श्रीलिङ्गाष्टकम्

विकिस्रोतः तः

ब्रह्ममुरारि सुरार्चित लिङ्गम्
निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ १ ॥

देवमुनिप्रवरार्चितलिङ्गम्
कामदहनकरुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ २ ॥

सर्वसुगन्धसुलेपितलिङ्गम्
बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ३ ॥

कनकमहामणिभूषितलिङ्गम्
फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञनिनाशनलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ४ ॥

कुङ्कुमचन्दनलेपितलिङ्गम्
पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ५ ॥

देवगणार्चितसेवितलिङ्गम्
भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ६ ॥

अष्टदलोपरिरेष्टितलिङ्गम्
सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशनलिङ्गम्
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ७ ॥

सुरगुरुसुरवरपूजितलिङ्गम्
सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥ ८ ॥

लिङ्गाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

"https://sa.wikisource.org/w/index.php?title=श्रीलिङ्गाष्टकम्&oldid=38095" इत्यस्माद् प्रतिप्राप्तम्