श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः ४/आह्निकम् ३
श्रीसिद्धान्तसुधानिधिः आह्निकम् ३ [[लेखकः :|]] |
कारके ।। 22 ।।
अधिकारोऽयम्। प्रथमार्थे सप्तमी। प्रसिद्ध्यभावादन्यत्राविधानाच्च सप्तमीनिर्देशानुपपत्तेः कारकसंज्ञाया एव विधेयत्वात्।
नन्वेवं एकसंज्ञाधिकारादपादानादिसंज्ञाभिः समावेशो न स्यात्।
अत्राहुः-``ध्रुवमपायेइति योगविबागेन ध्रुवस्य कारकसंज्ञा विधीयते। ततो ``अपादानम्इति कारकग्रहणं ध्रुवमपाये इति चानुवर्त्तते। कारकं सदपादानसंज्ञमित्यर्थः। अनुवृत्तिं विनाऽपि वचनसामर्थ्यात् पर्याये लब्धेऽनुवृत्तिसामर्थ्यात्समावेशसिद्धिः। एवं संप्रदानादिषु व्याख्येयम्। स्तम्बेरम इत्यादौ अधिकरणत्वात्सप्तमी। ``गतिकारकोपपदात्कृत्इत्युक्तरपदप्रकृतिस्वरश्च सिद्धः। थाथादिसूत्रे अपसाहचर्येण एरच एवोपादानात्। नचोपपदत्वादेव तत्सिद्धिः। सप्तम्यन्तत्वविशिष्टस्य सप्तमीनिर्दीष्टत्वाभावादिति ग्रन्थकृतः।
अत्र नैयायिकाः-विभक्त्यर्थद्वारा क्रियान्वयि सत् क्रियानिमित्तं कारकम्। राज्ञः पुरुषो गच्छतीत्यत्रज्ञाद्वारा गमनप्रयोजकस्य राज्ञो वारणाय क्रियान्वयीति। साक्षात्क्रियान्वयित्वं न ग्रामादेः। तदन्वितान्वयित्वं राज्ञोऽपीति अतो विभक्त्यर्थद्वारेणेति। सम्बन्धस्य तु न क्रियायामन्वयः। सम्बन्धप्रकारकबोधे नामजन्योपस्थितेर्हेतुत्वात्। अत एव सम्बन्धिनो न कारकत्वम्। नचापादाने सम्प्रदाने चाव्याप्तिः, तयोः क्रियानिमित्तत्वाभावादिति वाच्यम्। परस्वत्वफलकत्यागविशेषो हि दानम्, तन्न विशेषणपरस्वत्वांशहेतुतया संप्रदानस्य कारकत्वात्। स्वीकारस्य स्वत्वहेतुत्वात्। विभागफलकत्वे सत्यधःसंयोगफलिका च क्रिया पतनं तत्र विभागांशहेतुतयाऽपादानस्य कारकत्वात्। यथा उत्तरसंयोगनिमित्ततया संयोगफलकक्रियात्मकगमननिमित्तत्वं ग्रामस्येत्याहुः।
वैयाकरणास्तु अपादानाद्यन्यतमत्वं सङ्केतविशेषसम्बन्धेन कारकशब्दो वा कारकत्वम्।
तदुक्तम्-
सामान्यान्यभिधियन्ते सत्ता वा तैर्विशेषिता।
संज्ञाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिः।।इति।
तत्क्रियाकारकत्वं तु तत्क्रियान्यतमत्वादि सङ्केतविशेषस्थाने बोध्यत्वसम्बन्धेनेति वाच्यम्। तत्क्रियाकारकस्य सङ्केताभावात्। नचाकर्मकक्रियायां कर्मघटितमन्यतमत्वं कथमिति वाच्यम्। तन्निर्मुक्तस्यैव वाच्यत्वात्।
अन्वर्था चेयं संज्ञा करोतीति कारकमिति। तेन क्रियाऽनन्वयिनो न संज्ञा।
ननु ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यत्र पुत्रोऽपि कथं कारकम्, प्रष्टुः प्रश्नकारकत्वेऽपि यं प्रति प्रश्नस्तस्य जनकत्वायोगात्। सत्यम्। जिज्ञासाविषयविषयकं हि वाक्यं प्रश्नः। जिज्ञासा च ज्ञानविषयकेच्छा। तदेकदेशे ज्ञाने तस्य जनकत्वात् अपादानादिवत्।
नन्वङ्कुरो जायत इत्यादौ कथं कारकत्वं पूर्वमसत्त्वादिति चेन्न। बुद्धिव्यवस्थापितार्थस्य क्रियाकारकत्वस्वीकारात्।
केचित्तु तत्र अङ्कुरादिपदं तदुपादाने निरूढलाक्षणिकम्। तथा चाङ्कुरावयवस्तदुत्पत्त्यकूलव्यापारवान् इति धीरित्याहुः।
स्यादेतद्। वृक्षस्य पर्णं पतति इत्यत्र वृक्षस्य कारकतापत्तिः। वृक्षात्पततीत्यत्र कारकतायाः क्लृप्तत्वात्।
अथात्र संबन्धित्वेनैव वृक्षस्य विवक्षा। अत एव वृक्षमजहत्यपि पर्णे शाखास्थे वृक्षस्य पर्णं पततीति न प्रयोगइति चेत्, तथाऽपि ब्राह्मणस्य पुत्रं पन्थानं पृ्च्छतीत्यत्र ब्राह्मणस्य कर्मसंज्ञा स्यात्।
मैवम्। करोतीति कारकमित्यन्वर्थसंज्ञाश्रयणात्।
नन्वेवं कारकशब्दस्य कर्तृपदसमानार्थकत्वात्करणं कारकम् अधिकरणं कारकमित्याद्यनुपपन्नम्। करणादीनां कर्तृपरन्त्रत्वात्।
अत्र वार्तिकम्-सिद्धं तु प्रतिकारकं क्रियाभेदात्पचादीनां कारणाधिकरणयोः कर्तृभाव इति।
अस्यार्थः--स्वव्यापारे सर्वेषां स्वातन्त्र्यात्तदनुष्ठानद्वारेण प्रधानक्रियायामुपयोगात्कर्तृसन्निधावपि स्वव्यापारस्यानिवर्तनात् पारतन्त्र्यावस्थायामप्यनिवृत्ति कारकत्वम्।
तथाहि अधिश्रयणोदकावसेचनतण्डुलापनैधोऽपकर्षणक्रियाः प्रधानस्य कर्तुर्व्यापारः। तत्र धात्वर्थविवक्षायां देवदत्तस्य कर्तृत्वे देवदत्तः पचतीति। संभवनं धारणं चाधिकरणस्य व्यापारः। तस्य पुरस्कारे स्थाली पचतीति। आविक्लित्तेर्ज्वलनं काष्ठानाम्। तत्र काष्ठानि पचन्तीति। एवं देवदत्तः छिनत्ति इत्यादौ योज्यम्। नन्वेवमपादाने ग्रामे ग्राम आगच्छतीति प्रयोगाभावात्तत्र कर्तृत्वं ना स्तीति चेद् बलाहकाद्विद्योतते, बलाहके विद्योतते, बलाहको विद्योतते इति दर्शनाद् विद्युतो बलाहकस्य चाभेदस्य विविक्षितत्वात्।
तदुक्तम् पर्याप्तं करणाधिकरणयोः कर्तृत्वं निदर्शितम् अपादानादीनां कर्तृत्वनिदर्शनायेति।
अयमर्थः--स्वव्यापारानुष्ठानमन्तरेण प्रधानक्रियायामुपयोगाभावात्करणादिन्यायेनापादानादावपि तदस्त्येव। ग्राम आयातीति तु न प्रयोगः, अर्थान्तरावगमादपादानव्यापारानवसायात्। एवं ब्राह्मणाय ददातीत्यर्थे ब्राह्मणो ददातीति न प्रयोगः। शब्दशक्तिस्वाभाव्याच्चापादानस्मप्रदानयोर्व्यापारे धातोर्न वृत्तिः।
अत्रायं सिद्धान्तः--यद्यपि स्वव्यापारे सर्वेषां स्वातन्त्र्यं तथाऽपि उद्भूतस्वातन्त्र्यविवक्षायां स्थाली पचति, उद्भूतपारतन्त्र्यविवक्षायां तु न्यग्भावात्सदपि स्वातन्त्र्यं स्वकार्यं न प्रयुङ्क्ते यथा राजसन्निधौ तदनुपयोगि स्वकार्यं नारभन्तेऽमात्याः। यद्यपि सामग्रीतः क्रियोत्पादात्सर्वेषां साम्यं तथाऽपि करणादीनां कर्माधीनप्रवृत्तिकत्वात्तस्य च प्रागन्यतः शक्तिलाभात्करणाद्यभावेऽप्यास्ते शेते इत्यादौ केवलस्य कर्तुर्दर्शनात्, कर्तृरहितानां च करणादीनामदर्शनात्कर्तुः प्राधान्यम्। तस्मात्साध्यत्वेन सर्वकारकाणां साधारण्यं क्रियायां सर्वेषां कर्तृत्वम्। अवान्तरविवक्षायां तु करणादित्वम्। यथा मातापित्रोरपत्योत्पादने कर्तृत्वमभेदविवक्षायां तु अयमस्या इयमस्माज्जनयतीति अधिकरणत्वमपादानत्वं च। करणाद्यवस्थायां तु न कर्तृसंज्ञा। ``स्वतन्त्रः कर्ताइत्यत्र कारकत्वादेव स्वातन्त्र्ये लब्धे पुनः स्वतन्त्रश्रुतेः स्वतः स्वातन्त्र्यवत एव कर्तृसंज्ञा नतु पारतन्त्र्यस्वातन्त्र्योभयवत इति नियमार्थत्वात्। कारकसंज्ञा तु वस्तुस्थित्या विद्यमानमनुद्रूतत्वेन विवक्षितमपि स्वातन्त्र्यमाश्रित्य करणादीनां विधानसामर्थ्यात्प्रवर्तते। यत्रच शक्तीनां निमित्तनिमित्तिभावेन युगपद्विवक्षा तत्र संज्ञानां विप्रतिषेध उच्यते। यथा धनुषा विध्यतीत्यत्र। धनुषोऽपायविवक्षां विना साधकतमत्वाभावात्संज्ञाद्वयप्रसङ्गेपरत्वात्करणसंज्ञा। असिः छिनत्तीति सत्येव साधकतमत्वे स्वातन्त्र्यस्य विवक्षितत्वात्परत्वात्कर्तृसंज्ञा। तैक्ष्ण्यादीनां करणत्वम्। तेषां तु कर्तृत्वविवक्षायामात्मनः करणत्वम्। विवक्षावशेन तैक्ष्ण्यादीनां कर्तृत्वकरणत्वाभ्यां व्यवस्थापनात् तस्मात्कर्तृत्वादिकं विवक्षानियतम् इति सिद्धम्।
तदुक्तं वाक्यपदीये-
वस्तुतस्तदनिर्द्देश्यं नहि वस्तु व्यवस्थितम्।
स्ताल्या पच्यत इत्येषा विवक्षा दृश्यते यतः।। इति।
ध्रुवमपायेऽपादानम् ।। 23 ।।
अपायो विश्लेषस्तस्मिन् साध्ये यद् ध्रुवमधिभूतं तदपादानसंज्ञम्। ध्रु गतिस्थैर्ययोः । कुटादिः। अस्मात्पचाद्यच्। ध्रुव स्थैर्ये इति पाठे तु इगुपधत्वात्कः। तथा च क्रियानाश्रयत्वं तदर्थः।
तथा च यन्निष्ठविभागजनकत्वेन यन्निष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वेन च या क्रिया विवक्षिता तत्त्वं तत्क्रियाऽपादानत्वम्। यत्पदं यत्पदाभिधेयपरम्। तेन वृक्षाद्वृक्षे पततीत्यत्र सप्तम्यन्तपदाभिधेयत्वविशिष्टस्य नापादानत्वम्। वृक्षात्पर्णं पततीत्यत्र विभागान्योन्याबावप्रतियोगितावच्छेदकत्वं पञ्चम्यर्थः। तिङर्थ आश्रयः। तस्य पतनक्रियायां वृत्तित्वेनान्वयः। पञ्चम्यर्थयोश्च यथाक्रमं जनकत्वस्वरूपसम्बन्धाभ्याम्।
विभागजनकत्वं पञ्चम्यर्थ इति तार्किकरीत्या तु तस्यापि स्वरूपसंबन्धेनैवान्वयः। पर्णस्याभेदेनाश्रये, विभागान्योन्याबावयोर्वृत्तित्वेन वृक्षस्यान्वयः।
वृक्षवृत्तिविभागजनकं वृक्षवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकं च पर्णरूपाश्रयवृत्ति पतनमिति शाब्दधीः। यथोक्तपतनाश्रयः पर्णमिति पर्णविशेष्यकबोधस्तार्किकाणां विशेषः।
केचित्तु विभागः परसमवेतत्वं च पञ्चम्या अर्थः। तथाच वृक्षवृत्तिविभागजनकं वृक्षभिन्नसमवेतं च यत् पतनं तदाश्रयः पर्णामिति धीः।
नन्वत्र पञ्चम्यर्थतावच्छेदकभेदे वृक्षादेः प्रकृत्यर्थस्य प्रतियोगितामात्रेणान्वयः, उत प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगितया वा, प्रकृत्यर्थतावच्छदकाश्रययत्किञ्चित्प्रतियोगितया वा?,।
नाद्यः। पर्णात्पर्णं पततीत्यापत्तेः। स्वस्मिन्नपि द्वित्वावच्छिन्नप्रतियोगितया स्वभेदसत्त्वात्।
न द्वितीयः। द्रव्यात्पततीत्यनापत्तेः। द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदस्य पर्णादावसत्त्वात्। अनुयोग्यवृत्तिधर्मस्यैव भेदप्रतियोगितावच्छेदकत्वात्।
न तृतीयः। वृक्षात्पतति पर्णे पर्णात्पततीति प्रसङ्गात्। पतनस्य तत्पर्णवृत्तिविभागाजनकत्वात्, प्रकृत्यर्थतावच्छेदकपर्णत्वाश्रयतदन्यपर्णव्यक्तित्वावच्चिन्नप्रतियोगिताकभेदवत्पतनाश्रयपर्णवृत्तित्वाच्चेति चेत्।
सत्यम्। या व्यक्तिर्विभागेनान्वेति तव्द्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रकृत्यर्थस्य भेदान्वयादित्याहुः।
यत्तु अपादानत्वादिकमखण्डमेवेति। तन्न। तद्रूपेण बोधाभावात्, अखण्डोपाधेरनङ्गीकाराच्च।
प्रकृतमनुसरामः-
धावतोऽस्वत्पततीत्यादौ अश्वादेः क्रियावत्त्वेऽपि प्रकृतिपञ्चम्यर्थविभागजनकत्वान्वयिनी या क्रिया तद्रूपत्वमस्त्येव। एवं परस्परान्मेषावपसरत इत्यादौ।
तदुक्तम् वाक्यपदीये-
अपाये यदुदासीनं चलं वा यदि वा चलम्।
ध्रुवमेवातदावेशात्तदपादानमुच्यते।।
पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ।
तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते।।
उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मजे।
विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते।।
मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्।।
स्यन्दनजन्यविभागाश्रयत्वेन वृक्षात्पर्णं स्यन्दते इति वारणाय क्रियेति सकर्मकधातुपरम्। एवं धात्वर्थानवच्छेदकत्वेन विभागविशेषणाद् वृक्षं त्यजतीत्यादौ नातिव्याप्तिः।
ननु विभागविशिष्टक्रियायास्त्यज्यर्थतया विभागे विभागविशिष्टक्रियाजन्यत्वाभावान्न दोष इति चेत्।
न, अधःसंयोगावच्छिन्नक्रियायाः पतत्यर्थतया वृक्षात्पततीत्यादेरण्यसिद्धेः। तदुपलक्षितव्यापारजन्यत्वस्य विभागे उभयत्र साम्यादिति वृक्षाद्विभजते इत्यादौ स्वरूपसंबन्धरूपमवधित्वं पञ्चम्यर्थः। अपाये विभागे ध्रुवमवधिभूतमित्यर्थः। वृक्षनिष्ठावाधितानिरूपकविभागाश्रयः पर्णमिति धीः।
नच स्वस्माद्विभजते इत्यस्यापत्तिः। स्वप्रतियोगिकत्वविशिष्टसंयोगस्येव स्वावधिकत्वविशिष्टविभागस्यापि स्वावृत्तित्वादिति तार्किकाः।
इदंच त्रिविधम्। तदुक्तम्
निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा।
अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते।।
यत्र धातुना साक्षाद्गतिर्निर्दिश्यते तद्आद्यम्। यथाऽश्वात्पततीत्यादि। यत्र क्रिया धात्वन्तरार्थविशिष्टं स्वार्थमाह तद् द्वितीयम्, बलाहकाद्विद्योतते इति। अत्र निःसरणविशिष्टद्योतनं द्युतेरर्थः। बलाहकान्निःसृत्य द्योतते इत्यर्थः।
एतेन कुसूलात्पचति इत्यादि व्याख्यातम्। आदाय पचतीस्यर्थात्।
तृतीयं तु प्रत्यक्षसिद्धमगमनं इति निधाय यत्र पृच्छति कुतो भवानिति, पाटलिपुत्रादिति चोत्तरयति।
अत्र कैयटोऽस्मत्पितृचरणाश्च सांकाश्येभ्यः पाटलिपुत्रा अभिरूपतरा इति तृतीयोदाहरणम्। तत्रहि क्रियावधिपदं न श्रूयते केवलं प्रतीयते।
यत्रद्यप्यत्र ``पञ्चमी विभक्तेइतिसूत्रेणविभक्तवति निर्द्धारणाश्रये पञ्चमी तथापि भाष्ये ``यस्तैः साम्यं गतवान् स एतत्प्रयुङ्क्तेइत्युक्तम्।
अस्यार्थः-तैः सांकाश्यकैः पाटलिपुत्रकाणां समगुणत्वाद् यः साम्यं ज्ञातवान् स प्रकर्षाश्रयेण पुनः पृथक् कृत्वा वाक्यं प्रयुङ्क्ते इति। तथाच ध्रुवमपाये इत्येव सिद्धमित्याहुः।
