श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम्

विकिस्रोतः तः
श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम्
ईश्वर

<poem>


ऋषय ऊचुः -

सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक । वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥१॥

ज्ञानदानेन संसारसागरात्तारयस्व नः । कलौ कलुषचित्ता ये नराः पापरताः सदा ॥२॥

केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः । इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥३॥

सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि । श्रीसूत उवाच - शृणुध्वमृषयः सर्वे नैमिषारण्यवासिनः ॥४॥

तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः । स्वयंभुवा पुरा प्रोक्तं नारदाय महात्मने ॥५॥

तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि । ऋषय ऊचुः - किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥६॥

सूतपुत्र महाभाग वक्तुमर्हसि सांप्रतम् । श्रीसूत उवाच - दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥७॥

साष्टाङ्गप्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् । नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥८॥

नारद उवाच -

लोकनाथ सुरश्रेष्ठ सर्वज्ञकरुणाकर । षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥९॥

धातस्त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे । उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे ॥१०॥

ब्रह्मा उवाच -

शृणु वक्ष्यामि देवर्षे स्तवराजमिमं परम् । मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥११॥

सहस्राणि च नामानि षण्मुखस्य महात्मनः । यानि नामानि दिव्यानि दुःखरोगहराणि च ॥१२॥

तानि नामानि वक्ष्यामि कृपया त्वयि नारद । जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि ॥१३॥

इहामुत्रं परं भोगं लभते नात्र संशयः । इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् । सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ॥१४॥


ॐ अस्य श्रीसुब्रह्मण्यसहस्रनामस्तोत्रमहामन्त्रस्य ।

ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । सुब्रह्मण्यो देवता । शरजन्माक्षय इति बीजम् । शक्तिधरोऽक्षय इति शक्तिः ।

कार्तिकेय इति कीलकम् । क्रौचंभेदीत्यर्गलम् । शिखिवाहन इति कवचम् । षण्मुख इति ध्यानम् । श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् -

ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् । बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥१॥

कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् । काञ्चीकङ्कणकिंकिणीरवयुतं शृङ्गारसारोदयम् ॥२॥

ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् । खेटं कुक्कुटमंकुशं च वरदं पाशं धनुश्चक्रकम् ॥३॥

वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखम् । देवं चित्रमयूरवाहनगतं चित्राम्बरालंकृतम् ॥४॥


सुब्रह्मण्य सहस्रनाम स्तोत्रम् ॥

अचिन्त्यशक्तिरनघस्त्वक्षोभ्यस्त्वपराजितः । अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥१॥

अत्युदारो ह्यघहरस्त्वग्रगण्योऽद्रिजासुतः । अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः ॥२॥

अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः । अकल्मषोऽभिरामोऽग्रधुर्यश्चामितविक्रमः ॥३॥

अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः । अरिन्दमोऽखिलाधारस्त्वणिमादिगुणोऽग्रणीः ॥४॥

अचञ्चलोऽमरस्तुत्यो ह्यकलङ्कोऽमिताशनः । अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ॥५॥

अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः । आपद्विनाशकस्त्वार्य आढ्य आगमसंस्तुतः ॥६॥

आर्तसंरक्षणस्त्वाद्य आनन्दस्त्वार्यसेवितः । आश्रितेष्टार्थवरद आनन्द्यार्तफलप्रदः ॥७॥

आश्चर्यरूप आनन्द आपन्नार्तिविनाशनः । इभवक्त्रानुजस्त्विष्ट इभासुरहरात्मजः ॥८॥

इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः । इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ॥९॥

इहामुत्रेष्टफलद इष्टदस्त्विन्द्रवन्दितः । ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥१०॥

ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः । उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः ॥११॥

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः । उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः ॥१२॥

उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः । उरुप्रभावश्चोदीर्ण उमापुत्र उदारधीः ॥१३॥

ऊर्ध्वरेतःसुतस्तूर्ध्वगतिदस्तूर्जपालकः । ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः ॥१४॥

ऊर्जिवानूर्जितोदार ऊर्जितोर्जितशासनः । ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः ॥१५॥

ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शनः । ऋतंभरो ह्यृजुप्रीत ऋषभस्त्वृद्धिदस्त्वृतः ॥१६॥

लुलितोद्धारको लूतभवपाशप्रभञ्जनः । एणाङ्कधरसत्पुत्र एक एनोविनाशनः ॥१७॥

ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः । ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥१८॥

औदार्यशील औमेय औग्र औन्नत्यदायकः । औदार्य औषधकर औषधं चौषधाकरः ॥१९॥

अंशुमाल्यंशुमालीड्य अम्बिकातनयोऽन्नदः । अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः ॥२०॥

अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः । अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ॥२१॥

कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः । कामदः कारणं काम्यः कमनीयः कृपाकरः ॥२२॥

काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः । कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः ॥२३॥

कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः । कुशानुसंभवः क्रूरः क्रूरघ्नः कलितापहृत् ॥२४॥

कामरूपः कल्पतरुः कान्तः कामितदायकः । कल्याणकृत्क्लेशनाशः कृपालुः करुणाकरः ॥२५॥

कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृती । कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः ॥२६॥

ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः । ख्यातिप्रदः खेचरेशः ख्यातेहः खेचरस्तुतः ॥२७॥

खरतापहरः स्वस्थः खेचरः खेचराश्रयः । खण्डेन्दुमौलितनयः खेलः खेचरपालकः ॥२८॥

खस्थलः खण्डितार्कश्च खेचरीजनपूजितः । गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥२९॥

गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः । गतिप्रदो गुणनिधिः गम्भीरो गिरिजात्मजः ॥३०॥

गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः । गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ॥३१॥

गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणाश्रयः । गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः ॥३२॥

गणनीयचरित्रश्च गतक्लेशो गुणार्णवः । घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥३३॥

घण्टानादप्रियो घोषो घोराघौघविनाशनः । घनानन्दो घर्महन्ता घृणावान् घृष्टिपातकः ॥३४॥

घृणी घृणाकरो घोरो घोरदैत्यप्रहारकः । घटितैश्वर्यसंदोहो घनार्थो घनसंक्रमः ॥३५॥

चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः । चिन्मयश्चित्स्वरूपश्च चिरानन्दश्चिरंतनः ॥३६॥

चित्रकेलिश्चित्रतरश्चिन्तनीयश्चमत्कृतिः । चोरघ्नश्चतुरश्चारुश्चामीकरविभूषणः ॥३७॥

चन्द्रार्ककोटिसदृशश्चन्द्रमौलितनूभवः । छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः ॥३८॥

छेदीकृततमःक्लेशश्छत्रीकृतमहायशाः । छादिताशेषसंतापश्छरितामृतसागरः ॥३९॥

छन्नत्रैगुण्यरूपश्च छातेहश्छिन्नसंशयः । छन्दोमयश्छन्दगामी छिन्नपाशश्छविश्छदः ॥४०॥

जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः । जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥४१॥

जयी जितेन्द्रियो जैत्रो जरामरणवर्जितः । ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥४२॥

जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः । जम्भारिवन्द्यो जयदो जगञ्जनमनोहरः ॥४३॥

जगदानन्दजनको जनजाड्यापहारकः । जपाकुसुमसंकाशो जनलोचनशोभनः ॥४४॥

जनेश्वरो जितक्रोधो जनजन्मनिबर्हणः । जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः ॥४५॥

जितमायो जितक्रोधो जितसङ्गो जनप्रियः । झंझानिलमहावेगो झरिताशेषपातकः ॥४६॥

झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः । ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥४७॥

टंकारनृत्तविभवः टंकवज्रध्वजाङ्कितः । टंकिताखिललोकश्च टंकितैनस्तमोरविः ॥४८॥

डम्बरप्रभवो डम्भो डम्बो डमरुकप्रियः । डमरोत्कटसन्नादो डिंभरूपस्वरूपकः ॥४९॥

ढक्कानादप्रीतिकरो ढालितासुरसंकुलः । ढौकितामरसंदोहो ढुण्डिविघ्नेश्वरानुजः ॥५०॥

तत्त्वज्ञस्तत्वगस्तीव्रस्तपोरूपस्तपोमयः । त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ॥५१॥

