सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः ३-पादः २/आह्निकम् १

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]

अथ द्वितीयः पादः
कर्मण्यण् ।। 1 ।।
कर्मण्युपदे धातोरण्। कुम्भं करोतीति कुम्भकारः। कर्मस्वरूपं प्राङ् निर्णीतम्। ग्रामं गच्छत्यादित्यं पश्यतीत्यादावनाभिधानान्नायम्। अणिकृते कृद्योगषष्ठ्यन्तस्य कुम्भशब्दस्य कुम्भ अस्‌कोरेत्यलौकिकविग्रहवाक्ये उपपदमतिङिति समासइतिकेचित्।
तच्चिन्त्यम्। कर्मोपपदाभावे कर्मण्यणोऽनुपपत्त्या तदुत्पत्तेः प्राक् कृद्योगाभावेन द्वितीयोत्पत्तेरावश्यकत्वात्तस्या एव परित्यागे मानाभावादलौकिके समासिविग्रहवाक्येऽप्यनुप्रवेशौचित्यात्। अन्यथा कृद्योगेऽपि षष्ठी तस्यांच कृद्योग इत्यन्योन्याश्रयापत्तेः। कर्मसमर्पकप्रातिपदिकमात्रापेक्षायां च षष्ठ्या अपि विग्रहान्तर्भावस्य दुर्वारत्वात्। समर्थपरिभाषानुपस्थित्पापत्तेश्च। अतएव महान्तं कुम्भकार इत्याद्यापाद्यवाक्ये विशेषणे द्वितीयैव भाष्यादौ दृश्यते। समासान्तर्गतस्य कुम्भस्य षष्ट्यन्तत्वे तद्विशेषणे महच्छब्देऽपि तस्या एव प्रसङ्गात्। अतएव युगपदधिकरणवचने द्वन्द्व इति पक्षेऽपि प्रथमप्रवृत्तैकवचनस्यैवालौकके विग्रहवाक्ये प्रवेश इति पूर्वं स्वयमेवोक्तम्। कुम्भस्य कर्तेत्यादौ कर्मयोगस्यानुपजीव्यत्वात्कर्त्रादौ तत्प्रत्ययोत्पत्तौ पश्चात्तद्योगे द्वितीयाद्यपवादेन षष्ठीति वैषम्यमिति दिक्।
`अकारानुपपदात्कर्मोपपदो विप्रतिषेधन'। यद्यपि सर्वधाधातुभ्योऽजितिपक्षे पचाद्यचा निर्मुक्तः कर्मण्यणोऽवकाशो न लभ्यते इति येननाप्राप्तिन्यायेनाणस्तद्बाधकत्वाद्विप्रतिषेधो नास्ति। उत्सर्गापवादयोरतुल्यबलत्वात्। तथापि काष्ठभेद इत्यत्र काणोर्विप्रतिषेधो बोध्यः। अजपवादयोस्तयोर्विप्रतिषेधादण्‌प्रवृत्तेः। ओदनपाक इति भाष्यं तु गणपठितधातुविषयोऽच्‌प्रत्यय इत्याशेन नेयम्।
`शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदस्वरत्वंच'`ईक्षिक्षमिभ्यां चेति वक्तव्यम्' मांसशीला मांसकामा मांसभक्षा। कल्याणाचारा। मांसशब्दः सप्रत्ययान्तत्वादन्तोदात्तः। कल्याणशब्दोलघावन्ते द्वयोश्च बहुषोगुरुरिति मध्योदात्तः। तत्र कृदुत्तरप्रकृतिस्वबाधार्थं पूर्वपदप्रकृतिस्वरारम्भः।
ननु भक्षयतेरच्। एरजण्यन्तचानामित्यस्य मुनित्रयेणानुक्तत्वात्। मासं भक्षोऽस्येति बहुव्रीहिणैवोक्तस्वरसिद्धिः। नच बहवो भक्षा अस्येत्यत्र बह्वोर्नञ्‌वदुत्तरपदभूम्नीति अन्तोदात्तप्रसङ्गादुक्तवार्तिकध्रौव्यमिति वाच्यम्। भावे भक्षपदं व्युत्पाद्य बहुषु भक्षोऽस्येति व्यधिकरणबहुव्रीहौ उत्तरपदत्वाभावेन तदप्रवृत्तौ बहुव्रीहौ प्रकृत्या पूर्वपदमित्यस्यैव प्रवृत्तेः। नचार्थसाम्ये बहुव्रीहिकर्मोपपदयोरर्थसाम्ये बहुव्रीहिर्नभवतीति वार्तिकेन ज्ञाप्यम्। काण्डलावो मांनसकाम इत्यादिबहुव्रीहेरपीष्टत्वात्। अम्भोभिगम इत्यत्रानभिधानाद्वहुव्रीहिकर्मोपपदयोरभावदम्भोभिगामीत्यत्यैवेष्टत्वात्। सत्यम्। अण्‌बाधनार्थमेवतैदारम्भात्।।
ह्वावामश्च ।। 2 ।।
माङ्‌ मेङाविह गृह्येते नतु मामाने इत्यकर्मकत्वात्। स्वर्गह्वायः तन्तुवायः। धान्यमायः। कर्मण्यणिति सिद्धे वक्ष्यमामकापवार्दाथमारम्भः। तेनान्यत्राप्यादन्ताद्विहितः प्रत्ययः एजन्तात्सिद्धिः। तथाच कैयटः।
आत्वभाविन एजन्तादादन्त्त्वनिबन्धनः।
प्रत्ययो ज्ञाप्यते सर्वो ह्वावामश्चेत्यणा पुनः।।
आतोऽनुपसर्गे कः ।। 3 ।।
अनुपसर्गादादन्ताद्धातोः कर्मणि उपपदेः कः स्यात्। अणोऽपवादः। येवा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सहते सूर्येण हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोमप्रतिरन्त आयुः। सोपसर्गात्त्वण् गोसंदायः। `कविधौसर्वत्र संप्रसारणिभ्योडः'। ब्रह्म जिनाति ब्रह्मज्यः। सर्वत्रेत्युक्तेरातश्चोपसर्गे इत्यस्यापि विषये। आहः। प्रह्वः।
अत्रवार्तिकम्। नित्यं संप्रसारणं ह्वो यण् वार्णादाङ्गं न पूर्वत्वं हि। योऽनादिष्टादचः पूर्वस्तकार्ये स्थानिवत्वं हि। प्रोवाच भगवान् कात्यस्तेनासिद्धिर्यणस्तुते। आतः कोलिण् नैङः पूर्वः। सिद्धआह्वस्तथासति।
अस्यार्थः-कप्रत्ययेनैव आह्व इत्यादि सिद्धम्। आह्वाडइत्यत्रसंप्रसारणातोलोपयणादेशेषु अस्य सुसाधत्वात्। नच उवङ्प्रसङ्गः। आतोलोपस्य स्तानिवद्भावात्। नच परमप्यातोलोपं वाधित्वान्तरङ्गत्वात्पूर्वरूपापत्तिः। वार्णादाङ्गस्य बलवत्त्वात्। समानाश्रये एव तदङ्गीकारे तु ह्वाअइत्यवस्थायां संप्रसाराणं बाधित्वातोलोपः। ततः संप्रसारणम्। आतोलोपस्य स्थानिववत्त्वान्नोवङ्। नच कृताकृतप्रसङ्गित्वात्संप्रसारणं नित्यम्। आतोलोपस्यापि तथात्वात् नच संप्रसारणेपूर्वरूपे च कृते आतोलोपस्य न प्रसङ्ग इति कथं स नित्य इति वाच्यम्। यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यमिति स्वीकारात्। पूर्वरूपेणालोपस्य निमित्तापहारेऽपि संप्रसारणेन तदभावात्।
ननु तथाप्यकारस्यानादिष्टादचः पूर्वत्वाभावादुवङि कर्त्वये कथं स्थआनिवद्भावः। नच स्थानिद्वारकं तत्। उकारस्थानिनो वस्यातो लोपात्पूर्वसत्त्वादिति वाच्यम्। तस्याचः परस्मिन्नित्यत्र दूषितत्वात्। अत उवङ्‌ दुर्वार इतिचेत्। न, तथासिद्धवदत्राभादित्यातोलोपस्यासिद्धत्वेन तद्वारणात्। उभयत्राप्यजादिप्रत्ययस्य निमित्तत्त्वेन समानाश्रयत्वात्। नन्वेवं जुहुवतुरित्यादेरसिद्धिः। तत्राशितीति पर्युदासपक्षे बाधित्वा परत्वादात्वप्रवृत्तौ तदार्नी पूर्वरूपप्रसक्त्यभावादातो लोप इतिचेत्सत्यम्।
एङः पदान्तादित्यत्र एङ इति विभज्य संप्रसारणादित्यनुवर्त्य संप्रसारणात्परस्य एङः पूर्वरूपं स्यादिति व्याख्यानात्। अर्थात्पूर्वत्वविधानेनात्वबाधात्। नचप्रकृतेऽपि तदापत्तिः। आदन्तत्वक्षणे आत्वस्योपजीव्यत्वात्। लिटस्तु धातुमात्राद्विहितत्वेन वैषम्याद्।।
सुपि स्थः ।। 4 ।।
सुपीति विभज्यते। आदन्तात्सुप्युपपदे कः। कच्छेन पिबति कच्छपः। द्वाभअयां पिबति द्विपः।
केचित्तु कच्छं पिबति इति कर्मोपपदकप्रत्यय एव कार्यो रूढत्वेनावयवार्थानन्वयेऽपि क्षतिविरहादित्याहुः। सतिसंभवे रूढानामप्यसदर्थाश्रयेणान्वाख्यानानौचित्यम्। तैलपायिकादौ त्वगत्याऽसदर्थाश्रयणमिति कैयटः। स्थ इत्यत्र सुपीत्यनुवर्तते। कर्तरि पूर्वेणैव सिद्धे रयं भावे। अनिर्दिष्टार्था इति न्यायात्। नबाधापत्त्या समस्थो विषमस्थ इत्यादि न सिध्येदिति वाच्यम्। भावइत्यस्य पर्यवसानेऽपि साक्षाद्भावशब्दस्यानुपादानात्।
केचित्तु घञर्थे कविधानमिति वार्तिकादेव तिष्ठतेः कप्रत्ययसिद्धिरित्याहुः। तन्न उपपदमतिङिति नित्यसमासार्थं उपपदात्कप्रत्ययस्यात्र विधानात्। तद्वार्तिके स्थग्रहणस्य त्वकर्तरि कारके चरितार्थत्वात्। आखूनामुत्थानामाखूत्थः। श्येनोत्थः। शलभोत्थः। नपुंसकोदाहरणं तु आकरविरुद्धम्। लुयः कर्तरीमनिज् भावे को घोः किं प्रादितोऽन्यत इत्यमरेण भाव कस्य पुंस्त्वोक्तेः।
तुन्दशोकयोः परिमृजापनुदोः ।। 5 ।।
यथाक्रमं कः। `आलस्यसुखाहरणयोरिति वाच्यम्'। तुन्दपरिमृजोऽलसः। शोकापनुदः सुखस्याहर्ता। अन्यत्र तुन्दपरिमार्जः। शोकापनोदः। संसारानित्यतोद्भावनेन शोकनिवृत्तिकृदित्यर्थः। `कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्'। मूलविभुजो रथः। महीध्रः। कुध्रः। सरोरुहम्।।
प्रे दाज्ञः ।। 6 ।।
प्रोपसर्गविशिष्टाद्दारूपाज्जानातेश्च कर्मण्युपपदेः कः स्यात्। अणोऽपवादः। सर्वप्रदः पथि प्रज्ञः। उपसर्गान्तरयोगे तुन। अनुपमर्ग इति निषेधात्। प्रशब्दमात्रे उक्तविधिना तद्बाधेऽप्यन्यत्र बाधाभावात्। गोसंप्रदायः।
समिख्यः ।। 7 ।।
गाः संचष्टे गोसंख्यः। संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः। ख्यातेः सार्वधातुकमात्रविषयत्वं तु प्रागेव निरस्तम्।।
गापोष्टक् ।। 8 ।।
अनुपसर्गाभअयामाभ्यां कर्मण्युपपदे टक्। गायतेरेवात्र ग्रहोनतु गागानोरनभिधानात्। सामगः। सामगी। पा पाने। लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणात्। `पिबतेः सुरासीध्वोरिति वक्तव्यम्'। सुरापी। सीधुपी। या तु सुरां रक्षति सा सुरापा। उपपदनियमान्नेह। क्षीरं पिबति क्षीरपा। `बहुलं संज्ञाछन्दसोः'। ब्राह्मणी भवति या सुरापी नैनां देवाः पतिलोकं नयन्ति। सुरापा वा।।
हरतेरनुद्यमनेऽच् ।। 9 ।।
अंशहरः। ग्रहणमत्र हरतेर्थः। उद्यमने तु भारहारः। `अच्प्रकरणे शक्तिलाङ्गलाङ्कुरा यष्टितोमरघटघटीधनुःषु ग्रहेरुपसंख्यानम्'। शक्तिग्रहः। लाङ्गलग्रहः इत्यादि। घटीशब्दग्रहणं लिङ्गविशिष्टग्रहणपरिभाषाया अनित्यत्वज्ञापनार्थम्'।
`सुत्रे च धर्येऽर्थे' सूत्रग्रहः। यस्तु सुत्रस्य संग्रहमात्रं करोति नतु धारयति तत्र सूत्रग्राह एव।।
वयसि च ।। 10 ।।
कालिकशरीरावस्ताविशेषो वयः तत्र द्योत्ये हरतेरच्। कवचहरः कुमारः। उद्यमनार्थमारम्भः। कवचोद्यमने तदभावे वा वयोविशेषमात्रं गम्यम्। कवचोपादानयोग्य इत्यर्थः। फलोपधानेऽपि योग्यतानपायात्।।
आङि ताच्छील्ये ।। 11 ।।
कर्मण्युपपदे आङ् पूर्वाद्धरतेरच् ताच्छील्ये। पुष्पाण्याहरति तच्छीलः पुष्पाहरः। ताच्छील्यमौत्सर्गिकी प्रवृत्तिः। अन्यत्र भाराहारः।।
अर्हः ।। 12 ।।
कर्मण्युपपदेऽर्हतेरच् अणपवादः। पूजार्हा ब्राह्मणी ।।
स्तम्बकर्णयोरमिजपोः ।। 13 ।।
`हस्तिसूचकयोरिति वक्तव्यम्'। हलदन्तादित्यलुक्। स्तम्बेरमो हस्ती। कर्णेजपः सूचकः। अन्यत्र स्तम्बे रन्ता। कर्णेजपिता।।
शमि धातोः संज्ञायाम् ।। 14 ।।
`शमि उपपदे धातुमात्रादच् संज्ञायाम्'। शेभवः। शंवदः। धातुग्रहणं कृञो हेत्वादिषु प्रतिषेधार्थम्। अचोऽवकाश उक्तः। टस्यावकाशः श्रद्धकरः। शंकरा नाम परिव्राजिका तच्छीला तत्र परत्वाट्टः स्यात्। धातुग्रहणसामर्थ्यादजेव। कुणरवाडवस्त्वाह गृणातेः शंगराशब्दं व्युत्पाद्य पृषोदरादित्वाद्गकारस्य ककार इति शंकराशब्दसिद्धेः। तथाच धातुग्रहणं न कार्यमिति भाष्यम्।।
अधिकरणे शेतेः ।। 15 ।।
खे शेते खशयः। `पार्श्वादिषूपसंख्यानम्'। पार्श्वाभ्यां शेते पार्श्वशयः। पृष्ठशयः। उदरशयः।
`दिग्धसहपूर्वाच्चेति वक्तव्यम्'। दिग्धसहितं उपपदं नतु प्रत्येकम्। दिग्धेन सह शेते दिग्धसहशयः। मयूख्यंसकादित्वात्समास इति कैयटः।
`उत्तानादिषु कर्तृष्विति वक्तव्यम्'। उत्तानः शेते उत्तानशयः। अवमूर्धशयः अवनतो मूर्धा यस्य तादृगधोमुखः शेते इति यावत्।
`गिरौ डःछन्दसीति वक्तव्यम्' गिरौ शेते गिरिशः। यद्वा गिरिरस्यास्ति लोमादित्वात् शपत्ययः। यद्वा सेख्यैकवचनाच्चेति शस्। रूढानां कथञ्चिव्द्युत्पाद्यत्वात्।।
वैरवासिष्टगिरिशास्थैकागारिकादयः।
कैश्चित्कथञ्चिदाख्याता निमित्तावधिसंकरैः।।
एतेन गिरिशमुपचचार प्रत्यहं सा सुकेशीति व्याख्यातम्। यत्तु छन्दसीति वचनाद्भाषायां गिरिशशब्दस्यासाधुत्वमाहुरिति कैयटेनोक्तं तत्राहुरित्यखरसः। तब्दीजंतु प्रकारान्तरेण तत्सिद्धेरुक्तत्वान्न साधुत्वमिति।।
चरेष्टः ।। 16 ।।
अधिकरणे उपपदे। कुरुचरः। कुरुचरी। अधिकरणे किम्। कुरूंश्चरतीत्यत्राणेव। यस्य कुरव एव प्राप्याः स कुरुचारः। यस्तु कुरुषु भ्रमति स कुरुचरः। अत्र कुरुपदं तदेकदेशपरम्।।
भिक्षासेनादायेषु च ।। 17 ।।
भिक्षा चरति भिक्षाचरः। चरणोपसर्जनमर्जनमिह चरत्यर्थः। चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचरः अत्र प्रवेशोऽर्थः। आदायेति ल्यबन्तानुकरणम्। कर्माकाङ्क्षत्वेऽपि वचनात्समासः। आदायचरः। आदानोत्तरकालीनचरणाश्रय इत्यर्थः। सहचरित्यादिकं तु पचादिषु चरडिति पाठात्। टविधानं तु नित्यसमासार्थम्।।
पुरोऽग्रतोऽग्रेषु सर्तेः ।। 18 ।।
पुरः सरः। अग्रतः सरः। अग्रमग्रेणाग्रे वा सरत्यग्रेसरः। निपातनादेत्वम्। अग्रसरशब्दो बाहुकादिति हरदत्तः।।
पूर्वे कर्तरि ।। 19 ।।
पूर्वः सरति पूर्वसरः। कर्तरि किम्। पूर्वंदेशं सरति पूर्वसारः।।
कृञो हेतुताच्छील्यानुलोम्येषु ।। 20 ।।
हेतुरैकान्तिकं कारणम्। यशस्करी विद्या। अतः कृकमीति सत्वम्। कीर्त्ययोगव्यवच्छिन्नेत्यर्थः। श्राद्धकरः। आनुलोम्यमनुकूलत्वम्। वचनकरः। आनुलोम्यं द्योत्यम्।।
दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु ।। 21 ।।
अहेत्वाद्यर्थ आरम्भः। एषु कृञ्ष्टः स्यात्। दिवाकर इत्यादि। भास्करः। कस्कादित्वात्सः। बहुशब्दो वैपुल्यार्थः। संख्यायाः पृथगुपादानात्। लिपिलिबिशब्दौ पर्यायौ। एककरः। द्विकरः। अहस्करः। कस्कादिः। धनुष्करः। नित्यंसमासेऽनुत्तरपदस्थस्येति षत्वम्।
किंयत्तद्बहुषुकृञोज्विधानम्। वार्त्तिकोमतदिति कैयटहरदत्तादयः। इष्टिरिति माधवादयः। किंकरशब्देऽचा टस्य बाधातवास्मि किंकरीत्यसाधुरिति कैयटहरदत्तादयः। `हुंत्यज त्यज तवास्मि किंकरेति श्रीहर्यः।