तेषामयमाशयः--कुसूलात्पतततीत्यस्मात् कुतो भवानित्यस्य वैषम्ये मानाभावः। कुसूलादादाय पचति कुतो भवानागत इति चोभपत्रापि क्रियाप्रयोगस्यापि संभवाच्च। नहि तत्रादानविशिष्टः पाको धात्वर्थः किन्तु आक्षेपादेवादानं गम्यते। पाकस्त्वाक्षेपकामात्रम्। तस्मादपेक्षितक्रियं यत्र क्रियापदप्रयोगाभावः सार्वदिकः किन्तु गम्यमानैव क्रिया तदति युक्तम्।
स्यादेतत्। सार्थाद् हीयते इत्यत्र कथमपादानत्वम् परत्वात्सार्थस्य कर्तृत्वप्रसङ्गात्। तदुक्तम्-``अपादानमुत्तराणि इति। अन्यथा त्यज्यमानस्य कर्मसंज्ञा न स्यात्। कर्तृव्यापारव्याप्यत्वाभावात्। ततश्च हीयते हीन इति कर्मणि लकारो निष्ठा च न स्यात्। नच कर्मकर्तर्ययं लकारः। जहातेः कर्तृस्थक्रियत्वात्।
अत्राहुः--कर्मकर्तर्येवायम् जहातेरपगमनार्थत्वात्। सा च क्षुदुपघातादिना देवदत्तस्य तत्समर्थाचरणम्। यदा तु क्षुदुपघातादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वमिति। नन्वत्र ध्रुवग्रहणं व्यर्थम्। नच ग्रामादागच्छति शकटेनेत्यत्र करणवारणार्थम्। धनुषा विध्यतीत्यत्र क्रियमाणेऽपि ध्रुवग्रहणे परत्वात्करणसंज्ञाप्रवृत्तिवदक्रियमाणेऽपि प्रवॉत्तिसम्भवात्। नापि ग्रामादागच्छन् कंसपात्र्यां पाणिनौदनं भुङ्क्ते इत्यत्र कंसपात्रीवारणार्थम्। अधिकरणसंज्ञया तद्बाधात्। यद्यपि कंसपात्र्या आगमनसाधनत्वं नास्ति भुजौ तु साधनम्, ध्रुवा च तत्र परत्वादधिकरणसंज्ञेत्याकडारादित्यत्रोक्तम्, तथाऽपि वस्तुस्थित्याऽत्रागमनं प्रधानं तदङ्गं तु भोजनम्। शब्दात्तु विपरीतगुणप्रधानभावप्रत्ययः।
तदुक्तम्--
चङ्क्रम्यमाणोऽधीष्वात्र जपंश्चङ्क्रमणं कुरु।
तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः प्रतीयते।। इति।
तत्र भुजेः साधनत्वात्तद्द्वारेण गमनस्यापि साधनमिति शङ्क्तोपपत्तिः। शाब्दं प्राधान्यमादाय तत्प्रयुक्तैव संज्ञेति परिहारभाष्यार्थ इति कैयटः।
अत्र भाष्यम्-``वृक्षस्य पर्णं पततीत्यत्र वृक्षवारणार्थं तद्इति।
नन्वत्र कारकत्वं नास्ति अपायाभावाच्च सत्येवावधावपायो भवतीत्युक्तत्वात्। गतिं विना त्ववधिना नापाय इति कथ्यते इति स्वीकारात्।
अत्र केचित्। सुज्ञानत्वात् पूर्वसूत्रे पवोक्तत्वाच्चायमर्थो भाष्यकारेण नोक्त इति।
अन्ये तु सतीह ध्रुवग्रहणे विशिष्टोऽपायो लभ्यते, असति तु तस्मिन् पातमात्रस्य लोकेऽपायत्वेन प्रसिद्धत्वात्, कारकाधिकारानपेक्षया च प्रत्युदाहरणमिति कैयटः।
``जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्।
अधर्माज्जुगुप्सते। विषयत्वं पञ्चम्या निन्दा धातोरर्थः। अधर्मं निन्दतीत्यर्थः। अधर्माद्विरमति। पञ्चम्या विषयत्वम्। धातोः करणानन्तरं यावज्जीवमकरणमर्थः। विषयत्वस्य करणेऽकरणे चान्वयः। अधर्मविषयककृत्युत्तरकालावच्छिन्नजीवनव्यापकाधर्मविषयककृत्यभाववानित्यर्थः। यावज्जीवपदादधार्मिके स्वप्नादिदशायां नोक्तप्रयोगः। कञ्चित्कालं विरम्य येन पुनरधर्मकरणं तत्रोक्तप्रयोगो भाक्त इत्याहुः।
अन्ये तु कृतिर्ध्वंसः समानकालत्वमभावश्च धात्वर्थः। तत्र ध्वंसः सामानाधिकरण्येन कृतौ सा समानकालत्वे तच्चाभावे। स कृतिश्च ध्वंसे आकाङ्क्षाविशेषबलात्प्रकारः। एकैव ध्वंसव्यक्तिः पूर्वोत्तरमाकाङ्क्षावशादवभासते। अधर्मविषयकस्वसमानादिकरणकृत्यसमानकालकृतिध्वंस आश्रयवृत्तिरिति बोधः। अत्र स्वोत्पत्त्यच्छेदकशरीरसजातीयशरीरावच्छिन्नसमवायेन सामानाधिकरण्यं वाच्यम्। साजात्यं च समभिव्याहृतपदोपस्तापितदेवदत्तत्वादिजात्या। तेन भाविदेहान्तरावच्छेदेनाधर्मकरणे स्वसमानाधिकरणतत्कृतिसमानकालत्वादेतत्कृतिध्वंसस्य कथमेतमादाय देवदत्तोऽधर्माद्विरमतीति प्रयोगो, न कथंच युवशरीरावच्छेदेन अधर्मं कुर्वत्यपि बालशरीरावच्छेदेनोत्पन्नचरमकृतिमादाय विरमतीति प्रयोग इति निरस्तम्। भाव्यधर्मकरणस्योक्तस्वसामानाधिकरण्याभावात्। युवशरीरावच्छेदेन कृतेर्बालशरीरावच्छिन्नकृतिध्वंससामानाधिकरण्याच्च। नचैनमेव कृतिध्वंसमादाय भाविदेहावच्छेदेनाधर्मकरणेऽपि भाविदेहावच्छिन्नेऽपि चैत्रोऽधर्माद्विरमतीत्यापत्तिः। समभिव्याहृतपदबोध्यशरीरावच्छिन्नसमावायस्य सामानाधिकरण्यघटकत्वात्। चैत्रादिपदेन विशिष्टान्मबोधने शरीरस्यापि बोधनात्। आत्मा विरमतीत्यादौ तु शुद्धसमवायेन सामानाधिकरण्यं भासते इति शरीरबोधककर्तृपदाभावेऽपि न क्षतिरित्याहुः।
वस्तुतस्तु कृतिर्ध्वसश्च धात्वर्थः। कृतेश्च स्वावच्छिन्नप्रतियोगिताकसामानाधिकरण्यकालिकोभयसम्बन्धप्रतियोगितावच्छेदककभेदः प्रतियोगित्वं चेत्युभयसम्बन्धेन ध्वंसेऽन्वयः। तथाच सामानाधिकरण्यं कालिकविशेषणता चेत्युभयसम्बन्धेन कृतिमान् यस्तद्भिन्नो योऽधर्मविषयककृतिध्वंसस्तद्वानित्यादिधीः। अधर्मविषयकतृत्यन्तरप्रागभावसमानाधइकरणतादृशध्वंसवारणाय भिन्नान्तम्। तत्रापि व्यधिकरणकृतेः कालिकेन तत्कृतिध्वंसे सत्त्वात् सामानाधिकरण्येति। अतीतकृतिसामानाधिकरण्यस्य तादृशकृतिध्वंसेऽपि सत्त्वात् कालिकेति बोध्यम्।
धर्मात्प्रमाद्यति। पञ्चम्या विषयत्वं धातोरनवधानं तिङ आश्रयत्वमर्थः। धर्मविषयकावधानाभावाश्रय इत्यर्थः।
अत्र भाष्यम्-जुगुप्सादयोऽत्र जुगुप्सापूर्विकायां निवृत्तौ वर्तन्ते, अतो बुद्धिकलितमपादानत्वमस्त्येव। अनिष्टसाधनताज्ञानेन बुद्ध्यन्तं प्राप्य निवृत्तेः। अनिष्टसाधनत्वप्रकारतानिरूपितविशेष्यतासम्बन्धेन ज्ञानवत्त्वरूपायाः प्राप्तेश्चैरादौ सत्त्वात्। नच गौणे शास्त्राप्रवृत्तिः। कारकप्रकरणे गौणस्यापि ग्रहणात्। अपायादिपदानां स्वरितत्वात्तेन गौणमुख्यन्यायाभावादिति।
july1-continuation
भीत्रार्थानां भयहेतुः ।। 24 ।।
भयार्थानां त्राणार्थानां च योगे भयहेतुरपादानम्। चोराद्बिभेति, उद्विजते त्रायते रक्षतीत्यादि। जन्यत्वं पञ्चम्यर्थः। चोरजन्यभयाश्रय इति धीः। त्राणं भयाभावो धात्वर्थः। व्यापार आख्यातार्थः। शत्रुजन्यभयाभावानुकूलव्यापारवानित्यर्थः। हेतुपञ्चम्या सिद्धौ इदं प्रपञ्चार्थम्। भयहेतुग्रहणं स्पष्टार्थम्। चैत्रादौ परत्वात्कर्तृसंज्ञाप्रवृत्तेः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे। इति-- रामायणे कस्य संयुगे इत्यन्वयः।
पराजेरसोढः ।। 25 ।।
अध्ययनात्पराजयते। अत्र धातोरसाहिष्यणुत्वम्। तच्च द्वेषविशेषोऽभिभवाशक्यत्वज्ञानं वा। अध्ययनं न सहते इति विवरणात्। अध्ययनविषयकाभिभवाशक्यत्वज्ञानवानित्यर्थः। शत्रुन् पराजयते इत्यत्र परत्वात्कर्मसंज्ञा। अभिभवतीत्यर्थः। तेनासोढग्रहणं स्पष्टार्थम्।
वारणार्थानमीप्सितः ।। 26 ।।
वारणार्थानां प्रयोगे क्रिययाऽऽप्तुमिष्टोऽर्थोऽपादानं स्यात्। कूपादन्धं वारयति।
ननु कूपस्य निवार्यनिवारकाभ्यामुभाभ्यामनीप्सितत्वात् कथमपादानसंज्ञेति चेत्।
अत्राहुः--प्रवृत्तिविधातो वारणमिति पक्षे वारकनिष्ठव्यापारजन्यप्रकृतधातूपात्तफलशालित्वेनान्धादेरेवेप्सितत्वेऽपि संकोचे मानाभावेन वारणशब्दवाच्यकोटौ प्रवृत्तेरपि प्रवेशात्। वार्यमाणनिष्ठगमनव्यापारजन्यसंयोगरूपफलशालित्वेन कूपादेरपीप्सितत्वम्।
विभागानुकूलव्यापारो वारणमिति पक्षे तु विभागस्योभयनिष्ठत्वेन तच्छालित्वान्निवार्यनिवारकयोर्द्वयोरपि स्पष्टमेवेप्सितत्वमिति।
तच्चिन्त्यम्। वारणस्थले कूपेऽन्धसंयोगस्यैवानुत्पत्त्या तच्छालित्वस्य वक्तुमशक्यत्वात्। एतेन विभागोऽपि प्याख्यातः। अन्धात्कूपं वारयतीत्यस्यापि प्रसङ्गाच्च।
यत्तु संयोगस्यैवाभावात् सिद्धविभागपरिपालनमात्रेण फलत्वमिति।
तदपि न। संयोगाभावे गुणविशेषात्मकविभागस्याप्यनुत्पत्तेः। पूर्वसिद्धविभागान्तरस्य फलत्वोक्तौ तु यत्र तद्व्यक्तेः पूर्वं कूपविभागोऽपि न जातस्तत्रोक्तप्रयोगानापत्तेश्च। नच संयोगात्यन्ताभावरूप एवात्र विभागो विवक्षणीयः। सत्यपि कूपपाते उक्तप्रयोगदर्शनात्। नच संयोगस्याव्याप्यवृत्तितया कूपसंयोगसत्त्वेऽपि तदत्यन्ताभावसत्त्वान्न विरोधइति वाच्यम्। प्रतियोगिसमानाधिकरणसंयोगात्यन्ताबावो द्देशेन वारणानुकूलव्यापारस्य केनाप्यननुष्ठानात्। तस्य स्वत एव सत्त्वात्। अन्यथाऽन्धकूपसंयोगानुकूलव्यापारवत्यपि कूपादन्धं वारयतीति प्रयोगप्रसङ्गात् इति दिक्।
तस्मादन्धस्य कूपाधःसंयोगो मा भूदितीच्छापूर्वकत्वाद्वारणस्यान्धप्रतियोगिककूपाधोदेशसंयोगाभावविषयकत्वादिच्छायाः स्वीयाभावनिष्ठविशेष्यतानिरूपितप्रतियोगित्वसंसर्गावच्छिन्नसंयोगनिष्ठप्रकारतानिरूपितानुयोगित्वसंसर्गवच्छिन्नप्रकारताशालित्वरूपमेवेप्सितत्वं ग्राह्यम्। अतोऽन्धकूपसंयोगाप्रसिद्धावपि न क्षतिः। उक्तेच्छायास्तत्रापि सुस्थत्वात्। अत्र पञ्चम्या अधःसंयोगानुकूलक्रियारूपं पतनम्। द्वितीयाया धात्वर्थव्यापारान्वितं पतनम्। ध्तोर्विरोधिव्यापारोऽर्थः। तथाचान्धवृत्तिकूपनिष्ठाधःसंयोगानुकूलक्रियाविरोधिव्यापारविषयककृतिमानिति बोधः। यत्र कूपे पतनमप्रसिद्धं तत्रोक्तप्रयोगोऽसाधुरेवेत्येके।
अन्ये तु धातोरभावानुकूलव्यापारोऽर्थः। पञ्चम्या वृत्तित्वम्। द्वितीयाया धात्वर्थतावच्छेदकाभावान्वितं प्रतियोगित्वमनुयोगीत्वं वा। अभावश्च कूपादिपदसभिव्याहारात् पतनादिजन्याधःसंयोगादिना संबन्धेन। कूपवृत्त्यन्धप्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवानिति धीः। एवं सविषादन्नान्मित्रं वारयतीत्यादौ यत्र मित्रस्य विषान्नभोजनमप्रसिद्धं तत्र भोजनादिसंबन्धेन सविषान्नवृत्तिमित्रभोजनमप्रसिद्धं तत्र भोजनादिसंबन्धेन सविषान्नवृत्तिमित्रप्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवानिति धीरित्याहुः।
केचित्तु पतनाभावप्रकारकेच्छापूर्वकपतनाबावानुकूलो व्यापारः प्रकृते वारणम्। पञ्चम्यर्थः कर्मत्वम्, द्वितीयार्थः कर्तृत्वम्, पतनविशेष्यतानिरूपितप्रकारतासम्बन्धेनेच्छायामन्वेति। कूपपतनादेः क्वचिदप्रसिद्धत्वेऽपि तादृशेच्छासत्त्वान्न दोषः। कूपकर्मत्वेनान्धकर्तृत्वेन च या पतनाभावेच्छ तत्पूर्वकपतनाभावानुकूलो यो व्यापारस्तद्विषयककृतिमानिति वाक्यार्थः। एवं सविषादन्नादित्यादौ भोजनाभावेच्छापूर्वकभोजनाभावानुकूलो व्यापारो वारणम्। अन्यत् पूर्ववदित्याहुः।
अपरे तु उक्तोभयत्र आद्ये धातोः पतनं द्वितीये भोजनम्। उभयत्राभावानुकूलव्यापारश्चार्थः। पञ्चम्या आद्येऽवच्छिन्नत्वं द्वितीये कर्मत्वम्, उभयत्र द्वित्वं चार्थः। द्वितीयायाः कर्तृत्वमर्थः। धात्वर्थपतनादेराधिकरणत्वेन धात्वर्थतावच्छेदकेऽभावेऽन्वयः। द्वित्वावच्छिन्नस्य पञ्चम्यर्थतावच्छेदकेऽभावेऽन्वयः। द्वित्वावच्छिन्नस्य पञ्चम्यर्थद्वितीयार्थोभयस्याभावे प्रतियोगित्वेनान्वयोऽपि व्युत्पत्तिवैचित्र्यात्। तथाच पतनसामान्ये यः कूपावच्छिन्नत्वान्धकर्तृकत्वोभयाभावस्तदनुकूलव्यापारविषयकयत्नवान्, द्वितीये भोजनसामान्ये यः सविषान्नकर्मकत्वमित्रकर्तृकत्वोभयाभावस्तदनुकूलव्यापारविषयकयत्नवानिति धीः। आकाशं न पश्यती घटश्चैत्रौ वेत्यादौ द्वितीयया विषयित्वं लक्षणया घटादिवृत्तित्वं द्वित्वं च बोध्यते। धातोर्लौकिकविषयित्वावच्छिन्नप्रत्यक्षम्। तथा च लौकिकाप्रत्यक्षसामान्ये य आकाशविषयकत्वाघटवृत्तित्वोभयाभावस्तन्निरूपको घट इत्यर्थः। आकाशविषयकचाक्षुषोपनीतभानेऽपि लौकिकविषयित्वावच्छेदेन आकाशविषयकत्वचैत्रवृत्तित्वोभयाभावोऽस्त्येव। एवमप्रसिद्धस्थलेऽन्यत्रापीत्याहुः।।
अन्तर्धौयेनादर्शनमिच्छति ।। 27 ।।
यत्समवेतप्रत्यक्षविषयत्वाभाव आत्मन इष्यते तदपादानम्। उपाध्यायादन्तर्धत्ते शिष्यः। अत्र स्वप्रत्यक्षाभावेच्छापूर्वकतदनुकूलसंन्निकर्षाभावानुकूलव्यापारो धात्वर्थेः। पञ्चम्यर्थो वृत्तित्वम्। तस्य स्वप्रत्यक्षाभावेऽन्वयः। उपाध्यायवृत्तिर्यः स्वप्रत्यक्षाभावस्तदिच्छापूर्वकः प्रत्यक्षानुकूलसन्निकर्षाभावानुकूलो व्यापारः शिष्यवृत्तिरिति धीः। इच्छानिवेशात्सत्यपि चाक्षुषे न क्षतिः।
आख्यातोपयोगे।। 28 ।।
उपयोगो नियमपूर्वकमध्ययनम् तत्र वक्ताऽपादानम्। उपाध्यायादधीते। अध्ययनं तदुच्चारितशब्दप्रयोज्यशब्दानुसन्धानम्। पञ्चम्यर्थो वृत्तित्वम्। उपाध्यायवृत्ति यदुच्चारणं तज्जन्यशब्दप्रयोज्यशब्दानुसन्धानमिति।
