सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः ३/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ श्रीसिद्धान्तसुधानिधिः
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →

तृतीयपादे द्वितीयमाह्निकम्
कर्तृकरणयोस्तृतीया ।। 18 ।।
रामेण बाणेन हतो वाली। प्रकृत्यादिभ्य उपसंख्यानम्। प्रकृत्याभिरूपः। क्रियापदाश्रवणात् कर्तृकरणयोरभावात् षष्ठी प्राप्ता। साहजिकं प्रकृतिपदस्य, अभेदस्तृतीयायाः, रमणीयत्ववानभिरूपपदस्यार्थः। साहजिकाभिन्नरमणीयत्ववानित्यर्थः। प्रायेण याज्ञिकाः बहवो याज्ञिका इत्यर्थः। अवच्छेदकत्वाभावविशिष्टे बाहुल्ये प्रायशब्दः। प्रायेण याज्ञिक इतिच याज्ञिकत्वसमानाधिकरणधर्मलिङ्गकानुमितिविषययाज्ञिकत्ववति प्रयोगः। तथा च सम्भावितयाज्ञिकत्वाश्रय इति धीः।
केचित्तु तृतीयाया अवच्छिन्नत्वमर्थः। तथा च किञ्चिन्न्यूनबाहुल्यावच्चिन्नयज्ञविद्यासबन्धवानिति धीरित्याहुः। गोत्रेण गार्ग्य इत्यत्र गोत्रत्वावच्छिन्नगर्गसम्बन्धवान्। गोत्राभिन्नसम्बन्धवानिति वार्थः। समावायेन रूपवानित्यादावपि समवायाभिन्नरूपसम्बन्धवानिति धीरेति केचित्। समेन विषमेण याति। समादिदेशावच्छिन्नं गमनमित्यर्थः। द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन पशून् क्रीणाति। द्रोणद्वयपरिमितं धान्यं, पञ्चघटितसमुदायावच्छिन्नान् पशून् क्रीणातीत्यर्थः।
भाष्यकृतस्त्वाहुः। प्रकृत्याभिरूपः कृतो, न त्वलङ्कारादिनेति गम्यमानक्रियायां करमत्वात्सिद्धम्। संघीभूय यज्ञमधीयते इत्यर्थादध्ययनं प्रति बाहुल्यं करणमेव। अध्यवसांयस्थलेऽपि ज्ञानं प्रति तत्। आचरणादिबाहुल्येनान्येषाम् याज्ञिकत्वप्रकारकतद्विशेष्यकप्रतीत्युत्पत्तेः। प्रायेण सामग्र्यविधौ गुणानामित्यादिदर्शनाद्विभक्तिप्रतिरूपकः प्रायेणेति निपात इत्येके। गोत्रेण गार्ग्य इत्यत्रापि अनेनाहं ज्ञाये इत्यर्थः। समेनेत्यत्र यथेत्यध्याहारः। द्विद्रोणेनेत्यत्र तदर्थमूल्यलक्षणया सिद्धमिति।
सहयुक्तेऽप्रधाने ।। 19 ।।
सहार्थेन युक्तेऽप्रधाने तृतीया। पुत्रेण सहागतः पिता। पितुरागमनान्वयः शाब्दोऽन्यस्य त्वार्थः। भिन्नविभक्त्यन्तत्वात्। युक्तग्रहणं सहार्थे गम्यमानेऽपि तृतीयार्थम्। वृद्धो यूनेत्यादिदर्शनात्। तेन `तुलां यदारोहति दन्तवाससे'त्यादि सिद्धम्। अप्रधानग्रहणं शक्यमकर्तुम्। प्रातिपदिकमात्रपेक्षत्वादन्तरङ्गत्वेन पितेत्यत्र प्रथमासिद्धेः। एवंचाप्रधानत्वप्रकारकबोधार्थं तदिति कल्पनाभासो निर्मूलः। भाष्यकारादिसर्वाभियुक्तानुभवविरोधात् पित्रा सह पुत्र आगत इत्यादेरपि दर्शनेन वास्तवाप्राधान्यस्याप्रयोजकत्वात्। सहैव दशभिः पुत्रैर्भारं वहति गर्गभीत्यादौ वहनक्रियान्वयाभावेऽपि विद्यमानेत्यध्याहारात्तदंशे साहित्यात्तृतीया। पुत्रकर्तृकागमनविशिष्टागमनकर्तेत्यन्वयः। वैशिष्ठ्यं त्वेकदेशकालावच्छइन्नत्वम्। शिष्येण सह गुरुर्ब्राह्मणः,पुत्रेण सह पिता सुन्दर इत्यत्र वृत्तित्वं तृतीयार्थो ब्राह्मणपदार्थतावच्छेदकब्राह्मणत्वान्वयी, शिष्यवृत्तिब्राह्मणत्वाश्रयो गुरुः। पुत्रवृत्तिसौन्दर्याश्रयः पितेति धीः। यद्वा तृतीयार्थो वृत्तिः सहित्यं एकधर्मान्वयित्वं शिष्यसाहित्यवान् गुरुर्ब्राह्मण इत्यादिरर्थः।।
येनाङ्गविकारः ।। 20 ।।
