सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः १-पादः २/आह्निकम् १

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

द्वितीयपादप्रारम्भः 1
गाङ्‌कुटादिभ्योऽञ्णिन्ङित् । 1 ।
(1.2.1)

गाङित्यादेशग्रहणम् । ङकारस्यानन्यार्थत्वादिति द्वितीये वक्ष्यामः । तस्मात्कुटादिभ्यश्च परे ञ्णिद्भिन्नाः प्रत्यया ङिद्वत्स्युः । अत्र कुटादित्वं कुटोच्चारणोत्तरमुच्चारितत्वाम् । तच्च कुटादिष्वेव । तथाऽपि तद्‌गुणबहुव्रीहिणा कुटत्वेन रूपेण कुटस्यापि बोधः । नचोभयसाधारणेनैकज्ञानविषयत्वादिना रूपेण कुटस्य तदादीनां च बोधोऽस्तु इति वाच्यम् । अतद्‌गुणसंविज्ञानस्थले बहुव्रीहिघटकपदार्थव्यावृत्तरूपेणैव बोधस्य वाच्यत्वात् । तत्साधारण्यार्थमत्रापि तथाकल्पनात् । उभयत्राप्यन्यपदार्थस्यैकरूपेणैव प्रतीतेः । वर्त्तिपदार्थस्योपलक्षणत्वविशिषणत्वाभ्यामेव बहुव्रीहिद्वौविध्यात् ।
प्राञ्चस्तु---अतद्‌गुणसंविज्ञाने लक्ष्यमात्रवृत्तिना तद्‌गुणे तुभयसाधारण्येन धर्मेण बोध इति विभागात् तद्‌गुणस्थले शक्यलक्ष्योभयसाधारणधर्म एव लक्ष्यतावच्छेदक इति वदन्ति । अत एव क्षणभङ्गवादे शब्दादिरित्यत्र चरमशब्दभिन्नत्वसमानाधिकरणसत्त्वेनालीकव्यावृत्तेन सर्वानुगम इति मिश्रादिबिर्व्याख्यातम् ।
ङिदिति चातिदेशः । तदुक्तम्---
`परत्र परशब्दः प्रयुज्यमानो विनाऽपि वतिं तदर्थं गमयति' इति । अध्यगीष्ट । "घुमास्थागापाजहातिसां हलि" इति । हलादिक्ङिदार्द्धधातुकनिमित्तक ईकारादेशः । `कुट कौटिल्ये' चुकुटिथ, कुटिता । "क्ङितिच" इति गुणनिषेधः । `कुङ्‌ शब्दे' एतत्पर्यन्ताः कुटादयः ।
अथ कथं `प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः' इत्यमरः । `चित्रेणापि न शक्यते विलिखितुं सर्वाङ्गसंकोचभाक्‌' इति सुबन्धुश्च । लिखतेः कुटादावनन्तर्भावात् । अत एव `विलेखितुं भीमभुवो लिपीषु' इति श्रीहर्ष इति ।
अत्र वदन्ति---प्रमाद एवायम्, संज्ञापूर्वकविधेरनित्यतयावा समाधेयम् ।
केचित्तु एकशेषेण कुटस्यादिरिति तत्पुरुषं व्याख्याय लिखतेरपि प्रकृतसूत्रेण संग्रह इत्याहुः ।
तन्न । `लेखिता' इत्यादीनां वृत्तिकारहरदत्तादिभिरुदाहृतत्वात् । "आलेखने" इति सौत्रप्रयोगविरोधाच्चेति ।
इह पूर्वपक्षत्रयं भाष्ये निरस्तम् । तथा हि---गाङादिभ्यः परे प्रत्यया ङितः स्युरित्यर्थे बाधः । तत्परस्य प्रत्ययस्य इत्संज्ञकङकाररहितत्वात् । सत्त्वे वा वचनान्तरसिद्धत्वादेतद्विधिवैयर्थ्यम् । न च चङादेरेवानेन विधानम् । अञ्णिदिति पर्युदासवैयर्थ्यात् । तदुक्तम्---"ङित्किद्वचने तयोरभावादप्रसिद्धिः" इति । किद्ग्रहणमुत्तराभिप्रायम् ।
अस्तु तर्हि गाङादिप्रकृतिकञ्णिद्बिन्नप्रत्ययानुवादेन हित्कितोर्विधिरिति द्वितीयः । उक्तप्रत्ययस्य ङकार इत्संज्ञको भवतीत्यर्थः । इद्धर्माक्रान्तस्यैव विधानादादौ मध्ये ऽन्ते वेति देशविशेषस्यानपेक्षणात् । इताञ्च धर्मोऽश्रूयमाणानामपि कार्यविशेषकत्वम् । मैवम् । टित्वकित्त्वमित्त्वानामभावाद् अनन्तरार्थे च बहुव्रीहेरभावात् ङिदिति तत्पुरुषस्यैव वाच्यत्वात् "आदेः परस्य" इति आदेः स्थआने ङकारादेशप्रसङ्गात् । न च `कुटिता' इत्यादौ प्रसिद्धङित्त्वाश्चङादय एव विधीयन्तामिति वाच्यम् । तेषां तदर्थोक्तावसामर्थ्यात् । तृङादीनां चात्र प्रसिद्धिविरहात् । एतद्वचनादेव तेषामपूर्वविधिस्वीकारे तु ङिच्चेत्यन्तादेशत्वप्रसङ्गात् । न चानुबन्धानामसतामेव कार्यनिर्वाहकत्वात्कथमादेशत्वम् आदेशस्य भावरूपतयाऽन्यप्रसङ्गसंभवादिति वाच्यम् । लोपस्येव वचनसामर्त्यादित्संज्ञकङकारस्याप्यादेशत्वसम्भवात् । स्थानिनिवृत्त्युत्तरं ङकारस्य निवृत्तिसम्भवात् । न च षष्ठीनिर्देशाभावः । पञ्चम्याः प्रथमायाः षष्ठीत्वप्रकल्पनोपपत्तेः ।
तदेतदुक्तम्---
"भवतीति चेदादेशप्रतिषेधः" इति ।
अस्तु तर्हि गाङादिभ्यः परोऽञ्णित् ङित्‌संज्ञको भवतीति तृतीयः । मैवम् । क्ङितीतिशब्दात्कितिङितीत्यनयोर्भेदात्संज्ञिनामप्रतीत्यापत्तेः । परिच्छिन्नपरिमाणानामेव संज्ञात्वात् । न्यूनातिरिक्तशब्दोच्चारणस्य संज्ञास्वरूपानुपलम्भात् । ङित्संज्ञाया व्यचेः कुटादित्वावचनात् संप्रसारणार्थतया, लिटः कित्संज्ञायाश्च "वचिस्वपि" इति संप्रसारणार्थतयाऽप्युपपत्तेः, माङ्‌कुटादिभ्यः परस्य ङित्संज्ञा तु न्यायवशादप्रयोजनैव स्यात् । "क्ङिति च" इत्यादौ यौगिकस्यैव ग्रहणसम्भवात् । किति ङितीत्यादौ च कृत्रिमत्वादनयोरेव ग्रहणं स्यात् । नच चङादीनां ङित्त्ववैयर्थ्यम् । यत्र संज्ञास्वरूपानुपलब्धिस्तत्र क्ङिति प्रदेशेषु ग्रहणार्थत्वात् । तदुक्तम्---
"संज्ञाकरणे क्ङिद्ग्रहणेऽसंप्रत्ययः शब्दभेदात्" इति ।
तस्मादतिदेश एव स्थितः ।
ननु सिसृक्षति, दिदृक्षते, इत्यत्र "हलन्ताच्च" इति सनः कित्त्वविधानेऽपि "सृजिदृशोर्झल्यमकिति" इत्यमागमः स्यात् । तदुक्तम्---
"तद्वदतिदेशेऽकिद्विधिप्रसङ्गः" इति । अतिदेशानां स्वाश्रयानिवर्त्तकत्वात् । मैवम् । किति न भवतीति व्याख्यानात् । तदुक्तम्---
"सिद्धन्तु प्रसज्यप्रतिषेधाद्" इति ।
अथ चुकुटिषति इत्यादौ सनो ङित्त्वात् तदन्तस्यात्मनेपदापत्तिः । मैवम् । उपदेशे यो ङित्तदन्तादिति व्याख्यानात् ।
भाष्ये तु ङितीव ङिद्वदिति सप्तम्यर्थे वतिमाश्रित्य पूर्वस्य ङितीव कार्यमतिदिश्यते ऽतो न ङिदन्तत्वनिबन्धनमात्मनेपदमिति व्याख्यातम् । यद्वार्तिकं--"सिद्धं तु पूर्वस्य कार्यातिदेशाद्" इति । यद्यपीह वतिर्नोपात्तस्तथाऽप्यतिदेशस्य यावत्कार्यार्थत्वाभावाद्व्याख्यानाद्विशिष्टकार्यार्थ एवातिदेशः । उपदेशग्रहणानुवृत्त्या चोक्तस्थले नात्मनेपदमिति सामर्थ्यात् पूर्वस्य कार्यातिदेशोऽयमिति भाव इति कैयटः ।
विज इट्‌ । 2 ।

विजेः पर इडादिप्रत्ययो ङिद्वत् । वृद्धिसंज्ञासूत्रादादिपदानुवृत्त्या इडादिरित्यर्थलाभः । आदिभूतस्य इटो ङित्त्वे प्रयोजनाभावात्तदादिप्रत्ययलाभः । अत एवार्थवद्ग्रहणप्रत्ययाप्रत्ययपरिभाषाभ्यामुत्तमपुरुषैकवचनस्येटो ग्रहणे प्रसक्तेऽपि तन्न भवति, आद्यवयवत्वाभावात् इति न्यासकारः ।
अन्ये तु आगमग्रहणस्यावश्यकतया तस्य गुणनिमित्तत्वाभावेन ङित्त्ववैयर्थ्यात् मत्वर्थलक्षणया इड्‌वान् प्रत्ययो गृह्यते । इट्‌ च प्रत्ययस्यादिरेवेति फलितार्थः---इडादिप्रत्यय इति । अत आदिग्रहणानुवर्त्तनं व्यर्थमित्याहुः ।
`विजिर् पृथग्भावे' इत्यस्य नेह ग्रहणं व्याख्यानात् । इटोऽसम्भवादिति तु हरदत्तः । केचित्तु विवेजिथ इत्यत्र थलि क्रादिनियमादिट् सम्भवत्येव । पित्त्वेन "असंयोगाल्लिड्‌" इति कित्त्वस्याप्रवृत्तेरित्याहुः ।
`ओविजी भयचलनयोः' । प्रायेणायमुत्पूर्वः । उद्विजिता, उद्विजिष्यते ।

विभाषोर्णोः 3 ।

`ऊर्णञ्‌ आच्छादने'। अदादिः । अस्मात्पर इडादिप्रत्ययो वा ङिद्वत् । ऊर्णुनुविथ, ऊर्णुनविथष ऊर्णुविता, ऊर्णविता ।

सार्वधातुकमपित् 4 ।

अपित्सार्वधातुकं ङिद्वत् । तुदति । शस्य ङित्त्वान्न लघूपधगुणः । अतिदेशे कल्प्यमानो वतिस्तृतीयान्तादेव नतु षष्ठ्याद्यन्तात् । सादृश्यानुयोगिनि प्रथमाश्रवणाद् । अन्यथा षष्ठीसप्तम्योरन्यतरस्यापत्तेरिति दीक्षिताः ।
ननु सूत्रे वतेरभावाद्विवरणवाक्य एव तत्प्रयोगात् तदनुरोधेन सूत्रे सप्तम्याद्यन्तत्वापादनं न युक्तम् । विवरणवाक्ये तदापादने त्विष्टापत्तिरेव । सूत्रे उभयोः समानविभक्त्यन्तपदप्रयोगबलादेवातिदेशलाभादुपजीव्यविरोधाच्चेति ।
मैवम् । तृतीयान्तादेव वतिमाश्रित्य विवरणवाक्येऽपि सौत्रविभक्तिसम्भवे तत्रापि विभक्त्यन्तरकल्पने प्रमाणाभावात् । कैयटस्याप्यत्रैव स्वारस्यम् ।
अथ सार्वधातुकग्रहणं व्यर्थम् । ङ्‌वनिपः पित्त्वेन तन्ङित्त्वस्य ज्ञापकत्वाभावेऽपि चङादीनां ङित्त्वेनार्द्धधातुकानां ङित्त्वाभावस्य ज्ञाप्यत्वात् । न चैवं तातङो ङित्त्वेन सार्वधातुकानामप्यङित्त्वज्ञापनं स्यादिति वाच्यम् । तिपः पित्त्वेनाऽप्राप्तप्रापणार्थत्वात् । ज्ञापकं च सजातीयापेक्षम् । तेन सार्वधातुकस्याप्यङित्त्वज्ञापनस्यानापत्तिः ।
मैवम् । सजातीयविषयकत्वे यङङौ लुग्विकरणानां, नजिङ् वर्तमानकालानाम्, ङ्‌वनिप् भूतकालानाम्, अथङ्‌ औणआदिकानाम्, नङ्‌ घञर्थीयानां ज्ञापकः स्यादित्यार्द्धधातुकान्तराणां ङित्त्वापत्तिः । न च प्रत्ययत्वाव्याप्यधर्मेण साजात्यं विवक्षणीयम्, न तूक्तधर्मैरिति वाच्यम् । विनिगमकाभावात् ।
स्यादेतत् । अपिदिति पर्युदासः प्रतिषेधो वा । नाद्यः । च्यवन्ते, प्लवन्ते इत्यादौ शपोऽन्तादेशस्य च "अतो गुणे" इति पररूपे परस्यापति इहाश्रयणादेकादेशस्यादिवद्भावात्पिद्भिन्नस्य सत्त्वात् ङित्त्वेन गुणनिषेधापत्तेः । न च पररूपात्पूर्वमेव गुणः । पररूपस्य नित्यत्वादन्तरङ्गत्वाच्च ।
यद्यपि सार्वधातुकावयवस्याकारस्यैकादेशः तथाऽपि परं प्रत्यादिवत्त्वादन्तशब्दोऽपित् सार्वधातुकं भवत्येवेति ङित्त्वप्रसङ्गः । च्यवे इत्युत्तमैकवचने तु सर्वस्यैव सार्वधातुकस्यैकादेशान्ङित्त्वप्रसक्तिसौलभ्यम् । तदुक्तम्---
"अपित् ङिदिति चेच्छबेकादेशप्रतिषेधः" इति ।
न द्वितीयः । तुदानि, लिखानि । "आडुत्तमस्य पिच्च" इत्याट्‌ । पिदपितोरेकादेशस्यादिवद्भावात् पिन्नेति ङित्त्वप्रतिषेधापत्तेः । तदुक्तम्---
"न पित्‌ ङिदिति चेदुत्तमैकादेशप्रतिषेधः" इति ।
अत्र भाष्यम्---"उभयथाऽपि न दोषः । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानात्" इति ।
यद्यपि च्यवन्ते इत्यत्र "वार्णादाङ्गम्" इति समाधानं सुलभम्, तथाप्युभयसाधारणपरिहाराभिधित्सया तन्नाश्रितमिति कैयटः ।

