सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः ३/आह्निकम् १

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

अथ प्रथमाध्यायस्य तृतीयः पादः । (1.3.1)
भूवादयो धातवः 1 ।

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः । भवति । धातुत्वाल्लडादयः । याः पश्यसीत्यादौ धातुसंज्ञायां या इत्यादेरातो लोपस्य वारणाय क्रियावचना इति । हिरुक्‌ इत्यादौ वर्जयित्वेत्याद्यर्थके निपाते, शिश्ये इत्यादौ भावतिङन्ते चातिव्याप्तिवारणाय भ्वादय इति गणपठिता इत्यर्थकम् । नच लाक्षणिकत्वादेव याशब्दस्य गणेऽनुपादानमिति वाच्यम् । स्थलान्तरे प्रतिपदोक्तत्वस्य तत्रापेक्षितत्वात् । नचान्तरङ्गे लोपेऽर्थनिमित्तकतया बहिरङ्गस्य टापोऽसिद्धत्वम् । लिङ्गस्य कारकापेक्षया प्रथमप्रतीतिकत्वेन अजादिप्रत्ययनिमित्तकस्य लोपस्यैव बहिरङ्गत्वात् । `नाजानन्तर्ये' इति निषेध इत्यपि केचित् ।
नचार्थनिर्द्देशो नियामकः । तस्याभियुक्तान्तरकृतत्वेनापाणिनीयत्वात् ।
क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः ।
प्रयोगतोऽनुसर्त्तव्या अनेकार्था हि धातवः ।।
इत्यर्थान्तरव्यावृत्तौ तात्पर्याभावाच्च ।
अथ एव "कुर्द खुर्द गुर्द गुद क्रीडायामेव" इत्येवकारः । "श्लिष आलिङ्गने" इत्यादिकं च सङ्गच्छते । नचैवं "टुवम् उद्गिरणे" इति निपातनादित्त्वमित्यस्यानुपपत्तिः । एतदपरितोषादेव पृषोदरादित्वस्यान्यैरुक्तत्वात् ।
भूवादय इति निपातनाद्वकारागमः । नचासाधुत्वम् । वैयाकरणनिकाये प्रसिद्धत्वात् । नच क्रियावचनत्वस्य सूत्रादलाभः । भवनं भूः क्रियासामान्यं तद्‌ वदन्तीति भूवादय इत्यर्थात् । "वसिवपियजिराजिव्रजिसहिहनिवासिवादिवारिभ्य इञ्‌" इत्यत्र इञ
ो वादयतेर्विधानेऽपि बाहुलकाद्वदेरपि तत्सम्भवादिति केचित् ।
वादयतेरेवात्र इञ्‌ निवृत्तप्रेषणतयाऽर्थभेदाभावात् । वदन्तीतिभाष्यस्य चार्थकथनपरत्वादित्यन्ये ।
नचैवं गणपठितत्वस्य दौर्लभ्यम् । "सानाद्यन्ता धातवः" इत्यस्यारम्भेण पठितानामेव संज्ञाऽनुमानात् । सौत्राणआं तु स्तम्भ्वादीनामुदित्करणेन धात्वधिकारीयकार्यविधानेन च धातुत्वसिद्धेः । चुलुम्पादीनां च भ्वादेराकृतिगणत्वात् । वृत्करणस्य यजादिसमाप्त्यर्थत्वात् ।
एतेन दिवाद्यन्ते वृत्करणं पुषादिसमाप्त्यर्थम्, तेन मृग्यतीत्यादिकमपि व्याख्यातम् ।
वस्तुतो "बहुलमेतन्निदर्शनम्" इति चुराद्यन्ते गणसूत्रेण सर्वसिद्धिः । भ्वादिभ्योऽपि स्वार्थे णिच् ।
यद्वा दशगणीपाठो दिङ्‌मात्रम्, शिष्यप्रयोगादन्येऽपि धातवो ज्ञेया इति द्वेधा तस्य ग्रन्थकृद्भिर्व्याख्यानात् ।
यद्वा भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोरेकशेषः । भूवौ आदी येषामिति बहुव्रीहिः । सादृश्यं च क्रियावाचित्वेनेति यथोक्तविशेषणद्वयलाभः । नच वातेर्धातुत्वानापत्तिः । भेदाघटितसादृश्यस्य तत्र सत्त्वात् ।
यद्वा वादय इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषः । "स्वर भिन्नानां यत्परं तच्छिष्यते" इति बहुव्रीहेः शेषः । भुवो वादय इति षष्ठीसमासः । वाच्यवाचकभावश्च षष्ठ्यर्थः ।
यद्वा तन्त्रावृत्त्यादिना उभयलाभः, "द्विर्वचनेऽचि" इत्यादिवत् । अत्र भूप्रभृतयो वासदृशा इत्येव सारम् ।
एतेन---
भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते ।
भुवो वार्थँ वदन्तीति भ्वर्था वा वादयः स्मृताः ।। इति---
वार्त्तिकं व्याख्यातम् ।
वस्तुतस्त्वभियुक्तानां परिभाषाविशेषसम्बन्धेन धातुपदवत्त्वमेव धातुत्वम् । तत्परिचायकं चोक्तसूत्रम् । नतु भ्वाद्यन्यतमत्वम्, गौरवात् । अनुकरणेषु तत्तद्रूपाणामतिप्रसङ्गाच्च । तद्व्यावृत्तस्य भूत्वादेरन्यतमत्वघटकस्य प्रकारान्तरेण दुर्वचत्वात् । अत एव सौत्राणाम्, चुलुम्पादीनां च सङ्ग्रहः । अत एव च धात्वर्थत्वं क्रियात्वमिति तान्त्रिकाणामुद्धोषः सङ्गच्छते ।
अथ केयं क्रियानाम ? यत्त्वाहुः फलाव्यवहितपूर्वकालवर्ती व्यापारविशेषस्तथा । अधिश्रयणादीनां तु क्रियात्वमौपचारिकम् ।
तदुक्तम्---
अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः ।
प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यया ।। इति ।
नच काष्ठादिव्यापारस्य तथात्वाद्व्यभिचारः । जनकान्तराननुकूलत्वस्य वाच्यत्वात् । नापि पाकारम्भेपि क्रियाया भावित्वात्पक्ष्यतीत्यस्यापत्तिः । गौणमुख्यसाधारणतक्रियासमूहस्यातीतत्वेऽपक्षीदिति, प्रागभावे पक्ष्यतीति, यत्किञ्चित्सत्त्वेच पचतीति प्रयोग इति व्यवस्थाऽभ्युपगमात् । इदंच यङिवधौ भाष्ये स्पष्टम् ।
तन्न । मुख्यत्वसम्भवे गौणत्वस्यानुचितत्वात् ।
अथ पचित्वं जातिः, पचतीत्यनुगतव्यवहारात्, सैव क्रिया । नचैवमसाध्यत्वापत्तिः । तदाश्रयव्यक्तीनामेव तथात्वात् ।
तदुक्तम्---
जातिमन्ये कियामाहुरनेकव्यक्तिवर्त्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवावभासते ।। इति ।
तन्न । दण्डादिव्यापारस्यापि फलानुकूलत्वेन तदाश्रयस्य दण्डस्य कर्तृत्वे तिङा तदभिधानापत्त्या दण्डेन देवदत्तः पचतीत्यत्र दण्डेऽपि प्रथमापत्तेः । नच करणार्थेयं तृतीया । कर्तृत्वे करणत्वस्यानुपपत्तेः । "आकडारादेका संज्ञा" इति नियमात् । न च तदा दण्डादिव्यापारस्य धात्वर्थत्वेनाविवक्षितत्वान्न दोष इति वाच्यम् । तथाऽपि क्रियायाः साध्यत्वप्रत्ययस्यान्यविषयकत्वे मानाभावात् ।
अथ साध्यत्वेनाभिधीयमानो व्यापारविशेषः क्रिया । तदुक्तम्---
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ।। इति ।
नच साध्यत्वेनाभिधाने मानाभावः, पचति, पाकः, करोति, कृतिरित्यादौ धात्वर्थप्रतीत्यविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोदर्शनस्य मानत्वात् । तथाच क्रियान्तराकाङअक्षानुत्थापकतावच्छेदकत्वं साध्यत्वम् । तदेवासत्त्वभूतत्वम् । क्रियायाः प्रत्ययार्थतावादेऽपि पचति पाकभवनेत्यादौ तथा दर्शनात्तथात्वावश्यकत्वादिति ।
तन्न । साध्यत्वप्रकारकशाब्दबोधस्य सर्वानुभवविरुद्धत्वात् । भोक्तुमित्यादावसत्त्वभूता क्रिया भासते इति सिद्धान्तविरोधाच्च । क्रियान्तराकाङ्क्षायास्तत्र सत्त्वात् इति तृतीये वक्ष्यते इति चेत् ।
अत्रोच्यते । फलानुकूलो व्यापारसमूह एव क्रिया । तदुक्तं भाष्ये "क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुम्" इति । व्यापारसमूहघटकानामवयवानामेकक्षणानवच्छिन्नतया प्रत्यक्षासम्भवादित्यर्थः ।
तथा च वाक्यपदीये---
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्याप्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।।
युगपदनवस्थाने हेतुः क्रमजन्मनामिति । बुद्ध्या तावद्विषयकसमूहालम्बनज्ञानेन । प्रकल्पितः अभेदो यस्य । तथा चानेकवर्णसमुदाये एकज्ञानावच्छिन्नतया यथैकं पदमिति व्यवहारस्तथोक्तस्थले क्रियाया अपीत्यर्थः । पिण्डीभूतेति । यथा परमाणवः पिण्डीभूता उपलभ्यन्ते न केवलाः एवं पिण्डीभावात् क्रिया न प्रत्यक्षेति कैयटः ।
काव्यप्रकाशकारेणाप्युक्तम्---
साध्यः पूर्वापरीभूतावयवः क्रियारूप इति । तद्व्याख्यातारोऽपि---साध्यः साध्यत्वेन विवक्षितः पूर्वापरीभूतत्वेन प्रतीयमाना अवयवाः प्रचयान्तर्गताः प्रचयिनोऽधिश्रयणादयो यस्य पाकादिधात्वर्थस्य सः । अक्रमस्य क्रमाप्राप्तिश्च्व्यर्थः । प्रचयस्य तत्तत्प्रत्येकातिरिक्तस्याभावाद्व्यापाराणां प्रत्येकं पाकत्वेन क्रमेण पाक इति भ्रम एवेति । अत एवोक्तमाश्रित्यक्रमरूपत्वात् इति ।
यद्वा अधिश्रयणादिरपि तत्तदाश्रयविशिष्टः क्रियारूपः, क्रियाया विशेष्यस्य चैकत्वाद् अक्रमत्वेऽपि आश्रयीभूतविशेषणक्रमात्क्रमोपचारः ।
अन्ये तु स्थालीन्धनतण्डुलादिविशिष्टक्रिया पचादिधात्वर्थः, तदवयवाश्च स्वनिष्ठशक्त्यवच्छेदकत्वे सति स्वाश्रयाः स्थाल्यादयःष तेषां वास्तवपौर्वापर्याभावाच्च्विप्रत्यय इत्याहुः ।
नच यत्र चुल्ल्युपरिधारणादयोऽवतारणपर्यन्ता व्यापाराः पुरुषभेदेन नानापाकक्रियासु युगपद्भवन्ति तदा पाकक्रियाप्रत्यक्षं स्यादिति वाच्यम् । तद्व्यक्तीनां परस्परसहकारित्वाभावात् ।
ननु पाकत्वं प्रत्येकव्यापारपर्याप्तम्, नतु संयोगादिवद्व्यासज्यवृत्ति भिन्नकालीनेषु एकस्य व्यासक्त्यनुपपत्तेः, उक्तग्रन्थान्तरेभ्योऽपि तथाप्रतीतेश्च ।
शब्दकण्टकोद्धारेऽप्युक्तम्---चुल्लीज्वालनमारभ्यावतारणपर्यन्तव्यापारकलापे घटत्वादिवत् प्रत्येकपर्याप्तमेव पाकत्वं भावनात्वं वा आख्यातार्थो वा, फलावच्छिन्नव्यापारसमुदायस्य तदर्थत्वात् । उक्तं च भाष्ये---"नाना चैकार्था क्रिया पचतीति स्थाल्यधिश्रयणमुदकावसेचनं तण्डुलावपनमेधोऽपकर्षणमग्निज्वालनं दर्वीघट्टनमवतारणम्" इति, तथाच पाकप्रत्यक्षं स्यादेवेति चेन्न ।
पाकत्वस्य वस्तुतस्तथात्वेऽपि तत्समूहस्यैव क्रियाव्यवहारविषयत्वात् । तस्य च प्रत्यक्षायोगात् । अत एव पश्य मृगो धावतीत्यादावेकदेशस्यैव वर्त्तमानस्य दर्शनकर्मत्वमिति तृतीये वश्र्यते । तदुक्तं हरिणा---
क्रमात्सदसतां तेषामात्मानो न समूहिनाम् ।
सद्वस्तुविषयैर्यान्ति सबन्धं चक्षुरादिभिः ।।
न यान्तीत्वन्वयः । क्रमिकव्यापारसमुदायस्य क्रियात्वात्तस्य वर्त्तमानत्वासम्भवान्न चक्षुरादिग्रह्यत्वम् । वर्त्तमानस्य तदेकदेशभूतस्य व्यापारस्य चाक्षुषत्वं तूपपन्नमेवेत्यर्थः । तत्सिद्धं क्रिया धात्वर्थ इति ।
अथोक्तरूपक्रियाया धात्वर्थत्वे किं मानम् ? । न तावद्‌ "भावप्रधानमाख्यातम्" इति निरुक्तम् । आख्यातशब्दस्य धातावशक्तत्वात् । ननु `सर्वमाख्यातजं नाम' इति निरुक्तकृताऽभिधानात्तस्य धातुवाचकत्वम् । प्रत्ययजन्यत्वस्य नामत्वसम्भवात् । "नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम्" इति भाष्योक्तेश्च । शकटस्य ऋषेस्तोकमपत्यमिति कैयटः । शाकटायन इति यावत् ।
तथाच निरुक्तम्---तत्र "नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च" इतीति चेत् ।
मैवम् । कृदन्ते धातावाख्यातपदप्रयोगाभावात् । तत्र लक्षणया तदुपपत्तेः । अत एव "येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि" इतिजैमिनिसूत्रेऽपि लक्षणयैवाख्यातपदं धातुपरम् । उत्पत्तावुच्चारणकाले स्वेऽर्थे प्रयोगो न विद्यते, स्वार्थसिद्धो न विद्यते इति यावत् ।
अयं तु विशेषः---जैमिनिसूत्रे तेन तिङन्तस्यैव धातोर्ग्रहणम्, निरुक्ते तु आख्यातपदस्योपलक्षणतया धातुस्वरूपमात्रस्येति । नापि भावपदस्य भावनापरत्वम् ।
धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । इति---
वैयाकरणैः परिभाषितत्वेऽपि निरुक्तस्मृतौ आख्यातार्थभावनाया एव ग्रहणात् । तस्य व्याकरणमात्रपरत्वात् । तत्रापि "नपुंसके भावे क्तः" इत्यादावेव तथा, नतु "तस्य भावस्त्वतलौ" इत्यादाविति स्पष्टम् । किञ्च भावनाया धात्वर्थत्वे मुख्यविशेष्यत्वं न स्यात्, प्रत्ययार्थप्राधान्यभङ्गापत्तेः । क्वचित्तत्परित्यागेऽपि उत्सर्गे पक्षपातस्य युक्तत्वात् । नच भावनायास्तिङर्थत्वे कृदन्तेषु तत्प्रतीतिर्न स्यादिति वाच्यम् । धात्वर्थकारकैस्तत्सिद्धेः ।
