सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः २/आह्निकम् २

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् २
[[लेखकः :|]]

द्वितीयपादे द्वितीयमाह्निकम्।। 2 ।।
अनेकमन्यपदार्थे ।। 24 ।।
अनेकं सुवन्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः। अन्यपदं समस्यमानपदद्वयभिन्नपरम्। समस्यमानपदद्वयंच प्रथमान्तम्। त्रिकतः शेषस्योक्तत्वात्। तद्भिन्नपदंच द्वितीयाद्यन्तं तदर्थश्च कर्मत्वादि तस्य प्रकृत्यर्थविशेषणत्वेन प्रतीयमानत्वात्। अतएव पठन्ति अप्रथमाविभक्त्यर्थेचायमिति। तथाच द्वितीयाद्यर्थविशिष्ट एव बहुव्रीह्यर्थः। प्राप्तमुदकयं स प्राप्तोदको ग्रामः। ऊढो रथो येन स ऊढरथोऽनङ्वान्। उपहृतः पशुर्यस्मैस उपहृनपशू रुद्रः। उद्धृत ओदनो यस्याः सा उद्‌धृतादना स्थाली। चित्रा गावो यस्य स चित्रगुर्देवदत्तः। वीराः पुरुषा यस्मिन् स वीरपुरुषो ग्रामः। अत्र सर्वत्र कर्मत्वादिविशिष्टस्य ग्रामादेर्लाभः उदककर्तृकप्राप्तिकर्म रथकर्मकावहनकर्ता पशुकर्मकोपहरणोद्देश्यः। ओदनकर्मकोद्धरणावाधिः। चित्रगवीस्वामी। वीराभिन्नपुरुषाधिकरण इत्यादिवोधात्। अतो वृष्टे देवे गत इत्यादौ पदद्वयस्य भावलक्षमसप्तम्यन्तस्य समयपरिच्छेदद्वारा गमनक्रियारूपान्यपदार्थतात्पर्यकत्वेऽपि गमने वृष्टिध्वसोत्तरकालीनत्वस्यैव प्रतीत्या कर्मत्वादिबोधाभावान्न बहुव्रीहिः। एतेन चित्रागावो यस्येति विग्रहे गवां प्राधान्यम्। समासे तु स्वामिनइतिवृत्तिवाक्ययोर्विशेष्यभेदः स्यात्। अतश्चित्राणां गबामयमित्यादिरेव विग्रह इति मीमांसकोक्तं परास्तम्। समस्यमानपदयोः प्रथमान्तत्वं विनाबहुव्रीहेरेव दुर्लभत्वात्। मत्वर्थे बहुव्रीहिरिति कात्यायन वचनविरोधाच्च। तदस्यास्तीति प्रथमान्तादस्त्यर्थे वर्तमानान्मतुपो विधानात्। वृत्तिवाक्ययोर्विशेष्यभेदस्याप्रयोजकत्वात्। तथाच क्वचिद्गुणप्रधानत्वमर्थानामविवक्षितमितिप्रक्रम्य हरिणोक्तम्।
आख्यातं तद्धितकृतोर्यात्किञ्चिदुपदर्शकम्।
गुणप्रधानभावादौ तत्र दृष्टो विपर्यय इति।।
अक्षैर्दीव्यति आक्षिकः। व्याकरणमधीते वैयाकरणः। पचतीति पाचकः। विग्रहे कर्तुः क्रियायां गुणीभूतत्वेऽपि वृत्तौ विशेष्यत्वेन प्रत्ययात्। भावना च तेषां तिङवाच्या अस्माकं तु धात्वर्थ इति विशेषः। मासाज इत्यत्र वृत्तिवाक्ययोविंशेष्यभेदः प्रागेव व्याख्यातः। अतएव सर्वतन्त्रेषु चित्रा गावो यस्येत्येव विग्रहो दर्श्यते इति दिक्। अनेकग्रहणं बहूनां समाससिद्ध्यर्थम्। तथाचसमर्थसूत्रे भाष्यम्।
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्त्रशितिरन्ध्रेण द्वयोर्वृत्तौ न सिद्धयति।।
चतुःपदोऽयं बहुव्रीहिः। ढयापोः संज्ञाछन्दसोरित्यत्र बहुलवचनाज्जटाशब्दे ह्रस्वः। यद्वा त्रिपदबहुव्रीर्हि कृत्वा पश्चात्केश शब्देन बहुव्रीहिः। एवं सुष्टु नते वासो यत्रेति व्याख्येयम्। समन्त्रानि शितीति रन्त्ध्रणि यस्येति विग्रहः। ननुत्रिपदे बहुव्रीहौ पूर्वशालाप्रियः पञ्चगवधन इत्यत्र शालाशब्दस्योदात्तत्वं समासान्तश्च यद्यपि उत्तरपनिमितकतत्पुरुषसंज्ञया सिद्ध्यति। तथापि खादिरी इतरा शम्या यस्येति खादिरेतरशम्यमित्यत्र खादिरीशब्दस्य पुंवद्भावो न स्यात्। उत्तरपदस्य ततः परत्वाभावादितिचेत् न। तत्रेतरा चासौ शम्याचेति कर्मधारय कृत्वा खादिरीइतरशम्याऽस्येति द्विपदस्यैव बहुव्रीहेर्बाच्यत्वात्। खादिरीपदस्य विकारतद्धितान्तत्वाद्धृद्धिनिमित्तस्येति प्रतिषेधस्याप्रवृत्तेः।
अथ पूर्वशालाप्रियइत्यादावपवादत्वाद्वहुव्रीहीस्वरो दुर्वारः। नच विषयभेदाद्विरोधाभावः। तस्याववयवाश्रयतयाऽन्तरङ्गत्वेनबहुव्रीहिस्वरस्यैवापतेः नच समुच्वयेन निर्वाहः, अनुदात्तंपदमेकवर्जमिति पदद्वये उदात्तद्वयानुपपत्तेः। नचान्तरङ्गत्वं न स्वरबलीयस्त्वे हेतुः बहिरङ्गेणापि सतिशिष्टेन स्वरेण बाधादिति वाच्यम्। तथापि निमित्तस्वरान्निमित्तिस्वरो बलीयानिति बहुव्रीहौ स्वावयवोत्तरपदाश्रये पूर्वयोस्तत्पुरुषे निमित्ततया बहुव्रीहिम्वरं बाधित्वा तत्पुरुषस्वरस्यवोपपत्तेः। नच निमित्तिस्वरबलीयस्त्वे मानाभावः। युक्तारोह्यादिष्वेकशितिपाच्छब्दपाठस्य मानत्वात्। अन्यथैकशब्दस्य कन्नन्तत्वात्। यद्वा स्वाङ्गशिटामित्याद्युदात्तत्वात् एकः शितिः पादो यस्येति त्रिपदे बहुव्रीहौ तद्धितार्थेति द्वयोस्तत्पुरुषे च तत्स्वरं बाधित्वा बहुव्रीहौ प्रकृत्या पूर्वपदाद्युदात्तसिद्धौ तदर्थस्य पाठस्य वैयर्थ्यात्।