विकारो हानिराधिक्यं वा। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते तस्मात्तृतीया। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुणिः। `स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुः निभस्त्रिलोचनः'। अत्राक्ष्णेत्युक्ते निरूपयतीत्यः काङ्क्षोदयात्। करणे इत्यस्य नाधिक्यमिति केचित्।
अन्येतु यद्यपि चक्षुष्मत्वे सति चक्षुष्मद्गोलकद्वयशून्यत्वं काण पदार्थः। तथाप्यत्र चक्षुष्मत्त्वमक्ष्णेत्यस्यार्थः। वैशिष्ठ्यस्य तृतीयार्थत्वात्। येनाङ्गेन विकारस्तज्जातीयवाचकपदात्तृतियेति।
अन्ये तु अक्षिपदं गोलकपरम्। अभेदे तृतीया। काणपदार्थैकदेशे चक्षुःशून्ये तदन्वयः। गोलाकभिन्नं यच्चक्षुःशून्यं तद्वानित्यर्थः। यस्य गोलकमपि नास्ति तत्रोक्तप्रयोगो गौणः। सूत्रार्थसह्गतिरप्येवमित्याहुः। ख़ञ्जः संस्थानविशेषशून्यपादवान्। पादवृत्ति यदुक्तशून्यत्वं तदाश्रयपादवान् पादाभिन्नो य उक्तशून्यस्तद्वान्वा इत्यादि। मुखवृत्तिलोचनत्रयवानिति विकारलाभोऽर्थात्। यद्वा वृत्तिविषये त्रिपदं पूरमार्थपरं तृतीयं लोचनं यस्य त्रिलोचनः। मुखावच्छेदेन यत्तृतीयं लोचनं तद्वानित्यर्थः।
इत्थंभूतलक्षमे ।। 21 ।।
तृतीया। इतरस्माद्व्यावर्तकं धर्मं प्राप्त इत्थंभूतः। इतरत्वं च समभिव्याहृतपदार्थतावच्छेदकावच्छिन्नप्रतियोगिताकं तस्य लक्षणमुक्तधर्मस्तत्र तृतीया। जटाभिस्तापसः। अतापसव्यावृत्तिधीजनको धर्मो जटा भवत्येव। तापसत्वसामानाधिकरण्यमात्रेण सत्त्वात्। किन्तु तापसभिन्नेऽपि सत्त्वादतापसव्यावृत्तौ नावच्छेदिका। तथा च प्रत्याय्यव्यावृत्त्यनवच्छेदकत्वे सति तद्व्यावृत्तिसमानाधिकरणत्वरूपे उपलक्षणत्वे तृतीयेत्यर्थः। अतएव शैत्येन जलं, शमादिना तापस इत्यादिर्न प्रयोगः एतेन `लताप्रतानोद्ग्रथितैः स केशै'रित्यादि व्याख्यातम्। अत एव तत्र कैशैरुपलक्षित इति व्याख्यातम्। यदि विशेषणेऽपि तृतीया दृश्यते तदा तत्साधारणं वैशिष्ट्यं तृतीयार्थ इत्याहुः।।
संज्ञोऽन्यतरस्यां कर्मणि ।। 22 ।।
संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात्। मात्रा मातरे वा संजानीते। `सम्प्रतिभ्यामनाध्याने'इति तङ्। मातुः संज्ञातेत्यत्रपूर्वविप्रतिषेधेन षष्ठी `संज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन'इति वार्तिकात्। `उपण्दविभक्तेश्चोपपदविभक्तिः'अन्यारादित्यादेः स्वामीश्वरेत्यादेश्चान्यो देवदत्तादित्यादौ गोषु गवां वा स्वामीत्यादौच सावकाशत्वात् अन्यो गोषु स्वामीत्यत्र स्वामिश्वरेत्यादेरेव प्रवृत्तिः। नन्वत्र पूर्वस्वाम्यपेक्षमन्यत्वं प्रतिपाद्यं, नतु गवापेक्षम्। निर्ज्ञातत्वात्। विवक्षायां च पञ्चम्या इष्टत्वात्। सत्यम्। तुल्यो गोभिः स्वामीत्युदाहरणम्। गोस्वामिनि जाड्यादिप्रवुक्तगोसादृश्यविवक्षायां पदद्वयार्थयोगस्य गवां सत्त्वात्।
हेतौ ।। 23 ।।
तदर्थे तृतीया स्यात्। धनेन कुलम्। विद्यया यशः। योगनयतामात्रप्रयुक्तोऽनाश्रितव्यापारोऽर्थो द्रव्यगुणक्रियाविषयो हेतुः। करणं तु व्यापारनियतं क्रियामात्रविषं चेति भेदः। तदुक्तम्-
द्रव्यादिनियतो हेतुः कारकं नियतक्रियमिति।
अनाश्रिते तु व्यापारे निमित्तं हेतुरुच्यते।। इतिच ।।
अध्ययनेन वसति। वासप्रवर्तकेच्छाजनकेच्छविषयतया हेतुत्वं, फलेच्छया उपायेच्छेति ततो वासः।