तदुक्तम्---
धात्वर्थकारकैरेव गुणभूतोऽवगम्यते ।
भावनात्मा कृदन्तेषु तस्मान्नवाभिधीयते ।।
अत एव भावनाप्रधानत्वादाख्यातेषु तत्सम्बन्धादेव गुणभूतकारकप्रतीतिसिद्धेर्न कर्तृकर्मणोरभिधानम् । नच स्वार्थफलव्यधिकरणव्यापारवाचित्वरूपसकर्मकत्वानिर्वचनानुपपत्तिः । तत्र हि वस्तुतः फलव्यधिकरणो यो व्यापारस्तद्वाचित्वं सकर्मकत्वम्, उत फलव्यधिकरणत्वेन व्यापारवाचकत्वम् । नाद्यः । पच्यादेरपि फलाविवक्षायामकर्मकत्वाङ्गीकारात् । तत्र वस्तुतः फलव्यधिकरणत्वस्याभावात् । नान्त्यः । अनुभवविरोधात् । नच सर्वदाऽकर्मकस्यैव वारणीयत्वान्न पूर्वोक्तातिव्याप्तिरिति । तादृशाकर्मकादिलक्षणस्यानुपयुक्तत्वात् । "लः कर्मणि भावे चाकर्मकेभ्यः" इत्यकर्मकग्रहणेनाविवक्षितकर्मकाणामपि ग्रहणस्येष्टत्वात् । `नेह पच्यते' इत्यादौ भावलकार इति हरदत्तादिभिरुक्तत्वात् । `पीता गावो' `भुक्ता ब्राह्मणाः' `कृतपूर्वी कटम्' `गतं तिरश्चीनम्' इत्यादौ ग्रन्थकारैर्भावे क्तप्रत्ययव्याख्यानाच्च । ननु गतिबुद्ध्यादिसूत्रे गत्यर्थाकर्मकेति सूत्रेच अविद्यमानकर्मकाणामेव ग्रहणं देवदत्तेन पाचयतीति तृतीयानुरोधात्, दत्तवान्पक्ववानित्यर्थे दत्तः पक्व इत्यादेरापत्तेश्चेति चेत् । तर्हि तदननुगमतादवस्थ्यम्, तस्मादविवक्षाविरहविशिष्टकर्मसाकाङ्क्षधातुत्वमेव सकर्मकत्वं तदभावश्चाकर्मकत्वम् । पच्यादीनां स्वरूपेण कर्मसाकाङ्क्षत्वेऽप्यविवक्षादशायामकर्मकत्वादविवक्षाविरहेति ।
एतेन कृञो यत्नार्थकत्वेयतिवदकर्मकत्वापत्तिरिति निरस्तम् ।
तथाहि---आकाङ्क्षा समभिव्याहारात्मिका शब्दधर्मः । तेनार्थ्यैक्येऽपि घटः कर्मत्वमित्यादावनाकाङ्क्षत्वम् । घटमित्यादौ च साकाङ्क्षत्वम्, तद्वदेव यतेः कर्मानाकाङ्क्षा कृञश्च तदाकाङ्क्षेत्युपपत्तेः । आस्यादिधातूनां च स्वरूपेण अकर्मकत्वेऽपि मासादिकालयोगे तदाकाङ्क्षत्वात्सकर्मकत्वम् । अत एवैकस्यैव ग्रन्थदातोश्चैत्रनिष्ठव्यापारमादाय सकर्मकत्वं पुष्पनिष्ठव्यापारमादायत्वकर्मकत्वमित्यभ्युपगमः ।
अथ भावयति घटमितिवद्भवति घटमित्यपि स्यात् । दृष्टान्ते णिचा दार्ष्टान्तिके चाख्यातेन व्यापारबोधाविशेषात् । नच प्रयोजकव्यापारो णिजर्थः, कर्तृव्यापारस्त्वाख्यातार्थ इति विशेष इति वाच्यम् । त्वद्रीत्या कारकचक्रप्रयोक्तुरेव कर्तृत्वेन घटस्यातथात्वात् । नच यस्यैवान्यापेक्षयाऽऽख्यातोपात्तव्यापारसमवायः स कर्ता इति बाधाध्याये व्यवस्थितत्वाददोष इति वाच्यम् ।
करोतिः क्रियमाणेन न कश्चित्कर्मणा विना ।
भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ।।
करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः ।
भविता तमपेक्ष्याऽथ प्रयोज्यत्वं प्रपद्यते ।।
तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावनां भावनाविदः ।। इति ।
भावार्थाधिकरणे भट्टपादैर्भावनाया निरूपितत्वात् तदनाश्रयस्य कर्तृत्वानुपपत्तेः । नच धातूपात्तव्यापाराश्रयत्वमेव कर्तृत्वमिति वाच्यम् । व्यापारस्य धात्वर्थत्वसिद्धौ भावनायास्तिङर्थत्वानुपपत्तेरिति चेन्न ।
अनुकूलव्यापारे शक्तिपक्षे हि अनुकूलत्वं जनकत्वम् प्रयोजकसाधारणं वा । नाद्यः । फलजनकशरीरगतक्रियाविशेषोपक्षीणस्यात्मनिष्ठप्रयत्नादेरन्यथासिद्धस्याऽसङ्ग्रहापत्तेः । नान्त्यः । कृष्यादिसाधारण्यात् । नच यत्नत्वाधः सन्तापनत्वादीनां तत्तद्रूपेण शक्यतावच्छेदकत्वाङ्गीकारान्नातिप्रसङ्गः । तथापि पचति पाके यतते इत्यादिविवरणाद्यत्नादीनां धात्वर्थबहिर्भावस्य दुर्वारत्वात् । नच घञादियोगे धातोः फलमात्रमर्थः । सामान्यसामग्रीमर्यादया तद्बोधापत्तेः । घञादिसमभिव्याहारस्य तत्प्रतिबन्धकत्वे गौरवात् । तिबादिसमभिव्याहृतधातुत्वस्य शक्ततावच्छेदकत्वे गौरवात् । तिबादिसमभिव्याहृतधातुत्वस्य तत्प्रतिबन्धकत्वे गौरवात् । तिबादिसमभिव्याहृतधातुत्वस्य शक्ततावच्छेदकत्वे कार्यकारणभावद्वयमवच्चेदकगौरवं तत्र व्यापारबोधानुभवविरोधश्च । स्तोकं पाक इत्यस्योपपादनविरोधश्च । नच तत्र विवक्षाविरहादेव यत्नबर्हिभावः । देवदत्तः पचतीत्यत्र विवक्षाध्रौव्यात् । अन्यता तस्य कर्तृत्वानुपपत्तेः । धातूपात्तव्यापारवत एव त्वन्मते तत्त्वात् । अत पचतीत्यत्र भासमानो यत्नोऽवश्यं पच्यर्थाद्बहिः कार्यः । स एवाख्यातार्थः । विवरणवेलायां भासमानस्य तस्य परिशेषादाख्यातवाच्यत्वकल्पनात् । तत्रापि रथो गच्छतीत्यादेरनुरोधादनुकूलव्यापारवाचिणिजन्तभूधातुना विवरणात्, सङ्ग्राहकलाघवाच्चानुकूलव्यापारे एव शक्तिः, यत्नस्यापि तद्रूपेण सङ्ग्रहादिति मीमांसकाः ।
मण्डनमिश्रानुयायिनस्तु---फलमात्रं धात्वर्थः, अनकूलव्यापारो व्यापारमात्रं वाऽऽख्यातार्थः । जन्यजनकभावः संसर्गलभ्यः । लडाद्यर्थो वर्त्तमानत्वादि लिङर्थश्चेष्टसाधनत्वादि व्यापार एवान्वेति । आख्यातजन्यवर्त्तमानत्वप्रकारकबोधे तज्जन्यव्यापारोपस्थितेर्हेतुत्वकल्पनात् ।
नच व्यापारविगमे फलसत्त्वे पाको विद्यते इति स्यादिति वाच्यम् । भावार्थघञादेरनुकूलव्यापारार्थत्वात् । अत एव व्यापारसत्त्वे फलानुत्पत्तिदशायां पाको भविष्यतीति न प्रयोगः । नापि घटभूतलयोर्मिथः संयोग इतिवन्मिथो गमनमित्यादि । संयोग इत्यादौ तु घञादेः प्रयोगसाधुतामात्रम्, धात्वर्थमात्रप्रतीतेः । व्यापाररहितेऽपि वृक्षादौ संयुज्यते इत्यादिव्यवहारात्तत्र तिङोऽपि न व्यापारोऽर्थ इति न सकर्मत्वम्, आश्रयत्वस्यैव तत्र तिङर्थत्वात् । नचैवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वं ग्रामादेरनुपपन्नम् । प्रत्ययोपनीतपरसमवेतव्यापारजन्यधात्वर्थफलशालित्वस्य कर्मत्वात् । प्रत्ययोपनीते परसमवेते च व्यापारस्य विशेषणम् । भूमिं प्रयाति विहग इत्यत्र विहगादेरपि स्वापेक्षया भिन्नो यः स्वावयवः तत्समतेव्यापारजन्यधात्वर्थफलसंयोगवत्त्वात्स्वात्मानं प्रयातीत्यादिवारणाय प्रत्ययोपनीतेति । तादृशस्वार्थव्यापारस्तु न परसमवेतः । गमनात्मकव्यापारस्यैव प्रत्ययोपनीतत्वात्, तस्य च परसमवेतत्वाभावात् । गमनजन्यविभागशालिपूर्वदेशेऽतिव्याप्तिवारणाय धात्वर्थेति । तण्डुलं पचतीत्यत्र आधेयत्वं द्वितीयार्थः, फले धात्वर्थे तदन्वयः । फलस्य जनकत्वसंबन्धेनाख्यातार्थव्यापारे तस्याश्रयत्वेन चैत्रेऽन्वयः । तण्डुलवृत्तिविक्लित्तिजनकव्यापारवांश्चैव इति धीः । चैत्रेण पच्यते तण्डुल इत्यत्र तृतीयार्थवृत्तित्वस्य तिङर्थे व्यापारे, तस्य जन्यत्वसम्बन्धे धात्वर्थे फले, तस्याश्रयत्वेन तण्डुलादावन्वयः । चैत्रवृत्तिपरसमवेतव्यापारजन्यफलवांस्तण्डुल इति धीः । फलव्यापारयोर्विशेषणविशेष्यभेदेन कर्तृकर्मव्यवहारः ।
अथ सुबर्थस्य धात्वर्थेऽन्वयः क्लृप्त इति तस्याख्यातान्वयकल्पनमयुक्तम्, एवम् आख्यातार्थव्यापारस्य धात्वर्थविशेषणत्वमपि इति विभाव्यते, तर्हि तृतीयाया व्यापार एवार्थः, तत्र वृत्तित्वं प्रकृत्यर्थस्य संसर्गः, व्यापारस्य जन्यत्वेन धात्वर्थफलेऽन्वयः, तस्य निरूपितत्वसम्बन्धेन तिङर्थेऽधिकरणत्वे तस्य तण्डुलेऽन्वयः ।
कर्मकृतः फलाश्रयः, कर्तृकृतश्च व्यापाराश्रयोऽर्थः, तण्डुलः पक्वः चैत्रो गन्ता इत्यादिसामानाधिकरण्यानुरोधात् । कर्मप्रत्यये सुबर्थ एव व्यापारे वर्त्तमानत्वान्वयः । नच भिन्नपदोपात्तान्वयेऽतिप्रसङ्गः । फलबोधकधातुसमभिव्याहृतकर्माख्यातजन्यवर्त्तमानत्वबोधे तृतीयाजन्यव्यापारोपस्थितेर्हेतुत्वात् । पक्ववानित्यादौ कर्तृप्रत्यये तु एकदेशे व्यापार एव तदन्वयः ।
यद्वा व्यापारे आश्रये च खण्डशक्तिः विशिष्टमन्वयलभ्यम् । अत एव एवकारस्य अन्ययोगे व्यवच्छेदे च शक्तिः । अन्ययोगप्रतियोगिकव्यवच्छेदशक्तौ पार्थ एव मनुष्य इत्यादेः प्रसङ्गात् । पार्थान्ययोगो घटश्चेत्युभयाभावस्य मनुष्यत्वे सत्त्वात् । नचान्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदः शक्यः । वस्तुमात्रस्य यत्किञ्जिदपेक्षयाऽन्यत्वात् अप्रसिद्धेः । नचान्यसंयुक्तात्वावच्छिन्नप्रतियोगिताव्यवच्छेदोऽन्यसमवेतत्वावच्छिन्नव्यवच्चेदश्च ध्वंसादौ प्रसिद्ध इति वाच्यम् । पार्थ एव धानुर्धर इत्यादौ बाधितत्वात् । पार्थस्यापि कुतश्चिदन्यत्वेन तत्समतेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य धतुर्धरत्वे विरहात् । पार्थान्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य अन्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदाद्भिन्नतया तदप्रत्ययप्रसङ्गाच्चा एवं च नीलो घटो नास्तीत्यत्र नीलान्वितस्य घटस्याभावेऽन्वयात् नीलघटत्वावच्छिन्नप्रतियोगित्वं संसर्गः तथा पार्थाद्यन्वितस्यान्ययोगस्य व्यवच्छेदेऽन्वयात्पार्थान्ययोगत्वावच्छिन्नप्रतियोगिताकत्वं संसर्ग इति बोध्यम् । नच प्रतियोगितामात्रेणान्ययोगविशिष्टो व्यवच्छेद एवार्थोऽस्तु व्युत्पत्तिबलादुक्तव्यवच्छेदलाभसम्भवादिति वाच्यम् । वाक्यार्थलाभ एव व्युत्पत्तेस्तन्त्रतया पदार्थस्य तदलभ्यत्वात् । नचैकपदार्थयोः कथं मिथोऽन्वय यति वाच्यम् । आख्यातार्थकृतौ कालान्वयस्य परैरभ्युपगमादित्याहुः ।
केचित्तु व्यापारमात्रं धात्वर्थः । गतो गम्यते ग्राम इत्यादौ फलस्य कृदात्मनेपदाभ्यामेव लाभात्, ग्रामङ्गच्छति, ग्रामस्य गन्तेत्यादावपि द्वितीयादेः फलजनकत्वमर्थः । आदेशशक्त्यनङ्गीकारे तु तत्स्मारितद्वितीयाया एव सोऽर्थः ।
यद्वा षष्ठ्याः कर्मत्वे लक्षणा फलं चाधिकरणत्वसंसर्गेणनामार्थेऽन्वेति ।
यद्वा फलमात्रमर्थो जनकत्वं संसर्गः । नचैवं ग्रामं गच्छति त्यजतीत्यादौ फलसामान्यस्य द्वितीयादिना लाभेऽपि नियतसंयोगविभागादिलाभो न स्यात् । ततश्च गृहाद्ग्रामं गच्छति चैत्रे ग्रामस्येदं गमनं न तु गृहस्येति न स्यात्‌ गृहवृत्तिफलजनकत्वसामान्याभावस्य तत्रासत्त्वादिति वाच्यम् । गम्यते ग्राम इत्यत्र फलमात्मनेपदार्थ इति वदतामपि फलविशेषप्रत्ययानुपपत्तिप्रसङ्गात् । नच तदवच्छिन्नव्यापारवाचिधातुसमभिव्याहारात्फलविशेषो लभ्यते यथेष्टसाधकत्ववाचकाद्विधेरेव स्वर्गादिपदसमभिव्याहारात्स्वर्गजनकत्वम् । प्रतीतिस्त्विष्टत्वफलत्वाभ्यां स्वर्गत्वसंयोगत्वाभ्यां वेत्यन्यदेतदिति वाच्यम् । गमिसमभिव्याहारे द्वितीयायाः संयोगः, त्यजिसमभिव्याहारे च विभाग एवार्थ इत्यत्र तयोस्तापर्यग्राहकत्वसम्भवादित्याहुः ।