इदमपि भाष्ये प्रत्याख्यातम्। ध्रुवमपाय इत्यत एव सिद्धेः। तदुक्तम्-``यद्यपक्रामति किं नात्यन्तायापक्रामति सन्ततत्वात्। अथवा ज्योतिर्वज्ज्ञानानि भवन्ति। व्याख्यातं च कैयटेन सन्ततत्वादिति शब्दस्य व्यञ्जका ध्वनय उपाध्यायेनोत्पाद्यमाना भिन्ना अपि सादृश्यात्तत्वेनाध्यवसीयमानाः श्रोतुः पुनाः पुनः श्रोत्रपथं गच्छन्तो व्यक्तिस्फोटरूपं जातिस्फोटिरूपं वा शब्दमभिव्यञ्जयन्तीत्यर्थः। अथवेति। यथा ज्वालारूपं ज्योतिरविच्छेदेनोत्पद्यमानं सदृशत्वेनाध्यवसीयमानं सन्ततं तथैवोपाध्यायज्ञानानि भिन्नानि शब्दरूपतामापद्यमानानि संततान्युच्यन्ते। ज्ञानस्य शब्दरूपापत्तिरिति दर्शनमत्र भाष्यकारस्य।
तथाचोक्तम्-
वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः।। इति।
जनिकर्तुः प्रकृतिः ।। 29 ।।
जायमानस्य हेतुरपादानसंज्ञः। पुत्रात्प्रमोदो जायते। ब्रह्मणः प्रजाः प्रजायन्ते। जनीत्यर्थग्रहणम्। अङ्गादङ्गात्सम्भवसि। जनेरिञ्। जनिघसिभ्यामिण्वा। ``जानिवध्योश्चइति न वृद्धिः शेषषष्ठ्या समासः।
यद्वा ``कर्तरि चइति निषेधस्यात एव ज्ञापकादनित्यत्वम्।
इदमपि प्रत्याख्यातम्। गोमयाद् वृश्चिको जायते। गोलोमाविलोमभ्यो दूर्वा जायन्ते। अत्रापक्रमणं गौणम्। लोके हि यद्यस्मादुत्पद्यते तत्तस्मान्निर्गच्छतीत्युच्यते। वैशेषिकादिमते तु परमाण्वादिसमवेतं कारणेभ्योऽपृथग्देशं कार्यमुत्पद्यते इति नास्त्यपक्रमः। सांख्यमतेऽप्याविर्भावतिरोभावलक्षणजन्मनाशरूपपरिणामाभ्युपगमान्न तथा। ``संततत्वान्नात्यन्तमपक्रामन्तिइति भाष्यम्। अविच्छेदादित्यर्थः। यथा बिलाद्दीर्घभोगो भोगी निष्क्रामन्नप्याविच्छेदात्तत्रोपलभ्यते तथादूर्वा अपीत्यर्थ इति कैयटः।।
अत्राद्वैतचन्द्रिकाकाराः-विभागरूपापक्रमणस्यावधावेवापक्रमतो न प्रतीतिः। इह तु युक्तत्वरूपमपक्रमणं तदवधौ प्रयुक्तस्य प्रतीतिरङ्गीक्रियते एव। तथैवानुभवात्।
ननु प्रयुक्तत्वं कथमपादानपञ्चम्यर्थ इति चेत्। न। वृक्षात्पततीत्यादौ वृक्षाद्यवधिकविभागप्रतीत्या विभागस्येव कपालाद्वट इत्यादौ कपालाद्यवधिकप्रयुक्तताप्रतीत्या प्रयुक्तस्याप्यपायशब्देन वक्तुं शक्यत्वात्।
तथा चेदं भाष्यतात्पर्यम्-अव्यवहितोत्तरक्षणसम्बन्धोऽप्यत्रापायशब्दार्थः। तदेकदेशेऽव्यवहितोत्तरत्वे निरूपकरूपस्याप्यवधेर्ध्रुवपदेन वाच्यत्वात्। कारणसमूहस्य तदवधित्वेऽपि समूहसमूहिनोरभेदोपचारात् करणमात्रेऽपि तत्संभवः। यद्यप्यन्यथासिद्धस्यास्याप्युक्तावधित्वम्स्ति, तथाऽप्यनन्यथासिद्धत्वस्यापि निवेश्यत्वाद्, दण्डरूपाद्धटइत्यादेर्नापत्तिः। दण्डाद्धटो जायते इत्यादौ घटं प्रत्यनन्यथासिद्धदण्डघटितो यः समूहस्तदव्यवहितोत्तरक्षणसम्बन्धाभिन्न या उत्पत्तिस्तद्वन् घटः। दण्डाद्धट इत्यादौ जायते इत्यादिक्रियाध्याहारावस्यकत्वे तु तादृशाव्यवहितोत्तरत्वमेव पञ्चम्यर्थः। तथैव धात्वर्थघटकक्षणेऽन्वयादिष्टार्थलाभः। वस्तुतः प्रयुक्तत्वमेव पञ्चम्यर्थः, तस्यैवापायशब्देन ध्रुवपदेन चोक्तिसंभवात्। अस्ति च घटादाविव तदुत्पत्तावपि दण्डादि प्रयुक्तत्वमिति दण्डाद्वट उत्पद्यते दण्डाद्धट तदुत्पत्तावपि दण्डादिप्रयुक्तत्वमिति दण्डाद्धट उत्पद्यते दण्डाद्धट इत्यस्य च प्रामाण्यम्। कैयटैदिवाक्यं तु समाधानान्तराभिप्रायम्। निष्क्राम्न् विभागानुकूलव्यापारोत्पत्तिकालावच्चिन्नः विबागपूर्वस्थूलकालव्यापारोत्पत्तिकालप्रदर्शनाय दीर्घभोग इति। तथाच विभागोत्पत्तिः, पूर्वं बिले भोगिन इवोत्पत्तेः प्रयुक्तत्वस्य वा क्रमणस्योत्तरकालमेव लोमादौ दूर्वादेः प्रत्यक्षम्। उत्पत्त्याद्यकालेतु तन्नास्त्येव। चक्षुराद्यसंयोगात्। उत्पत्तिक्षणे च लोमादौ दूर्वाद्यस्तीति परोक्षधीस्तु पूर्वोक्तरीत्या समाधेया।
यत्तु भोगिनोऽग्रावच्छेदेन बिलासंयोगरूपापक्रमणस्य सत्त्वेऽपि मूलावच्छेदेन बिलसंयोगाद्यथा बिले उपलब्धिस्तथा दूर्वादेः स्वपरिणामिलोमादिभागसम्बद्धतया प्रतीयमानस्यापि लोमादिभागान्तरावच्छेदेन लोमादिसम्बन्धाभावरूपापक्रमणमिति कैयटवाक्यार्थ इति तन्न।
वृक्षावम्थितिकाले चलत्यपि पत्रादौ वृक्षाच्चलतीत्याद्यप्रयोगाद् वृक्षादिसंयोगाद्यसमकालिकस्यैव वृक्षादिसंयोगाबावादेरपायपदार्थतया बिलादिसंयोगाभावादेरपायपदार्थत्वाभावादित्याहुः।।
भुवः प्रभवः ।। 30 ।।
भूकर्तुः प्रभवः प्राग्वत्। हिमवतो गङ्गा प्रभवति। भवनमत्र बहिःसंयोगः बहिःपदार्थो हिमवाद्भिन्नजम्बूद्वीपभूमिः। संयोगध्वंसकालीनत्वं पञ्चम्यर्थः। सच बहिःसंयोगत्वव्यापकविशेषणतासम्बन्धेन बहिःसंयोगेऽन्वेति। आश्रयत्वं तिङर्थः। हिमवत्संयोगध्वंसकालीनहिमवद्भिन्नजम्बूद्वीपीयभूमिसंयोगाश्रयो गङ्गेति धीः। प्रयागात्प्रभवति गङ्गेत्यप्रयोगात् बहिःसंयोगत्वव्यापकसम्बन्धनिवेशः। प्रयागभिन्नम्बूद्वीपबूमिगङ्गासंयोगत्वं गङ्गाद्वारादिभूमिगङ्गासंयोगे कल्पादिकालेऽप्यस्ति। नतु प्रयागगङ्गासंयोगध्वंसकालीनत्वमिति तद्वारणम्। हिमवद्भिन्नगङ्गासंयोगत्वावच्छेदेन तु हिमवद्गङ्गासंयोगध्वंसकालीनत्वमस्त्येवेति न दोषः।
अन्ये तूक्तप्रयोगवारणाय प्राथमिकबहिःसंयोगः पञ्चम्यर्थः। बहिःपदार्थो भूखण्डम्। प्राथम्यं संयोगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वम्। हिमवत्संयोगध्वंसकालीनाव्यवहितोत्तरक्षणवृत्तिपृथिवीसंयोगाश्रयत्ववती गङ्गेति धीरित्याहुः।
इदमपि प्रत्याख्यातम्। अन्यान्याः प्रादुर्भवन्तीति भगवदुक्तेः।
एतेनान्यान्यशय्यारचनाय लूनैरित्यादिश्रीहर्षप्रयोगा व्यख्याताः।
अत्र वदन्ति कर्थचिदुक्तप्रयोगाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठी स्यात्। नटस्य शृणोतीतिवत्। क्रियानुकूलव्यापारांशे नटोपाध्याययोरविशेषात्। अनभिधानब्रह्मास्त्रमाश्रित्य प्रत्याख्यानं तु न मनोरमम्। सन्सूत्रभाष्यविरुद्धं च। एवं जुगुप्सेतिवार्तिकमप्यावश्यकम्। एवं च ध्रुवं भयहेतुरसोढ इत्यादिसंज्ञिनिर्देशोऽपि सार्थेकः। परत्वात्तत्तत्संज्ञाप्रवृत्तावपि शेषत्वविवक्षायां ``न माषाणामश्नीयाद्इत्यादिवत् षष्ठ्या इष्टतया तत्रापादानसंज्ञावारणार्थत्वादिति अत्र भाष्यार्थविरोधः। उपाध्याये षष्ठी नेष्यते भयहेत्वादिषु त्विष्यते इत्यस्य वक्तुमशक्यत्वादिति बहुश्रुतैर्विचारणीयं च।
तदेतदभिसंधायास्मत्पितृचरणैरुक्तम्। अवधित्ववदपादानम्। अवधित्वंच प्रकृतधात्वर्थप्रयुक्तकर्तृकर्मान्यतरसंबन्धनिवृत्तिमत्त्वम्। अश्वात्पतति देवदत्त इत्यत्र प्रकृतधात्वर्थः पतनं तत्प्रयुक्ता देवदत्तरूपस्य कर्तुः संयोगस्य निवृत्तिरश्वे तद्वानश्वोऽपादानम्।। परस्परान्मेषावपसरत इत्यत्रापि अपसरणप्रयुक्ता मेषयोः संयोगस्य निवृत्तिः। वृकाद्बिभेतीत्यत्र वृकप्रयुक्ता देवदत्तसम्बन्धस्य निवृत्तिर्वृके। चौरेभ्यस्त्रायते देवदत्तमित्यत्र त्राणप्रयुक्ता कर्मसंज्ञकदेवदत्तसंबन्धस्य निवृत्तिश्चौरेषु। उपाध्यायादधीते इत्यत्रापि कर्मणः शब्दस्य ध्वन्यात्मकस्य निवृत्तिरुपाध्याये वर्तते। कैयटोक्तविधात्र बोध्या। येनोत्पादितो ध्वनिरनित्यत्वान्निवर्तते इति कैयटाशयः। माषेभ्यो गां वारयतीत्यत्र वारणक्रियाप्रयुक्ता कर्मभूतानां गवां सम्बन्धस्य निवृत्तिर्माषेषु। गोमयाद्वृश्चिको जायते इत्यादावपि कर्तृभूतवृश्चिकताद्रूप्यसंबन्धनिवृत्तिर्गोमयादौ। हिमवतो गङ्गा प्रभवतीत्यादावपि प्रभवनक्रियाकर्तृगङ्गाजलसंबन्धस्य निवृत्तिर्हिमवति। यतः काश्चिदापो हिमवतो निर्गच्छन्ति काश्चिदन्यास्तत्र तिष्ठन्ति। समुद्रः कुण्डिकेत्यत्र कुण्डिकायाः पानीयबाहुल्यात्समुद्रत्वम्। समुद्रस्य वा सुतारत्वात्कुण्डिकात्वमसदपि विवक्षावशात् प्रतीयते। तथा गौणमुख्यसाधारणमेवाऽपादानत्वं सर्वत्र सम्बवतीति दिक्।।
कर्मणा यमभिप्रैति स संप्रदानम् ।। 32 ।।
तत्क्रियाकर्मणा करणभूतेन तत्क्रियाकर्ता यमभिप्रैति स संप्रदानसंज्ञाः। करणीभूतकर्मजन्यफलभागित्वेनोद्देश्यत्वं संप्रदानत्वमिति यावत्। उपाध्यायाय गां ददाति। ग्रामं गच्छतीत्यत्र गमनकर्मग्रामजन्यसुखादिमत्तयोद्देश्यस्य चैत्रादेर्वारणाय करणीभूतेति। ग्रामो हि न गमने करणम्। धनं तु दाने तथैव। परस्वत्वहेतुत्यागविशेषात्मकदानघटकस्वत्वहेतुत्वात्। पितृस्वर्गोद्देशेन ब्राह्मणाय गोदानस्थले दानजन्यफलशालित्वेनैव पिताऽभिप्रेतो न तु गोजन्यफलशालित्वेनेति न व्यभिचारः। नचादृष्टद्वारा स्वर्गादिफलस्यापि गोजन्यत्वं, दत्ता गौः पितृस्वर्गं जनयिष्यतीत्यभिसन्धानादिति वाच्यम्। अदृष्टाद्वारकत्वेन धात्वर्थावच्छेदकत्वेन वा फलस्य विशेषणात्। उक्तस्थले विप्रस्वत्वोद्देश्यकत्वं तदिच्छाजन्यरूपं दानान्वितं चतुर्थ्याः, द्वितीयायास्तु स्वत्वमर्थः। विप्रस्वत्वोद्देश्यकधनीयस्वत्वजनकदानानुकूलकृतिमान् इति धीः। एवं च दानक्रियामात्रनिरूपितं सम्प्रदानत्वमित्यनङ्गीकारात् वृक्षायोदकं स्ञ्चितीत्यादावपि उदकजन्यफलभागित्वेनोद्देश्यत्वाद्वृक्षस्य सम्प्रदानत्वम्। वृक्षीयपत्राद्युद्देश्यकसेचनविषयककृतितिमानिति धीः। नचाजां ग्रामं नयतीतिवद्वृक्षमुदकं सिञ्चतीति स्यात्। संयोगवत्तया वृक्षस्य द्रवद्रव्यक्रियावत्तया च उदकस्य कर्मत्वसम्भवादिति वाच्यम्। अनभिधानात्।
मीमांसकास्त्वन्वर्थसंज्ञाविज्ञानात्त्यज्यमानद्रव्योद्देश्यत्वे सति स्वीकारवत्त्वं संप्रदानत्वम्। स्वीकारो यथेष्टविवनियोगयोग्यतोपधायकः प्रतिग्रहः। उद्देश्यत्वं चतुर्थ्यन्तपदोच्चारणजन्यज्ञानविषयत्वम्।
नामगोत्रे समुच्चार्य सम्यक् श्रद्धान्वितो ददेत्।
संकीर्त्य देशकालादि तुभ्यं सम्प्रददे इति।।
न ममेति स्वसत्ताया निवृत्तिमपि कीर्तयेत्।
दानहोमादिकं कुर्यादेवं श्रद्धासमन्वितः।।
इति वृद्धवसिष्टवचनात्।। देवतायामतिव्याप्तिवारणाय विशेष्यम्। त्यज्यमानद्रव्योद्देश्यत्वमिन्द्रादावर्थे। त्यागकालीनचतुर्थ्यन्तपदोच्चार्यत्वं शब्दे। देवतात्वं तद्धितवाच्यम् वृद्धव्यवहारात्। अत एव तद्धितापेक्षया देवतालाभे चतुर्त्या दौर्बल्यम्। स्वीकारवत्त्बांशत्यागेनैव त्यज्यमानद्रव्योद्देश्यत्वरूपदेवतात्वस्य चतुर्थीतो लाभात्।
तदुक्तं भट्टैः।
तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः।
देवतासङ्गतिस्तत्र दुर्बलं तु परं परम्।।
तत्र त्यागादिकमन्यलभ्यम्। उद्देश्यत्वमात्रं चतुर्थ्यर्थः। रजकाय वस्त्रं ददातीत्यादौ च लक्षणेति। वृत्तिकारस्याप्ययमेवाभिप्रायः।
कैयटादयस्तु ``न शूद्राय मतिं दद्यात्इति दर्शनात् ``खण्डिकापोद्यायस्तस्यै चपेटां ददातिइति बाष्यकारोदाहरणाच्च परस्वत्त्वापत्तिपर्यन्तस्वत्त्वनिवृत्तेर्दानत्वम्। ददातिविषयैव च सम्प्रदानसंज्ञेत्युभयमप्ययुक्तम्। अत एव क्रियाग्रहणं कर्तव्यमितिवार्तिकमपि प्रत्याख्यातमित्याहुः।।
नन्वेतन्मते तद्धितापेक्षया चतुर्थ्या दुर्बलत्वं न स्यादिति चेन्मैवम्। तन्मात्रस्य दौर्बल्यानुपपादकत्वात्।
तथाहि-गुणाधिकरणे निरुपितं ``तप्ते पयसि दध्यानयति सा वैशव्देव्यामिक्षा वाजिभ्यो वाजिनम्इति श्रुतं, तत्र वाजिनवाक्यं किं पूर्वयागानुवादेन द
्रव्यदेवतान्यतरविधिः, अथ कर्मान्तरविधिः। स्ववाक्योपात्तयोर्द्रव्यदेवतयोर्वाक्यान्तरोपात्तद्रव्यदेवतापेक्षया प्रथमोपस्तितिकत्त्वात्तदवरुद्धे यागे निराकाङ्क्षतया वाक्यान्तरोपातयोर्न निवेश इति। वाजिनवाक्यस्थस्य यजेरधिकाराख्यप्रकरणसापेक्षस्य प्रकृतयागोपस्तापकत्वम्। आमिक्षावाक्यस्थस्य तु तदनपेक्षस्यैवेति। यजेः द्रव्यदेवतापदान्वये सन्निकर्षाच्च। यजिकल्पकस्य द्रव्यदेवतासंबन्धस्यामिक्षायां वैश्वदेवीत्यकपदोपादानात्प्रतीतिः। वाजिने तु पदान्तरोपादानादिति विप्रकर्षाच्च। वैश्वदेवीत्यत्र ``सास्य देवताइत्यानुशासनाद्देवताविशिष्टद्रव्यविशेषस्य तद्धितार्थत्वात्। द्रव्यानभिधाने आभिक्षापदसा मानाधिकरण्यानुपपत्तेश्च। नच तस्य व्यक्तिन्यायेन धीः। ``संमदाने चतुर्थीइतिवद्देवतायां तद्दित इत्येवानुशासनप्रसङ्गात्। नच द्रव्यमात्रं तद्धितार्थो, देवतात्वं तु संसर्ग इति वाच्यम्। पदार्थानुशासने संसर्गस्यानुशासनानर्हत्वात्। ``तस्यापत्यम्इत्यादौ अपत्यत्वस्यापि प्रत्ययार्थत्वानापत्तेश्च। नच तद्धितस्य द्रव्यविशेषवाचकत्वे आमिक्षापदवैयर्थ्यम्। बुद्धिस्थप्रकारवाचिनस्तद्धितस्य पदान्तरसमभिव्याहारविरहे आमिक्षात्वादिविशेषरूपेणानुपस्थापकत्वात् तात्पर्यग्राहकतया तत्सार्थक्यात्। यदि च तद्धितान्तपदमात्रश्रवणेऽपि द्रव्यविशेषस्य संशयोत्पादात्सामान्यरूपेण द्रव्योपस्थितस्तद्धितात्। तथापि विशेषस्यामिक्षापदेन समर्पणेऽपि अनिर्धारितद्रव्यविशेषदेवतासंबन्धस्य पदश्रुतिमात्रममाणकत्वमक्षतम्।