नयासकारास्तु हैत्वादौ पूर्वसूत्रेण च एव। तेन किंकरीत्युपपन्नमित्याह। तस्यायमाशयः। अहेत्वर्थं दिवेत्यादिसूत्रमिति सर्वसिद्धम्। तदपवादस्य किंयदिति वार्तिकस्य स एव विषयः। एतेनाज्विधौ हेत्वाद्यभाव इति विशेषणं मुनित्रयेण न दत्तमिति निरस्तम्। तथाच हेतुविवक्षायां ट उपपन्न एव।
एतेन पूर्वविप्रतिषेधस्य निर्मृलत्वादिति तद्‌दूपणमपास्तम्। उक्तमिप्रायेणैव तत्प्रवृत्तेः। अतएवोक्तिं वार्तिकमेवेति पठन्ति प्राञ्चः। नच पक्षेकर्मण्यण् प्रसङ्गः। अजभावे दिवाविभेति टस्यैव प्रवृत्तेः। नच सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुक्तत्वात्कथ तदिति वाच्यम् उक्तप्रयोजनसंभवे तदपनयस्य दुर्निश्चयत्वात्।
अन्ये तु इह किमादिग्रहणमपनीय पचादिष्वेव `किंयत्तद्बहुषु कृञ' इत्येव पाठम्। वार्तिकस्याप्ययेमवाशयः। तथाच कर्मण्यणो बाधाच्चरितार्थमुक्तवार्तिकम्। हेत्वादिविवक्षायां परत्वाट्टेन बाध्यते तेन पुंयोगं विनापि किंकरीति स्यादेवेत्याहुः।।
कर्मणि भृतौ ।। 22 ।।
कर्मशब्दे उपपदे कृञष्टो भृतौ गम्यायाम्। कर्मकरो भृतकः। नच कृत्रिमाकृत्रिमयोरित्यर्थग्रहणापत्तिः। पुनः कर्मपदोपादानसामर्थ्यात्। अन्यत्र कर्मकारः।।
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।। 23 ।।
हेत्वादिषु प्राप्तस्य टस्य प्रतिषेधोऽयम्। शब्दकार इत्यादि ।।
स्तम्बशकृतोरिन् ।। 24 ।।
`व्रीहिवत्सयोरिति वक्तव्यम्'।
न शाले स्तम्बकरिता वप्तुर्गुणमपेक्षते।
इति मुद्राराक्षसम्। शकृत्करिर्वत्सः। अन्यत्र स्तम्बकारः। शकृत्कारः।।
हरतेर्दृतिनाथयोः पशौं ।। 25 ।।
एतयोः कर्मणोरुपपदयोर्हरतेरिन् पशौ कर्तरि। दृतिहरिर्नाथहरिः पशुः। दृतिश्चर्मकोषः नाथो नासारज्जुः।।
फलेग्रहिरात्मम्भरिश्च ।। 26 ।।
आद्ये उपपदस्यैदन्तत्वमिन् प्रत्ययश्च निपात्यते। फलानि गृण्हाति फलेग्रहिः। द्वितीये मुमागम इन्‌च। आत्मम्भरिः। चात्कुक्षिम्भरिरुदरम्भरिश्च। `आत्मोदरकुक्षिष्विति चान्द्रपाठात्। मृदुतरकराकारै स्तालोत्करैरुदरम्भरिरितिश्रीहर्षः।
छन्दसि वनसनरक्षिमथाम् ।। 27 ।।
एभ्यः कर्मण्युपपदे इन्। ब्रह्मवर्नि त्वा क्षत्रवनिम्। ब्रह्म वनति क्षत्रं वनतीति विग्रहः। वाजसर्नि रयि मस्मे सुवीरम्। ये पथां पथिरक्षयः। हविर्मथीनामभि।
एजेः खश् ।। 28 ।।
ण्यन्तस्येका निर्देशो न शुद्धस्य व्याख्यानात्। शित्त्वाच्छवादि। अरुर्द्विषदिति मुम्। जनमेजयति जनमेजयः। यत्तु भविष्ये-
जन्मनैवातिशुद्धेन रिपूनेजितवान् यतः।
एजिश्च कम्पने धातुर्जन्मेजय इति स्मृतः।।
इत्युक्तम्। तत्रोच्छद्वाभावेऽपि उच्छब्दयोगं विनापि अनुपसर्गाल्लिम्पविन्देत्यादिना शप्रत्ययः। छान्दसत्वान्नैरुक्तव्युत्पत्तेर्वाबोध्यः।
`खश्‌प्रकरणेवातशुनीतिलशर्द्धेष्वजधेट्‌तुदजहातिभ्य उपसंख्यानम्'। वातमजा मृगाः शुनिन्धयः। खित्यनव्ययस्येतिह्रस्वः। तिलंतुदः। शर्धंजहा माषाः। शर्द्धोऽपानशब्दः। तं जहतीत्यनतर्भावितण्यर्थ इति माधवादयः। गर्द्धेति पाठस्तु भाष्यवृत्त्यादिविरुद्धः। सर्वत्रारुर्द्विषदिति मुम्।
नासिकास्तनयो धर्माधेटोः ।। 29 ।।
अत्र यथासंख्यबाधनार्थं वार्तिकम्। `स्तने घेटो नासिकायां ध्मश्चेति वक्तव्यम्'। स्तनन्धयो बालः। धेटष्टित्वस्यावयवेऽचरितार्थत्वान् ङीप्। स्तनन्धती। प्रत्यायान्तरे तु ङीप् नेष्यते इति वर्धमान क्षीरस्वामि हरदत्तादयः। तेन शप्रत्यये कप्रत्यये च टाबेवेति संप्रदायः। नासिकंधमः। नासिकंधयः।
`धटीखारीखरीषूपसंख्यानम्' घटिन्धमः। धटिन्धय इत्यादि।
नाडीमुष्ट्योश्च ।। 30 ।।
ध्माधेटोरित्यनुवर्तते। यथासंख्येनोति भाष्यवृत्त्यादयः। उभयत्रापि पूर्वनिपातव्यत्ययो यथासंख्याभावज्ञापक इत्याहुः। यथासंख्यसूत्रे नाडीमुष्ट्योश्चेति भाष्यं तु प्राप्तिमात्राभिप्रायम्। नार्डिधमः। नार्डिधयः।
उदि कूले रुजिवहोः ।। 31 ।।
उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश्‌रुजोभङ्गे वहप्रापणे। कूलमुद्रुजः। कूलमुद्वहः। उदिति पञ्चम्यर्थे सप्तमी। वहोरिति पञ्चम्यर्थे षष्ठी। ततो न यथासंख्यमिति कैयटः। असत्ववाचिन्युच्छब्दे कर्मणीत्यस्यान्वयासंभवाच्चेति दीक्षिताः। तेन प्राग्धातोरिति सूत्रे `उपसर्जन संनिपात' इति वार्तिकं तु द्वयोरुपपदत्वभ्रमवत्पुरुषाभिप्रायमिति कैयटे एव स्पष्टम्।
वहाभ्रे लिहः ।। 32 ।।
वहं स्कन्धं लेढि वहंलिहो गौः। अभ्रंलिहो वायुः। अभ्रंलिहाः पर्वता इत्यादौ संयोगो लिहेरर्थः। सार्वधातुकमपिदिति खशो ङित्वान्न गुणः।
परिमाणे पचः ।। 33 ।।
प्रस्थंपचा स्थाली खारिंपचः कटाहः।
मितनखे च ।। 34 ।।
`कदर्ये कृपणक्षुद्रकिंपचनमितंपचाः'। नखंपचा यवागूः। पचिरत्र क्लेशार्थः। कुचभारो न नखंपचः प्रियस्येति माघः।
विध्वरुषोस्तुदः ।। 35 ।।
विधुतुदः। अरुन्तुदः मुमि कृते संयोगान्तस्येति सलोपः। अरुन्तुदस्तु मर्मस्पृगित्यमरः। अरुर्व्रणं तुदतीति। व्रणवेधस्य व्यथातिशये हेतुत्वात्। व्रणोस्त्रियीमीर्मरुरित्यमरः।
असूर्यललाटयोर्दृशितपोः ।। 36 ।।
सूर्यं न पश्यन्तीत्यसूर्यं पश्या राजदाराः। नञो दृशिअन्वयात्सूर्यशब्देन सममसामर्थ्येऽपि समासो वचनसामर्थ्यात्। गुप्तिविशेषेचात्र तात्पर्यम्। न सूर्यदर्शनाभावे। सूर्यभिन्नदर्शने वा। तत्र तु न खश्। अनभिधानादिति वदन्ति। तन्न। श्रृणुत श्रृणुतासूर्यंपश्या न सा किल भाविनीति श्रीहर्षेणासूर्यं पश्यानामवधिगिरि पाश्चात्यदृषदामिति विद्यानाथेन च प्रयुक्तत्वात्।
उग्रंपश्येरम्मदपाणिंधमाश्च ।। 37 ।।
एते निपात्यन्ते। उग्रं यथा स्यात्तथा पश्यति इत्युग्रंपश्यः। इरया उदकेन माद्यति ज्वलति इरम्मदो मेधज्योतिः। तिपातनान्न श्यन्। पाणयो ध्मायन्तेऽत्र पाणिन्धमोऽन्धकाराद्यावृतोऽध्वा। तत्र सर्पादिशंकया तदपनोदाय पाणिशब्दकरणात्। दुर्गमत्वमात्रे तात्पर्यम्। शस्त्राशस्त्रिकयैव काननभवग्दीवार्णपाणिन्धमाः पन्थानो दिवि संकुचन्ति वन्ध्या न सूते भटानिति मुरारिः।
प्रियवशे वदः खच् ।। 38 ।।
प्रियंवदः। अनिष्ठुरोक्तिः। वदस्थैर्ये इत्यस्माद्वशवदो बोध्यः। वशे वदति वर्तते इति व्युत्पत्तिः। खशा रूपनिर्वाहेऽपि प्र्तययान्तरमुत्तरार्थम्। तत्रापि प्रयोजनं तु वक्ष्यते। इह करणं त्वन्यतोऽपि खजिति ज्ञापनार्थम्। तदेव वार्तिकेनोक्तम्-
`गमेः सुप्युपसंख्यानम्। नचेह गमश्चेति सूत्रेण सिद्धिः। तस्य संज्ञायामे प्रवृत्तेः। मितंगमा हस्तिनी। `विहायसो विहः खच्‌च विभाषा डिद्वक्तव्यः'। विहंगमः। डित्वपक्षे टिलोपः। खशि तु आर्धधातुकत्वानुपपत्त्या इदं न स्यात्। सार्वधातुकत्वेन शप् च स्यात्।
द्विषत्परयोस्तापेः 39 ।।
द्विषन्तं तापयति द्विषन्तपः। परंतपः। द्विषतीताप इत्यत्र न। लिङ्गविशिष्टपरिभाषाया अनित्यत्वात्।
वाचि यमो व्रते ।। 40 ।।
वाक्शब्दे उपपदे यमेः खच् व्रते गम्ये। वाचंयमो मौनव्रती। अशक्त्यादिना मौनव्रते तु कर्मण्यण्। वाग्यामः।।
पूः सर्वयोर्दारिसहोः ।। 41 ।।
पुरंदरः। वाचंयमपुरंदरौचेति अमन्तत्वम्। सर्वंसहः। अत्र हरदत्तः। वाचि यम इति सूत्रस्य। पुरिदारेत्यंशस्यच वैयर्थ्यम्। वाचंयमपुरंदरौ चेत्यनेनैव खच् प्रत्ययस्यापि संम्भवात्। व्रतविषयत्वस्यापि निपातनबलादेव लाभात्। तथाचात्र सर्वे सह इत्येव सूत्रं युक्तमिति। दारीति दॄविदारणे एव गृह्यते नतुदॄभये दृङ्‌आदरे इति संप्रदायः। सहिग्रहणमसंज्ञार्थम्। संज्ञायां वक्ष्यमाणत्वात्।
सर्वकूलाभ्रकरीषेषु कषः ।। 42 ।।
सर्वंकषः खलः। कूलंकषा नदी। अभ्रंकषो वायुः। करीषंकषा वात्या। दोः संदोहवशीकृतत्रिभुवनश्रीगर्वसर्वंकष इति मुरारिः।
मेघर्तिभयेषु कृञः ।। 43 ।।
मेधंकरः। खतिंकरः। भयंकरः। तदन्तविधिना अभयंकरः।
क्षेमप्रियमद्रेऽण् च ।। 44 ।।
चात्खच्। क्षेमंकरः। क्षेमकार इत्यादि। वेत्यपहायाण्‌ग्रहणं देत्वादौ टप्रत्ययाभावार्थम्। अल्पारम्भाः क्षेमकरा इति कर्मणः शेषत्वविवक्षायाम्।
अशिते भुवः करमभावयोः ।। 45 ।।
आशितो भवत्यनेनाशितंभव ओदनः। अतिथ्यादिभोजनपर्याप्त इत्यर्थः। आशितस्य भवनं आशितंभवः। वासरूपविधिना ल्युडपि। आशितभवनः। आशितभवनम्। घञ्‌तु सरूपत्वाद्बाध्यते इति वृत्तिकारादयः। यत्तु क्तल्युट्तुमुन् खलर्थेषु वासरूपविधेरभावादयुक्त एव ल्युडिति तन्न। तस्य यत्र क्तादीनां घञादिबाधकत्वेन प्रसक्तिस्तन्मात्रपरत्वात्। अत्र तु ल्युटोऽपवादः खच्। न तु खचो ल्युडिति वासरूपविधेर्दुर्वारत्वात्। क्तादीनां बाधकत्वस्थले न वा सरूपन्यायो, बाध्यत्वस्थले त्वस्त्येवेति पर्यवसानादिति दीक्षिताः।।
संज्ञायां भृतॄवृजिधारिसहितपिदमः ।। 46 ।।
विश्वंभरा भूः। रथन तरति रथन्तरम्। सामनि केवलं रूढमेतत्। प्युत्पत्तिफलं तु रथन्तरमाजभावा वसिष्ठ इत्यादौ कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वमवग्रहश्च। अखण्डत्वे नब्‌विषयस्येत्याद्युदात्तनिखग्रहत्वयोः प्रसङ्गात्। पतिंवरा कन्या। शत्रुंजयो हस्ती। युगन्धरः पर्वतविशेषः। युगन्धरे दधि प्राश्येति भारतम्। शत्रुं सहः। शत्रुंतपः। अरिंदमः। शमनार्थत्वात्सकर्मकत्वम्। ण्यर्थान्तर्भावो वा।।
गमश्च ।। 47 ।।
सुतंगमः ।।
अन्तात्यन्ताध्वेदूरपारसर्वानन्तेषु डः ।। 48 ।।
संज्ञायामिति निवृत्तम्। अन्तं गच्छतीत्यन्तगः इत्यादि। ` सर्वत्रपन्नयोरुपसंख्यानम्'। सर्वत्रगः। पद्‌भ्यां गच्छति पन्नगः। `उरसो लोपश्च'। उरगः। `सुदुरोरधिकरणे' सुखेन गम्यतेऽत्र सुगः। दुःखेन दुर्गः। `निसो देशे'निर्गम्यते यस्मान्निर्गः। वस्तुतस्तु `अन्येभ्योऽपि दृश्यते'इति वक्तव्यम्। ग्रामगः गुरुतल्पग इत्यादि।।
आशिषि हनः ।। 49 ।।
डः स्यात्। शत्रुं वध्यात् शत्रुहः। शत्रुहननाश्रयप्रकारकेच्छाविशेषअय इत्यर्थः। आशिषि किम्। शत्रुं हन्ति शत्रुघातः। `दारावाहनोऽणन्तस्य च टः संज्ञायाम्' दार्वाघाटस्ते वनस्पतीनाम्। `चारौवे'ति वाच्यम्। चार्वाधाटः। चार्वाघातः `कर्मणसमिच'। वर्णान् संहन्ति वर्णसंघाटः वर्णसंघाटः। पदसंघातः। पदसंघातः।
अपे क्लेशतमसोः ।। 50 ।।
अपपूर्वाद्धन्तेरेतयोरुपपदयोर्डः। अनाशीरर्थ आरम्भः। क्लेशापहः पुत्रः तमोपहः सूर्यादिः।
कुमारशीर्षयोर्णिनिः ।। 51 ।।
कुमारघाती। शिरसः शीर्षभावो निपातनात्। शीर्षघाती।
लक्षणे जायापत्योष्टक् ।। 52 ।।
लक्षणेति कर्तृविशेषणम्। लक्षणवति कर्तरि अनयोरुवपपदयोर्हनतेष्टक्। जायाघ्नो मनुष्यः। पतिघ्री स्त्री। तत्सूचकलक्षणाश्रय इत्यर्थः।।
अमुनुष्यकर्तृके च ।। 53 ।।
जायाघ्नः तिलकः। पतिघ्नी पाणिरेखा। तत्सूचकत्वमर्थः। पित्तघ्नं घृतम्। अमनुष्येति किम्। आखुधातः शुद्रः। प्रलम्बध्नशत्रुकृतघ्नादयो मूलविभुजादित्वात्। चोरधातो नगरघातो हस्तीत्यादयो बाहुलकात्।
शक्तौ हस्तिकपाटयोः ।। 54 ।।
शक्तौ द्योत्यायां हन्तेष्टक्। मनुष्यकर्तृकार्थमारम्भः। हस्तिघ्नो ना। कपाटघ्नश्चौरः। कवाटेतिपाठे यवादित्वाद्वत्वमिति स्वामी। कुत्सितमटति कवाटम्। अटतेः पटाद्यच्। कवंचोष्ण इति योगविभागात्कवादेश इति हरदत्तः। स्वबलेन हन्तुं सामर्थ्यं शक्तिपदार्थः।
पाणिघताडघौ शिल्पिनि ।। 55 ।।
हन्तेष्टक्‌ टिलोपघत्वानि निपात्यन्ते। शिल्पिनि किम्। पाणिघात इत्यादि। `राजधस्योपसंख्यानम्'। रराज नीराजनया स राजघः।
न्धप्रियेषुच्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ।। 56 ।।
च्व्यर्थेष्वच्व्यन्तेषु आढ्यादिषूपपदेषु कृञः ख्युन् स्यात्। अनाढमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम्। अच्वौ किम्। आढ्यीकरणम्। अत्र ल्युडेव।
ननु च्वावपि रव्युनि दोषाभावाद च्वाविति व्यर्थम्। रूपस्वरयोरविशेषात्। ङी पश्चनञ्‌स्नञीकक्‌ख्युंस्तरूणतलुनानामिति ख्युनोऽपि विधेयत्वात्। ख्युनि उपपदसमासस्येव ल्युटि गतिसमासस्यापि नित्यत्वात्। लित्स्वरेण नित्स्वरेण वा कृञ आद्युदात्तसाम्यात्। मुमूह्रस्वयोश्चानव्ययस्येति पर्युदासात्। च्व्यन्तस्याव्ययत्वात्।
अत्रभाष्यम्। उत्तरार्थं तदिति। तथाच केवलोत्तरार्थत्वे भाष्यवार्तिकप्रामाण्यान्नीर्णीते च्वौ ल्युड्‌भवत्येव। वृत्तिकारास्तु उत्तरत्रैव ग्रहणापत्त्या इहकिंचित्त्रपो इति न्यायेनात्रग्रहणसामर्थ्याल्ल्युडपि नेत्याहुः। तच्चिन्त्यम्।
कर्तरि भुवः खिष्णुच्‌खुकञौ ।। 57 ।।
पूर्वविषये कर्तरि भवतेरेतो स्तः। अनाढ्यआढ्यो भवत्या ढयंभावुकः। आढ्यं भविष्णुः। नाराचौः कृतवीर्यनन्दनवधूबाष्पप्रियंभावुकैरिति मुनरारिः। कर्तृग्रहणंकरणानुवृत्तिभ्रमनिरासार्थमुत्तरार्थंचेति संप्रदायः। नचास्वरितत्वादेवाननुवृत्तिसिद्धिः। अगतिकगतित्वात्।
अत्रवर्तिकम्।
इष्णुचइकारादित्वमुदात्तत्वात्कृतं भुवः।