नैयायिकास्तु फलावच्छिन्नव्यापारवाचित्वमेव धातोः सकर्मकत्वम् । त्यजेर्विभागावच्छिन्ने, गमेश्च संयोगावच्छिन्ने स्पन्दे शक्तत्वात् । धात्वर्थजन्यफलशालित्वमात्रस्य कर्मत्वे पूर्वदेशे गमेः कर्मत्वम्, उत्तरस्मिन् त्यजेः, स्पन्देश्च पूर्वापरदेशयोः स्यात् । उक्तरीत्या तु स्पन्देर्व्यापारमात्रे शक्तिर्नतु फलावच्छिन्ने इति न सकर्मकत्वम् । नचैवं जानात्यादेः सकर्मकत्वं न स्यादिति वाच्यम् । तत्र तद्व्यवहारस्य भाक्तत्वात् । नचैवं तत्र द्वितीयादिकं न स्यादिति वाच्यम् । "कर्मणि द्वितीया" इत्यनुशासनं हि तत्समभिव्याहारमपेक्ष्य प्रवर्त्तते "तेन रक्तं रागाद्" इतिवत्, तथा च पच्यादियोगे धात्वर्थतावच्छेदकफलशालिनि तण्डुलादौ द्वितीयादिकं विदधाति, जानात्यादियोगे धात्वर्थविषये घटादौ, स्पन्दादियोगे तूक्तान्यतरप्रकाराभावान्न कुत्रचिदिति व्यवस्थोपपत्तेः । "सकर्मकधातुयोगे द्वितीया" इत्येतादृशानुशाभावात् । तदेवं विवादे कथं विशिष्टा भावना धात्वर्थ इति प्राप्ते सिद्धान्तमाह भाष्यकारः---
`किं करोति' इति क्रियासामान्यविषयकप्रश्ने पचतीत्यादेरुत्तरस्य प्रयोगात् धात्वर्थ एव व्यापारः ।
ननु किं विषयकयत्नवानित्येव प्रश्नार्थः, कृञो यत्नार्थत्वात् ।
तदुक्तं कुसुमाञ्जलौ---
कृताकृतविभागेन कर्तृरूपव्यवस्थया ।
यत्न एव कृतिः पूर्वा परस्मिन्सैव भावना ।
क्रियाजन्यत्वाविशेषेऽपि यत्नजन्याजन्यत्वप्रतिसन्धानात्पटाङ्कुरयोः कृताकृतव्यवहारात्, ज्ञात्रादिवदाश्रयपरतृजन्तकर्तृपदस्य यत्नाश्रयबोधकत्वाच्च । क्रियायास्तदनुकूलव्यापारस्य वा कर्तृपदार्थत्वे तदाश्रयं करणमात्रं वा कर्त्तृपदार्थः स्यात् । अत एव पचतीत्यस्य पाकं करोतीति कृञा तिङर्थस्यैव विवरणम् ।
तदुक्तम्---
भावनैव हि यत्नात्मा सर्वाख्यातस्य गोचरः ।
तया विवरणध्रौव्यादाक्षेपानुपपत्तितः ।। इति ।
इति चेत् ।
मैवम् । कृञो यत्नमात्रार्थकत्वे 'क्रियते घटः स्वयमेव' इति कर्मवद्भावानुपपत्तेः । कर्मस्थक्रियेष्वेव तद्विधानमिति वक्ष्यमाणत्वात् । अन्यथा `ज्ञायते घटः स्वयमेव' इत्यस्यापि प्रसङ्गात् ।
तदुक्तम्---
निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते ।
नतु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ।।
प्राप्यत्वं च क्रियाकृतविशेषवत्तयाऽनुपलभ्यमानत्वमिति वक्ष्यते । तस्मादुत्पादनैव कृञर्थः । उत्पात्तिमत्तयाच घट उपलभ्यते एव `अयं घटः केनचित्कृतः' इति घटदर्शने ज्ञानोदयात् ।
नच घटोपादानविषयककृतौ साध्यतया घटस्यापि विषयत्वात् तद्व्यतिरेकेण च घटानुत्पत्तेर्यत्नवत्तयाऽपि घट उपलभ्यते एव, साक्षात्कारस्य त्वयाऽप्यभिदानादुत्पत्तेरतीन्द्रियत्वात् इति वाच्यम् ।
तदपेक्षया उत्पत्तेरेव तद्विषयत्वौचित्यात् । अन्यथा फलज्ञानस्यापि प्रवृत्तिप्रयोजकतया तद्विषयत्वस्याप्युत्पत्त्या आक्षेपात् `ज्ञायते घटः स्वयमेव' इत्यादिकमपि स्यात् । नच तत्रोत्पत्तौ कृञो लक्षणा । उत्पादनाया उपाधिरूपतया शक्यतावच्छेदकत्वगौरवाद् । अत एवोत्पादना तिङर्थ इति रत्नकोषमतमपि मणिकृतैवमेव निरस्तम् । नच लक्ष्यतावच्छेदक इव शक्यतावच्छेदकेऽपि गौरवं न दोष इति शङ्क्यम् । लक्षणायाः शक्तिकल्पनोत्तरकल्प्यतया तत्र लाघवानादरणात् । अन्यथा निषादस्थपत्यधिकरणविरोध इति चेत् ।
न । उक्तप्रयोगरूपसाधकेन उत्पादनायामेव शक्तिपरिच्छेदात् ।
एवं किङ्करोतीत्यत्र कृञो यत्नार्थकत्वे प्रश्नवाक्ये तिर्ङ्ययत्नानन्वयस्य वाच्यतया पचतीति उत्तरानुपपत्तिः । धातोः प्रश्नविषयार्थानवबोधात् ।
तथाहि---`किमेकं दैवतं लोके' इत्यादौ `एकदैवतत्वव्याप्यधर्मप्रकारकज्ञानं ममेष्टसाधनम्' इति ज्ञानात् `तादृशज्ञानं मम जायताम्' इतीच्छया उक्तवाक्यप्रयोगः । तस्य च `एकदैवतत्वव्याप्यधर्मो मम जिज्ञासानिवृत्तिः, विष्णुत्वप्रकारकज्ञानोदयात् । तस्यैव विष्णुत्वांशे एकदेवतत्वव्याप्यधर्मप्रकारकज्ञानत्वरूपेणेच्छाविषयत्वात् । अन्यज्ञानादन्येच्छानुत्पत्तेः । सिद्धेऽपि तदनुत्पत्तेश्च । उत्पादनार्थत्वे तु व्यापारसामान्यविषयकप्रश्ने तद्विशेषविषयकोत्तरोपपत्तिरिति ।
नन्वेवं अस्ति भवतीत्यादिषु उभयांशविरह इति चेत् ।
मैवम् । तत्रापि क्रियासद्भावात् ।
तदुक्तम् ।
अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना ।
अन्यत्राशेषभावात्तु सा तथा न प्रतीयते ।
धर्म्यंशे धर्मिभागे, भाव्ये भाव्यतया विवक्षायाम् । भूधातोरुत्पत्तिस्थित्युभयार्थकत्वात् । "तत्र भवः" "तत्र जातः" इति भेदनिर्देशात् अत एव तत्र लडादिप्रयोगः, कालस्य क्रियात्मकत्वात् ।
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । इति,
कालानुपाति यद्रूपं तदस्तीति प्रतीयते । इति---
वाक्यपदीयोक्तेः ।
नचैवं `घटं करोति' इत्यत्रेव `घटो भवति' इत्यादावपितत्प्रतीतिः स्यादिति वाच्यम् । अशेषभावाद्भावनाफलयोरेकनिष्ठत्वाद्भावना स्पष्टं न प्रतीयते इत्युत्तरार्द्धार्थात् ।
नचैवं `किङ्करोति' इति प्रश्ने `पचति' इत्यादिवद् `अस्ति' इत्यादिकमपि उत्तरं स्यादिति वाच्यम् । सुस्थतया निश्चिते प्रश्नस्य विशेषविषयकत्वज्ञानात् तदभावेऽपि आसन्नविनाशधर्मिकयथोक्तप्रश्ने अस्तीत्युत्तरस्य सर्वाभिमतत्वात् ।
ननु `दिगस्ति' `आत्मा भवति' इत्यादो उत्पत्तेर्बाधिततया कथं भावना वाच्येति चेन्न । तत्तत्क्षणविशिष्टत्वेन तेषामप्युत्पत्तेः ।
यद्वा स्वरूपधारणमेव फलं तदाश्रयतैव साध्यत्वेनाभिधीयमाना व्यापारः । तथाचात्माऽऽदिः स्वरूपधारनं करोतीत्यर्थः । अस्तीत्युत्पन्नस्यात्मधारणमुच्यते इति निरुक्तकारोक्तेः ।
आत्मानमात्मना विभ्रदस्तीति व्यपदिश्यते । इति---
वाक्यपदीयोक्तेश्च । नचैवं सकर्मकत्वापत्तिः । जीवत्यादिवदन्तर्भूतकर्मकत्वात् ।
यद्वा अस्तित्वमेव व्यापारः, अवच्छेदकतारूप व्याप्तिः फलम् । अत एव `मासमास्ते इत्यादौ धात्वर्थतावच्छेदकफलशालित्वरूपं मुख्यमेव कर्मत्वमिति भाष्ये द्वितीये वक्ष्यते ।
अथवा क्रियावाचित्वावश्यकत्वेऽपि फलवाचित्वानावश्यक्तवात्सत्ताऽऽदिरेव क्रिया । अत एव `पश्यति भवः स्वयमेव' `दर्शयते भवः' इत्यादौ निवृत्तप्रेषणे विषयतारूपफलस्यैव धात्वर्थत्वं क्रियात्वं चेति स्वीकारः ।
एवं पच्यते ओदनः स्वयमेवेत्यादौ ।
एकदेशे समूहे वा व्यापाराणां पचादयः ।
स्वभावतः प्रवर्त्तन्ते तुल्यरूपं समाश्रिताः ।। इति---
वाक्यपदीयानुसारेण विक्लित्तिमात्रं धात्वर्थः । तद्रूपक्रियाश्रयत्वात् ओदनादीनां कर्तृत्वमिति व्याचक्षते ।
भाष्येतु निरुक्तमप्युदाहृतम्---"षड्‌ प्रकाराः तेषु चास्तिः पठित इति तस्यापि क्रियात्वम् ।
अथवा भावस्य सत्ताया एते प्रकाराः । सत्तैवानेकक्रियात्मिका साधनसम्बन्धाध्यवसीयमानसाध्यरूपा जन्मादिरूपतया भासते इति ।
तथाच जातिसमुद्देशे हरिणोक्तम्---
सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।।
इत्युपक्रम्य,
प्राप्तक्रमविशेषेषु क्रिया सैवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ।। इति ।
व्यापारविशेषाणां साध्यत्वात्क्रमिकत्वाच्च तदुपहितसत्तायास्तद्योग इत्यर्थः ।
स्यादेतत् । जानाति, इच्छति, यतते, द्वेष्टि, इत्यादौ अवच्छेदकं फलं नास्त्येव, तथाच तत्र कथं सकर्मकत्वम्, वैयाकरणानां स्वार्थफलव्यधिकरणव्यापारवाचित्वस्यैव तत्त्वात् । नच ज्ञानजन्यं विषयताख्यमेव फलं घटनिष्ठमिति वाच्यम् । ज्ञानजन्यविषयतायां मानाभावात् । अतीतादौ तदुत्पत्तेरशक्यवचनत्वात् ।
तदुक्तं कुसुमाञ्जलौ---
स्वभावनियमाभावादुपकारोऽतिदुर्घटः ।
सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ।।
पूर्वार्द्धस्यायमर्थः---विषयस्य ज्ञानेन सह पूर्वमसम्बन्धे घटज्ञानं पटेऽपि ज्ञाततां जनयेत् असम्बद्धत्वाविशेषात् । स्वभावादेव तज्ज्ञानं पटीयमिति चेन्न । ज्ञाततास्वीकारवैयर्थ्यात् । नच क्रियात्वात्कर्मनिष्ठफलजनकत्वानुमानम् । इच्छति नश्यति इत्यादौ व्यभिचारात् । न च `घटो ज्ञातः' इति प्रत्यक्षं मानम् । ज्ञानवैशिष्ट्यस्यैव तद्विषयत्वात् ।
तदुक्तम्---
अनेकान्तादसिद्धेर्वा नच लिङ्गमिह क्रिया ।
तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ।। इति ।
इष्टतादीनामपि सिद्धिप्रसङ्गादित्यर्थः ।
अत्र वदन्ति---आवरणभङ्गजनकज्ञानं ज्ञानानुकूलव्यापारोवा जानातेः, इच्छाद्वेषानुकूलव्यापार इच्छतिद्विष्यादीनामर्थ इति सकर्मत्वमुपपन्नमिति ।
अद्वैतचन्द्रिकाकृतस्तु---नैतद्युक्तम् । आवरणभङ्गरूपफलस्य परोक्षज्ञानविषयनिष्ठत्वाभावात् । परोक्षवृत्त्याऽसत्त्वापादकस्यैवावरणस्य निवृत्तेः । तत्र वृत्तेर्विषयसम्बन्धाभावेन विषयनिष्ठाभानावरणभङ्गाभावात् । प्रमातृमात्रनिष्ठवृत्त्या प्रमातृनिष्ठावरणभङ्गस्यैव सम्पादनात् । परंपरया फलसम्बन्धमादाय सकर्मकत्वोक्तावकर्मकस्यापि तदापत्तेः । तस्यापि फलव्यापारयोर्धातुरित्यादिना त्वया स्ववाच्छव्यापारसमानाधिकरणफलवाचकत्वोक्तेः । सुखादिस्थले आवरणस्यैवाप्रसिद्धत्वाच्च । अत एव ज्ञानमपि न फलम् । चैतन्यस्य नित्यतया फलत्वायोगात् । वृत्तिज्ञानस्य परोक्षस्य विषयनिष्ठत्वाभावात् । विषयतासम्बधस्य वृत्त्यनियामकत्वात् । सुखादिस्थले तदसम्भवाच्च ।
यदपि विषयताजनकज्ञानादिकं जानात्यादेरर्थ इति ।
तदपि न । विषयताया ज्ञानाद्यतिरिक्तत्वेऽपि ज्ञानादिजन्यत्वे मानाभावात् । ज्ञानादिपूर्वं विषयतासत्त्वेऽपि ज्ञानाद्यभावादेवोपपत्तेः । ज्ञानादिपूर्वं च स्वोत्पत्तिद्वितीयक्षणे स्वकार्योपधानासम्भवात्स्वोत्पत्तिक्षणे सविषयकत्वाभावात् । तस्मादेवं वाच्यम्---असत्त्वापादकाज्ञाननिरूपकत्वाभावस्य यदधिकरणत्वं तत्प्रयोजकचिदेव जानात्यर्थः । उक्ताधिकरणत्वरूपफलवत्त्वेन घटादेर्ज्ञानादिकर्मता । सुखादिनिष्ठे तादृशाधिकरणत्वेऽपि सुखाद्युपहितरूपेण चित् प्रयोजिका । सुखादेरसत्त्वदशायां तादृशचिदभावे उक्ताधिकरणत्वाभावात्तद्भावे तद्भावाच्च । न च यथोक्तनिरूपकत्वाभावप्रयोजकचिदेव ज्ञाधात्वर्थोऽस्त्विति वाच्यम् । घटाकारवृत्तिदशायां प्रमातारं जानातीति प्रसङ्गात् । तादृशवृत्तिप्रयुक्तस्योक्तनिरूपकत्वाभावस्य प्रमातरि सत्त्वात् । उक्तनिरूपकत्वाभावाधिकरणत्वोक्तौ तु प्रमातृनिष्ठस्य तस्य स्वतः सिद्धतया न वृत्त्यवच्छिन्नचित्प्रयोज्यत्वम् इति न तदापत्तिः, घटादौ विघ्नाभावाधिकरणत्वस्य मङ्गलाप्रयुक्तत्ववत् । एवं च वृत्त्युपहितरूपेण सुखाद्युपहितरूपेण च तादृशप्रयोजकत्वाद् वृत्त्यवच्छिन्नचितो जानात्यर्थत्वम् इति ग्रन्थसङ्गतिः ।
यदितु तार्किकादिरीत्या साक्षात्करोतिजानात्योर्मुख्यसकर्मकत्वं नाभ्युपेयते तत्र ज्ञाधातोः शक्यता शुद्धचिद्व्यक्तावेव निरवच्छिन्ना, शक्यनानात्व एवानुगमार्थमवच्छेदकस्वीकारात् । घटं जानातीत्यादौ तदीयासत्त्वापादकाज्ञानविरोधित्वसम्बन्धेन घटादेर्ज्ञाधात्वर्थेऽन्वयः । तदीयत्वं च स्वावच्छिन्नचिद्विषयिताविषयितान्यतररूपस्तत्सम्बन्धः । स्वावच्छिन्नचिद्विषयित्वमात्रनिवेशे ब्रह्म जानातीत्यादावनुपपत्तिः । ब्रह्मणश्चित्स्वरूपत्वेन सावच्छिन्नत्वाभावात् । विषयित्वमात्रनिवेशे च घटं जानातीत्यादावनुपपत्तिः । घटादेर्जडत्वेनावरणकृत्याभावात् । घटादिविषयकत्वस्याज्ञानेऽनङ्गीकारात् । अत उभयमुपात्तम् । अभानापादकाज्ञानसत्त्वेऽपि परोक्षवृत्तिकाले घटं जानामीत्याद्यनुभवादसत्त्वापादकेतीत्याहुः ।
इदं च तर्क्ककौतूहले विचारितमस्माभिरिति तिष्ठत्वतिविस्तरः ।।