नन्वेकः शितिः पादो यस्येति पूर्वपदे कर्मधारयगर्भे बहुव्रीहाविगन्ते द्विगाविति पूर्वपदाद्युदात्तत्वम्। एकः शितिर्येषां ते एकशितयः पादा यस्येति पूर्वपदे बहुव्रीहिगर्भे बहुव्रीहावापि बहुव्रीहौ प्रकृत्येति वत्सिद्धमिति युक्त्यारोह्यादष्वेकशितीपाच्छब्दपाठप्रत्याख्यानात्कथं तस्य ज्ञापकत्वमितिचेत्सत्यम्। तथापि निमित्तस्वरान्निमित्तिस्वरो बलीयानित्यस्य वाचनिकत्वाङ्गीकारात्। नच सुसूक्ष्मजटकेशेनेत्यादौ त्रिपदे बहुव्रीहौ पृर्वपदद्वयस्य तत्पुरुषसंज्ञायामन्तोदात्तापतिरिति वाच्यम्। नहि बहुव्रीह्यवयवस्य तत्पुरुषत्वमत्र विधेयम्। किन्तु लक्षणान्तरेण यस्य तत्पुरुषसंज्ञाप्राप्तेत्यनुवादः। दिक्‌संख्ययोस्तु तद्धितार्थोत्तरपदेति तत्पुरुषसंज्ञाविधानवैषम्यम्। नच तत्रापि विशेषणं विशेष्येति तद्विधानमिति वाच्यम्। समुदायस्य वृताववयवस्य संज्ञान्तरं विशेषवचनं विना न प्रवर्तते इति बहुलवचनात्सिद्धेः। अन्यथापूर्वशालाप्रिय इत्यत्रापि वचनान्तरेण सिद्धेरुत्तरपदे परे तत्पुरुषविधानवैयर्थ्यात्।
नन्वेमप्यधिकषाष्ठिवर्ष इत्यत्र त्रिपदे बहुव्रीहौ अधिकग्रहणं चालुकीति अधिकशब्दस्य संख्यासंज्ञत्वात्तद्धितार्थोत्तरपदेति पदद्वयस्य तत्पुरुषेऽन्तोदात्तता स्यात्। मैवम्। इगन्ते द्विगाविति पूर्वपदाद्युदात्तसिद्धिः।
नन्वधिकशतवर्ष इत्यत्र दोषतादवस्थ्यम्। अधिकषष्ठिः इत्यत्रापि डच्प्रकरणे तत्पुरुषे संख्याया उपसंख्यानामिति डच्प्रसङ्गः। किञ्च तद्धितार्थोत्तरपदेति तत्पुरुषं बाधित्वा संख्ययाव्ययेति बहुव्रीहौ बहुव्रीहौसंख्येयेइति डच्‌प्रसङ्ग इति चेन्न। उपसंख्यानस्य गोत्रिंशदित्याद्यनुरोधेनाव्ययादिमात्रपरत्वात्। अधिकषष्ठिर्वर्षाणामस्येति विग्रहे षष्ठिपदस्य संख्यापरतया संख्येयपरत्वाभावाच्च। नचैवं वर्षाणां संख्येयत्वादनेकमन्यपदार्थे इति बहुव्रीहिप्रसङ्गः। तस्यसंख्येयवृत्तित्वाच्च डजपि वयस्विन्यभिधेये बहुव्रीहिगर्भबहुव्रीहिप्रसङ्गश्चेति वाच्यम्। वृत्तिविषये द्व्येकयोरित्यादिनिर्देशेन दशादीनामपि संख्यामात्रपरत्वात्संख्येयस्यान्यपदार्थंत्वात्संख्योत्तरपदस्य बहुव्रीहेः प्रत्याख्यानात्। अव्यविकन्यायेनाधिका षष्ठिर्वर्षाणामिति वाक्यमेवेति स्वीकारात्।
नचैवमप्यधिकशतवर्षइत्यत्र तकाराकारस्यैवोदात्त्त्वं स्यान्नत्वधिकशब्दस्याद्युदात्तत्वमिति वाच्यम्। तस्य युक्तारोह्यादिषु द्रष्टव्यत्वात्।
स्यादेतत्। अनेकग्रहणं चित्रगुरित्यादावुत्तरपदस्याप्युपसर्जनसंज्ञार्थमेवास्त्विति चेन्न। एकविभक्तिचापूर्वनिपात इत्येवसिद्धेः। चित्रगुमानयेत्यादौ समासार्थस्य विभक्त्यन्तरयोगेऽपि चित्रा गावो यस्येति विग्रहे समस्यमानपदयोः प्रथमान्तत्वनियमात्। नचैवं राज्ञः कुमारी राजकुमारी तां पश्येत्यादिद्‌र्शनात्कुमारीशब्दस्यापि नियतविभक्तित्वादतिप्रसङ्ग इति वाच्यम्। तत्र द्वितीयाद्यन्तेनापि कुमारीशब्देन विग्रहोपगमात्। तत्तत्प्रयोगव्यक्तौ सर्वस्याप्येकविभक्तित्वात्समासत्वव्याप्यधर्मावच्छिन्नंयत्तत्पुरुषादि तन्निरूपितविग्रहत्वावच्छेदेन यस्यैकविभक्तित्वमित्यर्थपर्यवसानात्।
अथ प्रथमान्तेन विग्रह इत्येव पक्षो युक्तः। अन्यथा कर्मत्वादेः समासेनैवाभिहितत्वाद्राजकुमारीं पश्येत्यादौ द्वितीयादिकं न स्यात्। अतः प्रातिपदिकार्थमात्रविवक्षायां प्रथमं प्रथमया (1)संस्कृत्वा ततः पश्येत्यादिसम्बन्धविवक्षायां द्वितीयादिकमनुपपन्नम्। अपिचोक्तविभक्तोः समासबहिर्भूतायाः कथं विग्रहे प्रवेशः। एवं पूरणगुणेतिसूत्रे समानाधिकरणेन षष्ठीसमासनिषेधोऽपि व्यर्थः। तथाहि तक्षकस्य सर्पस्येत्यत्र विषादिरूपसमासबाह्यपदार्थापेक्षा षष्ठी तथाच कटोऽपि कर्म भीष्मादयोऽपीति पक्षे द्वयोरपि षष्ठ्यन्वये पश्चात्प्रातिपदिकार्थयोः परस्परावच्छेदः। ततश्च षष्ठ्यन्तयोर्मिथोऽसामर्थ्यं स्पष्टम्। ततश्च प्रथमान्तयोरेव समासप्रसङ्गस्तत्र बहुलवचनान्नेति प्रागुक्तम्। एवं राज्ञः कुमार्या इत्यत्र द्वयोः षष्ठ्यन्तात्पूर्वनिपातनियमो न स्यादित्याशङ्कापि मन्दा। कुमारीशब्दे प्रथमान्तत्वावश्यकत्वात्। अतः प्रथमान्तेनैव विग्रहो युक्त इति प्राप्ते उच्यते।