नञस्तु स्वरसिध्यर्थमिकारादित्वमिष्णुचः।।
अस्यार्थः-भुवः सेट्‌त्वाद्वलादिलक्षणेनेटैव सिद्धौ खूण्णुजेव विधेयो नत्विष्णुच्। नच खकारस्य चर्त्त्वे कृते क्‌ष्णुरित्यत्र कत्वं शत्वंवेति सन्देहापत्तिः। व्याख्यानतो विशेषप्रतिपत्तेः। इत्याक्षेपः। नञ्‌समासेऽनाढ्यंभविष्णुरित्यत्र कृत्योकेषअणुच्चार्वादयश्चेति अन्तोदात्तार्थमिति समाधानम्। अन्यथा तत्रालंकृञित्यादिना विहतस्य प्रतिपदोक्तस्यै वेष्णुचो ग्रहणं स्यात्। स्नुप्रत्यये षत्वणत्वयोरसिद्धतया ष्णुइति रूपाभावाच्च। ननु चकारानुबन्धमात्रेणाप्येतत्सिद्धम्। नच स्वरार्थतया तदन्यथासिद्धिः। प्रत्ययस्वरेणान्तोदात्तसिद्धेः। प्रत्ययस्वरे आगमानामविद्यमानवद्भावस्योक्तत्वात्।
यत्तु हरदत्तः। षत्वणत्वयोः सामर्थ्यादस्य ग्रहणमिति तद्रहितप्रत्ययापेक्षया तत्सहितप्रत्ययविधाने प्रक्रियालाघवेन सामर्थ्योपक्षयात्। सर्वथापि त्विकारो व्यर्थ एवेति। मैवम्। तदनुबन्धकग्रहणपरिभाषया तत्रखिष्णुचोनुपादानापत्तेः। इकारीच्चारणसामर्थ्यात्तु तद्बाधात्। नचचकारसामर्थ्यम्। विनिगमकाभावात्।
स्पृशोऽनुदके क्विन् ।। 58 ।।
उदकभिन्ने सुप्युपपदे कर्तरि स्पृशेः किन्। धृतस्पृक्। कर्मणीति निवृत्तम्। यद्यपि स्पृशेः सकर्मकत्वात्कर्मणीत्यस्यानुवृत्तिर्युक्ता तथापि पूर्वसूत्रे कृर्तृग्रणस्यैतदर्थत्वात्तद्वैयर्थअयपरिहाराय कर्मण्युपपदे एकः कर्ता करणादौ चान्य इति कर्तृप्रत्ययार्थराय कर्मण्युपपदे एकः कर्ता करणादौ चान्य इति कर्तृप्रत्ययार्थत्वात् उभयत्र सिद्धिः। सुप्युपपदे इत्यस्य पर्यक्सानादिति प्राञ्चः। दीक्षितास्तु मन्त्रस्पृगिति क्विपैव सिद्धम्। क्विन्‌प्रत्ययो यस्मादित्यर्थाश्रयणेनान्यत्रापि कुत्वविधानात्याहुः। अत्र नकारो न नित्स्वरार्थः एकाच एवैतद्विधानेन विशेषाभावात्। दधृगित्यत्र चान्तोदात्तस्य निपातयिष्यमाणत्वात्। क्विन्प्रत्ययस्येत्यत्र क्विप्रत्ययस्येति पाठादेव सिद्धेः। एकपकारको द्विपकारको वा निर्देश इति संदेहस्य व्याख्यानान्निवृत्तेः। तदनुबन्धकपरिभाषया च क्विपोऽनुपादानात्।
ऋत्विग्‌दधृग्‌स्रद्गिगुष्णिगञ्चुयुजिकृञ्चां च ।। 59 ।।
आद्याः पञ्च क्विन्नन्ता निपात्यन्ते। त्रिभ्यः क्विन् विधीयते। अलाक्षणिकमपि किञ्चित्कार्यं निपातनलभ्यम्। ऋतावुपपदे यजेः क्विन्। धृषोर्द्वित्वमन्तोदात्त्त्वं च। सृजेः कर्मणि क्विन्। रमागमश्च। दिशेः कर्मणि। उत्पूर्वात् स्निहेः क्विन् उपसर्गतकारस्य लोपः षत्वं च। अञ्चेः सुप्युपपदे क्विन्। युजेरपि। क्रुञ्चेर्नलोपाभावश्च।
त्यदादिषु दृशोऽनालोचने कञ्च ।। 60 ।।
चात्क्विन्। तादृशः तादृक्। आ सर्वनाम्न इत्यात्वम्। एवं यादृश इत्यादि। ञकार आद्युदात्तार्थः। नकारेम तत्सिद्धावपि कञ्‌क्वरबित्यत्र विशेषणार्थत्वात्। तत्र कन् इत्युक्तौ अपमित्ययाचिताभ्यां कक्वनाविति विहिते कन्यतिप्रसङ्गात्।
`समानान्ययोरुपसंख्यानम्' दृग्दृशेति सादेशः। सदृशः सदृक्। ननु कर्तर्ययं प्राप्नोति कर्मणि। कर्मण एव सौकर्यात्कर्तृत्वविवक्षणात्। तमिवेमं जनाः पश्यन्ति सोयं सइव दृश्यमानस्तमिवात्मानं पश्यतीत्यर्थः। रूढ्यर्थानुकूल्यमात्रेण चेदमुक्तम्। वस्तुतः सादृश्यमात्रप्रतीतेः।
सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् ।। 61 ।।
सुप्युपपदे एभ्यः क्विप्। उपसर्गे सत्यसति वा। सुपीत्यनुवृत्तावपि उपसर्गग्रहणमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम्। तेन वदः सुपीत्यत्रानुपसर्गग्रहणमनारभ्यम्। दुसदित्यत्र तु न छन्दसीत्यनुवृत्तेः। दिविषद इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः। सदादिषु केषाञ्चित् सकर्मकत्वेऽपि न कर्मणीत्यस्यैव तत्रान्वयः। किन्तु सुम्मात्रस्य। होता वेदिषदतिथिर्दुरोणमत्। वेद्यां सीदतीति वेदिषत्। पूर्वपदादिति षत्वम्। दुरोणे गृहे सीदतीति दुरोणसत्। उपनिपूर्वात्सदे र्विशरणार्थात्क्विपि उपनिषत्पदं व्युत्पादितम्। उपनीयाद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह। तद्धेतुत्वाद्वेदान्ता अदादिना द्विषा साहचर्यात्। न तुदादिदिवाद्योः सुवति सूयत्योः। द्विषअप्रीतौ। द्रुह जिघांसायाम्। दुह प्रपूरणे। युजसमाधौ। युजिजिर्योगे इति द्वयोरप्युपादानम्। विदेत्यकारानुबन्धस्य विवक्षितत्वाद्विदज्ञाने विदविचारणे विदमत्तायामित्येते गृह्यन्ते। नतु विद्‌लृइति। भिद्‌लृविदारणे। छिदिर् द्वैधीकरणे णीञ्‌ प्रापणे राजृदीप्तौ। अण्डसूः। प्रसूरित्यादि। अग्रग्रामाभ्यां नयतेर्णो वाच्यः। स एषां ग्रामणीरिति निर्देशात्। सर्वलोपि प्रत्ययविषयञ्चेदं धर्मिग्राहकप्रमाणात्। तेन ग्रामनाय इत्यादौ न।
भजो ण्विः ।। 62 ।।
अंशभाक्। प्रभाक्। णित्वाद्वृद्धिः।
छन्दसि सहः ।। 63 ।।
णिवः स्यात्। दुश्चयवनः पृतनाषाडयुध्यः। सहिरत्राभिवार्थः।
वहश्च ।। 64 ।।
दित्यवाट् च मे दित्यौहि च मे। योगविभाग उत्तरार्थः।।
कव्यपुरिषपुरीष्येषुञ्युट् ।। 65 ।।
कव्यवाहनः पुरीषवाहनः पुरीष्यवाहनः।
हव्येऽनन्तः पादम् ।। 66 ।।
हव्यशब्दे उपपदे वहेच्छन्दसि ञ्युचट् पादान्ते। अनन्तः पादमित्यनेन प्रत्ययान्तस्य चरणोत्तरपादावयवानन्तर्गतत्वोक्तेः। अग्निशअच हव्यवाहनः। पादान्ते किम्। कव्यवाडग्निरजरः पिता नः।
जनसनखनक्रमगमो विट् ।। 67 ।।
जन जनने जनी प्रादुर्भावे षण दाने षणु सम्भक्तौ द्वयोर्ग्रहणमिति संप्रदायः। विड्‌वनोरित्यनुनासिकस्यात्वम्। अब्जा गोजाः। गोषा इन्द्रो असि। सनोतेरन इति षत्वम्। इयं शुष्मेभिर्विसखा इवारुजत्। आदिधिक्राः। शवसे पञ्च कृष्टीः। वायुरग्रेगा यज्ञप्रीः।
अदोऽनन्ने ।। 68 ।।
छन्दसीति निवृत्तम्। अन्नशब्दे उपपदे अदो विट्। ग्रामात् सस्यात्। अनन्ने किम्। अन्नादः।
क्रव्येच ।। 69 ।।
क्रव्यात्। आममांसभोक्तेत्यर्थः। पूर्वेण सिद्धेऽण्‌बाधार्थमारम्भः। क्रव्याद इति तु पक्वमांसशब्दादण्। पृषोदरादित्वादुपपदस्य क्रव्यादेशश्च। क्रव्याद इत्यण् न भवतीत्याकरस्य तु आममांसभक्षक इत्यर्थविवक्षायामित्यर्थः।
दुहः कब्‌ घश्च ।। 70 ।।
कामं कामदुघे धुक्ष्व। अवेहि मां कामदुघां प्रसन्नाम्।
मन्त्रेश्वेतवहोक्थशस्पुरोडाशोण्विन् ।। 71 ।।
? श्वेतादावुपपदे वहादिभ्यो ण्विन्। अलाक्षणिककार्यार्थं निपातनम्। श्वेता एवं वहन्ति श्वेतवा इन्द्रः। कर्तृवाचिनि श्वेतशब्दे वहेः कर्मणि प्रत्ययः। उक्थानि उक्तैर्वा शंसत्युक्थशा यजमानः। उक्थे कर्मणि करणे वा शंसेर्नलोपश्च। पुरो दाशन्त एतमिति पुरोडाः। पुरः शब्दे दाशृदाने इत्यस्मात्कर्मणि प्रत्ययो दस्यडत्वं च।
`श्वेतवहादीनां हस्पदस्येति वक्तव्यम्' यत्र डसन्तस्य पदत्वं भविष्यति तत्र ढस्प्रत्ययोऽन्यत्र ण्विन्नेवेत्यर्थः। अयंचावे यज इत्येतद्विहितस्यापि ण्विनोऽपवादः। श्वेतवा इन्द्रः। श्वेतवोभ्यां श्वेतवोभिः। पदस्य किम्। श्वेतवाहौ श्वेतवाहः। नचैवमवयाः श्वेतवा इति निपातनवैयर्थ्यम्। अत्वसन्तस्येत्येव दीर्घसिद्धेरिति वाच्यम्। हे श्वेतवा इति सम्बुध्यर्थत्वात्। नच डस् वैयर्थ्यम्। श्वेतवोभ्या मित्याद्यर्थत्वात्। नच रुत्वनिपातनस्य पदमात्रविषयकत्वमिति वाच्यम्। आकारात्परस्य उत्वाभावे रूपासिद्धितादवस्थ्यात्। उक्शशा इति सम्बुव्यर्थं निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्तीति कैयटादयः।
अवे यजः ।। 72 ।।
अवशब्दे उपपदे यजेर्ण्विः स्यान्मन्त्रे। त्वं यज्ञे वरुणस्यावया असि। अवयजत इत्यवयाः। अवयाजौअवयाजः। अवयोभ्यामित्यादि। योगविभाग उत्तरार्थः।
विजुपे छन्दसि ।। 73 ।।
उपेत्युपपदे यजेर्विच्छन्दसि। उपयट् डपयजौ उपयजः। उपयडिभरूर्ध्वं यजन्ति तदुपयजामुपयट्‌त्वम्। नचान्येभ्योऽपि दृश्यते इति सिद्धिः। उपयजः छन्दस्येवेति नियमार्थत्वात्। चित्करणं वेरपृक्तस्येति सामान्यग्रहणाविघातार्थम्।।
आतो मनिन् क्वनिब्‌वनिपश्च ।। 74 ।।
सुपि उपसर्गे उपपदे आदन्ताद्धातोरेते त्रयः स्युः छन्दसि। चाद्विच्। सुदामा सुधीवा। सुपीवा भूरिदावा। घृतं घृतपावानः। कीलालये सोमपृष्ठाय वेधसे। अश्व इव तिष्ठत्यश्वत्थामा।
अन्येभ्योऽपि दृश्यन्ते ।। 75 ।।
छन्दसीति निवृत्तम्। चत्वारः प्रत्यया धात्वन्तरादपि स्युः। सुष्टु शृणोति सुशर्मा। नेड्‌वशीति नेट्। प्रातरेति प्रातरित्वा। पित्त्वात्तुक्। विजायते। विजावा। विङ्‌वनोरित्यात्वम्। ओणृ अपनयने। अवावा। णस्यात्वे अवादेशाः। रोट्‌ रेट्‌ सुगण्। दृशिग्रहणं प्रयोगानुसारार्थम्।
क्विप्च ।। 76 ।।
अयमपि प्राग्वत्। सत्सूद्विषेत्यस्यैव प्रपञ्चः। अपिशब्दानुवृत्या सर्वधातुभ्यः छन्दसि भाषायां चेत्यर्थः। उखायाः स्रंसते उखास्रत्। पर्णाद् ध्वंसते पर्णध्वत्। वसुस्रंस्विति दत्वम्। वाहात्‌भ्रश्यति वाहभ्रट्। व्रश्चेति षः। वहाभ्रडिति वृत्तिः। वहः स्कन्धः। अन्येषामपीति उपपदान्तस्य दीर्घ इति हरदत्तः।
स्थः क च ।। 77 ।।
चात्क्विप्‌। पूर्वोक्तेन क्विपा सुपि स्थ इति च कस्य सिद्धौ शमिधातोरित्यचो वाधार्थमारम्भः। शेस्थः। शंस्थाः ईत्वमवकारादाविति वचनाद्भावष्यप्रयोगाद्वा प्रत्ययलक्षणेनेत्वाभाव इति कैयटः। इदंच प्रत्ययप्राधान्येऽल्‌विध्यर्थं प्रत्ययलक्षणसूत्रमितिपक्षे। नियमार्थमिति पक्षे तु अनल्विधाविति निषेधान्न स्थानिवत्त्वमिति दीक्षिताः।। ननु शमिधातोरित्येतदुत्तरमेव स्थः कचेति सूत्र्यताम्। चकारोऽच्समुच्चयार्थः। सवर्मदीर्घे सेस्था इति सिद्धम्। एवंचोत्सर्गपवादयोः समानदेशत्वमीत्वस्याप्रसक्तिश्चेति लाघवम्।
अत्राहुः। एवं सत्यसंस्था इत्यत्र अच्कावशक्ताविति उत्तरपदान्तोदात्तत्वं स्यात्। कृद्ग्रहणपरिभाषया संस्थाशब्दस्याजन्तत्वात्। क्विबन्तेन नञ्समासे तु अव्ययपूर्वपदप्रकृतिस्वरेणाद्‌युदात्ततेति।।
सुप्यजातौणिनिस्ताच्छील्ये ।। 78 ।।
अजात्यर्थे सुप्युपपदे ताच्छील्ये द्योत्ये णिनिः स्यात्। सुपीति वर्तमाने सुब्‌ग्रहणमनुपसर्ग इत्यस्य निवृत्त्यर्थं सुम्मात्रे यथा स्यात्। उदासरिण्यः प्रत्यासारिण्यः। इति भाष्यम्। यत्तु सुब्‌ग्रहणमुपसर्गनिवृत्यर्थम्। `उत्प्रतिभ्या माङि सर्तेरुपसंख्यान' मिति जयादित्य हरदत्तमाधवादयः। तद्भाष्यविरुद्धमिति स्पष्टमेव। अतएव `लिङ्गशेषविधिर्व्यापी' `स बभूवोपजीविना' मित्यादिप्रयोगाः। अजातौ किम्। ब्राह्मणानामन्त्रयिता। तृना ताच्छील्यद्योतनम्। ताच्छील्ये किम्। कदाचिदुष्णं भुङ्क्ते। `साधुकारिण्युसेख्यानम्' साधुकारी। साधुदायी। ब्रह्मणि बदः।' ब्रह्मवादिनो वदन्ति। सौगतब्रह्मवादिनोरयं विशेषः। तत्ताच्छील्यार्थं वचनद्वयमिति कैयटहरदत्तादयः।
नन्वेवं ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया भट्टवार्तिकव्याख्यानमसंगतं स्यादिति चेत्। अत्राहुः-सुप्यजाताविति ताच्छील्ये उपसंख्यानेन साधुकारिणि आवश्यकाधमर्ण्ययोरिति णिनिस्तद्धर्मे पर्यवसन्नः। एवंचोक्तवार्तिकेन ताच्छील्यादिविरहे णिनेरुमसंख्यानेऽपि तच्छीलादावपि तस्य सुलभत्वात्। आक्वेरित्यधिकारे णिनिविधायकं वार्तिकमस्तीति कल्पनं तु निर्मूलमेवेति।
कर्तर्युपमाने ।। 79 ।।
अताच्छील्यार्थं जात्यर्थं सादृश्यार्थं च सूत्रम्। उपपदार्थः प्र्तययार्थस्य कर्तुरुपमानम्। उष्ट्रक्रोशी ध्वांक्षरावी। यद्यपि उष्ट्रसदृशक्रोशनाश्रय इति बोधः। तत्रोपपदार्थप्रत्ययार्थयोरभेदान्वयस्यान्यत्रादृष्टत्वात्। एतेनोष्ट्रस्य सादृश्यार्थतया तस्याश्रयत्वेन प्रत्ययान्वयोप्यनाशङ्क्यः। तथापि सादृश्यं णिन्यर्थः। तत्र प्रतियोगितया उपपदार्थस्यान्वयः। सादृश्यस्य च प्रयोजकतया धात्वर्थे तस्य स्वरूपसंबन्धेन प्रत्ययार्थान्तरे आश्रये तस्याभेदेन देवदत्तादौ उष्ट्रसादृश्यप्रयोजकक्रोशनाश्रयाभिन्नो देवदत्त इतिबोधः। प्रकृत्यर्थान्वयात्पूर्वमपि प्रत्ययार्थे पदान्तरान्वयस्य व्युत्पन्नत्वात्। कर्तरी किम्। अपूपानिव भक्षयति माषान्। उपमाने किम्। उष्ट्रः क्रोशति।।
व्रते ।। 80 ।।
णिनिः स्यात्। स्थण्डिलशायी।
यः स्थण्डिले व्रतवशात् शेते स्थण्डिलशाय्यसावित्यमरः।
अयाचिताशी। अश्राद्धभोजी। नचात्र श्राद्धभोजीशब्दस्य व्रतविषयत्वाभावेऽपि न श्राद्धभोजीति अलोकिकविग्रहवाक्ये णिन्यन्तेन सह नञ्समासेन सिद्धिः। आद्युदात्तापत्तेः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तस्येष्टत्वात् नचणिनीत्यनेन पूर्वपदाद्युदात्तसिद्धिः। तत्र संज्ञायामित्यनुवृत्तिपक्षे दोषप्रसङ्गात्। अत्र न श्राद्धस्य भोजीति न विग्रहः। सुबुपपदे विना भोजीत्यस्या साधुत्वात् किन्तु श्राद्धं भुङ्क्ते इति वाक्यं कृत्वा नञः श्राद्धेन सह असमर्थसमासं कृत्वा अश्राद्धशब्दे उपपदे णिनिर्वाच्यः। ननु श्राद्धीयतद्भिन्नयो रागाद्भोजनप्रसक्तौ श्राद्धभोजननिषेधमात्रं विध्यर्थो नत्वश्राद्धीयं भोजनमपि पेच पंञ्च नखा भक्ष्या इतिवत्। तत्कथं यदा अश्राद्धं नभुङ्क्ते तदास्य व्रतलोपः स्यादिति भाष्यं संगच्छते इतिचेत् अत्र कैयटः। अश्राद्धंमया भोक्तव्यमेवेति येन संकल्पः कृतः स यदा बुभुक्षायां सत्यां यस्मिन्नहन्यश्राद्धं न भुङ्क्ते तस्य स्यादेव व्रतलोप इति।