उपदेशेऽजनुनासिक इत् 2 ।

उपदिश्यतेऽनेनेत्युपदेशः । "कृत्यल्युटो बहुलम्" इति वाबाहुलकात्करणे घञ्‌ । नच तदाश्रयणे मानाभावः । भाष्योक्तेरेव तथात्वात् । सच धातुप्रातिपदिकपाठे, सूत्रवार्त्तिके च । एतैर्हि शब्दा उपदिश्यन्ते । तत्रानुनासिकोऽच्‌ इत् संज्ञा स्यात् । नच "पुंसि संज्ञायां घः प्रायेणम्" इति घप्रत्यय एवास्त्त्विति वाच्यम् । संज्ञात्वाभावात् । शास्त्रकारसङ्केतविरहात् । नच प्रायेण संज्ञायमिति व्याख्यानाद् असञअज्ञायामपि तदुपपत्तिः । प्रायसंज्ञाग्रहणयोर्विधेयविशेषणत्वमपहाय परस्परं विशेषणविशेष्यभावानौचित्यात् । तदुक्तं भाष्ये "नह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम्" इति । उपाधिविशेषणयोश्च वाच्यत्वावाच्यत्वाभ्यां विशेषः । यथा दृतिहरिशब्देन पशुरभिधीयते इति पशुरुपाधिः । गार्गिकया श्लाघते इत्यत्र श्लाघाया वुञाऽनभिधानात्सा विशेषणम् ।
तदुक्तम्---
अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः ।
अनुपाधिरतोऽन्यः स्यात् श्लाघादिविशेषणं यद्वत् ।।
अनयोश्च क्रियाभावशब्दयोरिव क्कचित्पर्यायत्वं क्कचिद्भेदेन व्यवहार इति द्रष्टव्यम् । तस्माद्बाहुरलकमेव स्थितमिति मूलानुयायिनः ।
एतेनोपदेशपदार्थविचारभाष्यस्योपक्रमस्थस्य न्यायप्राप्तानुवादकस्य प्राबल्यानुमानेनोक्तार्थे भाष्यकृतस्तात्पर्यं नास्तीति परास्तम् । उत्तरपक्षत्वेन साक्षादुपन्यस्ते तात्पर्याभावानुमानस्य बाधितत्वात् ।
यदप्युक्तम्---भाष्यकारस्य करणे घञुक्तिः किं पाणिनीयव्याकरणसापेक्षा उत तन्निरपेक्षा ।
नाद्यः । उक्तन्यायेन घञसिद्धेः । नान्त्यः । पाणिनीयसूत्रोपन्यासस्यासङ्गततापत्तेः । तस्मान्न्यायविरुद्धे भाष्यस्य न तात्पर्यमिति ।
तदप्यसत् । बहुलग्रहणानुसारेण सूत्रतात्पर्यस्यैव भाष्यकृता स्फुटीकृतत्वात् । अन्यथा बहुलग्रहणवैयर्थ्यापत्तेः । प्रत्याहारशब्देऽधिकरणे घञिति स्वयमेवोक्तत्वाच्च । अत एवासन्यायोपन्यासपूर्वकस्मृतिसाम्यमप्यपास्तम् । भावघञन्तत्वपक्षे उच्चारणक्रियायामन्त्यत्वासम्भवेन शब्दद्वारकस्यान्त्यत्वस्य ग्रहणे गौरवाच्च । अन्यथा प्रतिज्ञासमधिगम्ये प्रतिज्ञाशब्दस्य लक्षणेति वदतां कर्मण्यङा दूषणानुपपत्तेश्च ।
अन्ये त्वाहुः---वासरूपन्यायेन करणेऽपि घञ्‌ सुवचः । नच क्तल्युट्‌तुमुन्‌खलर्थेषु वासरूपविधिर्नास्तीति वाच्यम् । भावानवबोधात् । तत्र हि क्तल्युटौ नपुंसके भावे विहितावेव गृह्येते, परस्परसाहचर्यात् । नतु भूतवर्त्तमानक्तौ करणाधिकरणल्युटौ च । तेन "निष्ठा" इतिभूतक्तविषये अशयिष्ट अभविष्ट इत्यादौ लुङ्‌ सिद्धः । विधिसामर्थ्यात्समाधाने गौरवात् । तथा "ञीतः क्तः", "मतिबुद्धिपूजार्थेभ्यश्च" इति वर्त्तमानक्तविषये क्ष्वेदते, क्ष्विद्यति, मेदते, मेद्यति, स्वेदते, स्विद्यति, इच्छति, जानाति पूजयतीत्यादौ लुट्‌, तद्भिन्नधातुषु लड्‌विधेश्चरितार्थत्वात् । एवं करणल्युटो विषये उपदेशेत्यादौ, अधिकरणल्युटो विषये प्रासाद इत्यादौ घ़ञ्‌ । नचैवं धातुमात्रात्करणाधिकरणयोर्घञापत्तिः । "अभिधानलक्षणाः कृत्तिद्धितसमासाः" इति न्यायात् ।
अयमेव बाहुलकात्करणे घञं वदतो भगवतोऽप्यभिप्रायः । "कृत्यल्युटो बहुलम्" इत्यत्र ल्युट्‌पदं करणाधिकरणल्युट्‌परम्, क्वचित्कारकान्तरेऽपि भवति क्वचित्करणाधिकरणयोरपीत्यर्थकबहुलशब्दस्य तेनैव सम्बनधसम्भवात् । भावातिरिक्ते साधने करणाधिकरणयोरित्यनेनैव ल्युटो विधानेन तत्र भावल्युटो ग्रहणासम्भवात् । अत एव तत्र कृत्यग्रहणमपि कर्मार्थकतत्परम् । कारकान्तरेऽपि भवतीत्यर्थेन बहुलग्रहणेन वहुभ्यो धातुभ्यः सदा भवति कस्माच्चिद्धातोः कदाचिद्भवतीत्यर्थः । तथाच प्रकृतपरिभाषायां करणाधिकरणल्युटो ग्रहणं न भवति वैयर्थ्यादिति पर्यवसन्नम् ।
अत एव प्रत्ययसूत्रे प्रतियन्त्यर्थमनेनेति प्रत्ययः । यद्वा "पुंसि संज्ञायाम्" इति घइति अनुन्यासग्रन्थः सङ्गच्छते । बाहुलकात्परस्यापि करणल्युटोऽप्रवृत्तिपक्षे अचः सम्भवात् ।
एतेन करणल्युटा बाधितत्वादेरच् तत्र न भवस्येव उक्तपरिभाषानुरोधादिति मैत्रेयग्रन्थो निरस्तः ।
यत्तु सीरदेवेनोक्तम् तत्परिभाषायां क्तस्तावन्नपुंसकेभावे विहित एव गृह्यते ल्युटा साहचर्यात् । ल्युडपि यदि भावे विहित एव गृह्येत तर्हि तेनैव हासमित्यादेर्वारणसम्भवात् क्तग्रहणं व्यर्थमेव स्यात् । क्तग्रहणाश्रये तु ल्युट्‌ त्यक्तुं न शक्यते सकर्मकेभ्यो भावे क्तस्याभावात् । तथाच क्रग्रहणसामर्थ्यात्सामान्यविहितो ल्युट्‌ गृह्यते इति मैत्रेयोक्तं युक्तमिति ।
तन्न । ल्युट्‌सामान्यग्रहणे तत्साहचर्याद्भावे क्त एव गृह्यते इत्यस्य व्याहतत्वात् । नापि ल्युट्‌ग्रहणेन हासमित्यादिवारणसम्भवः, परस्पराप्रवृत्तिपक्षे एव परस्परेण प्रवर्त्तितव्यमित्यस्य सर्वसंमततया ल्युटोऽप्रवृत्तिपक्षे तस्य नित्यं बाधकत्वाभावेन घञो दुर्वारत्वात् ।
यदपि तेनोक्तं वृञ्छणादिसूत्रे सप्तदशप्रत्यया इति वृत्तिग्रन्थोऽनुन्यासमतेऽनुपपन्नः स्यात् । "परिमाणाख्यायां सर्वेभ्यः" इति घञोऽजपवादत्वात् ।
तदप्ययुक्तम् । प्रत्ययशब्दस्य परिमाणाख्यत्वाभावात् । नच संख्यावाचिन्युपपदे घञिति तदर्थः । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ इत्यादिभाष्योदाहरणविरोधात् । "उपपदमतिङ्‌" इति नित्यसमासप्रसङ्गादित्याहुरित्यास्तां तावत् ।
उदाहरणम् एधेत्यत्र अनुदात्ताकारस्य इत्सञ्ज्ञत्वाद् "अनुदात्तङितः" इत्यात्मनेपदम् । नच तस्मानुभवसिद्धत्वाभावः । सूत्रकृता तादृशस्यैव पाठेऽपीदानीमनुनासिकपाठस्यापभ्रष्टत्वात् । तदुक्तं प्रतिज्ञानुनासिक्याः पाणिनीया इति । एवं तत्र तत्राभियुक्तव्यवहारवशादुन्नेयम् ।
उपदेशे किम् । अभ्र आँ अपः । "आङोऽनुनासिकश्छन्दसि" इत्यनुनासिकः । अस्य शास्त्रे पाठाभावान्न संज्ञा ।
ननु "उञ ऊँ" इत्यत्रातिप्रसङ्गः, स्वरूपेणैव पठितत्वात्, विधानसामर्थस्य चोभयत्रापि अविशेषात् । नच `अनेकान्ता अनुबन्धाः" इति पक्षे अभ्र आं अटित इत्यादावादित्त्वादिडभावार्थम् इत्सञ्ज्ञापत्तिः । आङिदित्येतावताऽपि तत्सिद्धेः । अत एव दधीच्छति दधि ब्राह्मणकुलम् । दधीयतेः क्विप्यल्लोपयलोपहस्वेषु "अणोऽप्रगृह्यस्य" इत्यनुनासिकस्य "अनुनासिक" इति इत्संज्ञायां नुमापत्तिः । दधिमध्वादिषु पचतिभवतीत्यादिषु इत्कार्यं लोप एव स्यादत उपदेशग्रहणमित्यापास्तम् । "अणप्रगृह्य इद्‌" इत्येतावतैव तदुपपत्तेरनुनासिकविधानवैयर्थ्यात् । "इतश्च" इति लोपविधानवैफल्याच्च । तस्मादुपदेशपदं व्यर्थमिति चेत् ।
अत्राहुः---उत्तरार्थं तदिति । अजिति किम् । मनिनो मकारस्य मा भूत् । तथा च "अन्येभ्योऽपि दृश्यते" इति हलन्तेषु मित्त्वादन्त्यादचः परः स्यात् । अनुनासिकः किम् । चिरिणोति जिरिणोति । अत्र मा भूत् ।