अयमप्यस्य सूत्रस्य वेशेषः। `निमित्तकारणहेतुषु सर्वासांप्रायदर्शनम्'। प्रायग्रहणात्सर्वनाम्नः प्रथमा द्वितीययोरभावः अन्यासां यथादर्शनं प्रयोगः। पर्यायग्रहणं अन्यनिवृत्त्यर्थमिति केचित्। उपलक्षणत्वात्प्रपञ्चार्थमित्यन्ये। अन्नेन हेतुना वसतीत्यादि।
अकर्तर्यृणे पञ्चमी ।। 24 ।।
कर्तृभिन्नं यदृणं हेतुभूतं ततः पञ्चमी स्यात्। तृतीयापवादः। शतद्बद्धः। अकर्तरि किम्। शतेन बन्धितः। ऋणत्वं शतस्य प्रसिद्धम्। तत्प्रयोजको हेतुश्‌चेति चकारत्कर्तृसंज्ञं च। पूर्वसूत्रे शास्त्रीयसाधारणहेतुग्रहणे बाधकाभावात्। कर्तृकरणयोरिति तृतीयायास्तत्र प्राबल्यात्सिद्धेः।
विभाषा गुणेऽस्त्रियाम् ।। 25 ।।
गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात्। जाड्याज्जाड्येन वा बद्धः। पाण्डित्यात्पाण्डित्येन वा मुक्तः। गुणेति किम्। धनेन कुलम्। आस्त्रियां किम्। बुद्ध्या मुक्तः। गुणपदं परतन्त्रमात्रपरम्। यस्य गुणस्य भावाच्छद्बे निवेश इतिवत्। तेन वह्निमान्‌धूमादित्यादौ पञ्चमीति केचित्। नास्ति घटोऽनुपलब्धेरित्यादौ तु बाहुलकं प्रकृतेस्तनुदृष्टेरितिवार्तिकप्रयोगात्। अन्येतु विभाषेति योगविभागादुभयत्रापि सिद्धमित्याहुः।
षष्ठीहेतुप्रयोगे ।। 26 ।।
हेतुशब्दप्रयोगे हेतुत्वे द्योत्ये षष्ठी। अन्नस्य हेतोर्वसति।
सर्वनाम्नस्तृतीया च।। 27 ।।
पूर्वविषये तृतीया षष्ठी च। केन हेतुना वसति। कस्य हेतोर्वा।
अपादाने पञ्चमी ।। 28 ।।
ग्रामादागच्छति। `ल्यब्लोपे कर्मण्यधिकरणे चोपसंख्यानम्'। प्रासादादासनात्प्रेक्षते। प्रासादमारुह्यासने उपविश्येत्यर्थः। ल्यबन्तप्रयोगेऽपि यत्र तदर्थप्रतीतिस्तद्विषयकमिति केचित्। द्वेतीयासप्तम्योरपवादः।
``प्रश्नाख्यानयोश्चकुतो भवान्। पाटलिपुत्रात्। गम्यमानक्रियामादाय सिद्धार्थकथनमेतत्। ``यतश्चाध्वकालीनर्माणं तत्र पञ्चमी तद्युक्तादध्वनः प्रथमासप्तम्यौ, कालात्सप्तमीच वक्तव्या। निर्माणं परिच्छेदः। तद्योगश्चार्थद्वारकः। गवीधुमतः सांकाश्यं चत्वारी योजनानि चतुर्षु योजनेषु वा। कार्तिक्या आग्रहायणीमासे। उभयत्र दैशिककालिके परत्वे यथाक्रमं प्रथमासप्तम्योः सप्तम्याश्चार्थः। तत्रावच्चिन्नत्वसबन्धेन प्रकृत्यर्थो विशेषणम्। तस्याश्रयत्वसबन्धेन सांकाश्ये आग्रहायण्यां चान्वयः गवीधुमदवधिकयोजनत्वसबन्धेन सांकाश्ये आग्रहायण्यां चान्वयः गवीधुमदवधिकयोजनचतुष्टयावच्छिन्नपरत्वाश्रयः। कार्तिक्यवधिकमासावच्छिन्नपरत्वाश्रयश्चेत्यन्वयधीः।
अत्रभाष्यम्-गवीधुमतो निः सृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः सांकाश्यम्। यद्वा चतुर्षु योजनेषु गतेषु ततः साङ्काश्यम्। कार्तिक्याः प्रभृत्याग्रहायणी मासे। तथाच गम्यमानक्रियामादायैव सिद्ध्या वार्तिकं नारभ्यमिति। भाष्यप्रयोगात्प्रभृतियोगे पञ्चमी। तत्रार्थग्रहणाच्च तत आरभ्येति तद्व्याख्यापरकैयटः। तेन`इति स चिकुरादारभ्यैनां नखावि वर्णय'न्नित्यादि सिद्धम्।
त्तरपदाजाहियुक्ते ।। 29 ।।
एतैर्योरो पञ्चमी स्यात्। अन्येत्यर्थपरम्। इतरग्रहणं प्रपञ्चार्थम्। नीचार्थयोगे `पञ्चमी विभक्त'इत्येव सिद्धेः। घटादन्यो भिन्नो वेत्यादि। अत्र प्रतियोगित्वं पञ्चम्यर्थः। तस्य पदार्थैकदेशेऽन्योन्याभावेऽन्वयः। नन्वेवं घटः पटो नेत्यत्रातिप्रसङ्गः। नच तस्यान्योन्याभावबोधकत्वान्न दोषः तदाश्रयवाचकपदयोगे पञ्चमीविधानादिति वाच्यम्। भिन्न इत्यादौ तदसिद्धेरिति चेदत्राहुः-नञो द्योतकत्वान्न दोष इति।