वाजिभ्य इति चतुर्थी तु स्वरूपा एवं संदिग्धा। पञ्चमीसाधारण्यात्। चतुर्थ्यपि संप्रदानत्वमात्रवाचिनी प्रतिग्रहीतृत्वांशत्यागेन लक्षणयैव देवतात्वं वदेत्, नतु द्रव्यसंबन्धम्। देवतयापि प्रतिसंवन्धितया द्रव्यस्यार्थापत्तिविधयाक्षेपेऽपिन तस्य शाद्बत्वम्। नचाक्षेपोऽपि संभवति। प्रमामान्तराभावे तस्यावश्यकत्वात्। अत्र च वाजिनपदस्य सत्त्वात्। ततश्च वाजिभ्य इति पदस्य द्रव्यसाकाङ्क्षत्वेऽपि द्रव्यसम्बन्धस्य पदान्तरगम्यत्तादामिक्षासम्बन्धमपेक्ष्य वाजिनसंबन्धो विप्रकृष्टः। नच संख्यावदब्यासापादनेन निवेशः। कर्मस्वरूपे ह्येकत्वावच्छिन्ने सति अभ्यस्ते तस्मिन्नेकादशत्वनिवेशः। द्वित्वादिसंख्यायाः पूर्वावदारितैकत्वसामानाधिकरण्यनियतत्वात्। वाजिनस्य त्वामिक्षासामानादिकरण्येनानिवेशात् अभ्यस्तस्यापि कर्मणः आमिक्षावरोधतादवस्थ्येन निवेशासंभवात्। तस्माद् द्रव्यदेवतासंबन्धकल्पितं सान्नाय्यप्रकृतिकं यागान्तरमेव आमिक्षाऽनुष्पादिवाजिनप्रतिपत्त्यर्थतयाऽऽभिक्षायागमात्राङ्गत्वेन विधीयते। तस्मात्पूर्वकर्मण्यनिविशमानो गुणो भेदकः। अनिवेशश्च प्रकृते संनिकर्षविप्रकर्षादिभिरुक्तन्यायैः। क्वचिद्वाक्यभेदापत्त्यादिनेत्यन्यत्र निरूपितम्।
अत्र च लक्षणया देवतात्वप्रतीतिरिति बीजाभावेऽपि न्यायान्तरेण यथोक्तेनैव चतुर्थ्या दौर्वल्यसिद्धेरिति।
प्रकृतमनुसरामः। क्रियाग्रहणं कर्तव्यम्। पत्ये शेते। शयनक्रियया ईप्सितस्य पत्युक्तसंज्ञा। भाष्यकारास्तु संदर्शनाध्यवसायप्रार्थनादिभिरर्थ्यमानत्वात् क्रियाऽपि कृत्रिमंकर्म। तथाच सूत्रेणैव सिदधम्। अप्रयुज्यमाना अपि याः संदर्शनादिक्रियास्तत्कर्मभूतया शयनक्रियया पत्युरभिप्रेयमाणत्वात्। पूर्वं हि शयनक्रियायाः ज्ञानं तत इच्छा ततः प्रवृत्तिरिति क्रमः। ज्ञानादिक्रियानिरूपितं च कर्मत्वं शयनादेः स्पष्टमिति। प्रतीयमानक्रियामपेक्ष्य कारकत्वस्य प्रविश, पिण्डीमित्यादौ दर्शनात्। ``क्रियार्थोपपदस्यइति सूत्रस्वारस्याच्च।
नन्वेवं कटं करोतित्यादावपि सम्प्रदानत्वापत्तिः।
अत्राहुः--यदा संदर्शनादयो धात्वर्थाद्भेदेन विवक्ष्यन्ते तदा संप्रदानसंज्ञा। सा च विवक्षा प्रयोगदर्शनवशान्नियतविषयैवाश्रीयतेऽतो नातिप्रसङ्गः। तत्र भेदस्याविवक्षितत्वात्। अत एव गत्यर्थकर्मणीति प्रत्याख्यास्यते।
उक्तंच वाक्यपदीये--
भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति।
परस्याङ्गस्य कर्मत्वान्न क्रियाग्रहणं कृतम्।।
क्रियाणां समुदाये तु यदैकत्वं विवक्षितम्।
तदा कर्म क्रियायोगात्स्वाख्ययैवोपचर्यते।।
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता।
तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते।।
विक्लपेनैव सर्वत्र संज्ञे स्यातामुबे यदि।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत्।।
स्वाख्ययाः क्रियोप्सितत्वरूपकर्मसंज्ञया उपचर्यते-व्यवहियते, नतु सम्प्रदानसंज्ञया। गत्यर्थकर्मणि तु भेदाभेदोभयं पर्यायेण विवक्ष्यते इति संज्ञाद्वयाद्विभक्तिद्वयं सिद्धम्। स्पष्टमन्यत्।
मीमांसकास्तु नियमेन ज्ञानादिप्रतीत्यभावान्नेदं युक्तम्। अत एव गत्यर्थकर्मणीति सूत्रे ``क्रियाग्रहणमपि तत्र चोद्यतेइति भाष्यकृतोक्तवार्तिकं विधित्वेनाश्रितमित्याहुरिति तत्रैव स्फुटीकरिष्यामः।
इदं च त्रिविधम्।
अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम्।
प्रेरणानुमतिभ्यां च लभते संप्रदानताम्।।
इति वाक्यपदीयात्। सूर्यायार्ध्यं ददाति। विप्राय गांददाति। उप्राध्यायाय गां ददाति इति क्रमादुदाहरणम्। नच तादर्थ्यचतुर्थ्यैव सिद्धौ एतत्सूत्रवैयर्थ्यम्। दानक्रियायाः फलसम्बन्धितया प्राधान्यात्संप्रदानस्यैन तदर्थत्वम् नतु दानाक्रियायाः सम्प्रदानार्थत्वमिति तदप्रसक्तेरिति हेलाराजः। अत एव त्यागाङ्गं ``कर्मणेप्सितम्इत्युक्तम्।। कर्मसंप्रदानयोः करणकर्मत्वे वाच्ये। पथुना रुद्रं यजते। पथुं रुद्रायददातीत्यर्थः। इदं तु छान्दसव्यत्ययात्सिद्धं। लोके तु यजेः पूजार्थत्वात्पशो- करणत्वम्।
रुच्यर्थानां प्रीयमाणः ।। 33 ।।
उक्तसंज्ञः स्यात्। देवदत्ताय रोचते स्वदते वा मोदकः पथि। प्रीयमाणः किम् पथीत्यधिकरणे मा भूत्। आदित्यो रोचते इत्यत्र दीप्त्यर्थे न संज्ञा।
अत्र वाक्यपदीयम्।
हेतुत्वे कर्मसंज्ञायां सेषत्वे वापि कारकम्।
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते।।
अस्यार्थः। अन्यसमवेताभिलाषो रुच्यर्थः। अभिलाषविषयो भवतीत्यवगमात्। तादृशं मोदकं देवदत्तः प्रयुङ्क्ते। लौल्यात्तदानुगुण्यमाचरतीति देवदत्तस्य हेतुसंज्ञायां, रोचतेः प्रीणतीत्यर्थे तु कर्मसंज्ञायां, देवदत्तस्य योऽमिला,स्तद्विषयो भवतीत्यर्थे तु शेषषष्ठ्यां प्राप्तायां संप्रदानसंज्ञारम्भः।
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ।। 34 ।।
एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानम्। देवदत्ताय श्लाघते। तं स्तौतीत्यर्थः। एवं हि देवदत्तः शक्यते ज्ञापयितुं। देवदत्ताय स्वं परं वा श्लाघ्यं कथयतीति केचित्।
श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः।।
इति भट्टीप्रयोगात् आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। आद्यपक्षे कर्मत्वे, द्वितीये च शेषष्ठयां प्राप्तायामारम्भः। ह्नुङादयः स्वार्थविशिष्टज्ञापनार्थत्वात्सकर्मकाः। तथा च ज्ञीप्स्यमान इति संज्ञिविशेषणम्। देवदत्ताय ह्नुते देवदत्तमपलपन् तदपलापं देवदत्तं बोधयति। सन्निहितमपि तं धनिकादेरपलपतीत्यर्थः। यद्वा ह्नोतव्यं देवदत्तं बोधयतित्यर्थः। देवदत्ताय तिष्ठते ईदृशोऽहमित्यवस्थानेन बोध्यते।
कस्तस्मै रमणं गणप्रणयिने तिष्ठेनत कः प्रज्वल--
द्दम्बोलिद्युतिमण्डलोज्ज्वलभुजस्तम्बाय जम्भारये।।
इति मुरारिः।
देवदत्ताय शपते। शपथेन किञ्चित्प्रकाशयतीत्यर्थः। ज्ञीप्स्यमान इत्युक्तेर्नेह। देवदत्त। देवदत्तः श्लाघते गार्गिकया। श्लाघते पथीत्यादौ कर्त्रादिविषये न संज्ञा।
धारेरुत्तमर्णः ।। 35 ।।९
उत्तमर्णो धनस्वामी। उत्कृष्टार्थपरादुच्छब्दात्तमप्। दव्यप्रकर्षत्वान्नाम्। अर्त्तेः क्तः। ``ऋषमाधमर्ण्ये इत्यत्र विनिमयनि रूपकमात्रस्य विवक्षितत्वादुत्तमर्णेऽपि नत्वम्। एतन्निपातनादेव बहुव्रीहौ निष्ठान्तस्यापि परनिपातः। देवदत्ताय शतं धारयति। पुनर्दानमङ्गीकृत्य द्रव्यग्रहणं धारणम्। षष्ठ्यां प्राप्तायामारम्भः। उत्तमर्णः किम्। उक्तवाक्ये ग्रामे इत्यादिप्रयोगे मा भूत्। नच परत्वादेव सिद्धिः। उत्तमर्णेऽपि हेतुसंज्ञापत्तेः।
स्पृहेरीप्सितः ।। 36 ।।
स्पृह ईप्सायाम्। चुरादिरदन्तः। अस्य प्रयोगे ईप्सित उक्तसंज्ञः स्यात्। पुष्पेभ्यः स्पृहयति। ईप्सिततमत्वे तु परत्वात्कर्मत्वम्। पुष्पाणि स्पृहयति। शेषत्वविवक्षायां षष्ठ्येव।
कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च।।
इति हरदत्तादयः। कर्मसंज्ञायाः शेषषष्ठ्याश्च बाधिकेयं संज्ञेति हेलाराजः। एतत्पक्षे उक्तप्रयोगे कान्तायेति विभक्तिविपरिणामः।
``परस्परेण स्पृहणीयशोभम्।
इत्यत्र दानीयो विप्र इतिवत्संप्रदाने एवानीयर् इति कल्प्यम्।
क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ।। 37 ।।
क्रोधाद्यर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकमुक्तसंज्ञम्। देवदत्ताय क्रुध्यतीत्यादि। क्रोधो रोषः। द्रोहोऽपकारः। ईर्ष्या परगुणासहनम्। असूया परगुणबिध्वंसनम्। यद्यप्येते वित्तदोषा एवेति वित्तदोषार्थानामित्येव वक्तुं युक्तं तथापि योऽस्मान्द्वेष्टीत्यादौ द्विषेरनभिनन्दनार्थत्वेन क्रोधाद्यवृत्तित्वात्तत्रातिप्रसङ्गः स्यात्। औषधं द्वेष्टीत्पादावनभिनन्दनेऽपि द्विषेः प्रयोगात्। यं प्रतीति किम्। भार्यामिर्ष्यति। परैर्दृश्यमानां न सहते इत्यर्थः। क्रुधद्रुहोरकर्मकत्वात्तद्योगेशेषषष्ठ्यां, इतरयोस्तु सकर्मकत्वात् द्वितीयायां प्राप्तायामारम्भः।
कुधद्रुहोरुपसृष्टयोः कर्म ।। 38 ।।
सोपसर्गयोरनयोः पूर्वोक्तं कर्मसंज्ञम्। पूर्वापवादः। देवदत्तमभिक्रुध्यति, अभिद्रुह्यति।
राधीक्ष्योर्यस्य विप्रश्नः शश 39 ।।
एतयोर्विविधप्रश्नसम्बन्धि कारकं सम्प्रदानसंज्ञम्। कृष्णाय राध्यति, ईक्षते वा। पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः। शुभशुभरूपयोः कर्मणोर्धात्वर्थानतर्भावादकर्मकत्वम्। षष्ठीमाप्तौ वचनम्। राध्यतीति अकर्मकत्वात् श्यन्। तथा च दिवाद्यन्तर्गणसूत्रम्। ``राधोऽकर्मकाद्वृद्दावेव इति। राधोऽकर्मकादेव श्यन्, एवकारस्य भिन्नक्रमत्वात्। यथा बृद्धाविति। अत एव ``कर्मवत्कर्मणाइति सूत्रे राध्यत्योदन इति भाष्यम्, सिध्यतीत्यर्थकत्वात्। एतेनैतयोः कर्मकारकं सम्प्रदानमिति प्रत्युक्तम्। यस्येत्यनर्थकं, यं प्रतीत्यनुवृत्त्या सिद्धेरिति केचित्। तन्न। यं प्रतीत्यस्य यद्विषयार्थकत्वादन् पर्यालोचने शुभाशुभयोरेव विषयत्वाच्छुभाशुभयोश्च निर्विषयकत्वात्। शब्दाधिकारमाश्रित्यार्थान्तरकल्पने गौरवात्।
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ।। 40 ।।
प्रतिपूर्व आङ्पूर्वश्च श्रुणोतिरभ्युपगमार्थः। तस्य पूर्वो व्यापारः प्रवर्तनक्रिया, तस्याः कर्ता सम्प्रदानम्। विप्राय गां प्रतिश्रृणोति आश्रृणोति वा। विप्रेण मह्यं गां देहीति प्रवर्तितः प्रतिजानीते इत्यर्थः। हेतुसंज्ञायां प्राप्तायां विप्रेण प्रतिश्रृणोति इति प्रयोगवारणाय वचनम्। विवक्षाभेदेन देवदत्तो गां प्रतिश्रावयतीते केचित्।
एवं देवदत्तो रोचयति मोदकमित्यपि स्यात्। नचेष्टापत्तिः। तत्रत्यस्वपरग्रन्थविरोधात्। हेतुत्वबाधाण्णिजभावस्य प्रकृतेऽपि तुल्यत्वादित्यन्ये।
अनुप्रतिगृणश्च ।। 41 ।।
अनु प्रति इत्यन्यतरस्माद् परस्य गृणातेः प्रायुक्तं कारकं तथा। गृणा इति श्ना्तस्यानुकरणम्। अनुमतिभ्यां गृणा इति समासः। आतो धातेरित्याकारलोपः।
केचित्तु अनुप्रतिति भिन्नं पदम्। प्रकृतिवदिति अव्ययत्वात्सुलोप इत्याहुः।।
शंसितुः प्रोत्साहनं तदर्थः। पुर्वो व्यापारः शंसनम्। होत्रे अनुगृणाति, प्रतिगृणाति वा। होता प्रथमं शसति तमध्वर्युः ``आद्यामो देवाइत्यादिभिः शब्दैः प्रोत्साहयतीत्यर्थः।
साधकतमं करणम् ।। 42 ।।
क्रियायां प्रकृष्टोपकारकं कारकं करणसंज्ञम्। नच कारकाधि कारादेव लब्धस्य साधकत्वस्य पुनःश्रुत्यैव प्रकर्षार्थसिद्ध्या किं तमपेति वाच्यम्। सामर्थ्यात् प्रक्र्षोऽन प्रकरणे न गृह्यते इत्यस्य ज्ञाप्यत्वात्। तेन गङ्गायां घोष इत्यादि सिद्धम्। तीरनिष्ठादारत्वस्य प्रवाहे उवचारात्। गङ्गापदस्य तीरलक्षकत्वे तु नेदं प्रयोजनम्। रामेण बाणेन हतो वाली।
अत्र प्राञ्चः कारकान्तरेऽचरितार्थत्वे सति क्रियानिमित्तत्वं करणत्वम्। कारकान्तरनिष्ठव्यापारद्वारा क्रियाहेतुत्वाभावो विशेषणार्थः। कर्तृकर्मणोः करणनिष्ठव्यापारद्वारा क्रियाहेतुत्वान्न व्यभिचारः। अधिकरणस्यापि कर्तृकर्मान्यतरव्यापारद्वारा तथात्वम्। चैत्रो गेहे स्थाल्यामोदनं पचतीत्यादौ गृहस्य कर्तूव्यापारद्वारा, स्ताल्याः कर्मव्यापारद्वारा उपयोगात्। सम्प्रदानस्याप्यनुमतिप्रकाशनद्वारा, कर्तुरिच्छोत्पादनद्वारा वा, अपादानस्य पतनप्रतिबन्धकसंयोगनाशकविभागद्वारा तथात्वम्। नच कुठारादिसंयोगस्यापि कर्तृकर्मव्यापारे चरितार्थत्वादव्याप्तिः। चरमकारणस्यैव लक्ष्यत्वात्। अत एव फलायोगव्यवच्छिन्नं कारणं करणमित्याहुः।
अन्ये तु व्यापारवत्त्वे सति कारणत्वं करणत्वम्। न च कार्यमात्रे ज्ञानादौ चाऽदृष्टस्य मनोयोगस्य च व्यापारत्वादात्मनः करणत्वापत्तिः, ऽष्टत्वात्। अत एव ``आत्मानमात्मनावेत्सिइत्यादिप्रयोगाः। कर्तृत्वकरणत्वोपाधिभेदेनैकस्योभयात्मकत्वेऽप्यदोषात्। श्रावणप्रत्यक्षे श्रोत्रमनःसंयोगो व्यापारो, न शब्दः। शब्दात्यन्ताभावप्रत्यक्षे व्यभिचारात्। चाक्षुषादौ चक्षुरादेस्तत्संयोगः, अनुमितौ व्याप्तिज्ञानस्य परामर्शो व्यापार इत्याहुः।
अन्ये तु कर्तृव्यापारविषयत्वं करणत्वं। तच्च फलानुकूलकर्त्तृव्यापारवत्त्वम्। अस्ति हि कुठारादौ छिदानुकूलकर्त्तृनिष्ठसंयोगादिमत्त्वम्। न चाऽधिकरणस्याऽपि कर्त्तृनिष्ठव्यापारविषयवाद्व्यभिचारः, तत्करणत्वस्येष्टत्वात्। स्थाल्याऽन्नं सावयतीत्यादिप्रयोगात्। तदुक्तम्--
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्।
विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतम्।।
वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः।।
एतेन गवा दानं साधयति, ब्राह्मणेन साधयतीत्यादिव्याख्यातम्। चैत्र आत्मना चैत्र आत्मना चैत्रेण वा पचतीत्यप्रयोगादन्त्यावयवि सत् यदवच्छेदकतया कृतिमत्तद्भिन्नत्वेन व्यापारवान् विशेष्यः। अन्त्यावयवीत्युपादानाद्धस्तेन पचतीत्यादेसंग्रहः। इदं च करणत्वं नाऽनुमानादिसाधारणमिति तत्र भिन्नमेव तत्। करणशब्दश्च नानार्थ इत्याहुः।
दिवः कर्म च ।। 43 ।।
दीव्यतेः साधकतमं कर्मसंज्ञम्। चात्करणसंज्ञम्। करणशब्दानुवृत्तेर्वक्ष्यमाणान्यतरस्यांग्रहणाकर्षणेन वा पर्यायलाभात्समावेशार्थश्चकारः। तत्फलं तु आकडारादिति सूत्रे व्याख्यातम्।
परिक्रयणे सम्प्रदानमन्यतरस्याम् ।। 44 ।।
समयविशेषावच्छेदेन वेतनादिना स्वीकरणं परिक्रयणं, तस्मिन् साधकतमं सम्प्रदानसंज्ञं वा। शताय शतेन वा परिक्रीतः।
आधारोऽदिकारणम् ।। 45 ।।
आध्रियते क्रियाऽनेनेत्याधारः। अध्यायन्यायेत्यादिना करणे घञ्। क्रियाधारत्बं कर्तृकर्मणोर्धारणात्। साक्षात्क्रियाश्रययोः कर्तृकर्मणोः पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधात्। कर्तृकर्मान्यतरव्यवधानेन क्रियाश्रयः कारकमधिकरणसंज्ञम्।
तदाह हरिः--
कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम्।
उपकुर्वत्कियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्।।
कटे आस्ते, स्थाल्यां पचति। नन्वेवमग्नौ पचतीत्यादिप्रयोगानुपपत्तिः। कर्तृकर्मान्यतरद्वारकस्य क्रियावत्त्वस्य विरहात्। नचायं प्रयोगो नास्त्येवेति कल्प्यम्।
यस्मिन्नग्नौ पचेदन्नं तस्मिन् होमो विधीयते।
इत्यादिस्मार्तप्रयोगदर्शनात्। नापि अग्न्यादिपदस्य स्थाल्यादिलक्षणया उक्तान्यतरद्वारकत्वसम्भव इति केषांचित् कल्पनं युक्तं, यच्छब्दस्यापि तत्परत्वापत्त्या तस्मिन् होमो विधीयते इत्यस्यानन्वितत्वप्रसङ्गात् इति चेत्सत्यम्। छान्दसत्वेन तदुपपत्तेः।
नन्वधिकरणत्वं न धर्मसम्बन्धित्वं संयोगादेर्द्विष्ठतया बदरादेः कुण्डादिनिरूपिताधारत्वापत्तेः। नच स्वधर्मसम्बन्धस्तत्, कुण्डादिकं च न बदरादिधर्म इति वाच्यम्। धर्मत्वस्याधेयतारूपतया तस्य च स्वनिष्ठाधिकरणतानिरूपकत्वरूपतयाऽन्योन्याश्रयप्रसङ्गात्। नचोत्पत्तिस्थितिज्ञप्तीनामन्यतमापेक्षणीयमधिकरणं, समवायिकारणं घटादेः, भूतलादि जात्यादेः समवायि समवायादेः, स्वरूपसम्बन्धि चेति क्रमादुदाहरणमिति वाच्यम्। अपेक्षणीयपदेन कारणोक्तौ असमवाय्यादावतिव्याप्तेः। घटत्वादिज्ञप्तेर्घटादौ समवायित्वानुपपत्तेश्च।
अत्र प्राञ्चः। तद्भिन्नत्वे सति तत्पतनप्रतिबन्धकसंयोगवन्मूर्तत्वं तदधिकरणत्वम्। ब्रह्माण्डाधारकसंयोगाश्रयेश्वरवारणाय मूर्तेति। जातिगुणादिनां तत्समवायित्वमेव तत्। समवायादेस्तत्स्वरूपसम्बन्धित्वमिति नानैवाधिकरणत्वमित्याहुः।
नव्यास्तु एवमननुगमात्सप्तम्या नानार्थत्वापत्त्याऽतिरिक्तमेवाधिकरणत्वम्। नचाधेयत्वमेवातिरिक्तं, तन्निरूपकत्वं चाधारत्वमिति वाच्यम्। विनिगमकाभावात्। अतो द्वयमप्यतिरिक्तमित्याहुः।।
अत्र प्राचीनानुसारिणः। तत्तत्संयोगसमवायादिरेवाधारता। आधारतात्वं चातिरिक्तं तत्माधारणमतो नाननुगमः। दण्डाधार इत्युक्ते आधारतात्वेन संयोगग्रहेऽपि संयोगत्वेन तदग्रहाद् दण्डसंयोगी नवेति संशयसम्भवः। संयोगत्वाद्यवच्छिन्नप्रकारताकधिय एव तद्विरोधित्वादित्याहुः।
भूतले घट इत्याधारत्वं सप्तम्यर्थः। तस्य निरूपकत्वसम्बन्धेन घटेऽन्वयः। भूतलनिष्ठाधिकरणत्वनिरूपको घट इति बोधः निष्ठत्वनिरूपकत्वे संसर्गाविति तार्किकप्राञ्चः।
नव्यास्तु भूतले न घट इत्यादौ बोधो न स्यात्, निरूपकत्वसम्बन्धस्य वृत्त्यनियामकत्वेनाबावप्रतियोगितानवच्छेदकतया नञर्थान्वयासम्भवात्। अत आधेयत्वं सप्तम्यर्थः। तत्र निरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः सप्तम्यर्थस्य चाश्रयत्वसम्बन्धेन घटादाविति भूतलनिरूपिताधेयत्वाश्रयो घट इति धीरित्याहुः।
अधिशीङ्स्तासां कर्म ।। 46 ।।
अधिपृर्वाणामेषामाधारः कर्मसंज्ञः स्यात्। अधिशेते, अधितिष्ठति, अध्यास्ते वा वैकुण्ठं हरिः।
अभिनिविशश्च ।। 47 ।।
एतत्पूर्वस्य विशतेराधारः प्राग्वत्। ग्राममभिनिविशते। अभिनिवेश आग्रहः। तदाश्रयत्वात्स्वार्थेऽकर्मकोऽयम्। तत्राधिकरणस्य कर्मसंज्ञाविधिरयम्। प्रवोशनार्थतायां तस्याः सिद्धत्वात्। परिक्रयणे सम्प्रदानमिति सूत्रान्मण्डूकप्लुतिन्यायेन विकल्पानुवृत्तौ व्यवस्तितविभाषात्वस्वीकारात् पापेऽभिनिविशते इत्यादौ सप्तमी। अत एव समर्थसूत्रे एष्वर्थेष्वभिनिविष्टानामिति भाष्यम्। उपसर्गद्वयस्य यथोक्तानुपूर्व्यावच्छिन्नत्वेन प्रयोगश्चायम्। नेः परनिपातकरणाल्लिङ्गात्। तेनेह न। निविशते यदि शूकशिखा पदे। कर्मत्वविबक्षायां तु तत्रापि द्वितीयैव।
उपान्वध्याङ्वसः ।। 48 ।।
उपवसति, अनुवसति, अधिवसति, आवसति वा ग्रामं सेना। वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः। अर्थशद्बो निवृत्तिवाची। व्यधिकरणे षष्ठ्यौ। अश्यर्थस्य भोजननिष्टत्तेर्वाचको यो वसिस्तस्येत्यर्थः। यद्वा शिङोऽर्थः श्यर्थः। न श्यर्थोंऽश्यर्थः। अस्थानार्थस्येत्यर्थः। जलाशय इत्यादौ शेतेः स्थित्यर्थत्वदर्शनात्। ग्रामे उपवसति। ग्रामे तिष्ठतीत्यर्थे तु ग्राममुपवसतीति। उपोष्य रजनीमेकामिति कालाध्वनोरिति द्वितीया। एकादश्यां न भुञ्जीतेति कालिकाधिकरणत्वे सप्तमी। कारकविभक्तेर्बलवत्त्वात्।
कर्तुरीप्सिततमं कर्म ।। 49 ।।
कर्तृनिष्ठा या आत्यन्तिकी प्राप्तीच्छा तद्विषयः कारकं कर्मसंज्ञम्। यद्व्यापारवत्त्वप्रयुक्तं कर्तृत्वं तेनैव प्राप्तुमिष्टमिति सन्निधिलभ्यम्, तेन क्रियाजन्यफलशालित्वलाभः। फलेच्छाया उपायेच्छाविधया क्रियेच्छाजनकत्वात् फलस्यैवेप्सिततमत्वात्। नच चौत्रो ग्रामं गच्छतीत्यादौ संयोगशालिनश्चैत्रस्यापि कर्मत्वापत्तिः। परसमवेतत्वेन क्रियाया विशेषणात्।
अत्र खण्डनकृतः। वृक्षात्पर्णं पततीत्यादावपादानेऽति व्याप्तिः। पर्णसमवेतपतनक्रियाजन्यविभागरूपफलशालित्वात्। नचेष्टापत्तिः। द्वितीयान्तत्वापत्तेः। नच घटः क्रियते इत्यादौ व्यभिचारः । घटं करोतीत्यादौ तस्यामेव क्रियायां प्रयोगान्तरे द्वितीयान्तत्वसत्त्वात्। नच कर्मत्वेन विवक्षाविषयत्वे द्वितीयाप्रयोरजकं नतु कर्मत्वमात्रम्, युगपच्च कारकाणां न विवक्षेति वाच्यम्। कर्मत्वसत्त्वे विवक्षाया दुर्वारत्वात्। नच वैयाकरणसम्पदायोनियामक इति वाच्यम्। वस्तुमात्रं कर्मेत्यपि लक्षणप्रसङ्गात्। अतिप्रसङ्गस्योक्तरीत्यैव सुपरिहरत्वात्। नचापादानान्यत्वमपि विशेषणम्। नदी बर्धते इत्यादावक्यवोपचयरूपाया वृद्धेः अप्राप्ततीरभागेन संयोगविभागौ फले इति तच्छालिनि तीरेऽतिव्याप्तेः तथाच वृधेरसंयोगस्यैव क्रियानाशकत्वात्, ग्रामादेश्च गन्तृसमवेतगमनविनाशहेतुसंयोगशालित्वान्नातिव्याप्तिरपीति वाच्यम्। वृद्धिफलसंयोगस्य क्रियानाशकत्वार्त्तारादावतिव्याप्तितादवस्थ्यात्। एवमात्मानं जानातीत्यादावव्याप्तिरिति।
अत्राहुः। क्रियाफलं केनचिद्धातुना कर्त्रतिरितिक्तनिष्ठत्वेन प्रतिपाद्यते। केन चिच्च न तथा, यद्वा कर्तृनिष्ठत्वेन प्रतिपाद्यते। अथवा कस्य चिद्धातोः कर्त्रतिरिक्तनिष्ठत्वेन फलप्रतिप्रत्तौ तार्पर्यं। कस्य चित्तु न तथा, यद्वा कर्तृनिष्ठत्वेन फलप्रतिपत्तौ तात्पर्यम्। तत्र क्रियाश्रयातिरिक्तनिष्ठतया धातुप्रतिपाद्यफलशालि कर्म। नच वृक्षतीरयोस्तथात्वम्। उच्चारणविशेषे विभागरूपफलस्य पतत्यर्थत्वाभावात्। अधः संयोगस्य तदर्थत्वात्। वर्धतिना च कर्त्रतिरिक्तनिष्ठत्वेन कस्याप्यनभिधानात्। नचात्मानं जानातीत्यत्राव्याप्तिः। परसमवेतक्रियाफलशालित्वेन क्रियाश्रयातिरिक्तवृत्ति यत् क्रियाफलं तज्जातीयफलाश्रयत्वस्य विवक्षितत्वात्। घटादिवृत्तिव्यवहारसजातीयस्य व्यवहारादेरात्मन्यप्युपपत्तेः। यद्वाऽऽत्गनः परत्वाभावे फलानाश्रयत्वेऽपि च क्रियाश्रयातिरिक्तनिष्ठत्वेन फलस्य धातुनाऽनुच्यमानत्वान्न दोष इति।
नैयायिकास्तु धात्वर्थतावच्छेदकफलशालित्वं तत्। संयोगावच्छिन्नक्रिया गमेर्थः। विभागावच्छिन्ना त्यजेः। अधःसंयोगावच्छिन्ना पतेः। स्पन्दमात्रस्य तदर्थत्वे पर्यायत्वप्रसङ्गात्। तथाच गमनपतनजन्यविभागमादाय पूर्वदेशे, संयोगमादाय त्यजेरुत्तरदेशे कर्मत्वानापत्तिः। स्पन्देर्वृवधातोश्च व्यापारमात्रवाचकतया धात्वर्थतावच्छेदकत्वस्य संयोगे विरहान्न पूर्वपरदेशयोस्तीरस्य च तथात्वप्रसङ्गः। फलावच्छिन्नव्यापारवाचित्वादेव धातूनां मुख्यं सकर्मकत्वम्। जानात्यादीनां तु नामार्थान्वितोद्देश्यत्वातिरिक्तविषयत्वरूपविभक्त्यर्थान्वय्यर्थकत्वरूपगौणं तत्। घटं जानातीत्यादितो घटविषयताशालिज्ञानाश्रय इति बोधात्। उभयसाधारणसकर्मकधातुयोग एव कर्मप्रत्ययाः अत एव पतेर्न सकर्मकत्वम्। नामार्थान्वितस्य चतुर्थ्यर्थोद्देश्यत्वस्यैव यत्रेऽन्वयात्। अभुञ्जानेऽपि भोजनाय यतते इति प्रयोगात्। परसमवेतक्रियाजन्यत्वमपि फले निवेश्यम्। भूर्मि प्रयाति विहगो, विजहाति महीरुहं, न तु स्वात्मानमिति प्रयोगात्। संयोगविभागयोरुक्तधात्वर्थतावच्छेदकफलत्वेन तच्छालिनः। स्वस्य कर्मत्वप्रसङ्गात्। नच मल्लो मल्लं गच्छतीत्यादौ उभयकर्मजसंयोगस्य तादृशत्वात् स्वस्मिन् स्वकर्तृकक्रियाकर्मत्वव्यवहारापत्तिः। परसमवेतक्रियाजन्यफलशालित्वं यत्र तत्तत्क्रियाकर्मेति स्वीकारात्।
इत्थं च द्वितीयादेः क्रियान्वितं परसमवेतत्वमर्थः। परत्वं च सुपा स्वप्रकृत्यर्थापेक्षया प्रत्याय्यते। कर्माख्यातेन तु स्वार्थफलान्वय्यपेक्षयेति विशेषः। तथाच भूर्मि प्रयाति इत्यादेर्भूमिभिन्न समवेतो भूमिवृत्तिसंयोगजनको यः स्पन्दस्तदनुकूलकृतिमानितिधीः। अतः स्वभिन्नसमवेतं स्ववृत्तिसंयोगजनकं यन्मल्लान्तरवृत्ति गमनं तदनुकूलकृतेः स्वस्मिन्नभावान्न मल्लः स्वं गच्छतीत्यादिः प्रयोगः। अत्र च द्वितीयाद्यर्थफले यद्व्यक्तेरन्वयस्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासम्बन्धेन ग्रामादेः परत्वेऽन्वयः। तेन पृथिवी प्रयातीत्यादौ पृथिवीत्वावच्छिन्नप्रतियोगिताकभेदस्य विहागादावसत्त्वेऽपि न क्षतिः न वा स्वात्मन्यप्युभयभेदसत्त्वात् स्वं प्रयातीत्यादिप्रयोगापत्तिरित्याहुः।
अन्ये तु पृथिव्यादिपदं तत्तत्पृथिव्यादिव्यक्तौ लाक्षणिकम्। अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वव्युत्पत्त्यनुरोधादित्याहुः।
केचित्तु क्रियान्वितं अन्योन्याभावप्रतियोगितावच्छेदकत्वं द्वितीयार्थो न परसमवेतत्वं। ततस्च भुमिवृत्तिसंयोगजनसं भूमिनिष्ठान्योन्याभावप्रतियोगिताच्छेदकं च यत् प्रयाणं तदनुकूलकृतिमानिति धीः। स्वनिष्ठक्रियायाः स्वनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वविरहान्न स्वं प्रयातीत्यापत्तिरित्याहुः।
एवं सति येन मल्लेन मल्लान्तरं न गतं तस्मिन् मल्लो मल्लं गच्छतीति प्रयोगः स्यात्। मल्लान्तरिनिष्ठान्योन्याभावप्रतियोगितावच्छेदिकायास्तन्मल्लक्रियायास्तन्मल्लभूमिवृत्तिसंयोगजनकत्वात्। फलान्वयिमल्लव्यक्तेरेव प्रतियोगितया भेदान्वय इत्युक्तौ तु तद्व्यक्तित्वादेः प्रकारत्वे शक्त्यानन्त्यम्। संसर्गत्वकल्पनापेक्षया तु परसमवेतत्वमेव सम्यक्। अन्योन्याभावस्याव्याप्यवृत्तित्वेऽप्यक्षतेरित्यपरे।
अथ पतेरधःसंयोगावच्छिन्नस्पन्दार्थतयोक्तसंयोगशालिनो भूतलादेः कर्मत्वापत्तौ वृक्षात्पर्णं भूतलं पततीति प्रयोगापत्तिरिति चेन्न।
तथा विवक्षायामिष्टत्वात्। अत एव द्वितीयाऽऽश्रितातीतपतितेत्यादिसूत्रेण पतितयोगे द्वितीयसमासविधिः संगच्छते।
अन्ये त्वाहुः सकर्मकाकर्मकत्वव्यवस्था न व्यापारस्वरूपे किंत्ववच्छेदकफलविशेषानादाय शब्दविशेषे।
तथाहि-धातुना व्यापारावच्छेदकत्वेन फलेऽभिहिते प्रतियोग्याकाङ्क्षायां सन्निहितो द्वितीयान्तस्यैवार्थस्तत्त्वेनान्वीयते इति ग्रामं गच्छतीत्यत्र ग्रामप्रतियोगिकसंयोगजनकव्यापारो वाक्यार्थः। पतिधात्वर्थावच्छेदकसंयोगे च न प्रतियोगित्वेन वृक्षोऽन्वेति, अयोग्यत्वात्। न भूतलं, अधः संयोगावच्छिन्नव्यापारवाचिना धातुना प्रतियोगिविशेषितस्यैव फलस्योपस्थापनेन प्रतियोगिनिराकाङ्क्षत्वादिति न द्वितीयानिर्देशः। एवं वर्धते इत्यादावप्यूह्यम्।