बहुलमाभीक्ष्णे ।। 81 ।।
सुप्पुपपदे णिनिः पौनः पुन्ये द्योत्ये। क्षीरपायिण उशीनराः। कषायपायिनो गान्धायाः। सामर्थ्येच्छया पानान्तराभावाद्वा कषायपानं नतु ताच्छील्यात्।
मनः ।। 82 ।।
मनज्ञाने इति दैवादिकस्य ग्रहणं नतु मनु अवबोधने इत्यस्य उत्तरसूत्रे खशि श्यनोऽनुपपत्तिप्रसङ्गात्। सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी।
आत्ममाने खश्च ।। 83 ।।
खस्यैव मन्यर्थकर्मत्वे खश् चाणिण्निः। नच वासरूपविधिनैव सिद्धिरि वाच्यम्। करणे यजइत्यादौ णिनेरेवानुवृत्यर्थं तदवच्छेदाय समूच्चयोक्तेः। पण्डितमात्मानं मन्यते पण्डितेमन्यः। पण्डितमानी। मान इति घञ्। आत्मन इति कर्मषष्ट्यन्तेन समासः। मति शब्द इह लक्षणया आत्मविशेष्यकभ्रमपरः। पण्डितपदं पण्डिताभेदप्रकारकपरम्। तस्याभेदसंसर्गेण भ्रमान्वयः। आश्रयः कृत्प्रत्ययार्थः। तथाच पण्डिताभेदप्रकारकात्मविशेष्यकभ्रमाश्रयः इत्यर्थः।
भूते ।। 84 ।।
अधिकारोऽयम्। वर्तमाने लडित्येतत्पर्यन्तम्। घात्वर्थविशेषणं चेदम्। धातोरित्यधिकारात्। नच भूतक्रियार्थकाद्भवतेः क्तप्रत्ययो विधेयः। तस्मिंश्च भूतशब्दस्य भूतक्रियाविषयत्वलाभ इत्यधिकाराश्रयो निष्टाप्रत्ययस्तदाश्रयश्चाधिकार इत्यधिकाराश्रयो निष्ठाधिकारात्। वस्तुतो भूतशब्दार्थबोधे निष्ठादिविधिवाक्यबोधस्यानपिक्षितत्वान्न दोषः।
अथ प्रयोजनानि। कुमारशीर्षयोर्णिनिरित्यनेन तक्रकोण्डिन्यन्यायेन भूते णिनिं बाधित्वा भविष्यद्वर्तमानयोर्णिनिर्विधीयते। असति भूताधिकारे द्वयोरपि सामान्ये विधानं स्यात्। पूनर्विधेर्वासरूपनिवृत्त्यर्थतयाप्युपपत्तेः। एवं ब्रह्मादिष्वेव हन्तेर्भूते क्विबिति नियमेन भूतार्थेउपपदान्तराद्धन्तेः। क्पिप् निवर्तते। तेवाखुहेत्यादौ कालान्तरे भवत्येव। एवे सुञो वर्तमाने भूते च विहितयोः शतृङ्‌वनिपोः विषयभेदान्न बाध्यबाधकभावः। भूतवर्तमानोभयाधिकारानारम्भे तु यज्ञसंयोगे विशेषे विधीयमानः शतृप्रत्ययः कालत्रयेऽपि ङ्‌वनिपं बाधेत। ततश्च भूते यज्ञसंयोगे सुत्वेति न स्यात्। नच वासरूपन्यायेन ङ्‌वनिप्‌सिद्धिः। सुत्वा सुत्वन्नित्यत्र कालभेदनियमो न स्यात्। एवं स्वपेर्भूते लिट्। वर्तमाने नजिङितिं सिद्धिः। उभयाधिकाराभावे स्वपो विशेषविहितेन नजिङा लिटो बाधापत्तेः। एवमनेहेत्यत्र नञ्याहन एहचेत्यसिप्रत्ययो वर्तमानकाले एव नृनं बाधेत। असत्यस्मिन् कालान्तरेऽपि बाधेन। एवं भूते कानच् वर्तमाने चानशिति चानश्‌ कानचो बाधको न भवति। यद्यप्यभ्यस्तानामादिरित्यस्य लादेशसार्वधातुकमात्रविविषयत्वा च्चानश्यपि तदप्रवृत्तेर्नविशेषः तथापि कानजात्मनेपदित्वात्कर्त्रभिप्राये एव। चानश् तु अविशेषेणेति विशेषो बोध्यः।।
करणे यजः ।। 85 ।।
करणे उपपदे भूतार्थाद्यजेः कर्तरि णिनिः स्यात्। अग्निष्टोमेनेष्टवानग्निष्टोमयाजी। अग्निष्टोमेन करणेन स्वर्गं भावितवानिति वृत्तिन्यासहरदत्तादयः। तेषां चायमाशयः। स्वर्गोत्पादनरूपे सामान्यव्यापारे। विशेष्यव्यापारे अग्निषअटोमाख्ये यागः करणं यद्यपि स्वयमसिद्धः साधनत्वापत्यनर्हतया अनुष्ठीयमानत्वात्कर्म तथापि शक्तिभेदात्करणत्वमप्युपपन्नम्। निपीयमानेन मधुना मत्तः कोकिल इति पानकर्मणो मधुनो मादनक्रियायां करणत्वदर्शनात्। यज्यादौ द्वे रूपे धातुत्वं सामान्यं यजित्वादिश्च विशेषः। तत्र दातुत्वेन धातुपात्तां भावनां प्रति यजित्वादिना रूपेणोपस्थापितस्य अंशान्तरस्य करणत्वेनान्वयः। अतएव भावना तिङर्थ इति मीमांसकमतमुपेक्ष्यमिति।
इदं त्विह वक्तव्यम्। विधिवाक्ये यथा तथास्तु। इदं त्वनुवादवाक्यम्। अत्रच भावनाया अंशत्रयसाकाङ्क्षत्वं नास्त्येव फलाशस्य सामान्यतः स्वर्गादित्वादिना वा रूपेणाननुभवात्। अतोऽत्र यागस्वरूपमेव यजिनोपस्थाप्यते तृतीयया तु विधिवाक्यप्राप्तकरणत्वस्यैवानुवादः। समे दर्शपूर्णमासाभ्यां यजेतेत्यादिवत्।
विधाने चानुवादेच यागः करणमिष्यते।
तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति।।
इति वार्तिककृतोक्तेः विधिवाक्ये आक्षेपेण प्रतीतस्य साध्यत्वस्यानुवादवाक्येषु नानुवादोऽपितु तत्र प्रतीतस्य करणत्वस्यैवेति तदर्थात्। अतो वैयाकरणमतेऽपि ज्योतिष्टोमाभिन्नयागकरणकभावनाध्वंसाश्रय इत्येव धीर्युक्ता। मीमांसकमते तु भावनायास्तिङर्थत्वादाक्षेपे चात्र मानाभावात्। ज्योतिष्टोमाख्ययागध्वंसाश्रय इत्येवेति दिक्।
कर्मणि हनः ।। 86 ।।
सहेचेत्येतत्पर्यन्तं कर्मणीत्यधिकारः। पितृव्यं हतवान् पितृव्यघाती। अत्रवृत्तिः। `कुत्सितग्रहणं कर्त्व्यम्'। इह न चोरं हतवानिति। इदंचकर्मणीनिरिति सूत्रे वक्ष्यमाणस्य कुत्सितग्रहणस्येहापकर्षलभ्यम्। पितृव्यवधादिकां प्रति सिद्धक्रियां कुर्वाणो यः कर्ता कुत्स्यते तत्र भवति नान्यत्रेति न्यासकारः। अन्ये तु भाष्यानुमपि शब्दशक्तिबलाल्लभ्यत इत्याहुः।
ब्रह्मभ्रृणवृत्रेषु क्विप् ।। 87 ।।
हनो भूते एषु क्पिप्। ब्रह्महा भ्रृणहा वृत्रहा। नियमार्थं सूत्रम्। सच धातूपपदकालप्रत्ययानां चतुर्णामिति वृत्तिः। धातुकालयोरेवेति भाष्यम्। तत्र वृत्तेरयमभिप्रायः। तथाच यत्रैवपपदेषु हन्तेर्भूते क्विबिति अत्र वाक्यस्य रूपम्। तथाच यत्रैवपपदेषु हन्तेर्भूते क्विबिति अत्र वाक्यस्य रूपम्। तथाच यत्रैवकारो ततोऽन्यत्रावधारणमिति न्यायात् ब्रह्मादिष्वेवेत्यवधारणस्यानन्तर्याद्धन्तिविषयं भवति ब्रह्मादिभिन्नोपपदसंन्बन्धनिवृत्तिफलको धातुनियमः। अत्रच भूत इत्यश्रयणात् कालान्तरेऽन्योपपदादपि क्पिप् भवत्येव। पुरुषं हन्ति हनिष्यति वा पुरुषहेति। ब्रह्मादिषु हन्तेरेव भूते इत्यत्र तु आनन्तर्यसाम्येऽपि प्राथम्यादुपपदनियमः। अत्रापि भूत इत्याश्रयणात्कालान्तरेऽन्यस्मादपि धातोर्भवत्येव। वृत्रं जयति जेष्यतिवा वृत्राजिदिति। ब्रह्मादिषु हन्तेर्भूते एव क्विविति प्रकृतिप्रत्यययोरानन्तर्यतौल्येऽपि प्राधान्यात्प्रत्ययनियमः। अत्र ब्रह्मादिष्वित्याश्रयणात् पुरुषहेति प्राग्वत्सिद्धम्। ब्रह्मादिषु हन्तेर्भूते क्विबेवेति कालनियमः। अत्राप्युपपदान्तरे भूतेऽपि प्रत्ययान्तरं भविष्यत्येव। पितृव्यघातीति। नियमस्य सोपपदमात्रविषयकत्वात् मध्येपवादन्यायाच्च वृत्रं हतवानिति निष्ठा भवत्येव। तस्माद्विनिगमकाभावाच्चतुर्विधोऽत्र नियम इति सिद्धम्।
एतच्च भाष्यविरोधादुपेक्ष्यम्। ब्रह्मादिष्वेव हन्तेर्भूते क्पप् नोपपदान्तरे इति धातुनियमः। तेन पुरुषं हतवानित्यत्र नक्विप्। ब्रह्मादिषु हन्तेर्भूते क्विबेव भवति न प्रत्ययान्तरमिति क्विपि भूतकालो नियम्यते इति कालनियमः। तेन ब्रह्मादावुपपदेहन्तेर्मूते कर्मणि हन इति णिनिर्न भवति। अतएवोपपदान्तरे भूतेऽपि क्विप्‌सिध्यर्थ उत्तरसूत्रं संगच्छते। तथाच ब्रह्मादिषु हन्तेरेव भूते क्विबित्युपपदनियमो ब्रह्मादिषु हन्तेः क्विप् भूते एवेति प्रत्ययनियमश्चेति द्वयं भाष्यानारूढत्वादुपेक्ष्यमिति कैयटः। तेनान्योपपदाद्धन्तेर्भूते क्विप् ब्रह्माद्युपपदाद्धन्तेरपि कालान्तरे भवत्येव। पुरुषं हतवान् पुरुषहा। ब्रह्म करोति ब्रह्मकृदिति बोध्यम्। धातुकालनियमाश्रयणे च लक्ष्यानुरोध एव बीजम्। तेन विनिगमकाभावो निरस्तः। भाष्यानुसारेणैव लक्ष्यव्यवस्थितिसिद्धेः। यत्तु अत्र वीजमुक्तम्। धातुकालयोः प्रकरणलक्षणजधन्य प्रमाणेन, उपपदप्रत्ययौ तु श्रुत्योपस्थितौ। अतः प्रकरणोपस्थितविषय एव नियमो युक्त इति। तन्न। धातुकालान्वयव्यतिरेके वाक्यार्थनिष्पत्तेश्चतुर्णा मपि साम्यात्। प्रकरणोपस्थितिस्तु श्रुतिविरोध एव दुर्बला। नह्यत्र श्रुत्या तद्बाधो विरोधाभावात्। किन्तु कल्पनीयवाक्यान्तरेणेति बोध्यम्।।
बहुलं छन्दसि ।। 88 ।।
उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात्। यो मातृहा पितृहा। मातृघातः।
सुकर्मपापमन्त्रपुण्येषुकृञः ।। 89।।
सौ कर्मादिषु च कृञः क्विप्। कर्मणीत्यनुवृत्तस्यापि सुशब्देन समं नान्वयोऽव्ययत्वेन कर्मत्वानुपपत्तेः। कालोपपदप्रत्ययविषयस्त्रिविधो नियम इति वृत्तिः। बहुलग्रहणलभ्येचैतदितिन्यासकारः। सुकृत् कर्मकृदित्यादि। भूते एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां नक्विपि। स्वादिषु कृञ एवेति नियमात् मन्त्रमधितवान्मन्त्राध्या इत्यत्र नक्विप्। स्वादिषु कुञएवेतिनियमात्कर्मकृतवानित्यत्र नाण्। स्वादिष्वेव कृञ एवेति नियमाभावादुपपदान्तरेऽपि क्विप्। शास्त्रकृत् भाष्यकृत्।
सोमे सुञः ।। 90 ।।
सोमं सुतवान् सोमसुत्।
अग्नौ चः ।। 91 ।।
चितवानग्निमग्निचित्। उभयत्र चतुर्विधो नियम इति वृत्तिः।
कर्मण्यग्न्याख्यायाम् ।। 92 ।।
कर्मण्युपपदे तत्रैव कारके चिञः क्विप्। अग्न्याधानस्थलविशेषाख्यायाम्। श्येन इव श्येनचित्। इष्टकाभिश्चयनेन श्येनाकारतया संपादित इत्यर्थः।
कर्मणीनिर्विक्रियः ।। 93 ।।
विपूर्वात्क्रीणातेः कर्मण्युपपदे इनिः स्यात्। `कुत्सितग्रहणं कर्तव्यम्'। इदंच पुनः कर्मग्रहणलभ्यम्। सोमविक्रयी। घृतविक्रयी। तस्य प्रत्यवायजनकत्वात्तत्कर्तुः कुत्सितत्वम् कुत्सिते किम्। धानविक्रायः।
दृशेः क्वनिप् ।। 94 ।।
अन्येभ्यो पि दृस्यते इति सिद्धे नियमार्थम्। तेन मनिनादेरणादेश्च निवृत्तिः। निष्ठा तु भव्तयेव। पारं दृष्टवानिति। पारं दृष्टवान् पश्यति वा परदृश्वा। प्रत्ययान्तरनिवृत्यर्थताया वृत्तिकारादिभिरुक्तत्वेऽपि कालान्तरनिवृत्त्यर्थताया अनुक्तत्वात्।
राजनि युधिकृञः ।। 95 ।।
क्वनिप् स्यात्। युधिरन्तर्भूतणिजर्थः। राजानं योधितवान् राजयुध्वा राजकृत्वा।
सहे च ।। 96 ।।
कर्मणीति निवृत्तम्। सहशब्दस्यासत्त्वार्थत्वात्। कथयति परिश्रान्तिं रात्री तमः सहयुध्वनाभिति श्रीहर्षः। सुत्राम्णो विजयसहकृत्वा दशग्थ इति मुरारिः।
सप्तम्यां जनेर्डः ।। 97 ।।
सरसिजम्। स्फुरदुरसिजभारभङ्गुरांगी। हलदन्तादित्यलुक्। मन्दुरायां जातो मन्दुरजः। ङ्यापोरिति ह्रस्वः।
पञ्चम्यामजातौ ।। 98 ।।
जातिशब्दभिन्ने पञ्चम्यन्ते उपपदे जनेर्डः। संस्कारजः। अदृष्टजः।संस्कारत्वमदृष्टत्वंच नजातिर्व्यवस्थापकाभावादिति वैशेषिकाः।
उपसर्गे च संज्ञायाम् ।। 99 ।।
प्रजायते इति प्रजा। प्रजा स्यात्संततौ जने धातूपपदप्रत्यय समुदायेन संज्ञायां गम्यायां।
अनौ कर्मणि ।। 100 ।।
अनुपूर्वाज्ज नेः कर्मण्युपपदे डः। पुमांसमनुरुध्य जाता पुमनुजा। स्त्र्यनुजः अनुरोधविशिष्टं जननं जनेरर्थः। तदेकदेशानुरोधापेक्षया कर्मत्वम्।
अन्येष्वपि दृश्यते ।। 101 ।।
उपपदान्तरेऽपि जनेर्डः। अजः ब्राह्मणजः। सप्तमीनिर्देशादुपपदान्तरमेव लब्धम्। अतो धात्वन्तरलाभार्थमन्येभ्योऽपि दृश्यते इत्यपि वक्तव्यम्। तेन क्विचित्कारकान्तरेष्वपि धात्वन्तरादपि। परितः खाता परिखा । यत्तु अन्तात्यन्तेति सूत्रेऽन्यत्रापि दृश्यते इति वार्तिकम्। तद्भतकालव्यतिरेकेऽपि तदर्थम्। वस्तुतस्तु प्रकृतसूत्रेऽपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात्तदेतच्चेति वार्तिकद्वयमप्यनारभ्यम्। इकोगुणेति सूत्रे गमेरप्ययं डो वक्तव्य इति भाष्यस्वारस्यात्।
निष्ठा ।। 102 ।।
भूतार्थवृत्तेर्धातोः क्तक्तवत् स्तः। आद्यो भावकर्मणि अन्त्यः कर्तरीति विवेकः। ननु इहैव क्तक्तवतू निष्ठेति संज्ञा कार्या। यौ भूते क्तक्तवतू(तौ)निष्ठासंज्ञो। विशिष्टानुवादसामर्थ्याद्‌भूते तयोर्विधानमनुमेयम्। अन्यथा विहितयोः संज्ञा संज्ञया च विधानमित्यन्योन्याश्रयः। नच सिद्धं तु नित्यशब्दत्वादित्ययं परिहारः। मृजेर्वृद्धिरित्यादिना हि प्रयोगसमवेतानामाकारादीनां साधुत्वमन्वाख्यायते क्तक्तमानार्थकयोः संज्ञानुपपत्तेः। नचान्योन्याश्रयः। निष्ठेत्युक्ते संज्ञावाक्यस्मरणात्सामर्थ्यात्तद्विधानोपपत्तेः।
`आदिकर्मणि निष्ठा वक्तव्या'कर्मशब्दोऽत्र क्रियापरः। समुदायघटकयत्किञ्चिद्‌व्यापारव्यक्तिष्वतीतासु समुदायरूपक्रियाया भूतत्वाभावान्सूत्रेणाप्राप्तावारम्भः। आद्यकर्मणो यत्किञ्चिद्व्यापारस्य भूतत्वे निष्ठोति वार्तिकार्थः। अयंच कर्तर्य्यपीति वक्ष्यते। नच तदनुवादसामर्थ्या देवादिकर्मणि निष्ठासिद्धिः। वर्तमानार्थकनिष्ठापरतयापि तदुपपत्तेः।
