च विज्ञानं च प्रसादतः । पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः" इति । तत्रैव त्रिषष्टितमेऽध्याये, "अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः । प्रसादा- द्वैष्णवं चक्रे पुराणं वै पराशरः" इति च । तदनन्तरं च, "षट्प्रकारं समस्तार्थसाधकज्ञानसंश्रयम् । दशसाहस्त्रम- सितं सर्ववेदार्थसंयुतम्" इत्यनेनास्य पुराणरत्नस्य सर्ववेदार्थसंयुतत्वम्, अत एव समस्तपुरुषार्थसाधकज्ञानप्रसाध- कत्वं चोच्यते । अतो वक्तृवैलक्षण्यं प्रबन्धवैलक्षण्यं च पुराणान्तरसिद्धमिति तत् दुरपह्नवम् ।

इदं चापरं सुमहत् वैलक्षण्यम्-यत् सामान्यप्रश्नपूर्वकविशेषनिष्ठप्रतिवचनरूपत्वम्, "सोऽहमिच्छामि धर्मज्ञ! श्रु#ोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा माहभाग! भविष्यति । यन्मयं च जगत् ब्रह्मन! यतश्चैतच्चरा- चरम् ।।" इत्यादिना सामान्येन पृष्टे, "विष्णोः सकाशदुद्भूतम्" इति विशेषनिष्ठप्रतिवचनं ह्यवगम्यते । विशेषे पृष्टे सति, प्रतिवचनस्य पृष्टविशेषपक्षपातेन तदुत्कर्षकथनं प्रससामात्रम्, न तत्त्वपरमिति शङ्कनीयं स्यात् । सामान्येन पृष्टे सति प्रतिवचनमर्थवशाद्विशेषेपर्यवसितमिति तत्त्वपरत्वमेव स्यात् । अतश्च, "तस्माद्भवन्तं पृच्छामः सूत! पौराणिकाद्य तु । पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंयुताम्" इति विशेषनिष्ठप्रश्नोपक्रमतत्प्रतिवचनरूपपुराणा-न्तरेभ्यः प्रकर्षातिशयः स्पष्टतमः ।

एतत्पुराणार्थश्च लैङ्गादिषु क्वचित् क्वचिदङ्गीक्रियते । यथा लैङ्गै द्वितीये पुराणार्थानुक्रमणे, "सर्वावर्तेषु विष्णोश्च जननं लीलयैव तु । विष्णोः प्रसादाज्जिष्णोश्च विष्णोश्चैव तु सम्भवः ।।", तत्र लीलया चैव कृष्णेन स्व-कुलस्य च संहृतिः । जरकास्त्रच्छलेनैव गमनं स्वेच्छयैव तु" इति । भगवदवतारस्य भूलोकपरित्यागस्य च लीला-मात्रनिबन्धनत्वं हि तत्रोच्यते । अत एव एतत्पुराणार्थस्य अन्यत्राभ्युपगतत्वादप्रकाम्प्यत्वमवगम्यते ।। तर्हि एतदैकार्थ्यात् तान्यपि पुराणानि प्रमाणानि स्युरिति चेन्न; कात्सर्न्येनाविरुद्धत्वाभावात् । भगवदुत्कषर्प्रतिपाद-कांशस्तु आग्रहासंभवादादरणीय इति पूर्वमेवोक्तम् । अस्य च पुराणरत्नस्य कार्त्स्न्#ेनाऽनाग्रहमूलत्वं चोपक्रम-गतप्रश्नस्वाभाव्यादवगतमिति चोक्तम् ।। अतोऽन्यत्र बद्धाग्रहैरप्यादरणीयस्वोक्तार्थत्वमप्रकम्प्यताहेतुः ।

किञ्च पुराणान्तरेष्विवास्य पुराणस्य न स्वव्याहतार्थप्रतिपादकत्वं दृश्यते; कार्त्स्न्#ेन भगवत्प्रकर्षस्यै-वावगमात् । पुराणान्तरेषु व्याघातः प्रतीयते; यथा लैङ्गे, "युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ । अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वामपार्श्वे च मे विष्णुविर्श्वात्मा हृदयोद्भवः" इति । तत्र, "ततः प्रहृष्टः सुमनाः प्रणिपत्य महेश्वरम् । प्राह नारायणो देवः सलिङ्ग लिङ्गवर्जितम् । यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्ति-र्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी" इति हरिविरिञ्चयोः शिवादुत्पत्तितदाराधन-वरवरणादिकमुक्तम् । तत्र क्वचित्, "त्वत्कोपसम्भवो रुद्रस्तमसा च समावृत्तः । त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः" इति चतुर्मुखशि-वयोर्भगवत्प्रसादकोपसम्भवत्वमुक्तमिति स्वव्याघातः । न च वसुदेवादेरुत्पत्तिवत् कैलासयात्रादिवच्च रुद्रादुत्प-त्तितदाराधनरूपलीलोक्तिरित्यविरोधेः; पुराणरत्न-भारतादौ, "मनसैव जगत्सृष्टिं संहारं च करोति यः । तस्या-रिपक्षक्षपणे कियानुद्यमविस्तरः । तथापि यो मनुष्याणां धर्मस्तदनुवर्तनम् । कुर्वन् वलवता सन्धिं हीनैर्युद्धं करो- त्यसौ । साम चापि प्रदानं च तथा भेदप्रदशर्नम् । करोति दण्डपातं च क्वचिदे(वं?) पलायनम् । मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते । लीला जगत्पतेस्तस्य च्छन्दतः संप्रतर्तते । ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः । तेन वञ्चयते लोकान् मायायोगेन केशवः । ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ।।" इत्यादिभिरिव तत्र तत्र प्रसक्तापकर्षपरिहारग्रन्थादर्शनात्; भारतादिषु दशरथवसुदेवादीनां रामकृष्णाद्यपेक्षया परत्वस्य जगत्कारणत्वादिमुखेन प्रतिपादनाभावात्, इह च भगवदपेक्षया रुद्रपरत्वस्य प्रति-

पादनाच्च । अतः स्वव्याघातो दुष्परिहरः । न च तथा अत्र स्वव्याहतिः प्रतियत इति इदञ्च महद्वैलक्षण्यम् । उक्त-लक्षणप्रकर्षवतो वैष्णवपुराणस्य कारणदोषबाधकप्रत्ययस्वव्याहतिमत्प्रबन्धान्तरस्य च विरोधे सति पुराणरत्नस्य प्राबल्यम्, अन्येषां दौबर्ल्यं च सुस्पष्टम् ।

एवं प्रसिद्धयतिशयलब्धसजातीयप्रबन्धप्रकर्षवत्त्वात्, तत एव नष्टकोशत्वाभावात्, अनतिविस्तृतया प्रक्षेपशङ्कारहितत्वात्, अन्यपरोक्ति(प्र)सिद्धिपरिग्रहातिशयवत्त्वात्, सामान्यप्रश्नपूर्वप्रतिवचनरूपत्वेन अनाग्रह-मूलत्वात्, अत एवेदृशवैलक्षण्यरहितकारणदोषबाधकप्रत्ययस्वव्याहतिमत्प्रबन्धान्तराणामेतद्विरोधे सति दोर्बल्य-स्यावर्जनीयत्वाच्च श्रीमद्वैष्णवमिदं पुराणं प्रमाणतमम् । एतत् सर्वं हेतुजातमभिप्रेत्य प्रधानभूतयुक्तं कण्ठोकत्या प्रदर्शयन् तन्मुखेन प्रबन्धवैलक्षण्यं वदन् प्रश्नमवतारयति-तत्रेति । पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमा-र्थ्यज्ञानवत इत्यत्र देवतापारमार्थ्यशब्देन तमःकार्यं धर्म्यन्तरत्वेन धर्म्यन्तरस्य प्रतीतिरूपं विपरीतज्ञानं व्यावर्ति- तम् । अनेन देवतापारमार्थ्यं चेति वचनं स्मा(स्फो)रितम् । प्रशंसार्थेन मतुप्प्रत्ययेन रजःकार्यं प्रकारान्तरोपेतस्य तद्विरुद्धप्रकारान्तरविशिष्टताप्रतीतिरूपमन्यथाज्ञानं व्यावर्तितम् । अनेन यथावदित्यस्यार्थः सूचितो भवति । देवताशब्देन कर्मणा उपासनेन वा आराध्यत्वं फलप्रदत्वं च विवक्षितम् । अनेन सविशेषत्वसिद्धिः । यथावदिति प्रकारकथनेनापि सविशेषत्वसिद्धिः-इति वरलाभकथनं सविशेषत्वोपपादकमित्यभिप्रायः । भगवच्छब्देन ज्ञान-वत्त्वमुक्तम् । वरलाभात् तदतिशयसिद्धिः । सोऽहमित्यादि । सोऽहम्-त्वयैव सर्वविद्यासु शिक्षितपूर्वोऽहमिति भावः । धर्मज्ञ-"विशेषोऽस्ति न सतां शिष्यपुत्रयोः" इत्येवरूपधर्मज्ञ । यद्वा "आनृशंस्यं परो धर्मः" इति धर्मज्ञ । आनृशंस्यम्-आश्रितसंरक्षणपरत्वम् । "आश्रितेत्यानृशंस्यतः" इति वचनात् । महाभाग । परिपूर्णकृत्यं हि पर-संरक्षणम् । किञ्चित्कारमप्यनपेक्ष्य रक्षकस्त्वमेवेति भावः । यथा यतो बभूव । ब्रह्मरुद्रांदिषु कः कारणमिति ज्ञातुं यत इति प्रश्नः । किं विवर्ताधिष्ठानत्वं कारणत्वम्, उत परिणामित्वम्? तत्रापि किं सद्वारकपरिणामित्वम्, उता-द्वारकपरिणामित्वमिति प्रकारभेदजिज्ञासया यथेति प्रश्नः । कल्पभेदेन सृष्टिवैषम्यशङ्कया भविष्यतीति प्रश्नः । वृश्चिकस्य गोमयवृश्चिकोपादानकत्वदर्शनात् कल्पभेदेन उपादानादिभेदशङ्का ह्युपपद्यते । तत्रापि यतो यथेति पदयोः पूवर्वदर्थः । यतो यथा वभूवेति एकप्रश्नत्वशङ्का यन्मयमिति प्रश्नान्तरव्यवधानेन निरस्यते । (तच्छ ?) यथा कारणं ज्ञातव्यम्, तथा सृष्टिप्रकारोऽपि प्रथग् ज्ञातव्य इति ज्ञापनार्थम् । ज्ञातव्यत्वेऽपि प्राधान्यद्योतनाय प्रकारप्रश्नः पूर्वमेव कृतः । यत इति हेतौ पञ्चमी । अतो निमित्तोपादानयोस्तन्त्रेण प्रश्नः । अन्तस्स्थित्याद्युपयुक्ता-त्मशरीरभावप्रश्नः यन्मयमिति । मयट्प्रत्ययः प्राचुर्यार्थः । अनेन व्याप्तिर्दशिता । व्याप्यात् व्यापकप्राचुर्थं हि घटाकाशादौ दृष्टम् । आत्मतया हि व्याप्तिः । आत्मत्वञ्च धारकत्वम् । अतोऽन्तर्यामिकृतसत्तानुवृत्तिलक्षण-स्थितिप्रश्नः फलितः । यन्मयम् । येनान्तर्यामिणा धारकेण प्रचुरं जगत् स्थितमित्यर्थ उक्तो भवति । अन्तः प्रवि- श्य प्रशासनेन धारकत्वं स्थितिहेतुत्वमिति हि प्रागेव विशदीकृतम् । चशब्दात् बहिर्भूतपोषकादिकृता पोषणादि-लक्षणा स्थितिः, मातापित्रादिभिः कार्या इष्टप्रापणानिष्टनिवारणलक्षणा स्थितिश्च पृष्टा भवति । यत इत्युपादान-स्यापि पृष्टत्वात् मयट् प्राचुर्यार्थ एव । न च गोवलीवर्दन्यायेन यत इति पञ्चम्यर्थः सङ्कोचयितव्यः, बलीवर्दशब्दवत् मयट्#ोऽनन्यथासिद्वत्वाभावात् सङ्कोचकत्वानुपपत्तेः । पदान्तरवैयर्थ्यपरिजिहीर्षया पदान्तरार्थसङ्कोचो गोबली-बर्दनय इति हि न्यायविदः । अत्र तु मयटोऽर्थान्तरसंभवात् नायं सङ्कोचकः । यत इति पदं निमित्तमुपादानं च बोधयितुं शक्तम् । स्थितिप्रश्नोऽपेक्षितश्च । अतोऽपेक्षितविधेरनपेक्षितविधानं दुर्बलम् । "यतो वा इमानि" इत्या-दिश्रुतावपि यत इति पदेनैव निमित्तोपादानयोरुक्तत्वात् श्रुतिच्छायानुविधानाच्च यत इति तन्त्रेण प्रश्न इति,