एवच्च कटं करोतीत्यादौ कृधात्वार्थावच्छेदकोत्पत्तिरूपफलभागित्वात्कटादेर्मुख्यमेव कर्मत्वमिति।
केचित्तु पतिना कर्तृमात्रनिष्ठत्वेनाधःसंयोगात्मकफलोपनयादकर्मकत्वम्। गम्यादीनां तु ग्रामनिष्ठत्वेन तदुपनयात्सकर्मकत्वमित्याहुः।
एतन्मते संयोगावच्छिन्नव्यापारे लक्षणामङ्गीकृत्य द्वितीयासमासविधानं समाधेयम्।
केचित्तु पतिः सकर्मक एव किन्तु गुरुत्वजन्यविजातियक्रियैव तदर्थः। तत्समभिव्याहृतद्वितीयायास्त्वधःसंयोगालक्षणं कर्मत्वम्। एवं त्यजिगम्यादेरपि व्यापार एवार्थो न तु फलावच्छिन्नो गौरवात्। द्वितीयादिस्तु तत्समभिव्याहाररूपतात्पर्यग्राहकवशाद्विभासंयोगादिपरः। अतो ग्रामं त्यजति गच्छति इत्येतयोर्न पर्यायत्वम्। त्यजेर्विभागावच्चिन्नस्पन्दशाब्दत्वं, गमेः संयोगावच्छिन्नस्पन्दशाब्दत्वं कार्यताबच्छेदकमिति स्वीकारात्। गमनं त्याग इत्वत्रापि स्पन्दविशेषणकविबागादिविशेष्यकशाब्दानुपपत्तिः। विभागसंयोगान्यतरस्पन्दोभयवैशिष्ट्यावगाहिशाब्दनुपपत्तिः। विभागसंयोगान्यतरस्पन्दोभयवैशिश्ट्यावगाहिशाब्दत्वस्यैव विबक्षितत्वात्। विभागादिविशेषणकस्पन्दविशेष्यकत्वस्पन्दविशेषणकविभागादिविशेष्यकत्वेत्युभयस्य संग्राहात्। सकर्मकत्वव्यवहारस्त्वननुगततत्तन्निमित्तकः। परसमवेततत्तद्धात्वर्थान्वितफलशालित्वं तत्तद्धात्वर्थकर्मत्वम्। तेन पूर्वदेशादेर्गम्यार्दौन कर्मत्वमिति वदन्ति।
तन्नेत्यपरे। क्रियानिमित्तत्वं विना कर्मणोऽपादनस्य च कारकत्वायोगात्। जुहोतेस्तु देवतोद्देश्यकोऽग्निप्रक्षेपोऽर्थः। स चाग्निसंयोगानुकूलक्रिपानुकूलो घृतादिनिष्ठी नोदनादिव्यापारः। न चाग्नौ जुहोतीत्यादौ सप्तम्यर्थस्यान्वये निराकाङ्क्षत्वम्। संयोजानुकूलक्रियानुकूलव्यापारस्यैव धात्वर्थत्वात्। अतः क्रियाया धात्वर्थतावच्छेदकतया तद्वतो घृतादेरेव कर्मत्वं न तु संयोगवतोऽग्नेः। संयोगस्य धात्बर्थतावच्छेदकतावच्छेदकतया धात्वर्थतानवच्छेदकत्वात्। धात्वर्थे साक्षात्प्रकारस्यैव धात्वर्थतावच्छेदकत्वात्। तथा च घृतवृत्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृतिमानिति धीः। मूल्यदानं विना स्वस्वत्वध्वंसपरस्वत्वजनकस्त्यागो दानम्। देवतोद्देश्यकस्वस्वत्वध्वंसफलकस्यागो यागः। मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपरस्वत्वजनकस्त्यागो विक्रयः। मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंस्वत्वोत्पादकस्वीकारः क्रयः। दत्तद्रव्यस्वत्वजनकःस्वीकारः प्रतिग्रहः। तथाच विप्राय गां ददाति, विष्णुं यजते, गां विक्रीणाति, क्रीणाति, प्रतिगृण्हातीत्यादौ मूल्यग्रहणं विना विप्रोद्देश्यकगोवृत्तिस्वस्वत्वध्वंसपरस्वत्वजनकत्यागानुकूलकृतिमान्, विष्णूद्देश्यकस्वस्वत्वध्वंसजनकत्यागानुकूलत्यागानुकूलकृतिमान्, गोवृद्दिमूल्यदानप्रयुक्तस्वस्वत्वानुकूलस्वीकारानुकूलकृतिमान्, गोवृत्तिदत्तद्रव्यस्वत्वजनकस्वीकारानुकूलकृतिमानिति धीः। विष्णोरुद्देश्यतासम्बन्धेन स्वस्वत्वध्वंसरूपफलवत्त्वेन कर्मत्वमिति प्राञ्चः।
नव्यास्तु दानस्य परस्वत्वजनकत्वे तत एव विक्रयादिवारणे मूल्यग्रहणेति व्यर्थम्। यदि तु स्वीकारविशेषात्मकतया प्रतिग्रहस्यैव स्वत्वजनकत्वात्, औपादानिकस्वत्वस्थले स्वीकारस्य तद्धेतुतायाः क्लृप्तत्वात्, अन्यता प्रतिग्रहवैयर्थ्यम्। ``इज्याध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत्इति स्मृतिविरोधश्च। स्वस्वत्वध्वंसमात्रजनकं दानं तु परस्वत्वमयोजकमित्युच्यते। तथापि वैयर्थ्यतादवस्थ्यं तथाप्युपेक्षायामतिव्याप्तिश्च। तस्या अप स्वस्वत्वध्वंसद्वारा परस्वत्वप्रयोजकत्वात्। किञ्च दूरस्थपात्रोद्देशेनत्यक्तस्य प्रतिग्रहात्प्रागस्वामिकस्य द्रव्यस्यानुद्देश्येन पुरुषेण प्रतिग्रहात्स्वत्वं स्यात्। अन्योद्देश्यकत्यागस्य तद्विरोधित्वे गौरवम्।
वैयर्थ्यतादवस्थ्यं। तथाप्युपेक्षायामतिव्याप्तिश्च। तस्या अपि स्वस्वत्वध्वंसद्वारा परस्वत्वप्रयोजकत्वात्। किञ्च दूरस्थपात्रोद्देशेन त्यक्तस्य प्रतिग्रहात्प्रागस्वामिकस्य द्रव्यस्यानुद्देश्येन पुरुषेण प्रतिग्रहात्स्वत्वं स्यात्। अन्योद्देश्यकत्यागस्य तद्विरोधित्वे गौरवम्।
न च संप्रदानस्यानुमतिप्रकाशनद्वारा दानहेतुत्वादसम्प्रदानकत्यागो दानाभास एवेति वाच्यम्।
तीर्थसङ्कल्पितद्रव्यं यदन्यत्र प्रदीयते।
दाता तत्फलमाप्नोति प्रतिग्राही न दोषभाक्।।
मनसा पात्रमुद्दिश्य भूमौ तोयं विनिःक्षिपेत्।
विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते।।
द्रव्यपात्रविकर्षश्चेत्परोक्षं दातुमुद्यतः।
तं ध्यायेद्वैभवं पात्रं द्रव्यमादित्यदैवतम्।।
परोक्षे कल्पितं दानं पात्राभावे कथं भवेत्।
गोत्रजेभ्यस्तथा दद्यात् तदभावे स्वबन्धुषु।।
इत्यादि नारदीयषट्त्रिशन्मतादिस्मृतिविरोधापत्तेः।
एवं स्वस्वत्वध्वंसजनकेत्यपि व्यर्थम्। अव्यावर्तकत्वात्। अग्निप्रेक्षेपो होम इत्यप्ययुक्तम्। देवतोद्देश्यकस्वस्वत्वध्वंसजनकत्यागो यागः। स एव प्रक्षेपावच्छिन्नो होम इति वाचस्पति मिश्रोक्तेः। याग एव विशिष्टदेशप्रक्षेपोपहितो होम एवं विवेकोक्तेश्च। अस्ति च ऋत्विजां त्यागाद्यजमानस्वत्वध्वंसः। अनुमतदासत्यागविशेषात्स्वमित्वध्वंसवत्।
वस्तुतो दानत्वयागत्वहोमत्वादयो मानसप्रत्यक्षगम्या जातिविशेषाः। नच श्राद्धस्य पित्रोपक्षया यागत्वं ब्राह्मणापेक्षया च दानत्वमिति विवेकोक्तेस्तत्र सांकर्यम्। श्राद्धस्य गौणतदुबयरूपत्वात्।
विष्णुं यजत इत्यादौ द्वितीयार्थ उद्देश्यत्वं तच्च तस्येदमित्यारोपज्ञानविषयत्वम्। देवताचैतन्यपक्षे तु देवतायाः स्वत्वोपगमात् दानत्वव्याप्यं यागत्वं, तद्व्याप्यं होमत्वमिति बोद्यम्. देवपूजादिकमपि याग एव। अत एवं संसृष्टिस्थलेऽसाधारणस्वत्वनाशोत्तरं साधारणस्वत्वोत्पादात्तत्र दानलक्षणस्य नातिव्याप्तिः। दानत्वजातेस्तत्रानङ्गीकारात्। परमात्रस्वत्वानुकूलत्वेन विशेषणान्न तथेति केचित्।
सत्येव पूर्वस्वत्वे तत्र परस्वत्वोप्तत्तिमात्रम्। नच स्वत्ववति कथं परस्वत्वोत्पत्तिः। इच्छाया उत्तेजकत्वादित्यन्ये।
अदृष्टजनकत्वविशेषणार्त्तन्निरास इत्यपरे।
मिश्रास्तु देवतोद्देश्यकद्रव्यत्यागरूपं यागलक्षणं देवतायै दानेऽतिव्याप्तम्। तथापि दाने देवतास्वत्वमुद्देश्यं न तु यागे। अत एव पूजारूपयागद्रव्यं गन्धपुष्पादि सर्वदेशीयाः शिष्टा उपयुञ्जते, न तु देवतायै दत्तं गृहालङ्कारणादिकामित्याहुः।
उद्धारकृतस्तु संप्रदानत्वम्। तदभावे च कथं दानं, तद्विना च कथं स्वत्वं, अन्यथा यागेऽपि स्वत्वोत्पत्त्यापत्तेः। नचानुत्पन्नमेव स्वत्वमुद्देश्यत्वमात्रेण व्यावर्तकम्। तदुद्देश्यत्वे मानाभावात्। नच ददातिप्रयोगो मानम्। श्राद्धेऽपि श्राद्धं दद्यादिति बहुशः प्रयोगात्। नच श्राद्धमपि दानम्। सकलसंप्रदायविरोधात्। देवस्वव्यवहारस्त उद्देश्यतामात्रेण। गृहालङ्करणादीनामनुपयोगः।
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः।
पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः।।
नच-
अपि दीपावलोकं मे नोययुञ्ज्यान्निवेदितम्।
इति भगवद्वचनविरोधः। तस्यासाधारणस्थावरविषयतया रागप्राप्तभोजनविषयतया व्यवस्थापनात्। अथवाऽन्यस्मै निवेदितं तस्मै नोपयुज्यान्न निवेदयेत् इत्यर्थः।
पित्रन्यदेवतोच्छिष्टं विष्णवे यः प्रयच्छति।
इत्यादिनिन्दावलात्। वस्तुतो दाने मन्त्राभावान्न देवद्धादौ मन्त्रः, स एव यागो नान्य इति। अतएव स्वीकारः स ऋत्विक्ले दाने कारणं, नानृत्विक्ले। अथ एवोत्सर्गे ददाइदं च सप्तविधमित्युक्तं वाक्यपदीये।
निर्वर्त्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम्।
तच्चोप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम्।।
औदासीन्पेन यत्प्राप्यं यच्च कर्तुरनीप्सितम्।
सज्ञान्तरैरनाख्यातं यद्यच्चाप्यनन्यपूर्वकम्।।
इति। आद्यानां त्रयाणां लक्षणमप्युक्तम्।
सती वा विद्यमाना वा प्रकृतिः परिणामिनि।
यस्य नाश्रीयते तस्य निर्वर्त्त्यत्वं प्रचक्षते।।
प्रकृतेस्तु विवक्षाया विकार्यं कौश्चिदन्यथा।
निर्वर्त्त्य च विकार्यं च कर्म शास्त्रे प्रदर्शितम्।।
यदसज्जायते सद्वा जन्मना यत्प्रकाशते।
तत्रिर्वर्त्त्य विकार्यं तु द्वेधा कर्म व्यवस्थितम्।।
किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादेविकारवत्।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते।।
अयमर्थः। घटं करोतीत्यत्र सत्यपि घटस्य प्रकृतिर्न परिणामित्वेन विवक्षितेति निर्वर्त्यम्। भस्म करोतीत्त्यत्रापि काष्ठादिरुपप्रकृतेरविद्यमानाया अविवक्षायां, तथैवोक्तप्रकृतेः परिणामित्वविवक्षायां तु विकार्यतैवेति केचित्।
सदिति तु सांख्यादयः। तदुक्तं तत्रैवः।
उत्पत्तेः प्रामसद्भादो बुद्ध्यवस्थानिबन्धनः।
अविशिष्टः सताऽन्येन कर्त्रा भवति जन्मनः।।
कारणं कार्यभावेन यदा वा व्यवतिष्ठते।
कार्यशब्दं तदा लब्ध्वा कार्यरूपेण जायते।।
यथाऽहेः कुण्डलीभावो व्यग्राणां वा समग्रता।
तथैव जन्यरूपत्वं सतामेके प्रचक्षते।।
आद्यश्लोकोऽसत्कार्यवादे घटादीनां कथं जन्मकर्तृत्वमिति शङ्कासमाधानार्थः। बुद्धिकल्पितसत्तामादाय शब्दप्रयोगोपयुक्तं कर्तृत्वम्। तत्र कार्याव्यवहितप्राक्काले वृत्तित्वस्यानुपयुक्तत्वात्। कारणत्वं तु स्वस्य स्वं प्रति नाङ्गीक्रियते एव। यत्रोक्तापेक्षास्यात्। उत्पत्तावपि घटप्रागभावस्यैव निमित्तत्वात्। सत्कार्यवादेऽपि वेदान्ताद्यभिमते येन रूपेणोत्पत्तिस्तद्रूपेण पूर्वमसत्त्वात्, कारणरूपेण सत्वस्य त्वप्रयोजकत्वादिति तदेदं तर्ह्यव्याकृतमासीदिति वाक्यव्याख्यायां तर्ककौतूहले विस्तरः।
अन्त्यद्वयं तु सत्कार्यवादाभिप्रायम् घटो नाश्यत्वमापन्नः, कटकमेव मुकुटं जातमित्यादिप्रतीत्या पूर्वावस्थाया उत्तरावस्थातादात्म्यानुभवात् पूर्वोत्तरावस्थयोरभेदः। भिन्नकालीनयोरप्यनुभवसाम्यात् प्रतीयोगित्वानुयोगित्वत्तादात्मयस्यापि सम्भवात्। इदमेव वेदान्तिभिः संस्कारशब्देनाभिधीयते। परन्तु मिथ्यात्वात्सांख्यापेक्षया विशेषः।
प्रकृतमनुमरामः। विकार्यं द्वेधा। प्रकृतिभूतस्यात्मन उच्छंदे संभूतं प्राप्तम्। काष्ठं भस्म करोतीति। गुणान्तरोत्पत्त्या सुवर्णं कुण्डलं करोतीति। भस्मदशायां न काष्ठत्वप्रत्ययः, कुण्डलदशायां तु सुवर्णत्वमत्ययोऽस्तीति विशेषः। अत्र काष्ठसुवर्णयोः परिणामित्वविवक्षाविवक्षयोरपि बोध्यम्। नच क्रियाजन्यफलानाश्रयस्पकाष्ठस्य कथं कर्मत्वीमति वाच्यम। प्रकृतिविकृत्येर्निरूढयाऽभेदविवक्षया तथात्वात्। काष्ठानि विकुर्वन् भस्म करोतीत्यर्थाद्वा। तण्डुलान् विक्लेदयन्नोदनं निर्वर्तयतीतिवत्। व्युत्पादितं चेदं पश्यतीति। आवरणभङ्गस्य विषयत्वस्य वा क्रियाकृतविशेषस्य प्रतिपत्तृगम्यत्वेऽपि तदतिरिक्तागम्यत्वम्। औदासीन्येन ग्रामं गच्छन् तृणं स्पृशति। अनीप्सितं विषं भुङ्के। संज्ञान्तरैरनाख्यातमकथितं गां दोग्वि पयः। अन्यपूर्वकं संज्ञान्तरप्रसङ्गे विहितकर्मसंज्ञाकम्। क्रूरभभिक्रुध्यतीत्यादि।
नैयायिकास्तु संयोगादिक्रियाफलशालि प्राप्यं ग्रामदियल्लब्धसत्ताकमेवावस्थान्तरमापद्यते तद्विकार्यम्। यथा प्रागुदाहृतम्। तत्र हि काष्ठपदं तदवयवपरम्। तस्य सत एव भस्मादिभवनरूपावस्थान्तरप्राप्तेः। न च क्रिया यत्कर्मनाशकं फलं जनयति तद्विकार्यम्। काष्ठं लुनातीत्यत्र काष्ठमिति वाच्यम्। तत्र लक्षणया काष्ठावयवस्य कर्मतया क्रियायास्तन्नाशकत्वाभावात्। तत्र हि काष्ठपदस्य तदवयवः, लुनातेरारम्भकसंयोगविरोधिविभागहेतुक्रियानुकूलव्यापारोऽर्थे इति काष्ठावयवृत्तितादृशविभागहेतुक्रियानुकूलव्यापारानुकूलकृतिमानिति शाब्दात् काष्ठावयवस्य प्राप्यकर्मतैव। अवस्थान्तरप्राप्त्यभावाता तण्डूलं पचतीत्यत्र तण्डुलपदं तदवयवलक्षकम्। पच्यर्थो रूपादिपरावृत्त्यवच्छिन्नतेजःसंयोगः। तेन क्रियाजन्यफलशालित्वात् सतोऽवस्थान्तरगाप्तेश्चोभयविधं कर्मत्वम्। घटं करोतीत्यादि निर्वर्त्यम्। अत्र कृञः फलावच्छिन्नव्यापारबोधकतया गौणं कर्मत्वम्। क्रियानिमित्तत्वाभावान्न मुख्यं कारकत्वमपि, किन्तु साध्यत्वाख्यकृतिविशयतया गौणम्। कृञ्समभिव्याहृतद्वितीयादेरुक्तविषयतैवार्थः। अत एव कपालं करोतीति न शक्त्या प्रयोगः। उपादान्त्वाख्यविषयताया एव तत्र सत्त्वात्।