भष्यकारास्त्वाहुः। यस्या व्यापार व्यक्तोरतीतत्वं तद्विवक्षया सूत्रेणैव सिद्धम्। अत एव प्रकृतः कटं देवदत्तः प्रकरोति कटे देवदत्तः इति लट इव प्राकर्षित्कटं देवदत्त इति लुङोऽपिप्रयोगस्येष्टत्वात्। तस्य चाद्यव्यापारविवक्षाव्यतिरेकेण दुरुपपादत्वात्। उक्तंच हरिणा-
समूहः स तथाभूतः प्रतिभेदं समूहिषु।
समाप्यते ततो भेदे कालभेदस्य सम्भवः।।
समुदायाभिप्रायेण तु कटं प्रकरोतीत्येव सिद्धमिष्टम्।
सुयजोङर्वनिप् ।। 103 ।।
सुत्वा सुत्वानौ। यज्वा तु विधिनेष्टवान्।
जीर्यतेरतृन् ।। 104 ।।
जरन् जरन्तौ। वासरूपविधिना जीर्णो जीर्णवात्।
छन्दसि लिट ।। 105 ।।
भूतसामान्ये। अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथीवि आततान।
लिटः कानज्वा ।। 106 ।।
चक्राणा वृष्टिम्।
क्वसुश्च ।। 107 ।।
योनो अग्ने अररिवाँ अघायुः। रादाने। आदन्तत्वाद्वस्वेकाजितटि। नञ् समासे पूर्वपदप्रकृतिस्वरः। दीर्घादटीति नस्य रुत्वम्। आतोटि नित्यमिति अनुनासिकः। ननु वावचनं व्यर्थम्। नच लादेशेषु नासरूपविधेरभावात्पक्षे लिडादेशश्रवणार्थम्। छन्दसि लुङ् लिट इत्येव सिद्धेः। मैवम्। उत्तरार्थत्वात्। अथोभयोरपि कित्त्वं किमर्थम्। असंयोगाल्लिट् किदित्येव सिद्धेः। नच वद्ब्रधानेत्यत्र बधबन्धने इत्यस्मात्कानचि छान्दसत्वाद्धलादिः शेषाभावे कित्त्वेनानुनासिकलोपार्थं तत्। संयोगान्तत्वादसंयोगादित्यस्यानवकाशात्। मैवम्। अञ्जेः क्वसौ आजिवानित्यत्र नलोपार्थं चेति वाच्यम्। (1)छन्दस्युभयथेति सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वेनैव नलोपसिद्धेः। सत्यम्। ऋकारान्तगुणप्रतिषेधार्थं अन्यथा तेरतुरित्यादाविक तितिराण इत्यादौ ऋच्छत्यॄतामिति गुणापत्तेः। नह्येतन्ङित्वनैव वार्यम्। प्रतिषेधविषये एव विधानात्। कित्त्वसामर्थ्यात्तु तद्ब्राधात्। एतेन कित्करणसामर्थ्याद्भाषायामप्यनयोः साधुत्वकल्पनमपास्तम्।
भाषायां सदवसश्रुवः ।। 108 ।।
एभ्यो भृतसामान्ये वा लिट् तस्य च नित्यं क्वसुः। तथाहि `भाषायां सदादिभ्यो वा लिट्' इति वार्तिकम्। अन्यथादेशविधानसामर्थ्यात्सदादिभ्यो भृतसामान्येऽनुमीयमानो लिट् लुङो बाधकः स्यात्। लुङो ह्यपवादत्रयम्। एतत्सूत्रानुमिति लिट्। अनद्यतने लङ्। परोक्षे लिट् च। यत्रापवादविप्रतिषेधाल्लङ् लिटावेव स्याताम्। भूतसामान्यस्यावकाशत्वात् पोक्षे लिडित्यस्यात्राप्रकृतत्वेन तस्य क्वस्वादेशविध्यस्वभावात्।
`अनद्यतनपरोक्षयोश्च वा लिड् वक्तव्यः'। उपसेदिवान् कौत्सः। उपासदत्। उपासीदत्। उपससाद। `तस्य क्वसुरपरोक्षेवणार्थं अपरोक्षेति। अनद्यतनेपि वार्तिकेन वा विहितस्य लिटोऽप्रवृत्तौ लङ् लिटौ भवतः। परोक्षे लिडित्यस्य तु क्वस्वभावात्तिङादेशाः।
भाष्यकारास्त्त्वाहुः-अत्र वेत्यनुवृत्तं लिटा सम्बध्यते न क्वसुना। लिडभावपक्षेलुङ्। ततो लङ्‌लिटोर्विधावप्येतत्सूत्रानुवृत्त्या अनद्यतनपरोक्षयोरपि सदादिभ्यो वा लिड्‌भवतीति सिद्धम्।
उपेयिवाननाश्वाननूचानश्च ।। 109 ।।
एते निपात्यन्ते। उपेत्यतन्त्रम्। उपेयिवान्। ईयिवातन्। समीयिवान्। भूतसामान्ये वा लिट् क्वसुश्चेति। समिति प्राग्वत्। अटद्भिरुच्चैरटवीत्वमीयुषी। नञ् पूर्वादश्रातेः क्वसुरिडभावश्च। अनुपूर्वाद्वचेः कर्तरि कानच्।
अनुचानः प्रवचने साङ्गेऽधीति गुरोस्तु यः।
ईयिवानित्यत्रेणो लिट् क्वसुः। इडागमात्पूर्वं नित्यत्वादिदूर्वचनं दीर्घ इणः कितीत्यभ्यासदीर्घः। तत्सामर्थ्यान्नैकादेशः। नचेयतुरित्यादिर्दीर्घावकाशः। तत्रापि यणादेशस्य स्थानिवद्भावेनैकादेशप्रसङ्गात्। पूर्वपरोभयविधेरपि पूर्वविधित्वात्। ततश्च वलादिलक्षणेटो `नेड्‌वशि कृती'ति निषेधे, क्रादिनियमात्प्राप्तौ वस्वेकाजाद्धसामिति एभ्य एव वसोरिट् नान्येषामिति नियमेन निषिध्यते। उक्तरीत्या एकाच्त्वाभावाद्। तथाच पूर्वएव इडत्रनिपात्यते इति स्वीकारे विशेषानुपादानात्संप्रसारणस्थलेऽपि इडापत्तिः। तस्माद्वस्वेकाजिति निषिद्धस्य प्रतिप्रसवमात्रं क्रियते इति वलादावेवेट् नत्वजादाविति नदोषः। तस्माद्द्विर्वचनेऽभ्यासदीर्घ चैकादेशः। तस्येयादेशो निपात्यते। इयादेशस्य निपातनेतु ईयिवानित्यादि न स्यात्। नच दीर्घ एकादेशबाधकः। इणो यणित्यस्यैव तथात्वात्। अत्रच तन्निमित्तत्वाभावेन एकादेशस्यसुस्थत्वात्। नचाभ्यासदीर्घोत्तरं वार्णादाङ्गमिति न्यायेन एकादेशं बाधित्वा हणोयणादेशे तस्य स्थानिवद्भावादेकादेशप्राप्तेरुक्तत्वात्। अभ्यासदीर्घत्वमेकादेशबाधकमिति कथमेतदिति वाच्यम्। रूपानतिदेशादिकारस्वरूपाश्रयस्यैवकादेशस्य यकारे प्राप्त्यभावात्। पूर्वं वाधितस्यैकादेशस्य स्थानिवद्भावेऽपि बाधितत्वाच्च। पूर्वपरयोर्विधौ स्थानिवद्भावाभावाच्च।
यद्वा अभ्यासदीर्घे कृते तदूत्तरस्य इकारस्याप्राप्त एव यणादेशो हलादौ निपात्यते ततो वस्वेकाजित्यनेनैव इड् भवतीति नाजादावतिप्रसङ्गः। अपर आह-

नोपेयिवान्निपात्यो द्विर्वचनादिड्‌भवति परत्वात्।
अन्येषामेकाचां द्विर्वचनं नित्यमित्याहुः।
अस्य पुनरिट् च नित्यो द्विर्वचनं नच विहन्यते ह्यस्य।
द्विर्वचनं चैकाच्त्वात्तस्मादिढ् बाधते द्वित्वम्।
अस्यार्थः-इणो भाषायां भूतसामान्ये लिडेव विभाषा विधेयः। तस्यच नित्यं क्वस्वादेशः। द्विर्वचनं बाधित्वा परत्वादिटः पूर्वं प्रवृत्तेः। नच बिभिद्वान् चिच्छिद्वान् इत्यादावतिप्रसङ्गः तस्य द्विर्वचनस्य नित्यत्वात् ततोऽनेकाच्त्वादिटो विघाताभावात्। तथाच परत्वान्नित्यत्वाच्च इट्‌सिद्ध एवेति न क्विञ्चिन्निपात्यमिति।
लुङ् ।। 110 ।।
भूतसामान्ये धातोर्लुङ्। अपाक्षीत्। सामान्यविवक्षायां लुङ् विशेषविवक्षायां वक्ष्यप्राणौ लङ्‌लिटाविति विवेकः। `वसेर्लुङरात्रिशेषेऽनद्यतेन जागरणसंतताविति वाच्यम्'। रात्रेराद्ययापत्रयं जागरित्वा चतुर्थे यामे यदाऽमुत्रावात्समिति प्रयुङ्क्ते तदातिक्रान्तरात्रिप्रहरत्रयवासस्यानद्यतनत्वाल्लङ्‌प्रसङ्गे लुङ् विधीयते। जागरेति किम्। यदा प्रहरत्रयमध्ये किञ्चिदपि जागरित्वा चतुर्थे प्रयुङ्क्तेऽमुत्रावसमिति लङेव यथा स्यात्।
अनद्यतने लङ् ।। 111 ।।
भूतानद्यतनक्रियावृत्तेर्धातोर्लङ्। संपूर्णो दिवसस्तुत्पूर्वोत्तरवर्तिन्यो रात्र्योश्चरमप्रथमयामौ चेत्येतावान्समयोऽद्यतनस्तद्भिन्नोऽनद्य तन इति संप्रदायः। दिवसश्च शब्दप्रयोगाधिकरणं ग्राह्यो नतु शाब्दबोधाधिकरणम्। प्रयोगाधिकरणादिनाऽतीतस्यापि भाविदिनवृत्तिशाब्दबोधापेक्षयानद्यतनत्वेन लङ् प्रयोगापत्तेः। अपचत्। न विद्यतेऽद्यतनो यस्मिन्सोऽनद्यतनः तेन द्वयोर्विषये लुङेव। अद्य ह्यश्चाभुंज्महि। नचैवमद्यतनेऽप्यद्यतनाभावेन लङापत्तिराधाराधेयभावस्य भेदनिबन्धनत्वादिति वाच्यम्। समुदायावयवयोर्भेदमाश्रित्य समुदायेऽद्यतने अवयवा अद्यतनाः सन्तीत्युपपत्तेः। तदाह हरिः।
कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः।।
नच निर्देशमात्रेण व्यतिरेकोऽनुगम्यते।
अद्यतनकालोपाधीनां भूयस्त्वात् एकस्मिन्नपरस्य वृत्तिः सम्भवत्येव। परन्तु नैकेन रूपेण इदानीमिदानीमिति प्रत्ययाभावात्। भिन्नरूपेण तु भवत्येव। `परोक्षे विज्ञाते प्रयोक्तुर्दर्शनाविषये लङ्‌वक्तव्यः'। अरुणद्यवनः साकेतम्। प्रयोक्तृममानकालीनतया तत्प्रत्यक्षयोग्ये परोक्षेऽप्यर्थे प्रयोक्त्रा विज्ञाते लङित्यर्थः। परोक्षे किम्। उदगादादित्यः। विज्ञाते। किम्। चकार कटं देवदत्तः। दर्शनविषये किम्। जघान कंसं किल वासुदेवः।
अभिज्ञावचने लृट् ।। 112 ।।
अभिज्ञा स्मृतिः यत्तु यां काञ्चित्ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां चितावित्यत्र `वचनान्मध्यमायां स्युः। प्रत्यक्षब्राह्मणोदिताः'। जानातिरभिपूर्वोऽयं प्रत्यक्षे वर्तते इति मीमासकैरुक्तम्। तत्प्रायिकम्। स्मृतिवाचकत्वं च न स्मृतित्वावच्छिन्नशक्यताकत्वं किन्तु स्मृतितात्पर्येण प्रयुक्तत्वं तेन बुध्यादीनां ज्ञानार्थानां च संग्रहः। स्मृतिवाचिन्युपपदे भूतानद्यतनेऽर्थे धातोर्लृट्। लङोऽपवादः। अभिजानासि काश्मीरेषु वत्स्यामः।
न यदि ।। 113 ।।
यद्योगे उक्तं न। स्मरसि देवदत्त यत्काश्मीरेषु अवसाम।
विभाषा साकाङ्क्षे ।। 114 ।।
धात्वर्थस्य लक्ष्यलक्षणभावेन साकङ्क्षत्वेन उक्तविषये वा लृट
्। `सर्वत्रेति वक्तव्यम्'। यद्योगे तदभावे चेत्यर्थः। यदीत्यस्यानुवृत्त्योभयत्र विभाषेयम्। स्मरसि देवदत्त यत्काश्मीरान् गमिष्यामः। यत्तत्रौदनं भोक्ष्यामहे। स्मरसि देवदत्त काश्मीरान् गमिष्यामः तत्रौदनं भोक्ष्यामहे। उभयत्राप्यगच्छामाभुंज्महि इति वा। गमनं लक्षणं प्रसिध्या परार्थमुपादीयमानत्वात्। भोजनं लक्ष्यं स्मार्यमाणत्वात्।।
परोक्षे लिट् ।। 115 ।।
भूतानद्यतनपरोक्षार्थक्रियावृत्तेर्धातोर्लिट्। अत्र वार्तिकम्। परभावः परस्याक्षे परोक्षे लिटि दृश्यते।
उत्वं पादेः परादक्ष्णः सिद्धं वा स्यान्निपातनात्।
अस्यार्थः। परोक्षे लिटीत्येतत्सूत्रस्थत्वेन परोक्षशब्दोपलक्षणम्। परमक्ष्णः परोक्षम्। मयूरव्यंसकादित्वात्समासः। अक्षिच बाह्येन्द्रियमात्रपरम्। अतएवाक्ष्णोऽदर्शनादित्यजिति केचित्। यद्वा अच्‌प्रत्यन्ववेति। योगविभागात्रैव निपातनाद्वा समासान्तोऽच्। प्रतिपरसमनुभ्योऽक्ष्ण इति टच् वा। तस्याव्ययीभावविधानेऽपि परश्बदस्याक्षशब्देन सह तदसंभवेन समासान्तरे प्रवृत्तेः। परत्वंच तज्जन्यज्ञानविषयत्वानापन्नत्वम्। अन्यथा तस्यापि साक्षात्कारयोग्यत्वात्परोक्षत्वानुपपत्तेः। साक्षात्कारश्च प्रयोक्तृवृत्तिर्ग्राह्यः। तथाच ह्यः पपाचेति प्रयोगः।
यत्तु भाष्ये वर्षशतवृत्तं परोक्षं वर्षसहस्रं वृत्तं वा कुडयकटान्तरितं वा द्व्यहवृत्तं वा व्यहवृत्तंवेति पक्षा उक्तास्ते प्रदर्शनमात्रार्थाः। यद्यापि क्रियाया अयुगपद्भाविव्यापारसमूहरूपत्वात्तत्साधनीनां च शक्तीनां नित्यानुमेयत्वात्परोक्षत्वनियमादेतद्विशेषणमनुपयुक्तम्। तथापि शक्तिमतो द्रव्यस्य परोक्षत्वमिहविवक्षणी.म्। तत्प्रत्यक्षपरीक्षत्वाभ्यां क्रियाप्रत्यक्षत्वपरोक्षत्वाभिमानात्। नचैवमयं पपाचेति न स्यात्। शक्तिमतो देवदत्तस्य प्रत्यक्षत्वादिति वाच्यम्। तद्व्यापार व्यक्त्याविष्टस्य परोक्षतायावाच्यत्वात्।।
केचित्तु क्रियाया एव अत्र परोक्षत्वं व्याख्येयम्। समुदायस्य परोक्षत्वेऽपि प्रत्येकमपरोक्षत्वात्। पिण्डीभूता नशक्या निदर्शयितुमिति भाष्यस्वारस्यात्। धातुपदस्य क्रियापरत्वे स्ववाच्यत्वं सम्बन्धः। साधनपरत्वे स्वार्थसाधनत्वमिति लक्ष्यतावच्छेदकसम्बन्धलाघवस्यैव विनगमकत्वात्। प्रत्येकं क्रियात्वाभावेऽपि धात्वर्थत्वानपायादित्याहुः।
तच्चिन्त्यम्। त्समुदायघटकसर्वव्यापाराणां प्रत्येकं प्रत्यक्षस्थलेऽपि लिडापत्तेः। समुदायस्य परोक्षतायास्तत्रापि सुस्थत्वात्। तथाच परोक्षविशेषणमेव निष्प्रयोजनं स्यात्। नन्ववयवानामेवेह पारोक्ष्यं विवक्षितमितिचेत् कतिपयानां, यावतां वा, नान्त्यः। वैयर्थ्यतादवस्थ्यात्। नाद्यः। अपसिद्धान्तात्। व्यपारैकदेशसाक्षात्कारेऽपि लिट्‌प्रयोगस्यानिष्टत्वात्। अन्यथायदातेन स्थाल्यां तण्डुलोदकं दृष्टं तदा साधनपरोक्षेव्यापारपरोक्षे वा सूत्रार्थेपपाचेति भवत्येवेति भाष्यविरोधात्। यावव्द्यापारपरोक्षस्यैव तत्रोक्तत्वात्। क्रियाविष्टकर्तृसावनप्रत्यक्षेऽपि साधनान्तराप्रत्यक्षसत्वेन क्रियानाविष्टत्वस्य वैयर्थ्यापत्तेः।
एवं भूतत्वमपि अवयवस्यैव विशेषणं स्यात्। अवयवस्य परोक्षान्वयितावच्छेदकत्वे तस्यैव भूतान्वयितावच्छेदकत्वात्। तथा च ह्यः पपाचेति प्रयोगे प्रकृतपाकानुकूलव्यापारत्वावच्छेदेन भूतान्वये बोधानुपपत्तिरिति दिक्।
`सुप्तमत्तयोरुत्तम इति वक्त्वयम्'। सुप्तेऽहं किल विलललाप। बहु जगद पुरस्तात्तस्य मत्ता किलाहम्। इदं च चित्तविक्षेपनिमित्तमात्रोपलक्षणम्। इदंच न्यायलक्ष्यम्। स्वव्यापारस्यापि व्यासंङ्गादिना स्वयमप्रतिसंधानसंभवात्।
`अत्यन्तापह्नवे चेतिवक्तव्यम्'। नो खण्डिकांजगाम नो कलिङ्गान् जगाम। निषिद्धदेशेषु चिरं त्वयोषितमित्युक्ते चिर वासनिषेधार्थं तद्देशगमनस्यापन्हवः। `नकारि (न)प्रपपौ नदाधजस्य प्रतिजग्राह को मे मनुष्यः प्रहरेद्वधाय'। अपह्नवत्वं स्वरूपसदेव नियामकम्। नतुशाब्दधीविषयः अपह्नवत्वव्याघातात्। कारी ऋत्विग्भूत्वा सोमं न पपावपिति यजमान एव भूत्वा अयाज्ययाजनमप्रतिषिध्य ऋत्विक्त्वमेवापहूनुतम्। दाधा जनपदविशेषः। तत्र जातस्य नाहं प्रतिजग्रहेति सर्वथा प्रतिग्रहापह्नवे निषिद्धप्रतिग्रहस्य सुतरामेव निह्नवः। कोमनुष्योममासत्यारोपणेन प्रहरेदित्यर्थः। व्याप्यनिषेधाबिप्रायेण तद्व्यापकनिषेधोऽत्यन्तापह्नव इति बोध्यम्। अथ कथं व्यातेने किरणावलीमुदयन इति। यत्तु आशंसायां भूतवच्चेति लिट् कर्तुमिच्छतीत्यर्थादिति तन्न। तत्र लुङ एवातिदेश इति सिद्धान्तात्।?