यन्मयमिति स्थितिप्रश्न एव क्रियते । अर्थान्तरस्वीकारे अपेक्षितावचनमनपेक्षितवचनं च स्यात् । नापि स्वा- र्थिको मयटश्र; प्रत्ययस्यार्थवत्त्वे संभवति । तत्परित्यागस्यान्याय्यत्वात् । अतो यथोक्त एवार्थः । लयस्थानप्रश्नो लयप्रकारप्रश्नश्च अनधीतशाखान्तरेषु स्थानभेदप्रकारभेदशङ्कया कृतः । देवतान्तरस्य लयस्थानत्वं तत्रापि सद्वा-रकत्वाद्वारकत्व कायर्भ्रमनिवृत्तिरूपताख्यप्रकारभेदश्च हि शङ्कास्पदं भवति । भूतभविष्यत्प्रश्नश्च कल्पभेदेन लय-स्थानप्रकारभेदशङ्कया कृतः । चकारात् लयकर्तृप्रश्नश्च सूचितः । स च कर्तृभेदशङ्कानिबन्धनः । स्वरूपप्रश्नश्लो-कद्वयं व्याचिख्यासितश्लोकापेक्षितत्वेनोदाहृत्य आदिशब्देन प्रश्नान्तरश्लोकाः क्रोडीकृताः । विष्णोस्सकाशा- दिति श्लोकस्यार्थान्तरप्रश्नोत्तररूपत्वशङ्काव्युदासार्थं तेषां श्लोकानामर्थं संग्रहेणाह अत्रेति । ब्रह्मस्वरूपेति स्व-रूपशब्दो विभूत्यादिव्यावर्तकः । स्वरूपविशेषशब्दो ब्रह्मादिव्यावर्तकः । विभूतिभेदानां प्रकारो विभूतिभेदप्र- कारः । स च ज्योतिश्चक्रभुवनकोशादिप्रश्नेऽन्तर्गतः । वर्णाश्रमधर्मादिप्रश्नेन तदाराधनस्वरूपं पृष्टम्; प्रतिवचने फलविशेषोक्तिदर्शनात् । "प्रतिवचनप्रकारेण प्रश्नार्थो विज्ञायते" इति नीत्या फलविशेषश्चात्र पृष्टो भवतीति पूर्वोक्तेषु प्रश्नेप्वन्तर्भावित इत्यभिप्रायेण फलविशेषाश्च पृष्टा इत्युक्तम् । सप्रयोजनमाराधनं पृष्टमिति तत्र तदन्त-र्भावः । अयमेवार्थः सकलश्रुतीतिहासपुराणानां प्रतिपाद्य इति भावः । ततः किं प्रस्तुतश्लोकार्थस्येत्यपेक्षायां यन्म-यमिति पदस्यार्थं सोपपत्तिकमाह ब्रह्मस्वरूपेति । सृष्टिस्थितिलयकर्मभूतमिति पदं सृष्टिप्रलययोरुक्तत्वेन स्थि-तिकथनस्यापेक्षितत्वज्ञापनार्थम् । स्थितिलयशब्दाभ्यां रक्षासंहारौ विवक्षितौ; स्थितिलययोः प्रयोज्यव्यापारत्वेन तदाश्रयत्वेन तत्कर्मत्वाभावाज्जगतः । सृष्टिस्थितिलयकर्मभूतं जगत् स्थित्यर्थं किमात्मकं भवतीति प्रश्नार्थः । ततः किमित्यत्राह तस्यचेति । जगच्च स इति सामानाधिकरण्यप्रतिपन्नं तादात्म्यं स्वरूपैक्यलक्षणमाशङ्कय परि-हरति इदं चेति । इदम्-सामानाधिकरण्यप्रतिपन्नमित्यर्थः । गगनादौ व्याप्तिमात्रेण तादात्म्यं न दृष्टमिति तद्वया-वृत्त्यर्थमात्मत्वं विवृणोति अन्तर्यामिरूपेणेति । अन्तःप्रविश्य नियन्तृत्वं ह्यात्मत्वम् । व्याप्यव्यापकयोरिति । जगद्ब्रह्मणोर्व्याष्यत्वेन व्यापकत्वे च श्रुतिसिद्धत्वादिति भावः । न तु वस्त्वैक्यकृतमिति प्रतिज्ञामुपपादयति यन्मयमिति । विकारार्थत्वमाशङ्कय परिहरति यन्मयमिति मयडिति । कुत इत्यत्राह पृथगिति विकारार्थत्वे उपा- दानं पृष्टं स्यात् । न च तत् प्रष्टव्यम्; यत इति पञ्चम्यन्तपदेन उपादानस्यापि पृष्टत्वात् । अतः पृथक्प्रश्नवैयर्थ्यम् । न च गोबलीवर्दन्यायः, अर्थान्तरसंभवादिति । अपेक्षितविधेरनपेक्षितविधानं दुर्बलमिति न्यायश्चाभिप्रेतः । ब्रह्मा-ज्ञानवादिनोऽभिमतं स्वार्थिकत्वपक्षं दूषयति नापीति । न तु भेदाभेदपक्षाभ्युपगतम् । तत्तु दूषयिष्यते । न ह्यर्थे संभवति निरर्थकत्वाश्रयणमुपपन्नमिति भावः । श्रुतार्थस्वीकारेणाश्रुतकल्पनं ह्युचितम्; न तु श्रुतपरित्यागः । ब्रह्माज्ञानवादिनाऽभ्युपगतस्य स्वाथिर्कत्वस्य असाधारणं दूषणमाह-जगदिति । स्वार्थिकत्वपक्षे यदिदं जगत् तत्किमित्युक्तं स्यात् । यदिदं जगत् तत्किमित्युक्ते ज्ञातस्य जगद्रूपमात्रस्य प्रष्टव्यत्वायोगात् प्रश्नावैयर्त्याय, तत् किं सत्यम् उत मिथ्या इति पृष्टं भवतीत्यभ्युपेतव्यम् । तत्र मिथ्येत्युत्तरं वक्तव्यम् । तत्रान्यतराकारोपस्थापके आकारान्तरनिषेधके च शब्दे वक्तव्ये आकारद्वयोपस्थापकं सामानाधिकरण्यमनुपपन्नमित्यर्थः । बाधार्थं सामाना-धिकरण्यमिति चेत्-तन्नास्ति, माता मे वन्ध्येतिवत् "सामानाधिकरण्यं बाधार्थम्" इति व्याहतत्वादिति भावः । तर्हि कथमुत्तरं स्यादित्यत्राह तदा हीति । विष्णुरित्यन्यतराकारोपस्थापकः शब्दः, आकारान्तरनिषेधकशब्द एवकारः । साक्षादर्थमाह अत इति । अतः-स्वार्थिकत्वविकारार्थत्वयोरनुपपन्नत्वादित्यर्थः । शब्दानुशासनानुमर्ति दर्शयति तदिति । प्रकृतम्-प्रकर्षेण कृतम्; प्रभूतम्; प्रचुरमित्यर्थः । "अन्नमयो यज्ञः", "शकटमयी यात्रा" इति हि तस्योदाहरणम् । किमत्र प्राचुर्यमस्तीत्यत्राह कृत्स्नञ्चेति । अन्तर्बहिश्च व्याप्येत्यादिश्रुतेस्तदुपपन्नमिति भावः ।

सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वं प्रतिपिपादायिषितमुपसंहरति तस्मादिति ।। यन्मयमित्यस्य प्राचुर्या-र्थत्वेन तस्योत्तरत्वात् जगच्च स इति सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वम्; तेन स्वार्थिकत्वनिवृत्त्या यन्मयमिति मयट्प्रत्ययस्य प्रचुर्यार्थत्वमित्यन्योन्याश्रय इति चेत्-नैवम्; मयट्प्रत्ययस्य स्वर्थिकत्वनिवृत्तेः प्राचुर्या-र्थत्वनिर्णयस्य च सामानाधिकरण्यस्य शरीरात्मभावनिबन्धनत्वानपेक्षत्वात् । स्वार्थिकत्वं तावत् अर्थवत्त्वे संभ- वति निरर्थकत्वस्वीकारायोगादपास्तम्; जगच्च स इति सामानाधिकरण्येन च अपास्तम् । स्वार्थिकत्वे सति आका-

रद्वयोपस्थापक सामानाधिकरण्यस्योत्तरत्वायोगात्; न तु शरीरात्मभावनिबन्धनत्वायोगात् । न च सामानाधि-करण्यस्य प्रवृत्तिनिमित्तभूताकारद्वयोपस्थापकत्वं मयट्प्रत्ययस्य स्वार्थिकत्वनिवृत्तिसापेक्षम्, सामानाधिकरण्य-लक्षणस्वभावादेव तस्याकारद्वयोपस्थापकत्वसिद्धेः । अतो मयट्प्रत्ययस्य स्वार्थिकत्वनिवृत्तिः सामानाधिकर-ण्यस्याकारद्वयोपस्थापकत्वादित्यत्र नान्योन्याश्रयः । एवं स्वार्थिकत्वे व्युदस्ते, पृथक् प्रश्नवैयर्थ्येन विकारार्थत्वे-ऽनुपपन्ने, परिशेषाच्च स्थितेः प्रष्टव्यत्वे सति, स्थितिस्वाभाव्यात् अनुशासनानुरोधाच्च मयट्प्रत्ययस्य प्राचुर्यरूपा-र्थविशेषपरत्वसिद्धिः । ततो जगच्च स इति सामानाधिकरण्यस्य शरीरात्मभावरूपप्रवृत्तिनिमित्तविशेषसिद्धिरिति नान्योन्याश्रयः । एवं सामानाधिकरण्यस्य मृषावाद्यभिमतैक्यपरत्वे मयडानर्थक्यं सामानाधिकरण्यानुपपत्तिश्चेति दूषणद्वयम् , स्वरूपैक्यपरत्वेऽर्थविरोधः यन्मयमित्युक्तप्रश्नोत्तरत्वानुपपत्तिश्चेति दूषणद्वयं च दर्शितं भवति । स्वोक्तार्थपरत्वानभ्युपगमे दूषणमाह अन्यथेति । अन्यथा कथं प्रश्नप्रतिवचने स्यातामित्यत्राह तथा हि सतीति ।

सामानाधिकरण्यस्य भेदाभेदवाद्यभ्युपगतैकद्रव्यतापरत्वं दूषयति जगदिति । अस्मिन्नपि पक्षे जगत् यन्मयं-जगत् यद्द्रव्यमिति पृष्टं स्यात् । तदानीं मयड्वैयर्थ्यमस्तीति द्रष्टव्यम् ; यत इत्युपादानस्य पृष्टत्वात् । अधिकं दूषणमाह सत्येत्यादिना । सत्यसङ्कल्पेत्यादिना जीवगतदोषः, सर्वाशुभेत्यादिना प्रकृतिगतदोषश्च ब्रह्मणि प्रसज्यत इत्युक्तम् । यद्वा उभयलिङ्गकत्वहानिर्विपरीताकारप्राप्तिश्चेत्यर्थः । शरीरवाचिपदस्य शरीरि- परत्वे मुख्यत्वं न स्यादित्यत्राह आत्मशरीरेति । स्थाप्यते-स्थापयिष्यत इत्यर्थः । अनन्तरभावित्वात् स्थाप्यत इत्युक्तम् ।

एवं प्रकृतश्लोकव्याख्यानौपयिकार्थः प्रपञ्चितः । अथ शास्त्राथर्संग्रहानन्तरं विस्तरोपक्रमे सप्तश्लोकीं नम-स्कारविषयामवतार्य व्याख्येयश्लोकस्य नमस्कारश्लोकान्तरैः सङ्गतिं दर्शयितुम् अविकारायेत्यादीनां षण्णां वाक्यार्थमाह अत इति । अतः-प्रश्नप्रतिवचनादितिः शास्त्रस्य सविभूतिकसगुणवस्तुपरत्वावगमात्, सामाना-धिकरण्यस्य विशिष्टवस्तुनि मुख्यवृत्तत्वाच्चेति भावः । अत इत्यस्य व्यष्टिरूपेणावस्थितं च नमस्करोतीत्यनेना-न्वयः । यद्वा शास्त्रवाक्यार्थस्यैवंरूपत्वात् "विष्णोः सकाशात्" इत्यस्य सङ्ग्रहरूपत्वम्, "परः पराणाम्" इत्यादीनं विस्ताररूपत्वं च सिद्धमित्यर्थः । विष्णोः सकाशादित्यत्र सकाशादिति पदं षष्ठयाः पञ्चम्यर्थत्वसंपादनार्थम् । यथा अस्य कृते इत्युक्ते, कृते इति शब्दस्य चतुर्थ्यर्थत्वसंपादनपरत्वम्-तद्वत् । यद्वा सकाशात्-ससङ्कल्पात् । काशनम्-प्रकाशनम्, सङ्कल्परूपज्ञानम्; तद्वत इत्यर्थः । अनेन निमित्तत्वसिद्धिः । यद्वा सकाशशब्दः पार्श्वव- चनः । तेन शरीरमुपलक्षितम् । "सोऽभिध्याय शरीरात्स्वात् " इतिवत् शरीरादित्यर्थः । तत्रैव च स्थितमिति लय-स्थानप्रश्नोत्तरम् । तत्र स्थितमिति स्थितम्-निष्ठां गतम् । अनेन जगतो नित्यत्वम् अवस्थानामागमापायित्वं च सूचितम् । लयस्थानप्रश्नस्योत्तरमुक्तम्; अथ लयकर्तृप्रश्नस्य बाह्यस्थितिप्रश्नस्य चोत्तरमाह स्थितीति । जगच्च स इति, यन्मयमिति फलितस्य कृत्स्नान्तर्यामिरूपकृतसत्तानुवृत्तिलक्षणस्थितिप्रश्नस्योत्तरम् । यद्वा यन्मयमिति फलितस्थितिप्रश्नस्यापि स्थितिसंयमकर्तेत्येवोत्तरम् । जगच्च स इति तु यन्मयमिति कण्ठोक्तस्याथर्स्योत्तरम् । इदं

सामानाधिकरण्यमात्मतया व्याप्तिनिबन्धनमिति पूर्वमेवोपपादितम् ।।

ननु निष्कर्षकशब्दानां शौकल्यादीनां धर्मिपर्यन्तत्वं न दृष्टम् । यन्मयं जगदित्यनेन जगच्छब्दस्य निष्क-र्षकशब्दत्वं दृष्टमिति धर्मिपर्यन्ताभिधायित्वाभावात् जगच्च स इति सामानाधिकरण्यमनुपपन्नमिति चेत्-उच्यते । निष्कर्षकशब्दा हि द्विविधाः , नियतनिष्कर्षकाः वैवक्षिकनिष्कर्षकाश्च । तत्र शौक्लयादिशब्दा नियतनिष्कर्षकाः; मनुष्यशुक्लादिशब्दा वैवक्षिकनि#ेकर्षकाः; प्रयोगस्य नियामकत्वात् । अन्यथा निष्कर्षकानिष्कर्षकविभागोऽपि नोपपद्यते । तथा जगच्छब्दोऽपि वैवक्षिकनिष्कर्षक इति ।अत एव यन्मयमिति वैयधिकरण्येन प्रश्नस्य जगच्च स इति सामानाधिकरण्येनोत्तरमर्थभेदाभावादुपपन्नम्; शुक्लगुणस्य आश्रयः कः इति प्रश्नस्य शुक्लः पटः इत्युत्त- रवत् । एवं सङ्क्षेपेणोक्तस्य वक्ष्यमाणमहाविस्तरस्यार्थस्येषद्विस्तररूपेण श्लोकैर्नमस्कारः क्रियत इति नमस्कारश्लो-कसङ्गतिः । स्वैनैव रूपेणावस्थितम्-नतु प्रकृत्यादिविशिष्टमित्यर्थः । परब्रह्मणो हि हेयसंबन्धाभावः, न तु विष्णोरिति शङ्कायाम् "विष्णुनामा स वेदेषु", "समस्तहेयरहितं विष्ण्वाख्यं परमं पदम्" इति वचनात् ब्रह्मण एव विष्णुशब्दवाच्यत्वात् विष्णोरेव भगवच्छब्दवाच्यत्वाच्च विष्णार्हेयसम्बन्धोऽनुपपन्न इत्यभिप्रायेण परब्रह्म-भूतमित्यादिविशेषणमुक्तम् ।

अविकाराय । विकारशब्दो धर्मिपरो धर्मपरश्च; "षोडशकश्च विकारः" इत्यादिप्रयोगात् । स्वयं कस्य-चिद्विकारभूतः-कायर्भूतो न भवतीत्यविकारः । अनेन कार्याचिद्वयावृत्ति। । यद्वा विकारः-अवस्था महत्वा-हङ्कारत्वादिः; नित्यं तत्सम्बन्धविरहादविकारः । अतो विकारवती प्रकृतिरविकारपदेन व्यावर्त्यते । एवं तत्पुरु-षबहुव्रीहिभ्याम् अविकारायेति पदेन कार्यकारणरूपोभयावस्थाचिद्वयावृत्तिः । शुद्धायेति बद्धव्यावृत्तिः । नि- त्याय शुद्धत्वेन नित्याय । अन्यथा अविकारायेत्यनेन पुनरुक्तिः स्यात्#ः नित्यपदं(नित्य) शुदिं्ध विशिंषदेव शुद्ध-मद्वस्तुविशेषणम्; यथा महोदार इत्यत्र महच्छब्द औदार्यं विशिंषन्नेव दातुर्विशेषणम्, तद्वत् । अतो मुक्तव्या- वृत्तिः । परमात्मने इति नित्यमुक्तव्यावृत्तिः । ते हि परवन्तः । न तु परमाः । "प्रधानपुरुषव्यक्तकालानां परमम्" इति वक्ष्यमाणत्वात् । अविकारायेत्यादिना पदचतुष्टयेन प्रधानपुरुषाव्यक्तकालव्यावृत्तिरिति केचित् । निमेषाद्य-वस्थकालस्य व्यक्तस्याप्यविकारपदव्यावर्तितत्वात् पुरुषत्रैविध्यस्यैव प्रामाणिकत्वात् विशेषणानां तद्वयावर्तन-समर्थत्वाच्च यथोक्तानामेवार्थानां व्यावर्तितत्वमुचितम् । विलक्षणविग्रहवत्तयाऽपि समस्तवैलक्षण्यमाह सदैकरूप-रूपायेति । प्रथमो रूपशब्दः स्वभाववाची; एकस्वभावमित्यर्थः । परव्यूहविभवादिसर्वावस्थासु सकलहेयप्रत्य-नीकत्वमङ्गलास्पत्वध्येयत्वादिस्वभावोऽप्रच्युत इत्यर्थः । यद्वा एकरूपम्-दिव्यात्मस्वरूपेण समानस्वभावम् । तेनापि हेयप्रत्यनीकत्वादिसिद्धिः । एभिः पदैरीक्षत्यानन्दमयाधिकरण-अन्तरादित्यविद्यार्थः विवक्षिताः । पूर्वो-क्तमात्मत्वं न "मृदात्मको घट" इति वद्भवतीति तद्वैशद्यमवयवशकत्या क्रियते विष्णुशब्देन, सर्वजिष्णव इति पदेन च । पदद्वयेन नृपनभोव्यावृत्तिः, । अन्तःप्रविश्य नियन्तृत्वं हि शरिरीत्वम् । अत एवमात्मत्वं विवृतं भवति । विष्णुशब्दस्य रूढत्वाद्देवताविशेषनिर्णयश्च सिद्धः । यद्वा विष्णुशब्देनैव नियमनपर्यन्तव्याप्तिरुक्ता, व्याप्तिकृत-तद्गतदोषस्पर्शशङ्कां व्युदस्यति सर्वजिष्णव इति ।