असंयोगाल्लिट्‌ कित् 5 ।

असंयोगात्परोऽपिल्लिट् कित्स्यात् । चक्रतुः । "सार्वधातुकार्द्धधातुकयोः" इति गुणे प्राप्ते "क्ङिति च" इति निषेधः । "ऋदुपधेभ्यो लिटः कित्त्वं गुणाद्विप्रतिषेधेन" । बिभिदतुः, विभिदुः इत्यादौ कित्त्वं नित्यं गुणस्त्वनित्यः । ववृते, ववृधे इत्यादौ द्वयोरप्यनित्यत्वम् । कित्त्वे कृते गुणस्येव गुणे कृते रपरत्वेन संयोगात्परतया कित्त्वस्याप्यप्रसक्तेः । ततश्च परत्वाद्‌ गुण एव स्यादिति विप्रतिषेधारम्भः । न च यथा क्सस्य कित्त्वसामर्थ्याद्‌ गुणो बाध्यते तथेहाप्यतिदेशसामर्थ्यादिति वाच्यम् । क्सस्य कित्करणे प्रयोजनाभावाद् अनवकाशत्वात् । इह तु सम्प्रसारणेन कृतार्थत्वाद् दुर्बलातिदेशप्राप्तस्य गुणनिषेधस्य दुर्बलत्वाद्‌ गुणेन सह विप्रतिषेधानुपपत्तिः । तातङ्‌न्ययो ऽप्यत्रानुसन्धेयः । तस्मात्परशब्दमिष्टवाचकमाश्रित्य सूत्रेण संगृहीतमेवार्थं स्फुटीकर्त्तुं वार्त्तिकारम्भः ।
स्यादेतत् । गाङादिप्रकृतिकस्य प्रत्ययस्य ङित्त्वम्, असंयोगादित्यादौ च कित्त्वमतिदिश्यते इति वैषम्ये किं बीजं उभयत्राप्यन्यतरस्यैवातिदेशौचित्यात् । एतेनोपदेशो ऽपि व्याख्यात इति चेत् । अत्र वार्त्तिकम् ।
"पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसम्प्रसारणम्", "सार्वधातुके चङादिषु जाग्रो गुणविधिः", "कुटादीनामिट्‌प्रतिषेधः" "क्त्वायां कित्प्रतिषेधश्च" ।
सुप्त इत्यादिवत् स्वपित इत्यादौ सम्प्रसारणं स्यात् । चङादयश्च "चङङ्‌नजिङ्‌ङ्‌वनिबथङ्‌नङः" इतिभाष्यम् । शून इत्यादिवदशिश्वियद्, अश्वदित्यत्रापि स्याद्, सुप्त इत्यादिवत् स्वप्न इत्यत्रापि स्यात् । इष्टवान् इतिवत् यज्वा इत्यत्रापि स्यात् । उषित इतिवत् आवसथ इत्यत्रापि स्यात् । रुदिविदिभ्यां ङिदित्यतो ङिदित्यनुवृत्तौ "उपसर्गे वसेः" इत्यथप्रत्ययः । इष्टम् इतिवत् यज्ञ इत्यत्रापि स्यात् । "यजयाच--" इति नङ्‌ । जागृत इत्यादिवत् जागरित इत्यादावपि अङितीति पर्युदासः स्यात् । गुणविधिरित्यत्राऽकारप्रश्लेषपरित्यागे तु दृष्टान्तदार्ष्टान्तिकवैपरीत्येन व्याख्येयम् । लूत्वा पूत्वा, इत्यादिवत् नुवित्वा इत्यादावपि "श्र्युकः किति" इतीट्‌प्रतिषेधः स्यात् । यद्यपि पूर्वस्य कार्य एवातिदेशः स्थापित इट्‌प्रतिषेधश्च परस्यैव कार्यः तथापि कितीतिसप्तमीनिर्देशात् इट्‌प्रतिषेधस्याप्यतिधेशः स्याद् इत्येतावन्मात्रेणोक्तमिति कैयटः । देवित्वा, सेवित्वा इत्यादिवत् कुटित्वा पुटित्वा इत्यत्रापि "न क्त्वा सेड्‌" इति कित्त्वप्रतिषेधः स्यात् । विशेषाभावादौपदेशिकवदातिदेशिकस्यापि कित्त्वस्य बाधसम्भवात् । न चौपदेशिकत्वस्य प्रथमोपस्थितत्वात्तद्बाधेन चरितार्थो निषेधः कथमातिदेशिककित्त्वं बाधेत । अत एव रागप्राप्तहिंसानिषेधेन चरितार्थम् "न हिंस्यात्सर्वा भूतानि" इति शास्त्रं "अग्नीषोमीयं पशुमालभेत" इत्यादिविहितहिंसायां न प्रवर्त्तते इति वाच्यम् । अप्राप्तस्यैवातिदेशात् । क्त्वायां कित्त्वातिदेश एव न स्यादित्यत्र तात्पर्यात् । चकारस्य यथाश्रुतत्वे तु इट्‌प्रतिषेधसमुच्चयस्तदर्थः । लूत्वा, पूत्वा, इत्यादिवत् नुवित्वा, धुवित्वा इत्यत्रापि "श्र्युकः किति" इति इट्‌प्रतिषेधः स्यात् । `णू स्तवने' `धू विधूनने'। अत एव `परिणूताखिलोदयः' इतिश्रीभागवतम् ।
भाष्यकृतस्तु---नैतत् प्रयोजनम् । ङित्त्वातिदेशे ऽप्यौपदेशिककित्त्वसत्त्वेन निषेधप्रवृत्त्या धूत्वा, नूत्वा इत्येव, साधुत्वात् विरोधाभावात् स्वाश्रयकित्त्वस्यानिवर्त्तनात् । न च "येननाप्राप्तिन्यायेन ङित्त्वेन कित्त्वबाधापत्तिः । `कुटिता' इत्यादौ कित्त्वाभावेन नाप्राप्ते कित्त्वे ङित्त्वातिदेशानारम्भात् इत्याहुः .

इन्धिभवतिभ्याञ्च 6 ।

`ञिइन्धी दीप्तौ' `भू सत्तायाम्' । आभ्यां परो ऽपिल्लिट् कित्स्यात् । इन्धेः संयोगार्थं ग्रहणम्, भवतेः पिदर्थम् ।
ननु बभूवेति प्रथमणलि न कित्त्वविधानार्थम् । "अचोञ्णिति" इति वृद्धेर्निर्दिष्टस्थानिकतया तत्र "क्ङिति च" इति निषेधाप्रवृत्तेः । न च कित्त्वसामर्थ्यादनिग्लक्षणवृद्धेरपि निषेधः स्यादिति वाच्यम् । बभूविथेति थलि, `अहं बभूव' इति उत्तमणलि च णित्त्वाभावपक्षे गुणनिषेधेन चरितार्थत्वात् ।
अत्र वार्त्तिकम्---
"इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात् ताभ्यां लिटः किद्वचनानर्थक्यम्" इति ।
उक्तसूत्रप्रत्याख्यानमेतत् । इन्धेर्हि अनन्तरो लिट् नास्त्येव । "इजादेश्च गुरुमतः" इत्यामा व्यवधानात् । छन्दसि तु "अमन्त्रे" इति पर्युदासादाम्‌विरहेऽपि समीधे इत्यत्र "छन्दस्युभयथा" इति लिटः सार्बधातुकत्वात् "सार्वधातुकमपिद्‌" इति ङित्त्वान्नलोपः । आर्द्धधातुकत्वाच्च श्नमभावः । तथाच मन्त्रः---
"त्वामग्ने दध्यङ्‌ङृषिः पुत्र ईधे अथर्वणः" इति, "समीधेदस्युहन्तमम्" इति च ।
एवञ्च लिडव्यवहितपूर्वस्य भाषायां संम्भवो नास्तीत्यत्र तात्पर्यं न तु सामान्यत इन्धेर्भाषायामप्रयोगे ऽपीति कैयटादयः ।
एतेन इन्धिग्रहणसामर्थ्यात् आम्‌विरहे भाषायामप्युक्तप्रयोगस्य साधुत्वकल्पनमपास्तम्, भाष्यवार्त्तिकविरुद्धत्वात् ।
भू अ इति स्थिते च वुको नित्यत्वात् । न च शब्दान्तरप्राप्त्या वुगनित्यः । एकदेशविकृतस्यानन्यत्वात् । कृताकृतप्रसङ्गित्वेन नित्यत्वानपायाच्च । "ओः सुपि" इत्यत ओरित्यस्याननुवृत्तेः । वुकि कृते च गुणस्य प्राप्त्यभावात् ।

मृडमृदगुधकुषक्लिशवदवसः क्त्वा 7 ।

कित्स्यात् । "न क्त्वा सेड्‌" इति वक्ष्यमाणकित्त्वनिषेधस्यापवादः । `मृड सुखने', `मृद क्षोदे', `गुध परिवेष्टने,' `गुध रोषेच', `कुष निष्कर्षे', क्लिश हिंसायाम्', `क्लिशू हिंसायाम्' । दिवादिक्राद्योर्द्वयोरप्युपादानम् । `वद व्यक्तायां वाचि', `वस निवासे' । उषित्वा । "वसति क्षुधोरिट्‌" । यजादित्वात्सम्प्रसारणम् ।
अत्र भाष्यम्---"न कत्वा सेट्‌" इति सूत्रं न कर्त्तव्यम्, इदं सूत्रं मृडादिभ्य एव परस्य क्त्वः कित्त्वं नान्येभ्य इति नियमार्थमस्तु । न च मृडादिभ्यः परः क्त्वैव किद्भवति न तु निष्ठादिरिति विपरीतनियमापत्तिः । प्रयोगमूलत्वाद् व्याकरणस्मृतेरनिष्टनियमानुपपत्तेः । न च लूत्वा, पूत्वा इत्यादावपि कित्त्वानुपपत्तिः क्त्त्वामात्रस्य नियमापत्तेः, "क्त्त्वातोसुन्कसुनः" इत्यत्र विशेषणार्थत्वेन ककारसार्थक्यादिति वाच्यम् । सेट एव क्त्वो नियमारम्भात् । न च "क्लिशः क्त्वानिष्ठयोः" इति पक्षे क्लिशेरनिट्‌त्वात् ततः परस्य क्त्वः कित्त्वविधानमनिट्‌क्त्वाकित्त्वव्यावृत्त्यर्थं स्यादिति वाच्यम् । गुधकुषक्लिशां 'रलो व्युपधाद्" इति कित्त्वविकल्पान्नित्यकित्त्वविध्यर्थत्वात् नियमार्थत्वायोगात् ।

रुदविदमुषग्रहिस्वपिप्रच्छः संश्च 8 ।

चकारात् क्त्वाग्रहणम् । `रुदिर्‌ अश्रुविमोचने,' `विद ज्ञाने,' `मुष स्तेये,' `ग्रह उपादाने,' `ञिष्वप्‌ सये' `प्रच्छ ज्ञीप्सायाम् । रुरुदिषति रुदित्वा । "स्वपिप्रच्छ्योः सन्नर्थं ग्रहणं किदेव हि क्त्वा" इति भाष्यम् । "न क्त्वा सेड्‌" इतिनिषेधस्य सुप्त्वा पृष्ट्वेत्यत्राप्रवृत्तेः । अनिट्‌कत्वात् । अत एव अनिटः क्त्वः कित्त्वनियमार्थत्वमस्य न इति कैयटः ।