हलन्त्यम् 3 ।

उपदेशेऽन्त्यं हलित्स्यात् । नचापेक्षिकन्त्यत्वमतिप्रसङ्गि । अन्त्यपदस्वारस्येन तत्तद्धातुत्वाद्युपाधिपरिछिन्ने समुदाये यदन्त्यं तस्योपादानात् । शीङ्‌ स्वप्ने । ङित्वात्तङ् । शेते । उपदेशे किम् । अग्निचित् । सोमसुत् । नच तुग्विधानसामर्थ्याम् । आगत्येत्यादौ चरितार्थत्वात् । नच क्विपः पित्त्वविधानवैयर्थ्यम् । अग्निचितावित्यादौ सार्थक्यात् । इति हरदत्तः । अन्त्यं किम् । मनिनो मकारस्य मा भूत् । वेश्म सद्म । "सर्वधातुभ्यो मनिन्‌" । सत्यामित्सञ्ज्ञायां "मिदचोऽन्त्यापरः" इत्यस्य प्रसङ्गात् ।
वस्तुतः पूर्वसूत्रेऽज्‌ग्रहणसामर्थ्यादेवात्र न दोषः । अनेन तेन वा मकारस्येत्संज्ञायां विशेषाभावात् । एवं "षः प्रत्ययस्य" इत्यादिकमप्यत्र साधकं ज्ञेयम् । "श्रोत्रियंश्छन्दोऽधीते" "क्षेत्रियच्‌ परक्षेत्रे चिकित्स्यः" इत्यादौ वाक्यार्थे पदवचनमिति पक्षे प्रकृतिप्रत्ययविभागाभावेऽपि उपदेशेऽन्त्यत्वादित्संज्ञा । सनुतर्‌ इत्यादेः स्वरादिपाठेऽपि रेफो नेत्सञ्ज्ञः, उच्चारणसामर्थ्यात् । अन्तोदात्तनिपातनानुरोधेन रित्स्वरस्य दुर्वचत्वात् ।
स्यादेतत् । "आदिरन्त्येन" इत्यस्य इत्सञ्ज्ञाधीनप्रवृत्तिकतया "हलन्त्यम्" इति सूत्रस्य च तदधीनप्रवृत्तिकतया अन्योन्याश्रयः पदार्थबोधं विना वाक्यार्थबोधस्यासंभवात् ।
अत्राहुः---हलिति योगो विभज्यते हस्य ल्‌ हल्‌ । सामीप्यं षष्ठ्यर्थः । नच तत्र विप्रतिपत्तव्यम् । "अस्तेर्भूः" इत्यत्र "अस्तेः समीपेऽनन्तरे वा" इति भाष्यदर्शनात् "ग्रो यङि" इत्यत्रानन्तर्यं षष्ठ्यर्थ इति शङ्कायास्तदारूढत्वाच्च । ब्राह्मणकम्बल इत्यादौ तु स्वस्वामिभावसंबन्धस्योत्थिताकाङ्क्षत्वात्प्रतीतिरित्युत्सर्गः । अन्यथा त्विष्टापत्तिः । अनन्तरादिषु बहुव्रीहेरेवानभिधानस्य भाष्यकारैरुक्तत्वात् । अत एव न समीपार्थे बहुव्रीहिरस्त्यनभिधानादिति सीरदेवेनाप्युक्तम् ।
यत्तु "ङेप्रथमयोरम्" "लसार्वधातुकमनुदात्तम्" "उदात्तस्वरितयोर्यणः" इत्यादौ क्लृप्तस्य स्थान्यादेशसम्बन्धस्य बाधः । नच हकारस्थानिकलकाराप्रसिद्धिः । "नहो धः" इति हस्य धत्वे "तोर्ल्लि" इति लत्वे च उपानल्लुनातीत्यत्र तत्सत्त्वात् । नचासिद्धत्वात् । धुडादिष्वित्सञ्ज्ञानापत्तेः । इत्संज्ञायां "पूर्वत्रासिद्धम्" इत्यस्याप्रवृत्तेः । नापि साक्षाद्धकारस्थानिकलकाराभावेन परिभाषाबाधः । भविता भवितारावित्यादौ स्वरानापत्तेः । प्रथमोपस्थितपरिभाषाऽनुरोधेन परं परादेशग्रहणस्योचितत्वाच्चेति ।
तदसत् । हल्‌शब्दार्थप्रसिद्‌ध्युपपादकत्वेनोक्तकल्पनायां तदनुपपादकहकारस्थानिकलकारेत्सञ्ज्ञापादकशंकाया अभुक्तवान्तत्वात् । अनुवादे च परिभाषाऽनुपस्थानात् । अन्यथा "उदीचामातः स्थाने" इत्यत्र स्थानेग्रहणवैयर्थ्यात् । तेन स्थानेयोगपरिभाषाया अनित्यत्वज्ञापनेऽपि फलतो विशेषाभावात् । अत एव स्तानिवत्सूत्रे "अनल" इत्येवास्तु अनुवादतया स्थानेयोगाभावात् । सम्बन्धसामान्ये षष्ठीमाश्रित्य अलोऽलेत्याद्यर्थलाभसंभवादिति शङ्कितं ग्रन्थकारैः । अत एव "सिद्धन्तु प्रसङ्गेरपरत्वाद्" इति पक्षे ऋकारस्य योऽण्‌ स प्रसङ्गावस्थायामेव रपरः स्यादित्यर्थे ऋकारसमीपस्थस्याप्यणो रपरत्वं स्यादित्याशङ्क्य द्वितीयस्थानशब्दमनुवर्त्त्य ऋकारस्थानिकस्याणो लाभ इत्युक्तमाकरे । धुडादौ तु कार्यकालपक्षमालम्ब्य इत्सञ्ज्ञाया उपपादितत्वात् । अत्र च तत्कल्पने प्रमाणाभावात् । अत्वस्यासिद्धत्वाभावे बीजस्य दुर्वचत्वात् । उपदेशे इत्यस्य प्रकृतत्वात् । नच श्रुत्या प्रकरणबाधः । उपदेशग्रहणमुत्तरार्थमिति सिद्धान्तात् । तस्यापि श्रुतित्वाविशेषात् ।
एतेन व्यस्तप्रयोगोऽपि दुर्लभ इत्यपास्तम् ।
भवितेत्यादौ तु स्थानिवद्भावेन डादीनां सार्वधातुकत्वमस्त्येवेति न दोषः । परम्परया लादेशत्वस्यापि तत्र सत्त्वात् । नच तासेः परस्य लादेशसार्वधातुकस्यानुदात्तत्वविधानं भवितासीत्यादौ साक्षाल्लकारादेशे सिबाधौ चरितार्थमिति कथमादेशादेशे डादौ तत्प्रवृत्तिरिति वाच्यम् । उभयपक्षसाधारण्यात् । अकारसन्निहितसार्वधातुकस्याप्रसिद्ध्या तत्र सामर्थ्याल्लकारादेशग्रहणमित्येवाधिकस्य वाच्यत्वात् । नच चलतीत्यादौ शबादिरेव तथा प्रसिद्धइति वाच्यम् । तास्यादेः परस्येत्यपि सार्वधातुकविशेषणस्य श्रूयमाणत्वात् । विशिष्टस्य तथाऽप्यप्रसिद्धेः । "लस्य" इति सूत्रे लकारोऽनुनासिको निर्दिश्यते इति भाष्योक्तपक्षे "लसार्वधातुकम्" इत्यत्रापि तादृशस्यैव लकारस्योपादानाच्च । एतेन "उदात्तयणो हल्पूर्वात् ", "उदातस्वरितयोर्यणः" इत्यादिकमपि व्याख्यातम् । यणो हल्पूर्वत्वनियमात् तत्परस्य चानुदात्तस्यैव तत्सूत्रप्रवृत्तिस्थलेऽपेक्षितत्वात् । तत्र बाधसद्भावात् षष्ठ्या सामीप्यस्य वक्तुमशक्यत्वात् । ननु "उदात्तयणः" इति सूत्रे हल्पूर्वग्रहणस्य बहुतितवा ब्राह्मण्येति व्यावर्त्त्यं भाष्ये वक्ष्यते इति चेत् । सत्यम् । तत्र "बहोर्नञ्‌वदुत्तरपदभूम्नि" इति अतिदेशोदात्ततया उकारपूर्ववर्त्तिनां सेषनिघातेन टाविभक्तेश्च सुप्स्वरेणानुदात्ततया बाधतादवस्थ्यात् । तथा चोभयोरपि नियमाभावात् प्रयोजनवशेन प्रकृते सामीप्यस्य षष्ठ्यर्थत्वे बाधकाभाव इति सिद्धम् ।
नन्वेवमपि लसूत्रस्थलकारस्य हकारसंनिधानेनैव हल्प्रत्याहारापत्तिः । अव्यवहितसामीप्यानुपपत्तावेव व्यवहिततदुपादानात् ।
यद्वा हल् च ल्‌चेति द्वन्द्वः । नच हल्‌शब्दार्थानवबोधात्सहविवक्षाऽनुपपत्तौ कथं द्वन्द्व इति वाच्यम् । "आदेशप्रत्यययोः" इति सूत्रे आदेशाभिन्नः प्रत्ययावयवश्चयः सकार इति व्याख्याय सहविवक्षां विनाऽपि सौत्रो द्वन्द्व इति स्वयमेवोक्तत्वात् । नच तत्रोभयनिर्देशस्य प्रत्यक्षत्वात् तथा, अत्र तु नेति वाच्यम् । अन्योऽन्याश्रयपरिहारस्यावश्यकतयाऽत्रापि साम्यात् ।
वस्तुतोऽत्र न तदनुपपत्तिः । हल्‌पदं सार्थकमाप्तप्रयुक्तत्वादिति सामान्यतोऽर्थवत्ताज्ञाने सति तस्याः सुस्थत्वात् । लकारस्येत्सञ्ज्ञायाम् "आदिरन्त्येन" इति प्रत्याहारसिद्धौ पश्चादेव हल्‌पदार्थविशेषज्ञानसम्भवात् । पाणिनेस्तादृशविवक्षायाः सम्भवाच्च । प्रयोगे वक्तृविवक्षाया एवापेक्षितत्वात् । वाक्यप्रयोगहेतुज्ञानस्य तच्छब्दातिरिक्तप्रमाणजन्यत्वनियमात् । अनेकशक्तेः शब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोगात् इत्यादिकमप्यत्र योज्यम् ।
यत्तु 'तुल्यास्यप्रयत्नं सवर्णम्" "अणुदित्सवर्णस्य" इतिप्रणयनेन अकारहकारादयो ग्राहका इत्यर्थस्य ज्ञातत्वेन "अइउण्‌" "हयवरट्‌" इत्यादीनां तदर्थाभिप्रायेण प्रणयनापत्तिरिति ।
तदसत् । अकारादिभिरकारादिग्रहणमापाद्यम्, उताकारादिहकारादीनां परस्परं ग्राह्यग्राहकभावः । नाद्यः । इष्टत्वात् । नान्त्यः । "नाज्झलौ" इति बाधकसत्त्वात् । एतेनाकारादीनां तुल्यस्थानानां च परस्परं सावर्ण्यं नेति सूत्रकारज्ञानं कल्प्यम्, तत्र चाकारहकारयोरिवाकारयोरपि सावर्ण्याभावो विषय इति निरस्तम् ।
आचार्यस्य विशेषदर्शित्वेन तद्विषयकज्ञानस्य बाधितत्वात् । अत एव ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमेऽपि भ्रमविषयकेऽपीश्वरज्ञाने ग्राह्यभ्रमविशेषे शुक्त्यादौ प्रकारीभूतरजतत्वादिवैशिष्ठ्यविषयकत्वं नास्तीति तार्किकसिद्धान्तः । तुल्यस्थानप्रयत्नानामप्यज्झलां परस्परं सावर्ण्यं नास्तीत्यस्मिन्नाचार्यज्ञाने अच्त्वावच्छिन्नस्य हल्त्वावच्छिन्नेन सावर्ण्याभाव एव विषयो न त्वच्त्वावच्छिन्नस्य तेन, हलत्वावच्छिन्नस्य वा तेनेति स्पष्टत्वात् ।
यत्तु मुखनयनं पश्येत्यादावन्यतरपदार्थज्ञानशून्यस्यैकतरपदार्थविषयकदर्शनान्वयबोधेऽपि उभयपदार्थज्ञानवतः सहबोधस्यैव सत्त्वेन वक्तृतात्पर्यनिर्वाहः । प्रकृते तु बोध्‌धॄणां सहबोधस्य वक्तुमशक्यत्वादाचार्याणामपि तदभिप्रायेण शब्दप्रयोगाभावात्सहविवक्षाऽनुपपत्तिरेवेति ।
तदप्यसत् । `द्वयोः सहबोधो जायताम्' इत्येव तात्पर्यम् । सचोभयशक्तिज्ञानवतः सहैव इतरस्य त्वन्यथेति हि वस्तुस्थितिः । प्रकृते तु सूत्रकारस्यैव युगपद् बोधः, अस्मदादीनान्तु पूर्वं लकारेत्सञ्ज्ञाबोधः ततो हल्पदार्थज्ञाने द्वयोः सहबोधः । `सहैव बोधो जायताम्' इति तात्पर्ये मानाभावात् । सामान्यबोधस्तु अस्मदादीनामपि सहैव भवतीति स्पष्टम् । पदद्वयशक्तिज्ञानविरहिणोऽपि सह बोधो जायतामिति तात्पर्यस्य च बाधितत्वात् ।
ननु स्ववाक्यात्स्वान्वयबोधो न भवत्येव प्रकृतान्वयबोधसमानाकारकज्ञानाबावरूपस्वरूपसदाकाङ्क्षाविरहात् ।
मैवम् । इच्छाविरहविशिष्टस्यैव ज्ञानस्य तत्र निवेशात् ।
तथा चोक्तं शब्दालोके---प्रत्यक्षावगतेऽप्यनुमित्सावत् `शब्देन जानीयाम्' इतीच्छायाः सौलभ्येनाकाङ्क्षासत्त्वे हेत्वन्तराभावस्य दुर्वचत्वात् । अत एव द्वितीयटीकायां स्वोक्तशब्दस्यस्वं प्रति अर्थप्रत्यायकत्वं सिद्धान्तितमिति ।
यत्त्वेकं विनाऽपरस्यान्वय इति स्वीकारे `देवदत्तो यज्ञदत्तश्च गच्छतः' इतिवद् `देवदत्तयज्ञदत्तौ गच्छति' इति प्रयोगापत्तिः । तथाचैतादृशविषये द्वन्द्वासाधुताया आवश्यकत्वात्सहितबोधस्यैव वक्तृतात्पर्यविषयत्वं वाच्यमिति ।
तदप्यसत् । सहबोधस्योपपादितत्वात् । धातुनाम्नोश्च समानवचनान्तत्वनियमादुक्तापत्तेरनवतारात् । साधुतार्थं द्विवचनापेक्षायामपि बोधार्थं तदभावात् । इयान् विशेषः---कर्त्राख्याते कर्तृपदेन समानवचनत्वं कर्माख्याते तु कर्मवाचकपदेनेति । तस्मादुक्तद्वन्द्वो निरवद्यः ।
अभ्युपेत्य तु ब्रूमः---हल्‌ ल्‌ इति पृथगेवास्तु । न चात्र संयोगान्तलोपानुपपत्तिः । एकस्यापि पदस्य संयोगान्तत्वाभावात्, पदसमुदायस्य पदग्रहणेनानुपादानात् इति वाच्यम् । संयोगान्तत्वपदान्तत्वयोः लकारविशेषणत्वापक्षे तदुपपत्तेः । संयोगस्य पदविशेषणत्वात्तदन्तबिधिनैव सिद्धावन्तग्रहणं विशेष्येण पदेनापि सह संबन्धार्थम् । संयोगेति लुप्तषष्ठीकम् इति व्याख्यानात् । पृथक्सर्वेभ्यो विभक्तावेकशेष इति पक्षे वृक्षस् स्‌ इत्यत्र संयोगान्तलोपस्य भाष्य एवोपन्यासात् । नच हल्ङ्यादिलोपाभिप्‌रायं तदिति कैयटव्याख्यानविरोधः । अत्र व्याचक्षते इत्युपक्रम्यान्यमतेनैव तत्प्रवृत्तेः । अन्यथा सुतिसीतिप्रत्ययैः प्रकृतिराक्षिप्यते इति कैयटेक्तसिद्धान्तविरोधात् । "अस्तिसिचोऽपृक्ते" इति सूत्रे द्विसकारको निर्देश इति भाष्यस्य सिचस्‌स् इति च्छेदे संयोगान्तलोपेन कौस्तुभ एव व्याख्यानात् ।
यत्तु लोपद्वारेण लक्षणाया एवान्वाख्यानं तस्याः शक्यज्ञानं विनाऽनुपपत्ते- परस्पराश्रय इति ।
तदप्यसत् । हल्‌पदार्थसम्बन्धिनिलक्षणाया इहानाश्रयणात् । किन्तु हल्‌ इति समुदायस्य हल्‌ल् इति समुदायपरत्वं कल्प्यते, तच्च न लक्षणया किन्तु लकारस्मरणेन तल्लोपज्ञानशून्यानां उक्तसमुदायज्ञानाभावात् । यत्र लोपज्ञानशून्यानामपि तादृशार्थबोधो यथा---नीलः पट इत्यादौ तत्रैव लक्षणायाः स्वीकारात् । व्यतिसे इत्यादौ लुप्तस्य धातोरेव तदर्थप्रत्यायकत्वमिति मणिकारादिभिरुक्तत्वात् ।
यत्तु लकारे इत्संज्ञाप्रवृत्तिसमये हल्‌शब्दवाच्यं किञ्चिदित्संज्ञं भवतीति वाक्येन अक्षु इत्संज्ञापत्तिः । किञ्च उक्तरीतेर्यथाश्रुतग्राहिणं प्रति प्रवृत्तावपि `नहि निर्विशेषं सामान्यम्' इति न्यायेन नियतशास्त्रर्थस्य युक्तत्वं, प्रकारान्तरेण तन्निर्णये लकारप्रश्लेषो व्यर्थ इति ।
तदप्यसत् । हल्‌शब्दवाच्यं किञ्चिदस्तीति ज्ञानस्यापि हल्मात्रविषयकत्वात् । एतावाँस्तुभेदः वाच्यत्वेन ज्ञानं हकारादिवृत्त्यसाधारणधर्मांशे सप्रकारकं हल्त्वेन ज्ञानं निष्प्रकारकमिति । निर्विशेषं न सामान्यमिति न्यायस्य तु सामान्यप्रकारकज्ञानस्यापि विशेषविशेष्यकत्वमित्य्रथो नतु तद्धर्मावच्छिन्नविशेष्यकत्वमपीति । पूर्वं हल्‌शब्दवाच्यविशेषानबधारणेऽपि पश्चात्तदवधारणात् । तावता तद्धर्मस्याज्वृत्तितायामुक्तिसम्भवाभावात् । नच हल्‌शब्दवाच्यं किञ्चिदस्तीति ज्ञानं न सूत्रप्रवृत्तावुपयोगि तस्य लक्ष्यसंस्कारकत्वाभावादिति वाच्यम् । परम्परया तत्सत्त्वात् । तादृशज्ञानाऽनङ्गीकारे तवापि सम्पूर्णसूत्रावृत्तिर्न स्यात् । तात्पर्यग्रहस्य तत्रापेक्षितत्वात् । तात्पर्यसत्त्वे त्वावृत्तिरित्युक्तेः ।
यदप्युक्तम्---असतः संज्ञिनः संज्ञाविरहप्रतिपादकभाष्येणानिर्धारिते संज्ञिन्यपि न्यायसाम्यात्तदभावोपपादनेन भाष्यविरोध इति ।
तदप्यसत् । कल्पनानुरोधेन तन्निर्णयसंभवात् । तथा च तत्र कैयटः---सत्यसति वा संज्ञिनि बुद्ध्या विषयीकृते शब्देन पूर्वनिर्दिष्टे संज्ञा प्रवर्तते इति तिष्ठतु विस्तरः ।
स्यादेतत् । तथाऽप्युभयत्र संयोगान्तलोपानुपपत्तिः । तत्र यणः प्रतिषेधारम्भात् । झल्‌ इत्यपकृष्य संयोगान्तस्य झलो लोपविधानाच्चेति ।
मैवम् । बहिरङ्गलक्षणत्वाद्वेति तृतीयपक्षे तदुपपत्तेः ।
यदप्युक्तम्---अन्तरङ्गे संयोगान्तलोपे कर्तव्ये बहिरङ्गस्य सुलोपस्यासिद्धत्वमिति ।
तदप्यसत् । पचन्नित्यादौ झलपकर्षपक्षसाधारण्यात् । नच वचनसामर्थ्यम् । प्राङ्‌भ्यामित्यादौ चरितार्थत्वात् । तथोद्देशपक्षस्य त्वत्रापि सुवचत्वात् । नचैवं बहिरङ्गलक्षणत्वाद्वेत्यस्यानुपपत्तिरिति वाच्यम् । यत्र यणो लोपप्रसक्तिस्तत्र कार्यकालपक्षमाश्रित्य प्रवृत्तेर्वाच्यत्वात् । नचैकस्मिन्नेव लक्षणे एकस्याः परिभाषायाः प्रवृत्त्यप्रवृत्तिविरोधः । लक्ष्यभेदेन लक्षणभेदमाश्रित्य तदुपपत्तेः ।
