सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः ४/आह्निकम् १

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

विप्रतिषेधे परं कार्यम् ।। 2 ।।

तुल्यबलविरोधे परं कार्यं स्यात्। कर्मव्यतिहाराविशिष्टक्रियावचनात् सेधतेर्भावे घञ्। उपसर्गबलाद्विरोधलाभः। विप्रतिषेधः परस्परविरोधः। विषयान्तरे परस्परपरिहारेम लब्धावकाशयोः शास्त्रयोः क्वचिदेकत्र समावेशे तत्सम्भावत्। कार्यमित्यर्हेऽर्थे कृत्यः। तुल्यबलं च करणार्हः। अतो नित्यान्तरह्गापवादानां निष्टत्तिः। तत्र नित्यमावस्यकत्बाद्वाधकम्। अन्तरङ्गं लाघवात्। अपवादो वचनप्रामाण्यात्। तद्भिन्नं तु प्रकृतभूत्रविषयः। तदुक्तं `परनित्यान्तरङ्गापवादानामुत्तरमुत्तरं बलीयः' इति।
इह जातिपक्षो व्यतिपक्षश्च सम्भवति।
तथा हि गवादिपदानां जातावेव शक्तिरिति मीमांसकाः। अत एव सरूपसूत्रे वार्त्तिकम् ``आकृत्यभिधानाद्वैकं विभक्तौवाजप्यायनः इति। वाजप्यायन आचार्यविशेषः। तथाहि जातेर्वाच्यत्वे लाघवं व्यक्तीनामानन्त्येन तत्र शक्तिग्रहासम्भवात्। गोत्वविशिष्टे शक्तिकल्पने च नागृहीतविशेषणन्यायेन गोत्व एव शक्तिकल्पनौचित्यात्। अन्यव्यक्तिविषयकशक्तिग्रहेण व्यक्त्यन्तरबोधोपगमे च व्यभिचारात्। नचैवं वाहयति दोग्धीत्यादावनुपपत्तिः। लक्षितव्यक्तौ तदन्वयात्। तताच जैंमीनिसूत्रम्-``तदर्थत्वात्प्रयोगस्याविबागःइति। इदं हि जातिपक्षे ``व्रीहीनवहन्ति ``यदि पशुरुपाकृतः पलायेतान्यन्तद्वर्णं तद्वयसमालभेतइत्यादीनामनुपपत्तिरित्याशङ्व्य तन्निराकरणपरम्।। एतदर्थस्तु लक्षितव्यक्तिमादायावघातादिप्रयोगसम्भवान्नासम्बद्धत्वमिति।
तथा हि यत्र व्रीहित्वजातेरवघाता दिक्रियाजन्यवितुषाभावादिरुपफलाश्रयत्वासम्भवस्तत्र जातिलक्षितव्यक्तौ कर्मत्वान्वयद्वारा तस्याः क्रियान्वयः, यत्र तु ``पशुना यजेतइत्यादौ करणत्वश्रवणं तत्र द्रव्यपरिच्छेररूपव्यापारेण जातेरेव करणत्वोपपत्तेर्न लक्षणा। ``अन्यं तद्वर्णम्इत्यादावपि पशुपदलक्षितव्यक्तिप्रतियोगिक एवान्योन्याभावो व्याख्येयः।
यद्यपि गुरुमते `कार्यान्वित एव शक्तिः'इति सिद्धान्तो जातेश्च कार्यान्वयासम्भवः, तथाऽपि स्वावच्छिन्नव्यक्तिद्वारकमेव कार्यान्वयमङ्गीकृत्य तदुपपाद्यम्। तथैव शब्दमणौ तन्मतोपन्यासदर्शनात्।
एतेन `जातिविशिष्टव्यक्तौ शक्तिः'इति वादो गुरुणां संमतःष अन्यथा कार्यान्विते पदशक्तिवादस्तेषां न सिध्येदित्यपास्तम्।