कथं विष्णोः कारणत्वम्; हिरण्यगर्भादीनां हि सृष्टयादिकारणत्वमवगम्यत इत्यत्राह नम इति । तत्त-च्छरीरको विष्णुरेव सृष्टयादिकं करोतीत्यर्थः । "रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्" इत्युक्तविष्ण्वाख्या-वतारविग्रहद्वारा भगवत्पयर्न्तो हरिशब्दः । हिरण्यगर्भशङ्करशब्दौ जीवद्वारा भगवत्पर्यन्ताविति-"ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा । विष्णुमायामहावर्तमोहान्धतमसावृताः" इति, "हिरण्यगर्भादिषु च ब्रह्म कमात्मिका

द्विधा" इति "हिरण्यगर्भो भगवान्" इत्यारभ्य "मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम् । अशुद्धास्ते समस्तास्तु देवा-द्या। कर्मयोनयः" इत्याद्येतत्प्रबन्धस्थश्लोकतात्पर्यानुरोधात्, "एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदा-दर्शितपन्थानौ सृष्टिसंहारकारकौ", "तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्" इति भारतादिवचनैकार्थ्याच्च निश्चीयते । हिरण्यगर्भादिसामानाधिकरण्यं व्याप्तिकृतमिति सूच- यति वासुदेवायेति । ब्रह्मशिवमध्यस्थोऽप्यप्रच्युतस्वभाव इत्याह तारायेति । यद्वा तेषु त्रिष्वप्ययमेव मोक्षप्रद इत्यर्थः । "अथ कस्मादुच्यते तारम्? यस्मादुच्चार्यमाण एव गर्भजन्मजरामरणसंसारमहाभयात् तारयति, तस्मादु-च्यते तारम्" इति श्रुतेः । "ब्रह्मविष्णुशिवाः ब्रह्मन् ! प्रधानाः ब्रह्मशक्तयः" इत्यादिभिः विष्णोः परं तत्त्वं विष्णो-तुर्मुखादिसाम्यं च न शङ्कनीयम् । शकिक्तरपृथक्सिद्धविशेषणम् । तत्र धर्मिण्यसमानविभक्तिनिर्दिष्टे धर्मिपर्यन्त-स्यापि शब्दस्य धर्ममात्रपरत्वं दृष्टम् , पटस्य शुक्ल इत्यादिषु । तथा विष्णुशब्दो विशेषणभूतविग्रहमात्रपरः; अस-मानविभक्तिना ब्रह्मशब्देन धर्मिणः पृथङ्निर्दिष्टत्वात् । ब्रह्मणः शक्तयो हि ब्रह्मशक्तयः । अतोऽसमानविभक्ति-निर्दिष्टत्वमिति । यद्वा भगवतो देवमनुष्यादिशब्दव्यपदेशवत् शक्तिविभूत्यादिशब्दव्यपदेशोऽपि विभूतिसाजात्यात् इति । यथाऽऽहुः श्रीवत्साङ्कमिश्राः, "सजीतायस्तेषामिति तु विभाख्यामपि भजन्" इति । अतो यथोक्त एवार्थः ।

अथ केवलप्रकृतिकारणव्यावृत्त्यर्थं प्रकृतिविशिष्टं परमात्मानं नमस्करोति एकानेकेति । कारणावस्था-यामेकः, कार्यावस्थायमनेकः । अथ धीस्थां कार्यावस्थामाह स्थूलेति । तथा बुद्धिस्थां कारणावस्थामाह अव्य- क्तेति । तत्राप्यप्रच्युतस्वभावत्वमाह मुक्तिहेतव इति ।

अथ कालविशिष्टमाह-सर्गेति । कालस्य वक्ष्यमाणविशेषणोपपत्तेः प्रकरणस्य विशिष्टपरत्वाद्विशेषणा-न्तरविशिष्टतायाः प्रतिपादितत्वेन कालविशिष्टताकथनम् पारिशेष्यात् तदप्रतिपादने अपेक्षितविध्यभावप्रसङ्गात् केवलं ब्रह्मस्वरूपकारणपरत्वे अण्डान्तर्गतसर्गादेरुक्तत्वादण्डबहिर्भूततत्त्वसर्गादेर्वक्ष्यमाणत्वाच्च पौनरुकत्यप्रस-ङ्गात्, विस्तरे च "प्रधानपुरुषव्यक्तकालानाम्", "व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च", "तथा ;पुरुष- रूपेण कालरूपेण च स्थितम्", "ब्रह्म दक्षादयः कालः" इत्यादिभिर्व्यक्ताव्यक्तादिभिः सह वक्ष्यमाणत्वादयं श्लोकः कालपर एव । अचिद्विशिष्टवाचिश्लोकानन्तर्यादस्य श्लोकस्य कालपरत्वमुचितम् । उत्तरश्लोकः समष्टि-जीवपरः, व्यष्टिजीवपरश्लोकसाहचर्यात् । कालस्य सर्गस्थितिविनाशमूलभूतत्वं "ब्रह्मा दक्षादयः कालः" "विष्णु-र्मन्वादयः कालः", "रुद्रः कालोऽन्तकश्चेद्यादिषु" इत्यादिषु सिद्धम् । जगन्मयः-अवच्छेदकतया अवच्छेद्यतया च जगत्प्रचुरः ।

अथ क्षेत्रज्ञसमष्टयात्मनाऽवस्थितं नमस्यति आधारभूतमिति । अचेतनस्य चेतनः स्वरूपेणाधारभूतः "एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः", "जीवभूतां महाबाहो ! ययेदं धार्यते जगत्" इति वचनात् । अणी-यस्त्वम्-प्रकृतेरपि व्यापनयोग्यसूक्ष्मत्वम् । यद्वा "विकासाणुस्वरूपैश्च" इत्युक्तप्रकारेण सर्गदशायामिव ज्ञान-विकासाभावादणीयस्त्वमेवेत्यर्थः । सर्वभूतस्थम्-भवतीति भूतम्; पृथिव्यन्तेषु सवर्तत्त्वेष्ववस्थितम् । अनन्तरं क्षेत्रज्ञव्यष्टिविशिष्टं नमस्करोति ज्ञानेति ।

हिरण्यगर्भेत्यदिभाष्ये निर्दिष्टेष्वर्थेष्वयं श्लोकः किंविशिष्टपरमात्मपर इति शङ्कायां समासान्तर्गतं प्रस्तु-तश्लोकार्थं विविच्य दर्शयति तत्रेति । परमात्मनः सद्वारक एव भ्रमान्वय इत्यर्थः । ततः किमित्यत्राह तस्मादिति । निर्विशेषज्ञानपत्वे प्रश्नोत्तरवरलाभकथनानुपपत्तिमुखेनोपक्रमविरोध उक्तः । अथोपरितनाध्यायगतचोद्य-परिहाराननुगुणत्वमुच्यते यदीति । यद्वा शास्त्रारम्भोपयोगिप्रश्नोत्तरानुपपत्तिरुक्ता । इदानीमेतत्प्रश्नोत्तरविशेषानु-

पपत्तिरुच्यते यदीति । पूर्वाध्याये, "जुषन् रजोगुणम्" इत्यादिना गुणान्वये कथितेऽपि निर्गुणस्येति चोदयतोऽय-मभिप्रायः-गुणान्वयस्य सद्वारकत्वात् स्वयं निर्गुण इति । निविर्शेषपक्षे अप्रमेयस्येत्यादिपदवैयर्थ्यम् निर्गुणस्येति पदेनैव निर्विशेषत्वसिद्धेः; परिपूर्णत्वादिगुणानभ्युपगमाच्च । अप्रमेयादिपदान्तरसमभिव्याहार एव निर्गुणपदोप-स्थापितनिषेधस्य सङ्कुचितविषयत्वसाधकः । न घटत इति । "सर्गाद्या भावशक्तयः" इति सर्वशक्तियोगेन चोद्य- स्य परिहारात् निर्विशेषपक्षाननुगुणत्वमिति भावः । तर्हि कथं चोद्यपरिहारौ स्यातामित्यत्राह तथा हि सतीति । निर्गुणस्य ब्रह्मण इत्यनेन पदान्तरवैयर्थ्यमभिप्रेतम् । निर्विशेषस्य कर्तृत्वानुपपत्तिचोद्ये कृते, "कर्तृत्वस्य पारमार्थ्ये सति हि तदनुपपत्तिः, अपरमार्थत्वाद्दुर्घटत्वमेव भूषणम्" इति परिहारो वक्तव्य इत्यर्थः । किमर्थाविमौ चोद्यपरि-हारौ, यद्ययमर्थो न प्रतिपाद्यत इति शङ्कायाम्-स्वयमेव तच्चोद्यपरिहारशरीरमाह उत्पत्त्यादीति । निर्गुणस्येत्यादि-विशेषणानां विपरीताकारैः कर्तृत्वस्य व्याप्तिं कथमित्यनेनाभिप्रेतां दशर्यति सत्त्वादिगुणयुक्तेत्यादिना । सत्त्वा-दिगुणयुक्तापरिपूणर्कर्मवश्यत्वानि निर्गुणत्वादीनं यथाक्रमं विपरीताकाराः । अमलात्मन इत्यस्य विपरीताकारो- ऽपि कर्मवश्येत्यनेनार्थसिद्धः । अमलात्मत्वम्-अमलस्वभावत्वम्, कर्मसम्बन्धानर्हत्वम्; तद्विपरीताकारः कर्म-सम्बन्धार्हत्वम् । तच्च कर्मवश्यशब्देनार्थसिद्धम् । कर्मसम्बन्धार्हत्वकार्यं हि कर्मवश्यत्वम् । निर्गुणस्येत्यादिपदा- नां यथाक्रममर्थमाह सत्त्वादिगुणरहितस्येत्यादिपदैः । कर्मसंबन्धानर्हस्येत्यनेन अमलात्मन इति पदं व्याख्यातं भवति । अकर्मवश्यत्वं मुक्तस्यापि विद्यते । स पूर्वावस्थायां कर्मसंबन्धित्वात् तदर्हः । अतस्तद्वयावर्तकं कर्म-संबन्धानर्हत्वममलात्मत्वम् । अकर्मवश्यत्वम्-कर्मकृतसुखदुःखभाकत्वाभावः । कर्मवश्यविसजातीयत्वं कर्म-सम्बन्धानर्हत्वम् । सर्गादिकर्तृत्वे गुणत्रयवश्यत्वसापेक्षत्वकर्माधीनफलभाकत्वकर्मसंबन्धार्हत्वप्रसङ्ग इति विशेष-विरोधप्रसञ्जनेन चोद्यम् । अग्नेर्द्रव्यत्वेऽनुष्णत्वप्रसङ्ग इतिवत् अयं तर्को धर्मिग्राहकप्रमाणबाधितः । अतो विसजा-तीयधर्मिणो विसजातीयधर्मवत्त्वं युक्तम्; आग्नित्वे सत्यपि वैद्युतार्ग्नेर्जलनिर्वाप्यत्वाभाववत् । अतः सवर्विसजाती-यस्य ब्रह्मणः सर्वशक्तियोग उपपद्यत इति परिहार इत्यर्थः । शक्तयः सर्वभावानाम् इत्यस्य ग्रन्थस्यायमक्षरार्थः-अचिन्त्यज्ञानगोचराः-अतर्क्यप्रमितिसिद्धाः सर्गाद्याः सर्गादिगोचराः, भावशक्तयः-वस्तुशक्तयः । ब्रह्मणः वस्तुशक्तय इति निर्देशो ब्रह्मतादात्म्यमितिवत् । यद्वा ब्रह्मणो भावशक्तयः-वस्तुशक्तयः । ब्रह्मणो वस्तुत्वप्रयुक्ताः सत्ताप्रयुक्ता निरुपाधिकाः शक्तय इत्यर्थः । यद्वा भावशब्दः स्वभावपरः; स्वाभाविक्यः शक्तय इत्यर्थः ।

अथ चतुःश्लोकीं व्याचष्टे परमार्थ इति कृत्स्नस्य ब्रह्मपर्यन्तत्वेन तच्छरीरत्वात् कृत्स्नशीररं ब्रह्मैव पर-मार्थः; अतत्पर्यन्तो मिथ्येत्यर्थः । जगतः पते इत्याकाशव्यावृत्तिः येन व्याप्तमिति नृपव्यावृत्तिः । अनेन जगतः शरीरलक्षणं दर्शितं भवति । नियाम्यत्वधार्यत्वशेषत्वेष्वन्यतमं व्याप्यत्वसहचरं हि शरीरलक्षणद्योतकम् । जगच्छ-रीरक ! त्वदन्यो नास्तीत्युक्ते अतत्पर्यन्तस्वतन्त्रवस्त्वन्तरस्यैव मिथ्यात्वं स्यात्; न तु जगतस्तच्छरीरभूतस्य । यथा हे भूषते ! त्वदन्यो नास्तीत्युक्ते, न भूर्मिथ्या भवति; तत्तुल्यराजान्तरस्यैव तु मिथ्यात्वम्-तद्वत् । यद्वा एक-शब्दः प्राधान्यपरः । "एकादाकिनिच्चासहाये" इत्यत्रासहायपदव्यवच्छेद्यं हि प्राधान्यम् । ब्रह्मणश्च प्राधान्यं जग- त्प्रति विशेष्यत्वरूपम् । तदानीं नान्योऽस्तीति प्रधानभूतोऽन्यो निषिध्यते;न त्वप्रधानमर्थान्तरम् । उक्तार्थस्यो-पपादकं व्याप्यत्वप्रतिपादकमुत्तरार्द्धमित्याह तदेवेति । तत्र फलितमर्थमाह येनेति । येन-यस्मादित्यर्थः । त्वद- न्यः-अत्वदात्मकः । त्वया आत्मतया व्याप्तत्वात् सर्वं त्वदात्मकं त्वच्छरीरमिति त्वदन्यः-अत्वदात्मको नास्ति । तस्मात् सर्वशरीरस्त्वमेव परमार्थं इत्यर्थः । तवैष महिमेति श्लोकार्धैकदेशश्चोक्तार्थोपपादक इत्याह अत इति । महिम्नो व्याप्तिरूपत्वात्, या सर्वव्याप्तिरित्युक्तम् । न तु व्याप्तौ तात्पर्यात् । व्याप्तेर्महितमत्व एव तात्पर्यम् ।

यद्वा व्याप्तेरुक्तार्थोपपादकत्वं महिमसमभिव्याहारादित्याह अत इदमुच्यत इति । तस्य परप्रातिकूल्यं दशर्यति अन्यथेति । व्याप्यव्याप्त्यादेर्मिथ्यात्वे, "सर्वव्याप्तिस्तव महिमा"इति न वाच्यम्, अपि तु भ्रन्तिरिति वक्तव्यमि- त्यर्थः । कृत्स्नोपारमार्थ्यपरत्वे दूषणान्तरद्वयमाह-जगतः पत इति । लक्षणा-अधिष्ठानलक्षणा ।

अब्रह्मात्मकत्वेन स्वतन्त्रतायाः प्रत्यक्षसिद्धत्वात् तद्विरुद्धं ब्रह्मपर्यन्तत्वं न शास्त्रं प्रतिपादयति, "आदि- त्यो यूपः" इतिवदिति शङ्कायाम्, अन्यथासिद्धाया अपरोक्षरूपाया अपि स्वातन्त्र्यप्रतिपत्तेः परोक्षरूपाप्यनन्यथा-सिद्धा पारतन्त्र्यप्रतिपत्तिर्बलीयसीत्यभिप्रायेण द्वितीयश्लोकमवतारयति यत इति । पारतन्त्र्यप्रतिपत्तिः परमा-त्मप्रतिपत्तिसापेक्षा, तदभावात् तत्प्रतिपत्त्यभाव इत्यन्यथासिद्धा स्वातन्त्र्यप्रतिपत्तिरित्यर्थः । केवलदेवमनुष्या-दिरूपमिति । परमात्मशरीरत्वरहितजगद्रूपमात्रमित्यर्थः । अयमर्थः-यथा देहात्मभ्रमोऽपरोक्षोऽपि परोक्षशास्त्र- ज्ञानेन बाध्यते, तथा स्वातन्त्र्यभ्रमोऽपीति ।