वस्तुतस्तु हल्ङ्यादिलोपापेक्षया संयोगान्तलोपस्यैव बहिरङ्गत्वं विजातीयसंज्ञाघटित्वात् । नच तस्याप्यपृक्तसंज्ञाघटितत्वात्साम्यम्, तस्याश्च प्रत्ययघटित्वमपीति वाच्यम् । संयोगसंज्ञाया अपि संज्ञाद्वयघटित्वात् । हलांच विशेष्यतया अचामभावप्रतियोगितया तत्र निवेशात् । सुप्तिङन्तं पदं "स्वादिष्वसर्वनामस्थाने" इति द्विविधायाः पदसंज्ञायास्तत्र प्रवेशाच्च । "रात्सस्य" "स्कोः संयोगाद्योः" इत्यपवादद्वयानुसन्धानापेक्षप्रवृत्तिकत्वाच्च । हल्ङ्यादिलोपस्य च निरपवादतया तत्प्रवृत्तावपवादविषयपरिहारस्यानपेक्षितत्वात् । अत एव तत्र हल्पदानुपादानपक्षे पचान्नित्यादौ नलोपानुपपत्तिरिति शङ्कितं भाष्यादौ । अन्यथा हल्ङ्यादिलोपस्यापि बहिरङ्गत्वादसिद्धत्वतादवस्थ्यं स्यात् । लक्षणविशेषप्राप्तेरप्रयोजकत्वात् । नचैवं यणपेक्षयापि संयोगान्तलोपस्य कथमन्तरङ्गत्वम् । यादेशविधानस्य संज्ञात्रयघटितत्वात् । संयोगान्तलोपशास्त्रस्य तु उक्तरीत्या गुरुत्वात् । मैवम् । यणपवादानां भूयस्त्वात्तावद्विषयत्वानुसन्धानापेक्षप्रवृत्तिकस्य यण्‌शास्त्रस्य बहिरङ्गत्वानपायात् । निर्दिष्टपरिभाषासंस्कृतस्यैव तस्य लक्ष्यसंस्कारकत्वाच्च । तत्रत्यस्याऽव्यवधानस्य स्वप्रतियोगिकभेदवद्वर्णघटितत्वात् । संयोगसंज्ञाघटकस्य त्वज्मात्रघटितत्वात् । स्वत्वस्य चाननुगतत्वात् इति भगवदभिप्रायः ।
यद्वा हल्सूत्रे, "हलन्त्यम्" इति सूत्रे च लृकारस्यैव तवल्कारइतिवद्गुणभूतस्य निर्देशः । नचैवं लृकारस्य कथमित्संज्ञा अच्‌संज्ञाया इदानीमप्यनिष्पत्तेः इतरेतराश्रयसाम्यात् । सत्यम् । "लृदितः" इत्यनेन तज्ज्ञापनसम्भवात् इति कैयटः ।
अथवा णलो लकारेण लकारस्य इत्संज्ञा ज्ञाप्यते तस्य लित्स्वरार्थत्वात् । नच श्रवणार्थत्वम् । हल्ङ्यादिसूत्रे णल्व्यावृत्त्ये द्वितीयहल्ग्रहणस्य कृतत्वात् । अन्यथाऽपृक्तत्वाभावादेव तदनापत्तेः । नच भवितेत्यादौ डादेशनिवृत्यर्थं तदिति वाच्यम् । सुतिसीतिप्रत्ययैः प्रकृतेराक्षेपाद्धलन्तायाः प्रकृतेः परेषां स्वादीनां लोपविधानात् डादेशं प्रति च तासन्तस्य प्रकृतित्वाभावात् । नचैवं या सेत्यादौ सुलोपो न स्यात् । नचैकदेशविकृतन्यायेन एकदेशस्य पूर्वान्ततया ग्रहणाद्वा हलन्तायाः प्रकृतेः परत्वमस्त्येवेति वाच्यम् । यः स इत्यादावतिव्याप्तेः । लोपप्रवृत्तिकाले उभयत्रापि हलन्तत्वाभावात् । आबन्तात्परत्वमाश्रित्य लोपस्य चोभयत आश्रयेऽन्तादिवद्बावनिषेधेन दुर्वचत्वात् । नच "तदस्यां प्रहरणम्" इति निर्देशात्स निषेधोऽनित्य इति वाच्यम् । तस्यापि हल्पदार्थानवबोधकाले तत्सामर्त्यग्रहानुपपत्तेः । नच "लिति" इति ज्ञापकं ल्युडादौ चारितार्थत्वात् इति चेत् ।
सत्यम् । तावताऽपि ण्वुलादिलकारसाधारण्येन इत्संज्ञाज्ञानस्य जातत्वात् । तस्य चोत्तरकाले "हलन्त्यम्" इति सूत्रजन्यबोधसंवादित्वनिश्चयेन प्रामाण्यादिति भाष्याशयः ।
स्यादेतत् । हल्‌सञ्ज्ञातः पूर्वं कथं संयोगान्तलोपः संयोगसञ्ज्ञाया हल्सञ्ज्ञाघटितत्वात्, कथं वा हस्य ल् इति समासः सुप्सञ्ज्ञाया अनिष्पत्तेः ।
एतेन द्वन्द्वसप्तमीतत्पुरुषबहुव्रीहयो व्याख्याता इति चेत् ।
सत्यम् । साधुत्वज्ञानोपयोगिशास्त्रार्थबोधस्यापि तद्बोध्यसाधुत्वकानां पदानां स्वार्थानुभावकतायामनुपयोगात् । अन्यथा क्वाप्यर्थबोदानुपपत्तेः । प्रकृते तु हल्पदार्थज्ञानस्यापि हलन्त्यमिति वाक्यार्थबोधसामग्रीघटकत्वात्तत्रैव "आदिरन्त्येन सहेता" इत्येतद्वाक्यार्तबोधोपयोगीत्सञ्ज्ञाज्ञानापेक्षेति वैषम्यम् ।
स्यादेतत् । लस्येत्संज्ञायामपि नैतद्वाक्यार्थबोधोपपत्तिः । "न विभक्तौ तु स्माः" इत्यपवादवाक्यार्थज्ञानस्य पूर्वमपेक्षितत्वात् । "पूर्वं ह्यपवादा निविशन्ते पञ्चादुत्सर्गाः" इति न्यायात् । तत्र च विभक्तिपदार्थज्ञानस्य, तत्र च सुप्‌तिङ्‌पदार्थज्ञानस्य, तत्र च "आदिरन्त्येन" इत्येतदर्थज्ञानस्य, तत्र च सञ्ज्ञाज्ञानस्यापेक्षित्तत्वात् तस्यच "हलन्त्यम्" इत्येतद्वाक्यार्थज्ञानाधीनत्वात्, तुशब्दार्थज्ञानस्यापि ग्रहणकशास्त्रार्थज्ञानाधीनत्वात्, तुशब्दार्थज्ञानस्यापि ग्रहणकशास्त्रार्थज्ञानाधीनत्वात् तस्य च उदीत्यंशे इत्संज्ञाज्ञानसापेक्षत्वात्, उपदेशेऽजनुनासिक इतीत्सञ्ज्ञाया उच्पदार्थज्ञानाधीनज्ञानत्वात् उक्तक्रमेणान्योन्याश्रयसाम्यादिति चेत् ।
मैवम् । नह्यपवादप्रवृत्तिपूर्वमुत्सर्गवाक्येन बोध एव न जन्यते प्रसक्त्यभावे निषेधानुल्लासात् । तथा च हल्त्वमुद्देश्यतावच्छेदकीकृत्य इत्संज्ञाबोधे सिद्धे सुप्तिङादिपदार्तबोधे बाधकाभावान्न विभक्ताविति वाक्यार्थज्ञानं ततो हल्त्वावच्छेदेन इत्सञ्ज्ञेति प्राथमिकबोधस्य विभक्तिस्थिततवर्गसकारमकारांशे अप्रामाण्यकल्पनं ततो विभक्तिस्तिततवर्गसकारमकारभिन्नत्वे सति हल्वरूपमुद्देश्यतावच्छेदकमुभयैकवाक्यतया सिध्यति । अस्तिचेदं पकारादावपीति पूर्वोत्पन्नसुबादिबुद्धेः प्रामाण्यमविरुद्धम् ।
यत्तु विभक्तिस्थतकारादावपीत्सञ्ज्ञाज्ञानं जातं तत्तत्पर्यभ्रममूलकत्वादप्रयोजकमेवेति नातिप्रसङ्गः ।
यत्तु "न संप्रसारणे" इति सूत्रे, निष्पन्नस्य न प्रतिषेधः । अनिष्यन्नस्य कथँ निमित्तत्वमित्याशंक्य संप्रसारणनिमित्तकपूर्वरूपस्यैवायं निषेधः । यद्वा यणि पर एव पूर्वस्य संप्रसारणनिषेध इति पक्षद्वयमपि भाष्यकारैरुक्तं तदभ्युच्चयमात्रम् ।
वस्तुतस्तु समानङ्गग्रहणस्य तत्रावश्यकतया सम्प्रसारणपदस्य तत्स्थानिनि लक्षणयोक्तद्वितीयपक्षस्य युक्तत्वमेवेति वक्ष्यामः ।
अन्येतु हलन्त्यसूत्रमेवावर्त्तनीयं हलिति सूत्रेऽन्त्यमित्स्यादित्यर्थः । ततो हल्संज्ञासिद्धौ हलन्त्यमिति सूत्रेण चकारादीनाम् इत्संज्ञायाम् अजादिसंज्ञासिद्धिरित्याहुः ।
अपरे तु हलिति सूत्रैणैव शषसरित्यन्तं समुदायमुद्दिश्य संज्ञा विधीयते । तत्र लकारस्यापि प्रविष्टत्वेन "हलन्त्यम्" इतीत्संज्ञायां वलादीप्रत्याहारसिद्धिः । नच रेफान्त्यसमुदायस्याज्ञातज्ञापकत्वरूपोपदेशत्वाभावादित्संज्ञानापत्तिः । अनेकसूत्रकरणसामर्थ्यादावृत्त्यादिनोभयरूपत्वे तु गौरवमिति वाच्यम् । हल्सञ्ज्ञाविधानसामर्थ्यादेव तदुपपत्तेः । आनुपूर्वीविशेषांशे उपदेशसत्त्वाच्च, स्वरूपांशे तस्य त्वयापि दुर्वचत्वात् । नच संज्ञासंज्ञिनोरेकवाक्यानुपात्तत्वादासत्त्यभावः । तात्पर्येणैकवाक्यताकल्पनात् । हलन्त्यसूत्रार्थबोधान्यथानुपपत्तेश्च तत्र ग्राहकत्वात् । अन्यथा सूत्रावृत्तेरप्यनुपपत्तेः । अत एव "तस्य लोपः" इत्यत्र तस्य ग्रहणं सर्वलोपार्थमिति सिद्धान्तः । नच हलित्यत्र व्यवहितानामनुवृत्तौ "अइउण्‌" इत्यादीनां चाननुवृत्तौ बीजाभाव इति वाच्यम् । "नाज्झलौ" इत्यादिपर्यालोचनया चकारान्तानामननुवृत्तिसिद्धेः । अल्संज्ञामपेक्ष्याऽन्यूनानतिरिक्तविषयकत्वापत्तेश्च । तादृशसंज्ञाद्वयस्य वैयर्थ्यात् । हलन्त्यसूत्रावृत्तौ हि हलिति पदस्य तत्पदाभिन्ने सूत्रे लक्षणा तत्पदमात्रानुकरणेन लाभेऽपि तदभिन्नसूत्रत्वरूपेण बोधाभावात् । नच प्रथमोपस्थितत्वादस्यैव ग्रहणम् । "हलन्त्यम्" इति सूत्रोपस्थितिदशायां प्रथममेतदुपस्थितौ नियमकाभावात् । "हलोऽनन्तराः संयोगः" "नाज्झलौ" "रलो व्युपधाद्धलादेः संश्च" इत्येतेषामपि हल्पदानां सत्त्वात् । हल्पदघटीतसूत्रत्वेन लक्षणायाम् उक्तविसर्गादीनामेवोक्तसंज्ञापत्तेः । अइउणित्यत आरभ्यैव प्राथम्यं विवक्षिणीयमिति चेत् । तथाऽपि तद्विषयकज्ञानकल्पनावश्यकत्वे शषसरित्यन्तसमुदायस्योद्देश्यत्वकल्पनेऽपि गौरवाभावात् । एवं "हल्‌" इति सूत्रे सूत्रान्तर्गतं सत् यदन्त्यमिति व्याख्याने हकारारावन्यत्र वर्त्तिनौ दुर्वारौ । अतस्तस्मिन्नेव सूत्रेऽन्त्यत्वं विवक्षणीयम् । हल्सूत्रान्तर्गतत्वे सति हकारोच्चारणाव्यवहितोत्तरोच्चारणविषयत्वमुद्देश्यतावच्छेदकम्‌इति प्रतिपत्तिगौरवम् सप्तमीति योगविभागकल्पनं च । नच तस्यान्यत्र क्लृप्तत्वम् । एतद्विषयकतात्पर्यस्य कल्प्यत्वानपायात् ।
एतेन सुप्सुपेत्यपि व्याक्यातमित्याहुः ।
यत्तु वदन्ति---एकदेशावृत्तेर्विवक्षायां हरन्त्यमित्येव सूत्रितं स्यात्, भवदुक्तार्थस्य तावतापि लाभात् । पूर्वस्यापि समीपत्वानपायात् । हल्‌पदस्थाने सर्वत्र हरित्यस्यैव वाच्यत्वात् इति ।
तन्न ।
लाघवाभावादापत्त्यसिद्धेः । अन्यता सूत्रावृत्तिविवक्षायां हलादिरित्येव ब्रूयादित्यस्यापि दुर्वारत्वात् । हरप्रत्याहारस्य तावतैव सिद्धेः ।
नचैवमजादिसंज्ञार्थं "हलन्त्यम्" इति सूत्रान्तरकल्पने गौरवमिति शङ्क्यम् ।
उत्तरसूत्रान्नेत्यनुवर्त्य आदिभिन्नं हल्‌ हत्संज्ञं स्यादित्यर्थोपपत्तेः । नचैवं गौरवप्रसङ्गः । "आदिर्ञिटुडवः" इत्यत्रादिग्रहणत्यागाल्लाघवसत्त्वात् । तत्र नञ्‌पदाननुवृत्तेश्चोभयसंमतत्वात् । नच मध्यमानामपि हलामित्संज्ञापत्तिः । तत्तदुपाध्यवच्छिन्ने यदन्त्यं तदपेक्षस्यादित्वस्य ग्रहणे तदवच्छिन्नप्रतियोगिताकभेदस्य मध्यमेऽप्यसत्त्वात् । द्वन्द्वस्य ततो लाभानुपपत्तेश्च । "रोरि" इतिलोपे "ढ्रलोपे" इति दीर्घेच "हारन्त्यम्" इत्यस्यापत्तौ गौरवापत्तेः । न संयोगान्तलोपेन निर्वाहः । परत्वाद् "रोरि" इत्यस्य दुर्वारत्वात् । नच "पूर्वत्रासिद्धीये नास्ति विप्रतिषेधः" इति वाच्यम् । एवमप्यन्तरङ्गतया "रोरि" इत्यस्य बलवत्त्वात् ।
एवं "रात्सस्य" इति नियमादपि संयोगान्तलोपो दुर्लभः ।
यत्तु नियमसूत्राणां निषेधरूपेण प्रवृत्तिपक्षे रात्परस्य सकारभिन्नस्य संयोगान्तस्य लोपो न स्यादिति तद्वाक्यार्थः । तत्र रेफस्य निमित्तत्वश्रवणात्सकारातिरिक्तवर्णो रेफातिरिक्त एव ग्राह्यः माठरादिन्यायादिति ।
तन्न । तत्पक्षस्य गौरवग्रस्तत्वादनभ्यर्हितत्वात् । अजर्घा इत्यादेरसिद्धेश्च । कुर्दधातोरुपधादीर्घानङ्गीकारपक्षेऽपि यङ्‌लुकि लङि सिपि अचोकूरिति दीर्घस्य माधवेनोक्तत्वात् । "दश्च" इति रुत्वम् । त्वद्रीत्या संयोगान्तलोपलस्यैव प्रसक्त्या "रोरि" इतिलोपाप्रवृत्त्या तद्विरोधात् ।
केचितु "हलन्त्यम्" इत्यत्र मकारोत्तरमेव लकारप्रश्लेषो व्याख्येय इत्याहुः ।
अन्येतु "उपदेशे इदन्त्यम्, अच्‌, अनुनासिक एव, सूत्रणीयम् । तृतीयसूत्रं नियमार्थम्---अच्चेद् इद्भवति तर्ह्यनुनासिक एवेति तेन भूइत्यादौ नापत्तिः । नच विपरीतनियमापत्तिः । "मिदचोऽन्त्याद्" इत्यादिलिङ्गात् । नच नियमस्य अव्यवहितसूत्रप्राप्तसंज्ञाव्यावर्त्तमेन चरितार्थत्वात् भूइत्यादौ इत्संज्ञाया दुर्वारत्वमिति वाच्यम् । वाक्यार्थत्रयकल्पने, नियमवाक्ये निषेधत्वस्य कल्पने, विपरीतनियमादिवारणार्थं ज्ञापकान्तरकल्पनेन प्रतिपत्तिगौरवान्नेदं युक्तमित्यपरे ।
योगविभागसामर्थ्यात्सूत्रद्वयप्राप्तसञ्ज्ञाव्यावृत्तेः अजनुनासिक इत्येकयोगेऽनन्त्यस्यानुनासिकस्याच इत्सञ्ज्ञाविधानेऽन्त्यस्यानुनासिकस्यापि पूर्वसूत्रेण संज्ञेति फलितार्थस्य तुल्यत्वात् । अन्त्यांशे नियमोऽनन्त्यांशे विधिरिति वैरूप्यस्य दुर्वचत्वात् । क्वचिदगत्या तत्सहनेऽपि तद्दोषदुष्टन्यासस्य कल्पयितुमयुक्तत्वात् । तत्सहने तूक्तरीत्या योगद्वयकल्पनेऽपि क्षत्यभावादित्याहुः ।
अन्ये तु "अन्त्यम्" इत्येवावर्त्तनीयं ततो लस्येत्संज्ञायां हलन्त्यमित्येतद्वाक्यार्थबोधः । हलन्त्यमिति नियमार्थं हल्‌ चेदिद्भवति तर्ह्यन्त्यमेवेति भ्वादौ न दोष इत्याहुः ।
वस्तुतस्तु लृकारनिर्देशवादिनो भाष्यकृतोऽयंभावः---"अच्‌" इति योगं विभज्य "भूवादयः" इत्यतो "वादयः" इत्यनुवर्त्तनीयम् । अभिविध्यर्थकेनाङा औकारस्याव्ययीभावे नपुंसकह्रस्वत्वे च कृते उइति रूपम् । अकार आदौ येषां ते आदयः, उकाराभिन्ना आदय इति कर्मधारयः । यणादेशः । औकारपर्यन्ता अकारप्रभृतयः अच्‌संज्ञा इति वाक्यार्थः । ततः पूर्वोक्तरीत्या हल्पदार्थप्रसरिद्धौ हलन्त्यमित्यस्य प्रवृत्तिः ततोऽणादिसंज्ञासिद्धिरिति न काऽप्यनुपपत्तिः ।
एतेन "सनाद्यन्ता धातवः" इत्येतदुत्तरं "भूवादयश्च" इति सूत्रणीयं लाघवादिति तृतीये वक्ष्यमाणं केषां चित्कल्पनमप्यपास्तम् ।
अत्र पाठस्योक्तानुवृत्त्यर्थत्वात् ।
एतेनैव "हलन्त्यम्" इत्यस्य प्रवृत्त्युत्तरम् "उपदेशेऽजनुनासिकः" इति सूत्रलेखनमपि निरस्तम् । उक्तरीत्यैवाच्संज्ञासिद्धेः ।
यद्वा हल्संज्ञाया एव "आदिरन्त्येन" इत्येतत्प्रवृत्तिव्यतिरेकेण सिद्धौ यत्नान्तरं कार्यम् । हल् इति विभज्य अनु इत्यनुवर्त्तनीयम् । आङा सह अकारस्याव्ययीभावे अ इति रूपम् औकारस्य तूक्तरीत्या उ इति । ततो द्वयोर्द्वन्द्वः---अं च उ चेति । गुणे कृते नपुंसकह्रस्वत्वे च उ इत्येव रूपम् । ततो नञ्समासे अनु इति सिद्धम् । अकारादारभ्य औकारपर्यन्ताक्षरभिन्नम् अक्षरं समाहारमित्यर्थः । नञिवयुक्तन्यायाद्भेदप्रतियोगितानवच्छेदकतत्प्रतियोगिवृत्त्यक्षरत्ववतोऽक्षरस्य भेदानुयोगित्वलाभः ।
यद्वा पूर्वोक्तरीत्याच्‌संज्ञा प्रसाध्या । "नाज्झलौ" इति सूत्रं तु प्रयत्नभेदेन भाष्यकृता प्रत्याख्यातं सत् हल्संज्ञाविधानार्थतया व्याख्येयम् । "सरूपाणामेकशेषः" इत्यत्रैतादृशरीतेः कैयटकौस्तुभादौ प्रसिद्धत्वात् । "नाज्झलावीदूदेद् द्विवचनं प्रगृह्यम्" इति संहितापाठे नाज्झलाप् इति च्छेदः । नाच् अज्भिन्नं हल्संज्ञामाप्नोति हलाप् हल्‌संज्ञमिति यावत् । यथाश्रुतच्छेदपक्षे चरितार्थत्वान्नात्राधिक्यशङ्का । समानाधिकरणनिर्देशापेक्षया प्रतिपत्तिगौरवाभावात् ।
यद्वा नाज्झला ईदूदेदिति संहितापाठः । हला हल्‌शब्देन सह स्यात् । साहित्यं च वाच्यत्वसम्बन्धरूपम् । अविच्छिन्नादिसम्प्रदायमूलकव्याख्यातृवचनादेव शिष्याणां हलादिपदार्थबोधः । तस्य प्रामाण्यं तूक्तरीत्या शास्त्रैकमूलकत्वेन अवस्थाप्यते इति तत्त्वम् ।