नव्यास्तु घटत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसम्बन्धेन घटवत्तानिश्चयत्वं कारणतावच्छेदकम्, उत घटपदत्वं धर्मितावच्छेदकीकृत्य शक्तत्वसम्बन्धेन घटवत्तानिश्चयत्वमिति विनगमनाविरहाद् व्यक्तिशक्तौ गौरवम्। जातिशक्तिपक्षे तु घटपदं शक्तत्वसम्बन्धेन घटत्ववदिति पदत्वधर्मितावच्छेदककशक्तत्वसंसर्गकघटत्ववत्तानिश्चयत्वमेव तथा। घटत्वं शक्यत्वसम्बन्धेन धर्मित्वासंभवात् घटेतरावृत्तित्वे सति घटनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वे च सति समवेतत्तवरूपघटत्वत्वस्य धर्मितावच्छेदकत्वे गौरवापत्तेः घटत्वस्य प्रकारतायां तु घटत्वत्वस्याप्रवेशात्स्वरूपेणैव जातेः प्रकारत्वोपगमात्। नच समावायावच्चिन्नएवानुमितिलक्षणेऽनुभवत्वान्येति दीधितिफक्किकायां भेदप्रतियोगितवच्छेदकानुभवत्वत्वघटकानुभवेतरासमवेतत्वे सतीत्यंशस्य वैयर्थ्यात्सकलानुभवसमवेतत्वमेवानुभवत्वत्वं निवेश्यमिति सकलानुभवसमवेतान्यत्वस्य ज्ञानत्वादावभावादेव तद्वारणे ज्ञानत्वादिवारकानुभवत्वं प्रकार इति व्याख्यातम् इत्याहुः।
यत्तु व्यक्तीनामान्त्यमिति। तन्न। अशक्याया एव जातेः शक्यतावच्छेदकत्वसम्भवात्।
नच स्वावच्छेद्यधर्मानाश्रयस्य तदवच्छेदकत्वाभावानियमः। अव्यापकस्यापि व्यापकतावच्छेदकत्वाभ्युपगमात्। एतेनातिप्रसङ्गेऽपि निरस्तः।
उक्तं च प्रत्यक्षदीधितौ अव्यापकस्याप्यनुमितिविषयत्वेऽतिप्रसङ्गस्य व्यापकतावच्छेदकत्वेनेवाशक्यस्यापि शाब्दधीविषयत्वेऽतिप्रसङ्गस्य शक्यतावच्छेदकत्वेनैव निराससम्भवात्। शक्यतावच्छेदके शक्तिसत्वेऽपि न तस्यास्तद्वोध उपयोगः। विना लक्षणां लक्ष्यतावच्छेदकस्येव विनाऽपि शक्तिं तस्य बोधसम्भवादिति।
यत्तु विनिगमनाविरहात्कारणताद्वयम् इति। तन्न। घटत्ववदिति प्रकारतायाम् अपि घटत्वत्वस्यावच्छेदकत्वाविशेषात् समवायस्वाश्रयतादात्म्याब्यामेव जात्यंशे निरवच्छिन्नप्रकारतायास्तार्किकसंमतत्वात्। अनुभवत्वान्येत्यत्रापि सर्वेषां तथाऽनभिमतत्वात्।
अत एव कैश्चिदनुभवपदे शक्यतावच्छेदकत्वेनैवानुभवत्वप्रवेश इत्यादि व्याख्यातम्।।
अस्तु वा स्वरूपेण प्रकार्तवं तथाऽपि विनिगमनाविरहः। स्वरूपेण विशेष्यत्वस्यापि संभवात्।
उक्तं हि शब्दखण्डे मिश्रव्याख्यातृभिः कैश्चित् स्वरूपतः प्रकारत्वस्येव स्वरूपतो विशेष्यत्वस्यापि सम्भवादितीति दिक्।
एवं जातेः शक्यत्वे तद्विशेष्यकशाब्दापत्तिः पदानां स्वशक्यविशेष्यकज्ञानजनकत्वात्। घट इत्यादौच तदनुभवविरुद्धम्।
नच घटत्वशक्तिज्ञानस्य घटत्वप्रकारकघटविशेष्यकशाब्दत्वं कार्यतावच्छेदकम्। `घटत्वमस्ति'इस्यत्रापि तदापत्तेरिति तिष्ठतु विस्तरः।
प्रकृतमनुसरामः। प्रक्रियादशायां लक्ष्यानुरोधात् पक्षद्वयमाश्रीयते।
तथा हि जातिपक्षे तस्यां साक्षात्कार्यासम्भवेन तदवच्छिन्नव्यक्तिविशेष एव तत्प्रवृत्तेः स्वीकार्यवात्तावतैव जात्युद्देशकशास्त्रस्य चारितार्थ्यम्। तथा च ``सुपिचइत्यस्य रामाभ्यामित्यादौ ``बहुवचने झल्येद्इत्यस्य रामेषु इत्यादौ चरितार्थत्वाद् वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे विनिगमकाभावाद्वयोरप्यप्रवृत्तिः स्यात्।