देहातिरिक्तं स्वात्मानमप्यजानतः परमात्मपारतन्त्र्#ाप्रतिपत्तिः किम्पुनर्न्यायसिद्धेति च दर्शयितुं तृतीय-श्लोकारम्भः । तं व्याचष्टे न केवलमिति चिदचिदात्मके जगति चेतनरूपं जगद्विवक्षितं ज्ञानस्वरूपमखिलं जग-दिति जगच्छब्देन; यथा, "त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगतः । मोहितं नाभिजानाति मामेभ्यः परमव्ययम्" इति । अत्र ज्ञानस्वरूपस्य जडरूपार्थस्वरूपत्वबुद्धिर्भ्रम इत्युक्ते अर्थस्वरूपस्यार्थस्वरूपत्वबुद्धिर्न भ्रमः स्यादिति च सिद्धम् । देहात्मभ्रमश्च संसर्गकृतः, जलमुष्णमितिवत् । आत्मासाधारणधमर्ज्ञानस्फुरणेऽपि तस्यासाधारणत्वा-ज्ञानात् भ्रमोपपत्तिः ।

चतुर्थं व्याचष्टे ये पुनरिति । विज्ञानञ्चाविज्ञानं चेति विज्ञानशब्दस्यात्मवाचित्वात् ज्ञानस्व-रूपात्मविद इत्युक्तम् । अबुद्धयइति पूर्वश्लोकोक्तार्थप्रतियोगित्वेन ज्ञानविद इत्युक्तमिति स्मारयति बुद्धिमन्त इति अयोगिन इत्यस्य प्रतियोगित्वेन शुद्धचेतस इत्युक्तमिति सूचयति योगयोग्यपरिशुद्धमनस इति । योगयो- ग्यत्वे हेतुः परिशुद्धत्वम् । मनसा तु विशुद्धेन हि भगवत्साक्षात्काररूपोपासननिष्पत्तिः श्रूयते । मनोविशुद्धिश्च कर्मयोगेन । योगेन योग्यता परिशुद्धिरिति वाऽर्थः । पूर्वश्लोकेअखिलजगच्छब्देन चेतनरूपं जगत् विवक्षितम्; अस्मिन् श्लोके अखिलजच्छब्देन अचिद्रूपं जगत् विवक्षितम् । कृत्स्नापारमार्थ्यं विवक्षितमिति पक्षे प्रथमश्लोक-सङ्क्षिप्तदूषणमनुक्तदूषणेन सह विस्तरेण सर्वश्लोकसाधारणमाह अन्यथेति । स्वान्त्र्यभ्रमो देहात्मभ्रमश्चेति विभा-गाभावे पौनरुक्त्यमित्यर्थः । लक्षणा-परमेश्वर, जगतः पते, तव, महिमा, त्वमित्यादिशब्दानां लक्षणा । त्वंशब्दो हि स्वाभिमुखाहमर्थान्तरवाची । अतस्तस्य लाक्षणिकत्वम् । अर्थविरोधः प्रत्यक्षादिभिः अबाध्यत्वेन सिध्यतो-ऽसत्यत्वे प्रमाण विरोधः निरोधानानुपपत्तिः । तर्क विरोधः उभयलिंगत्व विरोधश्च प्रकरणविरोधः-स्तुतिविरोधः "रोमान्तरस्था मुनयः स्तुवन्ति" इति हि प्रकृतम् । स्तोतृणामद्वैतज्ञानत्त्वे स्तुत्यनुपपत्तिः; तदभावे च नितराम् । शास्त्रतात्पर्यविरोधः-उपक्रमोपसंहारावन्तरप्रकरणोपक्रमोपसंहारादिविरोधः ।।

अथादिभरतचतुःश्लोकीं परस्परव्यवहितां व्याचष्टे तस्येत्यादिना । ब्रह्माद्वैतं जीवाद्वैतञ्चेत्यद्वैतं द्विविधं शास्त्रप्रतिपाद्यम् । तत्र ब्रह्मद्वैतं प्रकार्यद्वैतं । जीवाद्वैतं प्रकाराद्वैतम् ।। कोऽत्र नियामक इति चेत्-उच्यते । ब्रह्म-प्रकरणेषु सामानाधिकरण्येन ब्रह्माद्वैतप्रतिपादनात् सामानाधिकरण्यस्य च प्रकारभेदविशिष्टप्रकार्येकत्वपरत्वात्, "एकः सन् बहुधा विचार" इति प्रकारबहुत्वस्य कण्ठोक्तत्वात्, ऐक्यविधिशेषस्य, "नेह नानास्ति" इत्यादिभेनिष- धस्य विहितैक्यविरोधिभेदविषयत्वात्, सामान्यनिषेधस्य च विहितव्यतिरिक्तविषयत्वेन प्रकारिबहुत्वनिषेधपर-त्वात्, "न तत्समश्चाभ्यधिकश्च दृश्यते" इति ब्रह्मतुल्यप्रकार्यन्तरनिषेधकण्ठोक्तया च प्रकार्यद्वैतमेव ब्रह्माद्वैतम् ।

जीवात्मबहुत्वस्य श्रुतिसिद्धत्वात् अन्यथा बद्धमुक्तव्यवस्थानुपपत्तेः उपदेशानुपपत्तः सुखादिव्यवस्थानुपपत्तेः "पुमान्नदेवो न नरो न पशुर्न च पादपः", "चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः । देवादिभेदेऽपध्वस्ते" इत्यादिभिभैदविशेषनिषेधस्य कण्ठोक्तत्वात् मुक्तानां साम्यवचनात्, "अहं त्वं च तथाऽन्ये च", "तत्र त्वमहम- प्यत्र "तन्मनः समतालम्बि" इत्यादिप्राकरणिकवचनानुरोधात् एको व्रीहिरितिवत् एकशब्दस्यैकजातीयपरत्वो- पपत्तेः वक्ष्यमाणश्लोकस्थ शब्दस्वभावाच्च जीवाद्वैतं प्रकाराद्वैतमेव ।। "नित्यो नित्यानां चेतनश्चेतनानामेको बहू- नां यो विदधाति कामान्" इत्यस्य वाक्यस्य कामविधानपरत्वान्न नित्यत्वबहुत्वयोस्तात्पर्यमस्ति; अस्ति चेत् वा-क्यभेदप्रसङ्गादिति चेत्-न; "यदाग्नेयोऽष्टाकपालः" इत्यत्र अष्टाकपालत्वविशिष्टाग्नेयपुरोडाश(योग?)विधिवत् विशिष्टविधिपरत्वाद्वाक्यस्य, नित्यबहुचेतनविशिष्टकामप्रदानविधिपरं हीदं प्रतीयते । अनित्यानामल्पानां काम-प्रदानादपि नित्यानां बहूनां कामप्रदाने कथिते हि कामप्रदानस्यातिशयो भवति ।। जीवबहुत्वस्य लोकसिद्धत्वान्न तत्र शास्त्रस्य तात्पर्यम्;अप्राप्ते हि शास्त्रमर्थवदिति चेन्न-संसृष्टस्य हि बहुत्वप्रतीतिर्लोकसिद्धा । परिशुद्धात्मस्वरूप-बहुत्वस्य लोकसिद्धत्वाभावात् तत्र हि शास्त्रतापर्यं संभवति । औपाधिकाकारस्यानित्यत्वात् निष्कृष्टस्वरूपस्य नत्यत्वात् नित्यत्वसमानाधिकरणबहुत्वेऽभिहिते परिशुद्धात्मस्वरूपबहुत्वं ह्युक्तं भवति । उपदेशोऽपि न संभवति । गुरुर्भ्रान्तश्चेत्-नोपदेशः । अभ्रान्तश्चेत्-द्वैतप्रतीत्यभावान्नतराम् । द्वैतप्रतीतावपि दर्पणस्थं स्वात्मनः प्रतिबिम्बं प्रति विवक्षितस्य नोपदेशः संभवतीति । सुखदुःखादिव्यवस्थया चात्मभेदसिद्धिः । ननु सुखदुःखव्यवस्था नाम किं सुखदुःखव्यक्तिबहुत्वम्, उत तदाश्रयबहुत्वम् । एकस्यैवानेकसुखदुःखव्यक्तिदर्शनात् सुखादिस्वरूपबहुत्वं नात्मैक्यविरोधीति न व्यवस्था । आश्रयभेदश्चेत्, साध्याविशिष्टो हेतुरिति चेत्-न;-त्वदुक्तोभयप्रकारविलक्ष-णत्वाद्वयवस्थायाः । संप्रतिपन्नैकाश्रयेषु सुखदुःखादिषु प्रतिसंधानं दृष्टम्; प्रतिबन्धकाभावे सति एकाश्रयत्वेन सुखदुःखादिप्रतिसन्धानाभावो व्यवस्थेति परिहारः । एकमयमित्यत्र मयट् स्वार्थिकः । यद्वा एकशब्दो भावप्रधानः, ऐक्यम्; तत्प्रचुरमेकमयम् । शुद्धावस्थात्मनो ह्यैक्यप्राचुर्यम्; न तु संसृष्टस्य; तस्य, बुद्धिसुखदुःखाद्यान्तरभेदेन देव-त्वादिबाह्यभेदेन चैक्यप्राचुर्याभावात् । एकशब्दः समानवाची; "एको व्रीहिः सुनिष्पन्नः सुपुष्टं(ष्टाः) कुरुते प्रजाः" इत्यादिषु तथा प्रयोगदर्शनात् । देवमनुष्यादिप्रकृतिपरिणामविशेषरूपेत्यनेन "दुःखाज्ञानमला धर्माः प्रकृतेस्ते न चात्मनः", "पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः" इति वचनयोरैकार्थ्यं दर्शितम् । "पिण्डः पृथक् यतः पुंसः शिरःपाण्यादिलक्षणः" इति प्राकरणिकवचनं स्मारयति पिण्डशब्दः ।। एक-मयमित्यात्मन्येकत्वं विधायभेदे निषिध्यमाने आत्मस्वरूपभेद एव निषेध्यः स्यादिति चेत्-स्यादेवम्, यदि विधी-यमानमेकत्वं व्यक्तयैक्यं स्यात् । तत्तु प्रकारैक्यम् । अतो भेदनिषेधो वैजात्यनिषेध एवेति भावः ।। "द्वैतिनोऽतथ्य-दर्शिनः" इति सामान्येनोक्ते कथं देवादिद्वैतनिषेध इत्युच्यत इति चेत्-कथं सामान्येन द्वैतनिषेधे प्रतीते आत्मद्वैत-निषेध इत्यच्यते; न पिण्डात्मनोर्भेदनिबेधः ।। पिण्डात्मनोर्भेदस्य प्रामारिकत्वादिति चेत्-आत्मभेदस्यापि प्रामा-णिकत्वान्न तद्भेदनिषेधः; अपितु देवादिभेदनिषेध इति भावः । आत्मगतद्वैतमप्रतिषिद्धं चेत्-"आत्माशुद्धोऽक्षणः शान्तः", "विज्ञानं यज्ञं तनुते" इत्येकवचनं नोपपद्यते जातावैकवचनं चेत्-देहशब्देऽप्येकवचनं स्यादिति शङ्का च देवमनुष्यादिपदेन परिहृता । देवादिष्ववान्तरभेदविवक्षया विविधशब्दः । तत्राप्यनेकविधत्वविवक्षया विचित्र- शब्दः । आत्मसुजात्येकत्वादेकवचनम्, पिण्डेष्ववान्तरजातिबहुत्वाद्वहुवचनमित्यभिप्रायः । साम्ये प्रमाणमाह यथोक्तमिति । बहुत्वस्य विहितत्वात् साम्यप्रतिपादनाच्चाऽऽत्मव्यक्तिभेदनिषेधोऽनुपपन्न इत्यर्थः । हेत्वन्तरं चाह तस्येति । अन्यथाऽर्थश्चेत्, एतच्छलोकस्थपदानां व्याघातः स्यादित्यर्थः । उक्तत्वादिति । सममित्यर्थ

इत्यन्वयः ।


एकवचनोक्तौ हि जातवेकवचनमिति निर्वाहः; अन्यनिषेधपरस्य वचनस्यान्यथानिर्वाहायोगादात्मैक-त्वसिद्धिरिति शङ्कायां यद्यन्योऽस्तीत्यादि(देः)श्लोकस्यार्थमाह यदीति । एकस्मिन्नर्थे द्वौ द्वौ शब्दौ प्रयुक्तौ स्था-नत्रये; तेनान्यतरशब्दस्याकारपरत्वान्नात्मभेदनिषेध इति परिह्रयते । तत्र द्वयोः शब्दयोः कोऽथर् इत्यत्राह तत्रेति । परशब्देन धर्मिणमनूद्य तस्य शब्दान्तरोपस्थापिताकारान्तरान्वयो निषिध्यत इत्यर्थः ।। एषोऽहम् अयञ्चान्य इति वक्तुमशक्यत्वं कथम्, प्रत्यक्तवपराक्तवे भेदकधर्मौ हि विद्येते इति चेत्-नैवम्; प्रत्यक्तवपराक्त्योः स्वपरापेक्षया सर्वात्मना(न) साधारणतया व्यावर्तकत्वाभावात् । पूर्वं देवादिष्यन्तमोऽयमित्यभिप्रायेण तद्विशेषबुभुत्सया हि सौवीरराजेन आदिभरतः पृष्टः । अतो देवाद्याकारनिषेधपरा इमे शब्दा इति भावः । एवं पदार्थे सति श्लोकेन किमु- क्तं भवतीति शङ्कायां वाक्यार्थं योजयति एतदुक्तमिति । एष इति शब्दस्यार्थमाह एवमाकार इति । अन्यशब्दार्थ-माह अन्यादृशाकार इति । आकारैक्यं नाम आकाराणां सौसादृश्यमित्यभिप्रायेण एवमाकारः अन्यादृशाका इत्युक्तम् । अन्यथा स्वरूपमात्रप्रतिपत्तिरेकेनैव पदेन सिद्धेति पदान्तरवैयथ्यप्रसङ्गात् पदान्तरमाकारपरमित्यर्थः । अस्यार्थस्य विपर्यये पर्यवसानमुत्तरश्लोकोक्तम् । सोऽनुदाहृतः । तदर्थमाह न चैवमिति । अयं हि स श्लोकः, "यदा समस्तभूतेषु पुमानेको व्यवस्थितः । तदा हि को भवान् सोऽहमित्येतत् विफलं वचः" इति । अत्रैकशब्द आकारै-क्यपरः । स्वयम्प्रकाशत्वनित्यत्वाणुत्वादिः सर्वात्मसाधारणः । व्यावर्तकदेवाद्याकारस्तु नात्मन्यस्ति । व्यावर्त-काभावात् तद्वाचिशब्देन निर्देशऽनुपपन्नः । प्रत्यकत्वपराकत्वपरोक्षत्वापरोक्षत्वादीनि न व्यावर्तकानीति को भवा-निति प्रश्नस्तदतिरिक्ताकाराभिप्रायः । न हि, भवानिति प्रश्नः । भवच्छब्दो धर्मिमात्रपरः । किंशब्दो व्यावर्तकदे-वाद्योकारपरः । तस्मात् तदारिक्ताकाराभावेन न तद्वाचिशब्देन निर्देश उपपद्यत इत्यर्थः । ज्ञानैकाकारत्वेन समा-नत्वादेवेति ।