इको झल् 9 ।

इगन्तात्परो झलादिः सन् कित्स्यात् । क्त्वाग्रहणं त्वत्र निवृत्तम् । अनिट्‌कस्य तस्य स्वयमेव झलादित्वात् । बुभूषति, दिदीषते । कित्त्वेन गुणनिषेधः । अत एव एज्विषयत्वाभावात् दीङो "मीनातिमिनोतिदीङाम्" इत्यात्वं न ।
न च झलन्तः सन्नित्यर्थोऽस्तु । ततश्च `चिचीषिता' इत्यादौ अतोलोपस्थल एव कित्त्वं स्यात् न तु `चिचीषति' इत्यादौ । सञ्शबकारयोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावादिति वाच्यम् । आदिग्रहणानुवृत्त्या व्याख्यानात् । इग्ग्रहणे इक्‌ स्मरणे इत्येव तु न गृह्यते, गर्गादिषु जिगीषुशब्दपाठस्य ज्ञापकत्वात् । जयतेः परस्यच सनः कित्त्वानुपपत्तिप्रसङ्गात्, झलितिप्रत्याहारसाहचर्याच्च । तत्समीपस्य हलोऽसम्भवाद्धलन्ताच्चेत्यस्यानन्वयप्रसङ्गाच्च इति न्यासकारः ।
अत्र वार्त्तिकम्---
"इकः कित्त्वं गुणो मा भूत् दीर्घारम्भात् कृते भवेत् ।
अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ।।
सामर्थ्याद्धि पुनर्भाव्यमॄदित्त्वं दीर्घसंश्रयम् ।
दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम्" ।।
अस्यार्थः---"इको झल् हलन्ताच्च" इत्येक एव योगो ऽस्तु किमर्थो योगविभाग इत्याक्षेपाभिप्रायः । यथाश्रुते तुत्तरमाह---"गुणो मा भूद्‌" इति । "सार्वधातुकार्द्धधातुकयोः" इत्यनेनेत्यर्थः । नन्वत्र "अज्ज्ञनगमां सनि" इति दीर्घो येननाप्राप्तिन्यायेन गुणस्य बाधको भविष्यतीत्याह---"दीर्घारम्भाद्‌" इति । दीर्घोत्तरं गुणप्रसक्तेस्तन्निषेधार्थं कित्त्वमित्युत्तरमाह---"कृते भवेद्" इति । रूपविशेषाभावे ऽपि मन्त्रजपादिवदावर्त्तमानस्यैव शास्त्रस्य फलसाधनत्वादिति भावः । नन्वेवं दीर्घविधिवैयर्थ्यं शास्त्रपूर्वकप्रयोगस्यैव धर्मनिमित्ततया शास्त्रप्रवृत्तिमात्रस्याप्रयोजकत्वादित्याह---"अनर्थकन्तु" इति । उत्तरमाह---"ह्रस्वार्थम्" इति । हस्वानां दीर्घविधिसामर्थाद् गुणाभावेऽपि दीर्घान्तानां प्रयोजनविरहाद्दीर्घविध्यप्रवृत्त्या गुणः स्यादिति तन्निषेधार्थं कित्त्वमिति भावः । "दीर्घाणां तु" इति गुणनिषेधार्थं दीर्घेष्वपि दीर्घशास्त्रं प्रवर्त्तत एव । अदग्धदहनन्यायस्य फलाभावमूलकत्वात् । फलञ्च ह्रस्वेषु रूपान्तरसम्पत्तिः । दीर्घेषु तु रूपान्तरानापत्तिरित्यन्यदेतत् । अत एव "मो राजि समः क्वौ" इति मकारस्य मकारादेशविधिः । तदेतदुक्तम्---"सामर्थ्याद्धि पुनर्भाव्यम्" इति । ननु दीर्घविधिना गुणस्येव इकारस्यापि बाधापत्तिः । चिकीर्षति, जिहीर्षति । "अञ्झन" इति दीर्घः । "ऋत इद्धातोः" इतीत्वं हि तत्रेष्यत इत्याशङ्क्याह---"ऋदित्त्वम्" इत्यादि । दीर्घत्वव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वादिदादेशस्य न बाध इत्यर्थः । उक्तं हि---`यं विधिं प्रत्युपदेशो ऽनर्थकः सविधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते" इति । ननु ह्रस्वान्तानां दीर्घाभावे इत्त्वप्राप्त्यभावे ऽपि दीर्घाणां दीर्घव्यतिरेकेणैव इत्त्वप्राप्तिरस्त्येवेत्याशङ्क्याह---"दीर्घाणां नाकृते दीर्घे" इति । तत्रापि गुणबाधार्थं दीर्घविधिरवश्यं प्रवर्त्तयितव्यः । अन्यथा "इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन" इति गुण प्रसङ्गादित्यर्थः । तदेवं कित्त्ववैयर्थ्ये प्राप्ते सिद्धान्तमाह "णिलोपस्तु" इति । ज्ञपि+स+ति इतिस्थिते णेर्गुणो लोपो दीर्घत्वं चेति त्रयं प्राप्नोति । तत्राऽसति कित्त्वे निरवकाशत्वाद्विशेषाभावाच्च गुण इव लोपो ऽपि दीर्घेण बाध्येत । पाचयतेः पाक्तिः इत्यादौ णिलोपस्यापि सावकाशत्वात् । "पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्" इति न्यायेन लोप एव बाध्येत । गुणस्तु स्यादेव । कित्त्वविधाने तु `चिचीषति' इत्यादिषु गुणप्रसक्त्यभावात्तत्र लब्धावकाशं दीर्घत्वं परत्वाण्णिलोपेन बाध्यते इति सिद्धम् ।
स्यादेतत् । असत्यपि कित्त्वे येननाप्राप्तिन्यायेन गुणस्यैव दीर्घो बाधको भविष्यति न तु णिलोपस्य, गुणबाधेन च सावकाशं दीर्घत्वं परत्वादेव णिलोपेन बाधिष्यत इत्यनारभ्यमेव कित्त्वम् ।
अत्राहुः---बाध्यविशेषचिन्तायां तथात्वेऽपि बाध्यसामान्यचिन्तायां स्वविषये प्राप्तस्य सर्वस्य बाधाभ्युपगमात् ।
स्यादेतत् । असत्यपि कित्त्वे `निमित्सति' `प्रमित्सति' इत्यत्र मीनातिमिनोत्योः सनि निरवकाशत्वाद् गुणं बाधित्वा दीर्घः । ततः मिनोतेरपि मीग्रहणेन ग्रहणात्प्रतिपदविधानादिस्‌भावेन गुणबाधः । तदुत्तरं "हलन्ताच्च" इति कित्त्वेन लघृपधगुणबाधः । तथा च "सनिमी" इत्यत्र `मी' इतिसामान्यग्रहणार्थत्वाद्दीर्घविधेश्चरितार्थतायां `ज्ञीप्सति' इत्यत्र दीर्घं बाधित्वा परत्वादेव णिलोपो बाधिष्यते इति कृतं कित्त्वेन ।
मैवम् । उक्तरीत्या दीर्घस्य सावकाशत्वात् द्वाभ्यामपि गुणलोपाभ्यां दीर्घबाधापत्तेः कित्त्वारम्भस्यावश्यकत्वात् । न च दीर्घस्य कुङ्‌धातुरवकाशः, `चुकूषति' इत्यत्र कुटादित्त्वेनैव ङित्त्वाङ्‌ गुणनिषेधसिद्धेरिति वाच्यम् । उक्तभाष्यानुरोधेन दीर्घान्तत्वनिर्णयात् इति कैयटादयः । न च `गु पुरीषोत्सर्गे' `धु गतिस्थैर्ययोः' इति सन्नन्ताववकाश इति वाच्यम् । तथा सति उहनगमामित्येव पाठापत्त्या अजितिप्रत्याहारग्रहणवैयर्थ्यापत्तेः । एवं कुङो ह्रस्वान्तत्वे ऽपि बाधकाभाव इति न्यासकाराभिप्रायः ।

हलन्ताच्च 10 ।

अन्तपदस्यावयवार्थत्वे ऽनन्वयः । इको हलवयवत्वाभावात् । इग्वतो हलन्तादिति न्यासे `पिपक्षति' इत्यत्र सम्प्रासारणापत्तिः । इगुपधाद्धलन्तादिति न्यासे दम्भेः सन्यव्याप्तिः । सूत्रभेदश्च । तथापि समीपार्थो ऽन्तशब्दः । इक्‌समीपाद्धलः परो झलादिः सन्‌ कित्स्यात् । `गुहू संवरणे'। जुघुक्षति । `भिदिर्‌ विदारणे'। विभित्सति ।
अथ दम्भेः सनि धिप्सति इत्यत्र नकारस्य सन्परत्वाभावात् भकारस्य च इक्‌समीपत्वाभावात्कित्त्वाभावे नलोपो न स्यात् ।
उच्यते । हल्त्वजात्योभयोरैक्यमाश्रित्य इक्‌परत्वानपायात् । तदुक्तम्---"दम्भेर्हल्‌ग्रहणस्य जातिवाचकत्वात्सिद्धम्" इति । इदं च "निपात एकाज्‌" इत्येकग्रहणेन ज्ञापितम् । हकारादिषु चाभिन्नप्रत्ययाभिधानात् हल्‌त्वजातेः सद्भावः । त्यक्तभेदा व्यक्तय एव जातिरिति पक्षे ऽपि भेदव्युदासादभेदाश्रयणादिष्टसिद्धिरिति कैयटः । यद्यपि वृद्धिसूत्रोक्तन्यायेन हल्त्वजातावतिरिक्तायां मानाभावः, तथापि हल्पदजन्यायामुपस्थितौ यावतीनां जातीनां हकारादौ प्रत्येकं प्रकारत्वं तदतिरिक्तवर्णत्वसाक्षाद्व्याप्यजात्यनवच्छिन्नत्वमेवात्र विवक्षणीयम् ।

लिङ्‌सिचावात्मनेपदेषु 11 ।

इक्‌समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्च कितौ स्तः । क्लृप्सीष्ट, क्लृप्सीयास्ताम्, क्लृप्सीरन्, अक्लृप्त, अक्लृप्साताम्, अक्लृप्सत । ऊदित्वाद्वेट्‌ । झलादी किम् । कल्पिषीष्ट अकल्पिष्ट इति इट्‌पक्षे मा भूत् ।
स्यादेतत् । आत्मनेपदेष्विति निर्द्धारणसप्तमी परसप्तमीवा । नाद्यः । निर्द्धारणस्य सजातीयविषयतया लिङ्‌मात्रस्य विशेषणापत्तेः । लिङिति तदादेशग्रहणात् । न द्वितीयः । सिचो विशेषणे ऽपि लिङस्तदयोगात् । सीयुड्‌विशिष्टस्य लिङ्‌पदार्थत्वे तदपेक्षया लिङ्‌परत्वानुपपत्तेः । नाप्यर्थद्वयपरत्वम् । सकृच्छ्रुतत्वात् । नाप्येकशेषः । अर्थभेदात्सहविवक्षाविरहात् । अत्र भाष्यम्---"उभयथा ऽप्यदोषः" इति ।
तथाहि---आत्मनेपदं यौ लिङ्‌सिचावित्यर्थः । नच सिचस्तङानोभयभिन्नत्वादात्मनेपदत्वानुपपत्तिः । तत्परत्वेन आत्मनेपदस्य सिचि औपचारिकत्वात् । गौणमुख्यार्थयोरात्मनेपदशब्दयोः सारूप्यमात्रप्रतिबद्धैकशेषाश्रयणात् । द्वितीयेऽप्यदोषः । अवयवगतपौर्वापर्यस्य समुदाये आरोपात् । तन्त्रेणार्थद्वयलाभाद्वा । परन्तु सम्भवव्यभिचाराभ्यां सिजेवात्मनेपदेन विशेष्यते न तु लिङ् । परस्मैपदेषु लिङो झलादित्वाभावेन तत एवात्मनेपदग्रहणसिद्धावात्मनेपदविशेषणस्य वैयर्थ्यात् ।
अथ सिचोऽप्यात्मनेपदविशेषणं किमर्थम् अयाक्षीत् इत्यादौ इक इत्येव व्यावृत्तेः । अचैषीद् इत्यादौ अच्‌परत्वाभावादेव तथात्वात् । `अकोषीत्' इत्यादौ इडागमे कृते झलादित्वाभावात् । अभैत्सीत् इत्यादौ "वदव्रज" इति वृद्धेरिग्लक्षणत्वाभावादेव "विङतिच" इति निषेधविरहात्सत्यपि कित्त्वे क्षतिविरहात् ।
मैवम् । अस्राक्षीत्, अद्राक्षीत् इत्यादौ "सृजिदृशोः" इत्यकिल्लक्षणस्यामागमस्यानुपपत्तिप्रसङ्गात् ।

उश्च 12 ।

ऋवर्मात्परौ झलादी पूर्वोक्तौ कितौ स्तः । भृषीष्ट, भृषीयास्ताम्, भृषीरन्, अभृत, अभृषाताम्, अभृषत ।

वा गमः 13 ।

गमः परौ झलादी पूर्वोक्तौ कितौ वा स्तः । सङ्गसीष्ट, संगंसीष्ट, समगत, समगंस्त । कित्त्वपक्षे ऽनुनासिकलोपः ।

हनः सिच् 14 ।

हन्तेः परः सिच् कित्स्यात् आत्मनेपदे परे । आहत, आहसाताम्, आहसत । पुनः सिज्ग्रहणं "एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः" इति ज्ञापनार्थम् । तेन पूर्वसूत्रद्वये "लिङ्‌सिचावात्मनेपदेषु" इतिसंपूर्णसूत्रानुवृत्तिः ।

यमो गन्धने 15 ।

सिच् कित्स्यात् । गन्धनं परदोषाविष्करणम् । `उदायत'। गन्धने किम् । `उदायंस्त पदाम्'। आकृष्टवानित्यर्थः ।

विभाषोपयमेन 16 ।

प्राग्वत् । रामः सीतामुपायत, उपायंस्त महास्त्राणि ।

स्थाघ्वोरिच्च 17 ।

सिच् कित्, इच्चान्तादेशः । समस्थित, समस्थिषाताम्, सामस्थिषत, अदित, आदिषाताम्, अदिषत ।
अत्र वार्त्तिकम्---
"इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृते ऽपि सः ।
अनन्तरे प्लुतो मा भूत्प्लुतश्च विषये स्मृतः" ।
नचात्र हेतुपदप्रयोगविरहात् "षष्ठी हेतुप्रयोगे" इत्यस्याप्रसक्त्या कस्येत्यत्र हेतुतृतीयापत्तिः । अत्र सम्बन्धित्वनैव विवक्षितत्वात् । `मदीयाः पुत्राः' इत्यत्र अपत्यत्वप्रकारकविवक्षाविरहेण सम्बन्धिसामान्यार्थे छप्रत्ययोत्पत्तेः । "तकारेत्त्वम्" इत्यत्र कर्मधारयोत्तरं त्वप्रत्ययः । "दीर्घो माभूद्‌" इति । आकारस्थाने आन्तरतम्यात्तस्यैव प्रसङ्गात् । "भाव्यमानो ऽण्‌ सवर्णान्न गृह्णाति" इति परिहारो नोक्तः । `अमूभ्याम्' इत्यादौ भाव्यमानस्याप्युकारस्य ग्राहकत्वदर्शनात्, समाधानान्तरसद्भावाच्चेति भावः । "ऋतेऽपि सः" इति । "घुमास्था" इत्यादिनैव ईत्वस्य सिद्धत्वात् इकारविधइसामर्थ्यादेव दीर्घो न भविष्यतीत्यर्थः । कित्त्वन्तु विधेयमेव । अन्यथा "घुमास्था" इत्यस्याप्यप्रवृत्तेः । प्रयोजनान्तरमाह "अनन्तरे प्लुतो मा भूद्‌" इति । असदृशे आदेशे क्रियमाणे प्लुतो विहितस्तत्राप्यनेन विधीयेत । अस्मिन्कर्तव्ये "पूर्वत्रासिद्धम्" इत्याष्टमिकप्लुतस्यासिद्धत्वात् । ततश्च पक्षे ऽनुवाददोषः स्यादिति ह्रस्व एव भवतीत्यर्थः ।
केचित्तु तपरत्वसमर्थनमतेत् । असदृशादेशे क्रियमाणे दीर्घ एव स्यात् । नच तस्योक्तरीत्या ऽन्यथासिद्धिः । प्लुतनिवृत्त्यर्थतया सिद्धस्यापि विधानोपपत्तेः । मा भूत्लुतइति चेन्न । "प्लुतश्च विषये स्मृतः" । स चासति तपरत्वे न प्राप्नोतीति दीर्घनिवृत्यर्थं तपरत्वं स्थितमिति व्याचख्युः ।
प्लुतविधौतु "वाक्यस्य टेः" इत्यधिकारात्कथमेकस्य प्लुतः स्यादिति चिन्त्यमेतदिति कैयटः ।