तदुक्तम्-``अप्रतिपत्तिर्वोभयोस्तुल्यबलत्त्वाद्इति। तत्र विप्रतिषेधसूत्रं विध्यर्थम्-परं भवतीति। तस्मिन्कृते च यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवत्येव। यथाऽभिनद् हि इत्यत्राकचं वाधित्वा परत्वाद्धिभावे कृतेऽप्यकच्। तदुक्तम्``पुनःप्रसङ्गविज्ञानात्सिद्धम् इति।
व्यक्तिपक्षे तु सर्वासां व्यक्तीनां तत्तद्व्यक्तित्वेनोद्देश्यता व्यक्त्यन्तरे प्रवृत्तावपि शास्त्रस्य तद्व्यक्तिप्रवृत्तिं विना चरितार्थत्वासम्भवात् शास्त्रद्वयप्राणाण्यादगत्या विकल्प एव स्यात्। तथाचोभयोः पाक्षिक्यां प्राप्तावारब्धं विप्रतिषेधसूत्रं नियमार्थम्-परमेव भवति न तु पूर्वमिति। तेन जुहुलात्त्वमित्यत्र जुहु हि इति स्थिते धिभावं बाधित्वा परत्वात्तातङि कृते स्थानिवत्त्वाप्रसक्तौ धिभावः पुनर्न प्रवर्त्तते।
तदुक्तं ``सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवइति।।
नचैवं शास्त्रान्तरस्यापि तद्व्यक्तिविषयकत्वात्तस्यामप्रवृत्तावप्रामाण्यापत्तिः। व्यावर्त्त्यत्वाभिमतशास्त्रस्यापरशास्त्रप्रवृत्त्यविषयव्यक्तावेव तात्पर्यमिति फलतः परशात्रप्रवृत्तिविषयव्यक्तौ तात्यर्यं नास्तीत्यस्य पर्यवसानात्। तस्मात्पक्षद्वयमपि लक्ष्यानुसाराद्व्यवस्थितम्।
परादपि नित्यं बलीयः। तेन रधेर्णिचि परामपि ``अतउपधायाः इति वृद्धिं बाधित्वा ``रधिजभोःइति नुम्। शब्दान्तरप्राप्त्या तस्यानित्यत्वेऽपि कृताकृतमसङ्गिवमात्रेण नित्यत्वाभ्युपगमात्। तेन रन्धयतीति सिद्धम्। अदुद्रुवदित्यादौ परमपि लघूपधगुणं बाधित्वा उवङ् अन्तरङ्गत्वात्। शुन इत्यत्र परमप्यल्लोपं बाधित्वा ``संप्तसारणाच्चइति पूर्वत्वम्। अल्लोपे हि स्थानिवद्भावाद्यण स्यात्। बहुश्वा नगरीत्यत्र ``अन उपधालोपिनः इति ङीप्स्यात्।
नच गौरादिलक्षणो ङीप् तताऽपि स्यादिति वाच्यम्। उपसर्जनत्वात्। यत्त्वस्मिन्सूत्रे बहुथुनीति भाष्यं तदल्लोपाभ्युपगमेन प्रवृत्तत्वान्न सिद्धान्ते स्थितिमति कैयटादयः।
नच शुना इत्यादावुदात्तनिवृत्तिस्वरः स्यादिति कुतो नोक्तमिति वाच्यम्। ``न गोश्वन्साववर्ण-इति प्रतिषेधात्। श्वन्‌शब्दस्य गौरादिषु पाठादुदात्तनिवृत्तिस्वरोऽस्य न भवतीति ज्ञापितत्वाच्च। शुनीत्यत्रोदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वादन्तोदात्तत्वार्थं ङीष्विधानानुपपत्तेः। सौत्थितिरित्यत्र स्वरं बाधित्वा एकादेशोऽन्तरङ्गत्वात्। सु उत्थित इ इति स्थिते यदि पूर्वमुकारस्योदात्तत्वं स्यात् तदा ``सवरितो वाऽनुदात्ते पदादौ इति पक्षे स्वरितत्वं स्यात्। पूर्वं त्वेकादेशे नित्यमाद्युदात्तत्वम्।