समासोत्तरश्रुतस्य द्वितीयादेरपि द्वितीयपदोत्तरं विग्रहे प्रवेश उपस्थितत्वात् बाधकाभावात्। अन्यथा विग्रहे नियतविभक्तित्वेनोपसर्जनसंज्ञायां कुमारीशब्दादेर्हस्वापत्तेः। साधकत्वाच्च। अतएव बहुव्रीहिप्रकृतिकाद्वितीयादेर्विग्रहे वर्तिपदोतरं न प्रयोगः। स्वामिगतकर्मत्वाद्यबोधकत्वेन विरुद्धार्थकत्वात्। अतएवच कर्मत्वादेर्नसमासेनाभिधानम्। अनुप्रवेशमात्रेण वाच्यत्वे पचन्तीति पाचका इत्यत्र बहुत्वस्यापि कृदर्थत्वापत्तेः। षष्ठीसमासकर्मधारयादेः सर्वविभक्तिसाधारण्येन विभक्तिविशेषार्थानां तत्तदर्थकुक्षावन्तर्भावयितुमशक्यतया सर्वसाधारणस्यैवार्थस्य तद्बोधकल्पनौचित्यात्। कर्मद्वादेश्चान्वयव्यतिरेकाभ्यां तत्तद्विभक्तिबोध्यत्वात्। अतएव द्वितीयार्थे बहुव्रीहौ कर्मत्वादेर्वर्तिपदार्तादेव धर्मिविशेषणत्वेन प्रतीतत्वात्। उदककर्तृकप्राप्तिक्रियानिरूपितकर्मत्वादिबोधार्थं नद्वितीयादिःकिन्तु क्रियान्तनिरूपितकर्मत्वादिबोधार्थं नद्वितीयादिःकिन्तु क्रियान्तरनिरूपितकर्मत्वादिबोधार्थमेवेति नियमः। एवं नीलोत्पलस्येत्यादौ षष्ठ्या विग्रहेऽपि न संबन्धस्य समासे प्रवेशः। तदंशे विवरणत्वाभावात्। अत एव निषेधसार्थक्यं पार्ष्ठिकपरस्परावच्छेदेऽपि सामर्थ्यस्यानपायात्। `मित्रावरुणावृत्तावृधा' मित्यत्र प्रथमं द्वयोः क्रियान्वयेऽपि पार्ष्ठिकाभेदमादायैव सामर्थ्येन पराङ्गवद्भावस्य पूर्वमुपपादितत्वाच्च।
वस्तुतः कारकविभक्तीनामेव क्रियायान्वयनियमात्। तदन्तानामेव कटोऽपि कर्मेति न्यावेन क्रियान्वये पश्चान्मिथोऽवच्छेदः। षष्ठ्यास्तु कारकविभक्तित्वाभावात्प्रथममेव नामार्थान्वयः तस्यां सामानाधिकरण्याद्विभक्तिरिति पक्षस्यैव व्यवस्थितत्वात्। अत एव षष्ठ्याः क्रिययान्वयात्पूर्वमेव नामार्थान्वयादश्वाभिधानीमित्यादौ विशिष्टोद्देशेऽपि न वाक्यभेदः। अतएव समानाधिकरणमसमर्थमिति वाचनिकमितिसिद्धान्तः। अतएव सर्पिषः पीयमानस्येति समानाधिकरणषष्ठीसमासप्रतिषेधोदाहरणं भाष्यकृद्भिरुक्तम्। अधात्वभिहितमिति वाचनिकान् सामर्थ्यप्रतिप्रसवादिति तदभिप्रायः। एवंच पञ्चकं प्रातिपदिकार्थ इतिपक्षे द्वितीयादयो यथा प्रातिपदिकोत्तरं द्योतकतयैवोपयुज्यंते तथा राजकुमारीमित्यादावपीति क्लेशोऽप्यनाश्रयणीयः। एवमलौकिकविग्रहेऽपि लौकिकविग्रहवदेव विभक्तिः तस्मात्परिनिष्ठितविभक्त्या विग्रहपक्षोऽप्यदुष्ट इति तिष्ठतु विस्तरः।
अन्यग्रहणं किम्। वर्तिपदार्थप्रधान्ये सावकाशस्य तत्पुरुषस्यान्यपदार्थे बहुव्रीहिणा परत्वाद्बाधो यथा स्यात्। अन्यथा नीले त्पलं सर इत्यादौ समानाधिकरणस्थले बहुव्रीहेरेव बाधापत्तेः। कण्ठेकालइत्यादौ व्यधिकरणस्थले बहुव्रीहेः सावकाशत्वात्। पदग्रहण र्कि वाक्यार्थे माभूत्। ग्राहवती नदीति। अस्य हि मा स्नासीरिति तात्पर्यगम्यो वाक्यार्थः। अर्थग्रहणं किम्। कृत्स्ने पदार्थे यथा स्यात्। अन्यथा षष्ठ्यर्थसंबन्धमात्रमर्थः स्यात् तथाच देवदत्तादिसामानाधिकरण्यं न स्यात् नामार्थयोर्भेदान्वयायोगात्। त्रिकतः शेषस्योक्ततया समानाधिकरणानामेव बहुव्रीहिः। नेहे। पञ्चभिर्भृक्तमस्य। पञ्च भुक्तवन्तो यस्येत्यत्रापि न भवत्यन भिधानात्। अव्ययानां वाच्यः। उच्चैर्मुखः उच्चैः शब्दस्याधिकरणशक्तिप्रेधानत्वाद्वैयधिकरण्यादप्राप्तौ वचनमिति कैयटादयः।
अन्येतु प्रथमान्तत्वमात्रस्येहापि सत्त्वादकर्तव्यमेवेदम्। अत एव वाक् च दृष्च्च प्रिया यस्येति त्रिपदे बहुव्रीहौ कृतेऽवान्तरद्वन्द्वोऽभायुपगतः।
प्रादिभ्यो धातुजस्य बहुव्रीहिस्तदुत्तरपदलोपस्तुवा वक्तव्यः। प्रपतितपर्णः प्रपर्णः।
नञोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपः। अविद्यमानो घटो यत्र तदघटं भूतलम्। अविद्यमानघटं वा।
अस्तिक्षीरादीनामुपसंख्यानमसुबन्तत्वात् अव्ययत्वात्सिद्धम्। तिङन्तत्वादप्राप्तौ वचनम्। तिङन्तपतिरूपकमव्ययमिति प्रत्याख्यानम्। यद्यपि किंसब्रह्मचारीत्यत्र के सब्रह्मचारिणो यस्येति समासे कठ इत्युत्तरानुपपत्तिः। प्रश्नस्य बहुवचनन्तित्वे उत्तरेएकवचनायोगात्। केषामिति षष्ठीसमासेऽपि स एव दोषः। आद्युदात्तत्वानुपपत्तिश्च। एतेन सुप्सुपेति कः सब्रह्मचारीति समानाधिकरणसमास इत्यपास्तम्। कः सब्रह्मचारी यस्य स र्किसब्रह्मचारी त्वं इति समासे एकत्वस्वरयोरुपपत्तावपि तद्भिन्नस्य प्रश्नविषयत्वादहंकठ इति अस्मत्सामानाधिकरण्यमनुपपन्नं स्यात्। तथापि प्रथमोक्त एव बहुव्रीहिः। स्वस्य कठत्वोक्त्या तेषामपि कठत्वाक्षेपात्। अन्यथा सब्रह्मचारित्वायोगात्। अतएव कठाइति बहुवचनस्योत्तरे सर्वदा नास्तित्वम्। वर्तिपदार्थानां उपसर्जनत्वात्तंदुपलक्षितस्यान्यपदार्थस्य प्राधान्यात् र्किसब्रह्मचारीति समासेन तेषामनभिधानात्। वाक्येन प्रश्ने तूत्तरेऽपि बहुवचनं भवत्येवेति सिद्धान्तः। द्वौद्रोणौ अर्द्धद्रोणश्चार्धतृतीया द्रोणा इत्युच्यन्ते। अर्धस्तृतीयो येषामिति बहुव्रीहिः।
नचान्यपदार्थस्य वर्तिपदार्थव्यतिरिक्तत्वनियमादत्र च बहुत्वान्यथानुपपत्या वृत्तौ वर्तिपदार्थस्याप्यन्तर्भावात्कथं बहुव्रीहिरिति वाच्यम्। अर्धस्य द्वयोश्च यः समुदायः स समासार्थः। तदवयवाश्च कदाचिद्भेदेन कदाचिदभेदेन विवक्ष्यन्ते। यथा ब्रह्मणानां संघः। संघीभवन्ति ब्राह्मणा इति। ततश्चोद्भूतावयवभेदः समुदायः समासार्थ इति बहुवचनम्। द्रोणशब्दस्य लक्षणया द्रोणयोस्तदर्धेच वृत्तिरिति सामानाधिकरण्यमिति दोषाभावात्। नचैवं `असिद्वितीयोऽनुससार पाण्डवं `संकर्षणद्वितीयस्य बलं कुष्णस्य वर्धता'मित्यादावपि द्वयोः पूरणस्य द्वितीयस्य द्व्यात्मकसमुदायावयवत्वात्तदवयवस्य समुदायस्य समासार्थत्वाद्द्विवचनापत्तिः। द्वितीयशब्दस्याव्युत्पन्नस्य सहायार्थस्य तत्र प्रयोगात्।