पूर्वोक्तादेवेति भावः । उक्तनिर्वाहागोचरदृष्टान्तमुखेनाद्वैतपरत्वेन परोक्तस्य श्लोकस्यार्थमाह वेणुरन्ध्रेति । स्वत एकाकाराणामुपाधिवशादवान्तरभेदसद्भावमात्र दृ#ाष्टान्तोपन्यासः । अन्यथा सर्वथा साधर्म्याभ्युपगमे हि आत्मनोऽचित्त्वाकाशकायर्त्वादिकमपि स्यात् । तद्धि प्रमाणान्तरविरोधात् त्यज्यते; तथा दृष्टान्तगतमाकारान्त-रमपीति भावः । तथाऽसौ परमात्मन इत्युक्ते षड्जादिशञ्ज्ञाभेदो मा भूदित्यभिप्रायेणाह एवमात्मनां देवादि-सञ्ज्ञाभेद इति । भेदव्षड्जादिसञ्ज्ञित इति पाठे सत्यपि षड्जादिसञ्ज्ञाभेद इति व्याख्यातम्, दुरवगमषड्जा-दिरूपभेदप्रतिपविसौकर्यस्य सञ्ज्ञाभेदाधीनत्वादिति भावः(?) दार्ष्टान्तिकेऽपि तथैव । दृष्टान्ते व्यक्तिबहुत्वं शङ्कायांवाथ्वंशानामनेकत्वं तर्केण साधयति तैजसेति । स्पशर्वद्द्रव्यत्वादिति भावः । यत्र त्वाकाशदृष्टान्त उक्तः, तत्राप्येकस्यात्मनो दृष्टान्तत्वेनाकाशमुकत्वा आत्मन्तरे तथात्वमिति मन्तव्यम् -"सितनीलादिभेदेन यथैकं दृश्यते नभः । भ्रान्तदृष्टिभिरात्मापि तथैकस्सन् पृथक् पृथक्3 इति । नभसः सितनीलादिभेदः शरत्प्रावृट्सन्व्यासमयेषु मेघोपश्लिष्टस्य तस्य यथा क्रमभावीतथैकस्यात्मनोऽपि देवादिभेदः क्रमभावीति । यद्वा तत्रापि प्रदेशभेदाङ्गीकारेण सर्वात्म दृष्टान्तः स्यात् आकाशस्य प्रदेशभेदानभ्युपगमे घटदेर्विभुत्व आकाशस्य अल्पत्वं वा प्रसजेत् । किं घटादेः कृत्स्नाकाशेन संभन्धः उत प्रदेश भेदेन । पूर्वस्मिन् पक्षे घटादेर्विभुत्वमाकाशस्याल्त्पपरिमाणत्वं वा । द्वितीये प्रदे-शभेदाङ्गीकार इति । वेदान्तिभिर्नभसो निरवयवत्ववादोऽपसिद्धान्त; वेदान्तेषु स्यांशभेदेन पञ्चीकरणोपदेशात्; एकांशेन वायुत्वेन परिणामवादात्; उत्पत्तिलयदर्शनाच्चेति । अत एव, "घटध्वंसे घटाकाशो न भिन्नो न भसो यथा । ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन तथा पुमान्" इति शौनकवचनमपि, नभस्यंसाभेदाभिशप्रायेण जीवस्य

परस्मादात्मन औपाधिकवैषम्यविरहे दृष्टान्तसमर्पणपरं वेदितव्यम्; यथाऽग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत्" इति तत्रैव साम्यदृष्टान्ताभिधानात् ।

अथाऽऽदिभरतनिगमनश्लोकमाह सोऽहमिति । पूर्वोक्तम्-अध्यायचतुष्टयोक्तम् । स इति पदस्य ज्ञाना-कारविशिष्टवस्तुवाचित्वेऽपि विशेषणांशे तात्पर्यं दर्शयितुं सर्वात्मनां ज्ञानाकार(त्व)मिति विशेषणांशस्य निष्कृष्ट निर्देशः । अन्यथा तत्सामानाधिकरण्येनेत्यनन्तरोक्तिविरोधात् । ज्ञानमेवाकार इत्युपसंहरन्निति । सोऽहमित्यादिश्लोकानन्तरपूर्वश्लोक, "एकः(कं) समस्तं यदिहास्ति किञ्चित् तदच्युतो नास्ति परं ततोऽन्यत्" इत्यर्धेन सर्वात्मनां भगवच्छरीरत्वस्योक्तत्वात् सोऽहमित्यादिश्लोकस्य भगवदात्मकत्वनिगमनपरत्वशङ्का स्यात् । तच्चायुक्तम्; प्रकरणस्य शरीरात्मविवेकपरत्वात् । तन्निगमनस्य चापेक्षितत्वात् तन्निगमनपरश्लोकान्तराभावाद-पेक्षितविधेरपेक्षितविधानायोगाच्च आत्मनां देहव्यावतर्कज्ञानैकैकाकारत्वनिगमनपरोऽयं श्लोक इत्यभिप्राय। । त्यज भेदमोहमित्यंशस्यार्थमाह देवाद्याकराभेदेनात्मसु भेदमोहं परित्यजेति । देवादिशब्दो भेदशब्दविवरणरूपः । देहगतदेवत्वाद्याकारभेद आत्मनि भेदमोहहेतुः ; तं भेदमोहं परित्यजेत्यर्थः । कृत्स्नभेनिषेधपरत्वेऽनिष्टमाह अन्य-थेति । न च अहंत्वमादिशब्दाः देडहपराः । न हि तच्छब्देनात्मानं परामृश्य तेनाऽऽत्मना देहानामैक्यमुपदिश्यते । नाप्यन्तःकरणपराः । न ह्यन्तःकारणानां परमात्मनैक्यं परस्परैक्यं वोपदिश्यते । नापि देहविशिष्टान्तःकरणपराः । न

हि देहविशिष्टानामन्तःकरणानामैक्यमुपदिश्यते (पद्यते?) । अतोऽहंत्वमादिशब्दाः देहातिरिक्तात्मपरा इत्यभि-प्रायेण देहातिरिक्तेत्युक्तम् । अहंत्वमित्यादिपदानामुपलक्षणत्वादुपलक्ष्ये वस्तुनि न भेद इत्याशङ्क्य परिहरति अहमिति । अहंत्वमादीति आदिशब्देन सर्वशब्दो विवक्षितः । उपलक्ष्येणेत्यौपचारिकनिर्देशः ; उपलक्ष्यवाचि-पदेनेत्यर्थः । सर्वमेतदात्मस्वरूपमित्यनेनेति । अहं त्वं सर्वमिति त्रयाणामपि पदानामात्मस्वरूपशब्देन सामा-नाधिकरण्यं फलितम्, तेष्वन्यतमेन अहंत्वमर्थसजातीयार्थवाचिना सर्वमेतदिति पदेन आत्मस्वरूपशब्दस्य सा-मानाधिकरण्यनिर्देशात् इति ज्ञापनार्थं सर्वमेतदात्मस्वरूपमित्युपादानं कृतं भाष्ये । श्लोके सर्वमेतदात्मस्वरूप-मिति प्रदर्शनार्थमुक्तम् । अतोऽहंत्वमादिशब्दानामुपलक्ष्यवाचकाभिमतात्मस्वरूपशब्देन सामानाधिकरण्यादहं-त्वमादिशब्दवाच्यानामर्थानामुपलक्षणत्वमसङ्गतम् । न हि, चन्द्रः शाखा, सारसः केदार इत्युपलक्षणोपलक्ष्यवाचि-शब्दानां सामानाधिकरण्यं मुख्यतया दृष्टमित्यर्थः । लक्षणयाऽस्त्विति चेत्-लक्षणैव दोष इति भावः यद्वा अने- नेति पदमुपलक्ष्यविशेषणम् । सर्वमेतददात्मस्वरूपामित्यात्मशब्दनिर्दिष्टेनानेनोपलक्ष्येणाहत्वंमादिशब्दानां सामा-नाधिकरण्यादुपलक्षरत्वमसङ्गतमित्यर्थः । अस्यां योजनायामहंत्वमादिसजातीयार्थवाचिसर्वपदसामानाधिकरण्य-निर्देशस्य हेतुत्वमर्थसिद्धम् । यदि अहंत्वमादिशब्दा उपलक्ष्यपर्यन्तवृत्तयः, तदानीमेवमर्थतया उपलक्ष्यवाचिना आत्मस्वरूपमिति पदेन स इति पृथक्सामानाधिकरण्यदर्शनादुपलक्षणवाचकाहंत्वमादिसामानाधिकरण्यवैयर्थ्य-र् मिति । अहशब्दस्योपेक्षिकप्रत्यक्तवं प्रवृत्तिनिमित्तम्;त्वंशब्दस्यच चेतनत्वे सति अभिमुखत्वम्; आत्मशब्दस्य च व्यापनक्षमत्वम्; स इति पदस्य प्रकृतज्ञानाकारः ।। ननु स च सर्वमेतदात्मस्वरूपमित्यत्र कथमात्मस्वरूपविशेष-णस्य तच्छब्दस्य पुँल्लिङ्गत्वम् ।। उच्यते। "आत्मा शुद्धोऽक्षरः शान्त(न्तो निर्गुणः प्रकृतेः करः?)" इत्यादिषु (प्रकृति?) परज्ञानमयत्वेन प्रकृत आत्मा हि तच्छब्देन परामृश्यते । अतो न विरोध इति । अचित्संसृष्टं देवादि-रूपेण प्रतीयमानं सर्वमेतदात्मस्वरूपं ज्ञानैकाकारः स आत्मेत्यर्थः । चतुर्थपादं व्याचष्टे सोपीति । न जीवब्रह्मा-द्वैतपरमिदं प्रकरणम्; न चात्मस्वरूपबहुत्वनिषेधपरम्; प्रकारैक्यपरम् इति कथं ज्ञायत इत्यभिप्रायेणाह कुतश्चेति । परिहरति देहात्मेति । तदपि कुत इत्यत्राह तच्चेति ।

देहात्मविवेकपरत्वोपपादनेन जीवपरैक्यपरत्वमात्मबहुत्वनिषेधपरत्वं च दत्तोत्तरमेव । अथ शास्त्रोप-संहारगतस्य विभेदजनक इत्यादिश्लोकस्यार्थं वक्ष्यन् अर्थान्तरपरत्वं च दत्तोत्तरमेव । अथ शास्त्रोपसंहारगतस्य विभेदजनक इत्यादिश्लोकस्यार्थं वक्ष्यन् अथान्तरपरत्वं व्युदस्यति विभेदेत्यादिना । प्रथमं किम् आत्मस्वरूपैक्य- परम् उत जीवपरैक्यपरमिति विकल्प्य दूष्यते । अत्र चशब्दाभावादात्मब्रह्मशब्दयोः सामानाधिकरण्यं सम्भावि- तम् । तथासति ब्रह्मशब्दः शुद्धावस्थपरः स्यात् । एवं शुद्धावस्थ(स्थात्)जीवस्य भेदो नास्तीति जीवस्वरूपैक्य- मुक्तं स्यात् । अतः शङ्कास्पदीभूतमात्मैक्यपरत्वं दूषयति आत्मेति । उक्तरीत्या-श्रुतिस्मृत्यर्थापत्तिलौकिकार्था-पत्त्यादिभिरित्यर्थः । द्वितीयं पक्षं दूषयति जीवेति । देहात्मनोरिवेति । विरुद्धधर्मत्वादित्यर्थः । प्रत्यक्त्वपराकत्वा-जडत्वनित्यत्वपरिणामित्वादिभिर्विरुद्धधर्मैर्यथा देहात्मनोर्भेदः, तथा जीवपरयोरपि हेयार्हत्वोभयलिङ्गत्वनियाम्य-त्वनियन्तृत्वादिविरुद्धधर्मैरेक्यं हि नोपपद्यते । विरुद्धधर्मत्वे प्रमाणमाह तथाचेति तथा-विरुद्धधर्मत्व इत्यर्थः । चो ह्यर्थः हेतुवाची । वक्ष्यमाणहेतूनां पञ्चमीप्रयुक्ता; तत्स्थानीयोऽयं चशब्दः । समानं वृक्षम्-शरीरम् । पिष्प- लम्-कर्मफलम् । अभिचाकशीति-स्वयमनश्नत्त्वादाशयितृत्वाच्च भृशं भातीत्यर्थः ।।

ननु कथमस्य मन्त्रस्य जीवपरमात्मभेदपरत्वम्? अन्तःकरणजीवपरो ह्ययं मन्त्रः, पैङ्गिरहस्यब्राह्मणेन अस्य मन्त्रस्य तथा व्याख्यातत्वात् । यथा-"तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम् । अनश्नन्नन्यो अभिचकशीति अनश्नन्नन्योऽभिपश्यतीति(क्षेत्र)ज्ञः । तावेतौ सत्त्वक्षेत्रज्ञौ" इति । स्वाद्वत्तीत्यन्तेन सत्त्वमुक्तम् अभिचाकशी-तीत्यन्तेन वाक्येन अनश्नन्नन्यो...ज्ञ इति क्षेत्रज्ञोऽभिपश्यतीत्युक्तमिति व्याख्यातत्वमवगम्यते । न च सत्त्व- शब्दो जीवपरः, क्षेत्रज्ञशब्दः परमात्मपरः-इति वाच्यम्; सत्त्वक्षेत्रज्ञशब्दयोरन्तः-करणजीवपरतया प्रसिद्धत्वात्, "तदेतत् सत्त्वं येन स्वप्नं पश्यति । अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः । तावेतौ सत्त्वक्षेत्रज्ञौ" इति सत्त्वक्षेत्रज्ञ-शब्दयोरन्तःकरणजीवपरत्वेन तत्रैव व्याख्यातत्वाच्च । येन पश्यतीति करणत्वप्रतीतेः सत्त्वं ह्यन्तःकरणम्; स्वप्नद्र-ष्टृत्वादितरः क्षेत्रज्ञो हि जीवः । अतः द्वा सुपर्णा इति मन्त्रोऽयमन्तःकरणजीवपरः; न तु जीवपरतमात्मपर इति ।।

उच्यते । न तावत् जीवपरमात्मपरत्वमस्य मन्त्रस्य आपादयितुं शक्यते । अनेन मन्त्रेण तुल्यार्थतया प्रत्यभिज्ञायमाने, "समाने वृक्षे पुरुषो निमग्नः" इत्यनन्तरमन्त्रे जीवपरमात्मनोः प्रतिपन्नत्वात्; अस्य मन्त्रस्य तदैकार्थ्याच्च । "समानं वृक्षं परिषस्वजाते", "समाने वृक्षे पुरुषो निमग्नः" इति तयोरैकार्थ्यं हि प्रतीयते । समाने वृक्षे" इति मन्त्रे च पुरुषो जीवः । अन्तःक्रणस्य पुरुषशब्दवाच्यत्वाभावात् । "शोचति मुह्यमानः", "पश्यति वीतशोकः" इति पदानामस्वारस्यप्रसङ्गाच्च । अन्यश्च परमात्मा; ईशशब्दवाच्यत्वात्; स्वविषयज्ञानेन वीतशोकत्वहेतुत्वाच्च । न केवलमुत्तरमन्त्रैकार्थ्यात् द्वासुपर्णेतिमन्त्रस्य जीवपरमात्मपरत्वम्; किन्तु तस्मिन्नेव, "स्वाद्वत्ति", "अनश्न- न्नन्यः" इति भोकत्तृत्वाभोकत्तृवश्रवणाच्च तदवसीयते । चक्षुःश्रोत्रादीनां द्रष्टृत्वश्रोतृत्वादिवत् अन्तःकरणस्यापि करणत्वादेव भोक्तृत्वं न संभवति । जीवस्य च वृक्षशब्दोक्तदेहपरिष्वङ्गदशायामेव अनश्नत्त्वमपि नोपपद्यते ।। तर्हि पैङ्गिरहस्यब्राह्यणस्य कोऽर्थः ।। उच्यते । सत्त्वं बद्धजीवः; "द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इति नैघण्टु-कपाठात् जन्तुपरत्वा-वगतेः । जन्तुः-चेतनः; "प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः" इति पाठात् । "न तद-स्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः" इति प्रयोगात्, "वन्यान् विनेष्यन्निव दुष्टसत्त्वान्" इत्यर्वाचीनप्रयोगाच्च । क्षेत्रज्ञशब्दश्चात्र परमात्मपरः, अर्थान्तरप्रसिद्धाकाशप्राणशब्दवत् अर्थानुपपत्त्या परमात्मपरत्वोपपत्तेः; "विष्णोर्नामसहस्रं मे" इत्युपक्रम्य-"क्षेत्रज्ञोऽक्षर एव च"इति प्रयोगात्; क्षेत्र जानातीत्यवयवार्थस्य तस्मिन्नेव पुष्कलत्वाच्च । मोक्षधर्मे, "ततस्त्रैगुण्यहीनास्ते परमात्मानमञ्जसा । प्रविशन्ति