वृद्ध्योरित्वोत्वे। स्तैर्णिः पौर्णिः। स्तृत इ इति स्थिते अन्तरङ्गत्वादित्त्वं ततो वृद्धिः। स्वरे तु न विशेषः। यदि पूर्वं आपोपूर्यते इत्यत्र नित्यत्वात्प्राप्तं द्विवचनं बाधित्वाऽन्तरङ्गत्वादित्त्वोत्त्वे।
इण्‌ङिशीनामाद्‌गुणः सवर्मदीर्घत्वात्। अयज इन्द्रमिति स्थिते परत्वात्माप्तं सवर्णदीर्घं बाधित्वा गुणोऽन्तरङ्गत्वात्। वृक्षे इन्द्रं ये इन्द्रम् इति ङिश्योरुदाहार्यम्।
यद्यपि सवर्णदीर्घोऽपवादो दण्डाग्रमित्यादौ गुणस्य कुमारी ईहत इत्यादौ यणादेशस्य च नाप्राप्तत्वात् तथाऽपि एकनिमित्तप्राप्तविध्यन्तरबाधनेन सवर्णदीर्घस्य सावकाशत्वादन्तरङ्गबाधानौचित्यात्। अपवादोऽपि यद्यन्यत्र चरितार्थस्तदाऽन्तरङ्गेणोत्सर्गेणापि बाध्यत इति स्थितिः।
निरवकाशेन तु विध्यन्तरेण सावकाशेऽन्तरङ्गोऽपि विधिर्बाध्यते यथा गोत्रेऽलुगचीति। अलुकालुक्। ऊङापोरेकादेश ईत्वलोपाभ्याम्।
खट्वीयतीत्यत्र `खट्व आ य ति'इति स्थिते परत्वात्प्राप्तमीत्वं बाधित्वाऽन्तरह्गत्वादेकादेशः, अन्यता ईत्वे कृते गुणः स्यात्। नच यस्येतिलोपसम्भवः। ``पूर्वविधौइति त्वस्य स्तानिवद्भावात्। कामण्डलेयः भाद्रवाहेय इत्यत्र ``ढे लोपोऽकद्व्राःइति लोपं परमपि बाधित्वा।न्तरङ्गत्वादेकादेशः। नच ऊङ ईत्वासम्भवाद् लोपेत्वाभ्यामिति युक्तः पाठ इति वाच्यम्। यथासङ्ख्यनिवृत्त्यर्थत्वात्। नच ``अजाद्यदन्तम्इति तथैव युक्तत्वादिति कथं ज्ञापकत्वमिति वाच्यम्। लक्षणेषु प्रायेणास्यानादरणात्। तेन वौडिरित्यत्र आलोपं बाधित्वा एकादेशः पूर्वमाकारलोपे तस्य स्तानिवद्भावादसिद्धत्वाच्चाकारलोपाबावादाद्‌गुणः स्यात्।
आत्वनपुंसकोपसर्जनह्रस्वत्वान्ययवायोवेकादेशतुग्विधिभ्यः।
ग्लाछत्रमित्यत्र विभज्यान्वाख्याने ग्लै छत्रमिति स्थिते यदि तुक्स्यात्तदा एजन्तत्वाभावादात्वं न स्याद् ढौकितेत्यादिवत्। उपदेशग्रहणमनेफेक्ष्य चैतदुक्तम्। अतिर्यत्र अतिन्वत्रेत्यादौ `अति रै अत्र'इति `अति नौ अत्र'इति स्थिते आयाद्यादेशे सति अनेजन्तत्वाद्व्रस्वो न स्यात्। आराशस्त्री इदमिति स्थिते पूर्वमेकादेशे तस्यान्तवद्भावाद्व्रस्वे कृते आराशस्त्रीदमिति न स्यात्। पदसमुदायस्य विभज्यान्वाख्याने अग्निचि अत्रेति स्थिते पूर्वं यणादेशे तुक् न स्यात्। पुंसि विभक्त्या व्यवधानेऽपि नपुंसके यणापत्तेः।
तुग्यणेकादेशगुणवृद्भ्यौत्वदीर्घत्वेत्वमुमेत्वरीविधिभियः।
एभ्यस्तुग्भवत्यन्तरङ्गत्वात्। यणादेशाद्व्याख्यातम्। अग्निचिदिदम् अत्रैकादेशात्, अग्निचितेत्यादौ गुणात्, प्रार्च्छक इत्यादौ वृद्धेः, अग्निचितीत्यादावौत्वात्, जगद्भ्याम्, जगन्वद्भ्यामित्यादौ दीर्घत्वात्, जगत्यतीति क्यचि ईत्वात्, अग्निचिन्मन्य इत्यादौ मुमागमात्, जगद्भ्य इत्यादौ एत्वात्, सुकृत्यतीत्यादौ क्यचि रीत्वात्।