न क्त्वा सेट्‌ 18 ।

सेट् क्त्वा किन्न स्यात् ।
अत्र वार्त्तिकम्---
"न सेडिति कृते ऽकित्त्वे निष्ठायामवधारणात् ।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ।
इत्त्वं कित्सन्नियोगेन रेण तुल्यं सुधीवनि ।
वस्वर्थं किदतिदेशात् गृहीतिः क्त्वा च विग्रहात्" ।
अयमर्थः---अकित्त्वे इति छेदः । `न सेड्‌' इति सूत्रणीयम् । क्त्वाग्रहणे फलाभावात् । नच गुधितो, गुधितवान् इति निष्ठायामपि कित्त्वनिषेधापत्तिः । "निष्ठा शीङ्‌स्विदिमिदि" इत्यादिनियमादेव तदभावात् । एभ्य एव परा निष्ठा न किदित्यर्थात् । एभ्यः परा निष्ठैव किन्न भवतीति विपरीतनियमस्य व्याख्यानादेव परित्यागात् ।
ननु तथापि, परोक्षापदं पूर्वाचार्यप्रसिद्ध्या लिट्‌परम्, तत्र कित्त्वनिषेधे पपिव, पपिमेत्यादौ "आतो लोप इटि च" इत्याकारलोपो न स्यादिति चेन्न । क्ङिदार्द्धदातुकं निमित्तीकृत्य तदभावे ऽपि इटमेवाश्रित्य तत्सिद्धेः । नच तथापि जग्मिव, जघ्निव इत्यादौ "गमहन" इत्युपधालोपः कित्त्वाभावान्न स्यादिति वाच्यम् । औपदेशिककित्त्वस्यैवायं निषधो न त्वातिदेशिकस्येति व्याख्यानात्`असंयोगाल्लिट् कित्' इति आतिदेशिककित्त्वस्य सुस्थत्वात् । नचात्र प्रमाणाभावः । "इको झल्‌" इत्यत्र झल्ग्रहणस्यैव मानत्वात् । तद्धि `शिशयिषते' इत्यत्र कित्त्वं मा भूदित्येतदर्थम् । आतिदेशिकस्यापि कित्त्वस्य निषेधे तु तत्र "इक" इति कित्त्वप्रसक्तावपि "न सेड्‌" इत्यनेन तन्निषेधसम्भवात् झल्ग्रहणं व्यर्थमेव स्यात् ।
यत्तु "अस्त्वत्र कित्त्वम्" इति भाष्यम् । तत्रास्त्वित्यस्य प्राप्नोत्वित्येवार्थः । निवृत्तस्य निषेध्‌धुमशक्यत्वादिति कैयटः ।
तथा च हल्ग्रहणं आतिदेशिककित्त्वस्य "न सेड्‌" इत्यनेन बाधो नेत्यत्र ज्ञापकम् इति स्थितम् ।
स्यादेतत् । "स्थाघ्वोः" इत्यत्रानुवृत्त्यर्थं झल्ग्रहणं झलादावेव यथा स्यात्, उपास्थायिषाताम् इत्यत्र मा भूत् । कर्मणि लुङ्‌ । स्था स्‌ आतामिति स्थिते इत्त्वं चिण्वद्भावश्च प्राप्नोति । परत्वाच्चिण्वद्भावात् युक् च प्राप्नोति वृद्धिश्च । वृद्ध्यपवादत्वात् युक् । तत्र कृते यकारस्य इत्त्वं स्यात् । न च पनर्वृद्धिः । सकृद्गतिन्यायात् ।
मैवम् । कित्त्वसंनियोगशिष्टस्य इत्त्वस्य कित्त्वव्यतिरेके प्रवृत्त्यनुपपत्तेः । अत एव सुधीवा, सुपीवा इत्यादौ ङीप्‌संनियोगेन रकार उच्यमानो ङीबभावे न भवति । नच "अनो बहुव्रीहेः" इति तन्निषेधः । तस्य ङीम्मात्रनिषेधकत्वात् । "सन्नियोगशिष्टानामन्यतराभावे उभयोरप्यभाव" इति परिभाषयैव रेफादेशनिवृत्तेः । स च न्यायो "बिल्वकादिभ्यश्छस्य लुग्‌" इत्यत्र छग्रहणेन ज्ञापयिष्यते । यद्वा, आकारस्य इत्त्वे कृते वृद्ध्ययादेशौ । युगागमेन वृद्धेर्बाधेऽपि इकारस्य वृद्धिसम्भवात् । नच पपिवान्, तस्थिवान इत्यादौ आकारलोपो न स्यात् । क्वसोः कित्त्वस्यौपदेशिकत्वात् इति वाच्यम् । इटमेवाश्रित्य तत्सिद्धेः । नच जग्मिवान्, जघ्निवान् इत्युपधालोपो न स्यादिति वाच्यम् । आतिदेशिककित्त्वेन सिद्धेः । नच अञ्जेः क्वसौ "असंयोगाद्‌" इत्यातिदेशिककित्त्वस्याप्रवृत्त्या औपदेशिकस्य च `न सेड्‌' इत्यनेन बाधान्नलोपो न स्यादिति वाच्यम् । क्वसोश्छान्दसत्त्वात्तत्र लिटः सार्वधातुकसंज्ञाया अपि सत्त्वात् "सार्वधातुकमपिद्" इति ङित्त्वमेवाश्रित्य तत्सिद्धेः ।
कैयटलस्तु---`अत्र नलोपे कृते द्विर्वचने एकादेशे च "वस्वेकाजाद्धसाम्" इति इट्‌ । तत्र हि कित्त्वप्रतिषेधान्नलोपनिवृत्तौ द्विहल्त्वान्नुटि सत्येकाच्‌त्वाभावात् इण्निवृत्तौ नलोपादीनां चक्रकप्राप्तिः, चक्रकेषु चेष्टतो व्यवस्था । भाष्ये तु परिहारान्तरसद्भावादेष परिहारो नाश्रितः' इत्याह ।
तस्मात् त्काग्रहणं न कार्यमिति प्राप्ते सत्याह "गृहीतिः" इति । निगृहीतिः, उपस्निहितिः, निकुचितिः । अत्र कित्त्वं मा भूत् । "तितुत्र---" इति इण्निषेधे "अग्रहादीनाम्" इति वचनात् इट्‌ । क्रमेण संप्रसारणं, गुणाभावो, नलोपश्च सिद्ध इत्यर्थः । इदानीं क्त्वाग्रहणं प्रत्याचष्टे---"क्त्वाच" इति । "विग्रहात्" योगविभागात्---"पूङः" । पूङः परा सेट् निष्ठा न कित् । ततः । "क्त्वाच" । पूङः इति निवृत्तम् । सेट्‌ निष्ठा किन्नेत्यर्थः ।

निष्ठा शीङ्‌स्विदिमिदिक्ष्विदिधृषः 19 ।

सेट् निष्ठा न कित् । शयितः । "विभाषा भावादिकर्मणोः---" इति वेट् । प्रस्वेदितश्चैत्रः, प्रस्विन्नः इत्यादि । सेट् किम् । प्रस्विन्नं तेन । भावे कित्त्वमेव ।

मृषस्तितिक्षायाम् 20 ।

सेट्‌ निष्ठा न कित् । मर्षितः । तितिक्षायां किम् । अपमृषितं वाक्यम् ।

उदुपधाद्भावादिकर्मणोरन्यतरस्याम् 21 ।

उदुपधात्परा भावे आदिक्रमणि च सेट्‌ निष्ठा न कित् । द्योतितं तेन, द्युतितं वा, प्रद्योतितः प्रद्युतितो वा चैभः । "आदिकर्मणि क्तः कर्त्तरिच" इति कर्त्तरि, भावे च क्तः । शब्विकरणेभ्य एवायमिष्टः । नेह गुधितम् ।

पूङः क्त्वा च 22 ।

क्त्वा निष्ठा च न कित् ।
ननु सेडित्यन्यतरस्यामिति चानुवृत्त्या सेटोरेव क्त्वानिष्ठयोः कित्त्वविकल्पः स्यात् । ततश्च पुवित्वा पुवित इति पक्षे स्यात् । "पूङः श्च" इतीटो विकल्पात् ।
अत्र वार्तिकं---"न वा सेट्‌त्वस्याकिदाश्रयत्वादनीटि वा कित्वम्" इति ।
अस्यार्थः---इड्‌विधौ "पूङ्‌श्च" इति सूत्रं नारभ्यम् । तेनानिटोरेव क्त्वानिष्ठयोरयं कित्त्वविकल्पः । कित्त्वपक्षे "श्र्युकः किति" इति इट्‌प्रतिषेधात् पूत्वा पूत इति, तदभावपक्षे तु इट्‌गुणयोः पवित्वा पवित इति सिद्धम् ।
भारद्वाजीयास्तु पठन्ति नित्यमकित्त्वमिडाद्योः, त्काग्रहणमुत्तरार्थमिति । लाघवमनादृत्य सूत्रकारेण इड्‌विधौ "पूङश्च" इति पठितम् । इहं च न विकल्पानुवृत्तिरुत्तरत्र वाग्रहणादिति सिद्धमिष्टम् । क्त्वाग्रहणं तूत्तरार्थम् । "न त्का सेड्‌" इत्यनेन कित्त्वनिषेधसिद्धेः । एतच्च सूत्राभिप्रायवर्णनमात्रम् । कात्यायनेन तु उक्तरीत्या लाघवात्तत् सूत्रं प्रत्याख्यात्म् ।

नोपधात्थफान्ताद्वा 23 ।

नकारोपधात्थकारफकारान्यतरान्तात्परः सेट् क्त्वा वा कित् । अन्तग्रहणं स्पष्टार्थम् ।
न्यासकारस्तु---एतत्प्रकरणे प्रयत्नं विना तदन्तविधिर्नेति ज्ञापनार्थं तत् । तेनोत्तरसूत्रे `ऋत' इति रूपेण धातुर्गृह्यते नतु ऋदन्त---इत्याह । श्रथित्वा, श्रन्थित्वा, गुफित्वा, गुम्फित्वा । नोपधात्किम् । कोथित्वा, रेफित्वा । `कुथ पृतीभावे' । `रिफ कत्थनयुद्धहिंसादानेषु' ।
नच "रलो व्युपधाद्‌" इति विकल्पो दुर्वार इति वाच्यम् । नोपधग्रहणसामर्थ्यात् ।

वञ्चिलुञ्च्यृतश्च 24 ।

पूर्ववत् । `वञ्चु प्रलोभने' । `लुञ्च अपनयने' । वचित्वा, वञ्चित्वा, लुचित्वा, लुञ्चित्वा, ऋतित्वा, अर्त्तित्वा । ऋतिः सौत्रस्तकारान्तो अस्मादेव निर्देशादिति तृतीये वक्ष्यामः । ईयङभावपक्षेऽयं विकल्पः ।

तृषिमृषिकृषेः काश्यपस्य 25 ।

पूर्ववत् । काश्यपग्रहणं पूजार्थम् । विकल्पस्य प्रकृतत्वात् । तृषित्वा, तर्षित्वा इत्यादि । `ञितृषा पिपासायाम्' `मृषतितिक्षायाम्' "कृष तनूकरणे" ।

रलो व्युपधाद्धलादेः संश्च 26 ।

नन्वयं कित्त्वस्य विधिः प्रतिषेधो वा । नाद्यः । क्त्वाग्रहणवैयर्थ्यात् । तत्र कित्त्वस्य सिद्धत्वात् । नान्त्यः । सन्ग्रहणवैयर्थ्यात् । तस्य स्वयमेवाकित्त्वात् ।
मैवम् । "न त्क्वा सेड्‌" इति कित्त्वनिषेधप्राप्त्या विधेरेव युक्तत्वात् ।
उश्च इश्च वी तदन्यतरोपधाद्रलन्ताद्धलादेः परौ सेटौ सन्‌ त्क्वा च वा कितौ स्तः । दिद्युतिपते, दिद्योतिषते, द्युतित्वा, द्योतित्वा । रलः किम् । दिदेविषति, देवित्वा । व्युपधात्किम् । वर्तित्वा, विवर्तिषते । हलादेः किम् । एषित्वा, एषिषिषति ।
इह नित्यमपि द्वित्वं गुणेन बाध्यते । ओणेर्ऋदित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्प्राबल्यबोधनात् । सेट् किम् । भुक्त्वा, बुभुक्षते । आदिग्रहणं स्पष्टार्थम् । व्युपधस्य हलन्तत्वाव्यभिचारात् ।