(1)अन्ये तु एवमपि घटस्यान्योन्या भावस्तादात्म्यावच्छिन्नप्रतियोगिताकाभाव इत्यादावतिप्रसङ्गः। अतोऽन्योन्याभावादिपदानां अन्योन्यपदवाच्यतादात्म्याद्यभावत्त्वेन बोधो नतु भेदत्वेन। नञोऽप्युभयसाधारणमभावत्वमेव शक्यतावच्छेदकमतो न दोषः। नच नञ्‌योगे षष्ठी तथापि दुर्वारा। नियतप्रयोगा हि केचिदव्यया इति नेयं विभाषेत्यादि भाष्यप्रयोगाच्चेत्याहुः।
तन्न। अन्योन्याभावत्वात्यन्ता भावत्वयोरेव नञ्‌पदशक्यतावच्छेदकताया दीधितिकारादिभिरुक्तत्वात्। अन्यथा तत्तत्प्रकारकसन्देहनिवृत्त्यनुपपत्तेः। तस्मादन्यवाचकसत्वार्थकपदानामेव योगे पञ्चमि। अत्र चेतरपदं तात्पर्यग्रहकमिति बोध्यम्।
गुणरहस्ये तु-अन्ये तु एवमपि घटस्यान्योन्याभावस्तादात्म्यसम्बधविच्छिन्नप्रतियोगिताकाभाव इत्यादावतिप्रसङ्गः। अतोऽन्योन्याभावादिपदानामन्योन्यपदवाच्यतादात्म्याद्यभावत्वेन बोधो नतु भेदत्वेन। नञोऽप्युभयसाधारणमभावत्त्वमेव शक्य तावच्छेदकमतो न दोषः। नच नञ्‌योगे षष्ठी तथापि दुर्वारा नियतप्रयोगा हि केचिदव्यया इति नेयं विभाषेत्यादि भाष्यप्रयोगाच्चेत्याहुः। तन्न। अन्योन्याभावपदस्यापि भेदपदवद्भेदत्वेनैव बोधकत्वात्। तादात्म्याभावत्वेन बोधो हि तादात्म्यस्य प्रतियोगित्वावगाही प्रतियोगितावच्छेदकत्वावगाही वा। नाद्यः। घटादेरेव प्रतियोगित्वानुभवात्। नान्त्यः। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वस्य भेदत्वे संयोगाद्यवच्छिन्नप्रतियोगिताकात्यन्ताभावेऽतिव्याप्तेः। संयोगस्य संयोगितादात्म्यरूपत्वात्। भेदप्रतियोगितायाः सम्बन्धावच्छिन्नत्वस्य नव्यैरनङ्गीकाराच्च। अखण्डोपाधिरूपताया एव स्वीकाराच्च। अत्यन्ताभावत्वान्योन्याभावत्वयोः पृथगेव नञ्‌पदशक्यतावच्छेदकतायादीधितिकारादिभिरुक्तत्वात्। अन्यथा तत्तत्प्रकारकसंन्देहनिवृत्त्यनुपपत्तेः। तस्मादन्यवाचकसत्त्वार्थकपदयोगे एव पञ्चमी तत्र चेतरपदोपादानं तात्पर्यग्राहकं अतो नञ्‌योगे न प्रसङ्गः।
अन्ये तु यत्र प्रतियोगित्वसम्बन्धेन प्रतियोगिनोऽन्योऽन्याभावान्वयो न व्युत्पन्नस्तत्र षष्ठ्याः पञ्चम्या वा प्रतियोगिवाचकपदोत्तरमपेक्षा। यथा घटस्याभावो घटादन्य इत्यादौ। निपातातिरिक्तनामार्थयोर्भेदान्वयानर्हत्वात् नञ्‌र्थे तु प्रतियोगित्वसम्बन्धेन पटादेदन्वयस्य व्युत्पन्नत्वात्षष्ठ्या इव पञ्चम्या अपि नाकाङ्क्षा इत्याहुः।
आराद्‌दूरसमीपयोः। आराद्देवदत्तात्। दूरान्तिकार्थैः षष्ठ्यन्तरस्यामिति प्राप्तम्। ऋते कृशानोर्न हि मन्त्रपूतम्। द्वितीयापीति प्रागुक्तम्। स्रक्‌ पारिजातस्य ऋते न शालाम्। दिशि दृष्ट शब्दो दिक्‌शब्दः। तत्समभिव्याहारे दिग्वाचकत्वाभावेऽपि यदाकदाचिद्दिक्‌पर इत्यर्थः। ग्रामात्पूर्वो देशः। चैत्रात्पूर्वः फाल्गुनः। अवयविना योगे षष्ठ्येव। पूर्वं कायस्येति प्रागुक्तम्। अञ्चुत्तरपदस्य दिक्‌शब्दत्वेऽपि`षष्ट्यतसर्थप्रत्ययेने'त्यस्य बाधार्थं पृथगुपादानम्। नच तेन सध्र्यङ् इत्यादौ पञ्चम्यर्थं तदिति वाच्यम्। साहचर्याद्दिक्‌शब्दस्यैवाञ्चूत्तरपदस्य ग्रहणात् प्राक्ग्रामात् प्रत्यग्ना। दक्षिमाग्रामात्। दक्षिणादाच्‌। दक्षिणाहि उत्तराहि वा ग्रामात्। आहि च दूरे, उत्तराच्चेत्याहिः।