न विभक्तौ तुस्माः 4 ।

विभक्तिस्थास्तवर्गसकारमकारा इतो न । रामान्, पचेरन् । ब्राह्मणाः, पचतः । रामम् । अद्राक्षम् । विभक्तौ किम् । अचो यत् । ऊर्णायायुस् । रुधादिभ्यः श्रम् । नच किमोऽत्‌ इत्यादावपि निषेधापत्तिः । "प्राग्दिशो विभक्तिः" इति संज्ञायाम् एतदप्रवृत्तेः । अत्र च ज्ञापकम्---"इदमस्थमुः" इति मकारस्य इत्संज्ञापरित्राणार्थमुकारकरणम् । नचैवं तदानीमित्यत्र दानीमो मित्त्वापत्तिः । तस्य यान्तत्वात् । संयोगान्तलोपस्य इत्संज्ञां प्रत्यसिद्धतया मान्तत्वाभावात् ।
यद्वा निषेधानित्यत्वमात्रं ज्ञाप्यम् । औत्, इटोऽत् इत्यादौतकार उच्चारणार्थः । अन्यथा तित्स्वरापत्तेः । उरौ वा यो, भक्षीय तव राधस इत्यादौ प्रत्ययस्वरेणान्तोदात्ततादर्शनाच्च । लविषीयेत्यत्र भाष्ये एवान्तोदात्तत्वोक्तेश्च ।