सचायं बहुव्रीहिद्विंविधः तद्‌गुणसंविज्ञानोऽतद्‌गुणसंविज्ञानश्च तस्यान्यपदार्थस्य यत्र क्रियान्वयः स आद्यः। यथा लम्बकर्णमानयेत्यादौ। तदभावे द्वितीयः। यथा चित्रगुमानयेत्पादौ एवं च विशेषणत्वोपलक्षणात्वाभ्यां तद्गुणातद्गुणविभागः।
यत्तु कैयटः संयोगसमवायलक्षणे संबन्धे तद्‌गुणसंविज्ञानम्। स्वस्वामिभावादिके तु संबन्धे बहुव्रीहौ अतद्‌गुणसंविज्ञानमिति संक्षेपेण विषयविभाग इति। तत्संभवमात्राभिधानम्। अतएव संक्षेपेणेत्युक्तम्। सर्वादीनि सर्वनामानीत्यत्र समुदायेन सर्वशब्दस्योक्तद्वयाभावात् सर्वनामसंज्ञानुपपत्तेः। जन्माद्यस्य यत इति सूत्रे जन्मनो ब्रह्मलक्षणत्वानुपपत्तेश्च। विशेषणादिविभागश्च कल्पतरावुक्तः। कार्यान्वयित्वेन विभेदकं हि विशेषमं नैल्पमिवोत्पलस्य अनन्वयित्वेन भेदकानामुपाधिता लक्षणता च सिद्धा।
यावत्कार्यमवस्थायि भेदहेतोरुपाधिता।
कादाचित्कतया भेदधीहेतुरुपलक्षणम्।।
उपलक्षमत्वं च प्रत्याय्यव्यावृत्त्यनवच्छेदकत्वे सति तत्समानाधिकरणत्वं बुद्धेः। विशेषणत्वं च तदवच्छेदकत्वे सतीत्यादिस्पष्टमन्यत्र। प्रकृते तु कार्यान्वयानन्वयाभ्यांमेव तद्बोध्यम्। तत्रौत्सर्गिकस्तद्‌गुमसंविज्ञानो विशेषणत्वस्य मुख्यत्वात्। बोधकसत्त्वे तु द्वितीयः। आषाढादिचतुर्मासानित्यादौ श्रावणादिमासचतुष्टयस्य वचनान्तरैकवाक्यतया ग्रहणात्। अतएव द्विपदगर्भो बहुव्रीहिस्तद्गुण एवेत्यपास्तम्। जक्षित्याद्‌यःषडित्यादौ व्यभिचारादिति अद्वैतचन्द्रिकायाम्।
संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये ।। 25 ।।
संख्येयार्थया संख्यया अव्ययादयः समस्यन्ते। दशानां समीपे ये सन्ति ते उपदशाः। उपर्विशाः। बहुव्रीहो मंख्येयेति डच्। `तिविंशतेर्डिती'ति तिलोपः। `अयं वीरो वारानजयदुपविंशमवसुमती'मिति मुरारिः। सामीप्यमाधान्ये त्वव्ययीभाव इति प्रागुक्तम्। एवमासन्नविंशान् विशसितविषमक्षत्रजातिप्ररोह'इति मुरारिः। अदूरत्रिंशाः। अधिकचत्वारिंशाः। द्वौ वा त्रयो वा द्वित्राः। यद्यपि द्वौ त्रयो येषामुन्मुग्धानामिति विग्रहे पूर्वेणैव सिद्धम्। बहुव्रीहेरसंख्येयवृत्तित्वात्समासान्तदौर्लभ्यं च। द्वौ वा त्रयो वेति विग्रहे पक्षे द्विवचनप्रसङ्गः। तथापि संख्यायामनिर्ज्ञातायां बहुवचनं प्रयोक्तव्यम्। कंति भवतः पुत्रा इति दर्शनात्।
इदं च वाचनिकमिति केचित् अन्येतु वाशद्वस्यात्र संशयार्तत्वात्संशयस्यानियतसंख्याविमर्शित्वात्तद्विषयबहुत्वसद्भावान्न्यायसिद्धमित्याहुः।
यद्वा कार्यान्वयस्यान्यतरमात्रवृत्तित्वेऽपि बोधे पञ्चानां विषयत्वात्। तदुक्तं सैषा पञ्चाधिष्ठिता वागिति। द्विदशा इत्यत्र द्वौ दशेति न विग्रहः। दशसंख्याया एकत्वात्। नापि द्विशब्दस्य दशत्वावृत्तिगतसंख्यापरत्वात् द्विर्दशेति सुजन्तद्विशब्देन तस्य शब्दान्तरत्वेन संख्यार्थत्वाभावात्। तथापि सुजन्तेनैव विग्रहः। अस्वपदविग्रहोपगमात्। शब्दशक्तिस्वाभाव्येन समासेन क्रियाभ्यावृत्तिलक्षणसुजर्थस्याभिधानान्न तत्र तत्प्रयोगः। वाक्ये तु सुचं विनातदर्थानवगमात्तत्प्रयोग इति विशेषः। एवंच न्यायसाम्याद्द्वौ दशतावित्यपि विग्रहः। तदुक्तम्।
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः।
वृत्तिशब्दोन्य एवायमर्थान्तरनिबन्धनः। इति।
इतिकैयटः सुजादीनां विशेषाणां वाक्ये प्रयोगेऽपि वृत्त्यन्तर्गतस्य द्व्यादिशब्दस्य तद्भिन्नतया सुजाद्यर्थप्रत्यायकत्वमिति कारिकार्थः। न च द्वित्राः द्विदशाः इत्यत्र वार्थसुजर्थयोः प्राधान्यात्पूर्वेणैव सिद्धमिति वाच्यम्। तयोः प्राधान्याभावात्। कबभावार्थत्वाच्च।
दिङ्‌नामान्यन्तराले ।। 26 ।।
दिशां संज्ञाः समस्यन्ते अन्तराले वाच्ये। दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा। सर्वनाम्नो वृत्तिभावे पुंवद्भाव इति भाष्यम्। नामेति रूढिग्रहणार्थम्। तेनैन्द्रीकौवेर्यादीनामन्तरालप्राधान्ये समासाभावः। अप्रथमाविभक्त्यर्थे इत्युक्तत्वाद्वैयधिकरण्याच्च पूर्वेणासिद्धौ वचनम्। विभाषादिक्‌समासे इति सर्वनामसंज्ञाविकल्पे अस्यैव ग्रहणाय प्रतिपदोक्तत्वसंपादनार्थमप्ये तत्। कबभावार्थं च।
तत्र तेनेदमिति सरूपे ।। 27 ।।