त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः । तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ॥५२॥

स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तुतिप्रियः । स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥५३॥

स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः । दान्तो दयापरो दाता दुरितघ्नो दुरासदः ॥५४॥

दर्शनीयो दयासारो देवदेवो दयानिधिः । दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ॥५५॥

दुर्धरो दानशीलश्च द्वादशाक्षो द्विषड्भुजः । द्विषट्कर्णो द्विषड्बाहुर्दीनसंतापनाशनः ॥५६॥

दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः । दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः ॥५७॥

दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः । दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः ॥५८॥

दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशांपतिः । दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः ॥५९॥

दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः । धुरंधरो धर्मपरो धनदो धृतिवर्धनः ॥६०॥

धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः । धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः ॥६१॥

धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद् ध्रुवः । धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः ॥६२॥

नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः । निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥६३॥

निर्ममो निरहंकारो निर्मोहो निरुपद्रवः । नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥६४॥

निरवद्यो निरीहश्च निर्दर्शो निर्मलात्मकः । नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः ॥६५॥

निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः । नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥६६॥

नेता निधिर्नैकरूपो निराकारो नदीसुतः । पुलिन्दकन्यारमणः पुरुजित्परमप्रियः ॥६७॥

प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः । पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः ॥६८॥

पुण्योदयः परं ज्योतिः पुण्यकृत्पुण्यवर्धनः । परानन्दः परतरः पुण्यकीर्तिः पुरातनः ॥६९॥

प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः । प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः ॥७०॥

पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः । प्रसन्नः परमस्पष्टः परः परिवृढः परः ॥७१॥

परमात्मा परब्रह्म परार्थः प्रियदर्शनः । पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः ॥७२॥

पापहारी पाशधरः प्रमत्तासुरशिक्षकः । पावनः पावकः पूज्यः पूर्णानन्दः परात्परः ॥७३॥

पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः । प्राणदः प्राणिजनकः प्रदिष्टः पावकोद्भवः ॥७४॥

परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् । परर्द्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् ॥७५॥

प्रज्ञापरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः । फणीश्वरः फणिवरः फणामणिविभूषणः ॥७६॥

फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः । फडुच्चाटितपापौघः फणिलोकविभूषणः ॥७७॥

बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बली । ब्रह्मेशविष्णुरूपश्च बुद्धो बुद्धिमतां वरः ॥७८॥

बालरूपो ब्रह्मगर्भो ब्रह्मचारी बुधप्रियः । बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः ॥७९॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः । बृहद्भानुतनूद्भूतो बृहत्सेनो बिलेशयः ॥८०॥

बहुबाहुर्बलश्रीमान् बहुदैत्यविनाशकः । बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः ॥८१॥

बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः । भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥८२॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः । भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः ॥८३॥

भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः । भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥८४॥

भावको भीकरो भीष्मो भावकेष्टो भवोद्भवः । भवतापप्रशमनो भोगवान् भूतभावनः ॥८५॥

भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः । भूरिभोओगप्रदो भद्रो भजनीयो भिषग्वरः ॥८६॥

महासेनो महोदारो महाशक्तिर्महाद्युतिः । महाबुद्धिर्महावीर्यो महोत्साहो महाबलः ॥८७॥

महाभोगी महामायी मेधावी मेखली महान् । मुनिस्तुतो महामान्यो महानन्दो महायशाः ॥८८॥

महोर्जितो माननिधिर्मनोरथफलप्रदः । महोदयो महापुण्यो महाबलपराक्रमः ॥८९॥

मानदो मतिदो माली मुक्तामालाविभूषणः । मनोहरो महामुख्यो महर्द्धिर्मूर्तिमान्मुनिः ॥९०॥

महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः । मुदाकरो मुक्तिदाता महाभोगो महोरगः ॥९१॥

यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः । यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी ॥९२॥

यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः । यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः ॥ ९३॥