इयङादेशो गुणात्।
धियति। धि धारणे। तिप्‌शः। परत्वात्तिबाश्रये गुणे प्राप्तेऽन्तरह्गत्वाददियङ्। एवं प्रादुद्रुवदित्यादावुवङ्।
श्वेःसंप्रसारणपूर्वत्वं यणादेशात्।
  शुशुवतुरित्यादौ परत्वात्प्राप्तम् ``एरनेकाचःइति यणं बाधित्वाऽन्तरह्गत्वादुवङ्।
ह्व आकारलोपात्पूर्वत्वम्।।
जुहुवतुरित्यत्र ह्वा अतुम् इति स्थिते ``ह्वः संप्रसारणम् ``अभ्यस्तस्यचइति संप्रसारणे कृते आलोपं परत्वात्प्राप्तं बाधित्वाऽन्तरङ्गत्वापूर्वरूपम्। यद्याकारलोपः स्यात्तदा तस्य स्थानिवद्भावादाभीयत्वेनासिद्धत्वाद्वा उवङ् न स्यात्।
स्वरो लोपात्।
औपगवीत्यत्र अणि ङीपि च कृते यदि प्रत्ययाद्युदात्तत्वादनुदात्तत्वाद्वा पूर्वं लोपः स्यात् तदा ईकारस्य उदात्तनिवृत्तिस्वरो न स्यात्।
प्रत्ययविधिरेकादेशाद् यणादेशाच्च।
अग्निरिन्द्रं वायुरुदकमित्यादौ सवर्णदीर्घं परमपि बाधित्वा प्रत्ययोत्पत्तिः। यद्यपि केवलायाः प्रकृतेः प्रयोगो नास्ति तथाऽपि वाक्यस्य विभज्यान्वाख्याने क्रियमाणोऽयं विचारः। प्रत्ययस्य नित्यत्वेऽपि अन्तरङ्गत्वेनैव समाधानं कृतम्। एवम् अग्निरत्रेत्युदाहार्यम्।
लादेशो वर्णविधेः।
पचत्वत्रेत्यादौ यदि पूर्वं यण्स्यात्तदाऽल्विधित्वात्स्थानिवत्त्वाभावादुत्वं न स्यात्।
तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृनिस्वरात्।

पूर्वा शाला प्रियाऽस्येति त्रिपदे बहुव्रीहौ कृते तद्धितार्थेति द्वयोराद्योस्तत्पुरुषः। तत्र त्रिपदाश्रयबहुव्रीहिनिमित्तः पूर्वपदप्रकृतिस्वरो बहिरङ्गत्वान्न प्रवर्त्तते, किं तु तत्पुरुषसमासाश्रयं शालाशब्दस्यान्तोदात्तत्वम्। पूर्वपदस्वरः ``स्वाङ्गशिटामदन्तानाम्इत्याद्युदात्तः।

अत्रेदमवधेयम्-`अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवद्'इति परिभाषा लाघवन्यायमूलेति कैयटः। असिद्धं वहिरङ्गमन्तरङ्गे इति तु ``वाह ऊठ्इत्यत्र ज्ञाप्यते। दित्यवाह् अम् इति स्थिते वाहः संप्रसारणमेव कर्त्तव्यम्, तस्मिन्पूर्वत्वे च कृते ण्विनिमित्ते गुणे ``वृद्धिरेचिइतिवृद्धौ च दित्यौह इत्यादिसिद्धेः। नच यत्राकारान्तमुपपदं नास्ति तत्र कथं निर्वाहः ज्ञापकत्वोपदर्शकबाष्यप्रामाण्येन तत्र ण्विर्नास्तीति कल्पनात्। छन्दसि कचिद् दर्शने तु ऊहतेः क्विपा तत्सम्भवात्। तथाच ऊठो विधानम् उक्तपरिभाषाज्ञापकम्। तस्यां हि सत्यां बहिरङ्गस्य संप्रसारणस्यासिद्धत्वादन्तरङ्गो गुणो न स्यादिति ऊठ्करणं सार्थकम्। तेन पचावेदमित्यादौ एत ऐत्वं न भवति। ``षत्वतुकोरसिद्धःइत्यनेन च तदपवादभूता ``नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिःइति परिभाषा ज्ञाप्यते। कोऽसिञ्चदधीत्येत्यादौ बहिरङ्गस्यैकादेशस्यासिद्धत्वादेव षत्वनिषेधतुकोः प्रवृत्तौ असिद्धवचनस्य वैयर्थ्यीत्।