सप्तम्यन्ते ग्रहणविषये तृतीयान्ते च प्रहरणविषये सरूपे पदे इदं युद्धं प्रवृत्तिमित्यर्थे कर्मव्यतीहारे समस्येते। इतिशब्दस्य लौकिकविवक्षापरत्वेन ग्रहणप्रहरणकर्मव्यतीहारयुद्धानां लाभः। तत्रापि युद्धं विषयीभूतं अन्ये वाच्या इति विशेषः। ग्रहणप्रहरणशब्दयोर्यथाक्रममधिकरणे करणे च ल्युट्। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। मुष्टीमुष्टि। दण्डैश्च दण्डैश्च प्रहृत्य दण्डादण्डि। इच्‌कर्मव्यतीहारे इति समासान्त इच्। तस्य तिष्ठद्‌गुप्रभृतीनिचेत्यव्ययीभावमध्ये पाठादव्ययत्वम्। अन्येषामपीति दीर्घः।
न च इदंशब्दात्पूर्वमाकारं प्रश्लिष्यैवात्वं विधीयतां उत्तरपदे यस्येति लोपावश्यकत्वेन प्रयोजनाभावादिति वाच्यम्। यदि नियोगतोस्यानेनैव दीर्घत्वं स्यादिति भाष्येति अस्यसीत्यादावतिप्रसङ्गस्य भाष्ये दर्शितत्वात्। एवं च मुष्टामुष्टीति प्रामादिकमिति कैयटादयः। सरूपेतिकिम्। हलैश्च मुसलैश्चेदं युद्धं प्रवृत्तम्। इदं सूत्रं वैयधिकरण्यार्थम्। प्रथमाविभक्त्यर्थे एकशेषबाधनार्थं कबभावार्थंच। अन्यथा सहविवक्षितत्वात्सरूपत्वादेकविभक्तित्वाच्चैकशेषः स्यात् समूहान्यथानुपपत्त्या समूहविषयिण्यानया बहुव्रीहिसंज्ञया त्वारम्भसामर्थ्यात्तद्बाधात्। नचपरत्वात्पूर्वयोगेनैवैकशेषबाधः स्यात्। अन्यपदार्थापेक्षया तस्य बहिरङ्गत्वात्। परादप्यन्तरङ्गस्यैकशेषस्य बलवत्वात्। नच विशेषविहितेनेचा बाधात्कबभावः। शेषाद्विभाषेति कबभावे पक्षे इचः सावकाशत्वात्।
तथाहि तत्रशेषपदं तन्त्रावृत्त्यादिना उभयपरम्। उपयुक्तादन्यः शेषः। अनुक्तसमासान्त इति यावत्। द्वितीयस्य तु शेषाधिकारोऽर्थः। आद्येन प्रियमधुक इत्यादौ द्वितीयेन दक्षिणपूर्वादौ तदभावः। दिङ्‌नामानीत्यादौ शेषग्रहणाननुवृत्तेः शेषाधिकारएव गृह्यते नतूपयुक्तादन्य इति कैयटफक्विकायास्तु एवकारस्य क्रियासंगर्ति कृत्वा शेषाधिकारोऽपि गृह्यते नतूपयुक्तादन्यएवेति केवलानुपयुक्तग्रहणव्यवच्छेदे तात्पर्यमित्याहुः।
तेन सहेति तुल्ययोगे ।। 28 ।।
तुल्ययोगवृत्तिः सहशब्दः तृतीयान्तेन वा समस्यते। पुत्रेणसह सपुत्र आगतः। सहपुत्रः। वोपसर्जनस्येति सादेशः। पितुरन्यपदार्थस्य प्राधान्येऽपि वैयधिकरण्यार्थं प्रथमार्थं कबभावार्थ च वचनम्। तुल्ययोगेति किम्।
सहैव दशभिः पुत्रैर्भारं वहति गर्दभी।
तेषु विद्यमानेष्वित्यर्थः। अतएवाग्ना ई पतीवत्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहेत्यत्रैकक्रियान्वये विनापि सहयोगोपपत्त्या त्वष्टुर्देवतात्वं नेति सिद्धान्तः। तुल्ययोगवचनं प्रायिकम् विभाषा साकाङ्क्षे विभाषासपूर्वस्येत्यादिज्ञापकात्। तेन सकर्म इत्यादि सिद्धम्।
चार्थे द्वन्द्वः ।। 29 ।।
प्रागुक्तसमासं अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेतरेतरयोग समाहाराश्चार्थाः। मिथोऽनपेक्षयोरेकस्मिन्नन्वयः समुच्चयः। यथा ``अहरहर्नयमानो गामश्वं पुरुषं पशुम्। वैवस्वतो न तृप्यति सुराया इव दुर्मतिः। अत्रगवादीनां नयनान्वयः। गम्यमानार्थत्वात् चशब्दाप्रयोगः। मुख्यानुषङ्गिकोद्देश्यत्वाभ्यां भिन्नक्रियान्वयित्वमन्वाचयः। भिक्षामट गांचानयेति। अत्रभिक्षाटनस्यावश्यकत्वं गवानयस्य कृता कृतत्वम्।
यद्यपि धवंछिन्धि खदिरमपीत्यन्यतरस्यावश्यकत्वविवक्षायां क्रियासाम्येऽप्यन्वाचय एव। घटमानय पटं चेत्यादावुभयप्राधान्यविवक्षायां समुच्चय एव। तथापि क्रियैक्यभेदौ न नियामकौ किन्तु गुणप्रधानभावविवक्षैवेति कैयटः।
मिलितानामन्वय इतरेतरयोगः। समूहः समाहारः। तत्राद्ययोर्न समासः। असामर्थ्यात्। अन्त्ययोस्तु धवखदिरौ वाग्दृषदम्। नच चार्थे विधानात् द्वन्द्वस्याव्ययत्वापत्तिः। तत्प्रकरणे पाठाभावात्। शेषग्रहणं किम्। याज्ञिकश्चायं वैयाकरणश्चायं याज्ञिकवैयाकरणः, कठबहृचः, नीलोत्पलमित्पादौ माभूत्। विशेषणमित्यादावुपयुक्तत्वेन शेषत्वाभावः। अन्यथैकस्मिन् धर्मिणि अनेकधर्मसमुच्चयेन चार्थसद्भावात्। द्वन्द्वसंज्ञापत्तौ अभ्यर्हितत्वाद्वैयाकरणादेः पूर्वनिपातः स्यात्। तत्पुरुषेतु कामखञ्जादिवदनियतपूर्वनिपातसिद्धिः। इदंच परंकार्यमिति पक्षे। एकसंज्ञाधिकारे तुविशेषविहितत्त्वादेव तत्पुरुषसंज्ञासिद्धेः। नच शेषग्रहणपक्षे।
उपास्नानं स्थूलमिकतं तूष्णींगङ्गमहाह्रदम्।
द्रोणं चेदशको गन्तुं मर्त्वा ताप्तां कृताकृते।।
