विष्णुपुराणम्/षष्टांशः/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८

इत्येष कथितः सम्यक् तृतीयः प्रतिसञ्चरः ।
आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ।। ६-८-१ ।।

सर्गश्व प्रतिसर्गश्व वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव भवतो गदितं मया ।। ६-८-२ ।।

पुराणां वैष्णवञ्चतैत् सर्व्वकिल्विषनाशनम् ।
विशिष्टं सर्व्वशास्त्रेब्यः पुरुषार्थोपपादकम् ।। ६-८-३ ।।

तुभ्यं यथावन्मत्रेय!प्रोक्त शुश्रूषवेऽव्ययम् ।
यदन्यदपि वक्तव्यं तत् पृच्छाद्य वदामि ते ।। ६-८-४ ।।

मैत्रेय उवाच ।
भगवन् !कथितं सर्व्वं यत् पृष्टोऽसि मया मुने!
श्रुतञ्चै तन्मया भत्त्या नान्यत् प्रष्टव्यमस्ति ते ।। ६-८-५ ।।

विच्छिन्नाः सर्व्वसन्देहा वैमल्यं मनसः कृतम् ।
त्वत्प्रसादान्मया ज्ञाता उत्पत्ति-स्थिति-संयमा ।। ६-८-६ ।।

ज्ञातश्वतुर्विघो राशिः शक्तिश्व त्रिविघा गुरो ।
विज्ञाता चापि कार्तूस्न्येन त्रिविघा भावभावना ।। ६-८-७ ।।

त्वतूप्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्रिज ।
यथैतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ।। ६-८-८ ।।

कृतार्थोऽस्म्यपसन्देह-स्त्वतूप्रसादान्महामुने!
वर्णधर्म्मादयो धर्म्मा विदिता यदशेषतः ।। ६-८-९ ।।

प्रवृत्तञ्च निवृत्तञ्च ज्ञातं कर्म्म मयाखिलम् ।
प्रसीद विप्रप्रवर ! नान्यत् प्रष्टव्यमस्ति मे ।। ६-८-१० ।।

यदस्य कथनायासैर्योजितोऽसि मया गुरो !
तत् क्षम्यतां विशषोऽस्ति न सतां पुत्र-शिष्ययोः ।। ६-८-११ ।।

पराशर उवाच ।
एतत्ते यन्मयाख्यातं पुराणां वेदसम्मितम् ।
श्रुतेऽस्मिन् सर्व्वदोषोत्थपापराशिः प्रशाम्यति ।। ६-८-१२ ।।

सर्गश्व प्रतिसर्गश्व वंशो मन्वन्तराणि च ।
वंशानुचरितं कृतूस्नं मयात्र तव कीत्तिंतम् ।। ६-८-१३ ।।

अत्र देवास्तथा दैत्या गन्धर्व्वोरगराक्षसाः ।
यक्षा विद्याधराः सिद्धाः कथ्यन्तेऽप्सरसस्तथा ।। ६-८-१४ ।।

मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः ।
चातुर्व्वर्ण्यं यथा पुसां विशिष्टचरिता नराः ।। ६-८-१५ ।।

पुणयाः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः ।
पर्व्वताश्व महापुण्याश्वरितानि च धीमताम् ।। ६-८-१६ ।।

वर्णधर्म्मादयो धर्म्मा वेदधर्म्माश्व कृत्स्नशः ।
येषां संश्रवणान् सद्यः सर्व्वपापैः प्रमुच्यते ।। ६-८-१७ ।।

उत्पत्ति-स्थिति-नाशानां हेतुर्यो जगतोऽव्ययः ।
स सर्व्वभूतः सर्व्वात्मा कथ्यते भगवान् हरिः ।। ६-८-१८ ।।

अवशेनापि यन्नाम्रि कीर्त्तिते सर्व्वपातकैः ।
पुमान् विमुच्यते सद्यः सिहत्रस्तैर्व-कैरिव ।। ६-८-१९ ।।

यन्नाम कीर्त्तितं भत्त्या विलापनमनुत्तमम ।
मैत्रेयाशेषपापानां धात्नामिव पावकः ।। ६-८-२० ।।

कलिकल्मषमत्युग्र नरकार्त्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृदू यत्रानुसंस्मृते ।। ६-८-२१ ।।

हिरण्यगर्भ-देवेन्द्र-रुद्रा-दित्या-श्वि-वायुभिः ।
किन्नरैर्वसुभिः साध्यैर्विश्वदेवादिभिः सुरैः ।। ६-८-२२ ।।