षष्ठ्यतसर्थप्रत्ययेन ।। 30 ।।
दक्षिणत उत्तरतो वा ग्रामस्य। दक्षिणोत्तराभ्यामतसुच्‌। एवं पुरः पुरस्तादुपर्य्यपरिष्टात्। `विन्ध्याद्दक्षिणतोऽखिलैरपि बुवैः कुष्णादिको नेष्यते' इति तु ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगस्य सामान्यापेक्षज्ञापकत्वादिति केचित्।
अन्ये तु प्रमाद एवायम्। ज्ञापकस्य पश्चाद्योगमात्रविषयकत्वादित्याहुः। श्रुतस्यैव चात्रातसुच्‌प्रत्ययस्य निमित्तता न तु लुप्तस्य। प्राक्‌ग्रामादित्यादौ प्रत्ययलोपे षष्ठ्यभावस्य कैयटसिद्धत्वात्।
एनपाद्वितीया ।। 31 ।।
योगविभागात्षष्ठीच। दक्षिणेन ग्रामम् ग्रामस्य वा। उत्तरेण। `तत्रागारं धनपतिगृहादुत्तरेणास्मदीय'मिति तु प्रमाद इत्येके। उत्तरेणेति तृतीयैकवचनान्तम्। `दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेने'ति तृतीयान्तेनाभेदान्वयीत्यपरे। गृहानिति द्वितीयान्तमित्यन्ये।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ।। 32 ।।
अन्यतरस्यामिति समुच्चयार्थम्। मण्डूकप्लुत्या पञ्चम्यनुवृत्तिः। एभिर्योगे तृतीयापञ्चम्यौ स्तः। घटात्पृथक् घटेन वा। हिरुङ्‌ नानाच वर्जने इत्यमरः। `नाना नारीं निः फला लोकयात्रे'ति क्षीरस्वामी। योगविभागाद्‌द्वितीयापीति वृत्तिः। नानाविष्णुं मोक्षदो नान्यदेवः।
करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ।। 33 ।।
अद्रव्यार्थेभ्य एभ्यः करणे तृतीयापञ्चम्यौ स्तः। स्तोकेन स्तोकाद्वा मुक्तः। असत्वेति किम्। स्तोकेन विषेण हतः।
दूरान्तिकार्थैःषष्ठ्यन्यतरस्याम् ।। 34 ।।
पञ्चम्या सह विकल्पः। दूरमन्तिके ग्रामस्य ग्रामाद्वा।
दूरान्तिकार्थेभ्यो द्वितीया च ।। 35 ।।
चकारात्पञ्चमीतृतीये। प्रातिपदिकार्थे विधिरयम्। नत्वत्र विभक्त्यर्थः कश्चित्। ग्रामस्य दूरं द्‌राद् दूरेण वा। एवमन्तिकेऽपि। `तद्युक्तात्पञ्चमीप्रतिषेधो नवा तत्रापि दर्शना'दिति वार्तिकम्। यदपेक्षया दूरत्वं तत्र पञ्चमी न स्यात्। अथ वा तत्रापि दर्शनादवाच्यः प्रतिषेधः। `दूरादावमथान्मूत्रं दूरात्पादावनेजनम्। दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद्गुरोः'। अत्र यदा दूरपदं धर्ममात्रपरं तदैव असत्ववचनेत्यनुवृत्तिः। यदा तु धर्मिपरं तदा सामानाधिकरण्याद्विशेष्यसमानविभक्तिकत्वम्। दूरः पन्थाः `अदवीयानयं पन्थाः स्वर्लोकमुपतिष्ठते' इति मुरारिः।
सप्तम्यधिकरणे च ।। 36 ।।
चकारो दूरान्तिकसमुच्चयार्थः। कटे आस्ते। दूरे ग्रामात्। पूर्वोक्तविभक्तित्रयेण सहैतद्वाक्यविहितसप्तम्याः समुच्चयात् दूरन्तिकार्थेभ्यश्चतस्रो विभक्तयः सिद्धाः। `क्तस्ये न्वेषयस्य कर्मण्युपसंख्यानम्'। इन्नन्तस्येत्यर्थः। अधीति व्याकरणे। अधीतमनेनेतिकर्मक्तप्रत्ययान्तादधीतशब्दात् `इष्टादिभ्यश्चे'ति कर्तरि इनिः। कर्मणि द्वितीया कृतपूर्वी कटमितिवत्प्राप्ता तदपवादोऽयम्। अधिकरणविवक्षायां सप्तमीसिद्धावपि कर्मविवक्षायां द्वितीयाया दुर्वारत्वात्। मासमधीती व्याकरणे। इत्यत्र मासे न सप्तमी। कालस्य बहिरङ्गकर्मत्वात्। नच क्तप्रत्ययेन कर्मणोऽभिधानात्कथं द्वितीयापत्तिः। तद्धितार्थेन सहैकार्थीभूतस्य क्तान्तस्य पृथग्व्याकरणेन सम्बन्धाभावात्। गुणभूतक्रिययापि कर्मणः