ऊकालोऽज्झ्रस्वदीर्घप्लुतः 27 ।

ऊकाल इति तत्कालस्येतिवद्व्याख्येयम् । एकद्वित्रिमात्रा अचः क्रमेण ह्रस्वदीर्घप्लुतसंज्ञाः । समाहारेऽपि सौत्रं पुंस्त्वम् । नच सञ्ज्ञित्रयनिर्देशे मानाभावः । सञ्ज्ञात्रयस्य लिङ्गत्वात् ।
नच ह्रस्वदीर्घप्लुतसञ्ज्ञाऽप्येकैवेति वाच्यम् । ह्रस्वादिशब्दैरेवोत्तरत्र व्यवहारात्, समुदायस्य संज्ञात्वविरहात् ।
स्यादेतत् । उक्तक्रमेण संज्ञिनिर्देशे नियामकाभावः । नच प्लुतस्य आदौ निर्देश इति वाच्यम् । त्रिमात्रस्यान्ते निर्देशं विना प्लुतसंज्ञाविरहे प्रकृतिभावस्य दूरापास्तत्वात् । एतेन ह्रस्वस्य घिसंज्ञात्पूर्वमेव निर्देश इत्यपि निरस्तम् । ह्रस्वसंज्ञाया अपि पूर्वनिर्देशाधीनत्वात् ।
मैवम् । "विभाषा पृष्टप्रतिवचने हेः" इति मात्रिकस्य प्लुतविधानात् ज्ञापकात् । मात्राकालस्यान्ते निर्देशे हि तस्यैव प्लुतसंज्ञापत्त्या मात्रिकस्य मात्रिकविधानं व्यर्थं स्यात् ।
न च विसदृशादेशविध्यर्थं तत् । अन्तरतमपरिभाषायाः प्रत्यक्षाया बाधितुमशक्यत्वात् । अन्ते मात्रिकनिर्देशस्य सन्दिग्धत्वात् ।
नच तथापि ह्रस्वस्य मध्ये निर्देशः स्यादिति वाच्यम् । "अतो दीर्घो यञि" "सुपिच" इति दीर्घविधानाञ्ज्ञापकात् । मध्ये मात्रिकनिर्देशे हि पूर्ववद्वयैयर्थ्यं स्यात् ।
न च द्विमात्रस्यान्ते निर्देशः स्यादिति वाच्यम् । "ओमभ्यादाने" इति द्विमात्रस्य प्लुतविधानात् । वैयर्थ्यापत्तिः प्राग्वत् । लिङ्गद्वयेनान्त्यमध्याभ्यां मात्रिकस्यापकृष्टत्वात्परिशेषादादितो निर्देश इति सिद्धा संज्ञिव्यवस्था ।
स्यादेतत् । ह्रस्वस्याण्‌त्वात्सवर्णग्रहणे द्वित्रिमात्रयोरपि हस्वसञ्ज्ञापत्तिः, तयोस्त्वनण्‌त्वान्न हस्वस्य दीर्घप्लुतसञ्ज्ञाप्रसङ्गो दोषः ।
अत्र वार्त्तिकम्---
"सिद्धं तु तपरनिर्देशात्" । उदूकाल इति पठनीयम् । तपरत्वाच्च न ग्राहकत्वम् ।
नचैवं द्रुतायां तपरकरणे मध्यविलम्बितयोरुपसंख्यानापत्तिः । "सिद्धन्त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशिष्यन्ते' इति तपरसूत्रे परिहृतत्वात् ।
भाष्यकृतस्तु---कालग्रहणान्न दोषः । ऊ अच्‌ इत्युक्तेऽपि अच्‌त्वेन उकारादिविशेषणे व्यभिचाराभावात् वैयर्थ्यापत्त्या उकारादिभिरेवाऽचो विशेषणात् उकारादिकालत्वात् तत्सदृशस्याचो ग्रहणे सिद्धेऽपि कालग्रहणं श्रूयमाणेनैव उकारेण कालविशेषणं यथा स्यात् न तु तद्‌गृहीतसवर्णैरपीत्येतदर्थम् । पण्मात्रस्याचोऽसंभवात् संज्ञात्रयकरणाच्च कालशब्दस्य मात्रिकेणाप्युकारेण सम्बन्धात् । यद्वा ग्रहणकशास्त्रेऽशब्दसंज्ञेत्यनुवर्त्त्यम्, शब्दस्य संज्ञायां विधेयायाम् अण्‌सवर्णग्राहको न भवतीति न दोषः । गुणानामभेदकतया च उदात्तादीनामपि मात्रिकाणां ह्रस्वसंज्ञा । उदात्तादिसंज्ञासु त्वज्ग्रहणं निवृत्तमिति दीर्घप्लुतानामपि तत्संज्ञासिद्धिः । न चैवं हलामपि तदापत्तिः । अयोग्यत्वात् । "इको यणचि" इत्यादिकं तु न संज्ञाविधानम्, किन्तु "आदिरन्त्येन" इति विहितसंज्ञानुवाद इति न दोषः ।
यद्वा ह्रस्वसंज्ञाविधानसामर्थ्यात् न दीर्घप्लुतयोर्ह्रस्वसंज्ञा । त्रयाणां ह्रस्वसंज्ञायां हि ह्रस्वप्रदेशेषु त्रयाणामुपस्थित्याऽन्तरतमादेशविधाने ह्रस्वसंज्ञावैयर्थ्यम् । न च वचनसामर्थ्यात् अनन्तरतमोऽप्यदेशः स्यादिति वाच्यम् । अच इत्येव वक्तव्यत्वापत्तेः ह्रस्वसंज्ञायां फलविशेषाभावात् ।
ननु ह्रस्वसंज्ञायामसत्यां यत्र एचो ह्रस्वो विधीयते तत्र `एच इग्‌' इति प्रदेशेषु वक्तव्यं स्यात्, सत्यां तु "एच इग्घ्रस्वादेशे" इति सकृदेवेति लाघवमिति चेद् । मैवम् । एवं हि एकं संज्ञायां त्रीणिचान्यत्रेति चत्वारि पदानि, चत्वारि च "एच इग्घ्रस्वादेशे " इत्यत्र इत्यष्टौ पदानि, स्थलत्रये "एच इग्‌" इत्युक्तौ तु षडेवेति लाघववैपरीत्यात् ।
ननु `हेड वेष्टने' इत्यस्य `हिडयति' इत्यर्थं "मितां ह्रस्व" इत्यत्र, परमनुमंन्य इत्यर्थं "खित्यनव्ययस्य" इत्यत्र च "एच इग्" इत्यस्य वक्तव्यत्वात् दश पदानि भवन्ति । तेन यथान्यासं "ह्रस्वादेशे" इत्यत्र आङः पृथग्गणनेऽपि न निस्तारः । नवपदापत्तावपि दशापेक्षया लाघवादिति चेत् ।
अत्र कैयटः---`लाघवोपलक्षणपरं भाष्यम् । पञ्चकृत्व `एच इग्‌' इत्युपादाने शब्दगौरवेऽपि प्रतिपत्तिलाघावानपायादिति । तदेव लघुना न्यासेन सिद्धे ह्रस्वविधानं द्वित्रिमात्रयोर्न ह्रस्वसंज्ञा इत्यत्र ज्ञापकमिति सिद्धम् ।

अचश्च ।। 28 ।।

ह्रस्वदीर्घप्लुतशब्दैर्यत्र विधानं तत्र अच इति षष्ठ्यन्तमुपतिष्ठते । तच्छेषतदपवादपक्षावप्यत्र भाष्ये निरस्तौ । तथाहिअलोऽन्त्यस्य विधयो भवन्ति अचो ह्रस्वदीर्घप्लुता अन्त्यस्येति एकवाक्यत्वे तच्छेषपक्षः । भिन्नवाक्यत्वे तु अचो ह्रस्वादयः अन्त्यस्यानन्त्यस्य वेति तदपवादपक्षः । आद्ये दोषवार्त्तिकं "ह्रस्वादिविधइरलोऽन्त्यस्येति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणम्" इति । वाक्, प्राट्‌, शाम्यति, क्लाम्यति, जिघांसति, जिगांसति । अचोऽन्त्यत्वाभावाद्दीर्घो न स्यादिति तत्र तत्र अच इति वक्तव्यं स्यात् । द्वितीयेऽपि "अचश्चेन्नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः" । अन्यथा सुवाक् कुलं, भिद्यते, षण्णाम् इत्यत्राप्युक्तविधयः प्रसज्येरन् । यकारादौ यदङ्गं तस्यावयवो योऽच्‌ इति व्याख्याने `भिद्यते' इत्यत्रातिप्रसङ्गोक्तिः । अवयवयकारादिविशेषणे तदभावादेवमन्यत्रापीतिकैयटः । यदि तु नोपधायाः एव नामि नियमः, तदा अन्यते, तन्यते इत्यत्र "अकृत्--" इति दीर्घः स्यात् । यदि नाम्येव नोपधाया इति, तदा षण्णाम् इत्यत्र "नामि" इति दीर्घः स्यात् । अथ नियमद्वयं, तथापि भिद्यते, सुवाक् इत्यत्रातिप्रसङ्गो दुर्वार एव ।
तस्मात्पदोपस्थितिपक्ष एव सिद्धान्तः । तथाहि--प्रदेशेषु "अच्‌" इति षष्ठ्यन्तस्योपस्थितौ वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु वच्यादयो विशेषणम् अच इति विशेष्यं तेषामचो दीर्घ इति । "ह्रस्वो नपुंसक" इत्यादौ तु अच इत्येतन्नपुंसकस्येत्यादेर्विशेषणमिति तदन्तविधिनाऽजन्तस्य नपुंसकस्येत्यादिरर्थ इति नातिव्याप्तिः ।
ननु "दिव औत्" "पथिमथ्यृभुक्षामात्" "त्यदादीनामः" इत्यत्राप्यत्र इत्यस्योपस्थितिः स्यात् ।
मैवम् । ह्रस्वदीर्घप्लुतशब्दानामत्र स्वरूपमात्रपदार्थकानां विधीयमानाज्विशेषणतया ह्रस्वादिशब्दैर्विधीयमानस्याच इत्यर्थसम्पत्तेः । नच विशेष्याणामचामुपस्थित्यर्थं तदुपयोगः । अनुवृत्तेन अच्‌पदेनैव तेषामुपस्थापितत्वात् ।
नन्वेवमत्रैवाज्ग्रहणं क्रियताम् नतु पूर्वसूत्रे इति चेत्---
अत्र वार्त्तिकम्---
"अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्" । अन्यथा प्ररक्ष्य प्रतक्ष्य इत्यत्र मात्रिकस्यापि संयोगस्य ह्रस्वसंज्ञायां तुक् स्यात् । तितउच्छत्रम् इत्यत्र च अच्समुदायस्य द्विमात्रतया दीर्घसंज्ञायां "दीर्घात्" "पदान्ताद्वा" इति तुग्विकल्पश्च स्यादित्यर्थः । नचैकमचमाश्रित्य ह्रस्वलक्षणस्तुगपि पक्षे भविष्यतीति वाच्यम् । दीर्घलक्षणेन परत्वात्तद्बाधे सकृद्गताविति पुनरप्रवृत्तेः । नापि "पुनः प्रसङ्गविज्ञानम्" । नित्यविकल्पविध्योर्विरोधात् पूर्वेण परस्य बाधप्रसङ्गात् । यत्र पूर्वो विधिः परं न बाधते तत्रैव क्वचित्तदाश्रयणात् । समुदायसन्निधाववयवानां पारतन्त्र्येण पृथक् कार्यानारम्भकत्वाच्च । नचाज्ग्रहणे कृतेऽपि वर्णग्रहणे जातिग्रहणात् अच्समुदायस्य दीर्घसंज्ञा दुर्वारैवेति वाच्यम् । ऊकाल इति विशेषणाद्व्यक्तेरेवोपादानात् जातेः परिमाणाभावात् व्यक्तिद्वारैव तदाश्रयणात् एकैकवर्णव्यङ्ग्यत्वेन जातेः समुदायव्यङ्ग्यत्वाभावादिति कैयटः ।

उच्चैरुदात्तः ।। 29 ।।
नीचैरनुदात्तः ।। 30 ।।

ननु उच्चनीचयोरापेक्षिकयोरव्यवस्थितत्वात्कथं लक्षणत्वम् । नच गात्राणां निग्रहरूप आयामो, रूक्षत्वरूपं दारुण्यं, कण्ठस्य संवृततारूपं रवस्य अणुत्वं चेति उच्चैः कारणआनि । गात्रशैथिल्परूपोऽन्ववसर्गः, स्वरस्निग्धत्वरूपं मृदुत्वं, कण्ठमहत्त्वरूपं रवस्योरुत्वं चेति नीचैः कारणानीति वाच्यम् । महाप्राणो हि पुरुषो नीचैरप्युच्चारयन् स्वरेण महान्तं देशं व्याप्नोति, अल्पप्राणस्तु उच्चैरप्युच्चारयन् अल्पमेवेति दोषतादवस्थ्यात् ।
अत्र वार्त्तिकम्---
"सिद्धन्तु समानप्रक्रमवचनात्" इति । प्रक्रम्यन्ते वर्णा अस्मिन्निति प्रक्रमः स्थानम् । तदयमर्थः---ताल्वादिस्थानानाम् ऊर्द्ध्वाधोभेदेन भागद्वयम् । ऊर्द्ध्वभागेनोच्चार्यमाण उदात्तः, अधोभागेन त्वनुदात्तः । अभ्यासज्ञेयश्चायं स्वरविशेषः । षड्‌जवदिति । एते अचामेव गुणा न तु हलाम् । अजुपरागात्तु हलामपि तथोपलब्धिः । `इषेत्वोर्जेत्वा' इत्यादौ यथा । नच वैपरीत्यम् । `आप्यायध्वम्' इत्यादौ आकारोदात्तत्वे तिङन्तस्य निघाते आकारस्य हलुपरागं विनाऽप्युदात्तत्वात् । तस्मादन्वयव्यतिरेकाभ्यां हल एवाच्स्वरानुविधायिन इति सिद्धम् । "स्वयं राजन्ते ते स्वराः अन्वग्भवति व्यञ्जनमित्यन्वर्थसंज्ञयाऽप्येवम्" इति भाष्यम् । यद्यपि सादृश्यं न किञ्चिदस्ति, तथापि सम्प्रदायमात्रात् इयं निरुक्तिः ।
यद्वा अञ्जेः गत्यर्थत्वाद्विविधं गच्छत्यजुपरागादिति निर्वचने तात्पर्यमिति कैयटः ।

समाहारः स्वरितः ।। 31 ।।

यद्यप्यचोर्न समाहारः । कार्यं, क्व, कन्या इत्यादौ स्थानिद्वारकस्यापि तस्याऽसम्भवात् । "ऋहलोर्ण्यत्" "किमोऽत्" । तित्त्वात्स्वरितः । गाङ्गेऽनूप इत्यादौ तु गाङ्गशब्दस्याण्णन्तत्वात् अन्तोदात्तत्वे अनूपशब्दस्य "अनोरप्रधानकनीयसि" इत्यनुदात्तादित्वे एकादेशस्य च "स्वरितो वा ऽनुदात्ते पदातौ" इति स्वरितत्वे वर्णान्तरत्वात् । नाप्युदात्तत्वानुदात्तत्वयोरेव समाहारो ग्राह्यः । अच्प्रस्तावात् । तथापि गुणिनोः समाहारानुपपत्तौ गुणयोस्तदाश्रयणम् ।
न च समाहारस्य संज्ञित्वानुपपत्तिः, स्वरितसंज्ञया योग्यतया अच एव संज्ञित्वेनाक्षेपादिति वाच्यम् । उपचारात्समाहारवतोऽच एव संज्ञित्वात् ।
नचैवं त्रैस्वर्येणाधीमहे इत्यादिशिष्टव्यवहारविरोधः । कैश्चिदुदात्तगुणैः कैश्चिदनुदात्तगुणैः कैश्चिदुभयगुणैरिति तदर्थात् । स्वरत्रैविध्यपरत्वाभावात् ।