द्विजश्रेष्ठ ! क्षेत्रज्ञं निर्गुणात्मकम् ।", "सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः", "विश्वमूर्द्धा विश्वभुजो विश्वपादा-क्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ।। क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे । तानि वेत्ति सा योगात्मा ततः क्षेत्रज्ञ उच्यते" इति प्रयोगात् ; "योऽस्याऽऽत्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति च कर्माणि स भूतात्मेति चोच्यते" इति प्रयोगाच्च । येन स्वप्नं पश्यतीत्यत्र येनेतीत्थम्भावे तृतीया । येन विशिष्टः परमा-त्मा स्वप्नं पश्यतीत्युच्यते । ततश्च "काठिन्यवान् यो बिभर्ति" इति पृथिवीद्वारा काठिन्यवत् स्वप्नद्रष्टृत्वं जीवात्म- द्वारा परमात्मविशेषणं भवतीति न विरोधः । शारीरशब्दश्च, "तस्येष एव शारीर आत्मा" इतिवत् स्वव्यतिरिक्त-समस्तचिदचिद्वस्तुशरीरके परमात्मन्युपपद्यते । उपद्रष्टेति निरुपाधिकद्रष्टृत्वं च सर्वज्ञस्य तस्यैवोपपद्यते । अतो द्वासुपर्णेति मन्त्रो जीवपरमात्मपरः ।।

ॠ तं पिबन्ताविति । पानक्रियायां जीवपरयोः प्रयोज्यप्रयोजकभावेनान्वयः । पिबन्ताविति शतृप्रत्ययः कर्तृमात्रपरः; न तु कर्तृविशेषपरः । तेन प्रयोज्यप्रयोजकौ द्वावपि कर्तृविशेषाविति तावविशेषेण क्रोडीकृतौ भवतः । अन्यथा अनश्नन्नित्यादिविरोधः स्यात् । यद्वा छत्रिणो गच्छन्तीतिवदजहल्लक्षणा । सुकृतस्य ॠतम्-फलम् । यद्वा सुकृतस्य लोक इत्यन्वयः, तदा सुकृतम् ॠतम् । तत्फलमुच्यते लक्षणया, "एवं पुण्यस्य कर्मणो दूरादगन्धो वाति" इत्यत्र "एवमनृतादात्मानं जुगुष्सेत्" इति पुण्यप्रतियोगित्वेन अनृतशब्दप्रयोगात् । गुहाम्-हृदयगुहाम् । परमे परार्ध्ये इति लोकविशेषणम् । जीवपरविशेषणं वा; छान्दसत्वात् लिङ्गव्यत्ययः । छायातपौ-अज्ञसर्वज्ञौ, "ज्ञाज्ञौ द्वावजावीशनीशौ" इत्यनेनैकार्थ्यात्- ब्रह्मविदः-अध्यात्मविदः । पञ्चाग्नयः त्रिणाचिकेताश्च कर्मविशेष-निष्ठाः । ते वदन्ति; यथा, "ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनात-नम्" इति ।

ॠतं पिबन्तावित्येतद्वैशद्यायाह अन्तःबप्रविष्ट इति । इत्याद्या श्रुतिरित्यन्वयः । न केवलं श्रुतिस्वार- स्यात्; अस्मिन्नपि प्रबन्धे दृश्यते इत्याह अस्मिन्नपीति । स सर्वभूतेत्यादिना हेयप्रत्यनीकत्वकल्याणगुणाकरत्वे कथिते । जीवस्य हेयास्पदत्वमविद्येत्यादिना उक्तम् । सर्वगेति भेदव्यपदेशादिति पूर्वेण सम्बन्धः । न तु सूत्रो-पादानम्; उपर्यस्य सूत्रस्य विषयवाक्यानुपादानात्; उदाहृतपुराणवचनानां हेतुत्वकथनसापेक्षत्वाच्च । श्रुतिवाक्य- स्य हेतुत्वं हि चशब्देनोक्तम् । उभयेऽपीत्याद्युपात्तसूत्रद्वयस्य विषयवाक्यं य आत्मनीति । अधिकं त्विस्यादि- सूत्रस्य विषयवाक्यं प्राज्ञेनेति । सूत्रेष्वाभिः श्रुतिभिरेवमर्थनिर्णयादित्यर्थः ।

एवमुपनिषत्पुराणसूत्रैर्जीवपरयोर्विरुद्धधर्मत्वमुपपादितम् । अथ, ब्रह्म वेद ब्रह्मैव भवतीत्यादिवाक्यानि हृदि निधाय अस्यान्यथासिदिं्ध शङ्कते नापीति । तत् दूषयति अविद्याश्रयत्वेति । अविद्याश्रयत्वयोग्यत्वम् । अविद्याशब्दः समस्तहेयप्रदशर्नार्थः; आश्रयत्वशब्दः सम्बन्धपरः; हेयसंबन्धात्यन्ताभावानधिकरणत्वं तद्योग्य- त्वम् । हेयसम्बन्धात्यन्ताभावाधिकरणत्वं तदनर्हत्वम् । "अनश्यन्नन्यः" इति श्रुत्या परमात्मनस्तदनर्हत्वं सिद्धम् । देशकालसन्निकर्षे सत्यपि तदस्पर्शो हि स्वभावसन्निकर्षाभावात् । स्वभावसंनिकर्षाभाव एव ह्ययोग्य- त्वम् । यथा नभसः क्लेदनदहनाद्यनर्हत्वम् । अतो हेयार्हतदनर्हयोर्हेयापगमेऽपि न स्वरूपैक्यं संभवति । निग्राह्यस्य पश्चादनुगृहीतस्य हि निग्रह्यत्वापगमेऽपि निग्रहानुग्रहकत्र्रा पुरुषेण नैकत्वसंभव इत्यर्थः (?) कारागृहनिर्मुक्तस्य नियन्त्रा नरपतिनान स्वरूपैक्यं न संभवतीत्यर्थः ।

अस्मिन्नर्थे पुराणवचनमाह यथोक्तमिति । योगशब्दं ऐक्यपरः । अन्यथा, अन्यद्द्रव्यं हि तद्द्रव्यतां नैतीति प्रतिक्षेपानुपपत्तेः । ननु मिथ्यैतदित्युत्तरत्रान्वयः, परमात्मात्मनोर्योगः परमार्थः, अन्यद्द्रव्यं तद्द्रव्यतां

नैतीत्येतत् मिथ्येत्यर्थः इति चेत्-नैवम्; अन्यस्यान्यद्रव्यतानापत्तेस्सत्यत्वात् । इतरथा जडाजडयोस्तादात्म्य- प्रसङ्गः । "ॠग्यजुस्सामनिष्पाद्यं यज्ञकर्म मतं तव" इतिवत् इष्यत इत्यनेन पूर्वार्धोक्तार्थस्य परमतत्वद्योतनात् । अन्यथा इष्यत इति पदवैयर्थ्यात् । किञ्च "परमार्थस्तु भूपाल ! सङ्क्षेपाच्छÜयताम्" इति वक्ष्यमाणपक्षव्यतिरिक्त- पक्षाणां निराकरणपरत्वाच्च प्रकरणस्य, एतच्छलोकपूर्वार्धोक्तैक्यसमर्थनपरत्वमुत्तराधर्स्य नोपपद्यते । "धर्माय त्यजते" इत्यादिग्रन्थैस्तत्तदर्थानां परमार्थत्वं हि निरस्यते । स्वतः प्रकृतार्थे स्वरसस्य एतच्छब्दस्य प्रकृतार्थे सत्यपि वक्ष्यमाणपरत्वाश्रयणमप्ययुक्तम् । किञ्च अन्यद्द्रव्यं तद्द्रव्यतां नैतीति यत्, एतन्मिथ्येति हि तदानीमर्थः । तथासति यतश्शब्दस्वारस्यभङ्गः । यतश्शब्दस्य हि हेतुपरत्वं स्वरससिद्धम; न तु यच्छब्दवत् प्रकृतार्थशरीरमा-त्रपरामर्शित्वम् । अन्यद्द्रव्यं तद्द्रव्यतां नैतीत्येतन्मिथ्येति यतः, तत ऐक्यं परमार्थ इत्यन्वये इतिशब्दद्वयाध्याहार-प्रसङ्गः । स चानध्याहारेण निर्वाहे सति नोपपद्यते ।। यदुच्येतपूर्वं पृथग्भूतयोः परमात्मात्मनोरैक्यं परमार्थ इतीष्यत इति चेत्-मिथ्यैतत्; अन्यद्द्रव्यं हि तद्द्रव्यतां नैतीति यतः । तस्मात् पूर्वमपि परमात्मात्मनोर्भेदो नास्तीतिनैवम्; पूर्वं भ्रान्त्या पृथग्भूतयोरित्यस्याश्रुतत्वेनाध्याहारप्रसङ्गात् । स चानध्याहारेण निर्वाहे संभवति नोपपद्यते । किञ्च "तस्यात् पूर्वमपि भेदो नास्ति" इत्यश्रुतवाक्यान्तराध्याहारेण वाक्यस्य पूरणीयत्वं स्यात् । तच्च तन्निरपेक्षनिर्वाहे संभवति नोपपद्यते । तस्मात् प्रागपि भेदो नास्तीति वाक्यं नाद्याहर्तव्यम् ।। (नाध्याहतर्व्यम्;?) पूर्वं भिन्नयोः परमात्मात्मनोः पश्चादभेद इति पक्षनिराकरणमात्रपरत्वाद्ग्रन्थस्य इति चेत्-किं तेन प्रयोजनम् ।। पूर्वमप्यैक्य-सिदिं्धरिति चेत्-न; पूर्वं पृथग्भूतयोः पश्चादैक्यायोगेऽभिहिते सति पश्चादपि भेदसिद्धेः । अतः स्वरससिद्ध एवार्थः स्वीकार्यः ।

अथ-ब्रह्म वेद ब्रह्मैव भवतीत्यादिवाक्यनिर्वाहं बहुश्रुत्यन्तराविरोधेन वक्ष्यन् मुक्तस्य साम्यापत्तिमाह मुक्तस्येति । तत्रैक्यश्रुतेः प्रतिकूलार्था साम्यश्रुतिर्दर्शयिष्यत इति मत्वा, व्याख्येयतया प्रकृतस्योपबृंहणवचनस्य सजातीयं पराभिमतार्थप्रतिकूलार्थं स्मृतिवचनं दर्शयति इदमिति । मुक्तपरत्ववैशद्यायोपादानं सर्गेऽपीति । न केवलं शास्त्रान्तरे, अत्रापि मुक्तस्य भेदप्रतिपर्त्तिरस्तीत्याह इहापीति । इह-योगप्रकरणे योगसङ्खेपकथनारम्भ इत्यर्थः । "सङ्क्षेपविस्तराभ्यां तु; किमन्यत् क्रियतां तव" इति ह्युक्तम् । आत्मनः शकत्या विकार्यम्-अवस्था- न्तरं नेयम् , ध्यायिनमेनं तद्ब्रह्म आत्मभावं नयति, आत्मनः शक्यया विकार्यं लोहमाकर्षको यथेत्यन्वयः ।

आकर्षको वह्निः; दोषमाकर्षतीति व्युत्पत्त्या । "यथाऽग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्त-स्थितो विष्णुर्योगिनां सर्वकिल्विषम्" इति ह्यत्तरत्र वक्ष्यते, श्रीविष्णुधर्मे च, "यथाग्निसङ्गात् कनकमपदोषं विष्णुर्योगिनांसर्वकिल्विषम्" इति ह्युत्तरत्र वक्ष्यते; श्रीविष्णुधर्मे च, "यथाग्निसङ्गात् कनकमपदोषं प्रजायते" इति । सोऽग्निः आत्मभावम्-आत्मनः स्वभावम्-निर्दोषत्वं लोहं नयति; तथेत्यर्थः । अयं सम्यगर्थः । यद्वा आत्म-शब्दः स्ववाची सन् अन्ययोगव्यतिरेकपरः । यथाऽग्निर्लोहम् आत्मभावम्-स्वभावम्-स्वतः सिद्धरूपं नयति, तद्वदित्यर्थः । यद्वा आकर्षकः अयस्कान्तः, लोहमात्मभावं नयतिस्त्वव्यापारं लोहं कारयति; स्वमनुकारयति "स्थितः स्थितामुच्चलितः प्रयाताम्" इतिवत् । अयस्कानजतस्तिष्ठति चेत्, लोहस्तिष्ठति; धावति चेत्; तमनुधा- वति; एवं कामान्नी "कामरूप्यनुसञ्चरन्", "सर्वेषु कामचारो भवति" इत्यादिश्रुत्यनुगुणं परमात्मा उपासकं स्व-चेष्टामनुकारयति; समानचेष्टितं करोतीत्यर्थः । यद्वा आत्मशब्दः स्ववाची निष्कृष्टस्वरूपपरः । उपासकं परमात्मा अत्मभावं नयतिप्रकृतिसंबन्धराहित्येन शुद्धतां नयति, केवलतां नयति । यथा अयस्कान्तो दारुनिमग्नं लोहं तस्मात् दारुण उद्धृत्य केवलतां नयति तद्वदित्यर्थः । यद्वा-"भूः प्राप्तावात्मनेपदी" इति वचनात् भावशब्दः प्राप्तिवचनः ।

आत्मप्राप्तिं नयति, यथा लोहमयस्कान्तः स्वप्राप्तिं नयतीत्यर्थः । प्राप्तिं नयतीति निर्देशः ओदनपाकं पचतीतिवत् । जीवस्य परमात्मशकत्या विकार्यत्वं युक्तम्; जीवस्य बन्धमोक्षयोर्ज्ञानसङ्कोचविकासरूपविकारार्हत्वात् ।

अत्र श्लोके तादात्म्यप्रतिपत्त्यभावं दर्शयति न हीति । आकषर्कस्वरूपापत्तिराकृष्यमाणस्येति निर्देशः उक्तसर्वार्थसाधारणः । अग्निसुवर्णदृष्टान्तविवक्षायामाकृष्यमाणशब्दो विकार्यपरः । समानो ज्योतिषेति । ज्योतिः- परं ब्रह्म; "परं ज्योतिरुपसम्पद्य", "अथ यदतः परो दिवो ज्योतिर्दीष्यते" इति श्रुतेः । द्रमिडेति । अशरीरः-मुक्तः; कर्मकृतशरीराभावात् । सिद्धिः-अनुभवः । मुक्तौ जीवपरयोर्भेदश्रुतीर्दशयति श्रुतयश्चेति । आप्नोति-परमनुभव-तीत्यर्थः । एतद्विवरणरूपं वाक्यं दर्शयति सोऽश्नुत इति । अनुसञ्चरन्नित्यनेन भेदो दर्शितः । रसो वै स इत्य- नेन साम्यम् आनन्दित्वाकारेणेत्युक्तं भवति । परमसाम्योपयोगिनीं वैधर्म्यनिवृतिं्त दशर्यति यथा नद्य इति । नदीनां नदीत्वाकराप्रहाणेन समुद्रसंसर्गात् वैधर्म्यप्रहाणेन संसर्गो दृष्टान्ते उपजीव्यः । प्राकृतनामरूपप्रहाणपूर्वि- का हि परमात्मप्राप्तिः । न च तावता भेदनिवृत्तिः, "पुरुषमुपैती"ति कर्मकर्तृभावावगमात् । साम्यापतिं्त दर्शयति तदेति ।

ननु परमं साम्यमुपैतीत्यैक्यापत्तिरुच्यते, समशब्दस्य समानशब्दपर्यायत्वात्; समानशब्दवदैक्ये प्रयो- गाच्च । समशब्दस्यैक्ये प्रयोगो दृश्यते, समकालवर्तीत्यादिषु । तथा समशब्दपर्यायतयाऽवगतसमानशब्दोऽप्यैक्ये प्रयुज्यते, "समानं वृक्षं परिषस्वजाते" इति; "एकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्" इति च । एकाधिकरण्यं हि सामानाधिकरण्यम्; एकस्मिन्नर्थ इत्युक्तेः । तत्पर्यायश्च समशब्दः । यद्यपि सादृश्यस्यापि समशब्दो वाचकः, तथापि मुक्तिवाक्यस्थसाम्यशब्द ऐक्यपरः, "ब्रह्म वेद ब्रह्मैव भवति" इत्यादिश्रुत्यन्तरैकार्थ्यात्; लय-सायुज्यशब्द-श्रवणात्; नदीसमुद्र-घटाकाशमहाकाशादिदृष्टान्तश्रवणाच्च । "साधर्म्यमागताः" इति स्मृतिस्तु सगुणप्राप्तिविषया । अन्यथा प्रत्यक्षश्रुतिविरोधे स्वरूपैक्यविषयबहुश्रुतिविरोधे च तद्दौर्बल्यात् । अत ऐक्यापत्तिरेव अनेन वाक्येन प्रतिपादिता । ऐक्यस्य च पारम्यं नाम पुनर्भेदभ्रमप्ररोहविरहितत्वमिति ।।