यद्पयाहुः। यद्यपि उत्तमपुरुषत्रयादेशविधानं यथासंख्यसंपादनेन चरितार्थं तथापि णलुत्तमो वेति ज्ञापकादपरोक्षेऽपि लिट् साधुरिति तन्न सुप्तादिविषये चरितार्थत्वात्। यत्त्वत्रापि ग्रन्थकरणरभसवशाच्चित्तविक्षेप इति तन्न। बहुतरमनः प्रणिधानसाध्य शास्त्रार्थनिर्णयजनकशब्दरचनान्मके ग्रन्थेऽनद्यतनत्वातीतत्वयोश्च विस्तारक्रियायामसंभवात्। सत्यम्। तिङन्तप्रतिरूपकनिपातइति केचित्। शिष्यलोकोयमित्यन्ये। इदंच वर्धमानतद्विवरणादौ स्पष्टम्।
हशश्वतोर्लङच ।। 116 ।।
अनयोर्योगे लिटो विषये लङ् चाल्लिट् इति हाकरोत् शशवदकरोत्। चकारच।
प्रश्ने चासन्नकाले ।। 117 ।।
सन्निहितसमये पृच्छयमानेऽर्थे पूर्ववत्। पञ्चवर्षाभ्यन्तरमासन्नम्। तदुत्तरमनासन्नमिति संप्रदायः अगच्छत्किम्। जगाम किम्। अनासन्ने तु कंसं जघान किम्।।
लट् स्मे ।। 118 ।।
स्मशब्दयोगे लट्। लिटोऽपवादः। धर्मेण स्म कुरवो युध्यन्ते। `स्मपुरा भूतमात्रे, न स्मपुराद्यतेन इति वक्तव्यम्'। स्मपुरेतिशब्देन आद्यन्तानुकरणद्वारा पञ्चसूत्री गृह्यते। तत्र भूतमात्रे प्रत्ययः। स्मपुराशब्दवत्सूत्रत्रयलक्षमस्तु प्रत्ययोऽद्यतने न भवतीति वार्तिकद्वयार्थः। तथाच लट्‌स्मे अपरोक्षेच पुरिलुङ्‌चास्मे इतिसूत्रत्रयेणानद्यतनभूतप्रत्ययः। ननौ पृष्टप्रतिवचने `नन्वोर्विभाषा'इत्येताभ्यां भूतसामान्ये इति पर्यवसन्नम्।
अत्र भाष्यम्-स्मादिविधिः पुरान्तो यद्य विशेषेण किं कृतं भवति।। नस्म पुराद्यनतन इति ब्रुवता कात्यायनेनेह।। अनुवृत्तिरनद्यतनस्य लट्स्म इत्यत्र नास्ति नञ्कार्यम्।। अपरोक्षानद्यतनौ ननौ विभाषा चहि निवृत्तौ।। नपुरानद्यतन इतिभवेदेतद्वाक्यं तत्रचापिलुङ्‌ग्रहणम्।। अविशेषेण स्मपुरा हेतू इति तत्रचापि शृणुभूयः।। अपरोक्षेचेत्येष प्राक् पुरिशब्दादिति निवृत्तः।। सर्वत्रानद्यतनस्तथासति नञा किमिह कार्यम्।। स्मादावपरोक्षेचेत्यकार्यमपि शक्यमेतदिति।। शक्यंहि निवर्तयितु परोक्षे इति लट्स्म इत्य.त्र।। स्यादेषा तव बुद्धिः स्मलक्षणेत्येवमेव सिद्धमपि।। लट्स्म इति भवेन्नार्थः तस्मा द्वाच्यं परार्थं तु।।
अयमर्थः-उक्तसूत्रत्रयेऽनद्यतनग्रहणानुवत्त्यैव सिद्धेः द्वितीयां वार्तिकं नकर्तव्यम्। ननावित्यादिसूत्रद्वयं च तदनुवृत्त्यभावेन तत्प्रवृत्तिसिद्धेः। नचैवं पुरिलुङ्चास्मे इत्यत्र तदनुवृत्तिर्नस्यादितिवाच्यम्। तस्य भूतसामान्यविषयकत्वलाभार्थं नपुराध्रौव्यमिति वाच्यम्। लुङ्ग्रहणसामर्थ्यादेव तत्रानद्यतनग्रहणानुवृत्त्यनुमानात्। अस्यभूतसामान्यपरत्वेविभाषानुवृत्त्या विक्लपेन लड्‌विधानादेव पक्षे लडःसिद्धेः। अनद्यतानानुवृत्तौ तु लुङ्ग्रहणं विना लुङ् दुर्लभः। विकल्पविधाने लडभावपक्षे लङ एवप्रसङ्गादिति विशिष्य तदुपादनसार्थक्यम्।
अपरोक्षे च ।। 119 ।।
भूतानद्यतने लट् स्मयोगे । एवं पिता ब्रवीति।।
ननौ पृष्टप्रतिवचने ।। 120 ।।
अनद्यतनपरोक्षेत्युभयं निवृत्तम्। ननुयोगे भूते लट् उत्तर वाक्ये। नच प्रतिवचनस्य प्रश्नपूर्वकत्वात्प्रश्नपदं व्यर्थम्। विरुद्धवचनाभिमुख्यतद्बीजानामपि वाच्यत्वात्। अपाक्षीः किम्। ननु पचामि भोः। `ननौ पृष्टप्रतिवचन इत्यशिष्यम्'। क्रियांसमाप्तिविवक्षितत्वात्। अस्यार्थः। पाकादिक्रियानिवृत्तावपि तत्कार्यस्य श्रमादेरनुवृत्तेस्तस्या एवासमाप्तिविवक्षायां वर्तमाने लडित्येव सिद्धम्। एतादृशवर्तमानानुपादाने ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणं पश्येति वर्तमानलडादेशयोः शतृशानचोरसिध्यापत्तेः।
नन्वोर्विभाषा ।। 121
अनयोर्योगे वा लट्। पक्षे लङ् पूर्वविषये। अपाक्षीः। किम्। न पचामि। नापाक्षम्। अहं नु पचामि। अहं न्वपाक्षमं।
पुरि लुङ् चास्मे ।। 122 ।।
अनद्यतनेत्यनुवर्तते। भूतानद्यतने पुरायोगे विभाषा लुङ् चाल्लिट् नतु स्म योगे। पक्षे लिट्। रथेनायं पुरा याति। रथेनायं पुरायासीत्। आयात् ययौ वा। स्मयोगेतु याति स्म पुरा। `हशश्वद्‌भ्यां पुरालक्षणो विप्रतिषेधेन'रथेन हपुरा शश्वद्याति। अयासीदित्यादि। स्मः सर्वेभ्यो विप्रतिषेधेन परपूर्वविप्रतिषेधाभ्यामित्यर्थः। तथाचास्मेग्रहणं नकर्तव्य मित्याशयः। यनह स्मावे शश्वत् पुराग्निरपरशुवृक्णं दहति।
वर्तमाने लट् ।। 123 ।।
प्रारब्धापरिसमाप्तक्रियोपलक्षिते कालेधातोर्लट्। पचति। करोति। `प्रवृत्तस्याविरामे नित्यप्रवृत्ते च शासितव्या भवन्त्यवर्तमानत्वात्'। भवन्तीति लट् संज्ञा प्राचाम्। इहाधीमहे। मध्ये भोजनादिक्रियाव्यवधानादप्राप्तिः। तिष्ठन्ति पर्वताः। स्रवन्ति नद्यः। स्थानादेः सार्वदिकत्वात्साध्यत्वाभावे क्रियात्वाभावात्क्रियाधर्मस्य वर्तमानत्वस्याप्यभाव इति वचनारम्भः। जन्यस्य प्रागभावधअवंसावश्यकत्वादद्वर्तमानत्वस्य च तत्प्रतिद्विन्द्वित्वान्नित्यप्रवृत्तस्य च भूतभविष्यत्वाभावेन वर्तमानत्वं क्रियात्वं च नास्तीत्यभिप्रायः। पर्वतादिपदं चात्माकाशादोर्नित्यस्योपलक्षणम्। पूर्वतादिस्थितेरनित्यत्वात्।
अत्र सिद्धान्तः। न्याय्यं त्वनपवर्गात्। अध्ययनप्रवृत्त्यनन्तरकालीनतत्समाप्तिपूर्वकालीनभोजनादेर्नान्तरीयकतया व्यवधायकत्वाभावात्तदवयवत्वाद्वा सूत्रेणैव सिद्धम्। अन्यथा भुङ्क्ते इत्यादावपि जलपानादिना व्यवधानापत्तेः। तदुक्तं हरिणा-
व्यवधानमिवोपैति विच्छिन्नमिव दृश्यते।
क्रियासमूहे भुज्यादिरन्तरालप्रवृत्तिभिः।।
नच विच्छिन्नरूपापि साविरामान्निवर्तते।
सर्वैवं हि क्रियान्येन सकीर्णेवोपलभ्यते।।
तदन्तराहलदृष्टा वा सर्वैवावयवक्रिया।
सादृश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते।।
पर्वतास्तिष्ठन्तीत्यादौच भूतभाविष्यद्वर्तमानानां राज्ञां याः क्रियाः ता भूतादिभेदभिन्नाः पर्वतादिस्थित्यादेर्भेदिका इत्युपपाद नीयम्। तदाह हरिः-
परतो भिद्यते सर्वमात्मा तु न विकल्प्यते।
पर्वतादिस्थितित्तस्मात्पररूपेण भिद्यते।।
प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः।
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः।
प्रसिद्धपरिमाणानां तत्क्रियाणामेव क्रियान्तरपरिच्छेदकतया कालरूपत्वात्कालस्य च क्रियाकारणत्वादित्यर्थः।
स्यादेतत्। निष्पन्नस्यार्थस्य भृतत्वादनिष्पन्नस्य च भावित्वात्प्रकारान्तराभावाद्वर्तमानकालो दुर्वचः। तदाहुः-
नवर्तते चक्रमिषुर्न पात्यते न स्यान्दन्ते सरितः सागराय। कूटस्थो लोको नविचेष्टितास्ति यो ह्येवं पश्यति सोपजनं वः।
मीमांसको मन्यमानो युवा मेधाविसंमतः।
काकं स्वोहानुयच्छति किं ते पतितलक्षणम्।
अनागतेन पतति अतिक्रान्ते च कारकः।
यदि संप्रति पतसि सर्वो लोकः पतत्ययः।
हिमवानपि गच्छति।
अनागतमतिक्रान्तं वर्तमानमिति त्रयम्।।
सर्वत्रच गतिर्नास्ति गच्छतीति किमुच्यते।
अयमर्थः-परिवर्तनक्रियायाअनेकक्षणवृत्तितया क्षणानां च यौगपद्याभावात्कथं तस्या वर्तमानत्वम्। स्थूलकालोपाधिमादायैक्योक्तौ तु युगादिरूपोपाधिमादाय तद्वृत्तिध्वंसप्रागभावदशायां प्रतियोगिनामपि वर्तमानत्वव्यवहारापत्तेः। नच यत्कालावच्छेदेन यस्य सत्वन्तस्य स एव वर्तमानकाल इतिवाच्यम्। सर्वस्य वर्तमानरूपतयात्माश्रयापत्तेः। नच सत्वं सम्बन्धमात्रं तद्धटितत्वमात्रस्य तदीयत्वे तद्‌ध्वेसप्रागभावसम्बन्धस्यातिप्रसक्तत्वात्। नच यस्य तत्त्प्रतियोगिकध्वेसादिवृत्तिप्रतियोगिताकत्वेऽपि विवक्षितस्य तद्वृत्तिप्रतियोगिताकत्वस्यास्याभावान्न दोष इति वाच्यम्। तत्प्रतियोगिकध्वंसाद्यधिकरणत्वसम्बन्धेन तत्सम्बन्धस्यापि ध्वंसादिकाले सत्त्वात्। नच यत्र समये यदत्यन्ताभावो नास्ति स तस्य वर्तमानकाल इति वाच्यम्। अप्रसिद्धेः। घटाधिकरणकालेऽपि घटात्यन्ताभावसत्त्वात्।
नच प्रतियोगिव्यधिकरणत्वेनाभावो विशेषणीयः। पूर्वापरकाले वर्तमानत्वाभिमतकालेऽपि तदत्यन्ताभावसत्त्वात्। नच प्राक्‌कालावच्छेदेन संयोगसमवायान्तयतरसम्बन्धेन प्रतियोग्यधिकरणे यदत्यन्तभावो नास्तीति वाच्यम्। व्यधिकरण सम्बन्धेन धर्मेणवावच्छिन्नप्रतियोगिताकत्वस्य घटाभावस्य तदापि भूतलकपालादौ सत्त्वात्। घटध्वंसप्रागभावकालीनपदार्थात्यन्ताभाववृत्तिघटात्यन्ताभावस्याधिकरणस्वरूपतया तादृशपदार्थात्यन्ता भावस्य घटवत्यपि सत्त्वाच्च।
नच भूतभविष्यद्भिन्नत्वं तत्। भूतत्वादेरपि भविष्यद्वर्तमानभिन्नत्वादिना निर्वाच्यत्वात्। अत्रोच्यते।
क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम्।
तदन्विष्य प्रयुञ्जीत गच्छतीत्यविचारयन्।
हेतुः प्रयोजनं गमनस्य देशान्तरप्राप्तिः तदर्थं फलार्थ। इह प्रत्यभिज्ञानात्। क्षणभङ्गनिरासे देवद्‌त्तस्य देशान्तरप्राप्तिर्निर्हेतुका न सम्भवति इति गमनक्रियैव तस्या निमित्तम्। तदालम्बनश्च गच्छतीति प्रत्ययोऽबाधित उत्पद्यते इति सत्त्व तावदवरम्यते। क्रियायाः वर्तमानत्वाभावे च भूतभविष्यतोरप्यभावप्रसङ्गः वर्तमाने हिभूतत्वं भविष्यत्वं च प्रतिपद्यते तत्रानेकक्षमसमूहात्मकं क्रियाप्रबन्धरूयं बुध्या संकल्प्य गच्छतीत्यादि प्रयुङ्क्ते इति कैयटः। अयं भावः-विद्यमानप्रागभावप्रतियोगी भविष्यन् तदुपलक्षितः कालोऽपि तथा(1)। ध्वंसप्रतियोगित्वादि मात्रस्यातीतादित्वे सर्वदा तत्प्रतीत्यापत्तेः। ननु स्वध्वंसादिघटितस्यास्य पर्वतास्तिष्ठन्तीत्यादावनुपपत्तिः। एतत्प्रयोगकाले पर्वतादिस्थितेरतीत्वाद्यभावात्। ध्वंसप्रागभावानवच्छिन्नसमय सम्बन्धस्य स्थितित्वात् `तम आसीत्तमसा गूढमग्रे तुच्छेनाभ्वपिहितं यदासीत् आत्मैवेदमग्रआसीदित्यादौ तु सुतरामितिचेत् सत्यम्। धर्मिसत्ताया एवात्र वर्तमानत्वमिति सिद्धान्तात्। वेदान्तिनां त्वस्ति ब्रह्मेत्यत्र लकारस्य प्रयोगमात्रसाधुत्वाङ्गीकारात्। नहि स्थितिक्रियायां ब्रह्मणः स्वातन्त्र्यरूपकर्तृत्वसम्भवः। नित्यत्वात्। नापिक्षेमसाधारणीसितेः साध्यता। स्वस्वव्याप्येतरासु यावतीषु व्यक्तिषु सतीषु(2)।।
लटः शतृशानचावप्रथमासमानाधिकरणे ।। 124 ।।
प्रथमाभिन्नविभक्त्यन्तेन सामानाधिकरण्ये लट एतौ स्तः। पचन्तं पचमानं वा पश्य। शकारः सार्वधातुकसंज्ञार्थः। ऋकार उगित्कार्यार्थः। चाकरः कुर्वाण इत्यादावन्तोदात्तार्थः। यद्यपि क्रियान्तरयोगनिमित्तकं अप्रथमासामानाधिकरण्यं पाचकं देवदत्तं पश्येत्यादौ कृदन्तपदस्योपसर्जनकर्तृप्रतिपादकतया तस्य दर्शनादिक्रियापेक्षकर्मत्वाद्युपपत्तेः। लकारस्तु कर्तृकर्मणोर्विहितोऽपि कर्तृकर्मोपसर्जनक्रियाप्रतिपादकः। पचत्योदनं देवदत्तः पच्यते ओदनो देवदत्तेनेत्यादौ क्रियाप्राधान्यव्यवस्थापनात्। क्रियायाश्च क्रियान्तरयोगाभावात्कर्मादिशक्त्यावेशानुपपत्तिः। अन्यथा अपचदोदनं देवदत्तं पश्येत्यादेर्दुर्वारत्वात्। लड्वाच्यायाः शक्त्यन्तरयोगो नतु लङादिवाच्याया इत्यस्य दुर्घटत्वात्। तथापि तिङ्‌भाविनो लकारस्य क्रियायां गुणभूते कर्त्रादौ, शत्रादि विषयस्यतु क्रियां प्रति विशेष्यभूते तत्र शक्तिः। पचन्तं देवदत्तं पश्येत्यादौ आदेशे विभक्त्यन्तरसामानाधिकरण्यदर्शनात्स्थानिन्यपि तदनुमानात्। नच लटः प्रयोगसमवायाभावादप्रथमासामानाधिकरण्याभावप्रत्यक्षेण सामान्यतो दृष्टानुमानबाधः। लकाराप्रयोगनिबन्धनत्वेन तदभावप्रत्यक्षस्यान्यथासिद्धेः। आदेशेऽप्रथमासामानाधिकरण्यान्यथानुपपत्तिमूलकानुमानस्यान्यथासिद्धतया बलवत्त्वात्। अतएवालातचक्रपत्यक्षं सर्वदगवच्छेदेन रूपानुभवेऽपि तत्सहचरितस्पर्सानुपलम्भभ्रमः। तदुक्तं हरिणा-
स्पर्शप्रबन्धो हस्तेन यथा चक्रम्य संमतः।
न तथालाचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ।।
अतएव ज्वालौक्यबुद्धेरपीयमेव गतिरिति सिद्धान्तः।
अथ पर्युदासोऽयं प्रतिषेधो वा?।। नाद्यः। प्रत्ययोत्तरपदयो स्तदसिद्धेः। कुर्वतोऽपत्यं कौर्वत इत्यादौ शत्रन्तस्य देवदत्तादिसापेक्षतायामसामर्थ्यात्तद्धितानुपपत्तेः। पदान्तरनैरपेक्ष्येच तत्सामानाधिकरण्याभावाच्छत्रादेरनुपपत्तेः। कुर्वतोभक्तिः कुर्वभ्दक्तिः। पूर्वपद्योज्यम्। नान्त्यः। कुर्वती चासौ भक्तिश्चेत्यादेरनुपपत्तेः। एवं कुर्वत्तर कुर्वद्रुपः। कुर्वत्कल्प इत्यादीनां समानाधिकरणवृत्तितद्धितानामप्यनुपपत्तिर्बोध्या। देवदत्तादिपदान्तरसामानाधिकरण्यात्। ननु प्रत्ययोत्तरपदयोश्चेति वचनान्तरमारम्भणीयम्। पृथगुत्तरपदग्रहणं अन्तङ्गानपीति न्यायेन लुकि कृते प्रत्ययलक्षणप्रतिषेधात् प्रत्यये परतः शत्रादेशविधेस्तत्राप्रवृत्तेः। अतो नोक्तदोषः।