तस्यादित उदात्तमर्द्धह्रस्वम् ।। 32 ।।

स्थिते गुणद्वयसमाहारे विभागप्रदर्शनार्थमारम्भः ।
ननु ह्रस्वग्रहणाद्दीर्घप्लुतस्वरितयोरयं विभागो न स्यात् । कन्या, शक्तिके3 शक्तिके इति "कन्याराजमनुष्याणाम्" इत्यन्तः स्वरितः । "स्वरितमाम्रेढितेऽसूया" । इति स्वरितः प्लुतः ।
मैवम् । अर्द्धह्रस्वशब्दः प्रमाणे रूढः । व्युत्पत्त्यर्थं ह्रस्वस्योपादानम् । अर्द्धमात्रा त्वनेनाभिधीयते ततः प्रमेये मात्रप्रत्ययः । "प्रमाणे लः" इति तस्य लुक् । ततश्च ह्रस्वदीर्घप्लुतयोरपि बुद्ध्याऽर्द्धमात्राविभागसम्भवान्न दोष इति भाष्यकैयटयोः स्थितम् । अत एव `"येनविधिः" इति सूत्रे ह्रस्वशब्दममुख्यया वृत्त्या मात्रार्द्धे वर्त्तमानमङ्गीकृत्य दीर्घप्वलुतयोरुदात्तविभागः कृत' इति बृहद्विवरणकारैरुक्तम् ।
अत्र दीक्षिताः---ह्रस्वग्रहणमवयुत्यानुवादमात्रम् । अर्द्धमित्येव विवक्षितम् । तेन दीर्घप्लुतयोरपि पूर्वार्द्धमुदात्तम् । तच्च न समांशरूपं किन्तु लेशरूपम् । तत्र प्रातिशाख्यविशेषानुरोधेन कस्यां चिच्छाखायां समांशः, कस्यांचिदर्द्धमात्रेति विशेषः । एकश्रुत्यादीनां प्रातिशाख्यानुरोधेनैव व्यवस्थादर्शनात् । न च दीर्गस्वरितसमार्द्ध्सयोदात्तत्वे प्रमाणाभावः । ये1ऽरा इत्यत्र एकारस्य, तनूनपाच्छचीपतिमित्यत्रच पदपाठे ऊदीतोरर्द्धोदात्ततया बह्‌वृचैः पठ्यमानत्वात् । तनूनपाच्छचीपतिशब्दयोः "उभे वनस्पत्यादिषु युगपत्" इति पूर्वोत्तरपदयोराद्युदात्तत्वे शेषनिघातः । पूर्वपदयोश्च तनूशचीपदयोरन्त्यस्य पाक्षिकं स्वरितत्वं प्रातिशाख्ये उक्तम्---
जात्यवद्वा तथा वाऽन्त्यौ तनूशचीति पूर्वयोः । इति । स्वरितार्द्धस्योदात्तत्वे प्रातिशाख्यमपि---
एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः ।
तस्योदात्ततरोदात्तादर्द्धमात्रार्द्धमेव वा ।।
अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत् ।
उदात्तं वोच्यते सिञ्चित्स्वरितं वाऽक्षरं परम् । इति ।
स्वर इत्यन्तं स्वरितलक्षणम् । पूर्वेतिपदस्योदात्तानुदात्तत्वपत्वात् । तस्य स्वरितस्य स्वतन्त्रोदात्तापेक्षया उदात्ततराऽर्द्धमात्रा बोध्येति । अर्द्धमात्रेति `क्व3वोऽश्वाः' इत्याद्यभिप्रायम् । न चैवं स्वतन्त्रोदात्तापेक्षया उदात्ततराऽर्द्धमात्रा बोध्या इत्यस्य नीचस्थानत्वादनुदात्तत्वापत्तिः । अत्यन्तनीचस्यैव स्थानस्य तत्रोपादानात् । अर्द्धंवेति दीर्घाभिप्रायम् । अनेनैव त्रयाणामुपसंग्रहादिदमेवादर्त्तव्यमिति सूचयितुमेवकारः । अर्द्धमात्रापेक्षया समांशस्य बहुत्वेन तदुपकारकत्वात् । चरमोपन्यासाच्च । प्रातिशाख्यसमाख्यया तच्छाखापरत्वलाभे तच्छाखायां स्वरितस्य समानोदात्तपाठाच्च । अनुदात्त इत्यादि परिसेषसिद्धार्थानुवादः । स शेष उदात्तश्रुतिः । किमविशेषेण ? नेत्याह--नचेत्यादि । उदात्तस्वरितपरं विहायेत्यर्थः ।
शाकल्योऽप्याह---
अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वगः ।
उदादायार्द्धमस्याथ शिष्टं निघ्नन्ति कम्पितम् ।।
उदादाय उदात्तं कृत्वेत्याहुः ।
अत्र वदन्ति---नेदं युक्तम् । उक्ताकरग्रन्थविरोधात् । शाखाविशेषे तथा पाठेऽपि सर्वशाखासाधारणस्यास्य तदेकवाक्यतया संकोचानर्हत्वात् । लौकिकप्रयोगे विशेषवचनाभावेऽर्द्धमात्रैवोदात्तेत्यत्र तात्पर्यात् । उक्तप्रातिशाख्यं च न साधकम् । अर्द्धमात्रा, अर्द्धमेव वेति पक्षयोः पाणिनिशाकल्ययोः सामान्यविशेषलक्षणाभिप्रायेण व्यवस्थितत्वात् । एवकारो विशेषलक्षणेन कृतायाः सामान्यलक्षणव्यावृत्तेरनुवादार्थः । वाशब्दो व्यवस्थितविकल्पार्थ इति ।
अपिच समांशग्रहमेऽर्द्धग्रहणवैयर्थ्यं "समं स्यादश्रुतत्वाद्" इत्येव सिद्धेः ।
न चार्द्धमात्राया अपि लाभार्थं तत् । उभयसाधारणरूपाभावात्, लेशत्वस्यैकस्याभावात्, एकशेषादिकल्पनेऽपि गौरवात् ।
एतेनार्द्धह्रस्वशब्देनार्द्धमात्रा लक्ष्यत इति हरदत्तादिग्रन्थास्तु मतान्तरपरतया कथंचिन्नेया इति परास्तम् । हरदत्तोक्तस्यैव प्रकृतसूत्रार्थत्वात् ।
यत्तु---आकरे अर्द्धमात्रायामर्द्धह्रस्वशब्दस्य रूढेरुक्तत्वात् समुदायस्य शक्त्यभावेन लक्षणाया अयोगाच्चायुक्त एव इति ।
तन्न । अर्द्धमात्रायां रूढावपि कैयटोक्तरीत्या तदवच्छिन्नधर्मिणो लक्षणयैव लाभात् । मात्रच्प्रत्ययलोपं न जानतामपि बोधोदयात् । तदनुशासनस्य "गुणवचनेभ्य" इत्यादिवल्लक्षणातात्पर्यग्राहकत्वादित्यास्तां विस्तरः ।
प्रकृतमनुसरामः---
अत्र वार्त्तिकं--"स्वरितस्यार्द्धह्रस्वोदात्तादोदात्तस्वरितपरस्य सन्नतरादूर्द्ध्वमुदात्तादनुदात्तस्य स्वरितात्कार्यं स्वरितादिति सिद्ध्यर्थम्"
अस्यार्थः---आ अर्द्धह्वस्वोदात्तादिति आकारच्छेदः । इयं नवसूत्री "उदात्तादनुदात्तस्य स्वरितः" इत्यतेदुत्तरमष्टमे पठनीया । तेन `इमं मे गङ्गे यमुने सरस्वति' इत्यत्र मे---शब्दात्स्वरितात्परेषां गङ्गेत्यादीनाम् आमन्त्रितनिघातादनुदात्तानां "स्वरितात्संहितायामनुदात्तानाम्" इति वचनादेकश्रुतिर्भवति । अन्यथा "उदात्तादनुदात्तस्य" इति त्रैपादिकस्वरितस्य "स्वरितात्" इत्यत्रासिद्धत्वात्स्वरितात्परत्वमनुदात्तानां नास्ति इति एकश्रुतिर्न स्यात् । न चाश्रयात्सिद्धत्वं शङ्क्यम् । `कार्यम्' इत्यादौ षाष्ठस्वरिते सावकाशत्वात् ।
"स्वरितोदात्तार्थं च" ।
तथाहि---सुब्रह्मणि साधुरिति यत्प्रत्ययः तित्त्वात्स्वरितः, ततष्टाप्‌ पित्त्वादनुदात्तः, एकादेश आन्तरतम्यात्स्वरितः । तत्रानुदात्तभागस्यापि विद्यमानत्वात् । ओमित्युदात्तः । "ओमाङोश्च" इत्युदात्तस्वरितयोरेकादेशः स्वरित एव । एकदेशान्तरतम्यात् । इन्द्रशब्दश्चामन्त्रितत्वादनुदात्तः । `सुब्रह्मण्योमिन्द्र आगच्छ' इत्यत्र "न सुब्रह्मण्यायां स्वरितस्य तूदात्तः" इत्योकारस्य स्वरितस्योदात्तविधानं सावकाशमिति त्रैपादिकस्य स्वरितस्योदात्तो न स्यात् । `इन्द्र आगच्छ' इति यथा ।
"स्वरितोदात्ताच्च स्वरितार्थम्" ।
`इन्द्र आगच्छ, हरिव आगच्छ'। आशब्द उदात्तः । गच्छेति शेषनिगातादनुदात्तः । "उदात्तादनुदात्तस्य" इति स्वरितः । तस्यासिद्धत्वादुक्तसूत्रेणोदात्तत्वं न स्यात् ।
"स्वरितपरसन्नतरार्थं च"
माणवकजटिलकाध्यापक न्यङ्‌ । "न्यधीच" इति पूर्वपदप्रकृतिस्वरः । तत "उदात्तस्वरितयोर्यणः" इत्यकारः स्वरितः । तस्यासिद्धत्वात् "उदात्तस्वरितपरस्य सन्नपरः" इति पूर्वस्यानुदात्ततरो न स्यात् । न चाश्रयात्सिद्धत्वम् । माणवकजटिलकाभिरूपं क्व इत्यत्र सावकाशत्वात् । "तित्स्वरितम्" इत्यस्य सिद्धत्वात् । तस्मान्नवसूत्री शास्त्रान्ते पठनीयेति सिद्धम् ।
तच्च सूत्रकृतैव ज्ञापितम् । तदुक्तम्---"देवब्राह्मणयोरनुदात्तवचनं ज्ञापकं `स्वरिताद्‌' इति सिद्धत्वस्य" इति । अन्यथा स्वरितस्यासिद्धत्वादनुदात्तत्वमस्त्येवेत्यनुदात्तत्वविधानमनर्थकं स्यात् । नहि स्वरितस्य सिद्धत्वमनेन ज्ञाप्यते स्वरितस्य य उदात्तस्तस्मात्परस्यानुदात्तस्य स्वरितताऽऽपत्तेरिति भाष्यवार्त्तिकयोः स्थितम् ।
अत्र दीक्षिताः---"स्वरितस्यतूदात्त" इति प्रकरणोत्कर्षे ज्ञापकम् । नच भाष्यकैयटादिरीत्या `सुब्रह्मण्योम्' इत्यत्र तदवकाशः । "एकादेश उदात्तेनोदात्तः" इत्यस्य प्रवृत्तेरावश्यकत्वात् । नच तत्र "अनुदात्तस्य" इत्यनुवृत्तेर्वृत्तिकृतोक्तत्वात् उदात्तस्वरितयोरेकादेशे न तत्प्रवृत्तिरिति वाच्यम् । तदनुवृत्तौ मानाभावात् । `क्वावरम्' इत्यत्र बह्‌वृचैरुदात्तस्यैव पठ्यमानत्वात् । क्वशब्दस्य स्वरितत्वात् । तैत्तिरीयाणामपि "याज्ययैवैनमेतयाऽऽप्याययति" इत्यत्राङ्‌प्रश्लेषेण द्वितीयाक्षरस्योदात्तत्वाच्च ।
अत एव बह्‌वृचप्रातिशाख्ये---
उदात्तवत्येकीभाव उदात्तं सन्ध्यमक्षरम् ।
अनुदात्तोदये पुनः स्वरितं स्वरितोपधे'।। इति---
श्लोके उत्तरार्द्ध एवानुदात्तपदं प्रयुक्तम्, पूर्वान्वयभ्रमवारणाय पुनः पदं प्रयुक्तम् । शौनकीये स्वराष्टकेऽपि---`एकादिष्टमुदात्तेन तं तमेव नयेत्स्वरम्' इत्युक्तम् । एकादेशे प्रतियोगित्वेनानुदात्तस्यानुपादानाद्' इत्याहुः ।
तन्न । शाखाविशेषे तथा पाठस्य प्रातिशाख्यविधिनैव सिद्धे तदनुरोधेन सर्वभाषादर्शिभाष्यकारादिव्याख्यानस्योल्लङ्घयितुमशक्यत्वात् ।

एकश्रुति दूरात्सम्बुद्धौ 33 ।

दूरात्संबोधने वाक्यमेकश्रुति स्यात् । `आगच्छ माणवक'। पक्षे माणवकशब्दटेः प्लुत उदात्तः । एकश्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुच्चिताभ्यां दूरात्सम्बोधनं द्योत्यते । सम्बुद्धिपदं सम्बोधनपरम् । एकवचनपरत्वे `देवो ब्राह्मणा' इत्यादावव्याप्तेः । तदुक्तम्---"उभयगतिरिह शास्त्रे भवति" इति । क्वचिदकृत्रिमस्यापि ग्रहणमित्यर्थः । एकवचनस्य दूरादिति विशेषणानुपपत्तेः । सम्बोधनस्य तु क्रियारूपत्वादपादानतया तत्सम्भवात् । एकश्रुतिश्च नोदात्ता, "उच्चैस्तरां वा वषट्‌कार" इत्युदात्तविधानात् । अन्यथा "यज्ञकर्मणि" इत्येकश्रुत्यैव सिद्धेः । नाप्यनुदात्ता । "उदात्तस्वरितपरस्य सन्नपर" इत्यनुदात्तत्वविधानात् । एकश्रुत्यनुवृत्त्यैव सिद्धावनुदात्तविधानमनर्थकं स्यात् । तस्मात्क्षीरोदकवदुदात्तानुदात्तयोर्भेदतिरोधानमेकश्रुतिरित्यर्थः सिद्धः । अत्रैव प्रचयव्यवहारो वैदिकानाम् । स्वरिते तु विभागेन तयोरुपलब्धिः । अन्ये तु व्याचक्षते---उभयत्रापि तरनिर्देशस्तन्त्रम् । "सोमस्याग्नेवीहि3वौ3षड्‌" इत्यत्र "यज्ञकर्मणि" इत्येकश्रुतिर्विहिता, तदपेक्षया वौषट्‌शब्दस्योदात्ततरत्वं विधीयते । तच्चैकश्रुतेरुदात्तानुरागं विनाऽनुपपन्नम् । उत्कर्षस्य सप्रतियोगिकत्वात् । एवं "सन्नतर" इत्यत्रापि ।
तथा च सप्तस्वराः---उदात्तः, उदात्ततरः, अनुदात्तः, अनुदात्तरः, स्वरितः, स्वरितोदात्तः, स्वरित एवानुदात्तेनोपरक्त एकश्रुतिः । कस्यचित्तु स्वरितस्योदात्तभागो नानुदात्तेनानुरज्यत इति पृथक् स्वरितनिर्देश इति सिद्धम् ।