प्राञ्चस्तु घटपदं कपाले लाक्षणिकम्। तेन क्रियाजन्यघटात्मकफलशालित्वात् मुख्यमेव कर्मत्वादि। शक्त्या तु कपालं करोतीति न प्रयोगः कृञ्समभिव्याहृतघटादेस्तदवयवे निरूढलाक्षणिकत्वादित्याहुः।
यत्तु कर्तृकरणकर्माधिकरणविभक्तीनां आश्रय एवार्थः। फलाश्रयः कर्म, व्यापाराश्रयः कर्ता, कर्तृकर्मान्यतराश्रयोऽधिकरणम्। तत्र फलादेरन्यलभ्यतया आश्रयमात्रमर्थः। तत्वमेवाखण्डशक्तिरूपमवच्छेदकम्। नच चौत्रो ग्रामं गच्छतीत्यादौ चैत्रादेरपि कर्मत्वे द्वितीयापत्तिः। संज्ञान्तरविरहविशिष्टकर्मसंज्ञाया एव द्वितीयाप्रयोजकत्वात्। परया कर्तृसंज्ञया कर्मसंज्ञावाधात्। एकसंज्ञाविकारेण समावेशस्याप्यसम्भवादिति तच्चिन्त्यम्। आश्रयमात्रस्य वाच्यत्वे कर्तृसंज्ञापर्यवसानानुपपत्त्या तस्याः कर्मसंज्ञाबाधकत्वानुपपत्तेः। नच फलस्याश्रयोपरिविशेषणत्वविवक्षायां कर्मसंज्ञा, व्यापारस्य तथात्वे तु कर्तृसंज्ञेति वाच्यम्। फलाश्रयत्वादेः शाब्दबोधविषयत्वेऽपि कर्तृकर्मान्यतराश्रयत्वस्याधिकरणस्थले शाब्दबोधाविषयत्वात् तत्र नियामकाभावात्।
तथायुक्तं चानीप्सितम् ।। 50 ।।
ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कर्मसंज्ञम्। चौरान् पश्यति। अनीप्सितानामपि चौराणां चक्षुःसंयोगबलाद्दर्शनविषयत्वम्।
अकथितं च ।। 51 ।।
अपादानदिविशेषैरविवक्षितं कारकं कर्मसंज्ञम्। परिगणनं कर्तव्यम्। नटस्य श्रृणोतीत्यादावतिप्रसङ्गनिवारणार्थम्। तथा च भाष्यम्।
दुहियाचिरुधिप्रछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ।
ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना।।
नीवह्योर्हरतेश्चापि गत्यथीनां तथैव च।
द्विकर्मकेषु ग्रहणं कर्तव्यमिति निश्चयः।।
प्रछित्यत्रानित्यमागमशासनमिति तुगभावः। इको यणचिसनाद्यन्ता धातव इत्यादौ नुडाद्यभाववत्। उपयुज्यते इत्युपयोगो मुख्यं कर्म क्षीरफलादि तस्य निमित्तं गवादि। गां दोग्धि पय इत्यत्र हि पयस ईप्सिततमत्वमुपयुज्यमानत्वान्न तु गोः। नच तथायुक्तत्वेन सिद्धिः। तथायुक्तत्वाभावात्। ब्रुविशास्योर्गुणेन कर्मणा च यत्सचते सम्बध्यते, क्रियायाः साध्यत्वात्प्राधान्यं, कारकाणां गुणत्वम्। षच समवाये स्वरितेत्। परस्मैपदेष्वेवैतत्पाठपक्षे षच सेवने इत्यस्यानुदात्तेतो रूपम्। धातूनामनेकार्थत्वात्। कविना क्रान्तदर्शिना मेधाविनाऽऽचार्येणेति यावत्। अकीर्तितमकथितमित्याचरितं व्यवहृतमित्यर्थः। अपादानाद्यविवक्षायां चैतदित्याह-अपूर्वविधाविति। पूर्वोक्तानामपादानादिसंज्ञानमविषये इत्यर्थः। नचैवं वक्ष्यमाणयोर्हेतुकर्तृसंज्ञयोर्विषयेऽतिप्रसङ्गः। पूर्वत्यन्यमात्रस्योपलक्षणात्। नचाकथितमिति निष्ठार्थभूतत्वस्य वक्ष्यमाणो बाधः। तस्याविवक्षितत्वात्। अत एव पराजेरसोढ इत्यादौ पराजेष्यमाणस्याप्यपादानत्वमिति सम्प्रदायः। परत्वाद्धेतुकर्तृसंज्ञाभ्यामेतद्बाधः एकसंज्ञाधिकारादिति नव्याः।
गत्यर्थनामिति गतिबुद्ध्यादिसूत्रोपात्तानामुपलक्षणम्। चकारेण जयत्यादिसङग्रह इति कैयटः। ते च माधवेनोक्ताः।
जयतेः कर्षतेर्मन्थेर्मुषेर्दण्डयतेः पचेः।
तारेर्ग्राहेस्तथा मोचेस्त्याजेर्दीपेश्च सङ्ग्रहः।।
कारिकायां चशब्देन सुधाकरमुखैः कृतः। अथ भिक्षेः प्रथगुपादानं व्यर्थम्। दुहादिनिर्देशस्यार्थपरत्वात्। याचिग्रहणेनैव संग्रहात्। नचार्थपरत्वे मानाभावः। अहमपीदमचोद्यं चो द्य इति तद्राजसूत्रे भाष्यनिर्देशात्। पृछिपर्यायतयैव चुदोर्द्विकर्मकत्वसम्भवात्। अत एव-
``शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव-इति कालिदासादिप्रयोगाः सङ्गच्छन्ते। अत एव त्याजेरपि दुह्यर्थत्वादेव सङ्ग्रहः इति चेदत्राहुः।
अनुनयार्थोऽत्र याचिः। अविनीतं विनयायानुनयतीति प्रत्ययात्। नच याचेरेव तर्हि ग्रहणमस्त्विति वाच्यम्। अर्थभेदाच्छब्दभेद इति प्रार्थनार्थस्य याचेरिहानुपादानात्। पक्षान्तरे तु स्पष्टार्थं भिक्षिग्रहणमिति।
उदाहरणानि। गान्दोग्धि पयः। पौरवं गां याचते। अविनीतं विनयं याचते। अन्ववरुणद्धि गां व्रजम्। मामवकं पन्थानं पृच्छति। पौरवं गां भिक्षते। वृक्षमवचिनोति फलानि। पुत्रं ब्रूते धर्मं, अनुशास्ति वा। अजां नयति ग्रामम्। वहति भारं ग्रामम्, हरति वा। रामयति देवदत्तं ग्राममित्यादि। शतं जयति देवदत्तम्। कर्षति शाखां ग्रामम्। शतं दण्डयति। तण्डुलानोदनं पचति। तारयति कपीन् समुद्रम्। ग्राहयति बटुं वेदम्। त्याजयति कोपं देवदत्तम्। दीपयति शास्त्रार्थं शिष्यान्। नचाजां गृहीत्वा ग्रामं नयतीत्यर्थादप्रयुज्यमानग्रहणक्रियापेक्षमेव कर्मत्वमिति वाच्यम्। अजा नीयते ग्राममित्यत्र नयत्युत्तरकर्मप्रत्ययेन ग्रहणकर्मणोऽजाया अनभिधानप्रसङ्गात्। ``अन्यकर्मेति चेद् ब्रूयाद् लादीनामविधिर्भवेइति भाष्योक्तेः। इह ग्रहेर्दिकर्मकत्वं वहूनामनभिमतं, उक्तस्थले बुध्यर्थत्वादेव तत्संभवात्। अत एववहूनामनभिमतं, उक्तस्थले बुध्यर्थत्वादेव तत्संभवात्। अत एव-
``अजिग्रहत्तं जनको धनुस्तत्।
इति भट्टिप्रयोगं अनेन भगवता त्रिपुरदाहः कृत इति बोधितवात्।
``अयाचितारं नहि देवदेवमद्रिः सुतां ग्राहयितुं शशाक इति कालिदामप्रयोगमुद्वाह्यत्वेन बोधयितुम्।
तमादौ कुलविद्यानामर्थमर्थविदां वरः।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता।।
इति तत्प्रयोगं च उत्तरार्धे तेनेति विभक्तिविपरिणामेन व्याचख्युः। अन एव।
``पतद्ग्रहं ग्राहितवान्नलेन सः इति श्रीहर्षः।
पचेस्तु द्विकर्मकत्वं ``दुहिपच्योर्बहुलं सकर्मकयोरिति कर्मवत्कर्मणेतिसूत्रगतवार्तिकव्याख्यायां कैयटेन स्फुटीकूतम्। माधवस्याप्यत्रैवानुमतिः।
नन्वेतत्कर्मसंज्ञासूत्रे द्व्यर्थः पचिरिति भाष्यविरुद्धम्। तत्र हिविक्लित्तिरुत्पत्तिश्व फलद्वयं व्यापारश्च पच्यर्थः। तथा च विक्लित्तिशालिनया तण्डुलानामुत्पत्तिमत्तया चौदनस्य कर्मत्वम्। तेन तण्डुलानामुत्पत्तेश्चानुकूलो देवदत्तनिष्ठो व्यापार इत्यर्थः। तण्डुपात्तायां पचतीत्यत्र तु विक्लेदयतीत्यर्थः। धातुत्वेन पच्युपात्तायां भावनायां पचित्वरूपेण पच्युपात्ताया विक्लित्तेः कर्मतयान्वयात्। ओदनं पचतीनिरूपितम्। द्विकर्मकत्वे तु उक्तप्रयासवैयर्थ्यं स्यात्। मैवम्। मतभेदाभिप्रायत्वात्। एतेनाकथितशब्दो यद्यप्रधानार्थो गृह्येत तदा पाणिना कांस्यपात्र्यां दोग्धि पय इत्यत्र करणाधिकरणयोरपि कर्मसंज्ञा स्यात्। नच तयोरनवकाशत्वं पच्यादौ सावकाशत्वात्। नच तत्रापि एतत्प्रसङ्गः। दुह्यादिपरिगणनादिति हरदत्तग्रन्थो व्याख्यातः। यत्तु ग्राहेर्द्विकर्मकत्वे जायाप्रतिग्राहितगन्धमाल्यामिति न सिध्येत्। जायया गन्धमाल्यं प्रतिग्राहितं येति विग्रहे बहुव्रीहेर्दुर्लभत्वात्। त्रिकतः शेषस्य भाष्ये वक्ष्यमाणत्वात्। नच गन्धमाल्ये प्रतिग्राहिते यामिति विग्रहः।
धेनुरूपप्रयोज्यकर्मण एव क्तेनाभिधानात्। ``ण्यन्ते कर्तुश्चकर्मणइति वक्ष्यमाणत्वात्। अत एव-
``भूपालैर्विगतस्पृहा आप धनं विप्राः प्रतिग्राहिता
इति प्रयोगः। प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहे तु नानुपपत्तिः। उढरथ इत्यादिवत्। नचापादानाद्यविवक्षायामेव द्विकर्मकत्वं तद्विवक्षायां तूक्तविग्रहो भविष्यतीति वाच्यम्। हरतेश्चेति चकारसमुच्चितानां जयत्यादीनामकथितसूत्रविषयत्वेऽपि तथैव चेति समुच्चितानामणौ कर्तुर्णौ कर्मताभ्युपगमात् गत्यर्थैः साहचर्यात्। अत एव तार्यादयः पृथगेव संगृहीताः। ग्रहणकर्तृत्वाविवक्षायां प्रयोजकस्य हेतुत्वाभावे णिचो दुर्लभत्वाच्च। नच दीपिग्रहणवैयर्थ्यम्। अकर्मकत्वाद्गतिबुद्धीति सूत्रेणैव सिद्धेरिति वाच्यम्। ण्यन्ताण्णिचि तत्सार्थक्यादिति तच्चिन्यम्।
भरतस्तत्र गन्धर्वान् युधि निर्जित्य केवलम्।
आतोद्यं ग्राहयामास समत्याजयदायुधम्।
प्रतिग्राहितशब्दस्य बोधितार्थत्वमङ्गीकृत्य स्वेच्छयाऽन्यतरकर्मणि प्रत्ययोत्पत्त्या जायया बोधिते गन्धमाल्ये यामिति विग्रहे तदुपपत्तेः। यद्वा प्रतिग्राहितशब्दे भावे क्तः। जायाया इति षष्ठीसमासः। अर्श आदित्वादच्। जायानिष्ठो यः धेनुकर्तृकस्वीकरणप्रयोजको व्यापारस्तद्विशिष्टे गन्धमाल्ये यस्या इति बहुव्रीहिः। वैशिष्ट्यं चेदं धेनोर्भवत्वितीच्छविषयत्वम्। एतेन।
``स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्र
इति नैषधं व्याख्यातम्। शिशुनिष्ठं उत्कण्ठं यत्प्रार्थनं तद्विषयीभूत उन्निद्रचन्द्रो यस्या इति तदर्थात्। एतेनाप्रधानकर्मणः क्तेनाभिदानात्, ``काकपक्षधरमेत्य याचितइतिवत् शिशुना उन्नद्रचन्द्रं प्रार्थितेत्यत्र वहुब्रीहिदौर्लभ्यात्तच्चिन्त्यमिति निरस्तम्।
इदमिहावधेयम्। विभागानुकूलकियानुकूलव्यापारो दुहेः, संयोगानुकूलक्रियानुकूलव्यापारश्च नयतेरर्थः। विभागे गामित्यस्य, क्रियायां पय इत्यस्यान्वयः। गोवृत्तिविभागानुकूला या पयोवृत्तिः क्रिया तदनुकूलव्यापारस्य स्तनविष्पीडनादेः, ग्रामवृत्तिसंयोगानुकूला याऽजावृत्तिः क्रिया तदनुकूलव्यापारस्य च बोधः। साक्षाद्धात्वर्थतावच्छेदकयथोक्तक्रियाशालिनोरजापयसोः कर्मत्वम्। धात्वर्थतावच्छेकतावच्छेदकविभागसंयोगरूपफलान्वितयोस्तु गोग्रामयोस्तदभावादनेन कर्मसंज्ञाविधानम्। अत एव द्व्यर्थः पचिरिति भाष्येण विक्लित्तिरूपफलान्वयित्वेन तण्डुलानां, उत्पत्तिरूपफलान्वयित्वेन चौदनस्येति द्विकर्मकत्वमुपपादितम्। अत एव पचेरपि चकारेण सङ्ग्रहस्तत्संमतः। एतेन पचेर्द्विकर्मकत्वे तद्भाष्यविरोधशङ्का निरस्ता। यदा तु विभागाचधित्वं गोर्विवक्ष्यते, तदा गोः पयो दोग्धीत्यपादानत्वम्। गवावधिकविभागानुकूलपयोवृत्तिक्रियेत्यादिबोधात्। पयःसम्बन्धित्वविवक्षायां तु षष्ठ्येव, गोसम्बन्धि यत्पयस्तन्निष्ठविभागनुलक्रियानुकूलव्यापारस्य बोधात्। स च विभागो गवावधिक एव तात्पर्यवशात्प्रतीयते।
इदमप्यवधेयम्। लकृत्यक्तखलर्था द्विकर्मकेभ्यो मुख्ये गौणे वा कर्मणीति विववक्षायां व्यावस्थामाह भाष्यकारः।
प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः।।
द्विकर्मपदेनात्र नीवह्योर्हरतेश्चैवेति त्रयश्चकारसमुच्चितः कृषिश्च गृह्यते। दुहादिपदेन कारिकोपात्ताश्चकारसमुच्चितानां मध्येऽहेतुमण्ण्यन्ता जिदण्ड्यादयश्च गृह्यन्ते। ण्यन्तपदेन तु गत्यादिसूत्रोपात्ताश्चशब्दसमुच्चितास्तार्यादयश्च। तत्र ह्यणौ कर्ताणौ कर्म, तस्याभिधाने लादय इत्यर्थः। तत्रापि बुद्धिप्रत्यवसानार्थशद्बकर्मकेषु गुणकर्मणीति मतान्तरं यद्भाष्यम्-
कथितेऽभिहिते()त्वविधिस्त्व()मतिर्गुणकर्मणि लादिविधिःसपरेध्रुवचोष्टितयुक्तिषु चाप्यगुणे तदनल्पमतेर्वचनं स्मरतेति।।
अत्राद्यचरणः। प्रधानकर्मणि लादिभिरभिहिते गुणकर्मणि षष्ठीत्येकीयमतदूषणपरः। तद्धि प्रागुक्तम्।
कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात्तदा गुणे।
कारकं चेद्विजानीयाद्यां यां मन्येत सा भवेत्।।
दुह्यते गौः पयः, याच्यते पौरवात्कम्बल इति पूर्वार्धोदाहरणम्। कारकत्वविवक्षायां तु यथास्वं विभक्तयः। दुह्यते गोः पयः, याच्यते पौरवात्कम्बल इति। तथा च कथितेति प्रधानकर्मपरम्। तस्मिन्नभिहिते त्वस्या द्वितीयापेक्षया भिन्नायाऋ षष्ठ्या विधिरिति। त्वस्यान्याचार्यदेशीयस्य मतिर्नत्वाचार्थस्य। अप्रधानकर्मणि द्वितीयादर्शनादित्यर्थः।
न्याय्यं पक्षमाह। गुणकर्मणीति। सपरे इत्यत्र परशब्दो गत्यादिमूत्रपरः। तत्सहिते दुहादौ गुणकर्मणि लादयः। दोहादिप्रवृत्तेः पयआद्यर्थत्वाद्गवादीनामप्राधान्यम्। तत्र प्रत्ययोत्पत्तिस्तु दुग्धाद्यर्थिनः प्रथमं गवादावेव प्रवृत्तेः। तदुक्तम्-
गुणकर्मणि लादिविधि पूर्वं गुणकर्मणा भवति योगात्।
मुख्यं कर्मप्रेप्सुर्यस्माद् द्रव्येऽवयतते प्राक्।।
तस्माच्छुद्धस्य दुहेर्भवति गवा पूर्वमेव सम्बन्धः।।
गोर्दुहिना पयसस्तु प्राक् तस्माल्लादयस्तस्मिन्।
इति। गौर्दुह्यते पयः, दोग्धव्या, दुग्धा, सुदोहा वेत्यादि। ण्यन्ते तु प्रयोजकव्यापारस्य शाब्दं प्राधान्यम्। ण्यर्थतया तस्य विशेष्यतापन्नत्वात्। प्रयोज्यव्यापारस्य त्वार्थम्। प्रयोजकव्यापारस्य तदर्थत्वात्, अतस्तत्कर्मणोरपि तथात्वम्। अत उभयत्रापि पर्यायेण प्रत्ययः। बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा। धृवयुक्तयोऽकर्मकाः। पूर्वाचार्यसङ्केतात्। चेष्टितयुक्तयो गत्यर्थाः। एष्वगुणे प्रयोज्ये कर्मणि लादयः। देवदत्तो ग्रामं गम्यते, गमयितव्यः, गमितः, सुगम इत्यादि। अनल्पमतेराचार्यस्य। तद् द्वितीयतृतीयचरणोपन्यस्तम्। स्मरतेत्यागमाविच्छेदोक्तिः स्वकल्पितत्वनिरासार्था। न च बुद्धिप्रत्यवासानार्थशब्दकर्मकेषु गुणकर्मण्येव लादिप्रसङ्गः, ण्यन्ते कर्तुश्चेत्यस्य परत्वात्सपर इत्यनेन बाधादिति वाच्यम्। अपर आहेति प्रायेण मतान्तरप्रतिपत्त्या तत्रापि विकल्पसिद्धेः।