सम्बन्धसम्भवात्। सहाधीतवान् व्याकरणमित्यादिवत् अग्रे विस्तरः। `साध्वसाधुपयोगे च' साधुः कृष्णो मातरि। असाधुर्मातुले। क्रियाविरहादधिकरणे सप्तम्यप्राप्तौ वचनम्। केचित्तु वैषयिकाधिकरणत्वेन तत्सिद्धावपि षष्ठीनिषेधार्थामित्याहुः। `साधुनिपुणाभ्यामर्चाया'मित्यनेन सिद्धेऽपि अनर्चार्थमत्र साधुग्रहणम्। तेन तत्त्वकथनेऽपि साधुयोगे सप्तमी। तत्रार्चापदं तु निपुणस्यैव विशेषणम्। साधुर्भृत्यो राज्ञ इति तु भृत्यापेक्षया षष्ठी नतु साध्वपेक्षेयेति सम्प्रदायः। वार्तिकेन सूत्रवैयर्थ्याभावात्तत्सूत्रे साधुशब्दोपादानमित्यप्याहुः।
`अर्हाणां कर्तृत्केऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च'। ऋद्धेषु भुञ्जानेषु दरिद्रा आसते। ब्राह्मणेषु तरत्सु वृषला आसते। ऋद्धादीनां भोजनार्हत्वं। मूर्खेष्वासीनेषु ऋद्धा भुञ्जते। वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति। मूर्खाणां भोजनाद्यनर्हत्वम्। कारकार्हाणामकारकत्वम्, अकारकत्वार्हणाञ्च कारकत्वं विपर्यासः। ऋद्धेष्वासीनेषु मूर्खा भुञ्जते। ब्राह्मणेष्वासीनेषु वृषलास्तरन्ति इदं च लक्ष्यलक्षणभावाविवक्षायां सप्तमीविध्यर्थम्। अन्यथोत्तरसूत्रेण सिद्धेरिति कैयटादयः।
केचित्तु आसते इत्यनेन भोजनाभावो लक्ष्यते, ऋद्धदरिद्रादिपदैश्च क्रियार्हत्वानर्हत्वे व्यङ्ये। औचित्यमनौचित्यञ्च व्यङ्यो वाक्यार्थः। एतादृशलक्ष्यलक्षणभाव उत्तरसूत्रीयात्तस्माद्व्यावृत्त एवेति न वार्तिकवैयर्थ्यमित्याहुः।
`निमित्तात्कर्मयोगे'
प्रवृत्तिहेतुज्ञानविषयत्वेन निमित्तपदं फलपरम्। हेतुतृतीयापवादः। कर्मणा योगो वास्तवः संयोगसमवायान्यतरः। नतुशाब्दविषयत्वनियमः। क्रियाकर्मणा सह सम्बन्धशालिनः फलात्स्पतमीति वार्तिकार्थः।
चर्मणि द्वीपिनं हन्ति दन्तयोर्हान्ति कुञ्जरम्।
केशेषु चमरीं हन्ति सीम्नि पुप्कलको हतः।।
पुष्कलकः शङ्कुः। सीम्नि समिज्ञानार्थ निखात इति केचित्। पुष्कलको गन्धमृगः। सीमा अण्डकोशः। तदर्थं हत इत्यन्ये। चर्मणीत्यत्र चर्मद्विपिनोः समवायः। त्रयाणां संयोगः। दन्तकेशादीनां शरीरावयवत्वाभावात्। गन्धमृगार्थत्वेऽपि समवाय इति विशेषः। कर्मयोगे किम्। वेतनेन धान्यं लुनाति।
अत्र नैयायिकाः। अत्र जनकत्वं जन्यत्वं वा सप्तम्यर्थः। चर्मपदं तदीययथेष्टविनियोगपरम्। चर्मयथेष्टविनियोगजनकद्वीपिहननानुकूलकृतिमान्। यद्वा निमित्तत्वम्-यथेष्टविनियोगविषयत्वेनेच्छाविषयत्वम्। तादृशेच्छाविषयत्वस्य सप्तम्यर्थस्य जन्यत्वसम्बन्धेन हननान्वयः, यत्किञ्चित्कर्मप्रकारकबोधजनकधातुयोगश्चात्र विवक्षितः, तज्जनकत्वं सकर्मधातोः कर्मबोधकपदयोगेन चर्मणीत्यादौ, अकर्मस्य तु कर्मविशिष्टस्वार्थशक्त्या, अविद्यारजनीक्षये यदुदेतीति दर्शनात्। उदयगिरिशिखरमारोहतीत्यर्थात्। रजनीक्षयस्य सूर्योदयाजन्यत्वेऽपि ज्ञानविषयत्वेनोद्देश्यतया निमित्तत्वम्। सीम्नि पुष्कलको हत इतिवत्। तेन लोकानां रजनीक्षयज्ञानार्थं यदुदेतीत्यर्थः।
केचित्तु एतद्‌ द्वीपवर्तियावद्रविरश्मिसंसर्गभावविशिष्टः कालो रात्रिः। यावदितिसंसर्गाभावविशेषणम्। तद्रश्म्युत्पत्तौ तत्प्रागभावनाशे विशिष्टकालनाशाद्रजनीक्षयप्रयोजकत्वं सूर्योदये सुलभमित्याहुः।
यस्य च भावेन भावलक्षणम् ।। 37 ।।
