श्री सूक्तम्

विकिस्रोतः तः
Jump to navigation Jump to search
श्री सूक्तम्
[[लेखकः :|]]
श्री सूक्तम्

॥ अथ श्री सूक्तम् ॥
श्रीगणेशाय नम: ॥ अथ श्रीमहालक्ष्म्यै नम: ॥
हिरण्यवर्णामिति पंचदशर्चस्य सूक्तस्य आनंदकर्दमचिल्की तेंदिरासुता ऋषय: ॥
श्रीरग्निश्वेत्युभे देवते ॥ आद्यास्तिस्रोऽनुष्टुभ: ॥ चतुर्थी बृहती ॥ पंचमीषष्ठ्यौ त्रिष्टुभौ ॥ ततोऽष्टावनुष्टुभ: ॥ अंत्या प्रस्तारपंक्ति: ॥ जपे विनोयोग: ॥

॥ श्रीसूक्तप्रारंभ: ॥
हरि: ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ॥
चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
तां म आवह जातवेदो लक्ष्मीं अनपगामिनीम् ॥
यस्यां हिरण्यं विंदेयं गां अश्वं पुरुषान् अहम् ॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ॥
श्रियं देवीं उपव्हये श्री: मा देवी जुषताम् ॥
कां सोस्मितां हिरण्यप्राकारां आर्द्रा ज्वलंतीं तृप्तां तर्पयंतीम् ॥
पद्मे स्थितां पद्मवर्णां तां इहोपह्वये श्रियम् ॥
चंद्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टां उदाराम् ॥
तां पद्मिनीमीं शरणमहं प्रपद्येऽ लक्ष्मी: मे नश्यतां त्वां वृणे ॥१॥

आदित्यवर्णे तपसोऽधिजातो वनस्पति: तववृक्षोथ बिल्व: ॥
तस्य फलानि तपसा नुदंतु मायांतरायाश्च बाह्या अलक्ष्मी: ॥
उपैतु मां देवसख: कीर्तिश्च मणिना सह ॥
प्रादुर्भूत: सुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥
क्षुत्पिपासामलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् ॥
अभूतिं असमृद्धिं च सर्वां निर्णुद मे गृहात् ॥
गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ॥
ईश्वरीं सर्वभूतानां तां इहोपह्वये श्रियम् ॥
मनस: काममाकूतिं वाच: सत्यमशीमहि ॥
पशूनां रुपमन्नस्य मयि श्री: श्रयतां यश: ॥२॥

कर्दमेन प्रजा भूता मयि संभव कर्दम ॥
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
आप: सृजन्तु स्निग्धानि चिल्कीत वस मे गृहे ॥
निच देवीं मातरं श्रियं वासय मे कुले ॥
आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनिम् ॥
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ॥
चंद्रां हिरण्यमयीं लक्ष्मीं जातवेदो म आवह ॥
तां म आवह जातवेदो लक्ष्मीं अनपगामिनीं ॥
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान् विंदेयं पुरुषान् अहम् ॥३॥

य: शुचि: प्रयतो भूत्वा जुहुयाद् आज्यं अन्वहम् ॥
सूक्तं पंचदशर्चं च श्रीकाम: सततं जपेत् ॥
पद्मानने पद्म‌उरू पद्माक्षी पद्मसंभवे ॥
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ॥
अश्वदायै गोदायै धनदायै महाधने ॥
धनं मे लभतां देवि सर्वकामांश्चदेहि मे ॥
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ॥
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व ॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ॥
प्रजानां भवसि माता आयुष्मंतं करोतु मे ॥
धनं अग्नि: धनं वायु: धनं सूर्यो धनं वसु: ॥
धनं इन्द्रो बृहस्पतिर्वरुणो धनमश्विना ॥
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ॥
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन: ॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: ॥
भवंति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥
सरसिजनिलये सरोजहस्ते धवलतरांशुकगंधमाल्यशोभे ॥
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ॥
लक्ष्मीं प्रियसखीदेवीं नम्यच्युतवल्लभाम् ॥
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ॥ तन्नो लक्ष्मी: प्रचोदयात् ॥
श्रीवर्चस्वमायुष्यमारोग्यमाविधात् शोभमानं महीयते ॥
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घं आयु: ॥
॥ इति श्रीसूक्तम् ॥

"https://sa.wikisource.org/w/index.php?title=श्री_सूक्तम्&oldid=33113" इत्यस्माद् पुनः प्राप्तिः