मैवम्। तदुक्तम्। `प्रत्ययोत्तरपदयोर्निमित्तत्वादेरप्रसिद्धि'रिति। प्रत्ययादेशयोः परस्पर निमित्तत्वात्। सत्युत्तरपदे शतृशानचौ तयोश्च कृत्संज्ञायां सुबुत्पत्तिः। सुब्निमितः समासः तन्निमित्तं चोपपदमिति इतरेतराश्रयस्य स्पष्टत्वात्।
अत्र सिद्धान्तः। `नवा लकारस्य कृत्त्वा'दिति। अयमर्थः-तद्भिन्नप्रत्ययत्वेन लकारस्यापि कृत्संज्ञया तदन्तस्य प्रातिपदिक संज्ञायां तदाश्रयसुबुत्पत्त्या अणादितरबादीनामुत्पत्तौ तेषु परेषु शत्राद्यादेशविधानान्न दोषः उत्तरपदस्थलेऽपि तिङादेशं बाधित्वा परत्वात्सुबुत्पत्तेः। नच पचतीत्यादावतिप्रसङ्गः। कृताकृतप्रसङ्गित्वेन तत्र तिङादेशस्य नित्यत्वात्। नच प्रकृतेऽपि तथापत्तिः। शतृशानचोस्तिङपवादतया तद्विषये तत्प्रवृत्यनौचित्यात्। नचैवमपि वैक्ष्यमाणिरित्यादौ शानचं विनाकारान्तत्वविरहादिञ् न स्यात्। पचतितरां पचतिरूपं इत्यादौ च शत्रादेरापत्तिः। तिङश्चेत्यात्रापचत्तरामिति लङादिविषये सावकाशत्वात्। एवं पचति पठतीत्यादावपि लस्य कृत्वात्सुबुत्पत्तौ प्रत्यये विहितः शत्राद्यादेशः स्यात्। लिडादौ तिङां सावकाशत्वात्। सत्यम्। नन्वोरित्यतो विभाषानुवृत्त्या व्यवस्थितबिकल्पविज्ञानाच्चेष्टव्यवस्थासिद्धेः। नचैवममेत्यादिवैयर्थ्यम्। व्यवस्थितविभाषयैव नित्ययोरादेशयोः सिद्धेरिति वाच्यम्। शतृशानचावित्येकास्मिन् योगे विभाषानुवृत्तिः। `अप्रथमासमानाधिकरणे'द्वितीयो योगो नियमार्थः। व्यवस्थितविभाषया विस्पष्टप्रतिपत्त्यभावात्। तथाच विकल्पस्य प्रथमासामानाधिकण्यं विषयः। पचन् पचमानः पचति वा देवदत्तः पचति देवदत्तं पश्येत्यस्य च नापत्तिः। द्वितीयस्य विधेर्नित्यत्वात्। एतेन लट इति वर्तमाने लड्‌ग्रहणं क्वचित्प्रथमासामानाधिकरण्ये अप्रथमासामानाधइकरण्ये च विध्यर्थम्। तेन पचन्नित्यादौ प्रत्ययोत्तरपदयोश्च तदादेशसिद्धिरिति निरस्तम्। भाष्यविरोधात्। तस्य शतृशानचाविति सूत्रापेक्षया लट इत्यस्योपादाने गौरवाभावात्।
संबोधने च ।। 125 ।।
हे पचन्। हे पचमान। संबोधनविभक्त्यन्तार्थस्य क्रियान्तरनिरूपितकर्मत्वादिशक्त्यनावेशात्क्रियान्वयित्वेन च प्रथमासामानाधइकरण्यस्याप्यभावादप्राप्तावारम्भः।
लक्षणहेत्वोः क्रियायाः ।। 126 ।।
क्रियायाः परिचायकहेतौ वर्तमानाद्धातोः लट एतौ स्तः। हेतुपदं फलकारणोभयपरम्। तिष्ठन् मूत्रयति। गच्छन् मूत्रयति स्थानादिक्रियया मूत्रादिक्रिया लक्ष्यते।
अत्र वार्तिकानि। `गुणउपसंख्यानम्' बहुषु मूत्रयत्सु को देवदत्त इत्युक्ते यस्मिष्ठन् मूत्रयतीत्युत्तरे च देवदत्तो लक्ष्यते। अशौचादिगुणो वा गृह्यते। तत्र द्रव्यगुणयोरेव लक्ष्यत्वात्सूत्रेणासिद्धावारम्भः। `कर्तृलक्षणयोः पर्यायेणाचयोगे इति वक्तव्यम्'। योऽदीयान आस्ते स देवदत्तः। यआसीनोऽधीत इति वा। पूर्ववाक्ये गुणपदस्य साधनपरत्वे तत एवसिद्धाविदं पर्यायार्थम्। अशौचादिग्रहणे तु विध्यर्थम्। अचयोगे किम्। य आस्ते चाधीते च स चैत्र इति चकारयोगे माभूत्। `तत्वाख्याने च'। शयाना वर्द्धते दूर्वा। असीनं वर्धते बिसम्। स्वभावाख्यानमेतत्। नत्वासनवृध्योर्लक्ष्यलक्षणभावः। `सदाच यश्च बहुलम्'। सन् ब्राह्मणः। अस्ति ब्राह्मणः। `इङ् जुहोत्योर्वा'। अधीते अधीयानः। जुहोति जुव्हान इति। भाष्येतु तिष्ठतिक्रिया मूत्रयतिक्रियाया एव लक्षणं सा तु देवदत्तादेरिति सूत्रेणैव सिद्धेः। योऽधीते इत्यादावपि। अध्ययनासिक्रिययोः परस्परं लक्ष्यलक्षणभावत्पर्यायसिद्धेः। चकारयोगे च समुच्चितक्रियाद्वितयस्य कर्तृलक्षणत्वेन क्रिययो रन्योन्य लक्ष्यलक्षक भावाभावेना न तिप्रसङ्गात्। चैतन्यलक्षणः पुरुषइत्यादौ तत्वाख्यानस्यापि लक्षणत्वेन शयानेत्यादेः सिद्धत्वादित्युक्तम्। `माङ्याक्राशे इति वाच्यम्। मा पचन्। मा पचमानः। लुङो बाध एतत्प्रामाण्यात्।
तौ सत् ।। 127 ।।
तौ शतृशानचौ सत्संज्ञौ। ताविति संज्ञाविधानार्थम्। अन्यथा प्रत्ययविधानापत्तेः। तेनच तच्छब्देन शतूशानचोः स्वरूपमात्रपरामर्शेन स्थानिविशेष परामर्शविरहाल्लकारान्तरस्थानिकयोरपि संज्ञासिद्धिः। नच पूर्वोक्तविशेषनिवृत्त्यासिद्धिः उत्तरत्र वर्तमानग्रहणानुवृत्तेरावश्यकत्वात्। तेन वर्तमान सामिप्यार्थकलडादेशयोर्लृडादेशयोश्च संज्ञा। नच वर्तमानादिति निर्देशात् लृटः सद्वेति वचनाच्च सिद्धिः पूरणगुमेत्यत्र सच्छब्देन तदुपादानानुपपत्तेः। वर्तमानवदित्यत्र प्रत्ययाधिकारेण संज्ञानतिदेशात्। लृट इत्यत्रापि। पिष्टपिण्डाः सिंहाः क्रियन्तामित्यादिबत् सत्संज्ञकप्रतिरूपकयो र्विधानेऽपि विहितयोस्तत्संज्ञानिबन्धनकार्यानपायात्।
स्यादेतत्। तच्छब्दस्य संनिहितपरामर्शकतया लकारान्तादेशयोर्ग्रहणं दुर्लभम्। नचैवं तावित्यस्य वैयर्थ्यम् अनुवृत्त्यैव प्रकृतयोर्लाभादिति वाच्यम्। प्रयोजनस्य प्रमाणानुसारित्वात्। मैवम्। ताविति योगं विभज्य धातुमात्राद्विहितस्य प्रत्ययस्य शतृशानचौ स्त इति व्याख्याय सदिति योगेन शतृशानच्‌मात्रस्य सत्संज्ञाविधानाश्रयणात् अथ पूर्वसूत्रे तयोरादेशत्वादिहापि तथात्वे स्थान्याकाङ्क्षायां तृजादिनां स्वरूपेण क्विबादीनां च लोपस्य विधानसामर्थ्यादेतदादेशाभावे परिशेषात् आदेशनिवृत्तिप्रयोज्यप्रतियोगिनः प्रत्ययस्यापवादतया तयोर्विधानमिति ण्वुलो युचश्च शतृसानचौ स्यातामिति कारके नन्दनेत्यादेरसिद्धिः। युवोरनाकावित्यस्य तद्धिते सावकाशत्वादिति चेन्न। लृटः सद्वेत्यस्य नियमार्थत्वान् यदि धातुमात्रत्परस्य तदा लृट एवेति। नच विकल्पविधायकतया तस्य नियमत्वानुपपत्तिः। लृटः सदित्यस्य तथात्वात्। तावित्यनेन शतृशानचौ अप्रथमासमानाधिकरणे इत्यादेरननुवृत्त्या विशेषविहितयोः शतृशानचोः लृटः सदिति सूत्रेण नियमः। बेत्यनेन तु समानाधिकरणादौ लट इव तौ विकल्पेन विधीयेते। एवंच नित्यमप्रथमासमानाधिकरणे इत्यपि न वक्तव्यमिति लाघवम्।।
पूङ् यजोः शानन् ।। 128 ।।
पवमानो यजमानः।।
ताच्छील्यवयोवचनशक्तिषु चानश ।। 129 ।।
एष्वर्थेषु द्योत्येषु। भोगं भुञ्जानः। कवचं बिभ्राणः शत्रून्निघ्नानः।
इङ्‌धार्योः शत्रकृच्छिणि ।। 130 ।।
आभ्यां शतृस्यात् अनायासे कर्तृनिष्ठे द्योत्ये। अधीयन्। धारयन् अनायासेनाधीयान इत्यर्थः। नेह कृच्छ्रेणाधीते। स्यादेतत्। एते त्रयः प्रत्ययाः स्वतन्त्रा लादेशा वा। लटोऽनुवृत्त्यननुवृत्तिभ्यां उभयसंबन्धेन संदेहात्। नाद्यः। पचते यजते अधीते इत्याद्यर्थं वाच्यत्वापत्तेः। लादेशेषुवासरुवपिधेरभावात्। भावकर्मणोरप्येतदापत्तेश्च। कर्तर्येव चैषामिष्टत्वात्। लादेशसार्वधातुकत्वेन पवमान इत्यादौ तास्यनुदात्तेदित्यनुदात्तप्रसङ्गाच्च। चित्करणस्य निघ्नाना इत्यादौ सावकाशत्वात्। निघ्नाना इत्याद्यर्थमात्मनेपदसंज्ञाप्रतिषेधारम्भापत्तेश्च। न द्वितीयः। सोमं पवमानइत्यादौ नलोकेतिषष्ठीनिषेधानुपपत्तेः। मैवम्। तृन्नितिप्रत्याहारग्रहणेनैव एतद्योगे षष्ठीनिषेधोपपत्तेः। नच द्विषयोगेऽपि तदापत्तिः। द्विषः शतुर्वेत्यस्य तृप्रत्ययग्रहणे प्रतिषेधार्थस्य प्रत्याहारग्रहणे विध्यर्थतयोपपत्तेः।
द्विषोऽमित्रे ।। 131 ।।
शतृस्यात्। द्विषन् शत्रुः। अमित्रशब्दः पुंसि। नञोऽज रमरसृताः इतिलिङ्गानुशासनसूत्रात्।।
सुञो यज्ञसंयोगे ।। 132 ।।
शतृस्यात्। यः सुन्वन्तमवति। सर्वे सुन्वन्तः। यज्ञे किम्। सुरां सुनोतीत्यत्र माभूत्। ननु सुञोयज्ञ इत्युक्तेऽपि सुनोत्यर्थस्य यज्ञविषयकत्वे इति व्याख्यया तद्वारणसंभवात्संयोगपदवैयर्थ्यामिति। अत्राहुः-प्रधानकर्तृसंप्रत्ययार्थतया यजमानादन्यत्र माभूदित्येतदर्थं तत्। एवंचाप्रधानकर्तरि सामान्यविधिनापि नभवतीति।
अर्हः प्रशंसायाम् ।। 133 ।।
अर्हन्। प्रशंसायां किम्। अर्हति चोरो वधम्।
आक्वेस्तच्छीलतद्धरमतत्साधुकारिषु ।। 134 ।।
आङभिव्याप्तौ। क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः। तच्छब्दत्रयं तृनादिप्रकृतिभूततत्तद्धात्वर्थपरम्।।
तृन् ।। 135 ।।
कर्ता कटान्। `ऋत्विक्षु वानुपसर्गस्येति वक्तव्यम्'। अताच्छील्याद्यर्थमारम्भः। होता पोता। अनुपसर्गे किम्। प्रशास्ता। प्रतिहर्ता। अत्र तृजेव। तेन कृदुत्तरपदप्रकृतिस्वरः। तृनि तु तादौच निति कृत्यताविति गतेः प्रकृतिस्वराद्युदात्तत्त्वं स्यात्। `नयतेः षुक् च वक्तव्यः'। नवा धात्वन्तरत्वात्। इन्द्रोवस्तेन नेषतु। इत्यादौ नेषतेः। प्रकृत्यन्तरत्वात्। षुकि तु गुणो न स्यात्। `त्विषेर्देवतायामकारश्चोपधाया अनिट्‌त्वं च वक्तव्यम्'। त्वष्टा। अनिटूत्वं चोक्तवक्ष्यमाणोपसंख्यानसाधारणम्। त्विषेः स्वत एवानिट्‌त्वात्ग। तेन प्रशास्ता नेष्टा क्षत्ता इत्यादिसिद्धम्। `क्षदेश्चायुक्ते तृन् वक्तव्यः'। क्षत्ता `छन्दसि तृज्वक्तव्यः'। नमः क्षतृभ्यः संगृहीतृभ्यः। चित्त्वादन्तोदात्तः।
अलंकृञ्‌निराकृञ्‌प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ।। 136 ।।
उपसर्गविशेषोक्तिरन्यनिवृत्त्यर्था। कृञत्र करोतिः प्रसिद्धत्वात। नतु हिंसार्थः। पतपचमदामुच्छब्दस्य तन्त्रेण पाठस्य युक्त्तेवेऽपि प्रत्येकोच्चारणमुपसर्गान्तरनिवृत्यर्तम्। तेन समुत्पतिष्णुरित्यादौ नेति सम्प्रदायः। उत्पतिष्णुचरिष्णुचेति भट्टिः। कोचित्तु तत्स्थाने पदेति पठित्वा उत्पतिष्णुरित्याहुः। एवं रोचिष्णुरित्यादि।
णेच्छन्दसि ।। 137 ।।
वीरुधः पारयिष्णवः। अयामन्तेतिणेरयादेशः।
भूवश्च ।। 138 ।।
छन्दसीत्येव। भुवुष्णुः प्रभविष्णु वैष्णवमिति प्रमादपाठः। अप्रसहिष्णुरित्यस्यैव प्रसिद्धत्वात्। चकाराद्‌भ्राजिष्णुरिति वृत्तिः। क्षयिष्णुरपीत्यन्ये तन्निर्मूलम्।
ग्लाजिस्थश्च क्स्नुः ।। 139 ।।
ग्लास्नुः। जिष्णुः। स्थास्नुः। चकाराद्‌भूष्णुः। नन्वयं किद्वा गिद्वा। नाद्यः। स्थास्नुरित्यत्र घुमास्थेतीत्वापत्तेः। नान्त्यः। जिष्णुरित्यत्र गुणस्य भूष्णुरित्यत्रेटश्चापत्तेः। मैवम्। गित्वस्यैव सम्यक्त्वात्। क्ङितीत्यत्र चर्त्वेन गकारस्यापि प्रश्लेषाद्गित्यपि गुणनिषेधात्। एवंश्र्यत्र कितीत्यत्रापि गकारप्रश्लेषादित्रत्वेन तदभावात्। असंहितया निर्देशाद्वा। तथाच वार्तिकम्।
वस्नोर्गित्वान्नस्थ ईकारः ङितोरित्वशासनात्।
गुणाभावस्त्रिषु स्मार्थः श्र्युकोरित्वंकगोरितोः। इति। दंशेः छन्दस्युपसंख्यानम्,। दंक्ष्णवः पशवः।
त्रसिगृधिधृषिक्षिपेः क्नुः ।। 140 ।।
त्रस्नुः। नेड्‌वशीति नेट्। गृध्नुः। धृष्णुः। क्षिप्नुरेनमृजुमाधु सपक्षमिति श्रीहर्षः।
शमित्यष्टाभ्योघिनुण ।। 141 ।।
  इति शब्द आद्यर्थः। शमादिभ्योऽष्टभ्यो घिनुण्। शमी। दमी श्रमी भ्रमी क्लमी प्रमादी नोदात्तोपदेशस्योति मान्तानां वृद्धिनिषेधः। शमिनितरा शमिनीतरेत्यादौ उगितश्चेति हस्वविकल्पः। नुमविधौ झल्‌ग्रहणानुवृत्त्या शमिनावित्यादौ न नुमिति भाष्यम्। एवंच उकार उच्चारणार्थ इति वृत्तिमतं हेयम्। सकर्मकाणां तु नायमनभिधानादिति भाष्यम्। वासरूपविधिना उन्मादी। ताच्छीलिकेषु न स इत्यस्य प्रायिकत्वात्।
संपृचानुरुधाङयमाङयसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ।। 142 ।।
घित्वात्कुत्वम्। समपर्की। अनुरोधी। आयामी। आयासी। परिसारी। संसर्गी परिदेवी देवृदेवने भ्वादिः। दीव्यते र्ण्यन्तस्य नग्रहो लाक्षणिकत्वात्। संज्वारी परिक्षेपी परिराटी परिवादी परिदाही परिमोही। दोषी द्वेषी। द्रोही दोही योगी आकीडी। विवेकी त्यागी। रजेति रंजेर्नलोपनिपातनम्। रञ्जयतीति रागी भागी अतिचारी। अपचारी। आमोषी अब्याघाती।
वौ कषलसकत्थस्रम्भः ।। 143 ।।
कष हिंसायाम्। लस श्लोषणक्रीडनयोः। कत्थ श्लाघायाम्। स्रम्भुविश्वासे। विकाषी विलासी विकत्थी विस्रम्भी।
अपेच लषः ।। 144 ।।
लष कान्तौ। अपलाषी चाद्विलाषी।
प्रेलपसृद्रुमथवदवसः ।। 145 ।।
प्रलापी प्रसारी। प्रद्रावी प्रमाथी मथ विलोडने प्रवादी। प्रवासी।
निन्दहिंसक्लिशरवादविनाशपरिक्षिपपरिवादिव्याभाषासूञोवुञ् ।। 146 ।।
एभ्यो वुञ् स्यात्। विनाशेतिण्यन्तस्य नशेभाव नलोपविशिष्टस्य निर्देशः। अकारस्तूच्चारणार्थः। विनाशीत्येव पठन्ति कोचित्। परिवादिवत्। असूयति। कण्ड्‌वादिः। समाहारद्वन्द्वः। असूञइति पञ्चम्येकवचनम्। एवंचेतरेतरयोगद्वन्द्वे प्रथमाबहुवचनान्तं व्याख्याय व्यत्ययादिकल्पनं वृत्त्यादीनामनादेयम्। नच समाहारे द्वन्द्वाच्चुदषहान्तादिति समासान्तापत्तिः। व्यत्ययापेक्षया समासान्तविधेरनित्यत्वमाश्रित्य समासान्तो नेत्यस्य लघुत्वात्। भाषान्तानां द्वन्द्वं कृत्वा तत्सहितादसूञ इति व्याख्यानाद्वा। निन्दक इत्यादि। यद्यपि निन्दादीनां ण्वुलैव सिद्धं रूपसाम्यात्। आद्युदात्तसाम्याच्य। असूयतिमात्रात्तु वुञ् विधेयः। ण्वुलि लित्स्वरेण प्रत्ययात्पूर्वमुदात्तं वुञित्वादिरिति विशेषात्। तथापि ताच्छीलिकेषु वासरूपबिधिर्नास्तीति ज्ञापनार्थं वुञोविधानम्। तृजादिनामिति निवृत्तिः। ज्ञापकस्य प्रत्ययसामान्यापेक्षत्वात्।