यातनारहितो योगी योगीशो योगिनां वरः । रमणीयो रम्यरूपो रसज्ञो रसभावनः ॥९४॥

रञ्जनो रञ्जितो रागी रुचिरो रुद्रसंभवः । रणप्रियो रणोदारो रागद्वेषविनाशनः ॥९५॥

रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः । रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥९६॥

रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः । राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥९७॥

राजद्वेदागमस्तुत्यो रजःसत्त्वगुणान्वितः । रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥९८॥

रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः । लोकैकनाथो लोकेशो ललितो लोकनायकः ॥९९॥

लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः । लोकबन्धुर्लोकधाता लोकत्रयमहाहितः ॥१००॥

लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः । लोकाध्यक्षस्तु लीलावान्लोकोत्तरगुणान्वितः ॥१०१॥

वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः । विबुधाग्रचरो वश्यो विकल्पपरिवर्जितः ॥१०२॥

विपाशो विगतातङ्को विचित्राङ्गो विरोचनः । विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥१०३॥

वचस्करो व्यापकश्च विज्ञानी विनयान्वितः । विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् ॥१०४॥

वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः । विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥१०५॥

वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् । विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥१०६॥

वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वरासनः । विशाखो विमलो वाग्मी विद्वान्वेदधरो वटुः ॥१०७॥

वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः । विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥१०८॥

वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी । वरशीलो वरगुणो विशोको वज्रधारकः ॥१०९॥

शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः । श्रीमान्शिष्टः शुचिः शुद्धः शाश्वतो श्रुतिसागरः ॥११०॥

शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः । शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥१११॥

शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः । षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः ॥११२॥

षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः । षड्भावरहितः षट्कः षट्शास्त्रस्मृतिपारगः ॥११३॥

षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः । षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः ॥११४॥

षट्कोणमध्यनिलयः षण्डत्वपरिहारकः । सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः ॥११५॥

सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी । सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः ॥११६॥

सिद्धार्थः सिद्धसंकल्पः सिद्धसाधुः सुरेश्वरः । सुभुजः सर्वदृक्साक्षी सुप्रसादः सनातनः ॥११७॥

सुधापतिः स्वयंज्योतिः स्वयंभूः सर्वतोमुखः । समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुहृत् ॥११८॥

सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः । संभाव्यः सुमनाः सेव्यः सकलागमपारगः ॥११९॥

सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः । सर्वलक्षणसंपन्नः सत्यधर्मपरायणः ॥१२०॥

सर्वदेवमयः सत्यः सदा मृष्टान्नदायकः । सुधापी सुमतिः सत्यः सर्वविघ्नविनाशनः ॥१२१॥

सर्वदुःखप्रशमनः सुकुमारः सुलोचनः । सुग्रीवः सुधृतिः सारः सुराराध्यः सुविक्रमः ॥१२२॥

सुरारिघ्नः स्वर्णवर्णः सर्पराजः सदा शुचिः । सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः ॥१२३॥

हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः । हस्तचित्रायुधधरो हृताघो हसिताननः ॥१२४॥

हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः । हेमाद्रिभिद्धंसरूपो हुंकारहतकिल्बिषः ॥१२५॥

हिमाद्रिजातातनुजो हरिकेशो हिरण्मयः । हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥१२६॥

हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः । हरप्रियो हितकरो हतपापो हरोद्भवः ॥१२७॥

क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः । क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥१२८॥

क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः । क्षालिताघः क्षितिधरः क्षीणसंरक्षणक्षमः ॥१२९॥

क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकः । क्षितिभृन्नाथतनयामुखपङ्कजभास्करः ॥१३०॥

क्षताहितः क्षरः क्षन्ता क्षतदोषः क्षमानिधिः । क्षपिताखिलसंतापः क्षपानाथसमाननः ॥१३१॥

इति नाम्नां सहस्राणि षण्मुखस्य च नारद । यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥१॥

स सद्यो मुच्यते पापैर्मनोवाक्कायसंभवैः । आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥२॥

वाक्येनैकेन वक्ष्यामि वाञ्छितार्थ प्रयच्छति । तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥३॥

॥ इति श्रीस्कन्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे षण्मुखसहस्रनामस्तोत्रं संपूर्णम् ॥