इत्यत्र द्वन्द्वो नस्यात् क्तेननञ्‌विशिष्टेनेति समामविधानादशेषत्वादिति वाच्यम्। कृताकृतेत्यत्र भिन्नयोरेव कर्मणोरभिमतत्वात्। एकस्यैकदेशावच्छेदेन कृताकृतत्वविवक्षायामेव च क्तेनेत्यादिसमासप्रवृत्तेः। अत्र पदार्थभेदे द्वन्द्व इत्येके। अन्येतु पदार्थतावच्छेदकभेदेद्वन्द्वः। चार्थे इत्यम्यापि भेदेगम्ये इति नार्थः। धवखदिरावित्यत्र विभक्त्यर्थोपस्थित्यभावेन एकस्यान्यस्मिन् विशेषणत्वाभावेन भेदस्य संसर्गतया भानायोगात्। अत एव नप्रकारविशेषत्वाभ्यां, अपदार्थत्वात्, छिन्धीत्यनन्वयाच्च। अतोवास्तव एवभेदो विवक्षणीयः। सचपदार्थप्रतियोगिकश्चेत्यत्र नियामकाभावात्। तेननीलोत्पलादौ व्याप्तिविशिष्टपक्षधर्मेत्यादौच पदार्थैक्येऽपि समस्यमानार्थतावच्छे दकस्य व्याप्तिविशिष्टपक्षधर्मत्वादेभेदात्तत्सम्भवः।
नचैवमेकशेषानुशासनवैयर्थ्यम्। पयसी इत्यत्र जलदुग्धोभयपरत्वे जलत्वदुग्धत्वरूपपदार्थतावच्छेदकभेदेन तत्सार्थक्यात्। नचनीलघटयोरित्यत्र द्वित्वानन्वयः पदार्थे बाधात्। तदवच्छेदकस्यैकदेशत्वाद्द्रव्यभिन्नतयाद्वित्वान्वयानर्हत्वाच्चेतिवाच्चम्। साधुत्वमात्रार्थत्वात्। नचनीलघटयोरबेदइत्यत्र कर्मधारयएवास्तु। नच द्विवचनानुपपत्तिः, एकधर्मिणि कर्मधारयोत्तरमिव द्विन्द्वोत्तरमपि द्विवचनानुशासनाभावादिति वाच्यम्। कर्मधारयादेव नीलाभिन्नतया घटोपस्थितौ तस्याभेदानाकाङ्क्षत्वादनन्वयापत्तेः। तत्राभेदस्य संसर्गतया भानेऽपि फलानुरोधेन निराकाङ्क्षत्वादित्याहुः।
आरे तु पदप्रतिपाद्यभेदे द्वन्द्वः। अतो नोभयत्राप्यनुपपत्तिः। एकशेवस्थले घटद्वयस्यात्र च नीलत्वघटत्वयोश्च भेदात्। नचैवमेकस्मिन् घटे घटश्चघटश्च घटा इत्यपि प्रसङ्गः। तत्प्रतिपाद्यानां घटघटत्वसमवायानां भेदादितिवाच्यम्। समस्यमानपदयोर्मध्येऽन्यतरपदबोध्ययावद्व्यक्तिभेदस्यान्यतरपदबोध्ये विवक्षितत्वात्। यद्वा विषयितासम्बन्धेनैकपदस्य यत्कार्यतावच्छेदकं तद्भिन्नविषयतासम्बन्धावच्छिन्नकार्यताकत्वस्यान्यपदेऽभिमतत्वात्। अत्र तु पदद्वयस्यापि घटत्वविशिष्टैतद्धट एव कार्यतावच्छेदक इत्याहुः।
प्रकृतमनुसरामः। अनेकग्रहणं किम्। होतृपोतृनेष्टोद्‌गातारः। नचायं द्वयोर्द्वन्द्व इति वाच्यम्। होतृपोत्रोरप्यानङ् प्रसङ्गात्।
स्यादेतत्। धवखदिरयोः परस्परमनन्वये सामर्थ्याभावात्समासो न स्यात्। नचैकक्रियान्वयित्वमेव तदिति कैयटोक्तरीत्या निर्वाहः। कृतः सर्वो मृत्तिकयेत्यर्थे कृतः सर्वमृत्तिक इत्यापत्तेः। करणत्वकर्मत्वाभ्यां सर्वमृत्तिकापदार्थयोः क्रियान्वयित्वात्। नच वचनसामर्थ्यादसामर्थ्येऽपि समासो यद्वा कर्मत्वाद्येकरूपेणान्वयित्वसमामर्थ्यमितिवाच्यम्। अन्वाचयेऽहरहरित्यादौ चातिप्रसङ्गात्। उत्तरपदोत्तरं द्विवचनाद्यनुपपत्तिश्च। तदर्थस्यैकत्वात्। तस्मात्‌धवपदं धवखदिरोभयपरम्। एवं खदिरपदमपि। तथाच पदद्वयार्थयोः परस्परमबेदान्वयरूपं सामर्थ्यं वाक्ये च तदभावः स्पष्टः। द्वितीयार्थस्य प्रतिपत्त्यर्थं च शब्दान्तप्रयोगः अर्थद्वयस्यैव पदद्वयबोध्यत्वान्न बहुवचनप्रसङ्गः। अतेव द्यावाचिदस्मै पृथिवी नमेते इत्यत्र पूथिवशिब्दस्य द्विवचनान्तत्वंसंङ्गच्छते। वाच्छन्दसीति पूर्वसवर्मः। अन्यथासंनमेते इतिद्विवचनान्तेन सामानाधिकरण्यं पृथिवीशब्दोत्तरं पदपाठवेलायामितिशब्दप्रयोगः प्रगृह्यसंज्ञानिबन्धनप्रकृतिभावश्च न स्यात्।
तदेतत्सर्वमभिसंधाय वार्तिककारेणोक्तम्। युगपदधिकरण वचने द्वन्द्व इति। अधिकरणं समस्यमानपदयोर्थौ तयोर्युगपद्वचने पदद्वयस्यापि पदद्वयार्थबोधकत्वेइत्यर्थः।
अत्र भाष्यकाराः। सेयं युगपदधिकरणवचनता दुःखाचदुरुपपादाचेति। दुःखेति प्रतितिविरोधात्। धवपदस्य खदिरबोधकत्वाभावात्। धवखदिरावितिवाक्यावृत्तिजन्यबोधादत्र वैलक्षण्याच्च। उद्देश्यतावच्छेदकविधेययोरैक्येन घटो घट इत्यादिवच्छाब्दबोधानुपपत्तेश्च। एकपदमुख्यार्थेन सममपरपदमुख्यार्थस्याभेदबोधोपगमे च योग्यताविरहात्। एकार्थत्वेऽपि तादृशान्वयसंभवे पदद्वयस्याप्यर्थद्वयबोधकत्वकल्पनप्रयासवैयर्थ्याच्च। पृथिवीत्यत्र च छान्दसव्यत्ययेनैकवचनस्थाने द्विवचनोपपत्तेः। द्वन्द्वेन समुदायाभिधायिना द्विवचनाद्युपपत्तेः। नच तस्यैकत्वादेकवचनापत्तिः। उद्‌भूतावयवभेदस्य समुदायस्य समासार्थत्वात्। अर्थग्रहणसामर्थ्याच्चकारेण प्रकाशितो योऽर्थस्त द्वन्द्वः। गामश्वमित्यादौ तु चकारप्रयोगव्यतिरेकेणापि समुच्चयावगमान्न तस्य चमात्रप्रकाशितत्वं सामर्थ्यं तु पूर्वोक्तमेव। अन्यथायथोक्तरीत्यापि अनिस्तारात्। कृतः सर्वमृत्तिक इत्यत्र विधायकाभावेन समासापत्तेरभावात्। कृतासहैव तस्य विहितत्वात्। क्वचिदसामर्थ्ये समासदर्शनमात्रेण तदापत्तिसौकर्ये च असूर्यंपश्याइत्यसमासमात्रेण कृतः सर्वमृत्तिकइति समासापत्तेस्तेनापि परिहर्तुमशक्यत्वात्। वचनप्रामाण्यात्समासइत्यस्य तुल्यत्वादिति यत्किंचिदेतत्।
न्यग्रोधो दृश्यतां प्लक्षश्चेत्युक्तं न्यग्रोधस्य न चार्थवृत्तित्वं किन्तु प्लक्षस्यैव। अतोऽनेकपदस्यचार्थवृत्तित्वाभावान्न समासः।