अत्रोच्यते । अत्र साम्यशब्दः सादृश्यमेवाभिधत्ते, न त्वैक्यम्; ऐक्यस्य मुख्यार्थत्वेऽभ्युपगतेऽपि स्वार-स्याभावात् । सादृश्य एव हि (च?) समशब्दस्य प्रसिद्धिप्राचुर्यम् । तस्य चापवादाभावे सति अस्वरसार्थस्वीका-रोऽनुपपन्नः । अपवादहेतवश्च त्वदुक्ता अनन्तरमेव परिह्रियन्ते । न च समाधिशब्दानामैक्यं मुख्यार्थः; एकत्व-विवक्षायामेको घट इत्यादौ समो घट इत्यादिप्रयोगाभावात् ; मुख्यत्वे हि एकशब्दस्येव प्रतियोगिनिरपेक्षप्रयोगः प्राप्नोति । यस्तु-"सामानाधिकरण्यं" "समकालवर्ती"त्यादिषु समादिशब्दप्रयोगः, स तु साधारण्यार्थः ,न त्वै- क्यार्थः । साधारण्येऽपि प्रयोगो न मुख्यः, प्रयोगेऽन्यथासिद्धे शक्तिकल्पनानुपपत्तेः । तथा हि-अनेकप्रतियोगिकै-करूपसम्बन्धवत्त्वं साधारण्यम् । यथा-धनं देवदत्तयज्ञदत्तौ प्रति शेषत्वेन सम्बन्धितया साधारणम् । तयोश्च धनं प्रति शेषितयाऽऽस्ते सादृश्यम् । ताभ्यां सम्बन्धि धनम् । तथा नीलत्वोत्पलत्वे अपेक्ष्य आधारतया संबन्धि द्रव्यं साधारणम् । तयोश्च द्रव्यं प्रति आधेयतयाऽऽस्ते सादृश्यम् । ताभ्यां सम्बन्धि द्रव्यम् । तथा द्वाभ्यां संयोगित्वेना-वच्छेद्यावच्छेदकभावेन वा सम्बन्धी कालस्तयोः साधारणः, तत्कालसम्बन्धित्वाकारेण तयोरपि सादृश्यमस्ति । ताभ्यां संबन्धी कालः । अतो मिथस्सदृशपदार्थसंबन्धितया द्रव्यकालादिषु समसमानादिशब्दा लक्षणया वर्तन्त इति न मुख्याः । अत ऐक्ये प्रयोगाभावात् समशब्दस्यैक्यं न मुख्यार्थः । मुख्यार्थे संभवति लाक्षणिकार्थस्वीकारो नोपपद्यते । अतः साम्यशब्दः सादृश्यमेवाभिधत्ते । मुक्तात्मगोचरसामानाधिकरण्योपपत्तिश्चानन्तरमेव भाष्ये वक्ष्यते ।

यदुक्तं सायुज्यशब्देन मुक्तावभेद इति-तदयुक्तम्; सायुज्यशब्दस्य समानगुणयोगवाचित्वात् । युज्यत इति युक्छब्दो गुणपरः । धर्मिणि हि गुणः संबध्यते । समानगुणकः सयुक्, तस्य भावः सायुज्यमिति हि व्युत्पत्तिः ।

प्रयोगविरोधाच्च नैक्यं सायुज्यम्; "एतासामेव देवतानां सायुज्यं साÐष्टतां समानलोकतामाप्नोति " इति बह्वीभिर्देवताभिरेकस्य सायुज्यापत्तिः श्रूयते । न ह्येकस्य निरवयवस्याच्छेद्यस्यात्मनो बह्वीभिर्देवताभिरैक्यं सं- भवति । क्रमभावित्वादविरोध इति चेत्, तर्ह्यग्निनैकीभूतस्य वरुणसायुज्यापत्तौ अग्नित्वोपाधेः प्रहाणादग्नेर्देव- ताया अभावः स्यात् । अग्नित्वोपाधौ स्थिते, वरुणैक्यापत्त्यनुपपत्तिः । औपाधिकभेदप्रहाणं ह्यैक्यापत्तिः । न तु पूर्वमविद्यमानमैक्यमुत्पद्यते ।। अग्नौ स्थित एव ततः पृथग्भूतस्य वरुणसायुज्यमिति चेत्, एकीभूतस्य पृथग्भावो ह्युपाधितः स्यात् । उपाधिश्च देहान्तःकरणादिः । तत्सम्बन्धस्याहेतुकत्वेऽतिप्रसङ्गात् हेतुर्वाच्यः ।। कर्मैव हेतुरिति चेत् , अग्निसायुज्यापत्तिदशायां तत् कर्म नष्टं न वा? नष्टं चेत्-पुनरुपाध्यनु दयेनाग्नितः पृथग्भावायोगात् अग्नि-त्वोपाधेश्चाप्रहाणात् पूर्वोपाधिप्रहाणरूपवरुणसायुज्यापत्तिः क्रमेणापि नोपपद्यते । अनष्टं चेत्-तत्कृतोपाधेरनष्ट- त्वात् नाग्निनैक्यापत्तिसंभवः; औपाधिकभेदस्य तत्प्रहाणरूपैक्यापत्तिविरोधित्वात् ।। अनष्टमपि तत्कर्म आग्नि-सायुज्यापत्तिदशायां ततो भेदकमुपाधिं न जनयति कर्मणां कायर्कारित्वस्य कालविशेषनियतत्वादिति चेत्-तथापि व्यवस्थितकर्मविशेषपरिष्वक्तस्य जीवस्य तत्कर्मापरिष्वक्तादग्नितस्तदेव कर्म भेदकमिति नाग्निनैक्यापत्तिरुपपन्ना । किञ्च पृथिव्या एकीभूतपृथग्भूतघटस्येव अग्निना एकीभूतपृथग्भूतजीवस्याजत्वनित्यत्वानुपपत्तिश्च । अतो भेदे स्थित एव अग्न्यादिसायुज्यम् ।

समानलोकतासाहचर्याच्च नैक्यं सायुज्यम्, न ह्येकस्य स्वेन समानलोकत्वसंभवः । अत।#े समानलोकत्व- वत् भेदे सिद्ध एव सायुज्यं भवति ।। समानलोकताप्राप्त्यनन्तरं सायुज्यापत्तिः, न तु युगपदेव; अतस्तयोरविरोध इति चेन्न, "सायुज्यं साÐष्टतां समानलोकताम्" इति सायुज्यस्य पूवर्श्रुतत्वात् ।। अर्थक्रमेण पाठक्रमबाध इति चेन्न; अवयवशकत्युपस्थापितार्थस्य पाठक्रमानुगुणत्वात्, अर्थान्तरकल्पनस्याहेतुकत्वाच्च । यदि पाठक्रमबाधार्थं सायु-ज्यशब्दस्य ऐक्यापत्तिलक्षणार्थविषया रूढिशक्तिः कल्प्यते, तदाऽन्योन्याश्रयः स्यात्-सायुज्यस्यैक्यापत्तिलक्षण-त्वनिश्चये पाठक्रमबाधः, पाठक्रमबाधे सति सायुज्यस्यैक्यापत्तिलक्षणत्वनिश्चय इति ।। "एतेषामेव सलोकतां सायुज्यमश्नुते" इति वाक्यात् पूर्वोदाहृतवाक्यस्यक्रमबाध इति चेत्, न; विरुद्दार्थविषयाय रूढिशक्तेरक्लृततया विरोधास्फुरणात् ।

किञ्च "अग्नेर्वा एतानि नामधेयानि । अग्नेरेव सायुज्यं सलोकतामाप्नोति...वायोरेव इन्द्रस्यैव बृहस्पतेरेव प्रजापतेरेव-ब्रह्मण एव सायुज्यं सलोकतामाप्नोति" इति भूयसां वाक्यानां बलीयस्त्वात् त्वदुक्तक्रम एव बाध्यः । किञ्च "एतेषामेव सलोकतां सायुज्यमश्नुते । अग्नेरेव सायुज्यं सलोकतामाप्नोति" इत्यादिवाक्यानि कर्मविधिशेषा-र्थवादरूपाणि । कर्मफलत्वाच्चाग्न्यादित्यादिदेवतासायुज्यमनित्यम् । अतः कर्मफलावसानेऽग्न्यादिभ्यः तत्सा- युज्यं प्राप्तानां पृथग्भावस्यावर्जनीयत्वात् आमोक्षाज्जीवभेदस्थितेर्भवतामपीष्टत्वात् अग्न्यादिसायुज्यदशायामपि भेदस्थितिरवर्जनीया ।। अग्न्यादिसायुज्यं गतानां ततः पृथग्भावः पुनरप्युपाधित इति चेत्-दत्तमुत्तरम् । न चाग्न्यादिसायुज्योक्तिरर्थवादत्वादनादरणीयेति वाच्यम्; वेदान्तिभिरर्थवादानां प्रतीयमानार्थे प्रामाण्याभ्युपग- मात् । अतो न सायुज्यमैक्यम्, अपि तु समानगुणयोग एव ।

लयोऽपि न स्वरूपैक्यम्; लयशब्दस्य तदर्थत्वाभावात् । प्रयोगानुगुणं शब्दार्थव्यवस्थापनं कार्यमिति । नित्यनैमित्तिकमहाप्रलयेष्वपि लयशब्दः प्रयुज्यते; न तत्र स्वरूपैक्यापत्तिः । न तावन्नित्यप्रलये; स्वर्गनरकादि-

गमनागमनशास्त्रात् । नापि नैमित्तिके; पूर्वकल्पप्रलीनानां नारदादीनां प्राग्जन्मप्रत्यभिज्ञानवतामेव पुनरुत्पत्त्य-वगमात् । नारदेन पूर्वकल्पे स्वजन्मवृत्तादिकमिह कल्पेऽभिहितमिति पुराणेष्ववगम्यते । नापि महाप्रलये; वैषम्य-नैर्घृण्यपरिहाराय जीनित्यत्वबहुत्वकर्मवासनानांतदानीं विद्यमानताया अभ्युपगन्तव्यत्वात् । तथा "प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि" इति वदता भगवता पराशरेणैव, "हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते", "प्रधानकारणीभूता यतो वै सृज्यशक्तयः", "तेषां ये यानि कर्माणि प्राक् सृष्टयाः प्रतिपेदिरे" इत्यादिभिस्तदानीं सवासनकर्मान्वितजीव- बहुत्वं च दर्शितम् । अत एव भेदप्रहाणं च न लयशब्दार्थः । न च प्राकृतप्रतिसञ्चरमोक्षविषयप्रलयशब्दयोरर्थ- वैरूप्थं वक्तुमुचितम्; शक्तिभेदकल्पन-अमुख्यत्वयोरन्यतरप्रसङ्गात् । न च तत्रापि महाप्रलयादिषु लयशब्दस्या-मुख्यत्वं वाच्यम् ; बहुष्वर्थेष्वमुख्यत्वाश्रयणादपि मुक्तिमात्रविषयप्रलयशब्दस्यैवामुख्यत्वाश्रयणोपपत्तेः । अतः सर्वप्रयोगानुगुणोऽर्थः स्वीकार्यः । अतो विसदृशावस्थाप्रहाणेन कारणत्वधर्मिणा द्रव्येण विभागस्यापादानभूतेन संश्लेषो लयः ।। तस्मात् ऐक्यं न लयशब्दार्थः ।

घटाकाशादिदृष्टान्तोपन्यासश्चौपाधिकवैषम्याभावनिबन्धनः । आकाशादितत्त्वानामपि सांशत्वात् । तेषां पञ्चीकरणवचनेन प्रदेशभेदवत्ता हि वेदान्तिभिरभ्युपेत्या । अतो मोक्षविषयासु श्रुतिषु स्वरूपैक्यं क्वचिदपि नाव-गम्यते । निर्गुणप्राप्तिविषया श्रुतिः काचिदपि नास्तीययमर्थः अनन्तरमेवोपपाद्यते । अत;, "साधर्म्यस्मरणस्य सगुणप्राप्तिविषयत्वान्न परममोक्षविषयत्वम्; अन्यथा निर्गुणप्राप्तिविषयश्रुतिविरोधे स्मृतेर्दौर्बल्यप्रसङ्गात्" इत्यपि दुरुक्तम् ।

तस्मात् यदा पश्यः इति वाक्ये साम्यशब्दः सादृश्यपरः । येनाकारेण साम्यम्, तस्याकारस्य निरवधिकत्वं परमशब्दाभिप्रेतम् । अत इदं वाक्यं परब्रह्मप्राप्तिरूपं परममोक्षं तत्साम्यापत्तिलक्षणमेव प्रतिपादयति ।

अथ गुणोपासकस्य सगुणब्रह्मप्राप्तिं वदन्त्येताः श्रुतयः, न तु (पर)ब्रह्मविदः परब्रह्मप्राप्तिमिति शङ्काया-माह परविद्यास्विति । परविद्यासु-ब्रह्मविद्यास्वित्यर्थः । सर्वासु-परेण सगुणविषयत्वेन निर्गुणविषयत्वेन चोक्तासु दहरविद्यासद्विद्यादिष्वित्यर्थः । "अदृश्यत्वादिगुणकः" इति परविद्यावाक्यविषयसूत्रस्वारस्यात् तस्याः सगुणविष- यत्वं प्रतीयते । आनन्दादयः प्रधानस्य इति सूत्रमुपास्यस्य सगुणत्वायोदाहृतम् । विकल्पोऽविशिष्टफलत्वात् इति सूत्रं प्राप्यस्य सगुणत्वायोपात्तम् । अयमर्थः-परेण निर्गुणविषयत्वेनाभिमतानां "सत्यं ज्ञानम्", आनन्दो ब्रह्म" इत्यादिवाक्यानामानन्दादिगुणविशिष्टविषयत्वं तेषां च गुणानां सर्वविद्यानुयायित्वं चोकत्वा, तास्वेकैव विद्या फलायालमिति विद्याविकल्पश्चोक्तः । अतः परेण निर्गुणसगुरविषयत्वेनाभिमतासु सद्विद्यादहाविद्यादिषूपास्यं फलं च सगुणमिति सगुणप्राप्त्यतिरेकेण निर्गुणप्राप्तिः प्रमाणशून्या । अतो मुक्तौ भेदपराणां श्रुतीनामन्यथासिद्धिर्नोपपद्यते, प्राप्यवैषम्याभावादिति ।

सूत्रकाराभिप्रायविदामुकिं्त दर्शयति वाक्येति । युक्तं तद्गुणकोपासनादिति । युक्तम्-गुणयुक्तमेव प्राप्यम्; कुतः? तद्गुणकोपासनादित्यर्थः । विद्याविकल्पश्च तत्रैव द्रष्टव्यः । सच्चितः सद्विद्यानिष्ठः । तर्हि मुक्ता-वभेदश्रुतेः कोऽर्थ इत्यत आह ब्रह्मेति । "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इति, प्रकृतस्य वेदितुर्ब्रह्मपर्य-न्तस्वरूपाविर्भावपरमिदं वाक्यामिति यथा सेत्स्यति, तथा वक्ष्यते । इह त्वर्थान्तरमुच्यते । प्राकृतनामरूपप्रहाण-ज्ञापनाय नामरूपाद्विमुक्त इति श्रुतिरुदाहृता । साम्यप्रतिपत्त्यर्थं निरञ्जन इति वाक्यमुपात्तम् । तस्यैव साम्यस्य स्वाभाविकत्वज्ञापकं परं ज्योतिरिति वाक्यम् । तर्ह्यमुख्यत्वं स्यादित्यत्राह प्रकारैक्ये चेत् ।। सोऽयं व्रीहिरि-