यस्य क्रियया क्रियान्तरं परिच्छिद्यते ततः सप्तमी स्यात्। निर्ज्ञातकालया क्रियया अनिर्ज्ञातकालायास्तस्याः परिच्छेदात्। गोषु दुह्यमानास्वागतः। दुह्यमानेति गोविशेषणम्। तथैवानुभवात्। कालिकसामानाधइकरण्यं सप्तम्यर्थः। तस्यागमनक्रियायामन्वयः दुह्यमानत्वविशिष्टगवाधिकरणकालवृत्ति यदतीनमागमनं तदाश्रयः। दोहविशिष्टानां च गवां कालान्तरे विशेषणभावनिबन्धनादभावात् दोहसमानकालीनत्वमागमने पर्यवस्यतीत्यतो भावलक्षमत्वमव्याहतम्। दुग्धास्वागत इत्यत्रातीतदोहनकालीनत्वस्यागमने बाधात् दोहनध्वंसविशिष्टे लक्षणा। तथाच विद्यमानध्वंसप्रतियोगिदोहनकर्मसु गोषु इत्यर्थः।छ दोहन विशेषणतापन्नं यत्प्रतियोगित्वं तद्विशेषणीभूतस्य ध्वंसस्य समानकालीनत्वमागमने भाति। तथाच गोकर्मकदोहनप्रतियोगिकविद्यमानध्वंसाधिकरणकालवृत्ति यदागमनं इत्यादिः। धोक्ष्यमाणास्वित्यत्रापि विद्यमानध्वंसप्रतियोगी यो दोहनप्रागभावः तदधिकरणेत्यादि योज्यम्। गुणकर्मान्यत्वे सति सत्त्वादित्यभियुक्तप्रयोगात्। यत्र परधर्मेण धर्मान्तरं स्वसामानाधिकरण्येन प्रतिपाद्यते तत्र स्पमीति सूत्रार्थः। तेन विशेषणतासमवायोभयघटितदैशिकसामानाधिकरण्येन द्रव्यत्वादेः प्रतिपादनेऽप्यदोष इति तार्किकाः।
षष्ठी चानादरे ।। 38 ।।
अनादराधिके भावलक्षणे षष्ठी सप्तमी च स्यात्। सुदति रुदतो वा प्राव्राजीत्। रुदन्तं पुत्रादिकमनादृश्य सन्यस्तवानित्यर्थः। अत्र प्रव्रजनहेतुभूतावप्रतियोगिरागविषयत्वेन पुत्रादेः प्रव्रजनप्रतिकूलत्वात्तदनादरः। अन्यादृशस्थले तदप्रत्ययात्।
स्वमीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।। 39 ।।
एतैः सप्तमिर्योगे षष्ठीसप्तम्यौ स्तः। पाक्षिकसप्तम्यर्थं वचनम्। षष्ठ्यास्वभ्यनुज्ञानमात्रम्। गवां गोषु वा स्वामी। दायं भागं आदत्ते दायादः। निपातनात्सोपसर्गादपि कः। गोपदार्थस्याभेदेन दायेऽन्वयः। गवात्मकस्यांशस्यादातेत्यर्थः। गवां प्रसूतः। गा एवानुभवितुं जात इत्यर्थः।
आयुक्तकुशलाभ्यां चासेवायाम् ।। 40 ।।
आसेवा तदेकपरत्वम्। तदर्थे आभ्यां षष्ठीसप्तम्यौ। हरिभजनस्य हरिभजने वा आयुक्तः कुशलो वा। आसेवेति किम्। आयुक्तो गौः शकटे। ईषद्युक्त इत्यर्थः।
यतश्च निर्द्धारणम् ।। 41 ।।
जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं तद्यस्मात्ततः षष्ठीसमप्म्यौ। नृणां नृषु वा द्विजः श्रेष्ठः। गवां गोषु वा कृष्णा बहुक्षीरा। गच्छतां गच्छत्सु वा धावन् शीघ्रः। छात्राणां छात्रेषु वा मैत्रः पटुः। अत्र विभक्तेरन्योन्याभावोऽत्यन्ताभावः प्रतियोगी चार्थः। अन्योन्याभावे कृष्णाभिन्नगव्याः सामानाधइकरण्येन कृष्णत्वविशिष्टगोत्वावच्छिन्नप्रतियोगितासम्बन्धेनान्वयः। तस्यानुयोगितया गोपदार्थे, तस्य वृत्तित्वेनात्यन्ताभावे, तस्य प्रतियोगिनि, तस्याभेदेन निर्धारणनिमित्ते गुण बहुक्षीरत्वादौ, तस्य कृष्णाभिन्नायां गवि ततश्च कृष्णगवीभिन्नगोवृत्त्यत्यन्ताभावप्रतियोगिवहुक्षीरत्ववदभिन्ना कृष्णगवीत्यन्वयधीः। एवं च निर्धारणप्रतियोगिनि अत्यन्ताभावप्रतियोगित्वेन बहुक्षीरत्वादेः प्रतीतौ निर्धारणनिमित्तत्वमपि सङ्गच्छते।
यत्तु भेदोऽभेदश्च विभक्त्यर्थः कृष्णक्षीरपदार्थयोः प्रतियोगितया गोपदार्थस्याश्रयत्वेनान्वयः। अभेदे च गोपदार्थस्य प्रतियोगितया कृष्णपदार्थस्याधिकरणतयान्वयः। तथाच कृषअणभिन्ना गौर्न सम्पन्नक्षीरतमा, गवाभिन्ना कृष्णा सम्पन्नक्षीरतमेतिधीरिति। तदसत्। एकवाक्यत्वानुभवविरोधात्। कृष्णगोपदार्थयोः विशेषणविशेष्यभाववैपरीत्येन वारद्वयमन्वयाच्च।