यज्ञकर्मण्यजपन्यूङ्‌खसामसु 34 ।

मन्त्रो यज्ञकर्मण्येकश्रुतिः स्यात् जपादीन्वर्जयित्वा । "अग्निर्मूर्द्धा दिवः" । यज्ञेति किम् । स्वाध्यायकाले त्रैस्वर्यमेव यथा स्यात् । अजपेति किम् । "ममाग्ने वर्चो विहवेष्वस्तु" । जपो नामोपांशुप्रयोगो यथा जले निमग्नस्य । न्यूङ्खास्तु षोडश ओकाराः । तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्तास्त्रिमात्राः, इतरे त्रयोदशानुदात्ता अर्द्धौकाराः । एवं चाश्वलायनेनोक्तमुदाहृतं चेति प्रसादकारः । "गीतिषु सामाऽऽख्या" इति जैमिनिसूत्रम् । अजपेतिपर्युदासात्तत्सदृशमन्त्रे इदमैकश्रुत्यम् । अत एव "इन्द्रशत्रुशब्दे ऊह्यमाने नैतत्प्रवृत्तिः" इति पस्पशायां प्रपञ्चितम् ।
उच्चैस्तरां वा वषट्‌कारः 35 ।

यज्ञकर्मणि वौषट्‌शब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा । 'सोमस्याग्ने वीहि3वौ3षट्‌" । वषट्‌शब्दोपादानं वैचित्र्यार्थम् । वौषट्‌शब्दस्यैव विवक्षितत्वात् िति संप्रदायः । एतस्मान्निर्देशादेव वर्णनिर्देशाभावेऽपि कारप्रत्ययः । तेन स्वाहाकारो हन्तकार इत्यादिसिद्धम् ।

विभाषा छदन्सि 36 ।

छन्दसि एकश्रुतिर्वा । व्यवस्थया च विकल्पः । यथा---वह्‌वृचानां संहितायां त्रैस्वर्यम्, ब्राह्मणे त्वेकश्रुतिरित्यादि । विकल्पस्य प्रकृतत्वेऽपि "यज्ञकर्मणि" इत्यस्य निवृत्तिसूचनार्थं पुनर्विभाषाग्रहणम् ।
ननु यज्ञकर्मण्येव नित्याया वैकल्पिक्याश्चैकश्रुतेर्विरोधाद्विधातुमशक्यत्वात्सामर्थ्यादेव `यज्ञकर्मणि" इत्यस्य निवृत्तिसम्भवात्पुनर्विभाषाग्रहणं व्यर्थमिति चेन्न । अजपेत्यादिपर्युदासान्नित्यैकश्रुतेर्मन्त्रविषयकत्वम्, वैकल्पिक्यास्तु ब्राह्मणपरत्वमिति व्यवस्थासम्भवात् । प्रतिषेधपक्षेऽपि नित्यैकश्रुतेरेव ऊहादिविषयत्वम्, वैकल्पिक्यास्तु छन्दोविषयत्वमिति सम्भवात्तन्निवृत्त्यर्थतया सार्थक्यात् ।
अत्र व्याचक्षते---तन्त्रेणावृत्त्या वा "अच्छन्दसि" इति नञ्प्रश्लेषाद्भाषायामप्यैच्छिको विकल्पः । दाण्डिनायनादि--सूत्रे "ऐक्ष्वाकस्य स्वरभेदार्थँ पृथक् निपातनम्" इत्युक्त्वा "ऐकश्रुत्यनिर्देशात्सिद्धम् । एकश्रुतिर्हि स्वरसर्वनाम । यथा---नपुंसकं लिङ्गसर्वनाम" इति भाष्योक्तेः । अत एव विरुद्धस्वरकसमासद्वयस्यैकश्रुत्या सङ्ग्रहादभियुक्तानां श्लेषकाव्यनिर्माणं सङ्गच्छते । अत एव इन्द्रशत्रुशब्दे बहुव्रीहिस्वरेण दोषप्रवृत्तिरुक्ता पस्पशायाम्, तदन्ते "श्वेतो धावति अलम्बुसानां याता" इति भाष्यं च । "वेद इव लोके स्वरो न विशेषाध्यवसायहेतुः" इति काव्यप्रकाशस्य त्वेकश्रुत्या पाठादित्याशयः ।
नचैवं "झल्युपोत्तमम्" इति प्रक्रम्य "विभाषा भाषायाम्" इत्युक्तेर्वैयर्थ्यम् । त्रैस्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभार्थत्वात् । वेति प्रकृते विभाषाग्रहणात्सूत्रकृतां तन्त्रादेरनभिमतत्वात् । स्वरविधौ छन्दोऽधिकाराभावाच्चेति तिष्ठतु विस्तरः ।

न सुब्रह्मण्यायां स्वरितस्य तूदात्तः 37 ।

सुब्रह्मण्याख्ये निगदे पूर्वेण प्राप्ता एकश्रुतिर्न भवति किन्तु वचनान्तरविहितस्य स्वरितस्योदात्तः स्यात् । "सुब्रह्मण्योम्" । "इन्द्र आगच्छ" । ओंकारस्योदात्तत्वं व्याख्यातम् । "ओमब्यादाने" इति प्लुतोदात्तत्वं तु नास्ति, तस्याऽयज्ञकर्मविषयत्वादिति संप्रदायः । इन्द्रशब्द आमन्त्रिताद्युदात्तः, शेषनिघातेनाकारोऽनुदात्तः । "उदात्तादनुदात्तस्य" इति तस्य स्वरितः, तस्यानेन उदात्तः । "निपाता आद्युदात्ता" इत्याकार उदात्तः । गच्छ इत्यस्य "तिङ्‌ङतिङः" इति निघातः । "उदात्ताद्" इति गकाराकारस्य स्वरितः । तस्याप्युदात्तः । तथाच छकारभिन्ना आद्याश्चत्वार उदात्ताः । नच "उदात्ताद्‌" इति छकारस्याप्युदात्तत्वापत्तिः । तदुत्तरमेतत्प्रकरणपाठस्य पूर्वमुक्तत्वात्स्वरितोदात्तस्यासिद्धत्वात् ।
"हरिव आगच्छ" इत्यत्र आमन्त्रिताद्युदात्तः इकारस्यशेषनिघातः, तस्य स्वरितः, तस्योदात्तत्वम् इति `हरिव' इत्यत्र द्वावुदात्तावन्त्योऽनुदात्तः । `आगच्छ' इत्यपि पूर्ववत् ।
"आगच्छ मघवन्" इत्यत्र "आमन्त्रितस्य" इति मघवच्छब्दोऽनुदात्तः ।
"मेधातिथेः" इति षष्ठ्यन्तस्य "मेष" इत्यामन्त्रेत पराङ्गवद्भावात् आमन्त्रितस्वरेण मेधातितिशब्दावयवो मे इत्युदात्तः, धा इत्यस्योक्तरीत्या स्वरितस्यानेनोदात्तः । मेधा इति द्व्यमुदात्तम् । इतरदनुदात्तम् । एवं "वृषणश्वस्य मेने कौरावस्कन्दिन्नहल्यायै जार" इत्यादिषु पराङ्गवद्भावादि योज्यम् ।
"कौशिकब्राह्मण गोतमब्रुवाण" इत्यत्रापि द्वौ द्वावुदात्तावन्येऽनुदात्ताः । नच तृतीयस्यापि "उदात्तादनुदात्तस्य" इति स्वरितत्वादनेनोदात्तत्वापत्तिः, एवं परेषामपीति वाच्यम् । स्वरितग्रहणसामर्थ्यात् सर्वेषामुदात्तत्वे इष्टे "न" इत्यपहाय "सुब्रह्मण्यायामुदात्त" इत्येव ब्रूयात् । तस्मादुभयग्रहणसामर्थ्यान्न सर्वेषामुदात्तत्वम् ।
"श्वः सुत्यामागच्छ मघवन्" । श्व इति निपातस्वरेणाद्युदात्तः । सुत्याशब्दः । "संज्ञायां समजनिषदनिपतमनविदषुञ्‌शीङ्‌भृञिणः" इति सुनोतेः क्यपि तत्रोदात्तानुवृत्तेरन्तोदात्तः, शेषनिघातेन `सु' इत्यनुदात्तः । "उदात्तस्वरितपरस्य" इत्यनुदात्ततरः । आगच्छ इति द्वावुदात्तौ परोऽनुदात्त इति पूर्ववत् ।
"द्व्यहे सुत्याम्, त्र्यहे सुत्याम्" द्व्यह इति टजन्तत्वादन्तोदात्तम् ।
तथा च सामब्राह्मणम्---"तस्मादुत्करे तिष्ठन्सुब्रह्मण्यः सुब्रह्मण्यायाह्वयति---सुब्रह्मण्यो3म्, सुब्रह्मण्यो3म्, सुब्रह्मण्यो3म् इति । स्त्रियमिव त्रिराह त्रिषत्या हि देवाः । `इन्द्रागच्छ' इति यदाह `इन्द्रागच्छ' इत्येतद्वा अस्य प्रत्यत्रं नाम तेनैवैनं त्रिराह्वयति । `हरिव आगच्छ' इति, पूर्वपक्षापरपक्षौ वा इन्द्रस्य हरी ताभ्यां हीदं सर्वं हरति । `मेधातिथेर्मेष' इति, मेधातिथिं ह काण्वायनिं मेषो भूत्वा जहार । `वृषणश्वस्य मेने'। वृषणश्वस्य ह मेनका नाम दुहिताऽऽसतां हेन्द्रश्चकमे । `गौरावस्कन्दिन्' इति । गौरमृगो ह भूत्वाऽवस्कद्यारण्याद्राजानं पिबति ।`अहल्यायै जार' इति । अहल्याया ह मैत्रेय्या जार आस । `कौशिकब्राह्मण' इति । कौशिको ह स्मैनं ब्राह्मण उपन्येति । `गोतमब्रुवाण' इति । देवासुरा ह संयत्ता आसंस्तानन्तरेण गोतमः शश्राम, तमिन्द्र एत्योवाच---इह नो भवान्स्पशश्चरत्विति, नाहमुत्सह इति, अथाहं भवोत रूपेण चराणीति, यथा मन्यस इति । स यत्तद् गोतमो अब्रुवाणश्चचार गोतमरूपेण वा तदेतदाह गोतमासीति । अहे सुत्यामागच्छ मघवन्निति, तद्यथाऽर्हतो ब्रूयादिति अहे वः पक्ताऽस्मि तदागच्छतेत्येवमेवैतद्देवेभ्यः सुत्यां प्राह । `देवा ब्राह्मणाः' इति, देवा ह वै देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवाः । आहुतय एत देवानां दक्षिणा मनुष्यदेवानाम्, आहुतिभिर्ह देवान्प्रीणाति दक्षिणाभिर्मनुष्यदेवाञ्छुश्रुवुषोऽनूचानान्ब्राह्मणान्प्रीणाति" इति ।
"असावित्यन्तः" ।
वाचनिकमिदम् । प्रथमान्तस्यान्त उदात्तः । `गार्ग्यो यजते, वात्स्यो यजते । ञित्त्वादाद्युदात्वं प्राप्तम् ।
तथा च द्राह्यायणिसूत्रम् "अर्थनिर्वचनमुच्चान्तम्" । `अर्थो निरुच्यते बोध्यते प्राधान्येन प्रतिपाद्यतेऽनेनेत्यर्थनिर्वचनम् । पदमिति यावत् । पदमित्येव तु नोक्तम् । समासे पूर्वपदानामन्तोदात्तता मा भूद्' इति व्याख्यातारः । यजते इत्यस्य निहतस्य "उदात्ताद्‌" इति स्वरितत्वे उदात्तः ।
"अमुष्येत्यन्तः" ।
षष्ठ्यन्तोपलक्षणमिदम् । `दाक्षेः पिता यजते' । पूर्ववत् ।
"स्यान्तस्योपोत्तमं च"
अदन्तस्य षष्ठ्यन्तस्य उपान्त्यं चकारादन्तश्चेत्युभयमुदात्तं स्यात् । गार्ग्यस्य पिता यजते, वात्स्यस्य पिता यजते ।
"वा नामधेयस्य" ।
स्यान्तस्य नामधेयस्योपोत्तमं वा उदात्तं स्याद्, अन्त्यस्तु स्यादेव । देवदत्तस्य पिता यजते । `जनिष्यमाणानाम्' इत्यत्र प्रत्ययस्वरेण स्यशब्द उदात्तः, "तास्यनुदात्तेद्‌" इति लसार्वधातुकस्वरेण शानजनुदात्तः । "उदात्ताद्‌" इति स्वरितः । तस्यानेनोदात्तत्वमिति ष्यमौ उदात्तौ । अन्यच्छेषनिघातेनानुदात्तम् । `पितापितामह' इत्यत्र तु पितामहप्रतितामहयोः "असौ" इत्यन्तोदात्तत्वे `उदात्ताद्" इति स्वरितत्वे प्रकृतसूत्रेण पिप्रशब्दयोरेवोदात्तत्वं नतु तत्परतोऽपि ।

देवब्रह्मणोरनुदात्तः 38 ।

अत्र वार्त्तिकम्---"देवब्रह्मणोरनुदात्तत्वमेके" इति । देवा ब्रह्माण आगच्छत । अयमर्थः---देवा ब्रह्माण इति पदयोर्वैयधिकरण्यपक्षे पूर्वस्यामन्त्रितस्याविद्यमानवद्भावादुभयोरपि आमन्त्रिताद्युदात्तत्वे शेषनिघाते स्वरितत्वे च कृतेऽनुदात्तविधिरर्थवान् । यदि तु तयोः समानाधिकरण्यं तदा "विभाषितं विशेषवचने बहुवचनम्" इति पक्षे विद्यमानत्वाद् "आमन्त्रितस्य" इति निघातेनैव सिद्ध्या प्रयोजनाभावात् ।