त्यादेरुपलक्षणमिदमुदाहरणम् । "यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगा-दिषु" इत्यादिप्रयोगो भारतादिषु द्रष्टव्यः । दृष्टान्ते प्रकारैक्येऽपि तत्ताव्यवहारो मुख्योऽप्यस्वरस, पूर्वदृष्टे गवि व्यकत्यंशप्रहाणादस्वारस्यम्, जात्यंशस्य सौसादृश्यलक्षणैक्यान्मुख्यत्वम्; दाष्टिन्तिके तु गङ्गायां घोष इति गङ्गापदवत् कार्त्स्न्#ेन प्रवृत्तिनिमित्तप्रहाणाभावात् परमात्मनीव प्रवृत्तिनिमित्तपौष्कल्याभावाच्च प्रवृत्तिनिमित्तै-कदेशान्वयिनि मुक्तात्मनि मुख्यकोटिरित्यभिप्रायेण मुख्य एवेत्युक्तम् । लाक्षणिकगङ्गापदवन्नात्यन्तामुख्य इत्यर्थः । न हि मुक्तस्यापरिच्छिन्नज्ञानानन्दत्वेऽपि जगत्कारणत्वानुगुणगुणबृहत्त्वं स्वरूपबृहत्तं चा(वाऽ)स्ति । आकारैक्येऽपि तत्ताव्यवहारस्यात्यन्तामुख्यत्वाभावे सेयं(सोऽयं) गौरिति दृष्टान्तः ।

न केवलं योगसङ्ग्रहारम्भ; विस्तरेऽप्यव्यवहितेषु पूर्वश्लोकेषु भेदप्रतिपत्तिरस्तीत्याह अत्रापीति । न केवलं मुक्तविषयप्रकरणान्तरेषु; अस्मिन् प्रकरणेऽपीति वाऽर्थः । अस्मिन् श्लोके तथैवेति ब्रह्मसाधर्म्योपदेशे उपयु-ज्यते । तथैवेत्येतद्वयाख्यानं परब्रह्मवदित्यादि । प्रक्षीणाशेषभावनशब्दं व्याचष्टे कर्मभावनेति । परब्रह्मवत् प्रक्षी-णाशेषकमर्भावन इति पाठे कर्मशब्दो यागादिक्रियोपासनसाधारणानुष्ठेयमात्रपरः । तदा कर्मशब्देन "त्रिविधा भावभावना" इत्यत्र भावशब्दो व्याख्यातो भवति । अत्रायमर्थः-प्राप्यपरब्रह्मविषज्ञानस्य प्रापकत्वात् शुद्धस्वरूप-मपि प्राप्यमिति तदनुसन्धेयमिति । अयं च, "व्यतिरेकस्तद्भावभावित्वात्" इत्यधिकरणार्थः । तत्र बद्धस्वरूपं चिन्त्यमिति पूर्वपक्षीकृत्य मुक्तस्वरूपं चिन्त्यमिति हि सिद्धान्तितम् । अस्य श्लोकस्यैकप्रकरणत्वज्ञापनायानन्तर-श्लोकोऽपि व्याख्यायते क्षेत्रज्ञ इति । यावत् क्षेत्रज्ञावस्थः तावत् करणी उपासकः, तस्य करणं ज्ञानम्, करणभूतं ज्ञानं मुक्तिकार्यं निष्पाद्य निवर्तयेत्, न तु मुक्तेः पूर्वमेव निवर्तयेदित्यर्थः । न हि मुक्तस्योपासननिवृत्तिर्विधेया; अतो यावन्मोक्षमनुष्ठेयत्वमुक्तमिति भावः । तद्भावभावशब्देन ब्रह्मसाम्यापात्तिज्ञापनार्थम्, "विभेदजनकेऽज्ञाने" इत्यत्र ज्ञाने इति पदच्छेदशङ्काव्युदासार्थं च तद्भावभावमिति श्लोको व्याख्यायते । तद्भावेतिश्लोके तद्भाव इत्युप-मानबहुव्रीहिः । तद्भाव इति पदान्तर्गतौ तच्छब्दभावशब्दौ व्याख्यातुमाह तद्भाव इति । भाष्यस्थस्तद्भावशब्दो न बहुव्रीहिः; किन्तु तत्पुरुषः, समासो व्याचिख्यासिते सति हि बहुव्रीहिविशिष्टरूपेण पदोपादानम्; तच्छब्द-भावशब्दमात्रस्य व्याचिख्याप्तितत्वात् बहुव्रीहिविशिष्टरूपेण पदस्यानुपादानम् । तच्छब्देन ब्रह्मोच्यते, प्रथम-भावशब्देन स्वभाव उच्यत इत्यर्थः । "भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु । पदार्थमात्र सत्तायामात्मयो-निस्वभावयोः" इति नैघण्टुकाः । यद्वा भाष्यस्थः तद्भावशब्दोऽपि बहुव्रीहिशिष्टः । तद्भावः-ब्रह्मणो भावः स्व- भाव इति । तद्भाव इति पदे तच्छब्दवाच्यब्रह्मसम्बन्धितया प्रतिपन्नो भावः स्वभाव इत्यर्थः । अथवा श्लोकेऽपि तद्भावशब्दस्तत्पुरुषः । द्वितीयभावशब्दः सत्तावाची । व्यावर्त्यमाह न त्विति । कुत इत्यत्राह तद्भावेति । हेत्व-न्तरमाह पूर्वोक्तार्थविरोधाच्चेति । हेयप्रत्यनीकत्वहेयार्हत्वादिविरोधोऽर्थविरोधः । एवं शब्दपर्यालोचनया अर्थ-पर्यालोचनया च भावशब्दस्य स्वभाववाचित्वमुपपादितम् । स्वभावशब्दवाच्यञ्च पूर्वश्लोकोक्तं प्रक्षीणाशेषभावन-त्वमित्याह यदिति । तच्छब्दसामर्थ्यात् यद्वृत्तमाक्षिष्य व्याचष्टे यदैवमिति । अभेदीत्यत्र भेदशब्दव्याख्यानार्थं भेदशब्दं नञ्प्रत्ययाभ्यां विभज्य निर्दिशति भेदरहितो भवतीति । यद्वा भेदरहितो भवति-न तादात्म्यवानिति भावः । अन्यथा भेदश्च तस्याज्ञानकृतः इत्यनन्तरनिर्देशो न घटते । देवादिभेदाभावः कथमिति शङ्कायां भेदश्च तस्येत्यादि व्याचष्टे ज्ञानैकाकारतयेति । "परमात्मना भवत्यभेदीति परमात्मनः प्रस्तुतत्वात् आत्मनो ब्रह्मण इत्यत्रापि पञ्चमीविवक्षया च तस्माद्भेद इत्युक्तम् । ब्रह्मणो मुक्तात्मनश्चाकारान्तरेण भेदस्य प्रमाणसिद्धत्वात् निरसनीयभेदविशेषस्य वचनान्तरसिद्धत्वाच्च भेदो देवादिरूप इत्युक्तम् । कर्मरूपशब्देन अज्ञानशब्दो व्याख्यातः ।

ज्ञानविरोधीति व्युत्पत्तिरित्यर्थः । "अविद्यया मृत्युं तीर्त्वा" इति हि श्रुतिः । अत्रापि, "अविद्या कमर्संज्ञाऽन्या" इति हि पठ्यते । ततः किं भेदराहित्यस्येति शङ्कायां भेदश्च तस्याज्ञानकृतो भवेदित्यनेनार्थसिद्धमभिप्रेतं कार-णाभावं विशदयन् कार्याभावमुपपादयति स त्विति । भेदस्य देवादिरूपत्वे अज्ञानशब्दस्य च कर्मपरत्वे प्रमाण- माह यथोक्तमिति । आदिभरतचरितेऽयं श्लोकः । तत्र पूर्व देहेन्द्रियादिबाह्यभेदरहितत्वमात्मन उक्तं सितनीलादी-त्यादिना । अस्मिन् श्लोके बुद्धिसुखदुःखेच्छान्तरभेदोऽपि नास्तीत्युच्यते । एकस्वरूपेति । कर्मैव वृतिः कर्मवृतिः । बाह्ममान्तरं च कर्म द्विविधम् । आन्तरमात्मप्रावण्यहेतुः कर्म । बाह्मं बहिर्विषयप्रावण्यहेतुः कर्म । यद्वा बाह्यम्-अरवाभाविकं कर्म । तदेव वृतिः । तया प्रकर्षेण जातः एकस्वरूप भेदः बाद्यकर्भ शरीरद्वारकं एकस्वरूपस्य आ-त्मनः आन्तरं भेदं करोतीत्यर्थः । द्वारभूत देवादि शरीरभेदे नष्टे सति एकस्वरूपभेदे नष्टे सति आन्तरो भेदो नास्ति ।। कथं वा देवादिभेदे नष्टे कर्मवृत्तिहेतुकान्तरभेदनाश इत्यत्राह अनावरणो हि स इति । सः-निवृत्तदेवा- दिभेद आत्मा, कर्मावरणरहितो हीत्यर्थः । यद्वा कर्मवृत्तिः-कर्मजन्या वृत्तिः, देवादिशरीरम्; तत्संबन्धजः आन्त-रभेदः । देवादिभेदेऽपध्वस्ते स नास्ति । कथं कर्मजन्यवृतिहेतुकान्तरभेदो देवादिभेदापध्वंसे नास्तीत्यत्राह-अना-वरणो हि स इति । कर्मजन्यवृतिर्देवादिशरीरभेदरूपेत्यर्थः । एतदेव-भदेश्च तस्याज्ञानकृतो भवेदित्युक्तमेवार्थम् । "विभेदजनक" इत्यादिश्लोकेन "अनावृत्तिः शब्दात्" इत्यधिकरणार्थ उच्यते; परस्माद्व्रह्मण आत्मनो देवादिभेदस्य प्रनष्टस्य पुनरावृतिं्त कः करिष्यतीत्युच्यते । विभेदशब्दं व्याचष्टे विभेदो विविधो भेद इति । भेदस्यदेवादिरूपत्वे प्रमाणान्तरमाह यथोक्तमिति । मिथ्याज्ञाननिबन्धनः-मिथ्याज्ञानम् आत्मविषयभ्रान्तिज्ञानम् । तत् कर्मद्वारा उत्तरोत्तरदेवादिभेदहेतुरित्यर्थः । अस्योत्तरार्द्धम्, "देवतिर्यङ्मनुष्याख्यस्तथैव नृप ! नारकः" इति । व्याक्येयश्लो- कस्य वाक्यार्थमाह आत्मनीति । ब्रह्मण इति पदस्य पञ्चम्यन्तत्वसूचनाय परस्मादित्युक्तम् । उभयोरपि पदयोर्वै-यधिकरण्येन षष्ठयन्तत्वमयुक्तम् ; च शब्दाभावात् । अनन्तरपूर्वश्लोके परमात्मना भवत्यभेदीति परमात्मनः प्रतियोगितया निर्देशाच्च । अत एव समानाधिकरणषष्ठयन्तत्वमप्ययुक्तम् ; पूर्वप्रपञ्चितार्थविरोधाच्च ।। पञ्चम्यन्त्वं षष्यन्तत्वं च विपर्ययेण स्यादिति चेन्न; परब्रह्मणोऽपि हेयार्हत्वापत्तेः स्वाभाविकत्वप्रसङ्गात् । अतः परस्मात् ब्रह्मण इत्युक्तम् । असन्तम्-सच्छब्दः परमार्थपर्यायः, "अनाशी परमार्थश्च" इति अत्रैव ह्युक्तम्-अनित्यभित्यर्थः । तेन स्वाभाविकनित्यभेदव्यावृत्तिः । अनित्यत्वं कादाचित्कत्वम् । अनित्यत्वात् हेत्वपेक्षो देवादिभेदः । तं कः करिष्यति; न कश्चिदपि । हेत्वभावात्-कर्मरूपहेत्वभावादित्यर्थः । न केवलमेकार्थविषये "बाह्यकर्मवृत्तिप्रजः", "अज्ञानकृतो भवेत्" इत्यज्ञानकर्मशब्दयोः प्रयोगादज्ञानशब्दस्य कर्मार्थत्वम्; अस्मिन् प्रकरणे च कण्ठोक्तमि- त्याह अविद्या कर्मसंज्ञाऽन्येति ह्यत्रैवोक्तमिति । आत्मन औपाधिकभेदः उपाध्युपगमे नश्यतीति श्लोकार्थः । उपाध्यभावादविद्यमानं भेदं क उत्पादयेदिति वाऽर्थः । अयं श्लोको मृषावादिनामत्यन्तास्वरसः, तथा हि-विभे- दजन इत्यत्र जनकशब्द उत्पादके स्वरसः; न त्वध्यासहेतौ । अज्ञानशब्दस्य अनिर्वचनीयपरत्वं लोकतः शास्त्रतश्च न व्युत्पन्नम् । कर्मवाचित्वव्युत्पत्तिरस्मिन् प्रबन्ध एव दर्शिता । नाशशब्दस्य बाधवाचित्वममुख्यम् । असन्तमिति पदञ्च व्यवच्छेद्याभावादफलम्; सतो भेदस्यानभ्युपगमात् । तदभ्युपगमे हि तत्साफल्यम् । करिष्यतीति पदमप्य-स्वरसम्; अध्यासवाचित्वाभावात् ।

ख्ढख्ढख

अथाद्वैतपरत्वेन परोक्तं भगवद्गीतावचनं व्याचष्टे क्षेत्रज्ञं चापीति । पराभिमतार्थस्य पूर्वापरविरोधं दर्श- यति अन्यथेति । न केवलम्, "उत्तमः पुरुषस्त्वन्यः" इति भेदप्रतिपादनात् तद्विरोधेन स्वरूपैक्यपरत्वाभावः,

सामानाधिकरण्योपपादकमन्तर्यामित्वं कण्ठोक्तमपीत्याह अन्तर्यामीति । "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति" इत्यत्र भूतशब्दस्यात्मपर्यन्तदेहपरत्वम् "भ्रामयन् सर्वभूतानि" इति अस्योत्तरार्धेनावगम्यते; "न हिंस्यात् सर्वा भूतानि" इत्यादिप्रयोगाच्च । "सर्वस्य चाहं हृदि संनिविष्टः" इत्यत्रापि सर्वशब्दस्यात्मपर्यन्तत्वं "मत्तः स्मृति-र्ज्ञानमपोहनं च" इत्यनेनावगम्यते । हृदेशे-हृद्देशस्थे आत्मनीत्यर्थः । "सर्वस्य चाहं हृदि" इत्यपि तथ" । "अह- मात्मा गुडाकेश" इत्यत्राप्यन्तर्यामित्वपरतामाह अहमिति । कुत इत्यत्राह भूतशब्दो हीति । पूवर्दर्शितसर्वशब्दै-कार्थ्याच्चेति भावः । अन्वयरूपेणोक्तस्य सर्वेषां भगवदात्मकत्वस्य शेषभूतोऽयं "न तदस्ती"ति व्यतिरेकनिर्देश-स्तदनुगुण एवेत्यभिप्रायेणाह यतः सर्वेषामिति । अविनाभावशब्दस्य संबन्धनियमवाचित्वादिति भावः । हेत्व-न्तरञ्चाह भगवदिति । "एतां विभूतिं योगं च" इति प्रक्रमात् विभूतिपरत्वमवगम्यते । अतः उपक्रमानुगुण एव उप-संहार इत्यर्थः । न हि विभूतित्वं विधाय तदेव निषेद्धुं शक्यमिति भावः । प्रकरणस्य विभूतिपरत्वं दर्शयति यद्य- दिति । विभूतिमत्-नियाम्यवत् । श्रीमत्-भोग्यसमृसिद्धमत् । ऊर्जितम्-बलवत्; कल्याणगुणारम्भेषु उक्तम् । तेजः-पराभिभवनसामर्थ्यम्-प्रशासनम् । तेजोंशसंभवम्-नियमनशक्तिमदाज्ञालवाधीनमित्यर्थः । शास्त्रस्य परोक्ताथर्परत्वाभावमुपसंहरति अत इति । अतः-श्रुतियोजनाप्रभृति प्रतिपादितैर्न्यायैरित्यर्थः । भ्रान्तत्वं भ्रान्ति-सिद्धत्वम् । जगद्ब्रह्मणोरेकद्रव्यत्वपक्षे ब्रह्मणः सविशेषत्वं जगत्सत्यत्वञ्चोपपन्नमिति शंकायां तद्वयुदा-सार्थमाह नापीति । चेतनेष्वचिद्धर्मबुद्धिः, परतन्त्रेषु स्वतन्त्रबुद्धिश्च भ्रमः; न तु स्वरूपभेदधीरित्यभिप्रायेण नस्वरूपभेदनि-षेध इत्युक्तम् । अथवा मृषावादिनमेवोद्दिश्य जीवपरयो स्वरूपभेदनिषेधाभावमाह नापीति । अचिदुपादानं दृष्टा-न्ततया ।।