यदपि विभक्त्यर्थः पूर्ववत्। कृष्णार्थस्य भेदे, तस्याश्रयतया गवि, तस्याः प्रतियोगित्वेन भेदे, तस्याश्रयतया सम्पन्नक्षीरतमायां, गोः प्रतियोगित्वेन भेदे, तस्याश्रयत्वेन कृष्णायां, तत्र सम्पन्नक्षीरतमाया अभेदेनान्वयः। तथाच गवाभिन्नकृष्णा कृषअणभिन्नगोभिन्नसम्पन्नक्षीरतमाभिन्नेति धीः। यद्वा सम्पन्नक्षीरतमा कृष्णभिन्नगोभिन्ना गवाभिन्नकृष्णा सम्पन्नक्षीरतमाऽभिन्नेतिभिन्नविशेष्यको बोध इति।
तदप्यसत्। अन्वयबाहुल्यात्। कृष्णा गौः सम्पन्नक्षीरतमाभिन्नेतिसंशयनिवृत्त्यनुपपत्तेश्च। कृष्णवत एव भेदे प्रतियोगित्वेनान्वये गौरवाच्च।
केचित्तु अभेदो विभक्त्यर्थः। तत्र गोः प्रतियोगित्वेनान्वयः। गवाभेदस्य कृष्णायां सम्पन्नक्षीरतमायां चान्वयः। गवाभइन्नसंपन्नक्षीरतमायाश्चाभेदेन सम्बन्धेन गवाभिन्नकृष्णायां ततश्च गवाभिन्नकृष्णा गवाभिन्नसम्पन्नक्षीरतमाभिन्नेति धीः। नच गवान्तरे सपन्नक्षीरतमत्वाभावप्रत्ययासिद्धिः। व्यापकत्वविशिष्टाभेदसंमर्गत्वादित्याहुः। तदपि चिन्त्यम्। गवाभेदस्य कृष्णायां संपन्नक्षीरतमायां चान्वये गौरवात्। कृष्णाभिन्नगोविशेष्यकसम्पन्नक्षीरतमत्वसंशयनिवृत्त्यमुपपत्तेश्च।
पञ्चमी विभक्ते ।। 42 ।।
निर्धारणप्रतियोगितावच्छेदकधर्मो यत्र निर्धारणविषये नास्ति तत्र निर्धरिणप्रतियोगिनः पञ्चमी स्यात्। माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। पाटलिपुत्रकनिष्ठात्यन्ताभावप्रतियोगि यदाढयतरत्वं तद्वन्तो माथुराः। अभावः पञ्चम्यर्थः। तत्र प्रकृत्यर्थस्य वृत्तित्वेनात्यन्ताभावे, तस्य च प्रतियोगितया आढ्यतरत्वादौ निर्धारणनिमित्तेऽन्वयः।
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ।। 43 ।।
प्रशंसातात्पर्ये आभ्यां योगे पञ्चमी स्यात्। नतु प्रतेः प्रयोगे। साधुर्मातरि निपुणो वा। अर्चायां किम्। साधुर्भृत्यो राज्ञः। स्वरूपकथने तात्पर्यम्। साधुशब्दयोगेऽनर्चायामपि सप्तमीति प्रागुक्तम्। `अप्रत्यादिभिरिति वक्त्वयम्'। साधुर्निपुणो वा मातरं प्रति पर्यनु वा।
प्रसितोत्सुकाभ्यां तृतीया च।। 44 ।
चात्सप्तमी।
तत्परे प्रसितासक्तविष्टार्थर्थोद्युक्त उत्सुकः। इत्यमरः।
तेन प्रकर्षेण सितः शुक्लो वेत्यत्रैतदभावः। प्रसित उत्सुकोवा हरिमा हरौ वा। विषयत्वं विभक्त्यर्थः। `स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकमं' इत्यत्र तुमर्ताच्चेति चतुर्थी। `पर्यु त्सुको निजमहोत्सवदर्शनाये'ति रत्नावल्याम्।
नक्षत्रे च लुपि ।। 45 ।।
लुप्संज्ञाप्रयोज्यलोपप्रतियोगिनः प्रत्ययस्यार्थे वर्तमानान्नक्षत्रात्प्रकृतिशब्दात्कालिकाधिकरणे तृतीयासप्तम्यौ स्तः। `मूलेनावाहयेद्देवीं श्रवणेन विसर्जपेत्'। मूले श्रवणे इति वा। पुष्ये पायसमश्नीयात् मघाभिः पललौदनम्। `नक्षत्रेण युक्तः काल'इत्यण्। `लुवविशेष'इति तस्य लोपः। रात्र्यवच्छेदेन दिनावच्छेदेन वा मूलयोग इति विशेषस्यानवगम्यमानत्वात्। अधिकरणे किम्। पुष्ये शनिः। अद्य पुष्यः।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयाध्यायस्य तृतीये पादे द्वितीयमाह्निकम्।