स्वरितात्संहितायामनुदात्तानाम् 39 ।

स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । "इमं मे गङ्गे यमुने सरस्वति" । इममित्यन्तोदात्तम् । मे इत्यनुदात्तम् । "अनुदात्तं सर्वम्" इत्यधिकारात् । "उदात्तादनुदात्तस्य" इति तस्य स्वरितः । ततः परेषां गङ्गे इत्यादीनामेकश्रुतिः । संहितायां किम् । पदपाठे आमन्त्रितनिघातेनानुदात्तत्वमेव यथा स्यात् ।
स्यादेतत् । `अनुदात्तानाम्' इति बहुत्वं विवक्षितं न वा । नाद्यः । `आग्निवेश्यः', `पचति' इत्यत्र द्वित्वैकत्वयोरव्याप्तेः । आग्निवेश्यशब्दो हि गर्गादियञन्तत्वादाद्युदात्तः । शेषनिघाते द्वितीयः "उदात्ताद्‌" इति स्वरितः । वेश्येति वर्णद्वयमनुदात्तम् । पचति इत्यत्र धातुरुदात्तः । शप्तिपौ पित्त्वादनुदात्तौ । शवकारः स्वरितः । ततः पर एव एवानुदात्त इत्येकश्रुतिर्न स्यात् ।
नान्त्यः । 'इमं मे गङ्गे यमुने सरस्वति" इत्यत्र मेशब्दस्य स्वरितत्वात्ततः परस्यैकस्यैवेकश्रुतिः स्यात्, न `यमुने' इत्यादीनाम्, व्यवहितत्वात् । "तस्मादित्युत्तरस्य" इतिवचनात् ।
अत्र भाष्यम्---वचनत्रयान्तानामनुदात्तपदानामेकशेषोऽयमिति ।
सरूपसूत्रारम्भपक्षे चेदम् । जातिपक्षे तु "जात्याख्यायाम्" इति बहुवचनम् । ततश्चैकद्विबहुषु स्वरितात्परस्या जातेरानन्तर्येणोपलम्भात्सर्वेषामैकश्रुत्यसिद्धिः ।
नन्वाद्ये षट्‌प्रभृतीनामेव कार्यं स्यात्सहविवक्षायामेकशेषविधानात् समुदितानामेव कार्यान्वयादिति चेन्न । निर्देशसहविवक्षायामपि प्रत्येकं कार्यप्रवृत्तेः, देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामितिवत् ।

उदात्तस्वरितपरस्य सन्नतरः 40 ।

उदात्तः स्वरितो वा परो यस्मात्तस्यानुदात्तस्यानुदात्ततरः । "सरस्वति शुतुद्रि" । "व्यचक्षयत्स्वः" । इति वृत्तिकारादयः ।
केचित्तु---एकश्रुतिस्वरस्यानुदात्ततरः स्यादित्येवार्थः । अन्यथा 'एकश्रुति दूराद्‌" इतिसूत्रगतभाष्यकैयटविरोधात् ।
किञ्च अस्यासिद्धत्वात्सरस्वतीशब्दावयवेकारस्यापि पूर्वेणैकश्रुतिः स्यात् ।
नचायं तदपवादः । अग्निम्, कन्या इत्यादौ सावकाशत्वात् ।
नच "न मु ने" इत्यत्र `न' इति योगविभागान्नासिद्धत्वमिति हरदत्तादिरीत्या निर्वाहः । तदर्थं योगविभागस्य भाष्यादावनुक्तेः । अन्यथा शास्त्रान्तपाठकल्पनस्यापि वैयर्थ्यात् । एकश्रुतेरिव स्वरितस्यापि परत्वाद्बाधोपपत्तौ "नोदात्तस्वरीतोदयम्" इति सूत्रवैयर्थ्याच्चेति प्राहुः ।

अपृक्त एकाल्प्रत्ययः 41 ।

एकोऽल् यत्र स प्रत्ययोऽपृक्तसंज्ञः । प्रदेशाः--"सुतिस्यपृक्तं हल्‌" इत्यादयः ।
स्यादेतत् । एकहलित्येव वक्तव्यम् । `अपृक्तं हल्' इत्यत्र हल्पदपरित्यागे लाघवात् । अल्ग्रहणे तु बिभेदेत्यादौ णलो लोपवारणाय तदावश्यकत्वात् ।
मैवम् । "यूनि लुगणिञोः" इति पदद्वयोच्चारणे गौरवात् । हल्ग्रहणेतु अपृक्तस्येत्येव तत्र वक्तव्यत्वात् ।
नचैवं फाण्टाहृतेरपत्यं फाण्टाहृतः । "फाण्टाहृतिमिमताभ्याम्" इतिणप्रत्ययस्यापि लुगापत्तिः । अण एव लुका सिद्धौ णविधानानर्थक्यापत्त्या तद्वारणात् ।
नच "यञिञोश्च" इतिफग्बाधनार्थतया तत्सार्थक्यम् । पैलादिपाठं कृत्वाऽपि फको वारयितुं शक्यत्वात् ।
मैवम् । यथान्यासेऽपृक्तसंज्ञायां हल्ग्रहणम्, हल्ङ्यादिसूत्रे द्वितीयहल्ग्रहणम्, "अणिञोः" इत्यत्रापृक्तग्रहणं चेति त्रयमः उक्तरीत्याऽप्यपृक्तसंज्ञायां हल्ग्रहणम्, "अणिञोः" इत्यत्राणिञ्‌पदयोर्ग्रहणं चेति पदत्रयमेवेति न लाघवम् ।
एवं च तथाऽप्येकग्रहणं मास्तु । नच दर्विः, जागृविरित्यादावतिप्रसङ्गः । अलेव यः प्रत्यय इति व्याक्यानात् । अन्यथाऽल्पदवैयर्थ्यात् । अलन्तस्येत्यर्थे केवलस्याद्यन्तवद्भावेन तथात्वाश्रयणे तद्व्यावर्त्याभावात् ।
नचैवं हल्ग्रहणेऽपि समानम् इति वाच्यम् । अजन्तव्यावृत्त्या तदन्तविधेश्चरितार्थत्वापत्तेः । तस्माद्‌ "एकग्रहणं वर्णग्रहणे जातिग्रहणम् इति ज्ञापनार्थम्" इति भाष्यम् । "निपात एकाज्" इत्यत्र ज्ञापितस्यापि पुनर्ज्ञापनं मन्दबुद्ध्यनुग्रहार्थमिति कैयटः ।

तत्पुरुषः समानाधिकरणः कर्मधारयः 42 ।

सामानाधिकरण्यं द्वेधा शाब्दमार्थं च । आद्यं यथा---नीलमुत्पलमिति पदद्वयस्य, समानविभक्तिकत्वात् । द्वितीयमपि तत्रैव तदर्थयोरभेदेन विशेषणविशेष्यभावात् ।
तत्राद्यं बाधितसाधारणं `मता वन्ध्या' इत्यादिदर्शनात् । द्वितीयं त्वबाधितमात्रवृत्तीति विवेकः । शब्दानुशासनप्रस्तावादाद्यमेवात्र निविष्टम् । काञ्चनमयवह्निमानित्याद्यभियुक्तप्रयोगदर्शनात् ।
वर्त्तिपदयोरेकविभक्तिकयोर्यस्तत्पुरुषः कर्मधारयसंज्ञः स स्यात् ।
तत्पुरुषप्रकरणादन्यत्रैतदारम्भस्तु कर्मधारयसंज्ञायास्तत्पुरुषसंज्ञाबाधकत्वं मा भूदिति । तत्रैकसंज्ञाधिकारात् । नीलञ्च तदुत्पलं च नीलोत्पलम् । चित्रा गावो यस्येत्यादिबहुव्रीहेरपि समानाधिकरणत्वाद्व्यभिचारवारणाय तत्पुरुष इति । राजपुरुष इत्यादिवारणाय समानाधिकरण इति ।
नच तत्पुरुषस्य समुदायस्यैक्यात्सामानाधिकरण्यानुपपत्तिस्तस्य भेदनियतत्वादिति वाच्यम् । तत्परुषपदस्य तद्‌घटकपदलक्षकत्वात् ।
ननु मुख्यतत्पुरुषस्यापि सामानाधिकरण्यं सम्भवति--- राजपुरुषः शोभन इत्यादौ, तत्र चरितार्थत्वात्कुतो लक्षणा ।
अत्र कैयटः---तत्पुरुषस्य पदान्तरेण सामानाधिकरण्यं बरिहङ्गं वर्त्तिपदानां तु तदन्तरङ्गमिति ।
नचैवं प्रत्येकं पदानामेव क्रमधारयसंज्ञाऽऽपत्तिः । एकाज्द्विर्वचनन्यायेन पदसमुदायस्यैव संज्ञाविधानात् ।

प्रथमानिर्दिष्टं समास उपसर्जनम् 43 ।

समासविधौ प्रथमान्तं पदमुक्तसंज्ञम् । कृष्णं श्रितः कृष्णश्रितः । कृष्णादिशब्दानां प्रथमान्तत्वाभावेऽपि "द्वितीयाश्रित---" इत्यादौ तत्समर्पकद्वितीयादिपदानां प्रथमान्तत्वात् । तथाच समासपदं तद्विधायकशास्त्रपरमिति फलितम् । समासघटकपदापेक्षया समासविधेर्लघुतया तत्परत्वस्यैव न्याय्यत्वात् ।
स्यादेतत् । निर्देशापेक्षया समासस्याधारत्वात् एकत्र प्रथमानिर्दिष्टस्य सर्वत्रोपसर्जनसंज्ञा स्यात् । तदुक्तम्---"यस्य विधौ प्रथमानिर्देशस्ततोऽन्यत्रोपसर्जनसंज्ञाप्रसङ्ग" इति । ततश्च राजकुमारीश्रित इत्यत्र श्रितादिसमासे कुमारीशब्दस्य प्रथमानिर्दिष्टत्वादुक्तसंज्ञायाम् उपसर्जनत्वनिमित्तो ह्रस्वः, पूर्वनिपातश्च पूर्वपदे षष्ठीतत्पुरुषेऽपि स्यात् ।
अत्र वार्त्तिकम्---
"सिद्धन्तु यस्य विधौ तं प्रतीति वचनाद्‌" इति ।
यस्य श्रितादेः समासविधौ प्रथमानिर्दिष्टं तं प्रत्येवोपसर्जनसंज्ञेत्यर्थात् । उपसर्जनमित्यन्वर्थसंज्ञया यत्प्रतियोगिकं यस्याप्रधानत्वं तत्प्रतियोगिकैवोक्तसंज्ञेति लाभात् ।
नन्वेवमर्द्दपिप्पली, पुरुषव्याघ्र इत्यादौ पूर्वपदार्थप्रधानेऽर्द्धादिशब्दानामुक्तसंज्ञा न स्यात् ।
मैवम् । अर्थसम्भवे सत्येवान्वर्थसंज्ञानां प्रवृत्तिनिमित्तमपेक्ष्य प्रवृत्तेः । अन्यत्र तु तदनपेक्ष्यैव, विधानसामर्थ्याद् । अत एव स्वादीनां कर्मप्रवचनीयसंज्ञेति वक्ष्यते ।
एतेन राज्ञः पुरुषस्येत्यादिकमपि व्याख्यातम् ।
भाष्ये तु परिहारान्तरमप्युक्तम् । पूर्वनिपातप्रकरणे हि "न वाऽनिष्टदर्शनाद्‌" इति पूर्वानिपातं प्रत्याख्यायोक्तम्---"षष्ठ्यन्तयोः समासेऽर्थाभेदात्प्रधानस्यापूर्वनिपातः" इति । वाक्यसमासयोरेकार्थत्वानुरोधाद्राज्ञ एव पूर्वनिपातो न पुरुषस्य, अन्यथाऽर्थभेदप्रसङ्गात् ।
न च राज्ञः कुमार्या इत्यत्रोपसर्जनह्रस्वापत्तिः । पुनर्ङीप्सम्भवादिष्टापत्तेः । वक्ष्यते हि---"परवल्लिङ्गम्" इति, "शब्दशब्दार्थौ" इति । यद्यप्येतत्तत्रैव दूषणीयं तथाप्यन्वर्थसंज्ञायामेव तात्पर्यम् ।

एकविभक्ति चापूर्वनिपाते 44 ।

समासे यन्नियतविभक्तिकं तदप्युक्तसंज्ञं न तु तस्य पूर्वनिपातः । तत्तत्प्रयोगव्यक्तौ सर्वस्याप्येकविभक्तित्वात् सामर्थ्यात् यस्य पर्यायेणापि न सर्वविभक्तित्वं तस्येयं संज्ञा । `निष्कौशाम्बिः' इत्यत्र हि कौशाम्बीशब्दो निष्क्रमणक्रियाऽपेक्षयाऽपादानशक्तिसन्बन्धात्पञ्चम्यन्त एव । क्रियान्तरापेक्षया शक्त्यन्तरानावेशात् ।
स्यादेतत् । श्रितादिसमासे द्वितीयाद्यन्तानां कृष्णादिशब्दानामप्यनेन पूर्वनिपातनिषेधः स्यात्, पूर्वसूत्रस्य नीलोत्पलादिसमानाधिकरणसमासे सावकाशत्वात् ।
मैवम् । अत्र पर्युदासाश्रयणात् पूर्वेण तत्र सिद्धेः ।
यद्वा "एकविभक्ति---" इत्यनेन विहितोपसर्जनसंज्ञानिबन्धनस्यैव पूर्वनिपातस्य प्रतिषेधः । "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इतिन्यायात् ।
"एकविभक्तावषष्ठ्यन्तवचनम्"
इह मा भूत् अर्द्धं पिप्पल्या अर्द्धपिप्पली । एकदेशिसमासमात्रविषयकश्चायं निषेधः । तेन पञ्चानां कुमारीणां समाहारः पञ्चकुमारि इत्यादौ उपसर्जनत्वमेवेति द्वितीये विस्तरः ।
"प्रयोजनं द्विगुप्राप्तापन्नालंपूर्वोपसर्गक्रान्ताद्यर्थे" ।
क्रमेणोदाहरणम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः, प्राप्तो जीविकां प्राप्तजीविकः, आपन्नो जीविकामापन्नजीविकः, अलङ्कुमार्यै अलङ्कुमारिः, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः ।

इति सिद्धान्तसुधानिधौ प्रथमाध्यायस्य द्वितीये पादे प्रथमाह्निकम् ।। (1.2.1)


******************---------------