आदिर्ञिटुडवः 5 ।

उपदेशे आदिभूता एते इतः स्युः । आदिरिति सौत्रमेकवचनम् । ञि इन्धी इद्धः । "ञीतः" इति वर्त्तमाने क्तः । टुवेपृ "वेपथुः । "ट्वितोऽथुच्" । डुवप् उप्त्रिमम् । "ड्वित" इति क्त्रिः । उपदेशे किम् । ञिकारीयति । ङुङ्‌ ध्वनौ । ऋदोरप् । ङवं कर्तुं मिच्छति ञिङवयिषति । तत्करोति ण्यन्तात्सन् इत्यपि प्रत्युदाहार्यम् । आदिः किम् । पटूयति । पृथ्वादिषु पटुशब्दोपदेशसत्त्वात् । अत्रेत्संज्ञायाम् अवयवे अचरितार्थं लिङ्गं समुदायस्य विशेषकमित्यथुच् स्यात् ।

षः प्रत्ययस्य 6 ।

प्रत्ययस्यादिः ष इत्संज्ञः । नर्तकी । शिल्पिनि ष्वुन् । षित्त्वात् ङीष । प्रत्ययस्य किम् । षोडश । षष उत्वम् इत्यत्रोपदेशः । आदिः किम् । अविषः महिषः । अविमविभ्यां टिषच् ।
ननु फलाभावादत्र नेत्संज्ञा । ईकारप्रत्ययस्य टित्त्वादेव सिद्धेः । नच ङीपि अनुदात्तत्वं ङीषि तूदात्तत्वमिति पक्षे ङीषर्थं षित्त्वं स्यादिति वाच्यम् । चित्परस्य ङीपोऽपि उदात्तनिवृत्तिस्वरेणोदात्तत्वात् इति चेन्न । विनिगमिकाभावेन पक्षे टकारस्यापि श्रवणप्रसङ्गात् ।

चुटू 7 ।

प्रत्ययाद्यौ चुट् इतौ स्तः । वर्गद्वये द्वितीयचतुर्थानां छझठढानाम् ईय्--अन्त्‌---इक्---एय् इत्यादेशा वक्ष्यन्ते । गोत्रे कुञ्जादिभ्यः च्फञ् । कौञ्जायन्यः । जस् । ब्राह्मणाः । शण्डिकादिभ्योञ्यः । शण्डिकोऽभिजनोऽस्य शाण्डिक्यः । चरेष्टः । कुरुचरी । जनेर्डः उपसरजः । प्रज्ञादिभ्यो णः । प्राज्ञः ।
इदं चानित्यम्, चुटुषाः प्रत्ययस्येति कर्तव्ये पृथग्योगसामर्थ्यात् । तेन केशचुञ्चुरित्यादौ चस्य नेत्संज्ञा । तथा चान्तोदात्तापत्तिः । पित्करणं तु पर्यायार्थं स्यात् । "नते नासिकायाः" इति टीटच् । अवटीटः ।
यद्वा । एतेषु "लोपो व्योः" इति यकारो लुप्तनिर्दिष्ट इति भाष्यम् । भाष्यकारवचनाद्राजदन्तादेराकृतिगणत्वाद्वा पूर्वकालस्य परनिपातः ।

लशक्कतद्धिते 8 ।

तद्धितभिन्ने प्रत्यये आदिभूता अशकवर्गा इतः स्युः । भवनम् । भवति । भूतः । प्रियंवदः । जिष्णुः । भङ्गुरः । हरये । ल्युट्---शप्‌---क्त---खश्‌---ग्स्नु---घुरच्---ङे इत्येतत्सम्बन्धिनां लादीनां यथाक्रममुक्तसंज्ञा । अतद्धिते किम् । चण्डालः । "प्राणिस्थादातः" इति लच् । लोमशः । "लोमादि--"इति शः । कर्णिका । "कर्णललाटाद्‌" इति कन् । अत्र "कितिच" इति वृद्धिः स्यात् ।
"इर उपसङ्ख्यानम्" । "इरितो वा" इत्यत्र इर् इत् यस्येति समुदायानुकरणम् । अज्झल्‌समुदायत्वादप्राप्तावारम्भः । समुदायस्य संज्ञायामवयवाः पारतन्त्र्यादित्सञ्ज्ञा । इरावितौ यस्येत्यवयवयोरेव इत्सञ्ज्ञकत्वेन व्याख्यानात् । नन्वेवं नुमापत्तिः । नच कुम्भीधान्यन्यायेन इकारमात्रं यत्रेत्सञ्ज्ञं तस्यैव नुमिति वाच्यम् । नन्दतीत्यादावव्याप्तेः । टुकारस्यापि तत्रेत्सञ्ज्ञत्वात् । मैवम् । तेषआम् ऋकारान्तत्वाश्रयणात् । "ऋत इद्धातोः" इति इत्त्वे रपरत्वे च कृते भिदिर् इत्यादिनिर्देशः । अनङ्गस्यापि निपातनादित्त्वम् । भिद् ऋ इत्यत्र पूर्वम् ऋकारस्येत्सञ्ज्ञा तत इत्त्वरपरत्वे । "इरितो वा" त्यत्रापि ऋ इत् यस्यायम् इरित् निपातनादित्त्वरपरत्वे ।
यद्वा स्कन्दिर्‌प्रभृतीनां नकारपाठस्य अन्तेदितामेव नुमित्यत्र ज्ञापकत्वात् । नच नलोपाभावार्थो नकारोपदेशः । इदित्त्वादेव तदप्रसङ्गात् ।
अथवा "न दृशः" इति क्सप्रत्ययप्रतिषेधो ज्ञापकः । नुमि हि सति इगुपधत्वाभावादेव क्सो न स्यात् ।
यद्वा "गोः पादान्ते" इतिसूत्रादन्तग्रहणमनुवर्त्त्य अन्ते इदितामेव नुम् इति व्याख्येयम् । तेन चक्षिङो न नुम् ।

तस्य लोपः 9 ।

तस्य इतो लोपः स्यात् । तस्य ग्रहणं सर्वलोपार्थम् । अन्यथा अभावरूपस्य लोपस्य भावापेक्षत्वात्प्रकरणादित्सञ्ज्ञस्य लाभोपपत्तेः । तेन ञिटुडूनामन्त्यलोपो न । नच नानर्थकेऽलोन्त्यविधिरित्येव तत्सिद्धिः । अलोन्त्यात्पूर्व इत्यत्र तत्प्रत्याख्यानात् ।

यथासंख्यमनुदेशः समानाम् 10 ।

समसङ्ख्यानां सम्बन्धो यथाक्रमंस्यात् । स चोद्देश्यविधेयानां यथा---"नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" । नन्दनः । ग्राही । पचः । उद्देश्यानामेव यथा--"समूलाकृतजीवेषु हन्‌कृञ्‌ग्रहः" । अत्र विधेयस्य णमुल एकत्वेऽपि अनुवाद्ययोः धातूपपदयोरेव यथासङ्ख्यम् । "परस्मैपदानां णलतु---" इत्यादौ परस्मैपदशब्देन सर्वेषां युगपत्प्रत्यासत्तेर्न पाठक्रमेण व्यवस्था । लोके अजाविधनौ देवदत्तयज्ञदत्ताविति समासनिर्देशे क्रमनियमाभावः । द्वन्द्वेऽनेकावयवात्मकसमुदाय एवैकशब्दतः प्रतिपादनादित्यारम्भः ।
ननु "विदिभिदिच्छिदेः कुरच्" इत्यादौ तच्छीलाद्यर्थत्रयेण यथासङ्ख्यं स्यात् । एवं "ख्यत्यात्" ङसिङसोः" इत्यादावपीति चेत् ।
अत्र भाष्यम्---"स्वरितेन" इत्यपकृष्यते तेन स्वरितत्वाभावान्न यथासङ्ख्यम् । प्रतिज्ञास्वरिताः पाणिनीयाः । अत एव "कर्तृकर्मणोश्च भूकृञोः" इत्यत्र न यथासङ्ख्यम् । तेन भवतेरकर्मकत्वात्कर्तर्येवोपपदे खल् । करोतेस्तु कर्मण्यपि ।
केचित्तु प्राप्त्यर्थस्य भवतेरुपपदद्वयेऽपि स इत्याहुः । "नाडीमुष्ट्योश्च" इत्यत्र तु भवत्येव ।
स्यादेतत् । "इको यणचि" इत्यत्र यथासङ्ख्यं न स्यात् । इकारोकार---ऋकाराणआं प्रत्येकमष्टादश भेदाः लृकारस्य तु द्वादशेति इकां षट्‌षष्टिसङ्ख्यत्वात् । यणां च सप्तत्वात् । भाव्यमानत्वेऽपि गुणानामभेदकतया सानुनासिक्यानामपि यवलानां ग्रहणात् । नचात्रान्तरतमपरिभाषयैव निर्वाहः । स्थानेऽन्तरतमसूत्रे "किमुदाहरणम् । इको यणचि दध्यत्र । सङ्ख्यातानुदेशेनाप्येतत्सिद्धम्" इतिभाष्यविरोधात् ।
अत्राहुः---इक्‌शब्दबोध्या या इत्वादिजातयस्तदवच्छिन्नानां यण्‌शब्दबोध्ययत्वादिजातिचतुष्टयावच्छिन्ना भवन्तीति सूत्रार्थः । तथाच निरूढलक्षणाऽपि नाङ्गीकार्येति लाघवम् । नच निरनुनासिकानामनुनासिकयकारादिप्रसङ्गवारणायान्तरतमपरिभाषाश्रयणे आवश्यके कृतमेतत्प्रवृत्त्येति वाच्यम् । तदंशे यथासङ्ख्यपरिभाषायाः पारविरहात् । अन्तरतमपरिभाषाप्रवृत्तावपि स्थान्यंशे परत्वाद्यथासङ्ख्यस्यैव प्रवृत्तेः । अत एव प्रत्याहारपाठे शब्दतः साम्यमस्तीति तत्र कैयटः ।
एतेन ऋकारलृकाराभ्यां प्रत्येकं तस्या एव त्रिंशत उपस्थितौ सत्यामृकारस्य लृकार लृकारस्य च रेफ आदेशः परं स्यादित्यपि निरस्तम् ।
अत एव इयवरट्‌मूत्रे हरयवडितिन्यासे परत्वाद्यथासङ्ख्यमेव प्रवर्त्तेत इति शब्दकौस्तुभेऽप्युक्तम् ।

स्वरितेनाधिकारः 11 ।

इत्थम्भूतलक्षणे तृतीया । अधिकारो विनियोगः । स्वरितत्वं चाधइकारज्ञापनार्थम् न तु प्रयोगसमवेतम् । स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् । यथा "प्रत्ययः" इत्यादि उत्तरत्रोपतिष्ठते । क्वचित्पूर्वत्रापि । तदुक्तम्---`अतिङित्युभयोः शेषः' इति । अवधिविशेषे तु व्याख्यानं प्रमाणम् । आतृतीयाध्यायान्तं धात्वधिकारो न तु लादेशेभ्यः प्रागेव । सप्तमाध्यायसमाप्तिपर्यन्तमङ्गाधिकारो न तु प्रागभ्यासविकारेभ्य एवेत्यादिदर्शनात् ।
यद्वा स्वरिते सति नाधिकार इत्यर्थः । तेन पूर्वाधिकारनिवृत्तिः । तथा च "विंशतिकात्खः" इत्यत्र स्वरितत्वदर्शनाद् "द्वित्रिपूर्वाद्‌" इत्यस्य निवृत्तिरनुमीयते ।
नचैकः स्वरितोऽधिकारार्थ एकस्त्वधिकारनिवृत्त्यर्थ इति सन्देहनिर्णयानुपपत्तिः । व्याख्यानात्तदुपपत्तेः ।
नचैवं व्याख्यानमेवानुवृत्त्यननुवृत्तौ नियामकमस्तु किं प्रकृतसूत्रेणेति वाच्यम् । अर्थान्तरसंग्रहार्थत्वात् ।
तथाहि---स्वरितेनाधिकाररूपोऽर्थो ग्राह्यः । तेन "गोस्त्रियोः" इत्यत्र स्त्रीशब्दस्य स्वरितत्वप्रतिज्ञानात् "स्त्रियाम्" इत्यधिकारे विहितः प्रत्ययो गृह्यते तेन "गोटाङ्‌ग्रहणं कृन्निवृत्त्यर्थम्" इतिवार्त्तिकं गतार्थम् ।
किञ्च अधिकं कार्यकधिकारः । गौरवस्यापि ग्रहणमित्यर्थः । तेन यत्र गौणमुख्यन्यायो नेष्यते तत्र स्वरितः पाठ्यः यथाऽपादानाधिकरणादौ । तेन "भीत्रार्थानाम्" इत्यादेर्बुद्धिकल्पितमपायमाश्रित्य प्रत्याख्यानं सङ्गच्छते । "छन्दसि" इत्यस्य प्रमाशब्दत्वेन गौणे आर्षग्रन्थरूपेऽपि छन्दसि प्रवृत्तिः । अत एवार्षत्वात्साधुत्वमिति तत्र तत्रोद्धोषः । गङ्गायां गाव इत्यादौ गङ्गाशब्दस्य नदीवृत्तित्वेऽपि सामीप्याद्गौणमाधारत्वमिति तत्रापि सप्तमी । यदा तु गङ्गापदस्य तीरे तात्पर्यं तदा प्रकृतावेव लक्षणा विभक्तिर्मुख्यार्थैवेति विशेषः ।
अपिच अधिकः कारः कृतिरियं पूर्वोऽपि परं बाधते स्वरितत्वयोगात् । तेन पूर्वविप्रतिषेधानां सङ्ग्रहः । तद्वार्त्तिकानां च तद्विवेकार्थत्वम् तुल्यजातीयस्य च परस्य पूर्वेण बाधो नतु नित्यत्वादियुक्तस्येति नातिप्रसङ्गः ।

इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य तृतीयपादे प्रथममाह्निकम् । (1.3.1)


*********************--------------------