दुविक्रुशोश्चोपसर्गे ।। 147 ।।
दीव्येतर्ण्यन्तस्य दिव इति चुरादेश्च ग्रहणम्। आदेवकः। आक्रोशकः। उपसर्गे किं क्रोष्टा।
चलनशब्दार्थादकर्मकाद्युच ।। 148 ।।
अर्थंपदमुभयान्वयि। चलनः चोपनझ कम्पनः शब्दनः। शब्दशब्देन। आविष्करणे चुरादिः। शब्दप्रातिपदिकाद्धात्वर्थे णिजन्तात् शब्दवैरकलहेत्यादि णिजन्ताद्वेति व्यासकृत्। रवणः। अकर्मकात्किम्। पठिता विद्याम्।
अनुदात्तेतश्च हलादेः ।। 149 ।।
अकर्मकादित्येव वर्धनः वर्तनः। असत्यादिग्रहणे हलन्तादित्यर्थापत्त्या जुगुप्सनो मीमांसन इत्यादि न स्यात्। अजन्तत्वात्। तदर्थमादिग्रहणम्। नचानुदात्तत्वाभावः। अवयवृत्तेरनुदात्तस्य सनन्तसमुदायविशेषकत्वात्‌गुपादयोऽनुदात्तेत इति भाष्योक्तेः। ननु आर्धधातुक इति विषयसप्तमीपक्षे प्रत्ययोत्यत्तेः प्रागेवोतोलोपमवृत्तेरनयोरपिहलन्तत्वं सुलभमितिचेत् सत्यम्। परसप्तमीपक्षेणैवमुक्तत्वात्।
जुचङक्रम्यदन्द्रम्यसगृधिज्वलशुचलषपतपदः।। 150 ।।
जुधातुः सौत्रो गत्यर्थ इहैव पाठेन कल्पयः। वेगार्थ इत्यन्ये। जवनस्तु जवाधिक इत्यमरः। क्रमद्रमी यङन्तौ। चङ्‌क्रमणः दन्द्रमणः। सरणः गर्द्धन इत्यादि। अनुदात्तेतश्चेत्येव सिद्धिः। सकर्मकादनीभधानेनानिष्टत्वात् एतेन चङ्‌क्रमणो ग्रामस्येन्यादिकल्पनमपास्तम। सत्यम् लषपतपदेत्युकञा युचो बाधो माभूदिति ज्ञाप्यम्। निन्दादिसूत्रे ताच्छीलिकानामताच्छीलिकैर्वासरूपविधिर्नेति ज्ञापितम्। इहतु ताच्छीलिकैः सहेति विशेषः। तेनालङ्कृञितीष्णुचो विषये तृन्न। नचैवं गन्तेति तृन्न स्यात्। उकञा बाधादिति वाच्यम्। उक्तज्ञाप्यस्य प्रायिकताया वक्ष्यमाणत्वात्।
क्रुधमण्डार्थेभ्यश्च ।। 151 ।।
क्रोधनः भूषणः।।
न यः ।। 152 ।।
यान्तान्न युच्। क्नुयिता क्ष्मायिता। क्नूयी शब्दे। क्ष्मायी विधूनने। नच नय गतावित्यस्मात्प्रत्ययविधिरेवायम् अनुदात्तेतश्चेत्येव सिद्धेः। तस्मात्तत्प्राप्तस्य युचो निषेध एवायम्।
सूददीपदीक्षश्च ।। 153 ।।
न युच्। सूदिता। मधुसूदनो न्द्यादिः। दीपिता। दीक्षिता। नमिकम्पीति रेणैव युचो बाधे सिद्धे दीपिग्रहणं युचा सह ग्स्य समावेशार्थम्। तेन कम्रा युवतिः कमनेत्यादि सिद्धमिति भाष्यम। तस्यच ताच्छीलिकानां तैः सह वासरूपविधिर्नास्तीत्यस्य प्रायिकत्वे तात्पर्यम्। नतु रयुचोरेव समावेशे। तेन गन्ता विकत्थन इत्यादि सिद्धम्।
लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।। 154 ।।
लाषुकः पातुक इत्यादि।
जल्पभिक्षकुट्टलुण्टवृङःषाकन् ।। 155 ।।
जल्पाक इत्यादि।
प्रजोरिनिः ।। 156 ।।
प्रजवी प्रजविनावित्यादि।
जिदृक्षिविश्रीण्‌वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ।। 157 ।।
जयी दरी इत्यादि। जयतिक्षयत्योर्द्वयोरपि ग्रहणम्। श्रिञ्‌सेवायाम् विपूर्वः व्यथतिर्नञ्पूर्वः। निपातनान्नञो धातुना समासे नलोपे च प्रत्ययः। षूप्रेरणे सूति सूयत्योः सानुबन्धकत्वात्। अत्रैव प्रजुं इनिं च पठित्वा पूर्वसूत्रं त्यक्तुमर्हम्। पृथग्विभक्तिचकारयोस्त्यागे लाघवादिति दीक्षिताः।
स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्‌ ।। 158 ।।
आद्यास्त्रयः चुरादावदन्ताः। अयामन्तोतिणेरयादेशः। स्पृहयालुः गुहयालुः पतयालुः। द्रातेः तच्छब्देन समासस्तदो नान्तत्वेच निपात्यते। तन्द्रालुः। ननु लुशेवास्तु शित्वात्सार्वधातुकत्वं स्पृहयालुरित्यादौ अतोदीर्घो यञीतिदीर्घः तुरुस्तुशम्यम इत्यतः सार्वधातुकस्यानुवृत्तेर्नतु तिङः। नच लस्येत्संज्ञापत्तिः। प्रश्लषेण यकारादित्वात्। प्रयोजनाभावाद्वा। एकादेशउदात्तेनोदात्त इत्युदात्तस्योभयत्र सत्त्वेन लित्प्रत्ययस्वरयोरविशेषात्। नच श्रद्धालुपदासिद्धिर्लुधातोर्द्विवचनापत्तेरिति वाच्यम्। संज्ञापूर्वकत्वादनित्यत्वाश्रयणात्। धातूनामनेकार्थत्वाद्धेटो रूपसम्भावाच्च। नाचशितीत्यात्वनिषेधः। आश्रद्धेति आकारप्रश्लेषेण तत्सिद्धेः। आदिभूतस्य शकारस्येत्संज्ञायामेव तन्निषेधस्य वक्ष्यमाणत्वाच्च। सत्यम्। अन्यतो विधानार्थमाकारादित्वम्। शयालुः। तेन शीङो वाच्य इति स्पष्टार्थम्।
दाधेट्‌सिशदसदो रुः ।। 159 ।।
दारुः। दोदेङो र्ग्रहणमित्याहुः। धारुः सेरुः शद्रः सद्रुः।
सृघस्यदः क्मरच् ।। 160 ।।
सृमरः। घस्मरः अद्मरः।
भञ्जभासमिदो घुरच् ।। 161 ।।
भञ्जेः कर्मकर्तर्येव अभिधानस्वभावादिति संप्रदायः। भङ्घुरः भासुरः। मेदुरः।
विदिभिदिच्छिदेः कुरच् ।। 162 ।।
विदुर इत्यादि। विदेर्ज्ञानार्थस्य ग्रहणं, न लाभार्थस्य। व्याख्यानात्। छिदुरमिति कर्मकर्तरीति वृत्तिः नच तन्निर्मूलम्। गुरुमत्सरच्छिदुरयेत्यादि प्रयोगादिति वाच्यम्। मृणालतन्तुछिदुरा सती स्थितिरित्यादेरपि दर्शनात्।
इण्‌नशजिसर्तिभ्यः क्वरप्‌ ।। 163 ।।
इत्वरोऽभवदिति हर्षचरितम्। असतीत्वरीत्यमरः। नश्वरः जित्वरः सृत्वरः।
गत्वरश्च ।। 164 ।।
अनुनासिकलोपस्यापि निपातः।
जागुरूकः ।। 165 ।।
जागुरिति अनुकार्यानुकरणयोर्भेदविवक्षायां प्रातिपदिकत्वे पञ्चम्यन्तम्। जागर्तेरूकः स्यात्। जागरूक इति निपातेतु उत्तरत्र ऊकानुवृत्तिर्न स्यात्।
यजजपदशां यङः ।। 166 ।।
एभ्यो यङन्तेम्यः उकः। दशेति भाविनलोपाभिप्रायम्। यायजूकः। जञ्जपूकोऽक्षमालावानिति भाट्टिः। दन्दशूको बिलेशयः। वावदूकशब्दस्तूलूकादिः। कुर्वादिगणे पाठात्सिद्ध इत्यन्ये।।
नमिकम्पिस्म्यजसकमहिंसदीपो रः ।। 167 ।।
नम्रः। कम्प्रः स्मेरः। नञ्‌पूर्वो जसिः सातत्यार्थः। अजस्रम्। कम्रः। र्हिस्त्रः। दीप्रः।
नसाशंसभिक्ष उः ।। 168 ।।
चिकीर्षुः। सनधातोर्नेह ग्रहः। गर्गादौ जिगीषुशब्दपाठात्। अव्युत्पन्नतत्कल्पने गौरवात्। आङ्‌ पूर्वः शंसुरिच्छायाम्। आशंसुः भिक्षुः।
विन्दुरिच्छुः ।। 169 ।।
वेत्तेर्नुम् इषेः छत्वं चेह निपात्यम्। वेत्तिभिन्नानां विदां इष्णातीष्यत्योश्च नेदं निपातनमनभिधानात्।
क्याच्छन्दसि ।। 170 ।।
देवान् जिगातिं सुम्नयुः। नछन्दस्यपुत्रस्येति ईत्वदीर्घाभावः। इह क्येति नाखण्डस्य ग्रहणम्। किन्तु किच्चासौ यश्चेति कर्मधारयः। तेन कण्ड्‌वादियकोऽपि ग्रहः। तेन तुरण्यवः भुरण्युरित्यादि। गृण्हन्ति ह्यनसूयव इति मृगय्वादित्वात्।
आदृगमहनजनः किकिनौ लिट्‌च ।। 171 ।।
आदन्तादृकारान्ताद्गमादिभ्यश्च किकिनौ स्तः छन्दसि तौच लिड्‌वत्। आदिति दकारः। तकारे तु ऋइत्यस्य तात्परत्वेन दीर्घऋकारान्तानां ग्रहणं न स्यात्। ददिर्गाः। बभ्रिर्वज्रम्। ततुरिः जगुरिः। बहुलं छन्दसि इत्युत्वम्। शुभं भावानो विदथेषु जग्मयः। जघ्निर्वृत्रममित्रियम्। जज्ञिः। ततुरिरित्यादौ ऋच्छत्यॄतामिति गुणनिषेधार्थं कित्वं। नच परस्मैपदसंज्ञा स्यादिति वाच्यम्। आदेशानामेव तत्संज्ञत्वात्। कर्तरि कृदिति कर्तरि किकिनोरुत्पत्तौ पश्चात्प्रवर्तमानेनातिदेशेन भावकर्मणोरपि नैतदापत्तिः उत्पत्तिशिष्टार्थाविरोधे उत्पन्नशिष्टार्थानन्वयात्। भूतकालस्यापि नातिदेशो वर्तमानाधिकारात्। नापि तिङादेशानां कसुकानचोश्चापत्तिः। स्वरूपबाधप्रसङ्गात्।
अत्रवार्तिकम्। `उत्सर्गः छन्दसि सदादिभ्यो दर्शना' दिति। सेदिर्नोमिरित्यादि। अत एकहल्‌मध्ये इति एत्वाभ्यासलोपौ।
`भाषायां धाञ्‌कृसृगमिजनिनमिभ्यः। दधिः। चक्रिः। सस्रिरित्यादि। `सासादि वावहि चाचलिपापतीनामुपसंक्यानम्'। पतेर्नीगभावोऽपि निपातनात्। सहिवहिचलिपतिभ्योयङितिवचनारम्भपक्षे तु भाष्यप्रामाण्यात्।
स्वपितृषोर्नजिङ्‌ ।। 172 ।।
स्वप्नक् तृष्णक्। स्वप्‌नजौ तृष्णजावित्यादि। धृषेश्चेति वृत्तिः। घृष्णक्।
शॄवन्द्योरारुः ।। 173 ।।
शरारुर्घातुको हिंस्रः। वन्दारुरभिवादके।।
भिञः क्रुक्लुकनौ ।। 174 ।।
भीरुः। भीलुकः। `क्रुकन्नपि वक्तव्यः'। भीरुकः।
स्थेशभासपिसकसो व्ररच्‌ ।। 175 ।।
स्थावरः ईश्वर। भास्वरः येस्वरः कस्वरः।
यश्च यङः ।। 176 ।।
यङन्ताद्यातेर्वरच्।
यायावरः। निरूपितोऽयं पदान्तसूत्रे। ताच्छीलिकाः समाप्तः।
भ्रजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ।। 177 ।।
विभ्राट् भाः भासौ धूः विद्युत्। ऊर्क्‌ पूः जूः जुवौ निपातनाद्‌ग्रावशब्दस्य धातुना समासः। ग्रावस्तुत् ऋत्विग्विशेषः।
अन्येभ्योऽपि दृश्यते ।। 178 ।।
अनुपसर्गार्थ आरम्भः क्विप्‌चेत्यत्र सुपीत्युपसर्गे इति चानुवृत्तेः। भिद्‌ छिद्। नच पूर्वसूत्रे ग्रावोपपदात् स्तोः क्विविधानवैयर्थ्यम्। प्राक्‌क्वेरिति पाठे ताच्छील्यादौ क्विपो विधेयत्वात्। नचैतत्सूत्रविहितस्यैव तच्छीलाद्यर्थत्वम्। तृना बाधापत्तेः। ताच्छीलिकानां तैर्वासरूपविधिर्नेत्युक्तत्त्वात्। दृशिग्रहणं दीर्घसंप्रसारणतदभावहस्वानामपि विधानार्थम्। `वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां क्विप्‌दीर्घो वचिस्वप्पोरसंप्रसारणं च' `द्युतिगमिजुहोतीनां द्वेच'ति वक्तव्यमिति वार्तिकदर्शनात्। क्विब्‌वचीत्याद्युणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधो मा भूदिति पुनरुपादानम्। वक्ति अनया वाक्। पृच्छतीति प्राट्। स चासौ विवाकश्च प्राड्विवाकः। आयतः स्तौति आयतस्तूः। कटं प्रवते कटप्रूः। जूः पूर्वोक्तः। श्रुयन्त्येनां श्रीः। दिद्युत् जगत्। क्रमेण द्युतिस्वाप्योः, गमः क्वावित्यभ्यास संप्रसारणलोपौ। जुहोत्यनया जुहूः। नच द्युत्यादीनामपि दीर्धापत्तिः। दीर्धसमुच्चयवेलायामचश्चेत्युपस्थानात् तदन्तविधिनाऽजन्तस्येति पर्यवसाने अर्थाद्दीर्घिस्य जुहोतिमात्रपरत्वात्। दीर्यति दरत्। दॄभये हस्वः। ध्यायतेर्धीः। दृशिग्रहणात्क्वचित्कर्त्रर्थव्यभिचारः करणस्य कर्तृत्वोपचारापेक्षयाऽवयवार्थानुगमाय च करणादावेवोत्पत्तेर्वाच्यत्वात्।
भुवः संज्ञान्तरयोः ।। 179 ।।
मित्रभूसंज्ञः कश्चित्। उत्तमाधर्णयोर्विश्वासघटकः प्रतिभूः। दृशिग्रहणानुवृत्तिलभ्यं चेदम्। नच संज्ञात्वादेव सिद्धिः। प्रतिदानपूर्वकालमात्रवृत्तिव्यवहारविषयत्वात्। संज्ञायाश्च यावद्‌द्रव्यभावित्वात्।
विप्रसंभ्यो ड्‌वसंज्ञायाम् ।। 180 ।।
डु इत्यविभक्तिको निर्देशः। विभुः प्रभुः संभुः। व्यापकत्वैश्वर्यजननान्यत्र निमित्तम्। संज्ञायां तु विभूः कश्चित्। `मितद्व्रादिभ्य उपसंख्यानम्'। मितं द्रवतीति मितद्रुः। शंम्भवति भावयति वा शंभुः।
धः कर्मणि ष्ट्रन् ।। 182 ।।
धाञ्‌धेटोर्ग्रहणम्। स्वरूपेणैव निर्देशात्। धात्रीजनन्यामलकीवसुमत्युपमातृषु ।
दाम्नीशसयुयुजस्तुतुदसिसिचामिहपतदशनहःकरणे ।। 182 ।।
ष्ट्रन् स्यात्। दान्त्यनेन दात्रम्। दा च्छेदने। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। तोत्रम्। सोत्रम्, सिन्वन्ति बध्न्त्यनेन सेत्रम्। सेक्त्रम्। मेढ्‌म पत्रम् दशोति निर्देशो अक्ङित्यापि क्वचिन्नलोपार्थः। तेन दशनोति सिद्धम्। नच प्रकृतेऽप्यापत्तिः। शुनो दन्तदंष्ट्रेत्यादि निर्देशात्।
हलसूकरयोः पुवः ।। 183 ।।
पूङ्‌ पूञोः करणे ष्ट्रन्। करणस्य हलसूकराद्यवयवत्वे। एतेन तयोरुपपदत्वाभिधेयत्वयोर्निरासः। पोत्रम्। तोयर्मुखमित्यर्थः। सर्वत्र तितुत्रेति इण्‌निषेधः।
अर्तिलूधूसूखनसहचरइत्रः ।। 184 ।।
अरित्रम्। लवित्रम्। धूइति निरनुबन्धकस्य कुटादेरेव ग्रहणम्। ङित्वाद्गुणनिषेधे उवङ्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्।
पुवः संज्ञायाम् ।। 185 ।।
पवित्रम्। आज्योत्पनसाधनं दर्भमयमनामिकावेष्टनं वा।
कर्तरि चर्षिदेवतयोः ।। 186 ।।
पुवइत्रः ऋषेर्वेदमन्त्रस्य करणत्वे देवतायाश्च कर्तृत्वे। पूयतेऽनेन पवित्रम्। अग्निः पवित्रं समा पुनातु।
ञीतः क्तः ।। 187 ।।
वर्तमाने। स्विन्नः। इद्धः। क्ष्विण्णः। वर्तमानस्वेदाद्याश्रय इत्यर्थः।
मतिबुद्धिपूजार्थेभ्यश्च ।। 188 ।।
मतिरिच्छा बुद्धेः पृथगुपादानात्। राज्ञां मतो बुद्धः पूजितो वा कर्मण्ययं सकर्मकत्वात्। मत्यादिप्रकृतिकस्य क्तस्य भूतविषयत्वमनेन बाध्यते। तक्रकौण्डिन्यन्यायात्। ज्ञातीमत्येतत्तु भूतेऽपि तेनेत्यधिकारे `उपज्ञात'मिति सूत्रप्रयोगात् अन्यथा क्तस्यच वर्तमान इति षष्ठ्यापत्तेः। चकारोनुक्तमुच्चयार्थः। तथाच भाष्यम्।
शीलितो रक्षितः क्षान्त आक्रुष्चो जुष्च इत्यपि।
रुष्टश्चरुचितश्चोभावभिव्याहृत इत्यपि।।
हृष्ठजुष्टौ तथाक्रान्तस्तथोभौ संयतोद्यतौ।
कष्टं भविष्यतीत्याहुरमृताः पूर्ववत्स्मूताः।।
इति श्रीसिद्धान्तसुधानिधौ तृतीयस्य द्वितीयपादे तृतीयमाह्निकम्।
पादश्चायं समाप्तः।