यत्तु वदन्ति। विग्रहेयुगपदधिकरणवाचिताया दुरुपपादत्वं भाष्यार्थो नतु समासेऽपि। तत्पूर्वं विग्रहे खल्वपि युगपदधिकरण वचनता दृश्यते। धवौच खदिरौचेत्यादिदर्शनेन तथैव युक्तत्वात्। प्रक्रियादशायां प्रथमप्रवृत्तैकवचनस्य त्यागायोगात्। नच समासे प्रत्येकपदयोरुभयार्थत्वे विग्रहेऽपि तथात्वमिति वाच्यम्। राजपुरुषइत्यादौ राजपदस्य सबान्धलाक्षणिकत्वेन विग्रहस्यापि राजाचासौ पुरुषश्चेत्याकारापत्तेः। नचेष्टापत्तिः। षष्ठ्याआक्रोशे इत्यादेरलुग्विधेस्तत्स्वरविधेश्च विरोधापत्तेः। इति।
तदसत्। तद्विषयं चेति पूर्वग्रन्थे समासेऽपि युगपदधिकरणवचनत्वस्य दर्शितत्वेन तत्साधारण्येनैव दूषणे भाष्यतात्पर्यात्। अन्यथा चार्थेद्वन्द्व इति न्याससमर्थनानुपपत्तेः। विग्रहे तद्वारणानुपपत्तेश्च समासार्थावबोधकस्यैव तत्त्वात्। नच षष्ठीसमासाद्युच्छेदः। तत्रषष्ठयासम्बन्धस्य बक्तुं शक्यत्वात्। तावदापि सम्बन्धी नोक्त इति चेत् किं ततः। धर्ममात्रस्योक्तत्वात्। विग्रहे सर्वांशसाम्यस्य ब्रह्मणाप्यानेतुमशक्यत्वात्। अत्र चधवश्चेति विग्रहे समासान्तर्गतधवशब्दद्वितीयार्थस्य प्रत्याययितुमशक्यत्वात्।
अतएवालुग्‌विध्यादेर्न विरोधः। अतएव युष्मदस्मत्प्रत्यय गोचरयोरित्यत्र युगपदधिकरणवचनत्वानुरोधेन द्विवचनान्ताभ्या मेव युष्मदस्मभ्द्यतं द्वन्द्वे विग्रह इत्याशङ्‌क्योक्तबाष्यकैयटानुसारेणोभयथापि तदभाव इत्युक्तमौपनिषदवृद्धैः।
नन्वेवं आङ्गश्च वाङ्गश्च कालिङ्गश्चेति अङ्गवङ्गकलिङ्गा इति नस्यात्। तद्राजस्य बहुषु तेनैवास्त्रियामिति अपत्यकृतबहुत्वविवक्षायां अपत्यपत्ययस्य लुग्विधानात्। युगपदधिकरणतां विनाच तद्राजार्थस्य बहुत्वानन्वयात्। तद्राजात्तेन बहुत्वोक्तौ लुगित्यर्थे प्रियवाङ्गाइत्यत्रापि तत्प्रसङ्गादिति चेन्न। बहुषुवर्तमानस्येत्यर्थमादाय संप्रति प्रतीयमानं यद्बहुत्वं तदाश्रयस्य तद्राजेन पूर्वमभिधानात्, इत्यस्य त्वयापि वाच्यत्वात्। तच्चसमासोत्तरसुपेति मम विशेषः। नहियुगपदधिकरणवचनपक्षेऽपि प्रत्येकस्मादपि परतोबहुवचनमस्त्येवेति नदोषइति भाप्यकारैरेवोक्तम्। अलौकिकद्वन्द्वविग्रहे वर्तिपदानामेकवचनान्तत्वस्य युगपदधिकरणवचनत्वपक्षे तदभिप्रायविरुद्धत्वात्। समाहारद्वन्द्वे पाणिपादं वादयेत्यत्र प्रकृत्यर्थैकदेशे कर्मत्वस्य, एकत्वस्यतु समाहार एवान्वयो व्युत्पत्तिवैचित्र्यात्।
यत्तु समाहारसंज्ञा नदीवृद्ध्यादिवत् पारिभाषिकी नतु तस्य शब्दार्थत्वम्। एकत्वमनन्वितमेव। नच द्विवचनाद्यापत्तिरसाधुत्वादिति। तन्न। रथघोषाधिकरणविरोधात्। रथघोषेणमाहेन्द्रस्य स्तीत्रमुपाकरोतीत्यत्रोभयपदलाक्षणिकसमाहारद्वन्द्वापेक्षया पूर्वपदमात्र लाक्षणिकषष्ठीसमासस्य लाक्षणिकतायास्तत्रोक्तत्वादेषा दिक्। इदं एकविंशतिरित्यादौ समाहारद्वन्द्व इति भाष्यम्। नच नपुंसकापत्तिः। लिङ्गस्य लोकाश्रयत्बात्। तेन राजन्यवहुवचनद्वन्द्वऽन्धकवृष्णिषु संख्येतिपूर्वपदप्रकृतिस्वरः। सिद्धः। शतसहस्रमित्यादिषष्ठीसमासवारणाय तस्य द्वन्द्वविषयत्वात्। यदि त्वेकाधिका विंशतिरिति शाकपार्थिवादित्वादधिकपदलोपस्तदा समासान्तोदात्तत्वम्।
उपसर्जनं पूर्वम् ।। 30 ।।
समासे उपसर्जनं पूर्वं प्रयोज्यम्। अधिहरि। नच राज्ञः पूरुषस्येत्यत्र द्वयोरपि षष्ठीति समासशास्त्रे प्रथमानिर्दिष्टत्वादुपसर्जनतया पर्यायेण पूर्वनिपातापत्तिः। अन्वर्थसंज्ञयायअप्रधाने एव तत्प्रवृत्तेः। अत्र विशेष्यतया पुरुषस्यैव प्राधान्यात्।
राजदन्तादिषु परम् ।। 31 ।।
एषु उपसर्जनं परं स्यात्। दन्तानां राजा राजदन्तः। वनस्याग्रेऽग्रेवणम्। गणे निपातनादलुक्। आकृतिगणोऽयम्। धर्मादिष्वनियम इष्यते। अर्थधर्मौ धर्मार्थौ। जम्पती। दम्पती। जायापती। गणपाठाज्जायाया दंजम्भावः।
द्वन्द्वे घि ।। 32 ।।
हरिहरौ। अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे हरिहरगुरवः।
अजाद्यदन्तम् ।। 33 ।।
अजादित्वादन्तत्वविशिष्टं द्वन्द्वे पूर्वं स्यात्। बहुष्वनियमः। अश्वरथेन्द्राः। इन्द्राश्वरथाः। ध्यन्तादजाद्यदन्तं विप्रतिषेधेन। इन्द्राग्नी।
अल्पाच्‌तरम् ।। 34 ।।
द्वन्द्वेऽल्पाच्कं पूर्वं स्यात्। नच बहूनां संनिधाने द्विवचनोपपदत्वाभावात्तरबनुत्पत्त्या तत्र नियमो न स्यादिति वाच्यम्। निपातनात्स्वार्थे तरप् कुत्वचुत्वाभावश्चेत्याश्रयणात्। धवखदिरौ। प्रासादे धनपतिरामकेशवानाम्। मृदङ्गशङ्खतूणवाः पृथक्‌दन्ति संसदीत्यादौ द्वयोः पृथग्‌द्वन्द्वं कृत्वा पूर्वेण पुनर्द्वन्द्वः। नच जातिरप्रामिनामित्येकवद्भावापत्तिः। नियतद्रव्यपरत्वात्। नापि तूर्याङ्गत्वेन। शङ्खस्य तद्‌भावात्। यद्वा तूर्यशिल्पोपजीविनामेव तूर्याङ्गत्वेन ग्रहणात्। पूर्वाभ्यामल्पाच्तरं विप्रतिषेधेन। वागग्नी। वागिन्द्रौ। अनित्यमिदं प्रकरणम्। लक्षमहेत्वोः, समुद्राभ्राद्धः इत्यादि निर्देशात्। एतेन `बर्हिराज्ययोरसंस्कारे शद्बलाभा'दिति जैमिनिसूत्रम् `अधीतिबोधाचरणप्रचारणै'रित्यादि व्याख्यातम्।
ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण पूर्वनिपातो वक्तव्यः। शिशिरवसन्तौ कृतिकारोहिण्यौ। समेतिकमि। ग्रीष्मवसन्तौ। अभ्यर्हितं पूर्वम्। मातापितरौ, एते मान्या यथापूर्वं तेभ्योमातागरीयसीति याज्ञवल्क्यः। लघ्वक्षरं पूर्वम्। कुशकाशम्।। सर्वतोऽभ्यर्हितं पूर्वं लध्वक्षरादपीति वक्तव्यम्।। भ्रातुर्ज्यायसः।। युधिष्ठिरार्जुनौ।। सेख्याया अल्पीयस्याः।। एकादश द्वादश द्वन्द्वादन्यत्राप्येतत्। द्वित्राः। `द्वेयेकयो'रिति सौत्रत्वात्सिद्धम्।।
सप्तमीविशेषणे बहुव्रीहौ ।। 35 ।।
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम्। कण्ठेकालः। यदा कण्ठे किञ्चिदस्तीति सामान्यतो ज्ञाते काल इत्युच्यते तदा कण्ठस्य विशेष्यत्वात्सप्तम्याः पृथगुपादानम्। अन्यदा विशेषणतयैव सिद्धेः। चित्रगुः।
।।सर्वनामसंख्ययोरुपसंख्यानम्।। विश्वदेवः। इदमपि विश्वशब्दस्य विशेष्यत्वे। दिवशुक्लः। द्वोयर्विशेषणत्वादनियमप्रसङ्गः। द्विपुत्र इत्यादि विशेषणत्वादपि सिद्धम्। तः परो यस्मात्स तपरः। जहत्स्वं पदात् स जहत्स्वः। तादृग्रथो यस्यां सा जहत्स्वार्था वृत्तिरिति तु सूत्रभाष्यप्रयोगाद्राजदन्तादित्वाद्वा सिद्धमित्याहुः। उक्तोभयसन्निपाते संख्यायाः शब्दपरविप्रतिषेधाश्रयणात्। अत एव संख्यासर्वनाम्नोरिति नोक्तम्। द्व्यन्याय त्र्यन्याय।
वा प्रियस्य। प्रियगुडः। गुडप्रियः। गड्वादिभ्यः परा सप्तमीति वक्तव्यम्। गडुकण्ठः। गडुशिराः। क्वचिन्न। वहेगडुः। इह सप्तमीति ज्ञापकं सामान्यापेक्षम्। तेन `मनुष्यजन्मापि सुरासुरान् गुणै'रित्यादि सिद्धम्। तथाच वामनः-`अवर्ज्यो बहुव्रीहिर्जन्माद्युत्तरपद'इति। शिष्टप्रयोगस्य नियामकत्वाच्च नातिप्रसङ्गः।
यत्तु शावरभाष्ये अग्निहोत्रं जुहोतीत्यत्र सिद्धान्तेऽपि अग्नये होत्रमस्मिन्निति बहुव्रीहिरिति। सोमेश्वरेणच अग्निर्होत्रं यस्येतिषष्ठीवहुव्रीहिरित्युक्तम्। तत्र यद्यपि वैयधिकरण्यं तैत्तिरीयशाखायामन्तोदात्तपाठविराधश्च। तथापि वाजसनेयके सर्वोदात्तस्वरपाठस्य तत्पुरुषेणाप्यनुपपत्त्याऽन्यतरत्र छान्दसत्वकल्पनस्यावश्यकत्वात्। व्यधिकरणबहुव्रीहेरपि क्वचिदाश्रयणाच्च नातीव दोषइत्यभिप्रायः।
नव्यमीमांसकास्तु `उणादयोबहुल'मित्यनुसाराज्जुहोतेर्भावे त्रन् प्रत्ययः। अग्नेर्होत्रो होम इति षष्ठीतत्पुरुषः। यदग्नयेचेत्यादिप्रमाणावगतदेवतात्वाद् द्रव्यसम्बन्धविशेषो लक्षणया षष्ठ्यर्थः। अतोऽग्निदेवताकत्वं प्रवृत्तिनिमित्तम्। नच प्रातः प्रयोगेऽग्निदेवताकत्वाभावान्नैवमिति वाच्यम्। एकम्यैव होमस्य ज्योतिष्ठोमवत्सायंप्रातरभ्यासेऽपि कर्मभेदाभावेन विजातीयहोमत्वसामासाधिकरण्येन तत्सत्त्वादेव तदुपपत्तेः। (नहि तदवच्छेदेन सदेव)। तथा वैश्वदेवेन यजेतेत्यत्र विश्वेदेवसम्बन्धस्यैकयागमात्रवृत्तित्वेऽपि तेन यागाष्टकनामधेयत्वस्वीकारादित्याहुः।
यत्तु होत्रशब्दमधिकरणेव्युत्पाद्य षष्ठीतत्पुरुष इत्युक्तम्। तत्राग्निसम्बन्धिहोमाधिकरणमितिबोधेऽग्नेरधिकरणत्वं नायतिति विभाव्यमिति दिक्।
निष्ठा ।। 36 ।।
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। कृतकृत्यः निष्ठशब्देनविहितस्यैव ग्रहणान्नपुंसके भावे क्त इत्यस्याग्रहणात् चारुस्मितमिति।। जातिकालसुखादिभ्यः परा निष्ठा वाच्या।। सारङ्गजग्धी पलाण्डुभक्षिती मासजाता सुखजाता दुःखजाता।। नचजातिकालसुखादिभ्यः पराया निष्ठाया उत्तरपदान्तोदात्तत्ववचनादेव ज्ञापकात्सिद्धिः। अकृतमितप्रतिपन्नाइति येषान्तन्निषेधस्तदर्थे परिनिपातस्य वाच्यत्वात्। वस्तुतस्तु प्रतिषेधस्योत्तरपदान्तोदात्तप्रसक्तिपूर्वकत्वात्तस्य च परनिपातं विनानुपपत्तेस्तेषामपि प्रतिषेधादेव ज्ञापकात्सिद्धिः। क्विचिन्न। कृतकटः पीतोदकः।
वाहिताग्न्यादिषु ।। 37 ।।
आहिताग्निः। अग्न्याहितः। प्रहरणादिभ्यः परे निष्ठासप्तम्यौ। अस्युद्यतः। सुसलोद्यतः। असिपाणिः। दण्डपाणिः। क्वचिन्न। विवृतासिः।
कडाराः कर्मधाराये ।। 38 ।।
कडारादय इत्यर्थः। प्राणभृत उपदधातीतिवत्। कडारगडुल करण खञ्ज कुण्ठ खोड खलति गौर वृद्ध भिक्षुक पिङ्गल तन्तु जरठ वृत्। कडारजैमिनिः। जैमिनिकडारः। गडुलशाण्डिल्यः शाण्डिल्यगडुलः। कर्मधारये किम्। बहुव्रीहौ मा भूत्। कडारपुरुषको ग्रामः।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्।।
पादश्च समाप्तः।।