तदयं संग्रहः।
मुख्ये हृनीवहकृषां तु गुणे दुहादेर्वाशब्दकर्मकसबुद्ध्यशनार्थकानाम्।
ण्यन्तान्तरस्य किल कर्मणि तु प्रयोज्य संप्रत्ययं दधति लक्तखलर्थकृत्याः।।
अथ कृद्योगे कर्मणि षष्ठी द्विकर्मकेभ्यः कुत्र कर्मणि स्यादिदि चेत्? अत्र भाष्यम्। उभयथा गोणिकापुत्र इति। नेताऽश्वस्य स्रुघ्नं स्रुघ्नस्य वा। अत्र ह्येकेन शब्देन भिन्नकक्षयोर्गुणप्रधानयोः कर्मणोरभिधानानुपपत्त्या प्रधानकर्मणोऽभिधानं न्याय्यम्। षष्ठी तु पृथगेव गुणप्रधानाभ्यां द्वितीयावद्विधीयते इति ओवरोधादुभाभ्यां प्राप्ता प्रधाने नित्या भाष्यमामाण्यायाद्गुणकर्मणि वैकल्पिकी।
``कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्।।
देशश्चाकर्मकाणाम् इति वक्तव्यम्।
गन्तव्योऽध्याऽध्वगन्तव्यः। निपातनाद्विसेषणस्यापि परनिपातः। न च गन्तव्यपदवैयर्थ्यम्। गन्तव्यतया लोके प्रसिद्धस्य नियतपरिमाणम्य क्रोशयोजनादेरेव ग्रहणार्थत्वात्। मासमास्ते, गोदोहमास्ते गोदोहपर्याप्तकालमभिव्याप्य तिष्ठतीत्यर्थः। क्रोशमास्ते। कुरून् स्वपिति। न च कालाध्वनोरिति द्वितीयासिद्धेः कर्मसंज्ञावैयर्थअयम्। गोदाहादेः कालोपाधित्वेऽपि कालत्वेनाप्रसिद्धत्वात्। कालाध्वनोस्तु लादिविध्यर्थत्वात्। आस्यते मासः, आसितव्यः, आसितः, स्वासो वा। एवं शय्यते क्रोश इत्यादि। देशपदं ग्रामममुदायविशेषात्मककुरुपञ्चालादिपरम्। भाष्योदाहरणसामर्थ्यात्। तेनाधिशीङ्स्थासामित्यादेर्न वेयर्थ्यमिति कैयटः। यदि तु सकर्मकधात्वन्तरार्थविशिष्ट आसनादौ आस्यादयो वर्तन्ते, तदापूर्वेणैव सिद्धम्। मासमासनेन व्याप्नोतीत्यर्थात्। यद्वक्ष्यति प्राकृनमेवेदं कर्म, यथा कटं करोतीति द्वितीये विस्तरः।
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णै ।। 52 ।।
गतिवुद्धिभक्षणार्थानां शब्दकर्मकाणामकर्मकाणां च धातूनामणौ कर्ता णौ कर्म स्यात्। यद्यपि प्रयोजकव्यापारेण प्रयोज्यव्यापारस्येप्सितमत्वात्तत्प्रयुक्तकर्मसंज्ञा सिद्धैव, तथापि नियमार्थमिदम्। णिजर्थेनाप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेव नान्येषामिति। तेन पाचयति देवदत्तो यज्ञदात्तेनेत्यत्र गुणक्रियाकर्तरि प्रयोज्ये पूर्वप्रवृत्तकर्तृसंज्ञाया एवावस्तानात्तृतीया।
तदुक्तम्-
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते।।
स्वधर्मेण कर्तृप्रत्ययेन तृतीययेति यावत्। गमयति देवदत्तं ग्रामं इत्यादि। देवदत्तो ग्रामं गच्छतीति अण्यन्तावस्थायां देवदत्तस्य कर्तृत्वम्। नीवह्योः प्रतिषेधः। प्रापणार्थतया विशेषणत्वेन गतिप्रतीतिरिति संज्ञाप्रसक्तिः। नाययति वाहयति वा भारं देवदत्तेन। वहेरनियन्तृकस्यैव प्रतिषेधः। वहन्ति वाहाः। वाहयति वाहान् रथिनं सूतः। नियन्तृपदं पशुप्रेरकमात्रपरम्। तेन वाहयति बलीवर्दान् सस्यम्। कालं यापयतीत्यादावप्यनेन कर्मत्वम्। या प्रापणे इत्यत्र गतेरेव प्रापणपदार्थत्वात्। बुध्यर्थेति ज्ञानसामान्यवाचिनामेव ग्रहणम्। नतु विशेषार्थानां स्मरत्यादीनाम्, श्रुदृशोरुपसंख्यानम्य वक्ष्यमाणत्वात्। बोधयति माणवकं धर्मम्। भोजयति, आशयति वा माणवकमोदनम्। आदयति, खादयति वान्नं बटुना।
भक्षेरहिंसार्थस्य प्रतिषेधः। नच चुरादिण्यन्तत्वादणौ कर्तेत्यस्याप्रसिद्धः। हेतुमण्णिजन्ते विधानादणावित्यत्रापि संनिधानात्तस्यैव प्रतिषेधात्। हेतुमण्णिजन्तत्वविरहदशायामित्यर्थादत्रापि प्रसक्तेः। भक्षयत्यन्नं बटुना। अहिंसेति किम्। भक्षयन्ति बलीवर्दाः सस्यम्। भक्षयति बलीवर्दान् सस्यम् क्षेत्रस्थानां यवानां चैतन्याभ्युपगमात्। यवभक्षणे तत्स्वमिनो वा हिंसा। हिसाङ्गे भक्षणे भक्षयतेर्वृत्तिस्वीकारात्। शब्दः कर्मकारकं येषां ते शब्दकर्मकाः। नतु कर्मपदं क्रियापरम्। प्रत्यवसानशब्दार्थेतिपाठादेव तादृशार्थलाभे कर्मशब्दस्यार्तात्पृथगुपादानसामर्थ्यात्। अध्यापयति पाठयति वा पुत्रं देवदत्तः।
दृशेश्चोपसंख्यानम्। दर्शयति हरिं भक्तान्। चाक्षुषपरत्वाद्बुध्यर्थत्वेन सिद्धावपि तत्र ज्ञानसामान्यवाचिनामेव ग्रहणम्, नतु विशेषवाचिनामिति ज्ञापनार्थमुपसंख्यानम्। श्रावयति श्लोकं देवदत्तमिति तु शद्बक्रियाणामित्यर्थे श्रृणोतेरप्युपसंख्यानात्। अन्यथा तु शद्बकर्मकत्वात्सिद्धम्। आद्ये ह्वाययति क्रन्दयति वा देवदत्तेनेत्यत्र प्रतिषेधो वाच्यः। पक्षद्वयेऽपि शब्दायतेः प्रतिषेधो वाच्यः। अकर्मकत्वादपि प्रमक्तिसत्तवात्। शब्दस्य कर्मणो धात्वर्थेऽन्तर्भावात्। शब्दाययति देवदत्तेन। अकर्मकपदं अविद्यमानकालाद्यन्यकर्मकपरम्। तेन मासमासयति चैत्रमित्यादि सिद्धम्। देवदत्तेन पाचयतीत्यादौ च न कर्मत्वम्।।
हृक्रोरन्यतरस्याम् ।। 53 ।।
हारयति कारयति वा कटं भृत्यं भृत्येन वा। नवेति विभाषेति सूत्रे उभयत्र विभाषेयमिति वार्तिकम्। तथार्हि-अभ्यवद्दारयति माणकमोदनं, माणवकेन वेत्यत्र प्रत्यवसानार्थत्वात्प्राप्ते, विकुर्वते छात्राः, विकारयति छात्रान्, छात्रैर्वेत्यत्र त्वप्राप्ते इदमारभ्यते।
अभिवादिदृशोरात्मनेपदे चेति वक्तव्यम्।
अभिवादयतेरप्राप्ते दृशेस्तु बुद्ध्यर्थत्वादुपसंख्यानाद्वा प्राप्तेविभाषेयम्। अभिवदति गुरुं देवदत्तः। अभिवादयते गुरुं देवदत्तं देवदत्तेन वा। दर्शयते राजानं भृत्यान् भृत्यैर्वा। परस्मैपदे तु कर्मसंज्ञाविरहपक्षे णेरणावित्यात्मनेपदम्। तत्पक्षे तु णिचश्चेति।
स्वतन्त्रः कर्ता ।। 54 ।।
क्रियायां स्वातन्त्रेण विवक्षितोऽर्थः कर्तृसंज्ञः स्यात्। स्वातन्त्र्यं च धातूपात्तव्यापाराश्रयत्वम्। तदुक्तं हरिणा-
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते।
धातूपात्तफलाश्रये कर्मण्यतिव्याप्तिवारणाय व्यापारेति। पाचयति चैत्रो मैत्रेणेत्यादौ पाकस्य णिजर्थस्य च धातृपात्तव्यापारत्वात्तयोरुभयोः कर्तृत्वम्। चैत्रवृत्तिकर्तृत्वस्यैव तिङुपात्तत्वात् तत्रैव संख्यान्वय इति तु विशेषः। चैत्रो मैत्रं गमयतीत्यत्र मैत्रस्य कर्तृत्वेऽपि न तृतीया। कर्मसंज्ञावरोधात्। स्थाली पचतीत्यादौ स्थालीनिष्ठव्यापारस्यैव धातूपात्तत्वात्कर्तृत्वम्। तेन चैत्रो न पचयतीत्यादौ धातृपात्तव्यापाराभावाश्रेय चैत्रादौ नाव्याप्तिः। तद्व्यापारस्याभावप्रतियोगित्वेऽपि धात्वर्थत्वानपायात्। चैत्रवृत्तित्वेन भासमानत्वस्य लक्षणान्तर्भावात्।
यत्तु घटः पटो नेत्यादावन्योन्याभावप्रतियोगिनि घटादौ धात्वर्थश्रयत्वाभावादव्याप्तिः। नच तत्राध्याहॉतभवतिपदस्योभयतादात्म्यभवनलक्षकतया तादृशभवनमभावप्रतियोगिति शाब्देऽर्थादन्योन्याभावबोधोपपत्तेस्तदात्मत्वेन भवनस्य चोभयवृत्तित्वादुभयोः कर्तृत्वोपपत्तिरिति वाच्यम्। द्वयोरपि तिङुपात्तसंख्यात्वापत्त्या घटो न पटाविति प्रयोगानापत्तैः।
एतेन घटो न पट इत्यत्र घटप्रतियोगिकान्योन्याभाववल्लक्षकं, नञपदं तात्पर्यग्राहकं अतश्चोभयोरपि शुक्लो घटः, अघटः पट इतिवत् पाक्षिकाभेदसम्बन्धमादाय विशेष्यविशेषणभावेन वाऽध्याहृतक्रियायामेवान्वय इत्यपास्तम्। घटो नश्यतीत्यादौ कथमपि कर्तृत्वानुपपत्तेश्चेति।
तदसत्। अन्योन्याभावप्रतियोगिनः कर्तृत्वविरहात्। साधुत्वप्रयोजकप्रथमायाः प्रथमातिक्रमे कारणाभाव एव प्रयोजक इत्यस्य स्वयमप्यङ्गीकारात्। यदपि यद्धात्वर्थावच्छिन्नलिङ्गानन्वयिपदोपस्ताप्यार्थाश्रयत्वं यस्य तस्य तत्कर्तृत्वं, पच्यते चैत्रेण, पचति चैत्र इत्यादौ चैत्रादेर्धात्वर्थावच्छिन्नकृत्याश्रयत्वात् कर्मणि लकारेणापि कृतेरुक्तेः। घटो भवतीत्यादौ चाख्यातेनाश्रयत्वस्य, च प्रतियोगित्वस्य लक्षणात् अवच्छिन्नत्वं च स्वरूपविशेषो न तु जनकत्वाद्येन। तेन प्रयियोगित्वादेर्नाशाद्यजनकत्वेऽपि न क्षतिः। चैत्रः पाचकः, पक्तेत्यादौ कृत्प्रत्ययेन पाकानुकूलतेर्लिङ्गानन्वयिन्या उक्तत्वात्। चैत्रस्य पाक इत्यादिघञन्ते घञद्यर्थस्य लिङ्गान्वयेऽपि धातुना लक्ष्यस्य पाकावच्छिन्नव्यापारस्य लिङ्गानन्वयान्नाव्याप्तिः। यद्वा घञादिना कृतेर्लक्षणया शक्त्या च पाकस्योक्तिः। कृतौ च चैत्रस्यान्वयात्कर्तृत्वम्। शेषे षष्ठीत्वाद्वा कर्तृत्वाभावेऽपि न क्षतिरित्यादि।
तदप्यसत्। कृदुक्तकृतेर्ललिङ्गानन्वयित्वे प्रमाणाभावात्। चैत्रः पक्ता, मित्रा पक्त्रीत्यादिदर्शनात्। नच तल्लिङ्गमाश्रयवृत्त्येव, नतु कृतिवृत्ति कृत्यादिपदे एव कृतेः स्त्रीत्वादिप्रत्ययादिति वाच्यम्। तथापि कृतेः पृथग्घञर्थत्वे कृतेर्न लिङ्गान्वय इति दुर्वचत्वात्। पाकानुकूलकृतिसाध्यः पाक इत्यस्य च सिद्धभावापन्नभावो घञाद्यर्थ इति सिद्धान्तविरुद्धत्वात्। शेषषष्ठयाश्च चैत्रपाक इत्यादौ कृदुत्तरपदप्रकृतिस्वरानुषपत्त्यैव दुष्टत्वात् इति द्वितीये प्रपञ्चयिष्यामः।
यदपि घटो न पटावित्यत्राध्याहृतभवत्यादेः प्रतियोगित्वाश्रयत्वोभपलक्षकत्वम। घटपटसन्बन्धिनी पथाक्रमं अन्योन्याभविये विद्यमानत्वसम्बन्धनि प्रतियोगित्वाश्रयत्वे इति धीः। अनुयोगिवृत्तिसंख्यावचनमेवाख्याते भवति, नतु प्रयियोगिवृत्तिसंख्यावचनमपीति नियमोऽप्यनुभवानुसारात्कल्प्यः। यद्वा घटो न भवती पटौ न भवत इति क्रियाद्वयाध्याहारः। रञ्पदं द्योतकम्। एकघटवृत्तिभवनाश्रयत्वं पटद्वयवृत्तिभवानाश्रयत्वप्रतियोगिकान्योन्याभावदिति बोधः। द्वयोराख्यातयोः पश्य मृगो धावतीतिवत्स्वप्रतियोगिकान्योन्याभाववत्त्वसंसर्गेणान्वयः। घटपटयोर्भेदानुभवश्च मानस इति।
तद्रप्यसत्। घटो न घट इत्यस्याप्यापत्तेः। घटत्वावाच्छिन्नत्वमेव प्रतियोगित्वे घटस्य सम्बन्ध इति चेत् न। घटस्य पटान्यवृत्त्यन्योन्याभावप्रतियोगित्वं, पटस्य घटत्वान्यथर्मावच्छिन्नप्रतियोगिताकान्योन्याभावाश्रयत्वमादायापि उक्तधीपर्यवसानसम्भवात्। यस्याश्रयत्वं तद्वृत्तिरेवान्योन्याभावो बुध्यते इत्यादिनिमकल्पनेऽपि शाब्देन घटः पटो न वेति संशयनिवृत्त्यादिकं न स्यात्। एकवाक्यत्वानुभवविरोधश्च।
एतेन यद्वेत्यपास्तम्। घटपटयोर्भेदानुभवस्य शाब्दत्वाच्चेति तिष्ठतु तावत्।
तार्किकप्राञ्चस्तु इतरकारकाप्रयोज्यत्वे सति कारकान्तरप्रयोजकत्वं कर्तृत्वम्। सत्यन्तं कुठारादिवारणाय। पुरुषादिजन्यसंयोगादिव्यापाराविशिष्टत्वेन तत्प्रयोज्यत्वादित्याहुः।
तच्चिन्त्यम्। ईश्वरप्रयोज्यानां जीवानां कर्तृत्वानापतेः। दण्डजन्यसंयोगदिविशिष्टत्वेन दण्डादिप्रयोज्यत्वे कुलालादाव्याप्तेश्च।
नव्यास्तु तत्क्रियानुकूलकृतिमत्त्वं तत्क्रियाकर्तृत्वम्। काष्ठे पाकानुकूलव्यापारवत्त्वप्रतिसंधानेऽपि कर्तृपदाप्रयोगात्। कृताकृतविभागेनेत्याचार्योक्तरीत्या यत्नशक्तिमता तृजन्तेन कृधातुना व्युत्पन्नकर्तृपदस्य यत्नाश्रयबोधकत्वाच्च। अचेतने तत्प्रयोगस्य गौणत्वात्। गुरुतरभारोत्तोलनक्रियाविषयकयत्नसत्त्वेऽपि तदनिष्पत्तौ तत्क्रियाकर्तृत्वव्यावहारविरहात् विषयकत्वं विहायानुकूलत्वमुपात्तम्। यदि त्वन्यविषयां तदनुकूलां कृतिमादायाऽपि न तत्कर्तृत्वम्, अत एव मत्तौ भूतं नतु मया कृतमिति तत्र व्यवहार इति नान्तरीयककृतिमाध्यपिष्टमध्यस्य शर्करादिभोजने चैत्रस्य न कर्तृत्वम, तदा विषयकत्वमपि निवेश्यम्। तच्च साध्यत्वेन। तेन यागादिकृतेरुद्देश्यत्वाख्यविषयतया स्वर्गादौ सत्वेऽपि न यागादिकर्तुः स्वर्गादिकर्तृत्वम्। ईश्वरः पचतीतीष्टमेव। अन्यथा तु कार्यत्वानवच्छिन्नजन्यतानिरूपितमसाधारणमनुकूलत्वं निवेश्यमित्याहुः।
तत्प्रयोजको हेतुश्च ।। 55 ।।
तस्य कर्तुः प्रयोजको हेतुसंज्ञः, चात्कर्तृसंज्ञश्च। कुर्वन्तं प्रेरयति कारयति हरिः। हेतुसंज्ञया तद्व्यापारे हेतुमति चेति णिच्। कर्तृत्वात् कर्तरि लकारः। न च प्रयोज्यस्य स्वातन्त्र्याभावात्कथं कर्तृत्वमिति वाच्यम्। प्रयोजकसन्निधानेऽपि स्वव्यापारे स्वातन्त्र्यानपायात्। अत एव कुर्वत्यपि प्रयोज्ये प्रयोज्यककारयतीति व्यपदेश इति भाष्ये स्पष्टम्।
इति श्रीसिद्धान्तसुधानिधौ प्रथमस्य चतुर्थे तृतीयमाह्निकम्।