यक्ष-रक्षोगणौः सिद्धैर्दैत्य-गन्वर्व्व-दानवैः ।
अपूसोभिस्तथा तारानक्षत्रैः सकसैर्ग्र हैः ।। ६-८-२३ ।।

सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा ।
ब्राह्मणाद्य र्मनुष्यैश्व तथैव पशुभिमृगैः ।। ६-८-२४ ।।

सरीसृपैर्विहङ्गैश्च प्र ताद्यैः समहीरुहैः ।
वना-द्रि-सागर-सरित्-पातालैः सधरादिभिः ।। ६-८-२५ ।।

शब्दादिभिश्च सहितं ब्रह्माणडमखिलं द्रिज!
मेरोरिवाणुर्यस्यैतदू यन्मयञ्च द्रिजोत्तम ।। ६-८-२६ ।।

स सर्व्वः सर्व्ववित् सर्व्वस्वरूपो रुपवर्ज्जितः ।
कीर्त्त्यते भगवान् विष्णुरत्र पापप्रणाशनः ।। ६-८-२७ ।।

यदश्वमेधायभृथे स्नातःप्राप्रोति वै फलम् ।
सकलं तबवाप्नोति श्रुत्वैतन्मुनिसत्तम ।। ६-८-२८ ।।

प्रयाते पुष्करे चैव कुरुक्षेत्रे तथार्व्वुदे ।
कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ।। ६-८-२९ ।।

यदग्रिहोत्रे सुहुते वर्षेणाप्नोति वै फलम् ।
सकलं समवाप्नोति त्तदस्य श्रवणात् सकृता ।। ६-८-३० ।।

यजूज्यैष्ठशुक्लद्रादश्यां स्त्रात्वा वै नियतेन्द्रियः ।
मथुरायां हरिं दृष्ट्वा प्राप्रोति परमां गतिम् ।। ६-८-३१ ।।

तदाप्नोति फलं सम्यक् समाधानेन कीर्त्तनात् ।
पुराणस्यास्य विप्रर्षे!केशवार्पितमानसः ।। ६-८-३२ ।।

यमुनासलिले स्त्रातः पुरुषो मुनिसत्तम!
ज्येष्ठामूलेऽमले पक्षे द्रादश्यामुपवासकृत् ।। ६-८-३३ ।।

तमभ्यर्च्च्याच्युतं संम्यङू मथुरायां समाहितः ।
अश्वमेधस्य यज्ञस्य प्राप्तोत्यविकलं फलम् ।। ६-८-३४ ।।

आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैः ।
एतत् किलोचुरन्येषां पितरः सपितामहाः ।। ६-८-३५ ।।


कश्विदस्मतुकुले जातः कालिन्दीसलिलाप्लुतः ।
अर्च्चयिष्यति गोविन्दं मथरायामुपोषितः ।। ६-८-३६ ।।

ज्येष्ठामूले सिते पक्षे येनैवं वयमप्युत ।
परामृद्धिमवापूस्यामस्तारिताः स्वकुलोद्भवः ।। ६-८-३७ ।।

ज्येष्ठामूले सिते पक्षे समभ्यर्ज्ज्य जनार्द्दनम् ।
धन्यानां कुलजः पिण्डान् यमुनायां प्रदास्यति ।। ६-८-३८ ।।

तस्मिन् काले समभ्यर्ज्ज्य तत्र कृष्णां समाहितः ।
दत्त्वा पिण्डान् पितृब्यश्व यमुनासलिलाप्लुतः ।। ६-८-३९ ।।

यदाप्रोति नरः पुणय तारयन् स पितामहान् ।
श्रुत्वाध्यायं तदाप्रोति पुराणस्यास्य भक्तिमान् ।। ६-८-४० ।।

एतत् संसारभीरूणां परित्राणामनुत्तमम् ।
दुः स्वप्रनाशनं नृणां सर्व्वदुष्टनिवर्हणम् ।। ६-८-४१ ।।

इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।
ऋभुः प्रियज्ञतायाह स च भागुरयेऽब्रवीत् ।। ६-८-४२ ।।

भागुरिः स्तवमित्राय दधीचाय स चोक्तवान् ।
स वै सारस्वते प्रादादू भृगुः सारस्वतदादपि ।। ६-८-४३ ।।

भृगुणा पुरुकुत्साय नर्म्मदायै स चोक्तवान ।
नर्म्मदा धृतराष्ट्राय नागाय पूरणाय च ।। ६-८-४४ ।।