यत्त्वत्रत्यं भाष्यम्-असिद्धपरिभाषया गतार्थत्वाद् `अन्तरङ्गं बलवद्'इति परिभाषा नारभ्येति। तद्‌ विरुद्धम्, न्यायसिद्धत्वात्। असिद्धपरिभाषायाः सापवादत्वाच्च।
यदि तु विवरणोक्तरीत्या ``षत्वतुकोःइत्यनेनासिद्धपरिभाषाया अनित्यत्वमेव ज्ञाप्यते नतु `नाजानन्तर्ये'इति परिभाषा। गौरवात्, तदैतद्भाष्यमेव युक्तम्। प्रपञ्चितं चैतत्प्राक्।
नन्वन्तरङ्गस्य बलवत्त्वे पूर्वैषुकामशमः, अपरैषुकामशमः इत्यत्र पूर्व इषुकामशमी अ इति स्थिते अतरङ्गत्वाद्गुणे पूर्वोत्तरपदयोर्प्यपवर्गाभावादुभयत आश्रयेऽन्तादिवद्भावनिषेधाच्च ``दिशो मद्राणाम् ``प्राचा ग्रामनगराणाम्इत्युत्तरपदवृद्धिर्नस्यात्। ``उत्तरपदवृद्धौ सर्वं चइति चशब्दाद् दिक्‌शब्दानां विधीयमानं पूर्वपदान्तोदात्तत्वं च न स्यात्। पूर्वकार्ष्णमृत्तिक इत्यत्र द्वयोः सावकाशत्वात्। गुडोदकमित्यादौ ``उदके केवले इति पूर्वपदान्तोदात्तत्वं न स्यात्। उदश्वित् उदकमित्यादौ सावकाशत्वादिति चेत् न। ``नेन्द्रस्य परस्यइति प्रतिषेधेन एकादेशं बाधित्वा पूर्वोत्तरपदकार्यं भवतीति ज्ञापितत्वाद् अन्यथा ``यस्येति चइति लोपेन एकादेशेन च द्वयोरचोरपहारात्तत्र स्वरस्यैवाऽप्राप्तेः। व्याकरणान्तरे तु य्वोर्वृद्धिप्रसङ्गे इयुवौ भवत इति वचनम्।। तत्र वैयाकरणः, सौवश्वः। अत्र अन्तरङ्गतया पूर्वमेव यणादेशे इयुवौ न स्याताम् इत्याशङ्क्य भाष्यम् अनवकाशत्वात्तौ भविष्यतः। न च यण्‌विरहितस्थले तौ सावकाशाविति वाच्यम्। अचि परे तयोर्विधानात्। अन्यथा ऐतिकायनः, औपगव इत्यादौ ``लोपो व्योःइति लोपसम्भवेऽपि प्रैयमेधः, प्रैयङ्गव इत्यादौ तदसम्भवात्।
अथैवमपि पचेयुरित्यादि न सिद्ध्येत्। पच् अ याम् उस् इति स्थिते सलोपोत्तरमन्तरङ्गत्वात्पररूपे कृते व्यपवर्गाभावादियादेशो न स्यात्। एकादेशस्यान्तवद्भावेऽपि रूपासिद्धेः।
अत्र भाष्यम् ``अतो येयःइत्यत्र या इत्यस्य इयादेश इति नार्थः, किं तु यास् इत्यस्यैव इय्। संहितायाः सौत्रत्वात्। तथा च सलोपापवाद इयादेशः सलोपं विना च ``उस्यपदान्ताद्इत्यस्य प्रसक्त्यभावात्।
लुक् लोपयणयवायावेकादेशेभ्यः।
तेन गोमत्प्रिय इत्यादौ ``सुपो धातुप्रातिपदिकयोः इति लोर्लुक्, न तु ``हल्ङ्यादिभ्यःइति लोपः, प्रत्ययलक्षणेन नुमादिप्रसङ्गात्। ग्रामण्यः कुलं ग्रामणि कुलम्। यणादेशे कृते लुकि रूपं न सिध्येत्। गोहितं रैकुलं नौकुलमित्यादावप्येवम्। वृकाद्भयम् वृकभयं पूर्वंमेकादेशे तस्यादिवद्भावाल्लुकि रूपासिद्धिः स्यात्। इदंच अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधत इत्यस्य ``प्रत्ययोत्तरपयोश्चइत्यत्र ज्ञापितत्वात्सिद्धम्।
इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम्।