ताभ्याञ्च नागराजाय प्रोक्तं वासुकये द्रिज!
वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ।। ६-८-४५ ।।

कम्बलाय च तेनोक्तमेलापत्राय तेन च ।
पातालं समनुप्राप्तस्ततो वेदशिरा मुनिः ।।६-८-४६ ।।

प्राप्तवानेतदखिल स वै प्रमतये ददौ ।
दत्तं प्रमतिना चैव जातूकर्णाय धीमते ।। ६-८-४७ ।।

जातूकर्णेन चैवोक्तमन्येषां पुणयशालिनाम् ।
वशिष्ठवरदानेन ममाप्येतत् स्मृतिं गतम् ।। ६-८-४८ ।।

मयापि तुभ्यं मैत्रेय!यथावत् कथितं त्विदम् ।
त्वमप्येतच्छमीकाय कलेरन्ते गदिष्यसि ।। ६-८-४९ ।।

इत्येतत् परग्रं गुह्य कलिकल्मषनाशनम् ।
यः श्वृणोति नरः पापैः स सर्व्वैर्द्रिज! मुच्यते ।। ६-८-५० ।।

पितृपक्षमनुष्येभ्यः समस्तामरसंस्तुतिः ।
कृता तेन भवेदेतद यः श्वृणोति दिने दिने ।। ६-८-५१ ।।

कपिलादानजनितं पुणयमत्यन्तदुर्सभम् ।
श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ।। ६-८-५२ ।।

यस्त्वेतत् सकलं श्वृणोति पुरुषः कृत्वा मनस्यच्युतं
सर्वं सर्व्वमयं समस्तजगता माधारमात्माश्रयम् ।

ज्ञानं ज्ञयमनन्तमाद्यरहितं सर्व्वामराणां हितं
स प्राप्नोति न संशयोऽस्त्यविकलं यद्राजिमैधे फलम् ।। ६-८-५३ ।।

यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च सः ।
ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः ।
तच्छण्वन् पुरुषः पवित्रपरमं भत्त्या पठन् धारयन्,
प्रप्नोत्यस्ति न तत् समस्तभुवने ष्वेकान्तसिद्धिर्हरिः ।। ६-८-५४ ।।

यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने,
विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमलधियां पुसां ददात्यव्ययः
किंचित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ।। ६-८-५५ ।।

यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञशेरं कर्म्मिणो,
यं यं ब्रह्ममयं परापरमायं ध्यायन्ति च ज्ञानिनः ।
यञ्च प्राप्य न जायते न म्रियते नो वर्द्धते हीयते,
नैवासन्न च सद्भवत्यति ततः कि वा हरेः श्रूयताम् ।। ६-८-५६ ।।

कव्यं यः पितृरूपधृग् विघिहुतं हव्यञ्च भुङूक्ते प्रभु--
र्देवत्वे भगवाननादिनिधनः स्वाहास्वधासज्ञितम् ।
यस्मिन् ब्रह्यणि सर्व्वशक्तिनिलये मानानि नो मानिनाम्,
निष्ठायै प्रभवन्ति हन्ति कलुर्षं श्रोत्रं स यातो हरिः ।। ६-८-५७ ।।

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति,
वृद्धिर्न यस्य परिणमविवर्ज्जितस्य ।
नापक्षयञ्च समुपैत्यविकल्पवस्तु
यस्तं नतोऽस्मिपुरुषोत्तममाद्यमीशम् ।। ६-८-५८ ।।

तस्यैव योऽनुगुणभुग् बहुधैक एव,
शुद्धोऽप्यशुद्ध इव मूर्त्तिविभागभेदैः ।
ज्ञानान्वितः सकलसत्त्वविभूतिकर्त्ता,
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ।। ६-८-५९ ।।

ज्ञानप्रवृत्तिनियमैक्यमयाय पुसो
भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवभावनकारणाय
वन्दे स्वरूपमभवाय सदाजराय ।। ६-८-६० ।।

व्योमा-निला-ग्रि-जल-भूरचनामयाय
शब्दादिभोगविषयोपनयक्षमाय ।
पुसः समस्तकरणैरुपकारकाय
व्यक्ताय सूक्ष्मविमलाय सदा नतोऽस्मि ।। ६-८-६१ ।।

इति विविधमजस्य यस्य रूपं
प्रकृतिपरात्ममयं सनातनस्य।
प्रदिशतु भगवानशेषपु सां
हरिरपजन्मजरादिकां स सिद्धिम ।। ६-८-६२ ।।